Chapter 4
Verse 4.48
[कामादिपदार्थानामेकत्र प्रदर्शनम्] स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमयः आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽ क्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः तत् यदेतदिदम्मयोऽदोमय इति । यथाकारी यथाचारी, तथा भवति साधुकारी साधुर्भवति, पापकारी पापो भवति; पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति । स यथाकामो भवति, तत्क्रतुः भवति; यत्क्रतुर्भवति, तत् कर्म कुरुते; यत् कर्म कुरुते, तदभिसम्पद्यते ॥ ५ ॥