Śrīkoṣa
Chapter 5

Verse 5.18

द्वादशं ब्राह्मणम् [अन्नं ब्रह्म इत्युपासनम्]
अन्नं ब्रह्मेत्येक आहुः । तन्न तथा; पूयति वा अन्नमृते प्राणात् । प्राणो ब्रह्मेत्येक आहुः । तन्न तथा; शुष्यति वै प्राण ऋतेऽन्नात् । एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः । तद्ध स्माह प्रातृदः पितरम्। किँस्विदेवैवं विदुषे साधु कुर्याम्, किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद! कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच, वीति । अन्नं वै वि । अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति; सर्वाणि भूतानि रमन्ते, य एवं वेद ॥ १ ॥

Commentaries