Chapter 8
Verse 8.42
प्र.-मघवन् इत्यादि । वाशब्द एवार्थे । हे मघवन् ! इदं शरीरमेव हिमर्त्यम् – मरणधर्मि । न केवलं मरणमित्वमात्रम्, अपि तु मृत्युना आत्तम्तद्व्याप्तञ्च । सततविनाशशीलम् इति यावत् । इदञ्च शरीरे हेयत्वानुसन्धानार्थमुक्तम् ।एवंभूतं तदिदं शरीरं कर्मकृतशरीरराहित्यलक्षणामृतत्वस्वरूपस्य आत्मनः भोगाधिष्ठानम् ।कर्मवशेन जीवेन भोगार्थं परिगृहीतम् इत्यर्थः । ततश्च अशरीरत्वमेव स्वरूपम् । सैवअमृतत्वलक्षणा मुक्तिः ; सशरीरत्वमेव तदभावः इत्युक्तं भवति । ननु पुरुषार्थस्य हिमुक्तिरूपत्वं वक्तव्यम्, न ह्यशरीरत्वं पुरुषार्थः । अपितु दुःखाभावः, ततश्च तस्यैवअमृतत्वरूपत्वम् उचितम् ; न तु अशरीरत्वस्य इत्यत्राह – आत्तो वै इति । स्पष्टोऽर्थः ।तदेव उपपादयति – न ह इति । कर्मारब्धशरीरयोगिनः तदनुगुणसुखदुःखयोगस्यअवश्यंभावित्वात् कर्मणा आरब्धदेहसम्बन्धा भावस्य’ पुरुषार्थतया मुक्तिरूपत्वम् उपपद्यतेइति भावः । व्यतिरेकं दर्शयति – अशरीरम् इति । वाव शब्दः प्रसिद्धौ ; अवधारणेवा । शिष्टं स्पष्टम् ॥