Śrīkoṣa
Chapter 8

Verse 8.43

प्र.-अशरीरो वायुः – शिरःपाण्यादिलक्षणशरीरशून्यः वायुः इत्यर्थः । अभ्रम्इति । अभ्रादीनि च अशरीराणि इत्यर्थः । ‘अभ्रं भूत्वा मेघो भवति’ (छां.उ.५-१०-६)इत्यादिवत् अभ्रस्तनयित्नोः अवस्थाभेदेन भेदः द्रष्टव्यः । अशरीराणाञ्च प्रियाप्रियानन्वयः‘दृष्टः’ इति भावः । तद्यथा इत्यादि । अत्र व्यासार्यैः,‘वाय्वादीनामाकाशात् समुत्थानं नाम स्वकार्यकरणाय ऊर्ध्वदेशे अभिवृद्धिः ।परशब्दो वाय्वादीनां कारणावस्थावाची । ज्योतिश्शब्दस्तु कारणानां कार्योत्पादनद्वारेणतदभिव्यञ्जकतया प्रयुक्तः । वाय्वादीनि च कारणद्रव्यमुपगम्य कार्यावस्थां हित्वाकारणसदृशेन रूपेण विशिष्टानि भवन्ति । वायुर्हि आवहप्रवहादिरूपेण सप्तविधत्वंहित्वा वायुत्वमात्रेण अवतिष्ठते । विद्युत्तु विद्युत्त्वं हित्वा तेजस्त्वेन । अभ्रस्तनयित्नू चअभ्रत्वादिप्रहाणेन स्वकारणभूतरूपेण । एवं जीवोऽपि मार्गविशेषेण देशविशेषविशिष्टंपरं ब्रह्म प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेण आविर्भवति इत्येवमर्थे सत्येवदृष्टान्तदार्ष्टान्तिकवाक्यसामञ्जस्यं भवति’ इति वर्णितम् ।इदञ्च वाक्यं फलपादे चिन्तितम् । ‘स्वेन रूपेणाभिनिष्पद्यते’ इति देवादिरूपवत्साध्येन रूपेणाभिनिष्पत्तिः उच्यते । अभिनिष्पत्तिशब्दस्य आगन्तुकधर्मोत्पत्तिपरत्वात् । स्वशब्दःस्वात्मीयवचनः । आगन्तुकस्यापि रूपस्य आत्मीयत्वात् स्वेनरूपेण इत्युपपद्यते । नतु ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र स्वशब्दस्य आत्मार्थकत्वं वा निष्पत्तिशब्दस्यआविर्भावार्थकत्व वा युक्तम् । स्वरूपस्य नित्यत्वेन तत्प्राप्तेः अपुरुषार्थत्वप्रसङ्गादितिपूर्वपक्षे प्राप्ते, उच्यते – ‘सम्पद्याविर्भावः स्वेन शब्दात्’ (ब्र.सू. ४.४.१) । परंज्योतिरुपसंपद्यस्वस्य रूपस्यैव आविर्भावः । न तु आगन्तुकात्मीयधर्मोत्पत्तिः । तथा हि सति‘स्वेनरूपेणाभिनिष्पद्यते’ इत्यत्र ‘स्वेन’ शब्दवैयर्थ्यप्रसङ्गात् । अतः स्वशब्दः नआत्मीयवचनः अपि तु आत्मवचनः एव । आविर्भावऽपि अभिनिष्पत्तिशब्दः रश्यते,‘युक्त्याऽयमर्थो निष्पन्नः, ‘इदमेकं सुनिष्पन्नम्’ इत्यादिषु ।ननु आत्मनः पूर्वसिद्धत्वात् कथं तस्य पुरुषार्थत्वम् ? तत्राह – ‘मुक्तः प्रतिज्ञानात्’(ब्र.सू. ४.४.२) ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यस्य मुक्तः भवति इत्यर्थः ।निवृत्ताविधातिरोधानः भवतीति यावत् । कथमिदमवसीयते इति चेत् – प्रतिज्ञानात् ।जागराद्यवस्थात्रयकलुषितं जीवं प्रस्तुत्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि, नोएवान्यत्रैतस्मात्’ इति तस्यैव अशरीरत्वलक्षणमुक्तत्वम्, ‘मघवन् मर्त्यं वा इदं शरीरम्’इत्यादिना चतुर्थेन पर्यायेण प्रतिपादयिष्यामीति प्रतिज्ञानात् । निवृत्ताविद्यातिरोधानस्यस्वेन रूपेण साध्यत्वमस्त्येव इति न पुरुषार्थत्वहानिः ।
ननु निवृत्ततिरोधानस्यापि आत्मस्वरूपस्य कथञ्चित् साध्यत्वसम्भवेऽपि तस्य नपुरुषार्थत्वे प्रमाणमस्ति इत्यत्राह – ‘आत्मा प्रकरणात्’ (ब्र.सू.४-४-३) । ‘य आत्माऽपहतपाप्मा’इत्यादि वाक्यसन्दर्भप्रतिपाद्यापहतपाप्मत्वादिगुणाष्टकविशिष्टतया अत्यन्तानुकूलत्वेनपरमपुरुषार्थभूतोऽयमात्मा । अपहतपाप्मत्वादीनां कथं जीवसम्बन्धित्वम् इत्यत्राहप्रकरणात् इति । अवस्थात्रयकलुषितं जीवं प्रकृत्यैव अपहतपाप्मत्वादिगुणानाम् आम्नानात्इत्यर्थ इति स्थितम् ।
‘स्वेन रूपेणाभिनिष्पद्यते’ इत्युच्यमानं स्वरूपं ‘किमित्याकांक्षायाम्’ अस्मिन्प्रकरणे अपहतपाप्मत्वादिगुणानामेव उपन्यासात्, सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश्च,ब्रह्मसम्बन्धिना अपहतपाप्मत्वादिगुणलक्षणेन रूपेण आविर्भवतीति जैमिनिराचार्यों मन्यतेइति, ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’ (ब्र.सू.४-४-५) इति जैमिनिमतम् उपन्यस्य, ‘प्रज्ञानधन एव’, (बृ.उ.६-५-१३) विज्ञानघन एव’ (बृ.उ.४-४-१२) इति ज्ञानैकरसत्वाम्नानेननिर्धर्मकत्वप्रतिपादनात्, ज्ञानमात्रस्वरूपेण आविर्भवतीति, ‘चितितन्मात्रेणतदात्मकत्वादित्यौडुलोमिः’ (ब्र.सू.४-४-६) इत्यौडुलोमिमतम् उपन्यस्य, एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः’ (ब्र.सू.४-४-७) इति स्वसिद्धान्तमाविष्कृतवान् । तस्यच अयमर्थः । एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन, ‘ब्राह्मेणजैमिनिरुपन्यासादिभ्यः’ (ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूपस्यापि संभवात्, सैन्धवघनस्यकृत्स्नस्य रसनेन्द्रियावगतरसघनत्वस्य चक्षुराद्यवगतरूपकाठिन्यादेश्च अविरोधवत्मानान्तरावगतब्राह्मरूपस्य च मानान्तरावगतविज्ञानघनत्वस्य च अविरोधः इति बादरायणःआचार्यो मन्यते ; ‘विज्ञानघन एव’ इत्येवकारस्य स्वप्रकाशत्वाव्याप्तांशनिषेधमात्रपरत्वात्इति स्थितम् ।यत्परैरुक्तम्, ‘शरीरात् समुत्थाय-शरीरे आत्माभिमानं हित्वा स्वेन रूपेण परमात्मरूपेणसाक्षात्कृत्य परं ज्योतिर्भवति – परमात्मा भवति इत्यर्थः । न तु शरीरादुत्क्रमणं देशान्तरगमनंवाऽत्र विवक्षितम्’ इति – तदसत्, अपदार्थत्वात् । न हि ‘शरीरात् समुत्थाय’ इत्यस्यशरीरे आत्माभिमानं हित्वा इत्यर्थो भवति । स्वरूपसाक्षात्कारलक्षणस्वरूपाभिनिष्पत्त्यनन्तर-भाविनः परंज्योतिर्भावस्य च ‘परंज्योतिरुपसंपद्य’ इति पूर्वकालतया निर्देशः न युक्तः ।न हि सर्पात् समुत्थाय रज्जुमुपसंपद्य इति च प्रयोगः दृष्टचरः । वाय्वभ्रादिदृष्टान्तवैरूप्यञ्चस्पष्टमेव । किञ्च निर्विशेषब्रह्मभावोऽत्र परज्योतिरुपसंपद्य इत्यनेन विवक्षितश्चेत्सुषुप्तिदशोद्घाटितस्य विशेषविज्ञानाभावप्रयुक्तनष्टप्रायत्वदोषस्य अपरिहृततया तद्दोषपरिहारायमुक्त्यवस्थोपदेशासाङ्गत्यं स्यात् इत्यास्तां तावत् ॥

Commentaries