Chapter 8
Verse 8.48
प्र–आकाशो वै इति । अत्र, आकाशो ह वै नामरूपयोर्निवहितेत्यपिपालान्तरे प्रश्व्यम् । उभयत्रापि अयमर्थः । श्रुतिषु आकाशः इति प्रसिद्धः नामरूपयोःनिर्वहिता ‘कर्ता’ । यत् – आकाशशब्दितम् । विधेयबह्याभिप्रायेण नपुंसकत्वम् । ते –नामरूपे, अन्तरा मध्ये वर्तमानम् । ताभ्याम् अस्पृष्टमित्यर्थः । ब्रह्मामृतात्मशब्दानांपूर्ववदेवार्थः ।इदञ्च वाक्ये समन्वयाध्याये चिन्तितम् । तत्र ‘आकाशो ह वै नामरूपयोर्निर्वहिता’इति नामरूपवोढृत्वश्रवणात्, नामरूपवोढृत्वस्य परमात्मनि ‘अनेन जीवेनात्मनाऽनुप्रविश्यनामरूपे व्याकरवाणि’ (छां.उ.६-३-२) इति जीवद्वारकतया एव उपपाद्यतया नामरूपवोढृत्वस्यजीवे एव स्वरसत्वात्, ‘एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते’ (छो.उ.८-३-४) इति वाक्यप्रतिपाद्यस्य, ‘नामरूपयोः निर्वहिता तेयदन्तरा’ इति वाक्ये प्रत्यभिज्ञानात्, पूर्वं निरूढनामरूपः एव पश्चाद्विमुक्त इह प्रतिपाद्यते ।आकाशशब्दस्यापि यौगिक्या वृत्त्या मुक्तात्मनि संभवात् इत्येवं पूर्वपक्षे प्राप्ते – उच्यते‘आकाशोऽर्थान्तरत्वादिव्यपदेशात्’ (ब.सू.१-३-४२) । आकाशः परं ब्रह्म, अर्थान्तरत्वादि-व्यपदेशात् , ‘नामरूपयोनिर्वहिता’ इति जीवापेक्षया, अर्थान्तरत्वस्य भेदकधर्मस्य व्यपदेशात् ।न हि नितरां वोढृत्वं, निवोढृत्वं । रूढ्या निर्वोढृशब्दस्य कर्तृत्वाभिधायित्वात् । ते यदन्तरा’इति नामरूपास्पृष्टत्वकथनाच्च । नामरूपास्पृष्टत्वे सति नामरूपकर्तृत्वस्य बद्धे मुक्ते वाअसंभवात्, मुक्तस्यापि ‘जगद्व्यापारवर्जम्’ (ब्र.सू.४-४-१७) इति जगद्व्यापारराहित्यस्यप्रतिपादितत्वात् । आदिशब्देन अमृतत्वाभयत्वादीनां सङ्ग्रहः ।
ननु प्रत्यगात्मनोऽर्थान्तरत्वव्यपदेशात् इति न वक्तुं युक्तम् । शुद्धावस्थः एव हिप्रत्यगात्मा, परमात्मा परं ब्रह्मेति च व्यपदिश्यते । तत्राह – ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’(ब्र.सू.१-३-४३)। वाजसनेयके, ‘कतम आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ.उ.६-३-७)इति प्रकृतस्य प्रत्यगात्मनः सुषुप्तौ उत्क्रान्तौ च ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यंकिञ्चन वेद, नान्तरम्’ (बृ.उ.६-३-२१) इति, ‘प्राज्ञेनात्मना अन्वारूढ उत्सर्जन् याति’(बृ.उ.६-३-३५) इति च प्राज्ञेन परिष्वङ्गान्वारोहौ आम्नायेते । जीवस्यैव शुद्धावस्थस्यपरमात्मत्वे परिष्वङ्गान्वारोहौ नोपपद्येयाताम् । न ह्यभेदे तो संभवतः ।‘पत्यादिशब्देभ्यः’ (ब्र.सू.१-३-४४) ‘सर्वस्य वशी सर्वस्येशानः । सर्वस्याधिपतिःस न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् । एष सर्वेश्वरः, एष भूताधिपतिः, एष भूतपालः, एष सेतुर्विधरणः एषां लोकानामसंभेदाय’ (बृ.उ.६-४-२२) इतिप्रत्यगात्मासंभावितानां पतित्वादिधर्माणां श्रवणात् नायं मुक्तात्मा इति स्थितम् ।प्रकृतमनुसरामः ।
प्रजापतेः इति । प्रजापतेः परमात्मनः, **सभां–**स्थानं वेश्म प्रपद्ये।‘प्रभुविमितं हिरण्मयम्’ (छां.उ.८-५-३) इति दहरविद्यायां निर्दिष्टं वेश्म प्रपद्ये इत्यर्थः ॥नचात्र प्रजापतिशब्दः कार्यहिरण्यगर्भविषयः । ‘न च कार्ये प्रत्यभिसन्धिः’ (ब्र.सू.४-३-१३)इति सूत्रकृतैव निरस्तत्वात् । भाष्यकृता च, ‘न चायं प्रत्यभिसन्धिः कार्यहिरण्यगर्भ,अपि तु परस्मिन्नेव ब्रह्मणि, ‘यशोऽहं भवामि ब्राह्मणानाम्’ इत्येतस्य अभिसन्धातुःसर्वाविद्याविमोकपूर्वक-सर्वात्मभावाभिसन्धानात्, –‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य ।धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि’ ॥ (छां.उ.८-१३-१)इति अभिसंभाव्यब्रह्मलोकस्य अकृतत्वश्रवणात्, सर्वबन्धविनिर्मोकस्य च साक्षाच्छ्रवणात्इति भाषितम् । यशो इति । अत्र यशश्शब्देन ‘आत्मा’ उच्यते । ब्राह्मणादीनाम्आत्माऽस्मि इत्यर्थः । अत्र अहम् इति शब्दः स्वान्तर्यामिपरमात्मपरः ।ननु तव ब्राह्मणादीन् प्रति कथं यशश्शब्दितमात्मत्वम् इत्यत्राह यशः इति ।अहं यशः – यशोरूपं परमात्मानम् आत्मतया अहन्त्वेन प्राप्तवानस्मि, साक्षात्कृतवानस्मि ।अतः सोऽहं परमात्मरूपोऽहं यशसां – जीवात्मनां, यशः आत्माऽस्मि इत्यर्थः ।श्वेतमदत्कमदत्कं श्वेतं लिन्दु माभिगाम् । श्वेतम् – शुक्लधातुम्, अदत्कं दन्तहीनंश्वेतम् । अत्र श्वेतशब्देन लक्षणया सत्त्वगुणः उच्यते । तस्य अदत्कं भक्षयितृ ।चरमधातोः सत्त्वगुणतत्कार्यज्ञानादिप्रमोषकत्वात् तद्भक्षकत्वम् । तादृशं चरमधातुमदत्कंभक्षयितृ । लिन्दु स्त्रीव्यञ्जनं, माभिगाम् – न प्राप्नुयाम् । चरमधात्वाधारयोनिप्रवेशःमाभूदिति, जन्म माभूदिति यावत् । लिन्दु माभिगाम् – लिन्दु माभिगाम् इतिद्विर्वचनं जप्यमन्त्रपरिसमाप्त्यर्थम् ॥
॥ इति चतुर्दशखण्डभाष्यम् ॥