Śrīkoṣa
Chapter 8

Verse 8.49

प्र.-तद्धैतद् ब्रह्मा इति । एतत् – ब्रह्मविज्ञानम्, ब्रह्मा हिरण्यगर्भः,प्रजापतये – कश्यपाय इत्यर्थः । शिष्टं स्पष्टम् ।विद्याङ्गभूततया कर्म अनुष्ठातव्यम् इत्येतत् प्रस्तौति – आचार्य इति । यथाविधानं .विधिमनतिक्रम्य । गुरोः कर्मातिशेषेण – कर्मावशिष्टकालेन । गुरुशुश्रूषानवरुद्धेनकालेन अधीत्य इति योजना । व्यासार्यैस्तु – पुरुषार्थाधिकरणे, ‘अतिशेषेण निश्शेषम् इत्यर्थः’इति व्याख्यातम् । तेषाम् अयमाशयः ‘ब्रह्मचारी वेदमधीत्यो पन्याहत्य’ गुरवे,अनुज्ञातो दारान् कुर्वीत । विद्यान्ते गुरुमर्थेन निमन्त्र्य कृतानुज्ञातस्य वा स्नानम्’ इत्यादि-स्मृत्यनुसारात् ः ‘आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ‘(तै.उ.शि.१९) इत्यादिश्रुत्यनुसाराञ्च, गुरोः यथाविधानं आचार्यस्य नियमनम् अनतिलङ्घ्य कर्तव्यं कर्म अतिशेषेणअतिमर्वादम् इत्यादौ अते; मर्यादाऽभावे वृत्तेः दर्शनात् अतिः अर्थाभायें वर्तते । ततश्चअतिशेषेण – अशेषेण, अभिसमावृत्य – निर्वर्त्य इत्येव अन्वयः । न तु अतिशेषेणइत्यस्य अधीत्येति पूर्वेणान्वयः । तस्य व्यवहितत्वात् निराकांक्षत्वाच्च । न च ‘गुरोः,कर्मशेषेण जपेत्’ (गौ,ध.सू.१-३-६) इति गौतमस्मृत्यैकरूप्यात् कर्मातिशेषशब्दस्यापिकर्मातिशिष्ट कालपरत्वं वक्तव्यमिति वाच्यम्, शेषातिशेषशब्दयोः भिन्नार्थत्वेनतत्प्रत्यभिज्ञानाभावादिति । अभिसमावृत्य – इति । अभिसमावृत्य समावर्तनं कृत्या,गुरुकुलात् निवृत्य इत्यर्थः । न्यायतः दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्यविहितकर्मनिष्ठः,इत्यर्थः । ‘शुचौ देशे स्वाध्यायमधीयानः’ इत्यत्र स्वाध्यायमिति नित्यकर्मणामपि उपलक्षणम्धार्मिकान् विदधत् – पुत्रशिष्यादीन् धर्मे नियुञ्जानः । आत्मनि इति । अनात्मविषयेभ्यःइन्द्रियाणि निगृह्य शास्त्रीयर्हिसाव्यतिरिक्ता हिंसाम् अकुर्वाणः इत्यर्थः । न च अशुद्धमितिचेन्न शब्दात्’ (ब्र.सू.३-१-२५) इति सूत्रे क्रत्वर्थपशुहिंसायाः हिंसात्वाभावस्य उक्तत्वात्,अन्यत्र तीर्थभ्यः इति व्यर्थमिति वाच्यम् । ‘न वा उ एतन्म्रियसे न रिष्यसि’ (तै.ब्रा.३-७-१२)इति मन्त्रलिङ्गात् तस्य हिंसात्वाभावेऽपि गृहस्थानाम् अवर्जनीयतुलस्याहरणादिहिंसायाःहिंसाधात्वर्थत्वसंभवेन तत्पर्युदासार्थम् अन्यत्र तीर्थेभ्यः इत्यस्य आवश्यकत्यादितिद्रष्टव्यम् ।स खल्वेवम् इति । ‘आप्रयाणात् तत्रापि हि दृष्टम्’ (ब्र.सू.४-१-१२) इत्यत्रइदमपवर्गसाधनम् उपासनम् एकस्मिन्नेव अहनि कार्यम्, शास्त्रार्थस्य तावतैव समाप्तत्वात्इति पूर्वपक्षं कृत्वा आप्रयाणात् – आमरणात् अनुवर्तनीयम् । आमरणं सर्वस्मिन्काले ‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते’ इत्युपासनस्य दृष्टत्वात् ।अतः आप्रयाणं कर्तव्यमिति स्थितम् ।‘सहकार्यन्तरविधिः’ (ब्र.सू. ३-४-४६) इत्यधिकरणे, – छान्दोग्ये “अभिसमावृत्यकुटुम्बे शुचौ देशे इत्यारभ्य स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न चपुनरावर्तते’ इति ब्रह्मविदः यावदायुषं गृहस्थधर्मेण स्थितिदर्शनात् आश्रमान्तरेषु नब्रह्मविद्या ‘अस्तीत्याशङ्क्य’ सर्वेषु आश्रमेषु विद्यायाः प्रमाणप्रतिपन्नत्वात् गृहस्थधर्मेणउपसंहारः, आश्रमान्तरधर्माणामपि उपलक्षणार्थः इति ‘कृत्स्नभावात्तु गृहिणोपसंहारः’(ब्र.सू.३-४-४७) इति सूत्रेण समर्थितम् ।
‘अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’ (ब्र.सू.४-४-२२) इत्यत्र, ‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते’ इति शब्दात् मुक्तस्य पुनःप्रकृतिवश्यतालक्षणा आवृत्तिः नास्तीत्युक्तम् । तत्र पुनरावृत्तौ हि न मुक्तेच्छा हेतुः ।अनवधिकातिशयानन्दरूपं ब्रह्म अनुभवतः ‘प्राकृतभोगेच्छायाः’ असंभवात् । नापि’परमपुरुषेच्छावशात् पुनरावृत्तिः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । ज्ञानीत्वात्मैव मे मतम्’ (भ.गी.७-१८), इत्युक्तरीत्या ‘परमप्रियं ज्ञानिनं प्राप्य आत्मानंकृतार्थं मन्यमानस्य परमपुरुषस्य तत्त्यागेच्छाया असंभवात् । नापि कर्मवशात् पुनरावृत्तिः ।उच्छिन्नकर्मबन्धत्वेन कर्माधीनायाः अपि पुनरावृत्तेः असंभवादिति’ भाष्ये प्रतिपादितम् । न चपुनरावर्तते न च पुनरावर्तते इति द्विरुक्तिः ब्रह्मविद्यायाः साङ्गायाः परिसमाप्त्यर्था ॥

Commentaries