Chapter 4
Verse 4.10
स होवाच बालाकिः य एवैष आकाशे पुरूषः , तमेवाहमुपासे इति । तं होवाचाजातशत्रुः , मा मैतस्मिन् संवादयिष्ठाः पूर्णमप्रवर्ति ब्रह्मेति वा अहमेतमुपासे इति । स यो हैतमेवमुपास्ते , पूर्यते प्रजया पशुभिः । नो एव स्वयम् । नास्य प्रजा पुरा कालात् प्रवर्तते ।। 10 ।।