Śrīkoṣa
Chapter 1

Verse 1.2

इह खलु महर्षिणा जैमिनिना द्वादशलक्षण्यां पूर्वमीमसार्या धर्माधर्मावेवानुष्ठानोपयोगितया विचारितौ । तत्र वेदबोधितेष्ट साधनताको धर्मः यथा यागादिः । वेदबोधितानिष्टसाधनता- कोऽधर्मः, यथा कलअभक्षणादिः । तयोश्च वेदः स्मृतिराचारश्च प्रमाणम् । तत्र वेदः स्वतन्त्रं प्रमाणम्, इतरी तु वेदमूलकतया ।
तत्र वेदो द्विविधः- मन्त्ररूपो ब्राह्मणरूपश्चेति । तत्र प्रयोगकालीनार्थस्मरणहेतुतया मन्त्राणामुपयोग इति वक्ष्यते । प्रयोगोऽनु ष्ठानम्, तत्कालीनेत्यर्थः । विधायकं वाक्यं ब्राह्मणम् । तच्छ्रेषश्चार्थबादः । तस्य विधेयप्राशस्त्यप्रतीतिजननद्वारा विधिवाक्य कवाक्यतया प्रामाण्यमिति वक्ष्यते ।

Commentaries