Chapter 1
Verse 1.27
"स्योनं ते" इत्यस्य "तस्मिन् सीद" इत्यनेनैकवाक्यत्वबलात् यथाकथञ्चित् सादनसामर्थ्यरूपं लिङ्ग कल्पयित्वा 'अनेन विशिष्टमन्त्रेण सादनं कुर्यात्' इति श्रुतिः कल्पनीया । सदनप्रकाशनरूपप्रत्यत्तलिङ्गेन कल्पितया 'स्योनं ते इत्यनेन सदनं कुर्यात्' इति श्रुत्या "स्योनं ते" इत्यस्य शीघ्र सदने विनियोगे सति तेनैव मन्त्रस्य नैराकांक्ष्यात् वाक्यप्रमाणात् लिङ्ग कल्पयित्वा श्रुतिकल्पना प्रतिबध्यते, विलम्बितत्वादिति लिङ्गेन वाक्यस्य बाधः ।
एवं वाक्येन प्रकरणस्य, प्रकरणात् क्रमस्य, क्रमात्समाख्याया बाधो वेदितव्यः । तथा श्रुत्या वाक्यादेरपि बाधः । तदेव मङ्गताबोधकप्रमाणानि श्रुत्यादीनि निरूपितानि ।