Śrīkoṣa
Chapter 1

Verse 1.45

सा चार्थभावना किं, केन, कथमिति भ्रंशत्रय विशिष्टा । तथाहि यजेत इत्यत्र प्रथमं प्रत्ययेन 'भावयेत्' इति प्रतीयते । सुबन्ताभिहितान सर्वेषां कारकार्णा तिङन्तार्थ क्रियान्वय नियमै सति तिङन्तार्थस्य प्राधान्यात् । तत्र व प्रकृत्यर्थापत्तया प्रत्ययार्थस्य प्राधान्यात् प्रथमं प्रत्ययार्थभावनाया उपस्थितियुक्ता । ततः करोतिसमानार्थकभावयतेः सकर्मकत्वात् 'किं भावयेत्' इति कर्माकांक्षायां भिन्न पदोपात्तोऽपि स्वर्गो भाव्यत्वेनान्वेति । भान्यत्वेन कर्मत्वेनेत्यर्थः, साध्यत्वेनेति यावत् । न तु समानपदोपात्तो- ऽपि धात्वर्थो भाव्यत्वेनान्वेति । दुःखात्मकस्य यागस्य ईप्सित तमत्वरूपकर्मत्वायोग्यत्वात् । स्वर्गस्य त्वानन्दात्मकत्वेन ईप्सित तमतया कर्मत्वेनान्वययोग्यत्वात् । ततश्च 'स्वर्ग भावयेत्' इति बोधो भवति ।

Commentaries