Chapter 1
Verse 1.59
ननु 'उद्भिद्यते भूमिरनेन' इति योगवशेन खनित्रादावयुद्धिदः प्रयोगसम्भवात् खनित्रादिगुण विधिः किं न स्यादिति चेत्, न । पता शस्थले गुणविधिः कापि वक्तुं न शक्यते । विरुद्धत्रिक द्वयसमावेशाख्यदोषप्रसङ्गात् । तथाहि - "उद्धिदा यजेत पशुकामः” इत्यत्र मानान्तरेणाप्राप्तस्य यागस्यानुवादासम्भवात् पशुकर्मकभाव नायां करणत्वेन यागो विधेयः- 'यागेन पशून् भावयेत्' इति । ततश्च यागस्य विधेयत्वम्, फलं प्रति शेषतया प्रतीयमानत्वाद्गुणत्वम्- शेषतया अङ्गतयेत्यर्थः - फलसिद्धार्थं पुंसाऽनुष्ठीयमानत्वादु पादेयत्वमिति विधेयत्वगुणत्वोपादेयत्वात्मकमेकं त्रिकं यागेऽस्ति। तथा यागोद्देशनोद्भिद्गुणविधौ विधित्सितगुणापेक्षया प्राधान्यम्, उद्देश्यत्वम्, अनुषाद्यत्वञ्चेति द्वितीयं त्रिकम् । तदेतत् त्रिकद्वयं परस्परविरुद्धम् एकस्मिन् यागे प्रसज्येत । अतो न गुणाविधिः ।