Śrīkoṣa
Chapter 1

Verse 1.61

तथा "चित्रया यजेत पशुकामः" इत्यन्त्र चित्रापदं प्राजापत्यनामधेयम् । “दधिमधुघृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजा- पत्यम्" इत्यत्र 'तत्संसृष्टं प्राजापत्यम्' इति सामानाधिकरण्याद्यो दध्यादिद्रव्यषट्कस्य प्रजापतिदेवतासम्बन्धः श्रुतः तेनानुमितो यागो विधीयते । विहितस्य यागस्य फलाकत्तायां "चित्रया यजेत" इति वाक्यं फलसम्बन्धविधायकम् । तत्र फलार्थत्वेन पुनविधि- रिति तस्य प्राजापत्ययागस्य दध्यादिविचित्रद्रव्यकत्वात् चित्रापदं कर्मनामधेयम् । न तु "अग्नीवोमीयं पशुमालभेत" इति वाक्य प्राप्तं पशुयागं 'यजेत' इत्यनूध चित्रत्वस्त्रीत्वरूपगुणद्वयविधानम् । मानान्तरप्राप्त कर्मोद्दिश्य तत्रानेकगुणविधाने वाक्यभेदात् । तदुक्तम् "प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः” इति । मानान्तराप्राप्ते कर्मणि त्वनेकदेवताऽष्टाकपालपुरोडाशामावास्या- पौर्णमास्याद्यनेकगुणाविशिष्टो द्रव्यदेवतासम्बन्धेनानुमितो यागो विधीयते इति सिद्धान्तः । तदुक्तम् "अप्राप्ते तु विधीयन्ते बहवो- ऽप्येकयनतः” इति ।

Commentaries