Śrīkoṣa
Chapter 1

Verse 1.67

CORROBORATIVE STATEMENTS
अथार्थवादो विचार्यते । अर्थवादानां तु स्वार्थपरत्वे प्रयोजना- भावादध्ययनविधिवशेन फलवदर्थज्ञानार्थत्वस्यावश्यकत्वात् विधेय गतप्राशस्त्यप्रतिपादनद्वारा विधिवाक्येकवाक्यतया प्रामाण्यम् । स चतुर्विधः - निन्दा प्रशंसा परकृति पुराकल्पभेदात् । तत्र निन्दाऽर्थवादो यथा "असत्त्रं वा एतद्यदच्छन्दोमम्,” "अश्रुजं हि रजतं यो बर्हिषि ददाति पुराऽस्य संवत्सराद्‌गृहे रुदन्ति" इत्यादि । प्रशंसार्थवादो यथा "शोभतेऽस्य मुखं य एवं वेद," "वायुर्वे लेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवेनं भूर्ति गमयति" इत्येवमादिः ।

Commentaries