Chapter 1
Verse 1.73
सा च परिसंख्या त्रिदोषा-स्वार्थत्यागः, परार्थस्वीकारः, प्राप्तबाधश्चेति । तत्र “अश्वाभिधानीमादते" इति वाक्यस्य अनेन मन्त्रेणाश्वरशनाऽऽदानं कुर्यादिति स्वार्थः, स च त्यक्तः । गर्दभरशनातो मन्त्र निवृत्तिः परार्थः, स च स्त्रीकृतः । गर्दभरशनायामपि लिङ्गात् प्राप्तस्य मन्त्रस्य अनेन बाधश्च इति त्रिदोषा परिसंख्या गत्यभावादङ्गीकृता । गत्यन्तरे सति सा न युक्ता ।