Chapter 1
Verse 1.8
नन्विदमनुपपन्नम्, आशुतरविनाशिनां कर्मणां कालान्तरभावि स्वर्गादिफलसाधनत्वानुपपत्तेरिति चेत्, मैवम् । विहितनिषिद्धकर्मणां तत्तद्वाक्यस्तत्तत्फल साधनत्वेऽवगते आशुतर विनाशिनां कर्मणां कालान्तर भाविफलसाधनत्वोपपत्त्यर्थमन्तरा पुण्यपापरूपमपूर्वं कल्यते । ततश्च यागादेरपूर्वद्वारा स्वर्गसाधनत्वम्, न साक्षात् । तदेव फलापूर्वम् । तत्करणत्वञ्च प्राच्योदीच्याङ्गविशिष्टस्य प्रधानस्य भवति, न प्रधानमात्रस्य । प्रधानमात्रादेव फला पूर्वजनने फलस्यापि तत एव सिद्धेरङ्गानामानर्थक्यापत्तः ।