Śrīkoṣa
Chapter 1

Verse 1.83

तथा "तप्ते पयसि दध्यानयति, सा वैश्व देव्यामित्ता, बाजिभ्यो वाजिनम्" इत्यत्र "सा वैश्वदेवी" इति वाक्ये विश्वदेवदेवताऽऽ मिक्षा- द्रव्यसम्बन्धानुमितो यागो विधीयते । “वाजिम्यो वाजिनम् " इत्यत्रापि वाजिदैवत्य वाजिनद्रव्यक कर्मान्तरं विधीयते । न तु पूर्व विहिते वैश्वदेवयागे वाजिनद्रव्यरूपो गुणो विधीयते, पूर्वयागस्या- ऽऽमिक्षागुणावरुद्धत्वेन तत्र वाजिनस्य निवेशायोगात् । न च वीहि यववद्विकल्पः; वाजिनामिक्षयोः समशिष्टत्वाभावात्, विषमशिष्टयोविकल्पायोगात् । वैश्वदेवयागोत्पत्तिवाक्ये एवामित्तागुणः शिष्यत इत्युत्पत्तिशिष्टः । शिष्यते विधीयत इत्यर्थः । वैश्वदेववाक्यादुत्पन्ने कर्मणि वाक्यान्तरेण शिष्टो विहितो वाजिनगुण उत्पन्नशिष्टः । तयोर्मध्ये हद्युत्पत्तिशिष्ठः प्रबलः, कर्मोत्पतिवेलायामेव कर्माङ्गत्वेन प्रमितत्वात् । उत्पन्न शिष्टो वाजिनगुणोऽनन्तरं प्रमितोऽपि विलम्बि- तत्वेन दुर्बलत्वात् तत्पूर्वकर्मणि निवेशमलभमानो वाजिरूपदेवता-न्तरसम्बन्धात्स्ववाक्यस्य कर्मान्तरविधायकत्वमानयतीति गुणानु- भेदः । तत्र घनीभूतं पय आमित्ता, शिष्टं जलं वाजिनम् ।

Commentaries