Muṇdaka Upaniṣad
By Unknown
Composed in Unknown
3 chapters • 67 verses
Filter Content
Display Mode
Chapter - 1 Prathama Muṇdaka
मुण्डकोपनिषत्
(अथर्ववेदीयोपनिषच्छान्तिपाठः)
ओम्
भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवास्स्वस्ति नः पूषा विश्ववेदाः । स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिस्वस्ति नो बृहस्पतिर्दधातु ॥
॥ ओं शान्तिः शान्तिः शान्तिः ॥
मुण्डकोपनिषत्
प्रथममुण्डके प्रथमः खण्डः
[विद्यागुरूणां परम्परा]
ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ता भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह ॥१॥
अथर्वणे यां प्रवदेत ब्रह्मा अथर्वा तां पुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजोऽङ्गिरसे परावराम् ॥ २ ॥
[ब्रह्मविद्याविषयकप्रश्नः]
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥३॥
[विद्योपदेशः]
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति, परा चैवापरा च ॥ ४ ॥
[परापरविद्याविभागः]
तत्रापरा ऋग्वेदो यजुर्वेदस्सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषम् इति । अथ परा यया तदक्षरमधिगम्यते ॥ ५ ॥
[अक्षरशब्दवाच्यपरब्रह्मस्वरूपम्]
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ॥६॥
[ब्रह्मणः उपादानकारणत्वसमर्थनम् ]
यस्मात् परं नापरमस्ति किञ्चित् यस्मानाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ७ ॥
[सृष्टिक्रमः]
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् संभवतीह विश्वम् ॥ ८ ॥
[सृष्टिक्रमः]
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥१॥
यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते ॥ १० ॥
मुण्डकोपनिषत्
प्रथममुण्डके द्वितीयखण्डः
[परविद्याङ्गम् अपरविद्या]
तदेतत् सत्यम् ॥
मन्त्रेषु कर्माणि कवयः यान्यपश्यँस्तानि त्रेतायां बहुधा सन्ततानि । तान्याचरथ नियतं सत्यकामाः एष वः पन्थाः सुकृतस्य लोके ॥ १ ॥
[अपरविद्यानुष्ठानेन प्रयोजनम् ]
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेण आहुतीः प्रतिपादयेच्छ्रद्धया हुतम् ॥ २ ॥
यस्याग्निहोत्रमदर्शमपौर्णमासमचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवं अविधिना हुतमासप्तमान् तस्य लोकान् हिनस्ति ॥ ३ ॥
[सप्तार्चिषां निरूपणम् ]
काळी कराळी च मनोजवा च सुलोहिता या च सुधूम्रवर्णा । स्फलिङ्गिनी विश्वरूपी च देवी लेलायमाना इति सप्त जिह्वाः ॥ ४ ॥
एतेषु यश्चरते भ्राजमानेषु यथाकालं चाहुतयो ह्याददायन् ॥ तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥५॥
एह्येहीति तमाहुतयः सुवर्चस: सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्यः एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६ ॥
[कर्मणां अस्थिरत्वम् ]
"प्लवा ह्येते अदृढा यज्ञरूपाः अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढाः जरामृत्युं ते पुनरेवापियन्ति ॥ ७ ॥
[अविदुषां निन्दा]
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः। जङ्घन्यमानाः परियन्ति मूढाः अन्धेनैव नीयमाना यथाऽन्धाः ॥८॥
अविद्यायां बहुधा वर्तमानाः वयं कृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागात् तेनाऽऽतुराः क्षीण लोकाश्च्यवन्ते ॥९॥
[कर्मिणां पुनराप्तिप्रकार:]
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वा इमं लोकं हीनतरं वा विशन्ति ॥ १० ॥
[उपासकानां ब्रह्मलोकप्राप्तिः]
तपः श्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्या चरन्तः ।
सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामतः स पुरुषो ह्यव्ययात्मा ॥ ११ ॥
[मुमुक्षोः गुरूपसदनम् ]
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायात् नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणि: श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२ ॥
[ब्रह्मविद्योपदेशः]
तस्मै स विद्वानुपसन्नाय सम्यक् प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ॥ १३ ॥
Chapter - 2 Dvitīya Muṇdaka
मुण्डकोपनिषत्
द्वितीयमुण्डके प्रथमखण्डः
[अक्षरात् जगत्सृष्टिः]
तदेतत् सत्यम् ॥
यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः ।
तथाऽक्षरात् विविधाः सोम्य ! भावाः प्रजायन्ते तत्र चैवापियन्ति ॥१॥
दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २ ॥
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३ ॥
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः ॥
वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४ ॥
तस्मादग्निः समिधो यस्य सूर्यः सोमात् पर्जन्य ओषधयः पृथिव्याम् ।
पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजा: पुरुषात् संप्रसूताः ॥ ५ ॥
तस्मादृचस्साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६ ॥
तस्माच देवा बहुधा सम्प्रसूताः साध्या मनुष्याः पशवो वयांसि ॥
प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७ ॥
सप्त प्राणाः प्रभवन्ति तस्मात् सप्तार्चिषः समिधः 'सप्त होमाः ।
सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त ॥ ८ ॥
अतः समुद्रा गिरयश्च सर्वेऽस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च येनैष भूतैः तिष्ठते ह्यन्तरात्मा ॥९॥
[सर्वभूतान्तरात्मा परमात्मा]
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १० ॥
मुण्डकोपनिषत्
द्वितीयमुण्डके द्वितीयखण्डः
[सर्वाधारभूतं ब्रह्म]
आवि: संनिहितं गुहाचरं नाम महत् पदम् अत्रैतत् समर्पितम् ।
एजत् प्राणन्निमिषञ्च यत् एतज्जानथ सदसद्वरेण्यं परं विज्ञानात् यद् वरिष्ठं प्रजानाम् ॥१॥
यदर्चिमत् यदणुभ्योऽणु यस्मिन् लोका - निहिता लोकिनश्च ।
तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत् सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि ॥२॥
[ओंकारपूर्वकध्यानम् ]
धनुर्गृहीत्वौपनिषदं महास्त्रं ह्युपासानिशितं 'सन्दधीत ।
आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सोम्य ! विद्धि ॥ ३ ॥
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ४ ॥
[सर्वजगदाधारभूतः परमात्मा मोक्षप्रापकः]
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वै: ।
तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतुः ॥ ५ ॥
[दृष्टान्तपूर्वक ब्रह्मणः सर्वाधारत्वम् ]
अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः ।
ओमित्येवं ध्यायथात्मानम् , स्वस्ति वः, पाराय तमसः परस्तात् ॥ ६ ॥
यः सर्वज्ञस्सर्ववित् यस्यैष महिमा भुवि ।
दिव्ये ब्रह्मपुरे ह्येष व्योम्नयात्मा प्रतिष्ठितः ॥ ७ ॥
मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।
तद् विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥ ८॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ९ ॥
हिरण्मये परे (पुरे) कोशे विरजं ब्रह्म निष्कलम् ।
तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ १० ॥
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥ ११ ॥
[सर्वं ब्रह्मात्मकम् ]
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण ।
अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ १२ ॥
॥ इति द्वितीयमुण्डके द्वितीयखण्डः ॥
Chapter - 3 Tṛtīya Muṇdaka
मुण्डकोपनिषत्
तृतीयमुण्डके प्रथमखण्डः
[जीवब्रह्मणोः वैलक्षण्यम् ।
'द्वा सुपर्णा सयुजा सखाया समान वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति ॥ १ ॥
[ईश्वरमाहात्म्यज्ञानवतः मुक्तिनिरूपणम् ]
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥२॥
[ज्ञानिन: भगवद्दर्शनेन भगवत्सारूप्यप्राप्तिः]
यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्म योनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥३॥
[प्राणशब्दोक्त वासुदेवज्ञानी ब्रह्मज्ञानिनां श्रेष्ठः]
प्राणो ह्येष यः सर्वभूतैः विभाति विजानन् विद्वान् भव ते नातिवादी।
आत्मक्रीड आत्मरति: क्रियावानेष ब्रह्मविदां वरिष्ठः ॥ ४ ॥
[परमात्मप्राप्तिसाधनोक्तिः]
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥५॥
[सत्यस्य स्तुतिः]
सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः ।
येनाक्रमन्ति ऋषयो ह्याप्तकामा यत्र तत् सत्यस्य परमं निधानम् ॥ ६ ॥
[परमात्मनः बृहत्त्वादिविशेषणोक्तिः]
बृहञ्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माञ्च तत् सूक्ष्मतरं विभाति ।
दूरात् सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥ ७ ॥
[भगवत्कृपयैव तदृर्शनम् ]
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा ।
ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति (ते) निष्कलं ध्यायमानः ॥८॥
[जीवात्मस्वरूपनिरूपणम् ]
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ९ ॥
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् ।
तं तं लोकं जयते (ति) तांश्च कामांस्तस्मादात्मज्ञं ह्यर्चयेद् भूतिकामः ॥ १० ॥
मुण्डकोपनिषत्
तृतीयमुण्डके द्वितीयखण्डः
[आत्मतत्त्वज्ञानात् मोक्षप्राप्तिः]
स वेदैतत् परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् ।
उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ति धीराः ॥ १ ॥
[आत्मज्ञस्य पर्याप्तकामत्वम् ]
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र ।
पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २ ॥
[आत्मप्राप्तिसाधनम् ]
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूँ स्वाम् ॥ ३ ॥
[ब्रह्मप्राप्त्यै बलादि उपायाः]
नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात् ।
एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा 'विशते ब्रह्मधाम ॥ ४ ॥
[ज्ञानिनां परमात्मना परमसाम्यापत्तिप्राप्तिः]
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥ ५ ॥
[ब्रह्मज्ञानेन मुक्तिः]
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु (तु) परान्तकाले परामृतात् परिमुच्यन्ति सर्वे ॥६॥
[मोक्षकाले देहजनकसर्वकलानां परमात्मनि संगतत्त्वम् ]
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु ।
कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥ ७ ॥
[ब्रह्मज्ञानिनः परमपुरुषसाम्यप्राप्तिः]
यथा नद्यः स्यन्दमानाः समद्रे अस्तंगच्छन्ति नामरूपे विहाय ।
तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८ ॥
[नास्याब्रह्मवित् कुले भवति]
स यो ह वै तत् परमं ब्रह्म वेद ब्रह्मैव भवति ।
तरति शोकं, तरति पाप्मानं गुहाग्रन्थिम्यो विमुक्तोऽमृतो भवति ॥ ९ ॥
[शिरोव्रतं कुर्वतां आथर्वणिकानां अक्षरब्रह्मविद्योपदेशः]
तदेतदृचासभ्युक्तम् ।
क्रियावन्तः श्रोत्रियाः ब्रह्मनिष्ठा: स्वयं जुह्वते एकर्षि श्रद्धयन्तः ।
तेषामैवेतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १० ॥
तदेतत्सत्यमृषिरङ्गिराः प्रोवाच नैतदचीर्णव्रतोऽधीते ॥
नमः परमऋषिभ्यो नमः परम (मर्षि!) ऋषिभ्यः ॥ ११ ॥
॥ इति तृतीयमुण्डके द्वितीयः खण्डः ॥
॥ समाप्ता च मुण्डकोपनिषत् ॥