Chapter 4
Verse 4.161
गारुड मंत्रजपफलं
यःपठेत्प्रत्यहंभक्त्या गरुडस्यमहामनुं।
तस्यसर्पविषादीनि निर्विषंतुभवेद्द्विजाः।।
हनुमन्मंत्र जपफलं
हनुमन्मंत्रराजंतु योनित्यंपठतेभुवि।
तस्यदर्शनमात्रेण ग्रहजालं विमुत्यते।।
इहलोकेपिचैतेषां भवेदिष्टार्धसंभवं।
ग्रीष्मकालेभगवस्चमर्पणयोग्य वस्तु विशेष कधनं वैशाखपूजा महिमा
(ग्रीष्मर्तौयदि संप्राप्ते)ग्रीष्मकालेतुसंप्राप्ते हरिसंतर्प्यशीतलैः।
दध्यन्नाद्यैर्नरोभूयात्सर्वकिल्बिष वर्जितः।। 161