Śrīkoṣa
Chapter 3

Verse 3.16

समं यत्र दिवारात्रमेकस्मिन् वैपुवे दिने ।
तत्रानेन विशेषेण ज्ञातव्यं पूर्वपश्चिमम् ॥ १६ ॥