Śrīkoṣa
Chapter 10

Verse 10.1

प्रथमानं (ख्: प्रथिमानम्; ग्, घ्: प्रथमान्यं तु) जगन्नाथ त्वया प्रोक्तं नवात्मनि ।
ऐहिकामुष्मिकं (ग्, घ्: ऐहिकामुष्मिको सिद्धो) सिद्ध्यै यष्टव्यं तत् कथं वद ॥ १ ॥