Śrīkoṣa
Chapter 15

Verse 15.28

पूर्ववत् पीठकोणेषु भागषट्कं तु मर्दयेत् ।
दिक्त्रयादवशेषेण शोधयेदंशकानि (ग्, घ्: शोषयेदंशकानि) च ॥ २८ ॥