Chapter 27
Verse 27.95
अग्नीषोमाश्रयस्थस्य पूर्वं पितृगणस्य च ।
पितॄणां (क्, ख्: इदमर्धं लुप्तम्) बीजभूतस्य ज्ञस्वभावस्य तत्त्वतः (ग्: कोशे तत्वतः इत्यनन्तरं दद्यात् इत्यक्षराणि सन्ति पश्चात् अन्यत् पिण्डद्वयम् इत्याद्यर्धमस्ति तेनेदमुल्लिख्यमानं नासमञ्जसं भवति अन्यत् पिण्डद्वयम् इत्यत्र अन्यत् पदस्थाने दद्यात् इति पदस्य योजने कृते वाक्यं पूर्णं भवति दद्यादिति पदेन विना न वाक्यार्थः पूर्यते किं च तत्वतः इत्यनन्तरं प्रक्रान्तस्य अर्धस्यादौ अन्यत् पिण्डद्वयम् इति अन्यत् इत्यस्य अन्यात् इति विकृतवर्णन्यासो दृश्यते तेन लेखकदोषात् दद्यात् इत्यस्य अन्यात् इत्यक्षरविकृतिः इति सुधियः प्रमाणम्) ॥ ९६ ॥