Śrīkoṣa
Chapter 31

Verse 31.210

तैर्विमानैश्च मार्गेण ह्यर्चिराद्यान् महामते ।
सुप्रसिद्धैस्सुगन्धैस्तु (इतः परं मातृकाकोशेषु ग्रन्थपरिपाट्यां मिथः उल्लुण्ठितत्वं दृश्यते; क्, ख्: कोशौ एको वर्मः; ग्, घ्: कोशौ अपरो वर्गः तत्र प्रथमवर्गे यथा अध्यायादितः आरभ्य अर्चिराद्यान् महामते इत्यन्तं प्रथमो राशिः पश्चात् विभवव्यूह इत्युपक्रम्य देवपादाम्बुपूर्वं तु तिलसत्फलचर्वणम् इत्यन्ता अर्धन्यूना श्लोकविंशतिः द्वितीयो राशिः अथ च सुप्रसिद्धैः इत्युपस्तुल्य तद्भूत दर्शिते नैव माग्रेण महता मुने इत्यन्ता श्लोकद्वाविंशतिः तृतीयो राशिः अत ऊर्ध्वं कृत्वा चाघ्राय इत्युपक्रम्य आचाध्यायसमाप्ति चतुर्थो राशिः द्वितीयकोशवर्गे यथा प्रथम द्वितीय तृतीयराशयः यथापूवं लिखिताः चतुर्थस्य आरम्भस्तु भिद्यते यथा तृतीयराशेरनत्तरं पुनरपि द्वितीयराशिं आन्तं लिखित्वा तृतीयराशिं परित्यज्य तुरीयराशिरनुस्यूततया समग्रा लिखिता वर्तते कोशवर्गद्वयेऽपि द्वितीयतृतीयरशयोः व्युत्क्रमेण लेखनमेव विपर्यासे हेतुः अत्रैवं समाधिः द्वितीयतुरीयराश्योरनालक्षितसन्धिबन्धतया स्थितिः ग्रन्थस्य परिपाटीं अनुसीव्यति न विश्लेषयति च यः पुनरन्तरापतितः तृतीयोराशिः स तु तुरीयेणराशिना साकं कथञ्चिदपि नान्वेतुं शक्नोति प्रत्युत प्रथमेन राशिना समं सुघटितसन्धानः प्राप्तावसरश्च सम्पद्यते अस्मात् परं द्वितीयराशिस्साधूपक्रमः ग्रन्थानुपूर्वीं पुष्णाति अतः दर्शितानुसारेण ग्रन्थपरिपाटी सन्निवेशिता परमतः सुधियः प्रमाणम्) हृद्यैः पुष्पफलैश्शुभैः ॥ २१० ॥