Śrīkoṣa
Chapter 33

Verse 33.12

नवसङ्ख्यमिदं (ग्, घ्: इत्याद्यर्धद्वयं लुप्तं प्रत्युत तत् स्थाने श्लोकान्तर मस्ति यथा नवसङ्ख्यमिदं विप्र नवमूर्तिमयं महत् । चातुरात्म्यं चतुर्वर्गफलदं भावितात्मनाम् ॥ इति) विप्र प्रथमं यत्प्रकीर्तितम् ।
तदीयं जायते तस्य प्रभावं तत्क्रमार्चनात् ॥ १२ ॥