Śrīkoṣa
Chapter 35

Verse 35.66

वादयेत् सुखनां घण्टां भेरीशब्दादिकैर्युताम् ।
स्तोत्रैः प्रदक्षिणीकुर्याद्बहुधा दिव्यमालयम् ॥ ६६ ॥