Śvetāśvatara upaniṣad
By Unknown
Composed in Unknown
6 chapters • 110 verses
Filter Content
Display Mode
Chapter - 1
किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च सम्प्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ।। 1 ।।
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां न त्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ।। 2 ।।
ते ध्यानयोगानुगता अपश्यन् 1 देवात्मशक्तिं स्वगुणैर्निगूढाम् । "यः कारणानि निखिलानि तानि कालात्मयुक्तान्यधितिष्ठत्येकः।। 3 ।।"
तमेकनेमिं त्रिवृतं षोडशान्तं शतार्धारं विंशतिप्रत्यराभिः । अष्टकैः षड्भिर्विश्वरूपैकपाशं त्रिमार्गभेदं द्विनिमित्तैकमोहम् ।। 4 ।।
"पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्त्रां पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।" पञ्चावर्तां पञ्चदुःखौघवेगां पञ्चाशद्भैदां पञ्चपर्वामधीमः।। 5 ।।
सर्वाजीवे सर्वसंस्थे बृहन्ते अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे । पृथगात्मानं प्रेरितारं1 च मत्वा जुष्टस्ततस्तेनामृतत्वमेति ।। 6 ।।
उद्गीतमेतत् परमं तु ब्रह्म तस्मिंस्त्रयं सुप्रतिष्ठाक्षरं च ।। अत्रान्तरं वेदविदो विदित्वा लीना ब्रह्मणि तत्परा योनिमुक्ताः ।। 7 ।।
संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः । "अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यतेसर्वपाशैः ।। 8 ।।"
ज्ञाज्ञौ द्वावजावीशनीशावजा ह्येका भोक्तृभोगार्थयुक्ता । अनन्तश्चात्मा विश्वरूपो ह्यकर्ता त्रयं यदा विन्दते ब्रह्ममेतत् ।। 9 ।।
ब्रह्ममेतत् इति मन्त्रोक्ता मुक्तिः ब्रह्मोपासनकालीन ब्रह्मानुभवरूपा इत्यर्थः ।। 10 ।।
ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः । तस्याभिध्यानात् तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ।। 11 ।।
एतत्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् । भोक्ता भोग्यं प्रेरितारञ्च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ।। 12 ।।
वह्नेर्यथा योनिगतस्य मूर्तिः न दृश्यते नैव च लिङ्गनाशः 2। स भूय एवेन्धनयोनिगृह्यः तद्वोभय3 वै प्रणवेन देहे ।। 13 ।।
आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् ।। 14 ।।
तिलेषु तैलं दधनीवसर्पिः आपः स्रोतस्स्वरणीषु चाग्निः । एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ।। 15 ।।
सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् । "आत्मविद्यातपोमूलं तत् ब्रह्मोपनिषत्परम् तद्ब्रह्मोपनिषत्परम् ।। 16 ।।" ।। इति प्रथमोऽध्यायः ।।
Chapter - 2
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः । अग्निं ज्योतिर्निचाय्य पृथिव्या अध्याभवत् ।। 1 ।।
युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्या ।। 2 ।।
युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् । बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥3॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः ।। 4 ।।
युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक एतु पथ्येव सूरेः । शृण्वन्तु विश्वे अमृतस्य पुत्रा आये धामानि दिव्यानि तस्थुः ।। 5 ।।
अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।। सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ।। 6 ।।
सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् । तत्र योनिं कृण्वसे न हि ते पूर्तिमक्षिपत् ।। 7 ।।
त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा संनिवेश्य । ब्रह्मोडुपेन प्रतरेत विद्वान् स्रोतांसि सर्वाणि भयावहानि ।। 8।।
प्राणान् प्रपीड्येह स युक्तचेष्टः क्षीणे प्राणे नासिकयोच्छ्वसीत। "दुष्टाश्वयुक्तमिव वाहमेनं1 विद्वान् मनो धारयेताप्रमत्तः ।। 9 ।। "
समे शुचौ शर्करावह्निवालुकाविवर्जिते शब्दजलाश (श्र) यादिभिः । मनोऽनुकूले न तु चक्षुःपीडने गुहानिवाताश्रयणेन योजयेत् ।। 10 ।।
नीहारधूमार्कानिलानलानां खद्योतविद्युत्स्फटिकशशिनाम । एतानि रूपाणि पुरस्सराणि ब्रह्मण्यभिव्यक्तिकराणि योगे ।। 11 ।।
पृथ्व्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते । "न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् ।। 12 ।।"
लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसोष्ठवञ्च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्तिं प्रथमां वदन्ति ।। 13 ।।
यथैव बिम्बं मृदयोपलिप्तं तेजोमयं भ्राजते तत्सुधान्त(क्त)म् । तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः कृतार्थो भवते वीतशोकः।। 14 ।।
यदाऽऽत्मतत्त्वेन तु ब्रह्मतत्वं दीपोपमेनेह युक्तः प्रपश्येत् । अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। 15।।
एष हि देवः प्रदिशोऽनु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः । स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति विश्वतोमुखः ।। 16 ।।
यो देवो अग्नौ यो अप्सु यो विश्वं भुवनमाविवेश । य ओषधीषु यो वनस्पतिषु तस्मै देवाय नमो नमः ।। 17।। ।। इति द्वितीयोऽध्यायः ।।
Chapter - 3
य एको जालवानीशत ईशनीभिः सर्वान् लोकानीशत ईशनीभिः । य एवैक उद्भवे सम्भवे च य एतद्विदु1रमृतास्ते भवन्ति ।। 1 ।।
एको हि रुद्रो न द्वितीयाय तस्थुः य इमान् लोकानीशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः।।2।।
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैः द्यावाभूमी जनयन् देव एकः1 ।। 3 ।।
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भ जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ।। 4 ।।
या ते रुद्र ! शिवा तनूरघोरा पापकाशिनी । तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ।। 5 ।।
यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र ! तां कुरु मा हिंसीः पुरुषं जगत् ।। 6 ।।
ततः परं ब्रह्म परं बृहन्तं यथानिकायं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारमीशं तं ज्ञात्वा अमृता भवन्ति ।। 7 ।।
वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।। 8।।
यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् 1।। 9 ।।
ततो यदुत्तरतरं तदरूपमनामयम् । य एतविदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ।। 10।।
"सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । " सर्वव्यापी सभा वाँस्तस्मात् सर्वगतश्शिवः ।। 11 ।।
महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः । सुनिर्मलामिमां शान्तीमीशानो ज्योतिरव्ययः ।। 12 ।।
अुङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा1 सदा जनानाँ हृदये संनिविष्टः । हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ।।13 ।।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वाऽत्यतिष्ठत् दशाङ्गुलम् ।। 14 ।।
पुरुष एवेदँ सर्वं यद्भूतं यच्च भव्यम् । "उतामृतत्वस्पेशानो यदन्नैनातिराहति ।। 25 ।।"
सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ।। 16 ।।
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ।। 17 ।।
नवद्वारे1 पुरे2 देही हंसो 3 लोलायते बहिः । वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ।। 18 ।।
अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शुणोत्यरकर्णः । "स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र््यं पुरुषं महान्तम् ।। 19 ।।"
अणोरणीपान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतु पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ।। 20 ।।
वेदाहमेतमजरं पुराणं सर्वात्मानं सर्वगतं विभुत्वात् । जन्मनिरोधं प्रवदन्ति यस्य ब्रह्मवादिनो हि प्रवदन्ति नित्यम्।।21 ।।
Chapter - 4
य एकोऽवर्णो बहुधा शक्तियोगात् वर्णाननेकान् निहितार्थो दधाति । विचैति चान्ते विश्वमादौ स देवः स नो बुद्ध्या शुभया संयुनक्तु ।। 1 ।।
तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रं तद्् ब्रह्म तदापस्तत् प्रजापतिः ।। 2 ।।
त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ।। 3 ।।
नीलः पतङ्गो हरितो लोहिताक्षस्तटिद्गर्भ ऋतवः समुद्राः । अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ।। 4।।
अजामेकां लोहितशुक्लकृष्णां बह्णीः प्रजाः सृजमानां सरूपाः । "अजो ह्येको जुषमाणोऽनु शेते जहात्येनां मुक्तभोगामजोऽन्यः ।। 5 ।।"
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ।। 6 ।।
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टंयदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ।।7।।
ऋचोऽक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति च इत् तद् विदुस्त इमे समासते ।।8 ।।
छन्दाँसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । अस्मान्मायी सृजते विश्वमेतत् तस्मिँश्चान्यो माया संनिरुद्धः ।। 9 ।।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तँ सर्वमिदं जगत् ।। 10 ।।
यो योनिं यो (निर्यो) निमधितिष्ठत्येको यस्मिन्निदं सञ्चविचैति सर्वम् । तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति ।। 11 ।।
यो देवानामधिपो यस्मिन् लोका अधिश्रिताः । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ।। 13 ।।
सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।। 14 ।।
स एव काले भुवनस्य गोप्ता विश्वाधिपः सर्वभूतेषु गूढः । यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च तमेवं ज्ञात्वा मृत्युपाशाँश्छिनत्ति ।।15।।
घृतात् परं मण्डमिवातिसूक्ष्मं ज्ञात्वा शिवं सर्वभूतेषु गूढम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। 16 ।।
एष देवो विश्वकर्मा महात्मा सदा जनानाँ हृदये संनिविष्टः । हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ।। 17 ।।
यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः । तदक्षरं तत् सवितुर्वरेण्यं प्रज्ञा च तस्मात् प्रसृता पुराणी ।।18 ।।
नैनमूर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रभत् । न तस्य प्रतिमा अस्ति यस्य नाम महद््यशः ।। 19 ।।
अजात इत्येवं कश्चिद््भीरुः प्रपद्यते । रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ।। 21 ।।
मा नस्तोके मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदसि त्वा हवामहे ।। 22 ।। ।। इति श्वेताश्वतरोपनिषदि चतुर्थोऽध्यायः ।।
Chapter - 5
द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गूढे । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः ।। 1 ।।
यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । ऋृषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत् ।। 2 ।।
एकैकं जालं बहुधा विकुर्वन्नस्मिन् क्षेत्रे संहरत्येष देवः । भूयस्सृष्ट्वा पतयस्तथेशः सर्वाधिपत्यं कुरुते महात्मा ।। 3।।
सर्वा दिश ऊर्ध्वमधश्च तिर्यक् प्रकाशयन् भ्राजते यन्न््वनड््वान् । एवं स देवो भगवान् वरेण्यो योनिस्वभावान् अधितिष्ठत्येकः ।। 4 ।।
यच्च स्वभावं पचति विश्वयोनिः पाच्याँश्च सर्वान् परिणामयेत् यः । सर्वमेतद्विश्वमधितिष्ठत्येको गुणाँश्च सर्वान् विनियोजयेत् य ः ।। 5।।
तद्वेदह्यगुपनिषत्सु गूढं तद् ब्रह्मा वेदते ब्रह्म योनिम् । ये पूर्वं देवा ऋषयश्च तद्विदुस्ते तन्मया अमृता वै बभूवुः ।। 6 ।।
गुणान्वयो यः फलकर्मकर्ता कृतस्य तस्यैव स चोपभोक्ता । स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः संचरति स्वकर्मभिः ।। 7 ।।
अङ्गुष्ठमात्रो रवितुल्यरूपः सङ्कल्पाहङ्कारसमन्वितो यः । बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः ।। 8 ।।
वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ।। 9 ।।
नैव स्त्रीन पुमानेष न चैवायं नपुंसकः । यद्यच्छरीरमादत्ते तेनतेन स युज्यते ।। 10 ।।
सङ्कल्पन - स्पर्शन - दृष्टि - होमैर्ग्रासाम्बुवृष्ट्याऽऽत्मविवृद्धजन्म । कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते ।। 11 ।।
स्थूलानि सूक्ष्माणि बहूनि चैव रूपाणि देही स्वगुणैर्वृणोति । क्रियागुणैरात्मगुणैश्च तैषां संयोगहेतुरपरोऽपि दृष्टः ।। 12 ।।
अनाद्यनन्तं कलिलस्य मध्ये विश्वस्य स्रष्टारमनेकरूपम् । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। 13 ।।
भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् । कलासर्गकरं देवं येविदुस्ते जहुस्तनुम् (ते जहुस्तनुम् ) ।। 14 ।। इति श्वेताश्वतरोपनिषदि पञ्चमोऽध्यायः ।।
Chapter - 6
स्वभावमेके कवयो वदन्ति कालं तथाऽन्ये परिमुह्यमानाः । देवस्यैष महिमा तु लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ।। 1 ।।
येनावृतं नित्यमिदँ हि सर्वं ज्ञः कालकालो गुणी सर्वविद्यः । तेनेशितं कर्मविवर्तते ह पृथ्व्याप्यतेजोऽनिलखानि चिन्त्यम् ।। 2।।
तत्कर्म कृत्वा विनिवर्त्य भूयस्तत्वस्य तत्त्वेन समेत्य योगम् । एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन चैवाऽऽत्मगुणैश्च सूक्ष्मैः ।। 3 ।।
आरभ्य कर्माणि गुणान्विताति भावांश्च सर्वान् विनियोजयेत् यः । तेषामभावे कृतकर्मनाशः कर्मक्षये याति स तत्त्वतोऽन्यः।। 4।।
आदिः स संयोगनिमित्तहेतुः परस्त्रिकालादकलोऽपि दृष्टः । तं विश्वरूपं भवभूतमीड्यं देवं स्वचित्तस्थमुपास्य पूर्वम् ।। 5 ।।
"स वृक्षकालाकृतिभिः परोऽन्यो यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।" धर्मावहं पापनुदं भगेशं ज्ञात्वाऽऽत्मस्थममृतं विश्वधाम ।। 6 ।।
तमीश्वराणां परमं महेश्वरं तं देवतानां परमञ्च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशमीड्यम् ।। 7 ।।
न तस्य कार्ये करणञ्च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ।। 8 ।।
न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तस्य लिङ्गम् । स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः ।। 9 ।।
यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः । देव एकः समावृणोति स नो दद्याद् ब्रह्माप्ययम् ।। 10 ।।
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।। 11 ।।
एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति । तमात्मस्थं योऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ।। 12 ।।
नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तत् कारणं सांख्ययोगाधिगम्यंज्ञात्वा देवं मुच्यते सर्वपाशैः ।। 13 ।।
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनु भाति सर्वे तस्य भासा सर्वमिदं विभाति ।। 14 ।।
एको हँसो भुवनस्यास्य मध्ये स एवाग्निः सलिले संनिविष्टः । तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।। 15 ।।
स विश्वकृत विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः । प्रधानक्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः ।। 16 ।।
स तन्मयो ह्यमृत ईशसंस्थो ज्ञः सर्वगो भुवनस्यास्य गोप्ता । य ईशेऽस्य जगतो नित्यमेव नान्यो हेतुर्विद्यत ईशनाय ।। 17 ।।
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदाँश्च प्रहिणोति तस्मै । तँ ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ।। 18 ।।
निष्कलं निष्क्रियँ शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्धनमिवानलम् ।। 19 ।।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥20॥
तपःप्रभावाद् देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वात् । अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम् ।। 21 ।।
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ।।22।।
यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।। प्रकाशन्ते महात्मनः इति ।। 23।।