Śrīkoṣa
Chapter 17

Verse 17.47

मीमांसा हृन्निरुक्तं च छन्दो ज्योतिश्च चक्षुषी।
गारुडं भूततन्त्रं च श्रोत्रयुग्मे व्यवस्थितम्॥ 17.47 ॥