Śrīkoṣa
Chapter 22

Verse 22.11

विन्यस्य काञ्चनं मूर्ध्नि शक्तितमावाह्य पूजयेत्।
परमेष्ठ्यात्मिकीं मध्ये पुरुषादिसमावृताम्॥ 22.11 ॥