Śrīkoṣa
Chapter 8

Verse 8.1

अथ वक्ष्यामि संक्षेपादग्निसंस्कारमुत्तमम्।
प्राच्यां कुण्डमुदीच्यां वा स्थण्डिलं वाऽप्यसम्भवे॥ 8.1 ॥