Chapter 3
Verse 3.6
पञ्चमोऽनुवाकः
[विज्ञानमयकोशविचारः]
विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च । विज्ञानं देवाः सर्वे ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा यः पूर्वस्य ॥ १ ॥
तस्माद्वा एतस्माद्विज्ञानमयात् अन्योऽन्तर आत्मा आनन्दमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः आनन्द आत्मा ॥ २ ॥ ब्रह्म पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥
॥ इति पञ्चमोऽनुवाकः ॥