Chapter 1
Verse 1.5
पञ्चमोऽनुवाकः
[परविद्योपासनाङ्गव्याहत्युपासनम्]
भूर्भुवःसुवरिति वा एतास्तिस्रो व्याहृतयः । तासामुह स्मै तां चतुर्थीम्। माहाचमस्यः प्रवेदयते । मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यान्या देवताः । भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् । सुवरित्यसौ लोकः ॥ १ ॥
मह इत्यादित्यः । आदित्येन वाव सर्वे लोका महीयन्ते । भूरिति वा अग्निः । भुव इति वायुः। सुवरित्यादित्यः । मह इति चन्द्रमा । चन्द्रमसा वाव सर्वाणि ज्योतींषि महीयन्ते । भूरिति वा ऋचः । भुव इति सामानि । सुवरिति यजूंषि ॥ २ ॥
मह इति ब्रह्म । ब्रह्म वाव सर्वे वेदा महीयन्ते । भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः । मह इत्यन्नम् । अनेन वाव सर्वे प्राणा महीयन्ते ॥ ता वा एताश्चतस्रश्चतुर्धा । चतस्रश्चतस्रो व्याहृतयः । ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मै देवा बलिमावहन्ति ॥ ३ ॥
असौ लोको यजूंषि वेद द्वे च ॥ ४ ॥
॥ इति पञ्चमोऽनुवाकः ॥