Chapter 1
Verse 1.12
3. Light: (Tejas)
उष्णस्पर्शवत् तेजः । तच्च द्विविधं, नित्यमनित्यं च । नित्यं
परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनः त्रिविधं
शरीरेन्द्रियविषयभेदात् । शरीरं आदित्यलोके प्रसिद्धम् । इन्द्रियं
रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयः चतुर्विधः,
भौम-दिव्य-औदर्य-आकरज भेदात् । भौमं वह्नयादिकम् ।
अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं
सुवर्णादि ॥ ३ ॥