Chapter 1
Verse 1.49
32. Perception defined and explained:
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधं निर्विकल्पकं
सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं
किश्चित् । सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं,
ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ॥ ३२ ॥