Chapter 1
Verse 1.84
27. Vyāpyatvāsiddha:
सोपाधिको हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति
साधनाव्यापकत्वं उपाधिः । साध्यसमानाधिकरणात्यन्ताभावा-
प्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभाव-
प्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान्वह्निमत्वादित्यत्र
आर्द्रन्धनसंयोग उपाधिः । तथाहि । यत्र धूमस्तत्रार्द्रन्धनसंयोग
इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रन्धनसंयोगो नास्ति
अयोगोलके आर्मेन्धनसंयोगाभावादिति साधनाव्यापकता । एवं
साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रन्धनसंयोग उपाधिः ।
सोपाधिकत्वात् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥ २७ ॥