Chapter 4
Verse 4.58
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् ! हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत षोडशकलं भारद्वाज ! पुरुषं वेत्थ इति । तमहं कुमारम् अब्रुवम् नाहमिमं वेद; यद्यहमिमवेदिषम् कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति, योऽनृतमभिवदति । तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि, क्वासौ पुरुष इति ।।