Chapter 5
Verse 5.20
तदभ्यद्रवत् । तमभ्यवदत्, कोऽसीति? वायुर्वा अहमस्मीत्यब्रवीत्,
मातरिश्वा वा अहमस्मीति । ८।
तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वमाददीयं, यदिदं पृथिव्यामिति ।९।
तस्मै तृणं निदधौ एतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकाऽऽदातुम् । स तत एव निववृते, नैत (नैन) दशकं विज्ञातुं, यदेतद्यक्षमिति ।१०।