Chapter 4
Verse 4.15
पञ्चदश-षोडशमन्त्रौ
[उक्तसृष्टितत्त्वानुसारिषु अधिकारिभेदेन फलभेदः]
तद्ये ह तत् प्रजापतिव्रतं चरन्ति, ते मिथुनम् उत्पादयन्ते । तेषामेवैष ब्रह्मलोकः । येषां तपो ब्रह्मचर्यम्, येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥
तेषामसौ विरजो ब्रह्मलोकः, न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥
इति प्रथमःप्रश्नः