Chapter 4
Verse 4.41
तस्मै स होवाच - यथा गार्ग्य ! मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिन् तेजोमण्डले एकी भवन्ति । ताः पुनरुदयतः प्रचरन्ति - एवं ह वै तत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति, न पश्यति, न जिघ्रति, न रसयते, न स्पृशते, नाभिवदते, नादत्ते, नानन्दयते, न विसृजते, नेयायते; स्वपिति इति आचक्षते ।।