Śrīkoṣa

Aitareya, Māndukya, Īśāvāsya, Praśna and Keṇa Upaniṣads

By Unknown

Composed in Unknown

5 chapters154 verses

Filter Content

Display Mode

Aitareya Upaniṣad

0. शान्तिमन्त्रः
वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एवि । वेदस्यम आणीस्थः । श्रुतं मे मा प्रहासीः। अनेनावीतेनाहोरात्रान् सन्दवामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् । ओं शान्तिः शान्तिः शान्तिः
View Verse
1. प्रथमः खण्डः
1.1 [आत्मनः सृष्टिसङ्कल्पः]
आत्मावाइवमेकएवाग्रआसीत्।नान्यत्किंचनमिषत्॥ स ईक्षत लोकान्नु सृजाइति॥१॥
View Verse
1.2 [जगत्सृष्टिक्रमः]
सइमान्लोकानसृजत।अम्भोमरीचि(ची)र्मरमापः।अदोऽम्भःपरेणदिवम्द्यौः
प्रतिष्ठा,अन्तरिक्षंमरीचयः,पृथिवीमरः,याअवस्तात्ताआपः॥२॥
View Verse
1.3 [लोकपालसृष्ट्यर्थं विराटपुरुषाविर्भाव:]
सईक्षतइमेनुलोकाः,लोकपालान्नुसृजाइति।सोऽदभ्यएवपुरुषंसमुद्वृत्यामूर्च्छयत्॥३॥
View Verse
1.4 [लोकपालसृष्टिः]
तमभ्यतपत्तस्याभितप्तस्यमुखंनिरभिद्यतयथाण्डम्;मुखाद्वाक्;वाचऽग्निः नासिकेनिरभिद्येताम्नासिकाभ्यांप्राणःप्राणाद्वायुः।अक्षिणीनिरभिद्येताम्;अक्षीभ्यां चक्षुःचक्षुषआदित्यः।कर्णांनिरभिद्येताम्।कर्णाभ्यांश्रोत्रम्;श्रोत्राद्दिशः।त्वङ्निर- भिद्यत;त्वचोलोमानि;लोमभ्यओषधिवनस्पतयः।हृदयंनिरभिद्यत;हृदयान्मनः मनसश्चन्द्रमाः।नाभिर्निरभिद्यत;नाभ्याअपानः,अपानान्मृत्युः।शिश्नंनिरभिद्यत्त; शिश्नाद्रेतः,रेतसआपः॥४॥
View Verse
2. द्वितीयःखण्डः
2.1 [अशनायापिपासयोःसृष्टिः]
ता एतादेवताः सृष्टा अस्मिन्महत्यर्णवेप्रापतन् । तमश नायापिपासाभ्यामन्व वार्जयत्। ताएनमब्रुवन्। आयतनंनः प्रजानीहियस्मिन्प्रतिष्ठित्ता अन्नमदामेति॥१॥
View Verse
2.2 [पुरुषसृष्टिः]
ताभ्योगामानयत्ताअब्रुवन्नवैमोऽयमलमिति। साभ्योऽश्वमानयत्ताअब्रुवन् नवैनोऽयमलमिति।२॥ ताभ्यःपुरुषमानयत्ताअब्रुवन्सुकृतंबत्तेति।पुरुषोवावसुकृतम्। ता अब्रवीद्यथायतनंप्रविशतेति॥३॥
View Verse
2.3 [अधिदेवतानां आयतनप्रवेशः]
अग्निर्वाग्भूत्वामुखंप्राविशत्। वायुःप्राणोभूत्वानासिकेप्राविशत्। आदित्यश्चक्षुर्भूत्वाऽक्षिणीप्राविशत्। विशश्श्रोत्रंभूत्वाकर्णोप्राविशन्। ओषधिवनस्पतयो लोमानिभूत्वात्वचंप्राविशन्। चन्द्रमामनो भूत्वाहृदयंप्राविशत्। मृत्युरपानोभूत्वानाभिं प्राविशत्। आपोरेतोभूत्वाशिश्नंप्राविशत्॥४॥
View Verse
तमशनायापिपासेअब्रूताम्।आवाभ्यांअधिप्रजानीहिइति। सते अब्रवीत्,एतास्वेव वांदेवत्तास्वाभजाम्येत्तासुभागिन्यौकरोमि इति। तस्माद्यस्यैकस्यैच देवतायैहविगृहपते, भागिन्यावेवास्यामशनायापिपासेभवत:॥५॥
View Verse
3.तृतीयःखण्डः
3.1 [अन्नसृष्टिः]
सईक्षतेमेनुलोकाश्चलोकपालाश्च;अन्नमेभ्यःसृजाइति॥१॥
सोऽपोऽभ्यतपत्ताभ्योऽभितप्ताभ्योमूर्तिरजायत।यावैसामूर्तिरजायत,अन्नंवैतत्॥२॥
View Verse
3.2 [वागादिभिः अन्नग्रहणासामर्थ्यम् अपानेन अन्नग्रहणं च]
तदेतदभिसृष्टं सत् पराङ्त्यजिवांसत् । तद्भाचाsजिधृक्षत् । तन्नाशक्नोद्भाचा ग्रहीतुम् । स यद्धैनद्भाचाऽग्रहैष्यत् ,अभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥३॥
तत् प्राणेनाजिधृक्षत् । तन्नाशक्नोत् प्राणेन ग्रहीतुम्॥स यद्धैनत् प्राणेनाग्रहैष्यत्, अभिप्राण्य हैवान्नमत्रप्स्यत्॥४॥
तच्चक्षुषाऽजिधृक्षत् । तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषाऽग्रहैष्यत् दृष्ट्वा हैवान्नमत्रप्स्यत् ॥५॥
तच्छोत्रेणाजिधृक्षत् । तन्नाशक्नोच्छोत्रेण ग्रहीतुम् । स यद्धैनच्छोत्रेणाग्रहैष्यत् , श्रुत्वा हैवान्नमत्रप्स्यत् ॥६॥
तत्त्वचाऽजिधृक्षत् ॥ तन्नाशक्नोत्त्वचा ग्रहीतुम् । स यद्धैनत् त्वचाऽग्रहैष्यत् , स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥७॥
तन्मनसाऽजिधृक्षत् । तन्नाशक्नोन्मनसा ग्रहीतुम् । स यद्धैनन्मनसाऽग्रहैष्यत् , ध्यात्वा हेवान्नमत्रप्स्यत् ॥८॥
तच्छिश्नेनाऽजिधृक्षत्। तन्नाशक्नोच्छिश्नेन ग्रहीतुम्। स यद्धैनच्छिश्नेनाग्रहैष्यत्, विसृज्य हैवान्मत्रप्स्यत्॥९॥
तदपानेनाजिधृक्षत् । तदावयत्। स एषोऽन्नस्य ग्रहो यद्वायुः । अन्नायुर्वा एष यद्वायुः ॥१०॥
View Verse
3.3 [आत्मनः शरीरप्रवेशः]
स ईक्षत कथंन्विदं मवृते स्यादिति । स ईक्षत कतरेण प्रपद्या इति । स ईक्षत यदि वाचाऽभिव्याहृतम्; यदि प्राणेनाऽभिप्राणितम्, यदि चक्षुषा दृष्टम्; यदि श्रोत्रेण श्रुतम्, यदि त्वचा स्पृष्टम्; यदि मनसा ध्यातम् । यद्यपानेनाऽभ्यपानितम्, यदि शिश्नेन विसृष्टम्, अथ कोऽहमिति ॥११॥
View Verse
3.4 [प्रवेशमार्गनिरूपणम् ]
सएतमेवसीमानंविदार्यैतयाद्वाराप्रापद्यत।सैषाविदृतिर्नामद्वास्त- देतन्नान्दनम्॥तस्यत्रयआवसथाःत्रयःस्वप्नाः;अयमावसथोऽयमावसथोऽयमावसथ इति॥१२॥
View Verse
3.5 [नामरूपव्याकरणादि]
सजातोभूतान्यभिव्यैख्यत्किमिहान्यंवावदिषदिति।सएतमेवपुरुषंब्रह्म ततममपश्यदिदमदर्शमिती॥१३॥
View Verse
3.6 [इन्द्रशब्दवाच्यः परमात्मा]
तस्मादिदन्द्रोनामेदन्द्रोहवैनामतमिदन्द्रंसन्तमिन्द्रइत्याचक्षते परोक्षेण।परोक्षप्रियाइवहिदेवाःपरोक्षप्रियाइवहिदेवाः॥१४॥
View Verse
4. चतुर्थःखण्डः
4.1 [पुरुषस्यप्रथमंजन्म] (अपक्रामन्तुगर्भिण्यः)
पुरुषोहवाअयमादितोगर्भोभवतियदेतद्रेतः।तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतमात्मन्येवात्मानंबिभर्ति।तद्यदास्त्रियांसिंचति,अथैतज्जनयति।तदस्यप्रथमं जन्म॥१॥
View Verse
4.2 [पुरुषस्यद्वितीयंजन्म]
तत्स्त्रियाआत्मभूयंगच्छति,यथास्वमङ्गम्,तथा।तस्मादेनांन हिनस्ति।साऽस्यैतमात्मानंअत्रगतंभावयति॥२॥
View Verse
सा भावयित्रीभावयितव्याभवतितेस्त्रीगर्भंबिभर्तिसोऽग्रएवकुमारं जन्मनोऽग्रेऽविभावयति। सयत्कुमारंजन्मनोऽग्रेऽविभावयत्यात्मानमेवतद्भावयत्येषां लोकानांसन्तत्या एवंसन्तताही मेलोकास्तदस्य द्वितीयंजन्म॥३॥
View Verse
4.3 [पुरुषस्यतृतीयंजन्म]
सोऽस्यायमात्मापुण्येभ्यःकर्मभ्यःप्रतिधीयतेअथास्यायमितरआत्मा
कृतकृत्योवयोगतःप्रैतिसइतःप्रयन्नेवपुनर्जायतेतदस्यतृतीयंजन्म॥४॥
View Verse
4.4 [एतद्विषयेवामदेवसम्मतिः]
तदुक्तमृषिणा गर्भेनुसन्नन्वेषामवेदमहंदेवानांजनिमानिविश्वा।शतंमापुरआयसीररक्षन्नथ श्येनोजवसानिरदीयम्इति।गर्भएवैतच्छयानोवामदेवएवमुवाच॥५॥
View Verse
4.5 [मुक्तिस्वरूपफलम्]
सएवंविद्वानस्माच्छरीरभेदादूर्ध्वमुत्कृम्यामुष्मिन्स्वर्गेलोकेसर्वान् कामानाप्त्वाऽमृतःसमभवत्।समभवत्॥६॥
View Verse
5. पंचमःखण्डः
5.1 [आत्मस्वरूपनिरिणम्]
कोऽयमात्मेतिवयमुपास्महेकतरस्सआत्मा।येनवारूपंपश्यतियेनवा शब्दंशृणोति,येनवागन्धानाजियतियेनवावाचंव्याकरोतियेनवास्वादुचास्वादुच विजानातियदेतद्धृदयंमनश्चेतत्॥१॥
View Verse
5.2 [सर्वेषांकरणानांप्रज्ञानरूपब्रह्मवश्यता]
संज्ञानमाज्ञानंविज्ञानंप्रज्ञानंमेधादृष्टिःधृतिर्मतिःमनीषाजूतिःस्मृतिः सङ्कल्पःक्रतुरसुःकामोवशइति।सर्वाण्येवैतानिप्रज्ञानस्यनामधेयानि भवन्ति॥२॥
View Verse
5.3 [बहाविवेवानामपि तद्वश्यता]
एषब्रह्मैषइन्द्रएषप्रजापतिरेतेसर्वेदेवाइमानिचपंचमहाभूतानिपृथिवी वायुराकाशआपोज्योतीषीत्येतानीमानिचक्षुद्रमिश्राणीव।बीजानीतराणिचेतराणि चाण्डजानिचजारुजानिचस्वेदजानिचोद्भिज्जानिचाश्वागावःपुरुषाहस्तिनो यत्किञ्चेदंप्राणिजङ्गमंचपतत्त्रिचयच्चस्थावरंसर्वंतत्प्रज्ञानेत्रंप्रज्ञानेप्रतिष्ठितं प्रज्ञानेत्रोलोकःप्रज्ञाप्रतिष्ठाप्रज्ञानंब्रह्म॥३॥
View Verse
5.4 [बहाज्ञानिनःमोक्षप्राप्तिः]
सएतेनैवप्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्यअमुष्मिन्स्वर्गेलोकेसर्वान् कामानाप्त्वाऽमृतस्समभवत्समभवदिति॥४॥
ओंइत्युपनिषत्॥
View Verse
6. षष्ठःखण्डः
[शान्तिमन्त्रः]
वाङ्मेमनसिप्रतिष्ठिता।मनोमेवाचिप्रतिष्ठितम्।आविरावीर्मएधि वेदस्यमआणीस्थ: ।श्रुतंमेमाप्रहासीः।अनेनाधीतेनाहोरात्रान्सन्दधामि।ऋतं वदिष्यामि।सत्यंवदिष्यामि।तन्मामवतु।तदवक्तारमवतु।अवतुमां।अवतु वक्तारम्अवतुवक्तारम्॥ औशान्तिःशान्तिःशान्तिः
View Verse

Māndukya Upaniṣad

0. ओम्
भद्रं कर्णेभिः शृणुयाम देवा: भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायु: ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
॥ओं शान्तिः शान्तिः शान्तिः ॥
View Verse
1.प्रथमः खण्डः
1.1 [प्रणवशब्दवाच्यः परमात्मा]
हरिः ओम् । ओमित्येतदक्षरमिदं सर्वम् । तस्योपव्याख्यानम् । भूतं भवद् भविष्यदिति सर्वमोंकार एव । यञ्चान्यत् त्रिकालातीतं, तदप्योंकार एव ॥ १ ॥
View Verse
1.2 [नादात्मकः पादचतुष्टययुक्तः परमात्मा]
सर्वं ह्येतद् ब्रह्म; अयमात्मा ब्रह्म।
सोऽयमात्मा चतुष्पात् ॥ २ ॥
View Verse
2. द्वितीयः खण्डः
2.1 [वैश्वानरात्मकः ओंकारस्य प्रथमपादः]
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुख: स्थूलभुग्वैश्वानरः प्रथमः पादः ॥१॥
View Verse
2.2 [तैजसरूप: भगवान् प्रणवस्य द्वितीय: पादः]
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमखः प्रविविक्तभुक् तैजसो द्वितीयः पादः ॥ २ ॥
View Verse
2.3 [प्राज्ञात्मकः ओंकारस्य तृतीयः पादः]
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति, तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघन एव आनन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ३ ॥
View Verse
2.4 [सृष्टिप्रलयकारक: भगवानेव]
एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिस्सर्वस्य । प्रभवाप्ययौ हि भूतानाम् ॥ ४ ॥
View Verse
2.5 [तुरीयस्य वासुदेवस्य निरूपणम्]
नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं नप्रज्ञं नाप्रज्ञं अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते । स आत्मा । स विज्ञेयः ॥ ५॥
View Verse
3. तृतीयोध्यायः
3.1 [पादभूतस्य भगवतः मात्रास्वरूपत्वम् ]
हरिः ओम् । सोऽयमात्मा अध्यक्षरमोंकारोऽधिमात्रम् । पादा मात्रा: मात्राश्च पादाः अकार उकारो मकार इति ॥१॥
View Verse
3.2 [प्रणवाक्षरेषु अकाररूप: परमात्मा वैश्वानरः]
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्रा । आप्तेरादिमत्त्वाद्वा आप्नोति ह वै सर्वान् कामानादिश्च भवति । य एवं वेद ॥ २ ॥
View Verse
3.3 [उकाररूप: तेजस: प्रणवद्वितीयमात्रा]
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वा उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥३॥
View Verse
3.4 [तृतीयमात्रायाः मकारस्य निरूपणम् ]
सुषुप्तस्थानो प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा । मिनोति ह वा इदं सर्वं अपीतिश्च भवति, य एवं वेद ॥ ४ ॥
View Verse
4. चतुर्थः खण्डः
4.1 [प्रणवस्थनादस्य निरूपणम् ]
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मनात्मानम् । य एवं वेद, य एवं वेद ॥ १ ॥
View Verse

Iśāvāsya Upaniṣad

हरिः ओम् ॥ ० ॥
View Verse
ईशावास्यमिदँ सर्वं यत्किंच जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १ ॥
View Verse
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
View Verse
असुर्या नाम ते लोका अन्धेन तमसावृताः । तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः ॥ ३ ॥
View Verse
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
View Verse
तदेजति तदु नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥
View Verse
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
View Verse
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कश्शोक एकत्वमनुपश्यतः ॥ ७ ॥
View Verse
स पर्यगाच्छुक्रमकायमव्रणमस्राविरँ शुद्धमपापविद्धम् । कविर्मनीषी परिभूस्स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यस्समाभ्यः ॥ ८ ॥
View Verse
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ ९ ॥
View Verse
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्व्याचचक्षिरे ॥ १० ॥
View Verse
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११ ॥
View Verse
अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥ १२ ॥
View Verse
अन्यदेवाहुस्संभवादन्यदाहुरसंभवात् । इति शुश्रुम धीराणां ये नस्तद्व्याचचक्षिरे ॥ १३ ॥
View Verse
संभूतिं च विनाशं च यस्तद्वेदोभयँ सह । विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥ १४ ॥
View Verse
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
View Verse
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सोऽहमस्मि ॥ १६ ॥
View Verse
वायुरनिलममृतमथेदं भस्मान्ँत शरीरम् । ओं क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥ १७ ॥
View Verse
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८ ॥
View Verse

Praśna Upaniṣad

सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनः भार्गवो वैदर्भिः कबन्धी कात्यायनः ते हैते ब्रह्मपराः ब्रह्मनिष्ठाः परंब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ।।
View Verse
तान् ह स ऋषिरुवाच, भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत (थ) । यदि विज्ञास्यामः, सर्वं ह वो वक्ष्याम इति ।।
View Verse
"अथकबन्धी कात्यायन उपेत्य पप्रच्छ, भगवन्! कुतो ह वा इमाः प्रजाः" प्रजायन्ते इति ।
View Verse
तस्मै स होवाच । प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत । स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेति । एतौ मे बहुधा प्रजाः करिष्यत इति ।।
View Verse
आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः । रयिर्वा1 एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ।
View Verse
अथाऽऽदित्यः उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते । यत् दक्षिणं यत् प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशः, यत्सर्वं प्रकाशयति, तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ।।
View Verse
स एष वैश्वानरो विश्वरूप प्राणोऽग्निरुदयते। तदेतदृचाभ्युक्तम् ।।
View Verse
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिश्शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ।।
View Verse
संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते, ते चन्द्रमसमेव लोकमभिजयन्ते त एव पुनरावर्तन्ते । तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ।।
View Verse
अथोत्तरेण, तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्य आदित्यमभिजयन्ते । एतद्वै प्राणानामायतनम् एतदमृतमभयम्, एतत्परायणम्; एतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः ।।
View Verse
एकादशो मन्त्रः
[परमात्मनः संवत्सररूपत्वम् ]
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्द्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ ११ ॥
View Verse
द्वादशो मन्त्रः
[परमात्मनः मासरूपत्वम् ]
मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः, शुक्लः प्राणः ।
तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति; इतर इतरस्मिन् ॥ १२ ॥
View Verse
त्रयोदशो मन्त्रः
[परमात्मनः अहोरात्ररूपत्वम् ]
अहोरात्रो वै प्रजापतिः, तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति; ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तत्, यद्रात्रौ रत्या संयुज्यन्ते ॥ १३ ॥
View Verse
चतुर्दशो मन्त्रः
[परमात्मनः अन्नरूपत्वम्]
अन्नं वै प्रजापतिः, ततो ह वै तद्रेतः, तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १४ ॥
View Verse
पञ्चदश-षोडशमन्त्रौ
[उक्तसृष्टितत्त्वानुसारिषु अधिकारिभेदेन फलभेदः]
तद्ये ह तत् प्रजापतिव्रतं चरन्ति, ते मिथुनम् उत्पादयन्ते । तेषामेवैष ब्रह्मलोकः । येषां तपो ब्रह्मचर्यम्, येषु सत्यं प्रतिष्ठितम् ॥ १५ ॥
तेषामसौ विरजो ब्रह्मलोकः, न येषु जिह्ममनृतं न माया चेति ॥ १६ ॥
इति प्रथमःप्रश्नः
View Verse
अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजां विधारयन्ते; कतर एतत् प्रकाशयन्ते; कः पुनरेषां वरिष्ठः इति ।।
View Verse
तस्मै स होवाच आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रञ्च । ते प्रकाश्याभिवदन्ति, वयमेतत् बाणमवष्टभ्य विधारयामः ।।
View Verse
"तान् वरिष्ठः प्राण उवाच । मा ""मोहमापद्यथाहमेवैतत् पञ्चधाऽऽत्मानं" "प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि"" इति ।।"
View Verse
ते अश्रद्दधाना बभूवुः सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एव उत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानम् उत्क्रामन्तं सर्वा एवोत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते एवं वाङ्मनश्चक्षुश्श्रोत्रं च । ते प्रीताः प्राणं स्तुन्वन्ति ।।
View Verse
एषोऽग्निः तपत्येष सूर्य एष पर्जन्यो मघवान् एष वायुः एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ।।
View Verse
अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ।।
View Verse
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण! प्रजास्त्विमाः बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ।।
View Verse
देवनामसि वह्नितमः पितृणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ।।
View Verse
इन्द्रस्त्वं प्राण ! तेजसा रुद्रोऽसि परिरक्षिता । त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ।।
View Verse
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ।।
View Verse
व्रात्यस्त्वं प्राणैक ऋषिरत्ता विश्वस्य सत्पतिः । वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ।।
View Verse
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि । या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ।।
View Verse
प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च धेहि न इति ।।
View Verse
अथ हैनं कौसल्यश्चाऽऽश्वलायनः पप्रच्छ । भगवन्! कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं
View Verse
तस्मै स होवाच - अतिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति तस्मात् तेऽहं ब्रवीमि ।।
View Verse
आत्मन एष1 प्राणो जायते । यथैषा पुरुषे छायैतस्मिन् एतदाततं मनोकृतेनायात्यस्मिन् शरीरे ।।
View Verse
यथा सम्राडेवाधिकृतान् विनियुङ्क्ते एतान् ग्रामानेतान् ग्रामान् अधितिष्ठस्वेति, एवमेवैष प्राणः इतरान् प्राणान् पृथग्पृथगेव सन्निधत्ते ।।
View Verse
पायूपस्थे अपानम् । चक्षुश्श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतितिष्ठते1 । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति । तस्मात् एतास्सप्तार्चिषोभवन्ति ।।
View Verse
हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनाम् । तासां शतं शतमेकैकस्यां द्वासप्ततिः द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति । आसु व्यानश्चरति ।।
View Verse
अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति; पापेन पापम्; उभाभ्यामेव मनुष्यलोकम् ।।
View Verse
आदित्यो ह वै बाह्यः प्राण उदयति एष ह्येनं चाक्षुषं प्राणमनुगृह्णानः; पृथिव्यां या देवता, सैषा पुरुषस्यापानमवष्टभ्य । अन्तरा यदाकाशः स समानः । वायुर्व्यानः ।।
View Verse
तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः।। 10 ।।
यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः स ह्यात्मना यथासंकल्पितं लोकं नयति ।। 11 ।।
View Verse
य एवं विद्वान् प्राणं वेद, न हास्य प्रजा हीयते; अमृतो भवति । तदेष श्लोकः ।।
View Verse
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पंचधा । "अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते । विज्ञायामृतमश्नुत इति । "
View Verse
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन् ! एतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिन् जाग्रति । कतर एषः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति1 । कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्ति इति ।।
View Verse
तस्मै स होवाच - यथा गार्ग्य ! मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिन् तेजोमण्डले एकी भवन्ति । ताः पुनरुदयतः प्रचरन्ति - एवं ह वै तत् सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति, न पश्यति, न जिघ्रति, न रसयते, न स्पृशते, नाभिवदते, नादत्ते, नानन्दयते, न विसृजते, नेयायते; स्वपिति इति आचक्षते ।।
View Verse
प्राणाग्नय एव एतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानः व्यानोऽन्वाहार्यपचनः यत् गार्हपत्यात् प्रणीयते, प्रणयनादाहवनीयः प्राणः ।। 3 ।।
View Verse
यदुच्छ्वासनिश्वासौ एतावाहुती समं नयति इति समानः । मनो ह वाव यजमानः । इष्यफलमेव उदानः । स एवं यजमानमहरहर्ब्रह्म गमयति ।। 4 ।।
View Verse
अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं दृष्टमनुपश्यति, श्रुतं श्रुतमेवार्थमनुशृणोति, देशदिगन्तरैश्च प्रत्युनुभूतं पुनः पुनः प्रत्यनुभवति, दृष्टं चादृष्टं च श्रुतं चाश्रुतं च अनुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति; सर्वः पश्यति ।।
View Verse
स यदा तेजसाऽभिभूतो भवति, अत्रैष देवः स्वप्नान्न पश्यति । अथ तदेतस्मिन् शरीरे एतत् सुखं भवति ।।
View Verse
स यथा सोम्य वयांसि वासोवृक्ष सम्प्रतिष्ठन्ते, एवं ह वै तत्सर्वं पर आत्मनि सम्प्रतिष्ठते ।।
View Verse
पृथिवी च पृथिवीमात्रा च आपश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा च आकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च रसयितव्यम् च त्वक् च स्पर्शयितव्यं च वाक् च वक्तव्यं च हस्तौ च आदातव्यं च उपस्थश्चाऽऽनन्दयितव्यं च पायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च अहंकारश्चाहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ।।
View Verse
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः। स परेऽक्षरे आत्मनि सम्प्रतिष्ठते ।।
View Verse
परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य ! सर्वज्ञस्सर्वो भवति । तदेष श्लोकः ।।
View Verse
ज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र । शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाऽऽविवेशेति ।।
View Verse
अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन् मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत, कतमं वाव स तेन लोकं जयतीति ।।
View Verse
तस्मै स होवाच एतद्वै सत्यकाम ! परं चापरं च ब्रह्म यदोंकारः तस्माद्विद्वान् एतेनैवायतनेन एकतरमन्वेति ।।
View Verse
स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते। तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ।।
View Verse
अथ यदि द्विमात्रेण मनसि सम्पद्यते, सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ।
View Verse
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत, स तेजसि सूर्ये सम्पन्नः यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ श्लोकौ भवतः ।।
View Verse
तिस्रो मात्रा मृत्युमन्त्यः प्रयुक्ताः अन्योन्यसक्ता अनविप्रयुक्ताः। क्रियासु बाह्माभ्यन्तरमध्यमासु सम्यक् प्रयुक्तासु न कम्पते ज्ञः।।
View Verse
"ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत् कवयो वेदयन्ते । " तमोंकारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति ।। इति पञ्चमः प्रश्नः।।
View Verse
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् ! हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैनं प्रश्नमपृच्छत षोडशकलं भारद्वाज ! पुरुषं वेत्थ इति । तमहं कुमारम् अब्रुवम् नाहमिमं वेद; यद्यहमिमवेदिषम् कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति, योऽनृतमभिवदति । तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि, क्वासौ पुरुष इति ।।
View Verse
तस्मै स होवाच । इहैवान्तश्शरीरे सोम्य स पुरुषः, यस्मिन्नेताः षोडशकलाः प्रभवन्तीति ।।
View Verse
स ईक्षांचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि, कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति।।
View Verse
स यथेमा नद्यस्स्यन्दमानास्समुद्रायणास्समुद्रं प्राप्यास्तं गच्छन्ति, भिद्येते तासां नामरूपे, समुद्र इत्येवं प्रोच्यते-एवमेवास्य परिद्रष्टुरिमाष्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति ; भिद्येते तासां नामरूपे, पुरुष इत्येवं प्रोच्यते।स एषोकलोऽमृतो भवति । तदेष श्लोकः।।
View Verse
अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद मा वो मृत्युः परिव्यथा इति ।।
View Verse
तान् होवाच - एतावदेवाहमेतत् परं ब्रह्म वेद, नातः परमस्तीति ।।
View Verse
ते तमर्चयन्तः त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ।।
View Verse

Keṇa Upaniṣad

केनोपनिषत्
(तलवकारोपनिषत्)
[सामवेदशान्तिपाठः]
ओम् आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्व ब्रह्मो (ह्मौ) पनिषदम् । माऽहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरोत् । अनिराकरणमस्तु । अनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सुन्तु ते मयि सन्तु।
ओं शान्तिः शान्तिः शान्तिः ।
View Verse
प्रथमखण्डः
हरिः ओम् ।
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुःश्रोत्रं क उ देवो युनक्ति ।१॥
View Verse
श्रोत्रस्य श्रोत्रं मनसो मनो यत् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ।२।
View Verse
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः।
न विद्मो न विजानीमो यथैतदनुशिष्यात् । ३॥
View Verse
अन्यदेव तद्विदितादथो अविदितादधि।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ।४।
View Verse
यद्वाचानभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।५।
View Verse
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । ६।
View Verse
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते । ७।
View Verse
यत् श्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते।८।
View Verse
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ।९॥
View Verse
द्वितीयखण्डः
यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं यदस्य देवेषु अथ नु मीमांस्यमेव ते मन्ये विदितम् ।१॥
View Verse
नाहं मन्ये सुवेदेति नो न वेदेति वेद च।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ।२॥
View Verse
यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम् । ३॥
View Verse
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ।४।
View Verse
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ।५॥
View Verse
तृतीयखण्डः
ब्रह्म ह देवेभ्यो विजिग्ये। तस्य ह ब्रह्मणो विजये देवा अमहीयन्त।
त ऐक्षन्त, अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।१॥
View Verse
तद्धेषां विजज्ञौ । तेभ्यो ह प्रादुर्बभूव ।
तन्न व्यजानत(न्त) किमिदं यक्षमिति ।२॥
View Verse
तेऽग्निमब्रुवन्, जातवेदः! एतद्विजानीहि किमेतद्यक्षमिति! तथेति । तदेभ्यद्रवत् ।
तमभ्यवदत् कोऽसीति । अग्निर्वा अहमस्मीत्यब्रवीत्, जातवेदा वा अहमस्मीति॥३,४॥
View Verse
तृणदहनासामर्थ्यम् अग्नेः
‘तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वं दहेयं यदिदं पृथिव्यामिति’। तव क्व। सामर्थ्यमस्तीति यक्षेण पृष्टोऽग्निः पृथिव्यन्तर्वर्तिसकलदाहसामर्थ्यम् अस्तीति उक्तवान् ॥
‘तस्मै………..स तत एव निववृते। तर्हिदं तृणं दहेति यक्षेण उक्तः, सर्वेण जवेन । तत्समीपं गतः, दग्धुमसमर्थों निवृत्त इत्यर्थः । उपप्रेयाय – समीपं गत इत्यर्थः । नैतदशकं विज्ञातुं यदेतद् यक्षमिति’। एवं देवान् प्रति उक्तवानिति शेषः । एवमुत्तरत्रापि ॥
View Verse
तदभ्यद्रवत् । तमभ्यवदत्, कोऽसीति? वायुर्वा अहमस्मीत्यब्रवीत्,
मातरिश्वा वा अहमस्मीति । ८।
तस्मिंस्त्वयि किं वीर्यमिति । अपीदं सर्वमाददीयं, यदिदं पृथिव्यामिति ।९।
तस्मै तृणं निदधौ एतदादत्स्वेति । तदुपप्रेयाय सर्वजवेन । तन्न शशाकाऽऽदातुम् । स तत एव निववृते, नैत (नैन) दशकं विज्ञातुं, यदेतद्यक्षमिति ।१०।
View Verse
अथेन्द्रमब्रुवन्, मघवन्नेतद्विजानीहि किमेतद्यक्षमिति । तथेति तदभ्यद्रवत् । तस्मात् तिरोदधे । ११ ।
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीम् । तां होवाच किमेतद्यक्षमिति । १२॥
View Verse
चतुर्थखण्डः
सा ब्रह्मेति होवाच, ब्रह्मणो वा एतद्विजये महीयध्वम् इति ।
ततो हैव विदाञ्चकार ब्रह्मेति ।१॥
View Verse
तस्माद्वा एते देवा अतितरामिवान्यान् देवान्। यदग्निर्वायुरिन्द्रः । ते ह्येनन्नेदिष्ठं पस्पृशुः । ते (स) ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति ।२॥
View Verse
तस्माद्वा इन्द्रोऽतितरामिवान्यान् देवान् ।
स ह्येनन्नेदिष्ठं पस्पर्श। स ह्येनत् प्रथमो विदाञ्चकार ब्रह्मेति । ३॥
View Verse
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इति,
इन्न्यमिष (मीमिष)दा इत्यधिदैवतम् ।४॥
View Verse
अथाध्यात्मम्, यदेत (न)दगच्छतीव च मनो न
(मनोऽनेन) चैन(त) दुपस्मरत्यभीक्ष्णं सङ्कल्पः ।५॥
View Verse
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् ।
स य एतदेवं वेद, अभि हैनं सर्वाणि भूतानि संवाञ्छन्ति । ६।
View Verse
उपनिषदं भो ब्रूहीति । उक्ता त उपनिषत् ।
ब्राह्मीं वाव त उपनिषदमब्रूमेति ।७॥
View Verse
तस्यै तपो दमः कर्मेति प्रतिष्ठा; ।
वेदाः सर्वाङ्गानि सत्यमायतनम् ।८।
View Verse
यो वा एतामेवं वेद, अपहत्य पाप्मानमनन्ते ।
स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ।९।
View Verse
क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः।
वामागमाध्वगवदावदतूलवातो रामानुजःस मुनिराद्रियतां मदुक्तिम् ॥
View Verse
उत्तरशान्तिपाठः
ओम् आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु। ओं शान्तिः शान्तिः शान्तिः ।
View Verse