Śrīkoṣa

Tarkasamgraha

By Annamabhatta

Composed in ~1550 CE

1 chapter113 verses

Filter Content

Display Mode

Tarkasangraha

Opening Prayer:
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥ १ ॥
View Verse
2. Classification of the categories (which are the Reals):
द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ॥ २ ॥
View Verse
3. Classification of substance:
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि
नवैव ॥ ३ ॥
View Verse
4. Classification of Quality:
रूप-रस-गन्ध-स्पर्श-संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-
परत्वा-ऽपरत्व-गुरुत्व-द्रवत्व-स्नेह-शब्द-बुद्धि-सुख-दुःखेच्छा
द्वेष-प्रयत्न-धर्माधर्म-संस्काराः चतुर्विंशतिर्गुणाः ॥ ४ ॥
View Verse
5. Classification of Action (Karma-Vibhāga):
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ ५ ॥
View Verse
6. Classification of Generality:
परमपरं चेति द्विविधं सामान्यम् ॥ ६ ॥
View Verse
7. Particularities:
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥ ७ ॥
View Verse
8. Inherence:
समवायस्त्वेक एव ॥ ८ ॥
View Verse
9. Classification of Negation:
अभावश्चतुर्विधः - प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः,
अन्योन्याभावश्चेति ॥ ९ ॥
View Verse
CHARACTERISTICS OF SUBSTANCES
1. Earth:
तत्र गन्धवती पृथिवी । सा द्विविधा नित्याऽनित्या च । नित्या
परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रिय
विषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् ।
तच्च नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥ १ ॥
View Verse
2. Water: (ap)
शीतस्पर्शवत्यः आपः । ता द्विविधाः नित्या अनित्याश्च ।
नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनः त्रिविधाः
शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं
रसनं जिह्वाग्रवर्ति । विषयः सरित् समुद्रादिः ॥ २ ॥
View Verse
3. Light: (Tejas)
उष्णस्पर्शवत् तेजः । तच्च द्विविधं, नित्यमनित्यं च । नित्यं
परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनः त्रिविधं
शरीरेन्द्रियविषयभेदात् । शरीरं आदित्यलोके प्रसिद्धम् । इन्द्रियं
रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयः चतुर्विधः,
भौम-दिव्य-औदर्य-आकरज भेदात् । भौमं वह्नयादिकम् ।
अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं
सुवर्णादि ॥ ३ ॥
View Verse
4. Air (Vāyu)
रूपरहितः स्पर्शवान् वायुः । स द्विविधः नित्यः अनित्यश्च ।
नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनः त्रिविधः
शरीरेन्द्रियविषय भेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं
त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तः संचारी
वायुः प्राणः । स च एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां
लभते ॥ ४ ॥
View Verse
5. Ākāśa:
शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यञ्च ॥ ५ ॥
View Verse
6. Time:
अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ॥ ६ ॥
View Verse
7. Dik (space or direction):
प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥ ७ ॥
View Verse
8. Ātmā (Soul):
ज्ञानाधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा च।
तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवात्मा प्रतिशरीरं भिन्नो
विभुर्नित्यश्च ॥ ८ ॥
View Verse
9. Manas (Mind):
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ।
तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥ ९ ॥
View Verse
SECTION III
DEALING WITH THE CHARACTERISTIC MARK,
DIVISION AND EXAMINATION OF
THE TWENTY FOUR QUALITIES
1. Colour (rūpa):
चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरितकपिशचित्र
भेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां
सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ॥ १ ॥
[44. In the order of enumeration of the Vaiśeṣika padārthas, guna comes second. According to the Vaiśeṣika, guna as a dharma (characteristic of a thing) exists in a dravya by samavāya sambandha(inherent relation), but is, at the same time, different from Karma,
and višesa]
View Verse
2. Taste (rasa):
रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात्
षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले
मधुर एव ॥ २ ॥
View Verse
3. Odour (gandha):
घ्राणग्राह्यो गुणो गन्धः । स द्विविधः
सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः ॥ ३ ॥
View Verse
4. Touch (Sparśa):
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः
शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो
जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ॥ ४ ॥
View Verse
5. The Theory of Pāka:
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्र अपाकजं
नित्यमनित्यं च । नित्यगतं नित्यम् अनित्यगतमनित्यम् ॥ ५ ॥
View Verse
6. Number-Sankhyā:
एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः
एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं
नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु
सर्वत्राऽनित्यमेव ॥ ६ ॥
View Verse
7. Dimension (Parimāṇam):
मानव्यवहारासाधारणकारणं
परिमाणम् ।
नवद्रव्यवृत्तिः ।
तच्चतुर्विधम् । अणु महत् दीर्घ ह्रस्वं चेति ॥ ७ ॥
View Verse
8. Distinctness (Pṛthaktvam):
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्तिः ॥ ८ ॥
View Verse
9. Conjunction (Samyoga):
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥ ९ ॥
View Verse
10. Disjunction (Vibhāga):
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥ १० ॥
View Verse
11. Remoteness - Paratva and Proximity (aparatva):
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टय
मनोवृत्तिनी । ते द्विविधे दिक्कृते कालकृते च । दूरस्थे दिक्कृतं
परत्वं । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् ।
कनिष्ठे कालकृतमपरत्वम् ॥ ११ ॥
View Verse
12. Heaviness (Gurutvam):
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ॥ १२ ॥
View Verse
13. Fluidity - (dravatvam):
आद्यस्यन्दनासमवायिकारणं द्रवत्वं । पृथिव्यप्तेजोवृत्ति ।
त‌द्विविधं, सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले ।
नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्नि संयोगजं
द्रवत्वम् । तेजसि सुवर्णादौ ॥ १३ ॥
View Verse
14. Viscidity (Snehah):
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥ १४ ॥
View Verse
15. Sound (Sabdah):
श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः । स द्विविधः,
ध्वन्यात्मकः वर्णात्मकश्च । तत्र ध्वन्यात्मकः भेर्यादौ । वर्णात्मकः
संस्कृतभाषादिरूपः ॥ १५ ॥
View Verse
16. Cognition (Jñānam):
सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा
स्मृतिरनुभवश्च ॥ १६ ॥
View Verse
17. Cognition is twofold: (i) Remembrance (Smrti) and
(ii) Apprehension: (anubhava):
(i) Remembrance (Smrti):
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ॥ १७ ॥
View Verse
18. Apprehension (anubhava):
तद्भिन्नं ज्ञानमनुभवः । स द्विविधः, यथार्थोऽयथार्थश्च ॥ १८ ॥
View Verse
19. Valid apprehension (Yathārtha anubhava):
तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते इदं रजतमिति
ज्ञानम् । सैव प्रमेत्युच्यते ॥ १९ ॥
View Verse
20. Erroneous apprehension (ayathārtha anubhava):
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा
शुक्ताविदंरजतमिति ज्ञानम् । सैव अप्रमा इत्युच्यते ॥ २० ॥
View Verse
21. Valid apprehension is fourfold:
यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ॥ २१ ॥
View Verse
22. The instruments of valid apprehension:
तत् करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्द भेदात् ॥ २२ ॥
View Verse
23. Definition of Special cause:
असाधारणं कारणं करणम् ॥ २३ ॥
View Verse
24. Definition of cause:
कार्यनियतपूर्ववृत्ति कारणम् ॥ २४ ॥
View Verse
25. Definition of effect:
कार्यं प्रागभावप्रतियोगि ॥ २५ ॥
View Verse
26. Cause (Kāranam):
कारणं त्रिविधम् - समवाय्यसमवायिनिमित्तभेदात् ॥ २६ ॥
27. The inherent cause (samavāyi kāraṇam):
यत् समवेतं कार्यं उत्पद्यते तत् समवायिकारणम् ।
यथा तंतवः पटस्य, पटश्च स्वगतरूपादेः ॥ २७ ॥
View Verse
28. The non-inherent cause (asamavāyi kāraṇam):
कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति यत्कारणं
तदसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं
पटरूपस्य ॥ २८ ॥
View Verse
29. Occasioning cause (nimitta kāraṇam):
तदुभयभिन्नं कारणं निमित्तकारणम् ।
यथा तुरीवेमादिकं पटस्य ॥ २९ ॥
View Verse
30. Special Cause (asādharanam kārannam):
तदेत‌त्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव
करणम् ॥ ३० ॥
View Verse
SECTION IV
THE NYAYA-VAISESIKA
THEORY OF EPISTEMOLOGY
31. Perception (Pratyaksa Pramāņa):
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥ ३१ ॥
View Verse
32. Perception defined and explained:
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । त‌द्विविधं निर्विकल्पकं
सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं
किश्चित् । सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं,
ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ॥ ३२ ॥
View Verse
33. The operative cause for perception is six-fold:
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः । संयोगः, संयुक्तसम-
वायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः,
विशेषणविशेष्यभावश्चेति ॥ ३३ ॥
View Verse
34. The first operative cause (Samyoga - sannikarsah):
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ॥ ३४ ॥
View Verse
35. Second operative cause (Samyukta samavāya):
घटरूपप्रत्यक्षजनने संयुक्त समवायः संनिकर्षः ।
चक्षुः संयुक्ते घटे रूपस्य समवायात् ॥ ३५ ॥
View Verse
36. Third operative cause (Samyukta-samaveta-samavāya):
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः
संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् ॥ ३६ ॥
View Verse
37. Fourth operative cause (Samavāyaḥ sannikarsah):
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवर्त्याकाशस्य
श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् ॥ ३७ ॥
View Verse
38. Fifth operative cause - Samaveta-samavāya-sannikarsah:
शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे
शब्दत्वस्य समवायात् ॥ ३८ ॥
View Verse
39. Sixth operative cause (Viśeṣana
Sannikarsa):
Viśeşyabhāva
अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाव-
वद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ॥ ३९ ॥
View Verse
40. Conclusion:
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्,
तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥ ४० ॥
View Verse
SECTION V
INFERENCE
1. Inference (anumānam):
अनुमितिकरणमनुमानम् ॥ १ ॥
View Verse
2. Inferential knowledge (anumiti):
परामर्शजन्यं ज्ञानमनुमितिः ॥ २ ॥
View Verse
3. Subsumptive reflection (parāmarśa):
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं
पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति
ज्ञानमनुमितिः ॥ ३ ॥
View Verse
4. Invariable concomitance - vyāpti:
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ॥ ४ ॥
View Verse
5. Paksadharmata - The special feature of a subject:
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥ ५ ॥
View Verse
6. Inference is twofold:
अनुमानं द्विविधं - स्वार्थं परार्थं च ॥ ६ ॥
View Verse
7. (a) Inference for oneself:
तत्र स्वार्थं स्वानुमितिहेतुः, तथाहि, स्वयमेव भूयोदर्शनेन यत्र
यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं
गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं
स्मरति यत्र यत्र धूमस्तत्र तत्राग्निः इति । तदनन्तरं
वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव लिङ्गपरामर्श
इत्युच्यते । तस्मात् पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते ।
तदेतत् स्वार्थानुमानम् ॥ ७ ॥
View Verse
8. b) Inference for others:
यत्तु स्वयं धूमादग्निमनुमाय परंप्रतिबोधयितुं पञ्चावयव वाक्यं
प्रयुज्यते तत् परार्थानुमानम् । यथा पर्वतो वह्निमान्, धूमत्वात्,
यो यो धूमवान् स वह्निमान् यथा महानसः, तथा चायं,
तस्मात्तथेति । अनेन प्रतिपादितात् लिङ्गात् परोऽप्यग्निं
प्रतिपद्यते ॥ ८ ॥
View Verse
9. The five-membered syllogism
प्रतिज्ञा - हेतु - उदाहरण - उपनय - निगमनानि पञ्चावयवाः ।
पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्वात् इति हेतुः ।
यो यो धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम् ।
तथा च अयमिति उपनयः । तस्मात्तथेति निगमनम् ॥ ९ ॥
View Verse
10. The special condition for anumiti - linga parāmarśa:
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्मात्
लिङ्गपरामर्शोऽनुमानम् ॥ १० ॥
View Verse
11. Linga is threefold:
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि
चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा
वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानस
इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा
महाहृद इति व्यतिरेकव्याप्तिः ॥ ११ ॥
View Verse
12. Kevalānvayi linga:
अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटः अभिधेयः प्रमेयत्वात्
पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति,
सर्वस्यापि प्रमेयत्वात् अभिधेयत्वाच्च ॥ १२ ॥
View Verse
13. Kevalavyatireki linga:
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि, यथा पृथिवीतरेभ्यो भिद्यते
गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम् ।
न चेयं तथा । तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्नम्
इत्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् ॥ १३ ॥
View Verse
14. Subject (paksa):
सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्त्वे हेतौ पर्वतः ॥ १४ ॥
View Verse
15. Similar instance (sapaksa):
निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम् ॥ १५ ॥
View Verse
16. Contrary instance (Vipaksa):
निश्चितसाध्याऽभाववान् विपक्षः । यथा तत्रैव महाहदः ॥ १६ ॥
View Verse
17. Defective reason (hetvābhāsa):
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वा-
भासाः ॥ १७ ॥
View Verse
18. Savyabhicāra hetu is threefold:
सव्यभिचारः अनैकान्तिकः । स त्रिविधः
साधारणासाधारणानुपसंहारिभेदात् ॥ १८ ॥
View Verse
19. Sādhāraņa savyabhicāra hetu:
तत्र साध्याभाववद्वृत्तिः साधारणः अनैकान्तिकः, यथा पर्वतो
वह्निमान् प्रमेयत्वात् इति । प्रमेयत्वस्य वह्नयभाववति हदे
विद्यमानत्वात् ॥ १९ ॥
View Verse
20. Asādhārana savyabhicāra hetu:
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः । 'यथा शब्दो
नित्यः शब्दत्वात् इति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च
व्यावृत्तं शब्दमात्रवृत्तिः ॥ २० ॥
View Verse
21. Anupasamhāri savyabhicāra hetu:
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं
प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो
नास्ति ॥ २१ ॥
View Verse
22. Viruddha hetu:
साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वादिति ।
कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ॥ २२ ॥
View Verse
23. Satpratipakṣa hetu:
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः ।
यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् । शब्दोऽनित्यः
कार्यत्वात् घटवत् ॥ २३ ॥
View Verse
24. Asiddha hetu is threefold:
असिद्धस्त्रिविधः — आश्रयासिद्धः, स्वरूपासिद्धो
व्याप्यत्वासिद्धश्वेति ॥ २४ ॥
View Verse
25. Āśrayāsiddha:
आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात्
सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च
नास्त्येव ॥ २५ ॥
View Verse
26. Svarūpāsiddha:
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् । अत्र चाक्षुषत्वं
शब्दं नास्ति शब्दस्य श्रावणत्वात् ॥ २६ ॥
View Verse
27. Vyāpyatvāsiddha:
सोपाधिको हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति
साधनाव्यापकत्वं उपाधिः । साध्यसमानाधिकरणात्यन्ताभावा-
प्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभाव-
प्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान्वह्निमत्वादित्यत्र
आर्द्रन्धनसंयोग उपाधिः । तथाहि । यत्र धूमस्तत्रार्द्रन्धनसंयोग
इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रन्धनसंयोगो नास्ति
अयोगोलके आर्मेन्धनसंयोगाभावादिति साधनाव्यापकता । एवं
साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रन्धनसंयोग उपाधिः ।
सोपाधिकत्वात् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥ २७ ॥
View Verse
28. Bādhita hetu:
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा
वह्निरनुष्णो द्रव्यत्वात् जलवत् । अत्रानुष्णत्वं साध्यं तदभाव
उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यत इति बाधितत्वम् ॥ २८ ॥
View Verse
SECTION VI
UPAMĀNA - ASSIMILATIVE ANALOGY
उपमितिकरणमुपमानम् । संज्ञासंज्ञिसम्बन्धज्ञानमुपमितिः ।
तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर
व्यापारः । तथा हि कश्चिद्गवयशब्दार्थमजानन् कुतश्चित्
आरण्यकपुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं
स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरमसौ गवयशब्दवाच्य
इत्युपमितिरुत्पद्यते ॥ १ ॥
View Verse
SECTION VII
SABDA - VALID VERBAL TESTIMONY
आप्तवाक्यं शब्दः । आप्तस्तु, यथार्थवक्ता । वाक्यं पदसमूहः ।
यथा गामानयेति । शक्तं पदम् । अस्मात्पदात् अयमर्थो बोद्धव्य
इतीश्वरसंकेतः शक्तिः ॥ १ ॥
View Verse
2. Verbal expectancy, compatibility, and juxtaposition:
आकाङ्क्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः पदस्य पदान्तर-
व्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकाङ्क्षा । अर्थाबाधो
योग्यता । पदानामविलम्बेनोच्चारणं संनिधिः ॥ २ ॥
View Verse
3. Verbal Expectancy:
आकाङ्क्षादिरहितं वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणमाकाङ्‌क्षाविरहात् । अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सांनिध्याभावात् ॥ ३ ॥
View Verse
4. Sentence:
वाक्यं द्विविधम् । दैदिकं लौकिकं च । वैदिकमीश्वरोक्तत्वा-
त्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् ।
अन्यदप्रमाणम् ॥ ४ ॥
View Verse
5. Meaning of a sentence:
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥ ५ ॥
View Verse
SECTION VIII
NAIYAYIKA THEORY ON EPISTEMOLOGY
View Verse
SECTION IX
ERRONEOUS APPREHENSION
6. Erroneous apprehension: three-fold:
अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् ॥ ६ ॥
View Verse
7. Doubt:
एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहि ज्ञानं संशयः ।
यथा स्थाणुर्वा पुरुषो वेति ॥ ७ ॥
View Verse
8. Viparyaya:
मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतमिति ॥ ८ ॥
View Verse
9. Tarka:
व्याप्यारोपेण व्यापकारोपस्तर्कः, यथा यदि वह्निर्न स्यात्तर्हि
धूमोऽपि न स्यादिति ॥ ९ ॥
View Verse
10. Smrti:
स्मृतिरपि द्विविधा । यथार्थायथार्था च । प्रमाजन्या यथार्था ।
अप्रमाजन्याऽयथार्था ॥ १० ॥
View Verse
11. Sukha:
सर्वेषामनुकूलतया वेदनीयं सुखम् ॥ ११ ॥
View Verse
12. Pain:
सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् ॥ १२ ॥
13. Desire etc:
इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । विहितकर्मजन्यो
धर्मः । निषिद्धकर्मजन्यस्त्वधर्मः ॥ १३ ॥
14. Eight qualities beginning with Buddhi:
बुध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धीच्छा प्रयत्ना
द्विविधाः । नित्या अनित्याश्च । नित्या ईश्वरस्य अनित्या
जीवस्य ॥ १४ ॥
View Verse
15. Samskāra:
संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापकश्चेति । वेगः
पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना ।
आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुनस्तदवस्थापकः
स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥ १५ ॥
View Verse
16. Karma:
चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेश-
संयोगहेतुरपक्षेपणम् । शरीरसंनिकृष्टसंयोगहेतुराकुञ्चनम् । विप्र-
कृष्टसंयोगहेतुः प्रसारणम् । अन्यत् सर्वं गमनम् । पृथिव्या-
दिचतुष्टयमनोमात्रवृत्ति ॥ १६ ॥
View Verse
17.
नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति । तद्विविधं
पराऽपरभेदात् । परं सत्ता । अपरं द्रव्यत्वादिः ॥ १७ ॥
View Verse
18. Viśeṣa
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥ १८ ॥
View Verse
19. Samavāyah
नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यदपराऽश्रितमेवावतिष्ठते तावयुतसिद्धौ यथा
अवयवाऽवयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्यक्ती
विशेषनित्यद्रव्ये चेति ॥ १९ ॥
View Verse
20. Antecedent Negation:
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य ॥ २० ॥
View Verse
21. Destruction:
सादिरनन्तः प्रध्वंसः । उत्पत्यनन्तरं कार्यस्य ॥ २१ ॥
View Verse
22. Absolute Negation:
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले
घटो नास्तीति ॥ २२ ॥
View Verse
23. Reciprocal Negation:
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा घटः
पटो नेति ॥ २३ ॥
View Verse
SECTION X
CONCLUSION
सर्वेषां पदार्थानां यथायथमुक्तेष्वन्तर्भावात् सप्तैव पदार्था इति
सिद्धम् ॥ २४ ॥
View Verse