Bṛhadāraṇyaka Upaniṣad
By Unknown
Composed in Unknown
6 chapters • 353 verses
Filter Content
Display Mode
Chapter - 1
॥ श्रीः ॥ बृहदारण्यकोपनिषत् (शुक्लयजुर्वेदकाण्वशाखान्तर्गता)
[उपक्रमशान्तिपाठः]
हरिः ओम् पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॥ ओं शान्तिः शान्तिः शान्तिः ॥
बृहदारण्यकोपनिषत् तृतीयोऽध्यायः
प्रथमं ब्राह्मणम् अश्वब्राह्मणम्
[अश्वमेधीयाश्वस्य अङ्गेषु उषा आदि दृष्टिः]
हरिः ओम् । उषा वा अश्वस्य मध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शवः, ऋतवोऽङ्गानि मासाश्चार्द्धमासाश्च च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि, नभो माँसानि । उवध्यँ सिकताः सिन्धवो गुदा यकृञ्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि । उद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत् स्तनयति, यन्मेहति तद्वर्षति, वागेवास्य वाक् ॥
[अश्चानुबन्धिषु दृष्टिः] अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत । तस्य पूर्वे समुद्रे योनिः। रात्रिरेनं पश्चान्महिमान्वजायत । तस्यापरे समुद्रे योनिः । एतौ वा अश्वं महिमानावभितः संबभूवतुः। हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् । समुद्र एवास्य बन्धुः समुद्रो योनिः॥ २ ॥ ॥ इति तृतीयाध्याये प्रथमं ब्राह्मणम् ॥
तृतीयाध्याये द्वितीयं ब्राह्मणम् अश्वमेधब्राह्मणम् [अश्वमेधादौ दृष्टिविधानाय मृत्युकर्तृकसृष्टिवर्णनम्] नैवेह किञ्चनाग्र आसीत् । मृत्युनैवेदमावृतमासीदशनायया । अशनाया हि मृत्युः। तन्मनोऽकुरुत आत्मन्वी स्यामिति । सोऽर्चनचरत् । तस्यार्चत आपोऽजायन्त । अर्चते वै मे कमभूदिति । तदेवार्कस्यार्कत्वम् । कँ ह वा अस्मै भवति, य एवमेतदर्कस्यात्वं वेद ॥ १ ॥
[चित्याग्निसृष्टिः]
आपो वा अर्कः । तद् यदपां शर आसीत् तन् समहन्यत । सा पृथिव्य- भवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजोरसं निरवर्तताग्निः ॥२॥
[चित्याग्नयङ्गेषु दृष्टिः]
स त्रेधात्मानं व्याकुरुत आदित्यं तृतीयं वायुं तृतीयम् । स एष प्राणस्रोधा विहितः । तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मौ । अथास्य प्रतीची दिक् पुच्छमसौ चासौ च सक्थ्यौ । दक्षिणा चोदीची च पार्श्वे । द्यौः पृष्टमन्त- रिक्षमुदरमियमुरः । स एषोऽप्सु प्रतिष्ठितः । यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३ ॥
[मृत्युकर्तृकसंवत्सरसृष्टिः]
सोऽकामयत द्वितीयो म आत्मा जायतेति । स मनसा वाचं मिथुनँ समभवदशनाया मृत्युः । तद्यद्रेत आसीत्, स संवत्सरोऽभवत् । न ह पुरा ततः संवत्सर आस । तमेतावन्तं कालमबिभः, यावान् संवत्सरः । तमेतावतः कालस्य परस्तादसृजत । तं जातमभिव्याददात् । स भाणमकरोत् सैव वागभवत् ॥ ४ ॥
[संवत्सरकर्तृक सर्वसृष्टिः]
स ऐक्षत, यदि वा इममभिमँस्ये कनीयोऽन्नं करिष्य इति । स तया वाचा तेनात्मना इदं सर्वमसृजत, यदिदं किञ्चऋचो यजूँषि सामानि च्छन्दाँसि यज्ञान् प्रजाः पशून् । स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति तददितेरदि- तित्वम् । सर्वस्यैतस्यात्ता भवति, सर्वमस्यान्नं भवति, य एवमेतददितेरदितित्वं वेद ॥ ५॥
[अश्वस्य सृष्टिप्रकारं अश्वमेधनिर्वचनं अश्वमेधे आदित्यदृष्टिश्च]
सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत्। स तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशोवीर्यमुदक्रामत् । प्राणा वै यशोवीर्यम् । तत् प्राणेषुक्रान्तेषु शरीरं श्वयितुमध्रियत । तस्य शरीर एव मनः आसीत् ॥ ६ ॥
[संवत्सरेण यज्ञार्थं स्वशारीरस्याश्वीकरणम्]
सोऽकामयत मेध्यं म इदँ स्यात्, आत्मन्व्यनेन स्यामिति । ततोऽश्वः समभवत् । यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेघस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद, य एनमेवं वेद । तमनवरुध्यैवामन्यत । तें संवत्सरस्य परस्तादात्मन आलभत। पशून् देवताभ्यः प्रत्यौहत् । तस्मात् सार्वदैवत्यं प्रोक्षितं प्राजापत्य-मालभन्ते। एष वा अश्वमेधो य एष तपतिः तस्य संवत्सर आत्मा । अयमग्निरर्कः, तस्येमे लोका आत्मानः । तावेतावर्काश्वमेधो । सो पुनरेकैव देवता भवति मुत्युरेव । अप पुनर्मृत्युं जयति, नैनं मृत्युराप्नोति, मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥
॥ इति तृतीयाध्याये द्वितीयं ब्राह्मणम् ॥
तृतीयाध्याये तृतीयं ब्राह्मणम् उद्गीथं ब्राह्मणम्
[मुख्यप्राणदृष्टिविधानाय देवासुरस्पर्धाख्यायिका]
द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एवं देवाः, ज्यायसा असुराः । स एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्ताऽसुरान् यज्ञ उद्गीथेनात्यया इति ॥१॥
[वागादिकं प्रति वेदोक्तवाक्यानि]
ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति तेभ्यो वागुदगायत् । यो वाचि भोगस्तं देवेभ्य आगायत्, यत् कल्याणं वदति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रति- रूपं वदति स एव । स पाप्मा ॥ २ ॥
[वागादीनां असुरपराभूतत्वम्]
अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति तेभ्यः प्राण उदगायत् । यः प्राणे भोगस्तं देवेभ्य आगायत् यत् कल्याणं जिघ्रति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव । स पाप्मा ॥ ३ ॥ अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति तेभ्यश्चक्षुरुदगायत् । यश्चक्षणि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं पश्यति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव । स पाप्मा ॥ ४ ॥ अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति तेभ्यश्श्रोत्रमुदगायत् । यः श्रोत्रे भोगस्तं देवेभ्य आगायत् यत् कल्याणँ शृणोति तदात्मने ।तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपं शृणोति स एव । स पाप्मा ॥ ५ ॥ अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति तेभ्यो मन उदगायत् । यो मनसि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं सङ्कल्पयति तदात्मने । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् । स यः स पाप्मा यदेवेदमप्रतिरूपैं सङ्कल्पयति स एव । स पाप्मा । एवमु खल्वेता देवताः पाप्मभिरुपासृजन् । एवमेनाः पाप्मनाऽविध्यन् ॥ ६॥
[मुख्यप्राणस्य असुरपरिभवितृत्वम्]
अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति । तथेति तेभ्य एष प्राण उदगायत् । तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मना'ऽविव्यत्सन्' । स यथाऽश्मानमृत्वा लोष्टो विध्वँसेत, एवँ हैव विध्वँसमाना विष्वञ्चो विनेशः । ततो देवा अभवन् पराऽसुराः । भवत्यात्मना, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥
[मुख्यप्राणस्य आङ्गीरस नामधेयम्]
ते होचुः, क्व नु सोऽभूत्, यो न इत्थमसक्तेति । अयमास्येऽन्तरिति । सोऽयास्य आङ्गिरसः । अङ्गानौं हि रसः ॥ ८ ॥
[मुख्यप्राणस्य दूर्नामकत्वम्]
सा वा एषा देवता दूर्नाम । दूर ह्यस्या मृत्युः । दूरँ ह वा अस्मान् मृत्युर्भवति य एवं वेद ॥ ९ ॥
[मुख्यप्राणेन वागादिषु आपादित दोषबहिष्करणम्]
सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार । तदासां पाप्मनो विन्यदधात् । तस्मान्न जनमियात्, नान्तमियात्। नेत् पाप्मानं मृत्युमन्ववायानीति ॥ १० ॥
[मुख्यप्राणेन वागादीनां यथावत् रक्षणम्]
सा वा एषा देवतैतासां देवतानां पाप्मानां मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ ११ ॥
स वै वाचमेव प्रथमामत्यवहत्, सा यदा मृत्युमत्यमुच्यत, सोऽग्निरभवत् । सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२ ॥
अथ प्राणमत्यवहत् । स यदा मृत्युमत्यमुच्यत, स वायुरभवत् । सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३ ॥ अथ चक्षुरत्यवहत् । तद् यदा मृत्युमत्यमुच्यत, स आदित्योऽभवत् । सोऽसावादित्यः परेण मृत्युमतिक्रान्तः तपति ॥ १४ ॥ अथ श्रोत्रमत्यवहत् । तद्यदा मृत्युमत्यमुच्यत, ता दिशोऽभवन् । ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५ ॥ अथ मनोऽत्यवहत् । तद्यदा मृत्युमत्यमुच्यत, स चन्द्रमा अभवत् । सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति । एवँ ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ १६ ॥
[मुख्यप्राणेन स्वार्थगृहीतस्य अन्नस्य वागादिभ्योऽपि विभजनम्]
अथात्मनेऽन्नाद्यमागायत् । यद्धि किञ्चान्नमद्यते, अनेनैव तदद्यते । इह प्रतितिष्ठति ॥ १७ ॥
ते देवा अब्रुवन्, एतावद्वा इदँ सर्वं यदन्नम् । तदात्मन आगासीः । अनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति । तथेति तँ समन्तं परिण्य- विशन्त । तस्माद्यदनेनान्नमत्ति, तेनैतास्तृप्यन्ति । एवँ ह वा एनँ स्वा अभिसंविशन्ति, भर्ता स्वानाँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद । य उ हेवंविदँ स्वेषु प्रति प्रतिबुभूषति', न हैवालं भार्येभ्यो भवति । अथ य एवैतमनुभवति, यो वै तमनु भार्यान् बुभूर्षति, स हैवालं भार्येभ्यो भवति ॥ १८॥
[मुख्यप्राणस्य अनेकादि नामनिर्देशेन तन्निर्वचनम्]
सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः । प्राणो वा अङ्गानाँ रसः । प्राणो हि वा अङ्गानाँ रसः । तस्मात् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति, तदैव तच्छुष्यति । एष हि वा अङ्गानाँ रसः ॥ १९ ॥
एष उ एव बृहस्पतिः । वाग्वै बृहती । तस्या एष पतिः । तस्मादु बृहस्पतिः ॥ २० ॥
एष उ एव ब्रह्मणस्पतिः । वाग्वै ब्रह्म । तस्या एष पतिः ब्रह्मणस्पतिः ॥ २१ ॥
एष उ एव साम । वाग्वै सा अमैषः । सा च अमश्चेति तत् साम्नस्सा- मत्वम् । यद्वेव समः पॢषिणा समो मशकेन समो नागेन समः एभिः त्रिभिर्लोकैः समोऽनेन सर्वेण, तस्माद्वैव साम । अश्नुते साम्नः सायुज्यं सलोकतां जयति, य एवमेतत् साम वेद ॥ २२ ॥
एष उ वा उद्गीथः । प्राणो वा उत् । प्राणेन हीदँ सर्वमुत्तब्धम् । वागेव गीथा उच्च गीथा चेति स उद्गीथः ॥ २३ ॥
तद्धापि ब्रह्मदत्तः चैकितायनेयो राजानं भक्षयन् उवाच-अयं त्यस्य राजा मूर्धानं विपातयतात्, यदितो अयास्याङ्गिरसो अन्येनोदगायदिति । वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४ ॥
तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर एव स्वम् । तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत् । स तया वाचा स्वरसंपन्नयाऽऽर्त्विज्यं कुर्यात् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव; अथो यस्य स्वं भवति । भवति हास्य स्वम्, य एवमेतत् साम्नः स्वं वेद ॥ २५ ॥
तस्य हैतस्य साम्नो यस्सुवर्णं वेद, भवति हास्य सुवर्णम् । तस्य वै स्वर एव सुवर्णम् । भवति हास्य सुवर्णम्, य एवमेतत् साम्नः सुवर्णं वेद ॥ २६ ॥
तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद, प्रति ह तिष्ठति । तस्य वै वागेव प्रतिष्ठा । वाचि हि खल्वेष एतत्प्राणः 'प्रतिष्ठितो गीयते इत्युहैक' आहुः ॥ २७ ॥
[अभ्यारोहमन्त्रः]
अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम प्रस्तौति । स यत्र प्रस्तुयात्, तदैतानि जपेत् - असतो मा सद्गमय, तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयेति । स यदाहासतो मा सद्गमयेति, मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति । मृत्युर्वे तमो ज्योतिरमृतम् । मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह । मृत्योर्माऽमृतं गमयेति । नात्र तिरोहितमिवास्ति । अथ यानीतराणि स्तोत्राणि तेष्वात्मने अन्नाद्यमागायेत् । तस्माद् तेषु बरं वृणीतं यं कामं कामयेत् तम् । स एष एवंविदः उद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति। तद्धैतल्लोकजिदेव । न हैवालोक्यताया आशास्ति, य एवमेतत् साम वेद ॥ २८ ॥ ॥ इति तृतीयाध्याये तृतीयं ब्राह्मणम् ॥
तृतीयाध्याये चतुर्थं ब्राह्मणम् आत्मब्राह्मणम्
[सर्गारम्भे आत्मसद्भावः]
आत्मैवेदमग्र आसीत् पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् । सोऽहमस्मीत्यग्रे व्याहरत् । ततोऽहन्नामाभवत् । तस्मादप्येतामन्त्रितो ऽहमयमित्येव अग्रे उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन 'औषत् तस्मात् पुरुषः। औषति ह वै स तं योऽस्मात् पूर्वो बुभूषति, य एवं वेद ॥ १ ॥
सोऽबिभेत् । तस्मादेकाकी बिभेति । स हायम् ईक्षाञ्चक्रे - यन्मदन्य न्नास्ति कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत् ? द्वितीयाद्वै भयं भवति ॥ २ ॥
[स्त्रीपुरुषरूपेण आविर्भूय मनुष्यादिसृष्टिः]
स वै नैव रेमे । तस्मादेकाकी न रमते । स द्वितीयमैच्छत् । स हैतावानास, यथा स्त्रीपुमांसौ संपरिष्वक्तौ । स इममेवात्मानं द्वेधा अपातयत् । ततः पतिश्च पत्नी च अभवताम् । तस्मादिदम् अर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः । तस्मादयमेकांशः' स्त्रिया पूर्यत एव । ताँ समभवत् । ततो मनुष्या अजायन्त ॥ ३ ॥
सो हेयमीक्षाञ्चक्रे-कथन्नु मा आत्मन एव जनयित्वा सम्भवति? हन्त तिरोऽसानीति । सा गौरभवत्, ऋषभ इतरः । तां समेवाभवत् । ततो गावोऽजायन्त । वडबेतराऽभवत्, अश्ववृष इतरः । गर्दभीतरा, गर्दभ इतरः । ताँ समेवाभवत् । तत एकशफमजायत । अजेतराऽभवत् बस्त इतरः अविरितरा, मेष इतरः । तां तां समेवाभवत्' । ततोऽजावयोऽजायन्त । एवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यः तत् सर्वमसृजत ॥ ४ ॥
सोऽवैदहं वाव सृष्टिरस्मि, अहं हीदं सर्वम् असृक्षीति । ततः सृष्टिरभवत् । सृष्ट्यां हास्येतस्यां भवति, य एवं वेद ॥ ५ ॥
[अग्न्यादिदेवता सृष्टिरूपविसृष्टिः]
अथेत्यभ्यमन्यत् स मुखाच्च योनेर्हस्ताभ्याञ्चाग्निमसृजत । तस्मात् एतदुभय- मलोमकमन्तरतः । अलोमका हि योनिरन्तरतः । तद् यदिदमाहुरमुं यजामुं यजेत्येकैकं देवम्, एतस्यैव सा विसृष्टिः । एष उ होव सर्वे देवाः । अथ यत् किञ्चेदमार्द्रम् तद् रेतसोऽसृजत । तदु सोमः । एतावद्वा इदं सर्वम्, अन्नच्चेवान्नादश्च । सोम एव अन्नमग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिः यच्छ्रेयसो देवानसृजत । अथ यन्मर्त्यस्सन् अमृतान- सृजत, तस्मादतिसृष्टिः । अतिसृष्ट्यां हास्यैतस्यां भवति, य एवं वेद ॥६॥
[अव्याकृतरूपेण आदौ स्थितिः]
तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियत असौनामाऽयमिदंरूप
इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते असौनामायमिदंरूप इति ।
स एष इह प्रविष्ट आनखाग्रेभ्यः, यथा क्षुरः क्षुरधाने अवहितः स्यात्,
विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यति' अकृत्स्नो हि सः ।
प्राणन्नेव प्राणो नाम भवति, वदन् वाक्, पश्यंचक्षुः, शृण्वन् श्रेत्रम्,
मन्वानो मनः । तान्यस्यैतानि कर्मनामान्येव ।
स योऽत एकैकमुपास्ते, न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवति।
आत्मेत्येव उपासीत । अत्र ह्येते सर्व एकं भवन्ति ।
तदेतत् पदनीयमस्य सर्वस्य, यदयमात्मा । अनेन ह्येतत् सर्वं वेद। यथा
ह वै पदेनानुविन्देत् एवम् । कीर्तिं श्लोकं, विन्दते, य एवं वेद ॥ ७ ॥
[आत्मनः पदनीयत्वं प्रेयस्त्वच्च]
तदेतत् प्रेयः पुत्रान् 'प्रेयो मित्रात्' प्रेयो वित्तात् प्रेयोऽन्यस्मात्
सर्वस्मादन्तरतरो' यदयमात्मा। स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यति इतीश्वरो ह तथैव स्यात् । आत्मानमेव प्रियमुपासीत । स य आत्मानमेव
प्रियमुपास्ते, न हास्य प्रियं प्रमायुकं भवति ॥ ८ ॥
[अहं ब्रह्मास्मीत्युपासनविधानोद्धातः]
तदाहुः यद ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद्
'ब्रह्मावैत्', यस्मात् तत् सर्वम् अभवदिति ॥ ९ ॥
['अहम् ब्रह्मास्मि' इत्युपासनौचित्यनिरूपणम्, उपासकस्य देवैरनभिभाव्यत्वम्, अन्येषां दैवपशुत्वं च]
ब्रह्म वा इदमग्र आसीत् । तदात्मानमेवावैदहं ब्रह्मास्मीति । तस्मात् तत्
सर्वमभवत् । तद्यो यो देवानां प्रत्यबुध्यत, स एव तदभवत् तथर्षीणाम्, तथा
मनुष्याणाम् । तद्धेतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीति, स इदं सर्वं भवति ।
तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति ।
अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरैवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युः एवमेकैकः पुरुषो
देवान् भुनक्ति । एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति, किमु बहुषु? तस्मादेषां
तन्न यम्, यदेतन्मनुष्या विद्युः ॥ १० ॥
[देवलोके इन्द्रादिक्षत्रसृष्टिः]
ब्रह्म वा इदमग्र आसीदेकमेव । तदेकं सन्न व्यभवत् । तच्छ्रेयोरूपमत्यसृजत
क्षत्रम्, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति। तस्मात् क्षत्रात् परं नास्ति । तस्मात् ब्रह्मणः क्षत्रियमधस्तात् उपास्ते
राजसूये । क्षत्र एव तद्यशो दधाति ।
सैषा क्षत्रस्य योनिर्यत् ब्रह्म । तस्मात् यद्यपि राजा परमतां गच्छति,
ब्रह्मैवान्तत उपनिः अयति स्वां योनिम् । य उ एने हिनस्ति, स्वां स योनिमृच्छेति।
स पापीयान् भवति, यथा श्रेयांसं हिंसित्वा ॥ ११ ॥
[देवलोके वैश्यादिसृष्टिः]
स नेव व्यभवत् । स विशमसृजत, यान्येतानि देवजातानि गणश
आख्यायन्ते - वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२ ॥
स नैव व्यभवत् । स शौद्रं वर्णमसृजत पूषणम् । इयं वै पूषा । इयं हीदँ
सर्वं पुष्यति, यदिदं किञ्च ॥ १३ ॥
[क्षत्र - क्षत्रभूत धर्मसृष्टिः]
स नैव व्यभवत् । स तच्छ्रेयोरूपमत्यसृजत धर्मम् । तदेतत् क्षत्रस्य क्षत्रम्, यद्धर्मः । तस्मात् धर्मात् परं नास्ति । अथो अबलीयान् बलीयाँसम् आशँसते धर्मेण, यथा राज्ञैकम् । यो वै स धर्मः सत्वं वै तत् । तस्मात् सत्यं वदन्तमाहुः धर्मं वदतीति, धर्म वा वदन्तँ सत्यं वदतीति । एतद्ध्येवैतत् उभयं भवति ॥ १४ ॥
[लोकद्वयेऽपि ब्राह्मणादिविभागः, ब्रह्मणः अविदितत्वे अरक्षकत्वम् च]
तदेतत् ब्रह्म क्षत्रं विट्छूद्रः । तदग्निनैव देवेषु ब्रह्माभवत् । ब्राह्मणो मनुष्यषु, क्षत्रियेण क्षत्रियो, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्यादग्रावेव देवेषु लोकमिच्छन्ते, ब्राह्मणे मनुष्येषु । एताभ्याँ हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात् स्वं लोकम् अदृष्ट्वा प्रैति, स एनमविदितो न भुनक्ति, यथा वेदो वा अननूक्तो अन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत् पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एव । आत्यानमेव लोकमपासीत । स य आत्यानमेव लोकमुपास्ते, न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत् कामयते, तत्तत् सृजते ॥ १५ ॥
[जीवात्मनोपि सर्वभूतलोकत्वम्]
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज्जुहोति यद्यजते, तेन देवानां लोकः । अथ यदनुब्रूते तेनर्षिणाम् । अथ यत् पितृभ्यो निपृणाति यत् प्रजामिच्छते, तेन पितृणाम् । अथ यन्मनुष्यान् वासयते, यदेभ्योऽशनं ददाति, तेन मनुष्याणाम् । अथ यत् पशुभ्यतृणोदकं विन्दति, तेन पशूनाम् । यदस्य गृहेषु श्वापदा वयाँस्यापिपीलिकाभ्य उपजीवन्ति, तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टमिच्छेत् । एवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा एतद्विदितं मीमाँसितम् ॥ १६ ॥
[आत्मनः जायापुत्रवित्तकर्मापेक्षा]
आत्मेवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यात्, अथ प्रजायेय, अथ वित्तं मे स्यात्, अथ कर्म कुर्वीयेति । एतावान् वै कामः । नेच्छँश्चनातो भूयो विन्देत् । तस्मादप्येतर्ह्येकाकी कामयते - जाया मे स्यादथ प्रजायेय, अथ वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं न प्राप्नोति अकृत्स्न एव तावन्मन्यते । तस्योकृत्स्नता - मन एवास्यात्मा । वाग् जाया प्राणः प्रजा । चक्षुः मानुषं वित्तम्, चक्षुषा हि विन्दते, श्रोत्रं दैवँ श्रोत्रेण हि तच्छृणोति आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः, पाङ्क्तः पशुः, पाङ्क्तः पुरुषः। पाङ्क्तमिदँ सर्वं यदिदं किन्च । तदिदँ सर्वमाप्नोति, य एवं वेद ॥ १७ ॥ ॥ इति तृतीयाध्याये चतुर्थब्राह्मणम् ॥
तृतीयाध्याये पञ्चमं ब्राह्मणम् सप्तान्नब्राह्मणम्
[अत्रसप्तक सृष्टिः]
यत् सप्तान्नानि मेधया तपसाऽजनयत् पिता । एकमस्य साधारणं द्वे देवानभाजयत् ॥ त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ॥ 'तस्मात्तानि' न क्षीयन्ते अद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ॥ स देवानपि गच्छति स र्जमुपजीवति ॥ इति श्लोकाः ॥
[अन्नसप्तकविवरणम्]
यत्साप्तान्नानि मेधया तपसाऽजनयत् पितेति । मेधया हि तपसाऽजनयत् पिता । एकमस्य साधारणमिति । इदमेवास्य तत् साधारणमन्नम् यदिदमद्यते । स य एतदुपास्ते, न स पाप्मानो व्यावर्तते । मिश्रँ ह्येतत् । द्वे देवानभाजयदिति हुतञ्च प्रहुतञ्च । तस्माद्देवेभ्यो जुह्वति प्र च जुह्वति । अथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति । तत्ययः । पयो ह्येवाग्रे मनुष्याश्च पशवश्चोप- जीवन्ति । तस्मात् कुमारं जातं घृतं वैवाग्रे 'प्रतिलिलेहयन्ति', स्तनं वा नु धापयन्ति। अथ वत्सं जातमाहुरतृणाद इति । तस्मिन्त्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदँ सर्वं प्रतिष्ठितम्, यच्च प्राणिति यच्च न । तद्यदिदमाहुः संवत्सरं पयसा जुह्वदपपुनर्मृत्युं जयतीति, न तथा विद्यात् । यदहरेव जुहोति, तदहः पुनर्मृत्युमपजयति । एवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । तस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ॥ इति । पुरुषो वा अक्षितिः । स हीदमन्नं पुनःपुनर्जनयते । यो वै तामक्षिर्ति वेदेति । पुरुषो वा अक्षितिः । स हीदमन्नं धिया धिया जनयते कर्मभिः । यद्वैतन्न कुर्यात्। क्षीयते ह । सोऽन्नमत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेन इत्येतत् । स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशँसा ॥ २ ॥
[आत्मार्थकॢप्तमनोवाक्प्राणात्मकान्नत्रयविवेचनम्]
त्रीण्यात्मनेऽकुरुतेति । मनो वाचं प्राणम् । तान्यात्मनेऽकुरुत । अन्यत्रमना अभूवम्, नादर्शम् ; अन्यत्रमना अभूवम् ; नाश्रौषमिति । मनसा ह्येव पश्यति, मनसा शृणोति । कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भिरित्येतत् सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यःकश्च शब्दो वागेव सा । एषा ह्यन्तमायत्ताः एषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत् सर्वं प्राण एव । एतन्मयो वा अयमात्मा; वाङ्मयो मनोमयः प्राणमयः ॥ ३ ॥
[वाङ्मनःप्राणानां स्तुतिः]
त्रयो लोका एत एव । बागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४ ॥
त्रयो वेदा एत एव । वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥५॥
देवाः पितरो मनुष्या एत एव । वागेव देवा मनः पितरः प्राणो मनुष्याः ॥६॥
पिता माता प्रजैत एव । मन एव पिता, वाङ्माता प्राणः प्रजा ॥७॥
[वाङ्मनःप्राणानां विज्ञातादिरूपत्वम् ]
विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्च विज्ञातं वाचस्तद्रूपम् । वाग्धि विज्ञाता । वागेवैनं तद्भूत्वाऽवति ॥ ८ ॥ प्र. - विज्ञातं विजिज्ञास्यमविज्ञातमेतम् एवेति प्रतिज्ञातं वाङ्मनःप्राणानां विज्ञातादिरूपत्वं क्रमेण उपपादयति खण्डत्रयेण । तत्र प्रथमं वाचः विज्ञातरूपत्वम् उपपादयति - यत्किञ्च 'विज्ञातं' वाचस्तद्रूपम् इति । यत् वाग्व्यवहारात् विज्ञातं भवति, तत्सर्वं वाचो रूपमित्यर्थः । तदेव प्रसिद्ध्या दर्शयति - वाग्धि विज्ञाता इति विज्ञाताः वाचा विज्ञायमानास्सर्वेऽपि वागेव हि । तदधीनप्रकाशत्वात् सैव इत्यर्थः ततश्च किमित्यत्राह - वागेवैनं तद्भूत्वाऽवति इति । तत् - वाचा विज्ञायमानं पदार्थजातं एनं - विज्ञातारं यत् अवति - रक्षति । उपकरोति यदिति यावत् । 'तद्विज्ञायमानं वागेव भूत्वा' अवति । वाचा विज्ञायमानेन पदार्थेन य 'उपकारो भवति'; स सर्वोऽपि वागधीन एव । तस्माद्वाच आत्मोपकारकत्वं सिद्धमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ ८ ॥ यत्किञ्च विजिज्ञास्यं, मनसस्तद्रूपं मनो हि विजिज्ञास्यम् । मन एव एनं तत्भूत्वाऽवति ॥९॥
यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो हि अविज्ञातः । प्राण एनं तद्भूत्वाऽवति ॥ १० ॥
[वागधिष्ठातृप्रदर्शनम्]
तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः । तद्यावत्येव वाक् तावती, पृथिवी तावानयमग्निः ॥११॥
[मनोऽधिष्ठातृप्रदर्शनम्]
अथैतस्य मनसः द्यौः शरीरं ज्योतीरूपमसावादित्यः । तद्यावदेव मनस्तावती- द्यौस्तावानसौ आदित्यः । तौ मिथुनँ समैताम् । ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति, य एवं वेद ॥ १२ ॥
[प्राणाधिष्ठातृप्रदर्शनम्]
अथैतस्य प्राणस्यापश्शरीरं ज्योतीरूपमसौ चन्द्रः । तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समास्सर्वेऽनन्ताः । स यो हैतानन्तवतं उपास्ते, अन्तवन्तँ स लोकं जयति अथ यो हैताननन्तानुपास्ते अनन्तँ स लोकं जयति ॥ १३ ॥
[पुरुषस्य षोडशकलचन्द्र साम्यम्]
स एष संवत्सरः प्रजापतिः षोडशकलः तस्य रात्रय एव पञ्चदशकला, ध्रुवैवास्य षोडशी कला । स रात्रिभिरेव आ च पूर्यतेऽप च क्षीयते । सोऽमावास्याँ रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेतां रात्रि प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यै तस्या एव देवताया अपचित्यै ॥ १४ ॥
[षोडशकलचन्द्रविद्याफलम्]
यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स योऽयमेवंवित् पुरुषः । तस्य वित्तमेव पञ्चदशकलाः, आत्मैवास्य षोडशी कला । स वित्तेनैव आ च पूर्यतेऽप च क्षीयते । तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं जीयते आत्मना चेज्जीवति, प्रधिनाऽगादित्येवाहुः ॥ १५ ॥
[आत्मनः वित्तविशेषसम्पाद्याः लोकाः]
अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोको विद्यया पितृलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद्विद्यां प्रशंसन्ति ॥ १६ ॥
[सम्प्रत्तिकर्म]
अथातः सम्प्रत्तिर्यदा प्रैष्यन् मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति। स पुत्रः प्रत्याह - अहं ब्रह्माहं यज्ञोऽहं लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता । ये वै के च यज्ञास्तेषाँ सर्वेषां यज्ञ इत्येकता । ये वै के च लोकास्तेषाँ सर्वेषाँ लोक इत्येकता । एतावद्वा इदँ सर्वम् । एतन्मा सर्वं सन्नयमितोऽभुनजदिति । तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः तस्मादेनमनुशासति । स यदैवंविदस्माल्लोकात् प्रैति, अथैभिरेव प्राणैः सह पुत्रमाविशति । स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति; तस्मादेनँ सर्वस्मात् पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिन् लोके प्रतितिष्ठति ॥ अथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७ ॥
[सम्प्रत्तिकर्मणः फलम्]
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै देवी वाक्, यया यद्यदेव वदति तत्तद्भवति ॥ १८ ॥
दिवश्चैनमादित्यच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ १९ ॥
अभ्द्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै देवः प्राणो यः सञ्चरश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं स यथैतां देवतां सर्वाणि भूतानि अवन्त्येवं हैवंविदं सर्वाणि भूतानि अवन्ति । यदु किञ्जेमाः प्रजाः शोचन्त्यमैवासां तद्भवति । पुण्यमेव अमुं गच्छति । न ह वै देवान् पापं गच्छति ॥ २० ॥
[मुख्यप्राणस्य श्रेष्ठत्वप्नदर्शनम्]
अथातो व्रतमीमाँसा - प्रजापतिर्ह कर्माणि ससृजे । तानि सृष्टान्यन्यो- न्येनास्पर्धन्त । वदिष्याम्येवाहमिति वाग्दध्ने । द्रक्ष्याम्यहमिति चक्षुः । श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि कर्माणि यथाकर्म । तानि मृत्युश्श्रमो भूत्वोपयेमे । तान्यानोत् । तान्याप्त्वा मृत्युरवारुन्धत् । तस्माच्छ्राम्यत्येव वाक्, श्राम्यति चक्षुः, श्राम्यति श्रोत्रम् । अथेममेव नाप्नोत्, योऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्निरे अयं वै नः श्रेष्ठो यः सञ्चरँश्चासञ्चरँश्च न व्यथते, अथो न रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे रूपमभवन् । तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति, य एवँ वेद; य उ हैवंविदा स्पर्धते, अनुशुष्य हैवान्ततो म्रियते इत्यध्यात्मम् ॥ २१ ॥
[देवताविषयक उपासनाप्रकारः, वायोः श्रेष्ठत्वकथनम्]
अथाधिदैवतम् - ज्वलिष्याम्येवाहमित्यग्निर्दघ्रे, तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाः । एवमन्या देवता यथादैवतम् । स यथैषां प्राणानां मध्यम प्राणः, एवमेतासां देवतानां वायुः । म्लोचन्ति ह्यन्या देवताः, न वायुः । सैषानस्तमिता देवता यद्वायुः ॥ २२ ॥
[प्राणनापाननविधानम्]
अथैष श्लोको भवति- यतश्चोदेति सूर्योस्तं यत्र च गच्छतीति । प्राणाद्वा एव उदेति प्राणेऽस्तमेति । तं देवाश्चक्रिरे धर्म स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यघ्रियन्त तदेवाप्यद्य कुर्वन्ति । तस्मात् एकमेव व्रतमाचरेत् - प्राण्यावाच्चैवापान्याच्य, नेन्मा पाप्मा मृत्युराप्नुवदिति । यद्यु चरेत् समापिपयिषेत् । तेनो एतस्यै देवतायै सायुज्यँ सलोकतां जयति ॥ २३ ॥ ॥ इति तृतीयोध्याये पञ्चम ब्राह्मणम् ॥
तृतीयाध्याये षष्ठं ब्राह्मणम्
[आत्मनः नामरूपकर्मत्रयात्मत्वम्]
त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नाम् वागित्येतदेषामुक्थम् ।अतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषाँ साम ; एतद्धि सर्वैर्नामभिस्समम् । एतदेषां ब्रह्म । एतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥
अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषाँ सामः एतद्धि सर्वैरूपैः समम् । एतदेषां ब्रह्म। एतद्धि सर्वाणि रूपाणि बिभर्ति ॥२॥
अथ कर्मणाम् - आत्मेत्येतदेषामुक्थम्।
अतो हि सर्वाणि कर्माण्यु- त्तिष्ठन्ति । एतदेषाँ साम; एतद्धि सर्वेः कर्मभिस्समम् । एतदेषां ब्रह्म; एतनि सर्वाणि कर्माणि बिभर्ति । तदेत् त्रयँ सदेकमयमात्मा । आत्मो एकस्सन्नेतत्रयम् । तदेतदमृतँ सत्येन च्छन्नम् । प्राणो वा अमृतम्, नामरूपे सत्यम् । ताभ्यामयं 'प्राणश्छन्नः ॥ ३ ॥
Chapter - 2
चतुर्थोऽध्यायः प्रथमब्राह्मणम् - बालाकिविद्या
[गार्ग्यजातशत्रुसंवादः]
दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यम्, ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः, सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ॥ १ ॥
[अजातशत्रवे आदित्यब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एवमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः, अतिष्ठास्सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ॥ २ ॥
[चन्द्रब्रह्मोपदेशः] स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठा बृहति पाण्डरवासाः सोमोराजेति वा अहमेतमुपास इति, स य एतमेवमुपास्ते अहरहर्ह सुतः प्रसुतो भवति, नास्यान्नं क्षीयते ॥३॥
[विद्युद्ब्रह्मोपदेशः] स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचजातशत्रुर्मामैतस्मिन् संवदिष्ठाः, तेजस्वीति वा अहमेतमुपास इति, स य एतमेवमुपास्ते तेजस्वी ह भवति, तेजस्विनी हास्य प्रजा भवति ॥ ४ ॥
[आकाशब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः, पूर्णमप्रवर्तीति वा अहमेतमुपास इति, स य एतमेवमुपास्ते पूर्यते ह प्रजया पशुभिर्नास्यास्माल्लोकात् प्रजोद्वर्तते ॥ ५ ॥
[वायुब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन्, संवदिष्ठाः इन्द्रो वैकुण्ठोऽपराजिताः सेनेति वा अहमेतमुपास इति, स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६ ॥
[अग्निब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायं अग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठा विषासहिरिति वा अहमेतमुपासे इति, स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिास्य प्रजा भवति ॥ ७ ॥
[अब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचा- जातशत्रुर्मा मैतस्मिन् संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति, स य एतमेवमुपास्ते प्रतिरूपँ हैवैनमुपगच्छति नाप्रतिरूपमयो प्रतिरूपोऽस्माज्जायते ॥ ८ ॥
[आदर्शब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठाः रोचिष्णुरिति वा अहमेतमुपास इति, स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः संनिगच्छति सर्वास्तानतिरोचते ॥ ९ ॥
[शब्दब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामेतस्मिन् संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिन् लोके आयुरेति नैनं पुरा कालात् प्राणो जहाति ॥ १० ॥
[दिग्ब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एवमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठाः द्वितीयोऽनपगः इति वा अहमेतमुपासे इति, स य एतमेवमुपास्ते द्वितीयवान् ह भवति नास्माद्गणश्छिद्यते॥ ११ ॥
[छायाब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायं छायामयः पुरुष एवमेवाहं ब्रह्मोपास इति ।स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठाः मृत्युरिति वा अहमेतमुपास इति, स य एतमेव मुपास्ते सर्वं हैवास्मिन् लोके आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥१२॥
[पुरुषब्रह्मोपदेशः] स होवाच गार्ग्यो य एवायमात्मनि पुरुष एवमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठा आत्मन्वीति वा अहमेतमुपासे इति, स य एतमेवमुपास्ते आत्मन्वीह भवत्यात्मन्विनी हास्य प्रजा भवति । स ह तूष्णीमास गार्ग्यः ॥ १३॥
[गार्ग्येण तत्त्वज्ञानाय शिष्यवत् अजातशत्रूपसदनम्] स होवाचाजातशत्रुरेतवात्रू–३ इति । एतावद्धीति । नैतावता विदितं भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४ ॥
[क्षत्रियेण ब्राह्मणानुपनीयोपदेशः] स होवाचाजातशत्रुः प्रतिलोमं वै तद्यद्ब्राह्मण क्षत्रियमुपेयात् ब्रह्म मे वक्ष्यतीति, व्येव त्वा ज्ञापयिष्यामीति । तं प्राणादायोत्तस्थौ । तौ ह पुरुषँ सुप्तमाजग्मतुः । तमेतैर्नामभिरामन्त्रयाञ्चक्रे, बृहन् पाण्डरवासः सोमराजन्निति । स नोत्तस्थौ । तं पाणिना पेषं बोधयाञ्चकार । स होत्तस्थौ ॥ १५ ॥
[सुप्तपुरुषस्य स्वरूपप्रतिपादनम्] स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्, य एष विज्ञानमयः पुरुषः,क्वेष तदाभूत् कुत एतदागादिति, तदु ह न मेने गार्ग्यः ॥ १६ ॥
[आत्मनः स्वरूपनिरूपणम्] स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्, य एष विज्ञानमयः पुरुषः, तदैषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशः तस्मिञ्छेते । तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम । तद्गृहीत एव प्राणो भवति, गृहीता वाग् गृहीतं चक्षुर्गृहीतँ श्रोत्रं गृहीतं मनः ॥ १७ ॥
[विज्ञानात्मनः स्वप्नावस्था] स यत्रैतत् स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवति उतेव महाब्राह्मण उतेव उच्चावचं निगच्छति स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं 'परिवर्तते', एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८ ॥
[आत्मनः सुषुप्त्यवस्था]
अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद, हिता नाम नाड्यो द्वासप्तति सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीत, एवमेवैष एतच्छेते ॥ १९ ॥
स यथोर्णनाभिस्तन्तुनोच्चरेत्, यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति . एवमेवारमादात्मनस्सर्वे प्राणाः सर्वे लोका सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ॥ तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेष सत्यम् ॥ २०॥ ॥ इति चतुर्थाध्याये प्रथमब्राह्मणम् ॥
चतुर्थाध्याये द्वितीयं ब्राह्मणम् शिशुब्राह्मणम्
[शिशुसंज्ञकमध्यमप्राणस्योपासनम् ]
यो ह वै शिशं साधानँ सप्रत्याधानँ सस्थूणं सदामं वेद । सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योयं मध्यमः प्राणः । तस्येदमेवाधानमिदं प्रत्याधानम् । प्राणस्स्थूणान्नं दाम ॥ १ ॥
[प्राणस्य सप्त अक्षितयः]
तमेतास्सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा लोहिन्यो राजयस्ताभिरेनँ रुद्रोन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनिका तया आदित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरतया । नास्यान्नं क्षीयते य एवं वेद ॥ २ ॥
[शिरसः चमसत्वकथनम्]
तदेष श्लोको भवति- अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यज्ञो निहितं विश्वरूपम् । तस्यासत ऋषयस्सप्त तीरेवागष्टमी ब्रह्मणा संविदाना ॥ इति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । इदं 'तच्छिरः । एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपमिति । प्राणा वै यशो निहितं विश्वरूपम् ।
प्राणानेतदाहा तस्यासत ऋषयस्सप्त तीरे इति । प्राणा वा ऋषयः प्राणानेदाह । वागष्टमी वाग्ध्यष्टमी ब्रह्मणा संवित्ता' ॥ ३ ॥
[श्रोत्रादिषु सप्तऋषित्व दृष्टिः]
इमावेव गौतम भरद्वाजौ अयमेव गौतमौयं' भरद्वाजः इमावेव विश्वामित्र- जमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निः, इमावेव वसिष्ठकश्यपौ अयमेव वसिष्ठोऽयं कश्यपः ॥ वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्रिर्ह वै नामैतद्यदत्तिरिति । सर्वस्यात्ता भवति, सर्वमस्यान्नं भवति, य एवं वेद ॥ ४ ॥ ॥ इति चतुर्थाध्याये द्वितीयब्राह्मणम् ॥
मूर्तामूर्तब्राह्मणम् [ब्रह्मणः रूपद्वयम्]
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सञ्च त्यच्च ॥ १ ॥
[मूर्तस्वरूपम्] तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् सत्तस्यैतस्य मूर्तस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥२॥
[अमूर्तस्वरूपनिरूपणम्] अथामूर्तं वायुश्चान्तरिक्षञ्चः एतदमृतमेतद्यदेतत्त्यत् । तस्यै तस्यामूर्तस्यै- तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषः । त्यस्य ह्येष रस इत्यधिदैवतम् ॥ ३ ॥
[अध्यात्म-मूर्त-निरूपणम्] अथाध्यात्ममिदमेव मूर्तं यदन्यत् प्राणाच्च यश्चायमन्तरात्मन्नाकाशः एतन्मर्त्य मेतस्थितमेतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः । सतो ह्येष रसः ॥ ४ ॥
[अध्यात्मम् अमूर्तनिरूपणम्] अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, एतदमृतमेतद्यदेतत्यत् । तस्यै- तस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणोऽक्षन् पुरुषः । त्यस्य ह्येषरसः ॥ ५ ॥
['नेति नेति' इति ग्रहणम् 'सत्यस्य सत्यम्' इत्येतद्विवरणम्] तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् । सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद अथात आदेशो नेति नेति। न ह्येतस्मादिति नेत्यन्यत् परमस्ति । अथ नामधेयं सत्यस्य सत्यमिति । प्राणा वै सत्यम्। तेषामेष सत्यम् ॥ ६ ॥ ॥
इति चतुर्थाध्याये तृतीयं ब्राह्मणम् ॥
चतुर्थाध्याये चतुर्थं ब्राह्मणम् ॥ प्रथम मैत्रीयी ब्राह्मणम् ॥
[ याज्ञवल्क्यमैत्रेयी संवादः] मैत्रेयीति होवाच याज्ञवल्क्यः, उद्यास्यन् वा अरेऽहमस्मात् स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ १ ॥
[अमृतत्वसाधननिरूपणम्] सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्यां इति । नेति होवाच याज्ञवल्क्यः; यथैव उपकरणवतां जीवितम्, तथैव ते जीवितम् स्यात्। अमृतत्वस्य तु नाशाऽस्ति वित्तेनेति ॥ २ ॥
[मैत्रय्या अमृतत्वसाधनविद्याप्रार्थनम्] सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद मे ब्रूहीति ॥ ३ ॥
[याज्ञवल्क्येन उपदेशप्रतिज्ञा] स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥
[ब्रह्मविद्योपदेशः] स होवाच - न वा अरे पत्युः कामाय पतिः प्रियो भवति । आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति । आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति । आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति । आत्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति । आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवति । आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति । आत्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्ति । आत्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति । आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः मैत्रेयि! आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितं भवति ॥ ५ ॥
[सर्वं ब्रह्मात्मकम् इति दृष्टान्तेन निरूपणम्] स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्रुयात् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः॥ ७ ॥
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्रुयात् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मानस्य वा शब्दो गृहीतः॥ ८॥
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्रुयात् ग्रहणाय, वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
[सर्वं ब्रह्मात्मकमेव]
स यथाऽऽर्द्रैधाग्नेरभ्याहितात् पृथक् धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्येवैतानि सर्वाणि निश्श्वसितानि ॥ १० ॥
[परमात्मनः सर्वायनत्वनिरूपणम् ]
स यथा सर्वासामपां समुद्र एकायनम् - एवं सर्वेषां स्पर्शानां स्वगेकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां गन्धानां नासिकैकायनमेवं सर्वेषां रूपाणां चक्षरेकायनमेव सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सहकल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थं एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ॥ ११ ॥
बृहदारण्यकोपनिषत् चतुर्थोऽध्यायः
[परमात्मोपासनं मोक्षकारणत्वम्]
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत;
न हास्योद्ग्रहणायैव स्याद्
यतो यतस् त्व् आददीत
लवणम् एवैवं वा अरे
इदं महद्भूतम् अनन्तम् अपारं
विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय
तान्य् एवानुविनश्यति
न प्रेत्य संज्ञास्तीत्य् अरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १२ ॥
सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहत्, न प्रेत्य संज्ञास्तीति । स होवाच याज्ञवल्क्यो न वा अरेऽहं मोहं ब्रवीम्यलं वा अरे इदं विज्ञानाय ॥ १३ ॥
[न प्रेत्य संज्ञास्ति' इत्यस्य विवरणम् ] यत्र हि द्वैतमिव भवति, तदितर इतरं जिघ्रति, तदितर इतरं पश्यति, तदितर इतरं श्रृणोति, तदितर इतरमभिवदति, तदितर इतरं मनुते, तदितर इतर विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत्, तत् केन कं जिघ्रेत्, तत्केन कं पश्येत्, तत्केन कं शृणुयात्। तत् केन कमभिवदेत्, तत्केन कं मन्वीत, तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति, तं केन विजानीयात् । विज्ञातारमरे केन विजानीयादिति ॥ १४ ॥ ॥ इति चतुर्थाध्याये चतुर्थब्राह्मणम् ॥
इमा आपः सर्वेषां भूतानां मध्वासामपाँ सर्वाणि भूतानि यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो याचायमध्यात्मँ रेतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ २ ॥
अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि मधु यश्चायमस्तिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्ग्मयस्तेजोमयीऽमतमयपुरूषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥३॥
अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु। यश्चाय- मस्मिन्वायौ तेजोपयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ ४ ॥
अयमादित्यः सर्वेषां भूतानां मध्वस्यादित्यस्य सर्वाणि भूतानि मधु। यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजो- मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम्॥५॥
इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु । यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो याचायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ ६ ॥
अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु । यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ ७ ॥
इयं विद्युत्सर्वेषां भूतानां मधु । अस्यै विद्युतः सर्वाणि भूतानि मधु । यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायध्यात्मं तैजसस्तेजो- मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ ८ ॥
यं स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु । यश्चायमस्मिंस्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरः तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥९॥
अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ हृद्याकाशस्तेजो- मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ, सर्वम् ॥१०॥
अयं धर्मः सर्वेषां भूतानां मध्वस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्धर्म तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ ११ ॥
इदं सत्य सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् सत्ये, तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ १२ ॥
इदँ मानुषं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजो- मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ १३ ॥
अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु । यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ १४ ॥
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानाँ राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः, एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मनः समर्पिताः ॥ १५ ॥
[मधुविद्यास्तुत्यर्था आख्यायिका]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् . तद्वां नरा सनये दस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्णा प्रयदीमुवाचेति' ॥ १६ ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् - आथर्वणायाश्विनौ दधीचेऽश्व्यँ (श्वियँ) शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ॥ १७ ॥
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यतन्नवोचत्- पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् इति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नानेन किञ्चनानावृतं नानेन किञ्चिनासंवृतम् ॥ १८ ॥
[परमात्मनः सर्वात्मत्वम्]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् - रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयश्शता दर्शति । अयं वै हरयोऽयं वै दश च शतानि सहस्राणि बहूनि चानन्तानि च । तदेतत् ब्रह्मापूर्वमनपरमनन्तमबाह्यमात्मा ब्रह्म सर्वानुभूरित्यनु- शासनम् ॥ १९ ॥ ॥ इति चतुर्थाध्याय पञ्चमब्राह्मणम् ॥
चतुर्थाध्याय षष्ठं ब्राह्मणम् वंशब्राह्मणम् [मधुविद्यास्तुतये वंशब्राह्मणम्]
अथ वँशः - पौतिमाष्यो गौपवनात्, गौपानः पौतिमाष्यात् , पौतिमाष्यो गौपवनात्, गौपवनः कौशिकात् , कौशिकः कौण्डिन्यात् , कौण्डिन्यश्शाण्डिल्यात्, शाण्डिल्यः कौशिकाच्च, गौतमाच्च गौतमः ॥१॥
आग्निवेश्यात्, आग्निवेश्यः शाण्डिल्यच्च आनभिम्लताच्च, आनभिम्लात आनभिम्लातात्, आनभिम्लत आनभिम्लातात्, आनभिम्लातो गौतमात्, गौतमः सैतवप्राचीनयोग्याभ्याम्, सैतवप्राचीनयोग्यौ पाराशर्यात्, पाराशर्यः भारद्वाजात्, भारद्वाजो भारद्वाजच्च गौतमाच्च, गौतमो भारद्वाजात्, भारद्वाजः, पाराशर्यात्, पाराशर्यो बैजवापायनात्, बैजवापायनः कौशिकायने; कौशिकायनिः ॥२॥
घृतकौशिकात्, घृतकौशिकः पाराशर्यायणात्, पाराशर्यायणः पाराशर्यात्, पाराशर्यो जातूकर्ण्यात्, जातूकर्ण्य आसुरायणाच्च यास्काच्च, आसुरायणस्रैवणेः, त्रैवणिरौपजन्धनेः, औपजन्धनिरासुरेः, आसुरिर्भारद्वाजात्, भारद्वाज आत्रेयात्, आत्रेयो माण्डेः, माण्डिर्गौतमात्, गौतमो (गौतमात्) वात्स्यात्, वात्स्यः शाण्डिल्यात्, शाण्डिल्यः कैशोर्यात् काप्यात्, कैशोर्यः काप्यः कुमारहारितात्, कुमारहारितो गालवात्, गालवो विदर्भीकौण्डिन्यात्, विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात्, वत्सनपाद्वाभ्रवः पथः सौभरात्, पन्थाः सौभरोऽयास्यादाङ्गिरसात्, अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात्, आभूतिस्त्वाष्ट्रः विश्वरूपात् त्वाष्ट्रात्, विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम्, अश्विनौ दधीच आथर्वणात्, दध्यङ्ङाथर्वणोऽथर्वणो दैवात्, अथर्वा दैवो मृत्योः प्राध्वँसनात्, मृत्युः प्राध्वँसनः प्रध्वँसनात्, प्रध्वँसन एकर्षेः, एकर्षिविप्रचित्तेः, विप्रचित्तिर्यष्टेः, व्यष्टिः सनारोः, सनारुः सनातनात्, सनातनः सनकात्, सनकः परमेष्ठिनः, परमेष्ठी ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः ॥ ३ ॥
Chapter - 3
पञ्चमोऽध्यायः ।
प्रथमं ब्राह्मणम् ।
[अश्वलब्राह्मणम्]
जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदैहस्य विजिज्ञासा बभूव, कःस्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाँ सहस्रमवरुरोध । दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १ ॥
[यजे जनकन गोसहस्रपणकथनम् , याज्ञवल्क्येन यागस्वीकरणम्] तान् । होवाच, ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुः । अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैता; सोप्योदज सापश्रवा ३ इति । ता 'होदकालयत्' । ते ह ब्राह्मणाश्चुक्रुधुः, कथं नो ब्रह्मिष्ठो ब्रवीतेति । अथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव - सहैनं पप्रच्छ, त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी ३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयँ स्म इति । तै ह तत एव प्रष्टुं दध्रे होताऽश्वलः ॥ २ ॥
अश्वलस्य प्रथमः प्रश्नः
[कर्ममृत्युना अतिमुक्तिः] याज्ञवल्क्येति होवाच, यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाऽभिपन्नम्, केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाऽग्निना वाचा । वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः, स होता, स मुक्तिः, साऽतिमुक्तिः ॥ ३ ॥
[तिथ्यादिकालादप्यतिमुक्तिः]
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तँ सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नम्, केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति । उद्गात्रर्त्विजा वायुना प्राणेन । प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः, स उद्गाता, स मुक्तिः साऽतिमुक्तिः ॥ ५ ॥
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव, केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः, स ब्रह्मा, स मुक्तिः, सोऽतिमुक्तिः । इत्यतिमोक्षाः । अथ सम्पदः ॥ ६ ॥
[फलप्रापकाः सम्पदः] याज्ञवल्क्येति होवाच, कतिभिरयमद्यभिौताऽस्मिन् यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव च तृतीया । किं ताभिः जयतीति । यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति; या हुता अतिनेदन्ते; या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति, देवलोकमेव ताभिर्जयति । दीप्यत इव हि देवलोकः । या हुता अतिनेदन्ते, पितृलोकमेव ताभिर्जयति । एवमिव हि पितृलोकः । या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति । अथ इव हि मनुष्यलोकः ॥ ८ ॥
याज्ञवल्क्येति होवाच - कतिभिरयमद्य ब्रह्म यज्ञं दक्षिणतो देवताभि- र्गोपायतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥
[उद्गातृकर्म तत्फलं च] याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञेस्तोत्रियाः स्तोष्यतीति। तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव च तृतीया। कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्या, अपानो याज्या, व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्वया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताश्वलः उपरराम ॥ १० ॥ ॥ इति पञ्चमाध्याये प्रथमब्राह्मणम् ॥
पञ्चमाध्याये द्वितीयं ब्राह्मणम् जारत्कारवब्राह्मणम्
[ग्रहातिग्रहविषये प्रश्नः उत्तरञ्च]
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच, कति ग्रहाः, कत्यतिग्रहा इति । अष्टाग्रहा अष्टावतिग्रहा इति । य एते अष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १ ॥
[प्राणस्य प्रहातिमहत्वकथनम् ] प्राणो ये ग्रहः, सोऽपानेनातिग्रहेण गृहीतः । अपानेन हि गन्धान् जिघ्रति ॥२॥
[वागादीनां ग्रहातिग्रहत्व कथनम्] वाग्वै ग्रहः, स नाम्नाऽतिग्रहेण गृहीतः । वाचा हि नामान्यभिवदति ॥ ३ ॥ जिह्वा वै ग्रहः, स रसेनातिग्रहेण गृहीतः । जिह्वया हि रसान् विजानाति ॥ ४ ॥ चक्षुर्वै ग्रहः; स्वरूपेणातिग्रहेण गृहीतः । चक्षुषा हि रूपाणि पश्यति॥ ५ ॥ श्रोत्रं वै ग्रहः, स शब्देनातिग्रहेण गृहीतः । श्रोत्रेण हि श्ब्दाच्छृणोति ॥ ६ ॥ मनो वै ग्रहः, स कामेनातिग्रहेण गृहीतः । मनसा हि कामान् कामयते ॥ ७ ॥ हस्तौ वै ग्रहः, स कर्मणाऽतिग्रहेण गृहीतः । हस्ताभ्याँ हि कर्म करोति ॥ ८ ॥ त्वग्वै ग्रहः, स स्पर्शेनातिग्रहेण गृहीतः । त्वया हि स्पर्शान् वेदवते । इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥९॥
[मृत्यु जयोपायः] याज्ञवल्क्येति होवाच, यदिदँ सर्वं मृत्योरन्नम्, का स्वित् सा देवता यस्या मृत्योरन्नमिति । अग्निर्वै मृत्युः सोऽपामन्नम् । अप पुनर्मृत्युं जयति, य एवं वेद ॥ १० ॥
[आत्मनः प्राणोत्क्रमणाभावः]
याज्ञवल्क्येति होवाच, यन्नायं पुरुषो म्रियते, उदस्मात् प्राणा क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्यः, अत्रैव समवनीयन्ते । स उच्छ्वयत्याध्यायत्याध्मातो मृतश्शेते ॥ ११ ॥
याज्ञवल्क्येति होवाच, यत्रायं पुरुषो म्रियते, किमेनं न जहातीति । नामेति । अनन्तँ ह वै नाम; अनन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ॥ १२ ॥
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्य अग्निं वागप्येति वातं
प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशःश्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लामानि वनस्पतीन् केशाः, अप्सु लोहितञ्च रेतश्च निधीयते, क्वायं तदा पुरुषो भवतीति । आहर सोम्य हस्तमार्तभाग! आवामेवैतस्य वेदिष्यावो न नावेतत् स जन इति । तो होत्क्रप्य मन्त्रयाचक्राते । तो ह यदृचुतः कर्म ह वै तदूचुतुः । अथ यत्
प्रशशँसतुः, कर्मह वै तत् प्रशशँसतुः, पुण्यो वै पुण्येन कर्मणा भवति; पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३ ॥ ॥ इति पञ्चमाध्याये द्वितीय ब्राह्मणम् ॥
पञ्चमाध्याये तृतीयं ब्राह्मणम् भुज्युब्राह्मणम्
[पारिक्षिताः कुत्रगताः' इति मृत्युप्रश्नः]
अथ हैनं भुज्यु र्लाह्यायनिः' पप्रच्छ । याज्ञवल्क्येति होवाच - मद्रेषु चरकाः पर्यव्रजाम । ते पतञ्जलस्य काप्यस्य गृहानैम । तस्यासीद्दुहिता गन्धर्वगृहीता । तमपृच्छाम् कोऽसीति । सोऽब्रवीत् सुधन्वाङ्गीरस इति । तं यदा लोका- नामन्तानपृच्छाम, अतैनं ब्रूम क्व परिक्षिता अभवन्निति । क्व पारिक्षिता अभवन् ? स त्वा पृच्छामि, याज्ञवल्क्य! क्व पारिक्षिता अभवन्निति ॥ १ ॥
[गन्धर्वाभिहितरीत्या याज्ञवल्क्येन प्रत्युत्तरम्]
स होवाच उवाच वै स्म सोऽगच्छन् वै ते तत् यत्र अश्वमेधयाजिनो गच्छन्तीति । क्वन्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिंशतं वै देवरथाह्वयान्ययं लोकः। तं समन्तं पृथिवी द्विस्तावत् पर्येति । ताँ समन्तं पृथिवीं द्विस्तावत् समुद्रः पर्येति तद्यावती क्षुरस्य धारा, यावद्वा मक्षिकायाः पर्त्रम्, तावानन्तरेणाकाशः । तानिन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् ; तान् वापरात्यनि धित्वा तत्रागमयत् यत्राश्वमेध- वाजिनोऽभवन्निति । एवमिव वै स वायुमेव प्रशशँस । तस्मात् वायुरेव व्यष्टिर्वायु- स्समष्टिः । अपपुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २ ॥
पञ्चमाध्याये चतुर्थं ब्राह्मणम् उपस्तब्राह्मणम्
[उपस्तेन ब्रह्मात्मस्वरूपप्रश्नः]
अथ है नमुपस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच, यः साक्षादपरोक्षब्र्दह्मा च आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेन उदानिति स त आत्मा सर्वान्तरः, एष त आत्मा सर्वान्तरः ॥ १ ॥
[आत्मलक्षणकथनम्]
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसो गौरसावश्व इति, एवमेवै- तव्द्यपदिष्टं भवति; यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्या सर्वान्तरः। कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुयाः न मतेर्मन्तारं मन्वीथाः, न विज्ञातःविज्ञातारं विजानीयाः, एष त आत्मा सर्वान्तरः। अतोऽन्यदार्तम् । ततो होषस्तश्चाक्रायण उपरराम ॥ २ ॥
पञ्चमाध्याये पञ्चमं ब्राह्मणम् कहोलग्राहाणम्
[एषणात्रयव्युत्थानवर्णनम्, बाल्यपाण्डित्यमौनविधानम् ]
अथ हैनं कहोलः कौषीतकेयः पप्रच्छ । याज्ञवल्क्येति होवाच, यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च । व्युत्थाय अथ भिक्षाचर्यं चरन्ति । या होव पुत्रैषणा; सा वित्तैषणा, या वित्तैषणा, सा लोकैषणा; उभे ह्येते एषणे, एव भवतः । तस्मात् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुनिः । अमौनञ्च मौनञ्च निर्विद्याथ ब्राह्मणः। स ब्राह्मणः केन स्यात् । येन स्यात् तेनेदृश एव । अतोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १ ॥
पञ्चमाध्याये षष्ठब्राह्मणम् गार्गीब्राह्मणम् - ओतप्रोतब्राह्मणम् [गार्ग्याः अबाद्याधाराणा प्रश्नाः उत्तराणि च] अथ हेन गार्गी बाचक्रवी पप्रच्छ । याज्ञवल्क्येति होवाच यदिदँ सर्वमप्स्वोतञ्च । प्रोतञ्च, कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति । अन्तरिक्षलोकेषु गार्गाति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति । आदित्यलोकेषु वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति गार्गीति । कस्मिन्नु खल्चादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति। कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति । इन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु इन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति। स होवाच गार्गि! माऽतिप्राक्षीः, मा ते मूर्धा व्यपप्तत् । अनति प्रश्न्यां वे देवतामतिपृच्छसि गार्गि! माऽतिप्राक्षीरिति॥ ततो ह गार्गी वाचक्रव्युपरराम ॥ १ ॥
पञ्चमाध्याये सप्तमं ब्राह्मणम् अन्तर्यामिब्राह्मणम्
[उहालकस्य सूत्रान्तर्याम्युभयविषयकः प्रश्नः]
अथ हैनमुद्दालक आरुणिः पप्रच्छ । याज्ञवल्क्येति होवाच, मद्रेष्वव- साम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम, कोऽसीति । सोऽब्रवीत्, कबन्ध आथर्वण इति ॥ १ ॥
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तत् सूत्रम्, येनायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तद् भगवन् वेदेति ॥ २ ॥
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तमन्तर्यामिणम्, य इमञ्च लोकं परञ्च लोकँ सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगवन् वेदेति ॥ ३ ॥
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, यो वै तत् काप्य! सूत्रं विद्यात् तञ्चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति । तेभ्योऽब्रवीत् । तदहं वेद । तच्चेत् त्वं याज्ञवल्क्य! सूत्रमविद्वाँस्तञ्चान्तर्यामिणं ब्रह्मगवीरुदजसे, मूर्धा ते विपतिष्यतीति ॥ ४ ॥
वेद वा अहं गौतम! तत् सूत्रं तञ्चान्तर्यामिणमिति । यो वा इदं कश्चित् ब्रूयात् वेद वेदेति; यथा वेत्थ, तथा ब्रूहीति ॥ ५ ॥
[वायुः सूत्रमिति प्रत्युत्तरम्] स होवाच - वायुर्वै गौतम! तत् सूत्रम् । वायुना वै गौतम! सूत्रेणायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम! पुरुषं प्रेतमाहुः, व्यस्रँसिषतास्याङ्गानीति । वायुना हि गौतम । सूत्रेण सन्दृब्धानि भवन्तीति । एवमेवैतत् याज्ञवल्क्य! अन्तर्यामिणं ब्रूहीति ॥ ६ ॥
[अन्तर्यामिणः सूत्रनियन्तृत्वम्] यः पृथिव्यां तिष्ठन्, पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरम्, यः पृथिवीमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ७ ॥
योऽप्सु तिष्ठन्नद्भयोऽन्तरो यमापो न विदुर्यस्यापश्शरीरं, योऽपोऽन्तरो वामयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ८ ॥
योऽग्नौ तिष्ठम्नग्रेरन्तरो यमग्निर्न वेद, यस्याग्निश्शरीरं, योऽग्निमन्तरो यमयति, एषा आत्माऽन्तर्याम्यमृतः ॥ ५ ॥
योऽन्तरिक्षे तिष्ठन्तरिक्षादन्तरो यमन्तरिक्षं न वेद, यस्यान्तरिक्षं शरीरम्, योऽन्तरिक्षमन्तरो यमयति, एष त आत्मान्तर्याप्यमृतः ॥ १० ॥
यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद, यस्य वायुः शरीरम् , यो वायुमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ ११ ॥
यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद, यस्य द्यौश्शरीरम्, यो दिवमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १२ ॥
य आदित्येतिष्ठन्नादित्यादन्तरो यमादित्यो न वेद, यस्यादित्यश्शरीरम् , य आदित्यमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १३ ॥
यो दिग्क्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशश्शरीरम्। यो दिशोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १४ ॥
याचन्द्रतारके तिष्ठँश्चन्द्रतारकादन्तरो यं चन्द्रतारकँ न वेद, यस्य चन्द्रतारकँ शरीरम्, यश्चन्द्रतारकमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १५ ॥
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद, यस्याकाशश्शरीरम्, य आकाशमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १६ ॥
यस्तमसि तिष्ठँस्तमसोऽन्तरो यं तमो न वेद, यस्य तमश्शरीरम्, यस्तमोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ १७ ॥ यस्तेजसि तिष्ठँस्तेजसोऽन्तरो यं तेजो न वेद, यस्य तेजश्शरीरम्, यस्तेजोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः । इत्यधिदैवतम् । अथाधिभूतम् ॥ १८ ॥
यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यँ सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरम्, यः सर्वाणि भूतान्यन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः । इत्यविभूतम् । अथाध्यात्मम् ॥ १९ ॥
यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद, यस्य प्राणश्शरीरम्, यः प्राणमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २० ॥
यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद, यस्य वाक् शरीरम्, यो वाचमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ २१ ॥
यश्चक्षुषि तिष्ठन् चक्षुषोऽन्तरो यं चक्षुर्न वेद, यस्य चक्षुश्शरीरम्, यश्चक्षुरन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २२ ॥
यश्श्रोत्रे तिष्ठन् श्रोत्रादन्तरो यँ श्रोत्रं न वेद, यस्य श्रोत्रँ शरीरम्, यश्श्रोत्रमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २३ ॥
यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो न वेद यस्य मनश्शरीरम्, यो मनोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २४ ॥
यस्त्वचि तिष्ठँस्त्वचोऽन्तरो यँ त्वङ् न वेद, यस्य त्वक् शरीरम् यस्त्वचमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ॥ २५ ॥
यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद, यस्य विज्ञानं शरीरम्, यो विज्ञानमन्तरो यममति, एष त आत्माऽन्तर्याम्यमृतः ॥ २६ ॥
यो रेतसि तिष्ठन् रेतसोऽन्तरो यँ रेतो न वेद, यस्य रेतश्शरीरम्, यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । अदृष्टो द्रष्टा, अश्रुतश्श्रोत, अमतो मन्ता, अविज्ञाता विज्ञाता, नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्त श्रोता, नान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति विज्ञाता; एष त आत्माऽन्तर्याम्यमृतः । अतोऽन्यदार्तम् । ततो होद्दालक आरुणिरुपरराम ॥ २७ ॥
पञ्चमाध्याये अष्टमं ब्राह्मणम् वाचक्नवीब्राह्मणम्
[गार्ग्याः ब्राह्मणान् प्रति प्रश्नानुज्ञा प्रार्थना]
अथ ह वाचक्नवी उवाच-ब्राह्मणा भगवन्तो हन्त! अहमिमं द्वौ प्रश्नौ प्रक्ष्यामि । 'तौ चेन्मे' वक्ष्यति, न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति, पृच्छ गार्गीति ॥ १ ॥
सा होवाच अहं वै याज्ञवल्क्य! यथा काश्यो वा वैदेहो वोप्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वा उपोत्तिठे देवमेवाहं त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २ ॥
[सूत्रं कस्मिन् ओतं प्रोतं इति प्रश्नः]
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवञ्च भविष्यच्चेत्याचक्षतेः कस्मिंस्तदोतञ्च प्रोतञ्चेति ॥
[सूत्रमाकाशे ओतं प्रोतम् इति उत्तरम्']
स होवाच यदूर्ध्वं गार्गि! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते, आकाशे तदोतञ्च प्रोतञ्चेति ॥ ४ ॥
प्रोतञ्चेति । हे गार्गि! यदूर्ध्वमित्यादि त्वदुक्तं, सर्वमाकाशे ओतञ्च प्रोतञ्च इत्यर्थः । आकाशशब्देन चात्र न वायुमदम्बरं गृह्यते । तस्य सर्वविकाराश्रयत्वाभावात् । किन्त्व- व्याकृताकाशः । एतच्च, अक्षरमम्बरान्तधृतेः (ब्र.सू.१-३-९) इत्यत्र स्थितम् । शिष्टं पूर्ववत् ॥ ४ ॥ सा होवाच नमस्तेऽस्तु याज्ञवल्क्य! यो म एतं व्यवोचः । अपरस्मै धारयस्वेति । पृच्छ गार्गीति ॥ ५ ॥
['आकाशः कस्मिन्, ओतः प्रोत' इति प्रश्नः]
सा होवाच यदूर्ध्वं याज्ञवल्क्य! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते - कस्मिंस्तदोतञ्च प्रोतञ्चेति । आकाश एव तदोतं च प्रोतं चेति ॥ ६ ॥
[अक्षरस्य प्रशासितुः प्रतिपादनेन प्रत्युत्तरम्]
स होवाच - एतद्वै तदक्षरं गार्गि । ब्राह्मणा अभिवदन्ति अस्थूलमनण्वहस्वम् अदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वानाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्र- मवागमनोऽतेजस्कमप्राणममुखमात्रमनन्तरमबाह्यम् । न तदश्नाति किञ्चन । न तदश्नाति कश्चन ॥ ७ ॥
एतस्य वा अक्षरस्य प्रशासने गार्गि! सूर्याचन्द्रमसो विधृतो तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यो विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि! निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवसंवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यस्स्यन्दन्त श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां याञ्च दिशमनु । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रर्शंसन्ति, यजमानं देवा दवीं पितरोऽन्वायत्ताः ॥ ८ ॥
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति । यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मात् लोकात् प्रैति, स कृपणः । अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति, स ब्राह्मणः ॥ ९ ॥
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्र श्रुतँश्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ । नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ १० ॥
[गार्ग्या याज्ञवल्क्य प्रशंसा]
सा होवाच ब्राह्मणा भगवन्तः। तदेव बहमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वम् । न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । ततो ह वाचक्नव्युपरराम ॥ ११॥
पञ्चमाध्याये नवमब्राह्मणम् शाकलब्राह्मणम्
[शाकल्येन देवताविषयकप्रश्नः]
अथ हैनं विदग्धः शाकल्यः पप्रच्छ, कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे, यावन्तो वैश्वदेवस्य निविद्युच्यन्ते, प्रयश्च त्री च शतात्रयश्च त्रीच सहस्रति । ओमिति होवाच, कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदिति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । षडिति । ओमिति होवाच, कत्येवदेवा याज्ञवल्क्येति । त्रय इति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । द्वाविति । ओमिति होवाच, देवा याज्ञवल्क्येति । अध्यर्ध इति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । एक इति । ओमिति होवाच कतमे त्रयश्च त्री च शता त्रयश्च त्री च सहस्रति ॥ १॥
[देवतासंख्याविवरणम्]
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिशदिति । अष्टौ वसवः एकादशरुद्राः, द्वादशादित्यास्त एकस्त्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ २ ॥
[वसूनां विवरणम्]
कतमे वसव इति? अग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि च एते वसव एतेषु हीदं सर्वं वसु हितमिति तस्माद्वसव इति ॥ ३ ॥
[रुद्रदेवतासङ्ख्या]
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदस्माच्छरीरान्मर्त्या- दुत्क्रामन्त्यथरोदयन्ति तद्यद्रोदयन्ति तस्माद्बुद्रा इति ॥ ४ ॥
[आदित्य विशेषकथनम्] कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य एत आदित्या एते हीदँ सर्वमाददाना यन्ति ते यदिदँ सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥
[इन्द्रादिस्वरूपविशेषकथनम्] कतम इन्द्रःकतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजा पतिरितिकतमः स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ॥ ६ ॥
[षट्देवतास्वरूपकथनम्] कतमे षडिति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षञ्च आदित्यश्च द्यौश्च । एते षट् । एते ही सर्वगँ षडिति ॥ ७ ॥
[देवतात्रयस्वरूपकथनम्] कतमे ते त्रयो देवा इति । इम एव त्रयो लोकाः । एषु हि इमे सर्वे देवा इति । कतमौ तौ द्वौ देवाविति । अन्नञ्चैव प्राणश्चेति । कतमोऽध्यर्ध इति । योऽयं पवत इति ॥८॥
[अध्यर्धस्वरूपविवरणम्] तवाहुर्यदयमेक एवेव पवते अथ कथमध्यर्ध इति । यदिदमस्मिन्निदै सर्वमध्यारध्यात् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति । स ब्रह्म त्पवित्याचक्षते ॥ ५ ॥
[एकस्यैव प्राणस्य अष्टविधभेदः] पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्। स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषँ सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायँ शारीरः पुरुषः स एषः । यदैव शाकल्य तस्य का देवतेति । अमृतमिति होवाच ॥ १० ॥
काम एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्बस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणम्, यमात्थ । य एवायं काममयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । स्रिय इति होवाच ॥ ११ ॥
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ॥ १२ ॥
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायं श्रोत्रः प्रातिश्रुत्कः पुरुषः, स एषः । वदैव शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ ३ ॥
तम एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदितास्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायं छायामयः पुरुषः, स एषः । वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच ॥ १४ ॥
अहमेवमुपास इति दर्शनादिति भावः ॥ १४ ॥ रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम् स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ । य एवायमादर्शे पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । असुरिति होवाच ॥ १५ ॥
आप एव यस्यायतनँ हृदयं लोको मनो ज्योतिः। यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायमप्सु पुरुषः स एषः वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ॥ १६ ॥
रेत एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ । य एवायं पुत्रमयः पुरुषः, स एषः वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच ॥ १७ ॥
शाकल्येति होवाच याज्ञवल्क्यः। त्वाँ स्विदिमे ब्राह्मणाः अङ्गारावक्षयणकृता३ इति ॥ १८ ॥
[सदेव सप्रतिष्ठदिकप्रश्नः]
याज्ञवल्क्येति होवाच शाकल्य यदिदं कुरुपाञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति? दिशो वेद सदेवाः सप्रतिष्ठा इति यदिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९ ॥
[प्राचीदिकस्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां प्राच्यां दिश्यसीति । आदित्यदेवत इति । स आदित्यः कस्मिन्
प्रतिष्ठित इति चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति । चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच; यस्मात् हृदयेन हि रूपाणि सर्वोलोको जानाति । तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य ॥ २० ॥
[दक्षिणदिक्स्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन्
प्रतिष्ठित इति । यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति? दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति । श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाँ ह्येवदक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति । हृदय इति होवाच; हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २१ ॥
[प्रतीचीदिक्स्थदेवता तत्प्रतिष्ठा च]
किं देवतोऽस्यां प्रतीच्या दिश्यसीति । वरुण देवत इति । स वरुणः कस्मिन् प्रतिष्ठित इति? अप्स्विति । कस्मिन्नु आपः प्रतिष्ठता इति? रेतसीति कस्मिनु रेतः प्रतिष्ठितमिति? हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेतः प्रतिष्ठितं भवतीति । एवमेवैत- द्याज्ञवल्क्य ॥ २२ ॥
[उदीचीदिकस्थदेवता प्रतिष्ठा च]
किन्देवतोऽस्यामुदीच्या दिश्यसीति? सोमदेवत इति । स सोमः कस्मिन् प्रतिष्ठित इति । दीक्षायामिति। कस्मिन्नु दीक्षा प्रतिष्ठितेति । सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति, सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति? हृदय इति होवाच, हृदयेन हि सत्यं जानाति, हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ॥ २३ ॥
[ऊर्ध्वस्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां ध्रुबायां दिश्यसीत्यग्निदेवत इति योऽग्निः कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक् प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ २४ ॥
[हृदयाधिष्ठानकथनम्]
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत् स्यात्, श्वानो वै न दद्युः वयाँसि वैनद्विमन्थीरन्निति ॥ २५ ॥
[हदयशरीरयोरधिष्ठानकथनम्]
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राणः
प्रतिष्ठित इति । अपान इति । कस्मिन्नु अपानः प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन्नु दानः प्रतिष्ठित इति । समान इति । स एष नेति नेतित्यात्मा अंगृह्यो न हि गृह्यते; अशीर्यो न हि शीर्यते; असङ्गो न हि सज़्ज्यते; असितो न व्यथते, न रिष्यति । एतान्याष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः; स यस्तान् पुरुषानिरूह्य प्रत्यूह्यात्यक्रामत्, तं त्वौपनिषदं पुरुषं पृच्छामि; तं चेन्मे न विवक्ष्यसि, मूर्धा ते विपतिष्यतीति । तँ ह न मेने शाकल्य । तस्य ह मूर्धा विपपात । अपि हास्य परिमोषिणोऽस्थीन्य- पजह्नुरन्यन्मन्यमानाः ॥ २६ ॥
[याज्ञवल्क्येन सर्वान् प्रति प्रश्नारम्भः]
अथ होवाच ब्राह्मणाः भगवन्तो यो वः कामयते स मा पृच्छतु। सर्वे वा मा पृच्छतुः यो वः कामयते तं वः पृच्छामिः सर्वान् वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७ ॥
[दृष्टान्तमुखेन पुनः प्रश्नकथनम्]
तान् है तैः श्लोकैः पप्रच्छ- यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात् प्रैति रसो वृक्षादिवाहतात् ॥ मांगं सान्यस्य शराणि किनाटँ स्राव तत् स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता । यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृकणः कस्मान्मूलात् प्ररोहति ॥ रेतस इति मां वोचत जीवतस्तत् प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्यसम्भवः ॥ यत् समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यस्स्विन्मृत्युना वृक्णः कस्मान्मूलात् प्ररोहति जात एव न जायते को न्वेनं जनयेत् पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ तिष्ठमानस्य तद्विद इति ॥ २८ ॥ ॥ इति पञ्चमाध्याये नवमं ब्राह्मणम् ॥ समाप्तश्च पञ्चमोऽध्यायः
Chapter - 4
षष्ठोऽध्यायः प्रथमं ब्राह्मणम् -
अण्वन्तब्राह्मणम्
[याज्ञवल्क्यस्य जनकं प्रति आव्रजनम्]
जनको ह वैदेह आसाञ्चक्रे । अथ ह याज्ञवल्क्य आववाज । तँ होवाच याज्ञवल्क्य! किमर्थमचारीः पशूनिच्छन्, अण्वन्तानि इति । उभयमेव सम्राडिति होवाच ॥ १ ॥
[वाग्वै ब्रह्मेति शालिनिमतम्] यत् ते कश्चिदब्रवीत्, तच्छृणवामेति । अब्रवीन्मे जित्वा शैलिनिः, वाग्वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्, तथा तच्छैलिनोऽब्रवीत् वाग्वै ब्रह्मेति; अवदतो हि किं स्यादिति; अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत् सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य!। वागेवायतनमाकाशः प्रतिष्ठा; प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव समाडिति होवाच; वाचा वै सम्राड् बन्धुः प्रज्ञायते; ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनु- व्याख्यानानि व्याख्यानानीष्टँ हुतमाशितं पायितमयञ्च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सम्राट् प्रज्ञायन्ते; वाग्वै सम्राट् परमं ब्रह्म । नैनं वाग् जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति, देवो भूत्वा देवान् अप्येति, य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः, पिता मेऽमन्यत 'नानुशिष्य' हरतेति ॥ २ ॥
["प्राणो वै ब्रह्म" इति शौल्बायनमतम्] यदेव ते कश्चिदब्रवीत्तच्छृणवामेति अब्रवीन्म उदङ्कः शौल्बायनः प्राणो वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छौल्बाायनोऽब्रवीत् प्राणो वै 'ब्रह्मेत्याप्राणतो' हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत् सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य । प्राण एव आयतनमाकाशः प्रतिष्ठा प्रियमेनदुपासीत । का प्रियता याज्ञवल्क्य । प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट् कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय; प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति, सर्वाण्येनं भूतान्यभिरक्षन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभसहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३ ॥
["चक्षर्वै ब्रह्मा" इति बर्कुमतम्] यदेव ते कशिदब्रवीत् तच्छृणवामेति अब्रवीन्मं बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्वार्ष्णोऽब्रवीत् चक्षुर्वै ब्रह्मेत्यपश्यतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदिति एकपाद्वा एतत् सम्राट्। इति स वै नो ब्रूहि याज्ञवल्क्य! चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनत् उपासीत का सत्यता, याज्ञवल्क्य चक्षुरेव सम्राट् इति होवाच चक्षुषा वै सम्राट् । पश्यंन्तमाहुरद्राक्षीरिति स आह अद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट् । परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिरक्षन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ४ ॥
["श्रोत्रं वै ब्रह्म" इति भारद्वाजमतम् ] यदेव ते कश्चिदब्रवीत् तच्छृणवामत्यब्रवीन्मे गर्दभीविपीतो भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद्भारद्वाजोऽब्रवीत् श्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किँ स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदिति एकपाद्वा एतत् सम्राट्, इति स वै नो ब्रूहि याज्ञवल्क्य श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनदुपासीत कानन्तता? याज्ञवल्क्य! दिश एव सम्राट् ! इति होवाच तस्माद्वै सम्राडपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छति । अनन्ता हि दिशो । दिशो वे सम्राट! श्रोत्रं श्रोत्रं वै सम्राट! परमं ब्रह्म नैनँ श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५ ॥
["मनो वै ब्रह्म" इति जाबालमतम्] यदेव ते कश्चिदब्रवीत् तत्तच्छृणवामव इति अब्रवीन्मे सत्यकामो जाबालो मनो वे ब्रह्मेति यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात्तया तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किँ स्यादित्यबृवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति स वै नो ब्रूहि याज्ञवल्क्य मन एवायतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत का आनन्दता याज्ञवल्क्य । मन एव सम्राडिति होवाच; मनसा वै सम्राड् स्त्रियमभिहार्यते; तस्यां प्रतिरूपः पुत्रो जायते; स आनन्दः; मनो वै सम्राट् परमं ब्रह्म । नैनं मनो जहाति; सर्वाण्येनं भूतान्यभिक्षरन्ति, देवो भूत्वा देवानप्येति, य एवं विद्वानेतदुपास्ते । हस्त्यृषभँ सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः पितामेऽमन्यत नाननुशिष्य हरेतेति ॥ ६ ॥
["हृदयं वै ब्रह्म" इति शाकल्यमतम्] यदेव ते कश्चिदब्रवीत्, तच्छृणवामेति । अब्रवीन्मे विदग्धः शाकल्यो हृदयं वै ब्रह्मेति । यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छाकल्योऽ- ब्रवीत् हृदयं वै ब्रह्मेति! अहृदयस्य हि किँ स्यादिति । अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् । न मेऽब्रवीदिति । एकपाद्वा एतत् सम्राडिति । स वै नो ब्रूहि याज्ञवल्क्य । हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत । का स्थितता याज्ञवल्क्य । हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट् सर्वेषां भूतानामायतनं हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा, हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति; हृदयं वै सम्राट् परमं ब्रह्म । नैनँ हृदयं जहाति सर्वाण्येनं भूतान्यभिरक्षन्ति देवो भूत्वा देवानप्येति, य एवं विद्वानेतदुपास्ते । हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः, पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ७ ॥ ॥ इति षष्ठाध्याये प्रथमं ब्राह्मणम् ॥
द्वितीयं ब्राह्मणम् -इन्धब्राह्मणम् अथवा कूर्चब्राह्मणम्
[उपासकस्य परमागतिः का इति विचारः]
जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच; नमस्तेऽस्तु याज्ञवल्क्य, अनु मा शाधीति । स होवाच - यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीत, एवमेवैताभिरुपनिषद्भिः समाहितात्मासि । एवं वृन्दारक आढ्यस्सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति । नाहं तद्भगवन् वेद यत्र गमिष्या- मीति । अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १ ॥
[दक्षिणाक्षरस्यपुरुषस्वरूपकथनम् ] इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्धँ सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवा. प्रत्यक्षाद्विषः ॥ ३ ॥
[वामाक्षिस्थपुरुषस्वरूपकथनम्]
अथैतद्वामेऽक्षिणि पुरुषरूपमेषाऽस्य पत्नी विराट् । तयोरेष सँस्तावो य एषोऽन्तर्हृदय आकाशः । अथैनयोरेतदन्नम् य एषोऽन्तर्हृदये लोहितपिण्डः । अथैनयोरेतत् प्रावरणम्, यदेतदन्तर्हृदये जालकमिव । अथैनयोरेषा सृतिस्सञ्चरणी, यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा भिन्नः, एवमस्यै हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति । एताभिर्वा एतदास्रवदास्रवति । तस्मादेष
प्रविविक्ताहारतर इवैव भवत्यस्माच्छरीरादात्मनः ॥ ३ ॥
[परमात्मनः जीववैलक्षण्यवेदनम्]
तस्य प्राची दिक् प्राञ्चः प्राणाः, दक्षिणा दिग् दक्षिणे प्राणाः, प्रतीची दिक् प्रत्यञ्चः प्राणाः, उदीची दिगुदञ्चः 'प्राणाः', सर्वा दिशः सर्वे प्राणाः । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते, अशीर्यो न हि शीर्यते; असङ्गो न हि सज्यते, असितो न व्यथते न रिष्यति । अभयं वै जनक! प्राप्तोऽसीति होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वागच्छताद्याज्ञवल्क्य, यो नो भगवन् अभयं वेदयसे । नमस्तेऽस्तु; इमे विदेहा अयमहमस्मीति ॥ ४ ॥ ॥ इति षष्ठाध्याये द्वितीयब्राह्मणम् ॥
तृतीयं ब्राह्मणम् - ज्योतिर्ब्राह्मणम् [जनकयाज्ञवल्क्यसंवादः]
जनकँ ह वैदेहं याज्ञवल्क्यो जगाम । स मेने न वदिष्य इति । अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्च अग्निहोत्रे समूदाते, तस्मै ह याज्ञवल्क्यो वरं ददौ । स ह कामप्रश्नमेव वव्रे । तँ हास्मै ददौ । तँ सम्राडेव पूर्वं पप्रच्छ ॥ १ ॥
["किं ज्योतिः अयं पुरुष" इति जनकप्रश्नः]
याज्ञवल्क्य किंज्योतिरयं पुरुष इति । आदित्यज्योतिः सम्राडिति होवाच आदित्येनैव ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतत् याज्ञवल्क्य ॥ २ ॥
[याज्ञवल्क्येन आदित्यादिज्योतिष्ट्वोपपादनम्]
अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति । चन्द्रमा एवास्य ज्योतिर्भवतीति, चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ ३ ॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति अग्निरेवास्य ज्योतिर्भवतीति अग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येति इत्येवमेवैतद्याज्ञवल्क्य ॥ ४ ॥
अस्तमित 'आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति । वागेवास्य ज्योतिर्भवतीति वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति । एवमेवैतद्याज्ञवल्क्य ॥ ५ ॥
अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति । आत्मैवास्य ज्योतिर्भवतीति, आत्मनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६ ॥
[आत्मा विज्ञानमयः]
कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः । स समानस्सन्नुभौ लोकावनुसञ्चरति ध्यायतीव लेलायतीव । स हि स्वप्नो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७ ॥
स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः सँसृज्यते । स उत्क्रामन् म्रियमाणः पाप्मनो विजहाति ॥ ८ ॥
[जीवस्य लोकद्वयकथनम्]
तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदञ्च परलोकस्थानञ्च । सन्ध्यं तृतीयँ स्वप्नस्थानम् । तस्मिन् सन्ध्ये स्थाने तिष्ठन्नेते 'उभे स्थाने' पश्यति इदञ्च परलोकस्थानञ्च । अथ यथा क्रमोऽयं परलोकस्थाने भवति, तमाक्रममाक्रम्योभयान् पाप्मन आनन्दाँश्च पश्यति । स यत्र प्रस्वपिति अस्य लोकस्य सर्वावतो मात्रामुपादाय स्वयं निहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति । अत्रायं पुरुषः स्वयंज्योतिः भवति ॥ ९ ॥
[स्वप्नसृष्टिः]
न तन्त्र रथा न रथयोगा न पन्थानो भवन्ति; अथ रथान् रथयोगान् पथः सृजते । न तत्रानन्दा मुदः प्रमुदो भवन्तिः अथानन्दान् मुदः प्रमुदः सृजते । न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्तिः 'अथ वेशान्तान् (न्ताः) पुष्करिण्यः स्रवन्त्यः सृजते । स हि कर्ता ॥ १० ॥
[स्वप्नविषयकश्लोकाः]
तदेते श्लोका भवन्ति - स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति । शुक्रमादाय पुनरेति स्थानँ हिरण्मयः पुरुष एकहँसः ॥ ११ ॥
प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायायमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामँ हिरण्मय पुरुषः एकहँसः ॥ १२ ॥
स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३ ॥
आराममस्य पश्यन्ति न तं पश्यति कश्चन इति । तत्रायतं बोधयेदित्याहुः । दुर्भिषज्यं हास्मै भवति, यमेष न प्रतिपद्यते । अथो खल्वाहुर्जागरितदेश एवास्यैष इति । यानि ह्येव जाग्रत् पश्यति; तानि सुप्त इति । अत्रायं पुरुषः स्वयंज्योतिः भवति । 'सोऽयं भगवते सहस्रं ददामि; अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४ ॥
[जाग्रत्स्वप्नसुषुप्तिकथनम्]
स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः
प्रतिन्यायं प्रतियोन्याद्रवति स्वप्रायैव । स यत् तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भवति; असङ्गो ह्ययं पुरुष इति । एवमेवैतद्याज्ञवल्क्य! सोऽहं भगवते सहस्रं ददामि; अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५ ॥
स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः
प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव । स यत् तत्र किञ्चित् पश्यति, अनन्वागतस्तेन भवति; असङ्गो ह्ययं पुरुष इति । एवमेवैतद्याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददामि । अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६ ॥
स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यञ्च पापञ्च पुनः
प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७ ॥
तद्यथा महामत्स्य उभे कूले अनुसञ्चरति पूर्वं च अपरञ्च, एवमेवायं पुरुष एतावुभावन्तावनुसञ्चरति स्वप्रान्तञ्च बुद्धान्तञ्च ॥ १८॥
तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ सल्लयायैव ध्रियते, एवमेवायं पुरुष एतस्मा अन्ताय धावति यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति ॥ १९ ॥
ता वा अस्यैता 'हिता' नाड्यो यथा केशः सहस्रधा भिन्नः तावताणिम्ना तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति । यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते अथ यत्र देव इव राजेव अहमेवेदँ सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः ॥ २० ॥
[सुषुप्तौ बाह्यान्तरज्ञानराहित्यम्]
तद्वा अस्यैतद् अतिच्छन्दा अपहत-पाप्माभयँ रूपम् ।
तद् यथा प्रियया स्रिया सम्परिष्वक्तो,
न बाह्यं किञ्चन वेद;
नान्तरम् -
एवम् एवायं पुरुषः
प्राज्ञेनात्मना सम्परिष्वक्तो
न बाह्यं किञ्चन वेद नान्तरम् ।
तद्वा अस्येतद् आप्त-कामम् आत्म-कामम् अकामँ रूपँ
शोकान्तरम् ॥ २१ ॥
[पुण्य-पाप-सम्बन्ध-रहितम् सुषुप्त-रूपम्]
अत्र पिताऽपिता भवति, माताऽमाता, लोका अलोकाः, देवा अदेवाः, वेदा अवेदाः । अत्र स्तेनोऽस्तेनो भवति, भ्रूणहाऽभ्रूणहा, चाण्डालोऽचाण्डालाः, पौल्कसोऽपौल्कसः, श्रमणोऽश्रमणः, तापसोऽतापसः । अनन्वागतं पुण्येन अनन्वागतं पापेन । तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति ॥ २२ ॥
[ज्ञानस्य विपरिलोपाभावः (नाशाभावः)] यद् द्वैतन्न पश्यति, पश्यन्वै तन्न पश्यति । न हि द्रष्टुः दृष्टेविपरिलोपो विद्यते । 'अवनाशित्वात्' । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यत् पश्येत् ॥ २३ ॥
यत् द्वैतं न जिघ्रति, जिघ्रन्वै तन्न जिघ्रति । न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यज्जिघ्रेत् ॥ २४ ॥
यत् द्वैतं न रसयते, रसयन् वै तन्न रसयते । न हि 'रसयितृ'रसयतेविपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यद्रसयेत् ॥ २५ ॥
यत् द्वैतं न वदति, वदन् वै तन्न वदति । न हि वक्तुर्वक्तेर्विपरिलोपो विद्यते, अविनाशित्त्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६ ॥
यत् द्वैतं न शृणोति, शृण्वन् वै तन्न शृणोति । श्रोतुः न हि श्रुतेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यच्छृणुयात् ॥ २७ ॥ यत् द्वैतं न मनुते; मन्वानो वै तन्न मनुते । न हि मन्तुर्मतेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति । ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥
यत् द्वैतं न स्पृशति, स्पृशन् वै तन्न स्पृशति । न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं यत् स्पृशेत् ॥ २९ ॥ यत् द्वैतं न विजानाति, विजानन् वै तन्न विजानाति न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते अविनाशित्वात् । न तु तत् द्वितीयमस्ति ततोऽन्यद्विभक्तं, यद्विजानीयात् ॥ ३० ॥
यत्र वा अन्यदिव स्यात्, तत्रान्योऽन्यत् पश्येत्, अन्योऽन्यज्जिघ्रेत्, अन्योऽन्य- द्रसयेत्, अन्योऽन्यद्वदेत्, अन्योऽन्यच्छृणुयात्, अन्योऽन्यन्मन्वीत 'अन्योऽन्यत् विजानीयात् ॥ ३१ ॥
सलिल एको द्रष्टाऽद्वैतो भवति । एष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः । एषाऽस्य परमागतिः एषाऽस्य परमा संपत् । एषोऽस्य परमो लोकः, एषोऽस्य परम आनन्दः । एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ ३२ ॥
[सुषुप्तिस्थानस्य परमानन्दता] स यो मनुष्याणाँ राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वे'मानुष्यैर्भोगैः सम्पन्नतमः, स मनुष्याणां परमानन्दः । अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दः । अथ ये शतं पितॄणां जितलोकानामानन्दाः, स एको गन्धर्वलोक आनन्दः । अथ ये शतं गन्धर्वलोक आनन्दाः, स एकः कर्मदेवानामानन्दः ये कर्मणा देवत्वमभिसम्पद्यन्ते । अथ ये शतं कर्मदेवानामानन्दाः, स एक प्रजापतिलोक आनन्दः', यश्च श्रोत्रियोऽवृजिनोऽकामहतः । अथ ये शतं 'प्रजापतिलोक आनन्दाः, स एको ब्रह्मलोक आनन्दः', यश्च श्रोत्रियोऽवृजिनोऽकामहतः ॥ अथैष एव परमानन्द एष ब्रह्मलोकः, सम्राडिति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददामि; अत उर्ध्वं विमोक्षायैव ब्रूहीति । अत्र स ह याज्ञवल्क्यो बिभयाञ्चकार, मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३ ॥
[जीवस्य बुद्धान्तसञ्चरणम्] स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्या दृष्ट्वैव पुण्यञ्च पापञ्च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४ ॥
तद्यथाऽनः सुसमाहितमुत्सर्जद्यायात्, एवमेवायेँ शारीर आत्या प्राज्ञे- नात्मनाऽन्वारुढ उत्सर्जन् याति, यत्रैतदूर्ध्वाच्छ्वासि भवति ॥ ३५ ॥
स यन्नायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति । तद्यथाऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात् प्रमुच्यते; एवमेवायं पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ ३६ ॥
तद्यथा राजानमायान्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरावसथैः प्रतिकल्पन्ते, 'अयमायाति; अयमागच्छति' इति, एवँ हैवंविदँ सर्वाणि भूतानि प्रतिकल्पन्ते इदं ब्रह्माऽऽयातिः इदमागच्छतीति ॥ ३७ ॥
[जीवस्य अन्तकाले सर्वप्राणसंश्लेषः] तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति एवमेवे- ममात्मानमन्तकाले सर्वे प्राणा 'अभिसमायन्ति' यत्रैतदूर्वोच्छ्वासी भवति ॥ ३८ ॥
षष्ठोऽध्याये चतुर्थ ब्राह्मणम् [ज्योतिर्ब्राह्मणम्] स यत्रायमात्माऽऽबल्यंन्येत्य संमोहमिव न्येति, अथैनमेते प्राणा अभि- समायान्ति' । स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति । स यत्रैष चाक्षुषः पुरुषः पराङ् पर्यावर्तते, अथारूपज्ञो भवति ॥ १ ॥
एकीभवति, न पश्यतीत्याहुःः एकीभवति, न जिघ्रतीत्याहुः, एकीभवति न रसयत इत्याहुः एकीभवति, न वदतीत्याहुः, एकीभवति, न शृणोतीत्याहुः, एकीभवति, न मनुते इत्याहुः एकीभवति, न स्पृशतीत्याहुः एकीभवति, न विजानातीत्याहुः ॥ तस्य हैतस्य हृदयस्य अग्रं प्रद्योतते । तेन प्रद्येतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वाऽन्येभ्यो वा शरीरदेशेभ्यः । तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति; सविज्ञानो भवति; सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते; पूर्वप्रज्ञा च ॥ २॥
[दृष्टान्तपूर्वकदेहान्तरप्राप्तिनिरूपणम्] तद्यथा तृणजलायुका तृणस्यान्तं गत्वाऽन्यमाक्रममाक्रम्य आत्मानमुप- सँहरति, एवमेवायमात्मेदँ शरीरं निहत्य अविद्यां गमयित्वाऽन्यमाक्रममाक्रम्यात्मानं उपसँहरति ॥ ३ ॥
[देहान्तरप्राप्तिप्रकारः] तद्यथा पेशस्कारी पेशसो मात्रामुपादायान्यन्नवतरं कल्याणतरँ रूपं तनुते; एवमेवायमात्मेदँ शरीरं निहत्य अविद्यां गमयित्वाऽन्यन्नवतरं कल्याणतरँ रूपं कुरुते पित्र्यं वा गान्धर्वं वा देवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥ ४ ॥
[कामादिपदार्थानामेकत्र प्रदर्शनम्] स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमयः आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽ क्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः तत् यदेतदिदम्मयोऽदोमय इति । यथाकारी यथाचारी, तथा भवति साधुकारी साधुर्भवति, पापकारी पापो भवति; पुण्यः पुण्येन कर्मणा भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति । स यथाकामो भवति, तत्क्रतुः भवति; यत्क्रतुर्भवति, तत् कर्म कुरुते; यत् कर्म कुरुते, तदभिसम्पद्यते ॥ ५ ॥
तदेष श्लोको भवति- तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे ॥ इति तु कामयमानः । अथाकामयमानः योऽकामो निष्काम आप्तकाम आत्मकामः न तस्य प्राणा उत्क्रामन्ति, ब्रह्मैव सन् ब्रह्माप्येति ॥ ६ ॥
तदेष श्लोको भवति- यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि 'स्थिताः । अथ मर्त्योऽमृतोभवत्यत्र ब्रह्म समश्नुते ॥ इति । 'तद्यथाऽहिनिर्न्वयनी' वल्मीके मृता प्रत्यस्ता शयीता, एवमेवेदँ शरीरँ शेते । अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव । सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेह ॥ ७ ॥
तदेते श्लोका भवन्ति- अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग लोकमित ऊर्ध्वं विमुक्ताः ॥ ८ ॥
तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितञ्च । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित् पुण्यकृत् तैजसश्च ॥ ९ ॥
[अविदुषः अन्धतमसाभिगमनम्] अन्धं तमः प्रविशन्ति योऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ १० ॥
अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः । ताँस्ते प्रेत्याभिगच्छन्ति अविद्वांसोऽबुधो जनाः ॥ ११ ॥
[देवकर्तृकं ज्योतिषां ज्योतिष उपासनम्] आत्मानञ्चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ १२ ॥
यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन् 'सन्देहे। गहने प्रविष्टः । स विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३ ॥
इहैव सन्तोऽथ विद्मस्तद् वयं न चेदवेदिर्महती विनष्टिः । य एतद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४ ॥
यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ १५ ॥
यस्मादर्वाक् संवत्सरोऽहोभिः परिवर्तते । तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ १६ ॥
[पञ्चपञ्चजनशब्दार्थविचारः] यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ १७ ॥
प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम् । मनसो ये मनोविदुः, ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८ ॥
[मनसा ब्रह्मण दर्शनम्] मनसैवानु द्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९ ॥
[ब्रह्मस्वरूपम्] एकधैवानुद्रष्टव्यम् एतदप्रमेयं ध्रुवम् । विरजः पर आकाशात् अज आत्मा महान् ध्रुवः ॥ २० ॥
तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्वहून् शब्दान् वाचो विग्लापनँ हि तत् ॥ इति ॥ २१ ॥
स वा एष महानज आत्मा, योऽयं विज्ञानमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेत्ते, सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः, स न साधुना कर्मणा भूयान् , नो एवासाधुना कनीयान् एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राहाणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन । एतमेव विदित्वा मुनिर्भवति । एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति । एतद्ध स्म वै तत् पूर्वे विद्वाँसः प्रजां न कामयन्ते, किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रेषणायाश्च वित्तैषणायश्च लोकेषणायाश्च व्युत्थयाथ भिक्षाचर्य चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा था वित्तैषणा सा लोकैषणा उभे ह्येते एषणे एव भवतः । स एष नेति नेत्यात्मा अगृह्यो न हि गृह्यते, अशीयो न हि शीर्यते, असङ्गो न हि सज्ज्यते, असितो न व्यथते न रिष्यति । एतमु हैवेते न तरत इत्यत; पापम् अकरवमित्यतः कल्याणमकरवमित्युभे इहैवैष एते तरति नैनं कृताकृते तपतः ॥ २२ ॥
तदेतदृचाभ्युक्तम् - एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् । तस्येव स्यात् पदवित् तं विदित्वा न लिप्यते कर्मणा पापकेन ॥ इति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्यति, सर्वमात्मानं पश्यति । नैनं पाप्मा तरति, सर्वं पाप्मानं तरति, नैनं पाप्मा तपति, सर्वं पाप्मानं तपति, विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति । एष ब्रह्मलोकः सम्राडिति होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान् ददामि, मां चापि सह दास्यायेति ॥ २३ ॥
स वा एष महानज आत्माऽन्नादो वसुदानः । विन्दते वसु य एवं वेद ॥ २४ ॥
स वा एष महानज आत्माऽजरोऽमृतोऽभयो ब्रह्म । अभयं वै ब्रह्म । अभयं हि वै ब्रह्म भवति, य एवं वेद ॥ २५ ॥ ॥ इति षष्टाध्याये चतुर्थब्राह्मणम् ॥
षष्ठाध्याये पञ्चमं ब्राह्मणम् द्वितीयमैत्रेयीब्राह्मणम्
[याज्ञवल्क्यवृत्तान्तः] अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुमैत्रेयी च कात्यायनी च । तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव; 'स्त्रीप्रज्ञैव' तर्हि कात्यायनी । अथ ह याज्ञवल्क्यः अन्यद्वृत्तमुपाकरिष्यन् ॥१॥
[मैत्रेयी - याज्ञवल्क्यसंवादः] मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन् वा अरेऽहमस्मात् स्थानादस्मि । हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ २ ॥
सा होवाच मैत्रेयी, 'यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् स्यां न्वहं तेनामृताऽऽहो३ नेति नेति होवाच याज्ञवल्क्यो यथैवोपकरणवतां जीवितम्। तथैव ते जीवितँ स्यादमृतत्वस्य तु नाशाऽस्ति वित्तेनेति ॥ ३ ॥
सा होवाच मैत्रेयी, 'येनाहं नामृता स्याम्, किमहं तेन कुर्याम् । यदेव भगवान् वेत्थ तदेव मे ब्रूहीति ॥ ४ ॥
स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्धन्त तर्हि भवत्येतद्व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ५ ॥
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवति; आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति । आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति; आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति; आत्मनस्तु कामाय वित्तं प्रियं भवति । [न वा अरे पशूनां कामाय पशवः प्रिया भवन्ति; आत्मनस्तु कामाय पशवः प्रिया भवन्ति ।] न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति; आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाव क्षत्रं प्रियं भवति; आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति; आत्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्ति; आत्मनस्तु कामाय देवाः प्रिया भवन्ति । [न वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति । आत्मनस्तु कामाय वेदाः प्रिया भवन्ति।]
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति । आत्मनस्तु कामाय भूतानि
प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्व प्रियं भवति; आत्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । मैत्रेय्यात्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदँ सर्वं विदितम् ॥ ६ ॥ ब्रह्म तँ परादाद्योऽन्यत्रात्मनो ब्रह्म वेद । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद । देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद । [वेदास्तं परादुः योऽन्यत्रात्मनो वेदान् वेद ।] भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद । इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा [इमे वेदाः] इमानि सर्वाणि भूतानीदँ सर्वं यदयमात्मा ॥ ७ ॥ स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्रुयाद्ग्रहणाय; दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८ ॥ स यथा [शङ्खस्य ध्मायमानस्य] न बाह्याञ्छब्दाञ्छक्रुयाद्ग्रहणायः शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९ ॥ स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्रुयात् ग्रहणाय; वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १० ॥
स यथार्द्रैधाग्नेरभ्याहित[स्य] पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि [इष्टँ हुतमाशितं पायितमयञ्च लोकः परश्च लोकः सर्वाणि च भूतानि] अस्यैवैतानि सर्वाणि निःश्वसितानि ॥ ११ ॥
स यथा सर्वासामपाँ समुद्र एकायनमेवँ सर्वेषाँ स्पर्शानां त्वगेकायनमेवेँ सर्वेषाँ रसानां जिह्वैकायनमेवँ सर्वेषां गन्धानां नासिके एकायनमेवेँ सर्वेषां रूपाणां चक्षुरेकायनमेवेँ सर्वेषां शब्दानां श्रोत्रमेकायनमेवँ सर्वेषां सङ्कल्पानां मन एकायनमेवँ सर्वासां विद्यानां हृदयमेकायनमेवँ सर्वेषाँ कर्मणां हस्तावेकायनमेवेँ सर्वेषामानन्दानामुपस्थ एकायनमेवँ सर्वेषां विसर्गाणां पायुरेकायनमेवँ सर्वेषामध्वनां पादावेकायनमेवँ सर्वेषां वेदानां वागेकायनम् ॥ १२ ॥
[अमृतत्वसाधनम्]
स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरेऽयमात्मा-
ऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति;
न प्रेत्य संज्ञाऽस्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ १३ ॥
सा होवाच मैत्रेय्यत्रैव भगवान्' मोहान्तम् 'आपीपत् । न वा अहमिमं विजानामीति । स होवाच न वाऽरेऽहं मोहं ब्रवीमि अविनाशी वा अरेऽयमात्माऽ- नुच्छित्तिधर्मा ॥ १४ ॥
यत्र हि द्वैतमिव भवति - तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरँ रसयते; तदितर इतरमभिवदति, तदितर इतरँ शृणोति, तदितर इतरं मनुते, तदितरं इतरँ स्पृशति तदितर इतरं विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत्, तत् केन कं पश्येत्, तत् केन कं जिघ्रेत् तत् केन कँ रसयेत्, तत् केन कँ अभिवदेत्, तत् केन कँ शृणुयात्। तत् केन कँ मन्वीत, तत् केन कँ स्पृशेत्, तत् केन कँ विजानीयात् । येनेदँ सर्वं विजानाति, तँ केन विजानीयात् । स एष नेति नेत्यात्मा । अगृह्यो न हि गृह्यते; अशीर्यों न हि शीर्यते; असङ्गो न हि सज्यते, असितो न व्यथते न रिष्यति । विज्ञातारमरे केन विजानीयादिति । उक्तानुशासनाऽसि मैत्रेय्येतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ १५ ॥
षष्ठाध्याये षष्ठं ब्राह्मणम् [वंशब्राह्मणम्]
[आचार्यशिष्यवंशकथनम्]
अथ वंशः पोतिमाष्यात् । पोतिमाष्यो गौपवनात् गोपवनः पौतिमाष्यात् पोतिमाष्यो गोपवनात् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात् कौण्डिन्यः शाण्डिल्यात् शाण्डिल्यः कौशिकाञ्च गौतमा गौतमः ॥ १ ॥
आग्निवेश्यात्, आग्निवेश्यो गार्ग्यात् 'गार्ग्य । गौतमात् गौतमः सैतवात् सैतवः पाराशर्यायणात् पाराशर्यायणो गार्ग्यायणात् गार्ग्यायणः उद्दालकायनात् उद्दालकायनो जाबालायनात् जाबालायनो माध्यन्दिनायनात् माध्यन्दिनायनः सौकरायणात् सौकरावणः काषायणात् काषायणः सायकायनात् सायकायनः कौशिकायनेः कौशिकायनिः ॥ २ ॥
घृतकौशिकात् घृतकौशिकः पाराशर्यायणात् पाराशर्यायणः पाराशर्यात् पाराशर्यो जातूकर्ण्यात् जातूकर्ण्य आसुरायणाच्च यास्काच्च आसुरायणः त्रैवणेः, 'त्रैवणिरो पजन्धने 'रौपजन्धनिरासुरेः आसुरिर्भारद्वाजात् भारद्वाज आत्रेयात् आत्रेयो माण्डेः "माण्डिर्गौतमात् गौतमो गौतमात् गौतमो वात्स्यात् वात्स्यः शाण्डिल्यात् शाण्डिल्यः केशोर्यात् काप्यात् कैशोर्यः काप्यः कुमारहारितात् कुमारहारितो गालवाद्गालवो विदर्भीकोण्डिन्यात् विदर्भीकोण्डिन्यो वत्सनपातो बाभ्रवात् वत्सनपाद्वाभ्रवः पथस्सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसात् अयास्य आङ्गिरसः आभूतेस्त्वाष्ट्रात् आभूतिस्त्वाष्ट्रः विश्वरूपात् त्वाष्ट्राद्विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् अश्विनौ दधीच आथर्वणात् दध्यङ्ङाथर्वणोऽथर्वणो दैवात् अथर्वादैवो मृत्योः प्राध्वँसनात् मृत्युः प्राध्वँसनः प्रध्वँसनात् प्रध्वँसनः एकर्षेः एकर्षिविप्रचित्तेविप्रचित्तिर्व्यष्टेर्व्यष्टिः सनारोः सनारुः सनातनात् सनातनः सनकात् सनकः परमेष्ठिनः परमेष्ठी ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः । ॥ इति षष्ठाध्याये षष्ठं ब्राह्मणम् ॥
Chapter - 5
बृहदारण्यकोपनिषत् अथ सप्तमोऽध्यायः प्रथमं ब्राह्मणम् [प्रणवप्रशंसा] ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ १ ॥
ओं३ खं ब्रह्म । खं पुराणम् । वायुरं खमिति ह स्याह कौरव्यायणीपुत्रः । वेदोऽयं ब्राह्मणाः विदुर्वेदैनेन यद्वेदितव्यम् ॥ २ ॥ ॥ इति सप्तमाध्याये प्रथमं ब्राह्मणम् ॥
समभाध्याये द्वितीयं ब्राह्मणम् [दमदानदयाशिक्षणम्]
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुर्देवा मनुष्या असुराः । उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदक्षरमुवाच द इति; व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः, दाम्यतेति न आत्थेति । ओमिति होवाच, व्यज्ञासिष्टेति ॥ १ ॥
अथ हैनं मनुष्याः ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दत्तेति न आत्थेति । ओमिति होवाच, व्यज्ञासिष्टेति ॥ २ ॥
अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच द इति, व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुः दयध्वमिति न आत्थेति । ओमिति होवाच, व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुः द द द इति, दाम्यत दत्त दयध्वमिति । तदेतत् त्रयँ शिक्षेद् दमं दानं दयामिति ॥ ३ ॥ ॥ इति सप्तमाध्याये द्वितीयं ब्राह्मणम् ॥
सारमाध्याये तृतीयं ब्राह्मणम् [हृदयविषयकमुपासनम्]
एष प्रजापतिर्यद्धृदयमेतद् ब्रह्मैतत् सर्वम् । तदेतत् त्र्यक्षरं हृदयमिति । हृ इत्येकमक्षरम्ः अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद । द इत्येकमक्षरम्। ददत्यस्मै स्वाश्चान्ये च य एवं वेद । यमित्येकमक्षरम् एति स्वर्गं लोकम्, य एवं वेद ॥१॥ ॥ इति सासमाध्याये तृतीयं ब्राह्मणम् ॥
सामाध्याये चतुर्थं ब्राह्मणम् [हृदयब्रह्मोपासनम्]
तद्वै तदेतदेव तदास सत्यमेव । स यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति, जयति इमान् लोकान्, जित इन्बसावसत् । य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति । सत्यँ ह्येव ब्रह्म ॥ १ ॥
आप एवेदमग्र आसुः । ता आपः सत्यमसृजन्त । सत्यं ब्रह्मः ब्रह्म प्रजापतिम्। प्रजापतिर्देवान् । ते देवाः सत्यमेवोपासते । तदेतत् त्र्यक्षरँ सत्यमिति; स इत्येकमक्षरम्, तीत्येकमक्षरम्, यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यम् : मध्यतोऽनृतम् । तदेतदनृतँ उभयतस्सत्येन परिगृहीतँ सत्यभूयमेव भवति । नैनं विद्धाँसमनृतँ हिनस्ति ॥ २ ॥ ॥ इति सप्तमाध्याये चतुर्थं ब्राह्मणम् ॥
सप्तमाध्याये पञ्चमं ब्राह्मणम् [सत्याख्यब्रह्मणः उपासनम्] तद्यत् सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषः । तावेतावन्योन्यस्मिन् प्रतिष्ठितौ । रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः; प्राणैरय- ममुष्मिन् । स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति; नैनमेते रश्मयः प्रत्यायन्ति ॥ १ ॥
य एष एतस्मिन् मण्डले पुरुषः, तस्य भूरिति शिरः । एकँ शिरः; एकमेतत् अक्षरम् । भुव इति बाहू । द्वो बाहू; वे एते अक्षरे । सुवरिति प्रतिष्ठा । वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति; हन्ति पाप्मानं जहाति च, य एवं वेद ॥ २ ॥
प्योऽयं दक्षिणेऽक्षन् पुरुषः तस्य भूरिति शिरः । एकँ शिरः, एकमेतदक्षरम् । भुव इति बाहू । द्वौ बाहू, द्वे एते अक्षरे । सुवरिति प्रतिष्ठा । द्वे प्रतिष्ठे, द्वे एते अक्षरे । सुवरिति प्रतिष्ठा । द्वे प्रतिष्ठे; द्वे एते अक्षरे । तस्योपनिषदहमिति; हन्ति पाप्मानं जहाति च, य एवं वेद ॥ ३ ॥
षष्ठं ब्राह्मणम् [शाण्डिल्यविद्या]
मनोमयोऽयं पुरुषो भाः सत्यः तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा । स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ १ ॥ ॥ इति सप्तमाध्याये षष्ठं ब्राह्मणम् ॥
सप्तमं ब्राह्मणम् [विद्युद्ब्रह्मदृष्टिः] विद्युद् ब्रह्मेत्याहुः । विदानाद्विद्युत् । विद्यत्येनं पाप्मनो य एवं वेद विद्युद् ब्रह्मेति । विद्युद्ध्येव ब्रह्म ॥ १ ॥
अष्टमं ब्राह्मणम् [वाग्धेनूपासनम्] वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः, स्वाहाकारो, वषट्कारे, हन्तकारः स्वधाकारः । तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारञ्च वषट्कारञ्च हन्तकारं मनुष्याः; स्वधाकारं पितरः । तस्याः प्राण प्रषभो मनो वत्सः ॥ १ ॥ ॥ इति सप्तमाध्याये अष्टमब्राह्मणम् ॥
अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे, येनेदमन्नं पच्यते, यदिदमद्यते । तस्यैष घोषो भवति, यमेतत् कर्णावपिधाय शृणोति । स यदोत्क्रमिष्यन् भवति, नैनं घोषँ शृणोति ॥ १ ॥ ॥ इति सप्तमाध्याये नवमब्राह्मणम् ॥
दशमं ब्राह्मणम् [ब्रह्मविदः गतिः]
यदा वै पुरुषोऽस्माल्लोकात्प्रैति, स वायुमागच्छति । तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् । तेन स ऊर्ध्वं आक्रमते । स आदित्यमागच्छति । तस्मै स तत्र विजिहीते यथाऽऽडम्बरस्य खम् । तेन स ऊर्ध्व आक्रमते । स चन्द्र- मसमागच्छति । तस्मै स तत्र विजिहीते यथा दुन्दुभेः खम् । तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमम् । तस्मिन् वसति शाश्वतीः समाः ॥ १ ॥ ॥ इति सप्तमाध्याये दशमं ब्राह्मणम् ॥
एकादशं ब्राह्मणम् [व्याधिसन्तापादौ तपोदृष्टिः]
एतद्वै परमं तपो 'यद्व्याहित स्तप्यते । परमं हैव लोकं जयति य एवं वेद । एतद्वै परमं तपो ये प्रेतमरण्य हरन्ति । परमँ हेव लोकं जयति य एवं वेद । एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति । परमं हैव लोकं जयति य एवं वेद ॥१॥ ॥ इति सप्तमाध्याये एकादशं ब्राह्मणम् ॥
द्वादशं ब्राह्मणम् [अन्नं ब्रह्म इत्युपासनम्]
अन्नं ब्रह्मेत्येक आहुः । तन्न तथा; पूयति वा अन्नमृते प्राणात् । प्राणो ब्रह्मेत्येक आहुः । तन्न तथा; शुष्यति वै प्राण ऋतेऽन्नात् । एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः । तद्ध स्माह प्रातृदः पितरम्। किँस्विदेवैवं विदुषे साधु कुर्याम्, किमेवास्मा असाधु कुर्यामिति । स ह स्माह पाणिना मा प्रातृद! कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति । तस्मा उ हैतदुवाच, वीति । अन्नं वै वि । अन्ने हीमानि सर्वाणि भूतानि विष्टानि । रमिति । प्राणो वै रम् । प्राणे हीमानि सर्वाणि भूतानि रमन्ते । सर्वाणि ह वा अस्मिन् भूतानि विशन्ति; सर्वाणि भूतानि रमन्ते, य एवं वेद ॥ १ ॥
त्रयोदशं ब्राह्मणम् [प्राणे उक्थादिदृष्टयः]
उक्थम् । प्राणो वा उक्थम्। प्राणो हीदँ सर्वम् उत्थापयति । उद्धारमा दुक्थ विद्धीरस्तिष्ठति, उक्थस्य सायुज्यँ सलोकतां जयति। य एवं वेद ॥ १ ॥
यजुः । प्राणो वै यजुः । प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषस्सायुज्यँ सलोकतां जयति, य एवं वेद ॥ २ ॥
साम । प्राणो वै साम । प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते, साम्नः सायुज्यँ सलोकतां जयति, य एवं वेद ॥३॥
क्षत्रम् । प्राणो वै क्षत्रम् । प्राणो हि वै क्षत्रम् । त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रमत्र माप्नोति, क्षत्रस्य सायुज्यँ सलोकतां जयति, य एवं वेद ॥ ४ ॥
चतुर्दशं - गायत्रब्रह्मोपासनाब्राह्मणम् [सावित्रीगायत्र्युपाधिकब्रह्मोपासनम्]
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि । अष्टाक्षरँ हवा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदेषु त्रिषु लोकेषु तावद्ध जयति, योऽस्या एतदेवं पदं वेद ॥१॥
ऋचो यजूँषि सामानीत्यष्टावक्षराणि । अष्टाक्षरँ ह वा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावतीयं त्रयी विद्या तावद्ध जयति, योऽस्या एतदेवँ पदं वेद ॥२॥
प्राणोऽपानो व्यान इत्यष्टावक्षराणि । अष्टाक्षरँ हवा एकं गायत्र्यै पदम् । एतदु हैवास्या एतत् । स यावदिदं प्राणि तावद्ध जयति; योऽस्या एतदेवं पदं वेद । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजाः, य एष तपति । यद्वै चतुर्थं तत् तुरीयम् । दर्शतं पदमिति । ददृश इव ह्येषः । परोरजा इति । सर्वमु ह्येवैष रज उपर्युपरि तपति । एवँ हैव श्रिया यशसा तपति, योऽस्या एतदेवं पदं वेद ॥३॥
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता । तद्वैतत्सत्ये प्रतिष्ठितम् चक्षुर्वै सत्यम् चक्षुर्हि वै सत्यम् । तस्माद्यदिदानीं द्वौ विवदमानावेयाता- महम् अदर्शमहमश्रौषमिति, य एवं ब्रूयादहमदर्शमिति तस्मा एवं श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितम् । प्राणो वै बलम् । तत्प्राणे प्रतिष्ठितम् तस्मादाहुर्बलँ सत्यादोजीय इति । एवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गयाँस्तत्रे ।
प्राणा वै गयाः। तत्प्राणाँस्तत्रे। तद्यद्गयाँस्तत्रे, तस्माद्गायत्री नाम । स यामेवामूँ सावित्रीमन्वाहः एषैव सा । स यस्मा अन्याह । तस्य प्राणाँस्त्रायते ॥ ४ ॥
ताँ हैतामेके सावित्रीमनुष्टुभमन्वाहुः, वागनुष्टुप् एतद्वाचमनुब्रूम इति । न तथा कुर्यात् । गायत्रीमेव सावित्रीमनुब्रूयात् । यदिह वा अप्येवंविद्वह्विव प्रतिगृह्णाति; न हैव तद्गायत्र्या एकञ्चन पदं प्रति ॥ ५ ॥
स य इमाँस्त्रीन् लोकान् पूर्णान् प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं पदमाप्नुयात् । अथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात्; सोऽस्या एतद् द्वितीयं पदमाप्नु- यात् । अथ यावदिदं प्राणि यस्तावत् प्रतिगृह्णीयात्; सोऽस्या एतत् तृतीयं पदमाप्नुयात् । अथास्या एतदेव तुरीयं दर्शतं पदं परोरजाः, य एष तपति । नैव केन च नाप्यम्; कुत उ एतावत् प्रतिगृह्णीयात् ॥ ६ ॥
[गायत्र्युषस्थानम्]
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि; न हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोजसे । असावदो मा प्रापत् इति, यं द्विष्यात्, असावस्मै कामो मा समृद्धि इति वा, - न हैवास्मै स काम ऋध्यते, यस्मा एवमुपतिष्ठते - अहमदः प्रापम् इति वा ॥ ७ ॥
[जनकेन अग्निरूपमुखोपदेशः]
एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच, यन्नु हो तद्गायत्रीविदबूथाः, अथ कथँ हस्तीभूतो वहसीति । मुखँ ह्यस्याः सम्राण्ण विदाञ्चकारेति होवाच । तस्या अग्निरेव मुखम् । यदिह वा अपि बह्व वाग्ना वभ्यादधाति, सर्वमेव तत् सन्दहति । एवँ हैवैवंवित् यद्यपि बह्विव पापं कुरुते, सर्वमेव तत् संसाय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥ ८ ॥
सामाध्याये पञ्चदश ब्राह्मणम् [मुमुक्षुकर्तृकप्रार्थनामन्त्राः]
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह, रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ बायुरनिलममृतमथेदं भस्यान्तँ शरीरम् । ओं३ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतं स्मर ॥ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १ ॥ ॥ इति सप्तमाध्याये पञ्चदर्श ब्राह्मणम् ॥ ॥समाप्तश्च सप्तमोऽध्यायः ॥
Chapter - 6
अष्टमोऽध्यायः प्रथमं ब्राह्मणम् [प्राणविद्या - ज्येष्ठ श्रेष्ठप्राणविद्या] यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्टश्च श्रेष्ठश्च । ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बृभूषति, य एवं वेद ॥ १ ॥
यो ह वै वसिष्ठां वेदः वसिष्ठः स्वानां भवति । वाग् वै वसिष्ठा । वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति, य एवं वेद ॥ २ ॥
[चक्षुषः प्रतिष्ठात्वम्] यो ह वै प्रतिष्ठां वेद, प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे । चक्षुर्वै प्रतिष्ठा । चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति । प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे, य एवं वेद ॥ ३ ॥
[श्रोत्रस्य सम्पत्त्वम्] यो ह वै सम्पदं वेद, सँ हास्मै पद्यते यं कामं कामयते । श्रोत्रं वै संपत् । श्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । सँ हास्मै पद्यते यं कामं कामयते, य एवं वेद ॥ ४ ॥
[मनसः आयतनत्वम्] यो ह वा आयतनं वेद, आयतनँ स्वानां भवति । आयतनं जनानाम् । मनो वा आयतनम् । आयतनँ स्वानां भवत्यायतनं जनानाम्, य एवं वेद ॥ ५ ॥
[रेतसः प्रजातिगुणत्वम्] यो ह वै प्रजार्ति वेद, प्रजायते ह प्रजया पशुभिः । रेतो वै प्रजातिः । प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६ ॥
[प्राणवागादीनां विवादः] ते हेमे प्राणा अहँश्रेयसे विवदमाना ब्रह्म जग्मुः । तद्धोचुः को नो वसिष्ठ इति । तद्धोवाच यस्मिन् उत्क्रान्ते इदँ शरीरं पापीयो मन्यते, स वो बसिष्ठ इति ॥ ७ ॥
[वाचः स्वसामर्थ्य परीक्षार्थम् उत्क्रमणम्] वाग्घोच्चक्राम । सा संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितुमिति । ते होचुर्यथा कला अवदन्तो वाचा, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तश्शोत्रेण, विद्वाँसो मनसा, प्रजायमाना रेतसा एबमजीविष्मेति । प्रविवेश ह वाक्॥८॥
[चक्षुषः स्वसामर्थ्यपरीक्षार्थं उत्क्रमणम्] चक्षुर्होच्चक्राम । तत् संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितु- मिति । ते होचुर्यथा अन्धा अपश्यन्तश्चक्षुषा, प्राणन्तः प्राणेन, वदन्तो वाचा, शृण्वन्तश्श्रोत्रेण, विद्वांसो मनसा, प्रजायमाना रेतसा - एवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९ ॥
[श्रोत्रस्य शरीरादुत्क्रमणम्] श्रोत्रँ होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा, पश्यन्तश्चक्षुषा विद्वाँसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह श्रोत्रम् ॥ १० ॥
[मनस उत्क्रमणम्] मनो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितु- मिति । ते होचुर्यथा मुग्धा अविद्वाँसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तः चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः ॥ ११ ॥
[रेतसः उत्क्रमणम्] रेतो होच्चक्राम । तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति । ते होचुर्यथा क्लीबा अप्रजायमानाः रेतसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वाँसो मनसैवमजीविष्मेति । प्रविवेश ह रेतः ॥ १२ ॥
[मुख्यप्राणोत्क्रमणे वागादिभिरनुत्क्रमप्रार्थना] अथ ह प्राणा उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ् कून् संबृहेत्, एवँ हैवेमान् प्राणान् संबबर्ह । ते होचुः मा भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं कुरुतेति । तथेति ॥ १३ ॥
[वागादीनां शरणागतिः] सा ह वागुवाच, यद्वा अहं वसिष्ठाऽस्मि, त्वं तद्वसिष्ठोऽसीति । यद्वा अहं प्रतिष्ठाऽस्मि त्वं तत् प्रतिष्ठोऽसीति चक्षुः । यद्वा अहँ सम्पदस्मि, त्वं तत् संपदसीति, श्रोत्रम् । यद्वा अहमायतनमस्मि, त्वं तदायतनमसीति मनः । यद्वा अहं प्रजातिरस्मि, त्वं तत् प्रजातिरसीति रेतः । तस्यो मे किमन्नं किं वास इति । यदिदं किञ्चाश्वभ्य क्रिमिभ्य आ कीटपतङ्गेभ्यः, तत्तेऽन्नम्; आपो वास इति । न ह वा अस्यानन्नं जग्धं भवति, नानन्नं प्रतिगृहीतम्, य एवमेतदनस्यान्नं वेद । तद्विद्वाँसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चाचामन्ति, एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४ ॥
॥ द्वितीयं ब्राह्मणम् ॥ [पञ्चाग्निविद्या] श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदम् आजगाम । स आजगाम जैबलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद, कुमारा ३ इति । स भो ३ इति प्रतिशुश्राव । अनुशिष्टो न्वसि पित्रेति । ओमिति होवाच ॥ १ ॥
[राज्ञा पृष्टाः पञ्चपश्नाः] वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच । वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति होवाच । घेत्थो यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिः न सम्पूर्यता ३ इति । नेति होवाच । वेत्थो यतिथ्यामाहुल्याँ हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा, यत् कृत्वा देवयानं मा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । अपि हि न ऋषेर्वचः श्रुतम् । हे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् । साभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च इति । नाहमत एकञ्चन वेदेति होवाच ॥ २ ॥
[श्वेतकेतोः पितृसमीपगमनम्] अथैनं वसत्योपमन्त्रयाञ्चक्रे । अनादृत्य वसतिं कुमारः प्रदुद्राव । स आजगाम पितरम् । तँ होवाच, इति वाव किल नो भवान् पुराऽनुशिष्टानवोचदिति । कथँ सुमेध इति । पञ्च मा प्रश्नान् राजन्यबन्धुः अप्राक्षीत्, ततो नैकञ्चन वेदेति । कतमे त इति । इम इति ह प्रतीकान्युदाजहार ॥ ३ ॥
स होवाच, तथा नस्त्वं तात जानीथाः यथा यदहं किञ्चन वेद सर्वमहं सत्तुभ्यमवोचम् । प्रैहि तु तत्र प्रतीत्य ब्रह्मचर्यं वस्त्याव इति । भवानेव गच्छतु इति । स आजगाम गौतमो पत्र प्रवाहणस्य जैबलरासा । तस्मा आसनमाहृत्य उदकमाहारयाञ्चकार । अथ हास्मा अर्ध्यं चकार । तँ होवाच वरं भगवते गौतमाय दद्म इति ॥ ४ ॥
स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्य अन्ते वाचमभाषथाः तां मे ब्रूहीति ॥ ५ ॥
[राज्ञः प्रत्युत्तरम्]
स होवाच दैवेषु वै गौतमो तद्वरेषु मानुषाणां ब्रूहीति ॥ ६ ॥
स होवाच, विज्ञायते हास्ति हिरण्यस्यापात्तं गो अश्वानां दासीनां प्रवाराणां परिधानस्य। मा नो भवान् बहोरनन्तरस्य अपर्यन्तस्याभ्यवदान्यो अभूदिति। स वै गौतम! तीर्थेनेच्छासा इति । उपैम्यहं भवन्तमिति । वाचा ह स्मैव पूर्वं उपयन्ति । स होपायनकीर्त्योवास ॥७ ॥
स होवाच, तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथा । इयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास । तां त्वहं तुभ्यं वक्ष्यामि । को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८ ॥
[आदौ चतुर्थप्रश्नस्योत्तरम्]
असौ वै लोकोऽग्निर्गौतम । तस्याऽऽदित्य एव समित्, रश्मयो धूमोऽहरर्चिर्दिशोऽङ्गाराः, अवान्तरदिशो विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९ ॥
[द्वितीयाहुतिस्वरूपम्]
पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समित्; अभ्राणि धूमो विद्युदर्चिरशनिरङ्गाराः, ह्वादुनयो विस्फुलिङ्गाः, तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति । तस्या आहुत्यै वृष्टिः संभवति ॥ १० ॥
अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समित्, अग्निर्धूमोरात्रिरर्चिश्चन्द्रमा अङ्गाराः, नक्षत्राणि विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति । तस्या आहुत्या अन्नँ सम्भवति ॥ ११ ॥
पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित्, प्राणो धूमो वागर्चिः चक्षुरङ्गाराः, श्रोत्रं विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति । तस्या आहुत्यै रेतः सम्भवति ॥ १२ ॥
योषा वा अग्निर्गौतम । तस्या उपस्थ एव समित्, लोमानि धूमो योनिरर्चिः, यदन्तः करोति तेऽङ्गाराः, अभिनन्दा विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुत्यै पुरुषः सम्भवति स जीवति यावज्जीवति । अथ यदा म्रियते ॥ १३ ॥
अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति । समित् समित् । धूमो धूमोऽर्चिरचिरङ्गारा अङ्गाराः, विस्फुलिङ्गा विस्फुलिङ्गाः । तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति । तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ १४ ॥
अस्याः षष्ठ्या आहुतेः अग्निसमिदादिकं न काल्पनिकम्। अपि तु स्वाभाविकमेव । तस्मिन्नेतस्मिन्नग्नौ भास्वरवर्णः सम्भवति । तस्मिन्नग्नौ ऋत्विग्भिः, असौ स्वर्गाय लोकाय स्वाहा इति यजमाने हुते सति द्युलोके दीप्यमानशरीरो यजमानो निष्पद्यते इत्यर्थः ॥ १४ ॥
ते ये एवमेदद्विदुर्येचामी अरण्ये श्रद्धां सत्यमुपासते, तेऽर्चिरभिसम्भवन्ति; अर्चिषोऽहरह्न आपूर्यमाणपक्षम्, आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति, मासेभ्यो देवलोकम्, देवलोकादादित्यम्, आदित्यात् वैद्युतम् । तान् वैद्युतान् पुरुषो मानस एत्य प्रहालोकान्, गमयति । तेषु ब्रह्मलोकेषु पराः परावन्तो वसन्ति । तेषां न पुनरावृत्तिः ॥ १५ ॥
अथ ये यज्ञेन दानेन तपसा लोकान् जयन्ति, ते धूममभिसम्भवन्ति; धूमाद्रात्रिं रात्रेरपक्षीयमाणपक्षम् अपक्षीयमाणपक्षात् यान् षण्मासान् दक्षिणादित्य एति, मासेभ्यः पितृलोकं पितृलोकाञ्चन्द्रम् । ते चन्द्रं प्राप्यान्नं भवन्ति । ताँस्तत्र देवाः, यथा सोमं राजानम् आप्यायस्वापक्षीयस्वेत्येवमेनाँस्तत्र भक्षयन्ति । तेषां यदा तत् पर्यवैति, अथेममेवाकाशमभिनिष्पद्यन्ते, आकाशाद्वायुम्, वायोर्वृष्टिम्, वृष्टेः पृथिवीम्, ते पृथिवीं प्राप्यान्नं भवन्ति । ते पुनः पुरुषाग्नौ हूयन्ते; ततो योषाग्नौ जायन्ते । ते लोकान् प्रत्युत्थायिनः । त एवमेवानुपरिवर्तन्ते । अथ य एतौ पन्थानौ विदुः ते कीटाः पतङ्गाः यदिदं दन्दशूकम् ॥ १६ ॥
तृतीयं ब्राह्मणम् [महत्वसिद्धिदं मन्थाख्यं कर्म]
स यः कामयेत महत् प्राप्नुयामिति, उदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वा औदुम्बरे कँसे चमसे वा सर्वोषधं फलानीति संभृत्य, परिसमूह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्य आवृताज्यँ सँस्कृत्य, पुंसा नक्षत्रेण मन्थँ संनीय, जुहोति- यावन्तो देवास्त्वयि जातवेदः तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् । तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्तास्सर्वेः कामैस्तर्पयन्तु स्वाहा; या तिरश्ची निपद्यतेऽहं विधरणी इति । तां त्वा घृतस्य धारया यजे सँराधनीमहँ स्वाहा ॥ १ ॥
[मन्थानोपयोगिमन्त्राः]
ज्येष्ठाय स्वाहा; श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति ।
प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । श्रोत्राय स्वाहा आयतनाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति । रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमनयति ॥ २ ॥ अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भूः स्वाहेत्यग्नो हुत्वा मन्थे सँस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भूर्भुवस्स्वः स्वाहेत्याग्नौ हुत्वा मन्थे सँस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ मन्थे सँस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवयमनमति ।
प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे सँस्रवमवनयति ॥ ३ ॥
[अभिमर्शनमन्त्राः] अथैनमभिमृशति, भ्रमदसि ज्वलदसि पूर्णमसि प्रस्तभ्धमस्येकसभमसि हिङ् कृतमसि हिङ् क्रियमाणमसि उद्गीथमसि उद्गीयमानमसि श्रावितमसि प्रत्याश्रावितमसि आद्रे संदीप्तमसि विभूरसि प्रभूरस्थानमसि ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४ ॥
अथैनमुद्यच्छति, आमँस्यामँहितेमहि स हि राजेशानोऽधिपतिः स मां राजेशानोऽधिपतिं करोत्विति ॥ ५ ॥
[सावित्र्यादिना आचमनम्] अथैनमाचामति, तत्सवितुर्वरेण्यम् । मधुवाता ऋतायते मधुक्षरन्ति सिन्धवः माध्वीर्नः सन्त्वोषधीः भूःस्वाहा । भर्गो देवस्य धीमहि, मधुनक्तमुतोषसो मधुमत् पाथिर्वं रजः मधु द्यौरस्तु नःपिता भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः माध्वीर्गावो भवन्तु नः, स्वः स्वाहेति । सर्वाञ्च सावित्रीमन्वाह सर्वाश्च मधुमतीः [सर्वाश्च व्याहृतीः] अहमेवेदँ सर्वं भूयासम्; भूर्भुवस्स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्छिराः संविशति ॥ ६ ॥ प्रातरादित्यमुपतिष्ठते, दिशामेकपुण्डरीकमस्यहं मनुष्याणामेकपुण्डरीकं भूयासमिति । यथेतमेत्य जघनेनाग्निमासीनो वँश जपति ॥ ६ ॥
तँ हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्याय अन्तेवासिन उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषिञ्चेत्, जायेरच्छाखाः, प्ररोहेयुः पलाशानीति ॥ ७ ॥
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषेञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८ ॥ एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एवँ शुष्के स्थाणौ निषिञ्चेत्, जायेरन् शाखाः, प्ररोहेयुः पलाशानीति ॥ ९ ॥ एतमु हैव चूलो भागवित्तिर्जानकस्य आयस्थूणायान्ते वासिन उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषिञ्चेत् जायेरन् शाखाः, प्ररोहेयुः पलाशानीति ॥ १० ॥ एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालाय अन्तेवासिने उक्त्वोवाच - अपि य एनँ शुष्के स्थाणौ निषिञ्चेत् । जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ११ ॥ एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वा उवाच अपि य एनँ शुष्के स्थाणौ निषिञ्चेत्, जायेरन् शाखाः प्ररोहेयुः पलाशानीति । तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२ ॥
[मन्थप्रकृतिद्रव्यगणनम्] चतुरौदुम्बरो भवति, औदुम्बरः स्रुव औदुम्बरः चमस औदुम्बर इध्म औदुम्बर्या वुपमन्थानौ । दशग्राम्याणि धान्यानि भवन्ति, व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च । तान् पिष्ट्वा दधनि मधुनि घृत उपसिञ्चति । आज्यस्य जुहोति ॥ १३ ॥
चतुर्थं ब्राह्मणम् -
पुत्रमन्थकर्मब्राह्मणम् एषां भूतानां पृथिवी रसः, पृथिव्या आपोऽपामोषधय ओषधीनां पुष्पाणि, पुष्पाणां फलानि, फलानां पुरुषः, पुरुषस्य रेतः ॥१॥
स ह प्रजापतिरीक्षाञ्चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति । स स्त्रियँ ससृजे । ताँ सृष्ट्वाऽध उपास्त । तस्मात् स्त्रियमध उपासते । स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् । तेनैनामभ्यसृजत् ॥ २ ॥
[अधोपहासे वाजपेयदृष्टिः तत्फलं च] तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतःस्थौ मुष्कौ । स यावान् ह वै वाजपेयेन यजमानस्य लोको भवति, तावानस्य लोको भवति, य एवं विद्वानधोपहासं चरति; आसाँ स्त्रीणाँ सुकृतं वृङ्क्ते । अथ य इदमविद्वानधोपहासं चरति, अस्य स्त्रियः सुकृतं वृञ्जते ॥ ३ ॥
एतद्ध स्म वै तद् विद्वानुद्दालक आरुणिराह, एतद्ध स्म वै तद् विद्वान्नाको मौद्गल्य आह, एतद्ध स्म वै तद् विद्वान् कुमारहारित आह - बहवो मर्या ब्राह्मणायना निरिन्द्रिया विसुकृतो अस्माल्लोकात् प्रयन्ति, य इदमविद्वाँसोऽधोपहासं चरन्तीति । बहु वा इदँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४ ॥
तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीम् अस्कान्त्सीद्यदोषधीरप्यसरत् यदप इदमहं तद्रेत आददे पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्तामित्यनामिकाङ् गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ ५ ॥
अथ यद्युदक आत्मानं परिपश्येत्, तदभिमन्त्रयेत, मयि तेज इन्द्रियं यशो द्रविणँ सुकृतम् इति । श्रीर्हवा एषा स्त्रीणाम्, यन्मलोद्वासाः । तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६ ॥
[स्त्री वशीकरणार्थं जपादि] सा चैदस्मै न दद्यात्, काममेनामवक्रीणीयात्, सा चैदस्मै नैव दद्यात्, काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत, इन्द्रियेण ते यशसा यश आदद इति; अयशा एव भवति ॥७॥ सा चेदस्मै दद्यात् - इन्द्रियेण ते यशसा यश आदधामि इति; यशस्विनावेव भवतः ॥८॥ स यामिच्छेत्, कामयत मेति, तस्यामर्थं निष्ठाय मुखेन मुखेँ सन्धायोपस्थम् अस्या अभिमृश्य जपेत्, अङ्गादङ्गात् सम्भवसि हृदयादधि जायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ ९ ॥ अथ यामिच्छेत् न गर्भं दधीतेति, तस्यामर्थं निष्ठाय मुखेन मुखँ सन्धायाभिप्राण्यापान्यात्, इन्द्रियेण ते रेतसा रेत आदद इति । अरेता एव भवति ॥ १० ॥ अथ यामिच्छेत्, दधीतेति, तस्यामर्थं निष्ठाय मुखेन मुखँ सन्धायापान्याभि- प्राण्यात् इन्द्रियेण ते रेतसा रेत आदधामीति; गर्भिण्येव भवति ॥ ११ ॥
[जारस्य हानिकल्पनायाभिचारिकम्] अथ यस्य जायायै जारः स्यात् - तञ्चेद् द्विष्यात्, आमपात्रेऽग्निमुपसमाधाय प्रतिलोमँ शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाऽक्ता जुहुयात् - मम समिद्धेऽहौषीः, प्राणापानौ त आददे; असाविति । मम समिद्धेऽहौषीः, पुत्र- पशूँस्त आददे; असाविति । मम समिद्धेऽहौषीः, इष्टासुकृते त आददे; असाविति । मम समिद्धेऽहौषीः आशापराकाशौ त आददेऽसाविति स वा एष निरिन्द्रियो विसुकृदस्माल्लोकात्प्रैति, यमेवं विद्वान् ब्राह्मणः शपति ॥ तस्मादेवँविच्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित् परो भवति ॥ १२ ॥
[ऋतुकालनियमाः]
अथ यस्य जायामार्तवं विन्देत्, त्र्यहं कँसेन पिबेदहतवासाः, नैनां वृषलो न वृषल्युपहन्यात्, त्रिरात्रान्त आप्लुत्य व्रीहिनवघातयेत् ॥ १३ ॥
[सर्वोत्कृष्टपुत्रोत्पत्तये पण्डितदुहित्रुत्पत्तये च कर्तव्यम्]
अथ य इच्छेत्पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति, क्षीरौदनं पाचयित्वा सर्पिष्मन्तम् अश्नीयाताम् । ईश्वरौ जनयितवै ॥ १४ ॥
अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रवीत सर्वमायु- रियादिति; दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् । ईश्वरौ जनयितवै ॥ १५ ॥
अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदानुब्रुवीत सर्वमायुरियात् इति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ईश्वरौ जनयितवै ॥ १६ ॥
अथ य इच्छेत् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति, तिलौदनं पाचयित्वा सर्पिष्मन्तं अश्नीयाताम् । ईश्वरौ जनयितवै ॥ १७ ॥
अथ य इच्छेत्पुत्रो मे पण्डितो विजिगीथः समितिङ्गमः शुश्रूषितां वाचं भाषिता जायते सर्वान् वेदाननुब्रवीत सर्वमायुरियादिति माँसौदनं पाचयित्वा । सर्पिष्मन्तमश्नीयाताम् - ईश्वरौ जनयितवै - औक्ष्णेन वार्षभेण वा ॥ १८ ॥
अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोति, अग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति । हुत्वोद्धृत्यप्राश्नाति । प्राश्येतरस्याः प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्यां सञ्जायां पत्या सहेति ॥ १९ ॥
अथैनामभिपद्यते, अमोऽहमस्मि सा त्वँ सा त्वमस्यमोहँसामाहमस्मि ऋक् त्वं द्यौरहं पृथिवीत्वम् तावेहि सँरभावहै, सह रेतो दधावहै पुँसे पुत्राय वित्तय इति ॥ २० ॥
अथास्या ऊरू विहापयति, विजिहीथां द्यावापृथिवी इति । तस्यामर्थं निष्ठाय मुखेन मुखँ सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि- विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिँशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ गर्भं धेहि सिनीवाली गर्भं धेहि पृथुष्टुके । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१ ॥
हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ । तत्ते गर्भं हवामहे दशमे मासि सूतवे । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी । वायुर्दिशां यथा गर्भ एवं गर्भं दधामि ते असाविति ॥ २२ ॥ [सुखप्रसवोपायः]
सोष्यन्तीमद्भिरभ्युक्षति - यथा वायुः पुष्करिणीँ समिङ्गयति सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा ॥ इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः । तमिन्द्र निर्जहि गर्भण सावराँ सहेति ॥ १३ ॥ [जातकर्मकथनम्]
जातेऽग्निमुपसमाधाय, अङ्क आधाय कँसे पृषदाज्यँ संनीय पृषदाज्य- स्योपघातं जुहोति - अस्मिन् सहस्रं पुष्यासमेधमान; स्वे गृहे । अस्योपसद्यां माच्छेत्सीत् प्रजया च पशुभिश्च स्वाहा । मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा । यत् कर्मणाऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ २४ ॥
अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु घृतँ सन्नीयानन्तर्हितेन जातरूपेण प्राशयति, भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवःस्वः सर्वं त्वयि दधामीति ॥ २५ ॥ [नामकरणम्]
अथास्य नाम करोति, वेदोऽसीति । तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥ [स्तनप्रदानमन्त्रः]
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति- यस्ते स्तनः स (श) शयो यो मयोभूर्या रत्नधा वसुविद्यस्सुदत्रः । येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवेकरिति ॥ २७ ॥ [मात्रभिमन्त्रणं सुपितापुत्रस्तुतिश्च]
अथास्य मातरमभिमन्त्रयते- इलाऽसि मैत्रावरुणी वीरे वीरमजीजनत् । सा त्वं वीरवती भव याऽस्मान् वीरवतोऽकरदिति ॥ तं वा एतमाहुः अतिपिता सताभूरति पितामहो बताभूः परमां बत । काष्ठां प्रापच्छ्रिया यशसा प्रहावर्चसेन, य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८ ॥ ॥ इति आहमाध्याये चतुर्थ ब्राहाणम् ॥
पञ्चमं ब्राह्मणं - वंशब्राह्मणम् अथ वँशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात्, कात्यायनीपुत्रो गौतमीपुत्रात्, गौतमीपुत्रो भारद्वाजीपुत्रात्, भारद्वाजीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रः औपस्वस्तीपुत्रात्, औपस्वस्तीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रः कात्ययनीपुत्रात्, कात्यायनीपुत्रः कौशिकीपुत्रात्, कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्रच्च, वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्रच्च, कापीपुत्रः ॥१॥
आत्रेयीपुत्रात्, आत्रेयीपुत्रो, गौतमीपुत्रात्, गौतमीपुत्रो भारद्वाजीपुत्रात्, भारद्वाजीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रो वात्सीपुत्रात्, वात्सीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रो वार्कारुणीपुत्रात्, वार्कारुणीपुत्रो वार्कारुणीपुत्रात्, वार्कारुणीपुत्रः आर्तभागीपुत्रात्, आर्तभागीपुत्रः शौङ्गीपुत्रात्, शौङ्गीपुत्रः सांकृतीपुत्रात्, सांकृतीपुत्र आलम्बायनीपुत्रात्, आलम्बायनीपुत्र आलम्बीपुत्रात्, आलम्बीपुत्रो जायन्तीपुत्रात्, जायन्तीपुत्रो माण्डूकायनीपुत्रात्, माण्डूकायनीपुत्रो माण्डूकीपुत्रात्, माण्डूकीपुत्रः शाण्डिलीपुत्रात्, शाण्डिलीपुत्रो राथीतरीपुत्रात्, राथीतरीपुत्रो भालुकीपुत्रात्, भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम्, क्रौञ्चिकीपुत्रौ वैदृभदीपुत्रात्, वैदृभतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात्, प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात्, साञ्जीवीपुत्रः प्राश्नी पुत्रादासुरिवासिनः, प्राश्नीपुत्र आसुरायणात्, आसुरायण आसुरेः, आसुरिः ॥ २ ॥
याज्ञवल्क्यात् याज्ञवल्क्य उद्दालकात्, उद्दालकोऽरुणात्, अरुण उपवेशेः, उपवेशिः कुश्रेः, कुश्रिर्वाजश्रवसो वाजश्रवा जिह्वावतो जिह्वावान् वाध्योगात्, वाध्योगोऽसिताद्वार्षगणात्, असितो वार्षगणो हरितात् कश्यपात्, हरितः कश्यपः शिल्पात् कश्यपात्, शिल्पः कश्यपः कश्यपान्नैर्ध्रुवेः, कश्यपो नैध्रुविर्वाचो वाक् अम्भिण्याः, अम्भिण्यादित्यात् । आदित्यानीमानि शुक्लानि यजूँषि वाजसनेयेन याज्ञवल्क्येनाऽऽख्यायन्ते ॥३॥
समानमा साञ्जीवीपुत्रात्, साञ्जीवीपुत्रो माण्डूकायनेः, माण्डूकायनिर्माण्डव्यात्, माण्डव्यः कौत्सात्, कौत्सो माहित्थेः, माहित्थिर्वामकक्षायणात्, वामकक्षायणः शाण्डिल्यात्, शाण्डिल्यो वात्स्यात्, वात्स्यः कुश्रेः, कुश्चिर्यज्ञवचसो राजस्तम्बायनात्, यज्ञवचा राजस्तम्बायनस्तुरात् कावषेयात्, तुरः कावषेयः प्रजापतेः, प्रजापतिर्ब्रह्मणः । ग्राहा स्वयम्भु । ग्रहाणे नमः ॥ ४ ॥
॥ आठमाध्याये पञ्चमं ब्राह्मणम् ॥
॥ समाता च बृहदारण्यकोपनिषत् ॥
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥