Śrīkoṣa

Chāṇdogya Upaniṣad

By Unknown

Composed in Unknown

8 chapters535 verses

Filter Content

Display Mode

Chapter - 1

शान्तिपाठः
ओम् आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि,
सर्वं ब्रह्मोपनिषदम्, माऽहं ब्रह्म निराकुर्यां, मा मा ब्रह्म निराकरोत् अनिराकरणमस्तु,
अनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु, ते मयि सन्तु ॥
॥ ओं शान्तिः शान्तिः शान्तिः ॥
View Verse
प्रथमः प्रपाठकः
प्रथमः खण्डः
[प्रणवोपासनस्य रसतमत्वकामाप्तिसमृद्धिगुणकत्वादिप्रकारवैशिष्ट्यम् ।
हरिः ओम् – ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति ।
तस्योपव्याख्यानम् ॥ १ ॥
View Verse
एषां भूतानां पृथिवी रसः, पृथिव्या आपो रसः, अपामोषधयो रसः, ओषधीनां पुरुषो रसः । पुरुषस्य वाक् रसः, वाचः ऋक् रसः, ऋचः साम रसः,साम्नः उद्गीथो रसः ॥ २ ॥
View Verse
[‘ओङ्कारः‘ रसतमः]
स एष रसानाँ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ ३ ॥
View Verse
[सर्वकामाप्तिगुणकः ओङ्कारः‘]
कतमा कतमर्क् , कतमत् कतमत् साम, । कतमः कतम उद्गीथ इति विमृष्टंभवति ॥ ४ ॥
View Verse
[ओङ्कारः ऋक्सामभ्यां मिथुनरूपः]
वागेवर्क् प्राणः साम, ओमित्येतदक्षरमुद्गीथः । तद्वा एतन्मिथुनम् ,यद्वाक् च प्राणश्च, ऋक् च साम च ॥ ५ ॥
View Verse
[मिथुनरूपस्य फलम्]
तदेतन्मिथुनम् ओमित्येतस्मिन्नक्षरे सँसृज्यते, यदा वै मिथुनौ समागच्छतः,आपयतो वै तावन्योन्यस्य कामम् ॥ ६ ॥
View Verse
[उद्गीथोपासनस्य फलम्]
आपयिता ह वै कामानां भवति, य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ७ ॥
View Verse
तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदा हैषो एव समृद्धिर्यदनुज्ञा
समर्द्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ ८ ॥
View Verse
[ओङ्कारस्य स्तुतिः]
तेनेयं त्रयी विद्या वर्तते, ओमित्याश्रावयति, ओमिति शँसति, ओमित्युद्गायतिएतस्यैवाक्षरस्यापचित्यै महिना रसेन ॥ ९ ॥
View Verse
[उद्गीथविद्याफलं वीर्यवत्तरत्वम् ]
तेनोभौ कुरुतो यश्चैतदेवं वेद, यश्च न वेद ; नाना तु विद्या चाविद्या च ;यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्यवत्तरं भवति ॥ इतिखल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १० ॥
॥ इति प्रथमः खण्डः ॥
View Verse
द्वितीयः खण्डः
[उद्गीथावयवे ओङ्कारे मुख्यप्राणदृष्टिः]
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्याः । तद्ध देवा उद्गीथमाजहुः,‘अनेनैनान् अभिभविष्याम‘ इति ॥ १ ॥
View Verse
ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे ; तँ हासुराः पाप्मना विविधुः ।तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ; पाप्मना ह्येष विद्धः ॥ २ ॥
View Verse
अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे, ताँ हासुराः पाप्मना विविधुः। तस्मात्तयोभयं वदति सत्यञ्चानृतञ्च; पाप्मना ह्येषा विद्धा ॥ ३ ॥
View Verse
अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे, तद्धासुराः पाप्मना विविधुः । तस्मात्तेनोभयं पश्यति दर्शनीयञ्चादर्शनीयञ्च ; पाप्मना ह्येतद् विद्धम् ॥ ४ ॥
View Verse
अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे ; तद्धासुराः पाप्मना विविधुः । तस्मात्तेनोभयँ शृणोति श्रवणीयञ्चाश्रवणीयञ्च ; पाप्मना ह्येतद् विद्धम् ॥ ५ ॥
View Verse
अथ ह मन उद्गीथमुपासाञ्चक्रिरे; तद्धासुराः पाप्मना विविधुः; तस्मात् तेनोभयँसङ्कल्पयते सङ्कल्पनीयञ्चासंकल्पनीयञ्च ; पाप्मना ह्येतद् विद्धम् ॥ ६ ॥
View Verse
[असुराणां पराभवः]
अथ ह, य एवायं मुख्यः प्राणः, तमुद्गीथमुपासाञ्चक्रिरे ; तँ हासुराऋत्वा विदध्वँसुः, यथाऽश्मानमाखणमृत्वा विध्वँसेत, एवम् ॥ ७ ॥
View Verse
[उद्गीथविद्यायाः फलम्]
यथाऽश्मानमाखणमृत्वा विध्वँसते, एवं हैव स विध्वँसते, य एवंविदिपापं कामयते, यश्चैनमभिदासति; स एषोऽश्माखणः ॥ ८ ॥
View Verse
[अपहतपाप्मा मुख्यप्राणः]
नैवैतेन सुरभि न दुर्गन्धि विजानाति ; अपहतपाप्मा ह्येषः । तेन यदश्नातियत्पिबति तेनेतरान् प्राणानवति; एतमु एवान्ततोऽवित्त्वोत्क्रामति ; व्याददात्येवान्ततःइति ॥ ९ ॥
View Verse
[प्राणस्य अङ्गिरसस्त्वादि]
तँ हाङ्गिराः उद्गीथमुपासाञ्चक्रे; एतमु एवाङ्गिरसं मन्यन्ते, अङ्गानां यद्रसः ॥ १० ॥
View Verse
तेन तँ ह बृहस्पतिरुद्गीथमुपासाञ्चक्रे । एतमु एव बृहस्पतिं मन्यन्ते,वाग्घि बृहती, तस्या एष पतिः ॥ ११ ॥
View Verse
तेन तँ हायास्य उद्गीथमुपासाञ्चक्रे एतमु एवायास्यं मन्यन्ते, आस्याद्यदयते ॥ १२ ॥
View Verse
तेन तँ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिषीयाणामुद्गाता बभूव ; सह स्मैभ्यः कामानागायति ॥ १३ ॥
View Verse
[अङ्गिरत्वादि गुणोपासनस्य फलम्]
आगाता ह वै कामानां भवति, य एतदेवं विद्वानक्षरमुद्गीथमुपास्तेइत्यध्यात्मम् ॥ १४ ॥
॥ इति द्वितीयः खण्डः ॥
View Verse
तृतीयः खण्डः
[आदित्यदृष्ट्या उद्गीथोपासनम्]
अथाधिदैवतम् – य एवासौ तपति तमुद्गीथमुपासीत । उद्यन्वा एषप्रजाभ्य उद्गायति; उद्यँस्तमोभयमपहन्ति ; अपहन्ता ह वै भयस्य तमसो भवति,य एवं वेद ॥ १ ॥
View Verse
[प्राणादित्ययोः समानत्वम् ]
समान उ एवायञ्चासौ च, उष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते, स्वरइति प्रत्यास्वर इत्यमुम् । तस्माद्वा एतमिमममुञ्चोद्गीथमुपासीत ॥ २ ॥
View Verse
[व्यानात्मना उद्गीथं उपासीत]
अथ खलु व्यानमेवोद्गीथमुपासीत ; यद्वै प्राणिति स प्राणः, यदपानितिसोऽपानः। अथ यः प्राणापानयोः सन्धिः स व्यानः। यो व्यानः सा वाक् ।तस्मादप्राणन् अनपानन् वाचमभिव्याहरति ॥ ३ ॥
View Verse
या वाक् सर्क् ; तस्मादप्राणन् अनपानन् ऋचमभिव्याहरति । यर्क् तत्साम ; तस्मादप्राणन् अनपानन् साम गायति ; यत् साम स उद्गीथः, तस्मादप्राणन्अनपानन् उद्गायति ॥ ४ ॥
View Verse
अतो यान्यन्यानि वीर्यवन्ति कर्माणि, यथा – अग्नेर्मन्थनमाजेः सरणम्,दृढस्य धनुष आयमनम् – अप्राणन् अनपानँस्तानि करोत्येतस्य हेतोर्व्यानमेवउद्गीथमुपासीत ॥ ५ ॥
View Verse
अथ खलूद्गीथाक्षराण्युपासीत, उद्गीथ इति । प्राण एव उत् ; प्राणेनह्युत्तिष्ठति । वाग्गीः, वाचो ह गिर इत्याचक्षते । अन्नं थम् । अन्ने हीदँ सवँस्थितम् ॥ ६ ॥
View Verse
[उद्गीथनामाक्षरोपासनम्]
द्यौरेव उत् , अन्तरिक्षं गीः, पृथिवी थम्, आदित्य एव उत् ; वायुर्गीः,अग्निः थम् ; सामवेद एव उत् , यजुर्वेदो गीः, ऋग्वेदः थम् ; दुग्धेऽस्मै वाग्दोहम् ; यो वाचो दोहः, अन्नवान् अन्नादो भवति, य एतान्येवं विद्वान् उद्गीथाक्षराणिउपास्ते उद्गीथ इति ॥ ७ ॥
View Verse
[आशीस्समृध्द्यर्थोपसरणानि]
अथ खल्वाशीः समृद्धिरुपसरणानीत्युपासीत – येन साम्ना स्तोष्यन्स्यात् , तत् सामोपधावेत् ॥८॥
View Verse
यस्यामृचि, तामृचम् । यदार्षेयम्, तमृषिम् यां देवतामभिष्टोष्यन् स्यात् ,तां देवतामुपधावेत् ॥ ९ ॥
View Verse
येनच्छन्दसा स्तोष्यन् स्यात् , तच्छन्द उपधावेत् । येन स्तोमेन स्तोष्यमाणःस्यात्, तँ स्तोममुपधावेत् ॥ १० ॥
View Verse
यां दिशमभिष्टोष्यन् स्यात् , तां दिशमुपधावेत् ॥ ११ ॥
View Verse
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन् अप्रमत्तः। अभ्याशो हयदस्मै स कामः समृध्द्येत, यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १२ ॥
॥ इति तृतीयः खण्डः ॥
View Verse
चतुर्थः खण्डः
[प्रणवप्रशंसा]
ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति । तस्योप –व्याख्यानम् ॥ १ ॥
View Verse
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ; ते छन्दोभिरच्छादयन् ।यदेभिरच्छादयन्, तत् छन्दसां छन्दस्त्वम् ॥ २ ॥
View Verse
तानु तत्र मृत्युः, यथा मत्स्यमुदके परिपश्येत्, एवं पर्यपश्यदृचि साम्नियजुषि । ते नु ‘विदित्वो र्ध्वा‘; ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ ३ ॥
View Verse
यदा वा ऋचमाप्नोति ओमित्येवातिस्वरति एवँ साम एवं यजुः एष ठ स्वरःयदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ॥ ४ ॥
View Verse
[अमृताभयगुणोंकारोपासनस्य फलम्]
स य एतदेवं विद्वानक्षरं प्रणौति, एतदेवाक्षरँ स्वरममृतमभयं प्रविशतितत्प्रविश्य यदमृता देवाः तदमृतो भवति ॥५॥
॥ इति चतुर्थः खण्डः ॥
View Verse
पञ्चमः खण्डः
[प्रणबोद्गीथयोः एकत्वविज्ञानोपदेशः]
अथ खलु य उद्गीथः सः प्रणवः यः प्रणवः स उद्गीथ इति । असौ वा ।आदित्य उद्गीथ एष प्रणवः; ओमिति ह्येष स्वरन्नेति ॥ १ ॥
View Verse
एतमु एवाहमभ्यगासिषम् ; तस्मान्मम त्वमेकोऽसि इति ह कौषीतकिःपुत्रमुवाच – रश्मीँ स्त्वं पर्यावर्तयात् , बहवो वै ते भविष्यन्ति ; इत्यधिदैवतम् ॥२॥
View Verse
[मुख्यप्राणदृष्ट्या उद्गीथोपासनम्]
अथाध्यात्मम् – य एवायं मुख्यः प्राणः, तमुद्गीथमुपासीत ; ओमितिह्येष स्वरन्नेति ॥ ३ ॥
View Verse
एतमु एवाहमभ्यगासिषम् ; तस्मान्मम त्वमेकोऽसि इति ह कौषीतकिःपुत्रमुवाच – प्राणाँस्त्वं भूमानमभिगायतात् , बहवो मे भविष्यन्तीति ॥ ४ ॥
View Verse
[प्रणवोद्गीथयोरेकत्वोपासनस्य फलम्]
अथ खलु – य उद्गीथः स प्रणवः, यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापिदुरुद्गीथमनुसमाहरतीति अनुसमाहरतीति ॥ ५ ॥
॥ इति पञ्चमः खण्डः ॥
View Verse
षष्ठः खण्डः
इयमेवर्क् । अग्निस्साम, तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढ़ँसाम गीयते । इयमेव सा; अग्निरमः, तत् साम ॥ १ ॥
View Verse
अन्तरिक्षमेवर्क्, वायुस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँसाम गीयते । अन्तरिक्षमेव सा, वायुरमः, तत् साम ॥ २ ॥
द्यौरेवर्क्, आदित्यस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँसाम गीयते, द्यौरेव सा, आदित्योऽमः, तत् साम ॥ ३ ॥
नक्षत्राण्येवर्क् चन्द्रमास्साम, तदेतदेतस्यामृच्यध्यूढँ साम; तस्मादृच्यध्यूढँसाम गीयते, नक्षत्राण्येव सा, चन्द्रमा अमः, तत् साम ॥ ४ ॥
View Verse
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क्, अथ यन्नीलं परःकृष्णम् तत् साम;तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; अथ यदेवैतदादित्यस्यशुक्लं भाः सैव सा ; अथ यन्नीलं परःकृष्णम् तदमः, तत् साम ॥ ५ ॥
View Verse
[आदित्यान्तर्गतपुरुषदृष्ट्या उपासनम्]
अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशःआप्रणखात् सर्व एव सुवर्णः ॥ ६ ॥
View Verse
तस्य यथा कप्यासं पुण्डरीकामेवमक्षिणी ; तस्योदिति नाम ; स एषसर्वेभ्यः पाप्मभ्य उदितः; उदेति ह वै सर्वेभ्यः पाप्मभ्यः, य एवं वेद ॥ ७ ॥
View Verse
तस्य ऋक् च साम च गेष्णौ तस्मादुद्गीथः तस्मात्त्वेवोद्गाता एतस्य हिगाता । स एष ये चामुष्मात् पराञ्चो लोकाः तेषां च ईष्टे देवकामानां चइत्यधिदैवतम् ॥ ८ ॥
View Verse
सप्तमः खण्डः
[अध्यात्मस्वरूपम्]
अथाध्यात्मम् – वागेवर्क्, प्राणस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ;तस्मादृच्यध्यूढँ साम गीयते ; वागेव सा, प्राणोऽमः, तत् साम ॥ १ ॥
चक्षुरेवर्क्, आत्मा साम, तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँसाम गीयते ; चक्षुरेव सा, आत्माऽमः, तत् साम॥२॥
श्रोत्रमेवर्क्, मनस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँसाम गीयते ; श्रोत्रमेव सा ; मनोऽमः तत् साम ॥ ३ ॥
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क्, अथ यन्नीलं परः कृष्णम् तत् साम,तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; अथ यदेवैतदक्ष्णःशुक्लं भाः सैव सा, अथ यन्नीलं परः कृष्णम् तदमः ; तत् साम ॥ ४ ॥
View Verse
[उद्गीथे अक्षिपुरुषदृष्ट्युपयुक्तनयनपूर्वकतदृष्टिविधानम्]
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, सैवर्क् ; तत् साम, तदुक्थम् ।तद्यजुः तद्ब्रह्म । तस्यैतस्य तदेव रूपम् , यदमुष्य रूपम् यावमुष्य गेष्णौ तौगेष्णौ, यन्नाम तन्नाम ॥ ५ ॥
View Verse
स एष ये चैतस्मादर्वाञ्चो लोकाः तेषां च ईष्टे मनुष्यकामानां चेति तद्यइमे वीणायां गायन्ति एतं ते गायन्ति तस्मात्ते धनसनयः ॥ ६ ॥
View Verse
[आदित्याक्षिपुरुषोपासनस्य फलम् ]
अथ य एतदेवं विद्वान् सामगायत्युभौ स गायति । सोऽमुनैव स एष येचामुष्मात्पराञ्चो लोकास्ताँश्चाप्नोति देवकामाँश्च ॥ ७ ॥
View Verse
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँश्चाप्नोति मनुष्यकामाँश्च तस्मादुहैवंविदुद्गाता ब्रूयात् ॥ ८ ॥
View Verse
कं ते काममागायानीति । एष ह्येव कामागानस्येष्टे, य एतदेवं विद्वान्साम गायति, साम गायति ॥ ९ ॥
॥ इति सप्तमः खण्डः ॥
View Verse
अष्टमः खण्डः
[उद्गीथाक्षरस्य परोवरीयस्त्वोपासनम्]
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यः, चैकितायनो दालभ्यः,प्रवाहणो जैबलिरिति, ते होचुः – उद्गीथे वै कुशलाः स्मः, हन्तोद्गीथे कथांवदाम इति ॥ १ ॥
View Verse
तथेति ह समुपविविशुः । स ह प्रवाहणो जैबलिरुवाच भगवन्तावग्रेवदताम् । ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति ॥ २ ॥
View Verse
स ह शिलकश्शालावत्यश्चैकितायनं दालभ्यमुवाच – हन्त त्वा पृच्छानीति ।पृच्छेति होवाच ॥ ३ ॥
View Verse
का साम्नो गतिरिति । स्वर इति होवाच । स्वरस्य का गतिरिति प्राणइति होवाच । प्राणस्य का गतिरिति । अन्नमिति होवाच । अन्नस्य का गतिरिति ।आप इति होवाच ॥ ४ ॥
View Verse
अपां का गतिरिति । असौ लोक इति होवाच । अमुष्य लोकस्य कागतिरिति । न स्वर्गं लोकमतिनयेदिति होवाच – स्वर्गं वयं लोकँसामाभिसँस्थापयामः ; स्वर्गसँस्तावँ हि सामेति ॥ ५ ॥
View Verse
तँ ह शिलकश्शालावत्यश्चैकितायनं दालभ्यमुवाच – अप्रतिष्ठितं वै किल तेदालभ्य ! साम ; यस्त्वेतर्हि ब्रूयात्, मूर्धा ते विपतिष्यतीति, मूर्धा ते विपतेदिति ॥ ६ ॥
View Verse
हन्ताहमेतद् भगवत्तो वेदानीति । विद्धीति होवाच । अमुष्य लोकस्य कागतिरिति । अयं लोक इति होवाच । अस्य लोकस्य का गतिरिति । न प्रतिष्ठांलोकमतिनयेदिति होवाच ; प्रतिष्ठां वयं लोकं सामाभिसँस्थापयामः । प्रतिष्ठासँस्तावँहि सामेति ॥ ७ ॥
View Verse
तँ ह प्रवाहणो जैबलिरुवाच अन्तवद्वे किल ते शालावत्य ! साम ःयस्त्वेतर्हि ब्रूयात्, मूर्धा ते विपतिष्यतीति, मूर्धा ते विपतेदिति ॥ हन्ताहमेतद्भगवतोवेदानीति । विद्धीति होवाच ॥
॥ इति अष्टमः खण्डः ॥
View Verse
नवमः खण्डः
अस्य लोकस्य का गतिरिति, “आकाश” इति होवाच, “सर्वाणि” ह वाइमानि भूतान्याकाशादेव समुत्पद्यन्ते ; आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्योज्यायान् आकाशः परायणम् ॥ १ ॥
View Verse
[उद्गीथः परोवरीयः]
स एष परोवरीयानुद्गीथः, स एषोऽनन्तः । परोवरीयो हास्य भवति ; परोवरीयसोह लोकाञ्जयति ः य एतदेवं विद्वान् परोवरीयाँसमुद्गीथमुपास्ते ॥ २ ॥
View Verse
[विद्याफलश्रुतिविषये शौनकवाक्योद्धरणम्]
तँ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच, यावन्त एनं प्रजायामुद्गीथंवेदिष्यन्ते, परोवरीयो हैभ्यस्तावदस्मिन् लोके जीवनं भविष्यति ॥ ३ ॥
View Verse
तथाऽमुष्मिन् लोके लोक इति । स य एतमेवं विद्वान् उपास्ते, परोवरीय एवहास्यास्मिन् लोके जीवनं भवति, तथाऽमुष्मिन् लोके लोक इति, लोके लोक इति ॥ ४ ॥
॥ इति नवमः खण्डः ॥
View Verse
दशमः खण्डः
[प्रस्तावोद्गीथप्रतिहारभक्तित्रयोपासनम्]
मटचीहतेषु ‘कुरुष्वाटक्या‘ सह जायया उपस्तिर्ह चाक्रायण इभ्यग्रामेप्रद्राणक‘ उवास ॥ १ ॥
View Verse
[उषस्तेः भिक्षायाचनम्]
स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे । तँ होवाच – नेतोऽन्ये विद्यन्ते,यच्चये मे इमे उपनिहिता इति ॥ २ ॥
View Verse
एतेषां मे देहीति होवाच, तानस्मै प्रददौ, हन्तानुपानमित्युच्छिष्टं वै मेपीतँ स्यादिति होवाच ॥ ३ ॥
View Verse
न स्विदेतेऽप्युच्छिष्टा इति । न वा अजीविष्यमिमानखादन् इति होवाच,कामो मे उदपानमिति ॥ ४ ॥
View Verse
स ह खादित्वाऽतिशेषान् जायाया आजहार । साऽग्र एव सुभिक्षाबभूव तान् प्रतिगृह्य निदधौ ॥५॥
View Verse
स ह प्रातः संजिहान उवाच, यद्वतान्नस्य लभेमहि, लभेमहि धनमात्राँ;राजाऽसौ यक्ष्यते, स मा सर्वेरार्त्विज्यैषणीतेति ॥ ६ ॥
View Verse
तं जायोवाच, हन्त पते इम एव कुल्माषा इति । तान् खादित्वाऽमुं यज्ञंविततमेयाय ॥ ७ ॥
View Verse
तत्रोद्गातृनास्तावे स्तोष्यमाणानुपोपविवेश । स ह प्रस्तोतारमुवाच ॥ ८ ॥
View Verse
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वान् प्रस्तोष्यसि, मूर्धा तेविपतिष्यतीति ॥ ९ ॥
View Verse
एवमेवोद्गातारमुवाच, उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि,मूर्धा ते विपतिष्यतीति ॥ १० ॥
॥ इति दशमः खण्डः ॥
View Verse
प्रतिहरिष्यसि, मूर्द्धा ते विपतिष्यतीति । ते ह समारतास्तूष्णीमासाञ्चक्रिरे ॥ ११ ॥
View Verse
एकादशः खण्डः
[प्रस्तावप्रतिहारयोः उपासना]
अथ हैनं यजमान उवाच, भगवन्तं वा अहं विविदिषाणीति । उपस्तिरस्मिचाक्रायण इति होवाच ॥ १ ॥
View Verse
स होवाच, भगवन्तं वा अहमेभिः सर्वेरार्त्विज्यैः पर्येषिषम् ; भगवतो वाअहम ‘विद्या‘ऽन्यानवृषि ॥ २ ॥
View Verse
भगवाँस्त्वेव मे सर्वैरार्त्विज्यैः इति । तथेति । अथ तर्हि एत एव समतिसृष्टाःस्तुवताम्। यावत्त्वेभ्यो धनं दद्याः तावन्मम दद्याः इति । तथेति ह यजमान उवाच ॥३॥
View Verse
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता, ताञ्चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ; कतमा सा देवतेति ॥ ४ ॥
View Verse
[प्राण एव प्रस्तावदेवता]
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्तिप्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा तेव्यपतिष्यत्तथोक्तस्य मयेति ॥ ५ ॥
View Verse
अथ हैनमुद्गातोपससाद उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्दास्यसिमूर्धा ते विपतिष्यतीति मा भगवानवोचत् । कतमा सा देवतेति ॥ ६ ॥
View Verse
[आदित्यः उद्गीथदेवता]
आदित्य इति होवाच, सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तंगायन्ति । सैषा देवतोद्गीथमन्वायत्ता । तां चेदविद्वानुदगास्यो मूर्धा तेव्यपतिष्यत्तथोक्तस्य मयेति ॥ ७ ॥
View Verse
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ॥ ८ ॥
View Verse
[प्रतिहारदेवता अन्नम्]
अन्नमिति होवाच, सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानिजीवन्ति । सैषा देवता प्रतिहारमन्वायत्ता । तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा तेव्यपतिष्यत् तथोक्तस्य मयेति । तथोक्तस्य मयेति ॥ ९ ॥
View Verse
[प्रतिहारदेवता अन्नम्]
अन्नमिति होवाच, सर्वाणि ह वा इमानि भूतान्यत्रमेव प्रतिहरमाणानिजीवन्ति । सैषा देवता प्रतिहारमन्वायत्ता । तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा तेव्यपतिष्यत् तथोक्तस्य मयेति । तथोक्तस्य मयेति ॥ ९ ॥
View Verse
द्वादशः खण्डः
[श्वदृष्टोद्गीथस्तुत्यर्थ दाल्भ्यस्य आख्यायिका]
अथातः शौव उद्गीथः । तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयःस्वाध्यायमुद्वव्राज ॥ १ ॥
View Verse
तस्मै श्वा श्वेतः प्रादुर्बभूव । तमन्ये श्वान उपसमेत्योचुः अन्नं नोभगवानागायतु; अशनायाम वौ इति ॥ २ ॥
View Verse
तान् होवाच, इहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वामैत्रेयः प्रतिपालयाञ्चकार ॥ ३ ॥
View Verse
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुःतेह समुपविश्य हिञ्चक्रुः ॥ ४ ॥
View Verse
ओ३मदा३मों ३ पिबा ३ मों ३ देवो वरुणः प्रजापतिः सविता ३ ऽन्न–मिहा२हरदनपते २ ऽन्नमिहाहरा २ हरो ३ मिति ॥ ५ ॥
॥ इति द्वादशः खण्डः ॥
View Verse
त्रयोदशः खण्डः
अयं वाव लोको हाउकारो वायुर्हा इकारश्चन्द्रमा अथकार आत्मेहकारोऽग्निरीकारः ॥१॥
View Verse
आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोइकारः प्रजापतिहिङ्कारःप्राणः स्वरोऽन्नं या वाग्विराट् ॥ २ ॥
View Verse
अनिरुक्तस्त्रयोदशस्तोभः सञ्चरो हुङ्कारः ॥ ३ ॥
View Verse
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः; अन्नवानन्नादो भवति, य एतामेवंसानामुपनिषदं वेदोपनिषदं वेद इति ॥ ४ ॥
॥ इति त्रयोदशः खण्डः ॥
॥ इति प्रथमः प्रपाठकः समाप्तः ॥
View Verse

Chapter - 2

द्वितीयः प्रपाठकः
प्रथमः खण्डः
[समस्तसामोपासनम्]
ओम् , समस्तस्य खलु साम्न उपासनम् , साधु । यत् खलु साथ, तत्
सामेत्याचक्षते । यदसाधु, तदसामेति ॥ १ ॥
View Verse
तदुताप्याहुः, साम्नैनमुपागादिति, साधुनैनमुपागादित्येव तदाहुः ।असाम्नैनमुपागादिति, असाधुनैनमुपागादित्येव तदाहुः ॥ २ ॥
View Verse
अथोताप्याहुः, साम नो बतेति, यत्साधु भवति । साधु बतेत्येव तदाहुःअसाम नो बतेति, यदसाधु भवति असाधु बतेत्येव तदाहुः ॥ ३ ॥
View Verse
[समस्तसामोपसनस्य फलम्]
स य एतदेवं विद्वान् साधु सामेत्युपास्ते, अभ्याशो ह यदेनँ साधवोधर्माः आगच्छेयुः, उप च नमेयुः ॥ ४ ॥
॥ इति प्रथमः खण्डः ॥
View Verse
द्वितीयः खण्डः
[पञ्चविधसाम्नि लोकादिदृष्टिप्रकाराः]
लोकेषु पञ्चविधँ सामोपासीत । पृथिवी हिङ्कारः । अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथःआदित्यः प्रतिहारो, द्यौर्निधनमित्यूर्ध्वेषु ॥ १ ॥
View Verse
अथावृत्तेषु – ध्यौहिङ्कारः, आदित्यः प्रस्तावः, अन्तरिक्षमुद्गीथः, अग्निःप्रतिहारः, पृथिवी निधनम् ॥ २ ॥
View Verse
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चा वृत्ताश्च, य एतदेवंविद्वाल्ँलोकेषु पञ्चविधँसामोपास्ते ॥ ३ ॥
॥ इति द्वितीयः खण्डः ॥
View Verse
तृतीयः खण्डः
[वृष्टिदृष्ट्या सामोपासनम्]
वृष्टौ पञ्चविधँ सामोपासीत – पुरोवातो हिंकारो मेघो जायते स प्रस्तावोवर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः उद्गृह्णाति तन्निधनम् ॥ १ ॥
View Verse
[तस्य फलम्]
वर्षति हास्मै, वर्षयति ह, य एतदेवं विद्वान् वृष्टौ पञ्चविधँ सामोपास्तै ॥२॥
॥ इति तृतीयः खण्डः ॥
View Verse
चतुर्थः खण्डः
[अप्सु पञ्चविधसामोपासनम्]
सर्वास्वप्सु पञ्चविधँ सामोपासीत – मेघो यत्संप्लवते स हिंकारो यद्वर्षति सप्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ॥१॥
View Verse
[तस्य फलम्]
न हाप्सु प्रैति । अप्सुमान् भवति, य एतदेवं विद्वान् सर्वास्वप्सु पञ्चविधँसामोपास्ते ॥ २ ॥
॥ इति चतुर्थः खण्डः ॥
View Verse
पञ्चमः खण्डः
[ऋतुषु पञ्चविधसामोपासनम्]
ऋतुषु पञ्चविधँ सामोपासीत । वसन्तो हिङ्कारो, ग्रीष्मः प्रस्तावो, वर्षाउद्गीथः, शरत् प्रतिहारो, हेमन्तो निधनम् ॥ १ ॥
View Verse
[तस्य फलम्]
कल्पन्ते हास्मा ऋतवः, ऋतुमान् भवति, य एतदेवं विद्वान् ऋतुषुपञ्चविधँ सामोपास्ते ॥ २ ॥
॥ इति पञ्चमः खण्डः ॥
View Verse
षष्ठः खण्डः
[पशुषु पञ्चविधसामोपासनम्]
पशुषु पञ्चविधँ सामोपासीत – अजा हिङ्कारः‘, अवयः प्रस्तावः, गावःउद्गीथः, अश्वाः प्रतिहारः, पुरुषो निधनम् ॥ १ ॥
View Verse
[तस्य फलम्]
भवन्ति हास्य पशवः, पशुमान् भवति, य एतदेवं विद्वान् पशुषु पञ्चविधँसामोपास्ते ॥ २ ॥
॥ इति षष्ठः खण्डः ॥
View Verse
सप्तमः खण्डः
[प्राणेषु पञ्चविधसामोपासनम्]
प्राणेषु पञ्चविधँ परोवरीयः सामोपासीत । प्राणो‘ हिङ्कारो, वाक्प्रस्तावःचक्षरुद्गीथः श्रोत्रं प्रतिहारो, मनो निधनं, परोवरीयांसि वा एतानि ॥ १ ॥
View Verse
।तस्य फलम्]
परोवरीयो हास्य भवति । परोवरीयसो ह लोकाञ्जयति, य एतदेवं–विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते । इति तु पञ्चविधस्य ॥ २ ॥
॥ इति सप्तमः खण्डः ॥
View Verse
अष्टमः खण्डः
[वाचि सप्तविधसामोपासनम्]
अथ सप्तविधस्य – वाचि सप्तविधँ सामोपासीत – यत्किञ्च वाचो हिमितिस हिङ्कारो, यत्प्रेति स प्रस्तावो, यदेति स आदिः ॥ १ ॥
View Verse
यदुदिति स उद्गीथो, यत् प्रतीति स प्रतिहारो, यदुपेति स उपद्रवो,यन्नीति तन्निधनम् ॥ २ ॥
View Verse
[उपासनाफलम्]
दुग्धेऽस्मै वाग् दोहं यो वाचो दोहः, अन्नवानन्नादो भवति, य एतदेवंविद्वान् वाचि सप्तविधँ सामोपास्ते ॥ ३ ॥
॥ इति अष्टमः खण्डः ॥
View Verse
नवमः खण्डः
[सप्तविधे साम्नि आदित्यदृष्टिः]
अथ खल्वमुमादित्यँ सप्तविधं सामोपासीत – सर्वदा समः, तेन साम, मांप्रति मां प्रतीति सर्वेण समः, तेन साम ॥ १ ॥
View Verse
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्ताानीति विद्यात् । तस्य यत्पुरोदयात् सहिङ्कारः । तदस्य पशवोऽन्वायत्ताः । तस्मात्ते हिङ् कुर्वन्ति ; हिङ्कारभाजिनोह्येतस्य साम्नः ॥ २ ॥
View Verse
[प्रस्तावलक्षणम्]
अथ यत् प्रथमोदिते स प्रस्तावः । तदस्य मनुष्या अन्वायत्ताः, तस्मात्तेप्रस्तुतिकामाः प्रशँसाकामाः; प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ ३ ॥
View Verse
[आदित्यसाम्नः आदिः]
अथ यत् सङ्गववेलायाँ स आदिः । तदस्य वयाँस्यन्वायत्तानि । तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्ति ; आदिभाजीनि ह्येतस्य साम्नः ॥ ४ ॥
View Verse
[आदित्यसाम–उद्गीथः]
अथ यत् सम्प्रति मध्यन्दिने स उद्गीथः । तदस्य देवा अन्वायत्ताः ।तस्मात्ते सत्तमाः प्राजापत्यानाम् । उद्गीथभाजिनो ह्येतस्य साम्नः ॥ ५ ॥
View Verse
(प्रतिहारलाणम्।
अथ यदुर्ध्वं मध्यन्धिनात् प्रागपराह्णात् । स प्रतिहार । तपस्य गर्भा अन्वायत्ताः ।तस्मात्ते प्रतिहृता नावपद्यन्ते, प्रतिहारभाजिनो ह्येतस्य साम्नः ॥
View Verse
[उपद्रवलक्षणम्।
अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् , स उपद्रवः । तदस्यारण्याः अन्वायत्ताः ।तस्मात्ते पुरुष दृष्ट्वा कक्षँ श्वभ्रमित्युपद्रवन्ति । उपद्रवभाजिनो ह्येतस्य साम्नः ॥ ७ ॥
View Verse
[निधनलक्षणम्]
अथ यत्प्रथमास्तमिते, तन्निधनम् । तदस्य पितरोऽन्वायत्ताः ।तस्मात्तान्निदधति ; निधनभाजिनः ह्येतस्य साम्नः । एवं खल्वमुमादित्यँ सप्तविधँसामोपास्ते ॥ ८ ॥
॥ इति नवमः खण्डः ॥
View Verse
दशमः खण्डः
[सप्तविधे साम्नि आत्मसंमितत्वातिमृत्युत्वोपासनम् ]
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधँ सामोपासीत, हिङ्कार इति त्र्यक्षरंप्रस्ताव इति त्र्यक्षरं तत् समम् ॥१॥
View Verse
आदिरिति व्द्यक्षरं प्रतिहार इति चतुरक्षरं तत इहेकं तत् समम् ॥ २ ॥
View Verse
उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति,अक्षरमतिशिष्यते । त्र्यक्षरं तत्समम् ॥ ३ ॥
View Verse
निधनमिति त्र्यक्षरं तत्सममेव भवति । तानि ह वा एतानि द्वाविंशतिःअक्षराणि ॥ ४ ॥
View Verse
एकविंशत्यादित्यमाप्नोति एकविंशो वा इतोऽसावादित्यः । द्वाविंशेनपरमादित्याज्जयति । तन्नाकं तद्विशोकम् ॥ ५ ॥
View Verse
आप्नोतीहादित्यस्य जयम् ; परो हास्यादित्यजयाज्जयो भवति । य एतदेवंविद्वान् आत्मसंमितमतिमृत्यु सप्तविधँ सामोपास्ते सामोपास्ते ॥ ६ ॥
॥ इति दशमः खण्डः ॥
View Verse
एकादशः खण्डः
[प्राणेषु गायत्रसामोपासनम्]
मनो हिङ्कारो, बाक् प्रस्तावः, चक्षुरुद्गीथः, श्रोत्रं प्रतिहारः, प्राणोनिधनम् । एतद् गायत्रं प्राणेषु प्रोतम् ॥ १ ॥
View Verse
[तस्य फलम्]
स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति, सर्वमायुरेति, ज्योग् जीवति,महान् प्रजया पशुभिर्भवति, महान्कीर्त्या । महामनाः स्यात् , तद्व्रतम् ॥ २ ॥
॥ इति एकादशः खण्डः ॥
View Verse
द्वादशः खण्डः
[रथन्तरसामः उपासनम्]
अभिमन्थति स हिङ्कारः धूमो जायते स प्रस्तावः, ज्वलति स उद्गीथः,अङ्गारा भवन्ति स प्रतिहारः, उपशाम्यति तन्निधनँ सँशाम्यति तन्निधनम् ।तद्रथन्तरमग्नौ प्रोतम् ॥ १ ॥
View Verse
स, य एतदेवं रथन्तरमग्नौ प्रोतं वेद, ब्रह्मवर्चस्यन्नादो भवति, सर्वमायुरेति,ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान्कीर्त्या । न प्रत्यङ्डग्निमाचामेन्ननिष्ठीवेत् । तद्व्रतम् ॥ २ ॥
॥ इति द्वादशः खण्डः ॥
View Verse
त्रयोदशः खण्डः
[मिथुने वामदेव्योपासनम्]
उपमन्त्रयते स हिङ्कारः, ज्ञपयते स प्रस्तावः, स्त्रिया सह शेते सउद्गीथः, प्रतिर्स्त्री सह शेते स प्रतिहारः, कालं गच्छति तन्निधनम् , पारं गच्छतितन्निधनम् । एतद्वामदेव्यं मिथुने प्रोतम् ॥ १ ॥
View Verse
[वामदेव्योपासनस्य फलम्]
स य एवमेतद् वामदेव्यं मिथुने प्रोतं वेद, मिथुनीभवति, मिथुनात्मिथुनात् प्रजायते, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान्कीर्त्या । न काञ्चन परिहरेत् , तद्व्रतम् ॥ २ ॥
॥ इति त्रयोदशः खण्डः ॥
View Verse
चतुर्दशः खण्डः
[आदित्ये बृहत्सामोपासनम्]
उद्यन् हिङ्कारः, उदितः प्रस्तावः मध्यन्दिन उद्गीथः, अपराह्णः प्रतिहारः,अस्तं यन्निधनम् । एतद्वृहदादित्ये प्रोतम् ॥ १ ॥
View Verse
स य एवमेतद्वृहदादित्ये प्रोतं वेद, तेजस्व्यन्नादो भवति, सर्वमायुरेति,ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या, तपन्तं न निन्देत् ।तद्व्रतम् ॥ २ ॥
॥ इति चतुर्दशः खण्डः ॥
View Verse
पञ्चदशः खण्डः
[पर्जन्येवैरूप्यसामोपासनम्]
अभ्राणि संप्लवन्ते स हिङ्कारः, मेघो जायते स प्रस्तावः, वर्षति सउद्गीथः, विद्योतते स्तनयति स प्रतिहारः, उद्गृह्णाति तन्निधनम् । एतद् वैरूपंपर्जन्ये प्रोतम् ॥ १ ॥
View Verse
[तस्य फलम्]
स, य एवमेतद् वैरूप्यं पर्जन्ये प्रोतं वेद, विरूपाँश्च सुरूपाँश्च पशूनवरुन्धे,सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या ।वर्षन्तं न निन्देत् । तद्व्रतम् ॥ २ ॥
॥ इति पञ्चदशः खण्डः ॥
View Verse
षोडशः खण्डः
[वैराजसाम्नः उपासनम्]
वसन्तो हिङ्कारः, ग्रीष्मः प्रस्तावः, वर्षा उद्गीथः, शरत् प्रतिहारः, हेमन्तो निधनम् ।एतद् वैराजमृतुषु प्रोतम् ॥१॥
स य एवमेतद् वैराजमृतुषु प्रोतं वेद, विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन,सर्वमायुरेति, ज्योग्जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या ऋतून्न निन्देत् , तत् व्रतम् ॥ २ ॥
॥ इति षोडशः खण्डः ॥
View Verse
सप्तदशः खण्डः
[शक्करीसाम्नः उपासनम्]
पृथिवी हिङ्कारः, अन्तरिक्षं प्रस्तावः, द्यौरुद्गीथः, दिशः प्रतिहारः, समुद्रोनिधनम् । एताः शक्कर्यो लोकेषु प्रोताः ॥ १ ॥
View Verse
[शक्करीसाम्नः फलम्]
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकीभवति, सर्वमायुरेति,ज्योग् जीवति महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । लोकान् निन्देत् ,तद् व्रतम् ॥ २ ॥
॥ इति सप्तदशः खण्डः ॥
View Verse
अष्टादशः खण्डः
[पशुदृष्ट्या रेवतीसामोपासनम्]
अजा हिङ्कारः, अवयः प्रस्तावो गाव उद्गीथः, अश्वाः प्रतिहारः, पुरुषोनिधनम् । एतारेवत्यः पशुषु प्रोताः ॥ १ ॥
स, य एवमेता रेवत्यः पशुषु प्रोता वेद, पशुमान् भवति, सर्वमायुरेति,ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । पशून् न निन्देत् ।तद् व्रतम् ॥ २ ॥
॥ इति अष्टादशः खण्डः ॥
View Verse
एकोनविंशः खण्डः
[अङ्गदृष्ट्या यज्ञायज्ञीयसामोपासनम्]
View Verse
स य एवमेतद् यज्ञायज्ञीयमङ्गेषु प्रोतं वेद, अङ्गीभवति । नाङ्गेन विहूर्च्छति,सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । संवत्सरंमज्जो नाश्नीयात् । तद् व्रतं, मज्जो नाश्नीयादिति वा ॥ २ ॥
॥ इति एकोनविशः खण्डः ॥
View Verse
विंशः खण्डः
[राजनसामोपासनम्]
अग्निर्हिङ्कारो, वायुः प्रस्तावः, आदित्य उद्गीथः, नक्षत्राणि प्रतिहारः,चन्द्रमा निधनम् , एतद् राजनं देवतासु प्रोतम् ॥ १ ॥
View Verse
[तस्य फलम्]
स, य एवमेतद् राजनं देवतासु प्रोतं वेद, एतासामेव देवतानाँ सलोकताँसार्ष्टिताँ सायुज्यं गच्छति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजयापशुभिर्भवति, महान् कीर्त्या । ब्राह्मणान्न निन्देत् , तद् व्रतम् ॥ २ ॥
॥ इति विंशः खण्डः ॥
View Verse
एकविंशः खण्डः
[त्रयीविद्यादिदृष्ट्या सामोपासनम् ]
त्रयी विद्या हिङ्कारस्त्रय इमे लोकास्स प्रस्तावोऽग्निर्वायुरादित्यस्स उद्गीथोनक्षत्राणि वयाँसि मरीचयस्स प्रतिहारः, सर्पा गन्धर्वाः, पितरस्तत्रिधनम् ।एतत् साम सर्वस्मिन् प्रोतम् ॥ १ ॥
View Verse
[तस्य फलम्]
स य एवमेतत् साम सर्वस्मिन् प्रोतं वेद, सर्वँ ह भवति ॥ २ ॥
View Verse
[त्रयीविद्यादिस्तुतिः]
तदेष श्लोकः । यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्यायः परमन्यदस्ति ॥३॥
View Verse
यस्तद् वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति ॥
सर्वमस्मीत्युपासीत, तद् व्रतं तद् व्रतम् ॥ ४ ॥
॥ इति एकविंशः खण्डः ॥
View Verse
द्वाविंशः खण्डः
[गानविशेषोपदेशः]
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेः निरुक्तस्सोमस्यमृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्यतान् सर्वानेवोपसेवेत, वारुणं त्वेव वर्जयेत् ॥ १ ॥
View Verse
अमृतत्वं देवेभ्य आगायानीत्यागायेत् । स्वधां पितृभ्य आशांमनुष्येभ्यस्तृणोदकं पशुभ्यः, स्वर्गं लोकं यजमानाय, अन्नमात्मन आगायानीति ।एतानि मनसा ध्यायन् अप्रमत्तः स्तुवीत ॥ २ ॥
View Verse
सर्वे स्वरा इन्द्रस्यात्मानः, सर्व ऊष्माणः प्रजापतेरात्मानः, सर्वे स्पर्शाःमृत्योरात्मानः । तं यदि स्वरेषूपालभेत, इन्द्रं शरणं प्रपन्नोऽभूवम् । स त्वाप्रतिवक्ष्यतीत्येनं ब्रूयात् ॥ ३ ॥
View Verse
अथ यद्येनमूष्मसूपालभेत, प्रजापति शरणं प्रपन्नोऽभूवं, स त्वाप्रतिपेक्ष्यतीत्येनं ब्रूयात् । अथ यद्येनँ स्पर्शेषूपालभेत, मृत्युं शरणं प्रपन्नोऽभूवं,स त्वा प्रतिधक्ष्यतीत्येनं ब्रूयात् ॥ ४ ॥
View Verse
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्याः, इन्द्रे बलं दधानीति । सर्वेऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः, प्रजापतेरात्मानं परिददानीति ।सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्याः, मृत्योरात्मानं परिहराणीति ॥ ५ ॥
॥ इति द्वाविंशः खण्डः ॥
View Verse
त्रयोविंशः खण्डः
[ओङ्कारब्रह्मोपासनविधिः]
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः,ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् । सर्व एतेपुण्यलोका भवन्ति; ब्रह्मसँस्थोऽमृतत्वमेति ॥१॥
View Verse
[ओङ्कारस्तुतिः]
प्रजापतिर्लोकानभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयीविद्या संप्रास्रवत्तामभ्यतपत् । तस्या अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त, भूर्भुवस्सुवःइति ॥ २ ॥
View Verse
तान्यभ्यतपत् । तेभ्योऽभितप्तेभ्य ओङ्कारः संप्रास्रवत् । तद् यथा शङ् कुनासर्वाणि पर्णानि संतृण्णानि एवमोंकारेण सर्वा वाक् संतृण्णा । ओङ्कार एवेदँसर्वम् , ओङ्कार एवेदँ सर्वम् ॥ ३ ॥
॥ इति त्रयोविंशः खण्डः ॥
View Verse
चतुर्विंशः खण्डः
[प्रातस्सवनादि कर्माङ्गाणि]
ब्रह्मवादिनो वदन्ति – यद्वसूनां प्रातस्सवनँ रुद्राणां माध्यन्दिनँ . –सवनमादित्यानाञ्च विश्वेषाञ्च देवानां तृतीयसवनम् ॥ १ ॥
View Verse
क्व तर्हि यजमानस्य लोक इति । स यस्तन्न विद्यात् कथं कुर्यात्अथ विद्वान् कुर्यात् ॥ २ ॥
View Verse
[प्रातस्सवनप्राप्युपायः]
मी पुरा प्रातरनुवाकस्योपाकरणात्, जघनेन गार्हपत्यस्योदङ्मुख उपविश्यस वासर्वं सामाभिगायति ॥ ३ ॥
View Verse
लोकद्वारमपावार्णू २–३–३ पश्येम त्वा वयँ रा ३–३–३–३.७३ हुं ३ आ२–३–३ जा ३ यो ३ आ १–२–४–५ इति ॥ ४ ॥
View Verse
अथ जुहोति, नमोऽग्नये पृथिवीक्षिते लोकक्षिते । ‘लोकं मे यजमानायविन्द‘ एष वे यजमानस्य लोकः । एतास्मि ॥ ५ ॥
अत्र यजमानः परस्तादायुषः । स्वाहा । अपजहि परिघम् इत्युक्त्वोत्तिष्ठति ।तस्मै वसवः प्रातस्सवनँ संप्रयच्छन्ति ॥ ६ ॥
View Verse
[माध्यन्दिनसवनप्रात्युपायः]
पुरा माध्यन्दिनस्य सवनस्योपाकरणात् , जघनेनाग्नीध्रीयस्य उदङ्मुखःउपविश्य स रौद्रं सामाभिगायति ॥ ७ ॥
लोकद्वारमपावार्णू २ ३ ३ पश्येम त्वा वयं विरा ३ ३ ३ ३ हुं आ ३३जायो आ ३३३ ४ ५ इति ॥ ८ ॥
View Verse
अथ जुहोति, ‘नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते‘ लोकं मे यजमानायविन्द । एष वै यजमानस्य लोकः एतास्मि ॥ ९ ॥
अत्र यजमानः परस्तादायुषः स्वाहा । अपजहि परिघम् इत्युक्त्वा उत्तिष्ठति ।तस्मैरुद्रा माध्यन्दिनँ सवनँ संप्रयच्छन्ति ॥ १० ॥
पुरा तृतीयसवनस्योपाकरणात् जघनेनाहवनीयस्योदङ्मुख उपविश्य सआदित्यँ स वैश्वदेवँ सामाभिगायति ॥ ११ ॥
लोकद्वारमपावार्णू २३३ पश्येम त्वा वयँ स्वरा ३३३३ हुं आ २ ३३ जा ३ यो ३ आ ३ ४ ५ इत्यादित्यम् ॥ १२ ॥
अथ वैश्वदेवम् – ‘लोकद्वारमपावार्णू २ ३ ३ पश्येम त्वा वयँ साम्ना ३३ ३ ३ हुम् ३ आ २ ३ ३ जायो ३ आ ३ १११ इति‘ ॥ १३ ॥
अथ, जुहोति, नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षभ्द्योलोकक्षिभ्द्यः । लोकं मे यजमानाय विन्दत ॥ १४ ॥
एष वै यजमानस्य लोकः । एतास्म्यत्र यजमानः परस्तादायुषः । स्वाहा ।अपहत परिघम् इत्युक्त्वोत्तिष्ठति ॥ १५ ॥
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनँ सम्प्रयच्छन्ति । एष ह वैयज्ञस्य मात्रां वेद, य एवं वेद य एवं वेद ॥ १६ ॥
॥ इति चतुर्विशः खण्डः ॥
॥ इति द्वितीयः प्रपाठकः समाप्तः ॥
View Verse

Chapter - 3

तृतीयः प्रपाठकः
प्रथमः खण्डः
[आदित्ये मधुदृष्टिः]
असौ वा आदित्यो देवमधु । तस्य द्यौरेव तिरश्चीनक्शोऽन्तरिक्षमपूपोमरीचयः पुत्राः ॥ १ ॥
View Verse
तस्य ये प्राञ्चो रश्मयः, ता एवास्य प्राच्यो मधुनाड्यः च एव मधुकृतः,ऋग्वेद एव पुष्पम्, ता अमृताः आपः ॥ २ ॥
View Verse
ता वा एता ऋच एतमृग्वेदमभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियंवीर्यमन्नाद्यँ रसोऽजायत ॥ ३ ॥
View Verse
तद् व्यक्षरत् । तदादित्यमभितोऽश्रयत् । तद्वा एतत् यदेतदादित्यस्यरोहितँ रूपम् ॥ ४ ॥
॥ इति प्रथमः खण्डः ॥
View Verse
द्वितीयः खण्डः
[दक्षिणदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]
अथ येऽस्य दक्षिणा रश्मयः, ता एवास्य दक्षिणा मधुनाड्यः । यजूँष्येवमधुकृतः, यजुर्वेद एव पुष्पम् । ता अमृता आपः ॥ १ ॥
तानि वा एतानि यजूँषि एतं यजुर्वेदमभ्यतपत् ; तस्याभितप्तस्य यशस्तेजइन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ॥ २ ॥
तद् व्यक्षरत् । तदादित्यमभितोऽश्रयत् । तद्वा एतत् । यदेतदादित्यस्यशुक्लँ रूपम् ॥३॥
॥ इति द्वितीयः खण्डः॥
View Verse
तृतीयः खण्डः
[पश्चिमदिक्स्थरश्म्यादी मधुनाड्यादिदृष्टिः]
अथ येऽस्य प्रत्यञ्चो रश्मयः, ता एवास्य प्रतीच्यो मधुनाड्यः ; सामान्येवमधुकृतः, सामवेद एव पुष्पम् ; ता अमृता आपः ॥ १ ॥
तानि वा एतानि सामानि एतँ सामवेदमभ्यतपन्; तस्याभितप्तस्य यशस्तेजइन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥
तद् व्यक्षरत् । तदादित्यमभितोऽश्रयत् ; तद्वा एतत्, यदेतदादित्यस्यकृष्णं रूपम् ॥ ३ ॥
॥ इति तृतीयः खण्डः ॥
View Verse
चतुर्थः खण्डः
[उत्तरदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]
अथ येऽस्योदञ्चो रश्मयः, ता एवास्योदीच्यो मधुनाड्यः, अथर्वाङ्गिरसएव मधुकृतः, इतिहासपुराणं पुष्पम् । ता अमृता आपः ॥ १ ॥
ते वा एतेऽथर्वाङिगरस एतदितिहासपुराणमभ्यतपन्, तस्याभितप्तस्ययशस्तेज इन्द्रियं वीर्यमन्त्राद्यं रसोऽजायत ॥ २ ॥
तद् व्यक्षरत्, तदादित्यमभितोऽश्रयत् ,तद्वा एतत्, यदेतदादित्यस्य परःकृष्णं रूपम् ॥ ३ ॥
॥ इति चतुर्थः खण्डः ॥
View Verse
पञ्चमः खण्डः
[ऊर्ध्वदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]
अथ येऽस्योर्ध्वा रश्मयः, ता एवास्योर्ध्वा मधुनाड्यः, गुह्या एवादेशामधुकृतः ब्रह्मैव पुष्पं, ता अमृता आपः ॥ १ ॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपन् । तस्याभितप्तस्य यशस्तेजइन्द्रियं वीर्यमन्त्राद्यं रसोऽजायत ॥ २॥
तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्यमध्ये क्षोभत इव ॥ ३ ॥
ते वा एते रसानां रसाः । वेदा हि रसाः, तेषामेते रसाः, तानि वा.एतान्यमृतानाममृतानि, वेदा ह्यमृताः, तेषामेतान्यमृतानि ॥ ४ ॥
॥ इति पञ्चमः खण्डः ॥
View Verse
षष्ठः खण्डः
[प्रथमामृतस्य वसूनाम् उपजीव्यत्वम्]
तद् यत् प्रथमममृतम्, तद् वसव उपजीवन्त्यग्निना मुखेन, न वै देवाअश्नन्ति, न पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
View Verse
त एतदेव रूपमभिसंविशन्ति । एतस्माद्रूपादुद्यन्ति ॥ २ ॥
View Verse
[अमृतोपासकस्य फलम्]
स य एतदेवममृतं वेद, वसूनामेवैको भूत्वाऽग्निनैव मुखेन एतदेवामृतं दृष्ट्वातृप्यति, स एतदेव रूपमभिसंविशन्ति, एतस्माद्रूपादुदेति ॥ ३ ॥
View Verse
स यावदादित्यः पुरस्तादुदेता पक्षादस्तमेता, वसूनामेव तावदाधिपत्यंस्वाराज्यं पर्येता ॥ ४ ॥
॥ इति षष्ठः खण्डः ॥
View Verse
सप्तमः खण्डः
[दितीयामृतस्य रुद्रस्य उपजीव्यत्वम् ]
अथ यद् द्वितीयममृतम् , तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन । न वै देवाअश्नन्ति, न पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥
त एतदेव रूपमभिसंविशन्ति; एतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद, रुद्राणामेवैको भूत्वा इन्द्रेणैव मुखेनैतदेवामृतंदृष्ट्वा तृप्यति, स एतदेव रूपमभिसंविशति; एतस्माद्रूपादुदेति ॥ ३॥
स यावदादित्यः पुरस्तादुदेता, पश्चादस्तमेता, द्विस्तावत् , दक्षिणतउदेतोत्तरतोऽस्तमेता, रुद्राणामेव तावदाधिपत्यँ, स्वाराज्यं पर्येता ॥ ४ ॥
॥ इति सप्तमः खण्डः ॥
View Verse
अष्टमः खण्डः
[तृतीयामृतोपासनेन आदित्यानां तृप्तिः]
अथ यत् तृतीयममृतम् , तदादित्या उपजीवन्ति वरुणेन मुखेन । न वै देवा अश्नन्ति, न पिबन्ति । एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥
त एतदेव रूपमभिसंविशन्ति, एतस्मादूपादुद्यन्ति ॥२॥
स य एतदेवममृतं वेद, आदित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतंदृष्ट्वा तृप्यति, स एतदेव रूपमभिसंविशति, एतस्मादूपादुदेति ॥ ३ ॥
स यावदादित्यो दक्षिणत उदेता उत्तरतोऽस्तमेता द्विस्तावत् ,पश्चादुदेतापुरस्तादस्तमेता आदित्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ॥ ४ ॥
View Verse
नवमः खण्डः
[मरुदुपजीवनभूतचतुर्थामृतोपासने मरुत्वप्राप्तिपूर्वकब्रह्मप्राप्तिः]
अथ यच्चतुर्थममृतम् , तन्मरुत उपजीवन्ति सोमेन मुखेन, न वै देवाअश्नन्ति, न पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्ति, एतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद, मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतंदृष्ट्वा तृप्यति । स एतदेव रूपमभिसंविशति, एतस्माद्रूपादुदेति ॥ ३ ॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता, द्विस्तावत् , उत्तरत उदेतादक्षिणतोऽस्तमेता, मरुतामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ॥ ४ ॥
॥ इति नवमः खण्डः ॥
View Verse
दशमः खण्डः
पञ्चमामृतं साध्योपजीवनभूतं यत्तदुपासनम्
अथ यत् पञ्चमममृतम् , तत् साध्या उपजीवन्ति ब्रह्मणा मुखेन, न वैदेवा अश्नन्ति, न पिबन्ति ; एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्ति ; एतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद, साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतंदृष्ट्वा तृष्यति। स एतदेव रूपमभिसंविशति । एतस्माद्रूपादुदेति ॥ ३ ॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता, द्विस्तावत्, ऊर्ध्वंउदेताऽर्वागस्तमेता, साध्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ॥ ४ ॥
॥ इति दशमः खण्डः॥
View Verse
एकादशः खण्डः
[नामरूपकृत्यादिरहितकार्यावस्थादित्यजीवशरीरकब्रह्मोपासनम्]
अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेता, एकल एव मध्ये स्थाता ।तदेष श्लोकः ॥ १ ॥
View Verse
न वै तत्र स निम्लोचः नोदियाय कदाचन ।देवास्तेनाहँ सत्येन मा ‘विराधिषि ब्रह्मणा ॥ इति ॥ २ ॥
View Verse
न ह वा अस्मा उदेति न निम्लोचति । सकृद्दिवा हैवास्मै भवति यएतामेवं ब्रह्मोपनिषदं वेद ॥ ३ ॥
View Verse
[मधुविद्यासम्प्रदायः]
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः ।स्तद्धैतदुद्दालकायाऽऽरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥
View Verse
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् , प्रणाय्यायवाऽन्तेवासिने ॥ ५ ॥
View Verse
नान्यस्मै कस्मैचन, यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णा दद्यात्,एतदेव ततो भूय इति एतदेव ततो भूय इति ॥ ६ ॥
॥ इति एकादशः खण्डः ॥
View Verse
द्वादशः खण्डः
[ब्रह्मणि गायत्रीसादृश्यानुसन्धानम्]
गायत्री वा इदँ सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री । वाग्वा इदँ सर्वंभूतं गायति च त्रायते च ॥ १ ॥
View Verse
[पृथिव्यात्मिका गायत्री]
या वै सा गायत्री इयं वाव सा येयं पृथिवी । अस्याँ ही सर्वं भूतंप्रतिष्ठितमेतामेव नातिशीयते ॥ २ ॥
View Verse
[गायत्री ब्रह्मशरीरात्मकम्]
या वै सा पृथिवी इयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् । अस्मिन् हीमेप्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते ॥३॥
View Verse
[हृदयात्मकं गायत्रीब्रह्म]
यद्वै तत् पुरुषे शरीरमिदं वाव तद् यदिदमस्मिन्नन्तः पुरुषे हृदयम् ।अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते ॥ ४ ॥
View Verse
[गायत्री चतुष्पदा षड्विधा च]
सैषा चतुष्पदा षड्विधा गायत्री । तदेतदृचाऽभ्यनूक्तम् ॥५॥
View Verse
[गायत्रीब्रह्मणः महिमा]
तावानस्य महिमा ततो ज्यायाँश्च पुरुषः । पादोऽस्य सर्वा भूतानित्रिपादस्यामृतं दिवि । इति ॥ ६ ॥
View Verse
[हृदये गायत्र्याख्यं ब्रह्म उपासनम्]
यद्वै तद् ब्रह्मेति इदं वाव तत् योऽयं बहिर्धा पुरुषादाकाशः । यो वै सबहिर्धा पुरुषादाकाशः ॥ ७ ॥
अयं वाव स योऽयमन्तः पुरुष आकाशः । यो वै सोऽन्तः पुरुषआकाशः ॥८॥
अयं वाव स योऽयमन्तर्हृदय आकाशः । यो ह वै सोऽन्तर्हृदय आकाशः ।तदेतत् पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीँ श्रियं लभते, य एवं वेद ॥ ९ ॥
॥ इति द्वादशः खण्डः ॥
View Verse
त्रयोदशः खण्डः
[द्वारपुरुषोपासनम्]
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः । स योऽस्य प्राङ्सुषिः, सप्राणः, तच्चक्षुः, स आदित्यः । तदेतत् तेजोऽन्नाद्यमित्युपासीत । तेजस्व्यन्नादोभवति, य एवं वेद ॥ १ ॥
View Verse
[दक्षिणद्वारपालोपासनम् तस्य फलञ्च]
अथ योऽस्य दक्षिणः सुषिः, स व्यानः, तच्छ्रोत्रँ, सः चन्द्रमाः । तदेतच्छ्रीश्चयशश्चेत्युपासीत । श्रीमान् यशस्वी भवति, य एवं वेद ॥ २ ॥
View Verse
[पश्चिमद्वारपालोपासनम्, तत्फलञ्च]
अथ योऽस्य प्रत्यङ्सुषिः, सोऽपानः, सा वाक्, सोऽग्निः । तदेतत्ब्रह्मवर्चसमन्नाद्यमित्युपासीत । ब्रह्मवर्चस्व्यन्नादो भवति, य एवं वेद ॥ ३ ॥
View Verse
[उत्तरद्वारपालस्य उपासनम् तत्फलञ्च]
अथ योऽस्योदङ् सुषिः, स समानः, तन्मनः, स पर्जन्यः । तदेतत्कीर्तिश्चव्युष्टिश्चेत्युपासीत। कीर्तिमान् व्युष्टिमान् भवति । य एवं वेद ॥ ४ ॥
View Verse
[ऊर्ध्वद्वारपालस्योपासनं, तत्फलञ्च]
अथ योऽस्योर्ध्वः सुषिः, स उदानः, स वायुः, स आकाशः । तदेतदोजश्चमहश्चेत्युपासीत । ओजस्वी महस्वान् भवति, य एवं वेद ॥ ५ ॥
View Verse
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः । स य एतानेवं पञ्चब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ; अस्य कुले वीरो जायते । प्रतिपद्यतेस्वर्ग लोकम् , य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ६ ॥
View Verse
[ज्योतिर्ब्रह्मोपासनम्]
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषुलोकेषु, इदं वाव तद् यदिदमस्मिन् अन्तःपुरुषे ज्योतिः । तस्यैषा दृष्टिः ॥ ७ ॥
View Verse
यत्रैतदस्मिन् शरीरे सँस्पर्शेनोष्णिमानं विजानाति । तस्यैषा श्रुतिः,यत्रैतत् कर्णावपिगृह्य, निनदमिव नदथुरिव, अग्नेरिव ज्वलत उपशृणोति । तदेतत् दृष्टश्चश्रुतञ्चेत्युपासीत । चक्षुष्यः श्रुतो भवति । य एवं वेद य एवं वेद ॥ ८ ॥
॥ इति त्रयोदशः खण्डः ॥
View Verse
चतुर्दशः खण्डः
शाण्डिल्यविद्या
[मनोमयत्वादिगुणकब्रह्मोपासनम् ]
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषः ।यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति । स क्रतुं कुर्वीत ॥ १ ॥
View Verse
[ब्रह्मणः मनोमयत्वादिगुणाः]
मनोमयः प्राणशरीरो भारूपः सत्यसङ्गल्प आकाशात्मा सर्वकर्मा सर्वकामःसर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ॥ २ ॥
View Verse
[ब्रह्मोपासनारीतिः]
एष म आत्मा अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वाश्यामाकतण्डुलाद्वा । एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षात्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३ ॥
View Verse
[सगुणोपासनम्]
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एषम आत्मान्तर्हृदय एतद् ब्रह्म ॥ ३ ॥
एतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीतिह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ४ ॥
॥ इति चतुर्दशः खण्डः ॥
View Verse
पञ्चदशः खण्डः
[वीरपुत्रस्य दीर्घायुष्ट्वसिद्ध्यै कोशविज्ञानम् ]
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति ।
दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् ॥
स एष कोशो वसुधानस्तस्मिन् विश्वमिदँ श्रितम् ॥ १ ॥
View Verse
[कोशदिग्वत्सविज्ञानं, तस्य फलञ्च]
तस्य प्राची दिग् जुहूर्नाम, सहमाना नाम दक्षिणा, राज्ञी नाम प्रतीची,सुभूता नामोदीची । तासां वायुर्वत्सः । स य एतमेवं वायुं दिशां वत्सं वेद, नपुत्ररोदँ, रोदिति । सोऽहमेतमेवं वायुं दिशां वत्सं वेद ; मा पुत्ररोदँ, रुदम् ॥ २ ॥
View Verse
अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना ; प्राणं प्रपद्येऽमुनाऽमुनाऽमुना ;भूः प्रपद्येऽमुनाऽमुनाऽमुना ; भूवः प्रपद्येऽमुनाऽमुनाऽमुना ; स्वाःप्रपद्येऽमुनाऽमुनाऽमुना ॥ ३ ॥
View Verse
स यदवोचम् – प्राणं प्रपद्य इति, प्राणो वा इदं सर्वं भूतम् , यदिदं किञ्च,तमेव तत् प्रापत्सि ॥ ४ ॥
अथ यदवोचम् – भूः प्रपद्य इति, पृथिवीं प्रपद्ये, अन्तरिक्षं प्रपद्ये, दिवंप्रपद्ये इत्येव तदवोचम् ॥ ५ ॥
अथ यदवोचम् – भुवः प्रपद्य इति, अग्निं प्रपद्ये, वायुं प्रपद्ये, आदित्यंप्रपद्ये, इत्येव तदवोचम् ॥ ६ ॥
अथ यदवोचम् – स्वः प्रपद्य इति, ऋग्वेदं प्रपद्ये, यजुर्वेदं प्रपद्ये, सामवेदंप्रपद्ये इत्येव तदवोचम् , तदवोचम् ॥ ७ ॥
॥ इति पञ्चदशः खण्डः ॥
View Verse
षोडशः खण्डः
[दीर्घायुष्ट्वफलकपुरुषविद्या]
पुरुषो वाव यज्ञः । तस्य यानि चतुर्विंशतिवर्षाणि, तत् प्रातस्सवनम् ।
चतुर्विंशत्यक्षरा गायत्री ; ‘गायत्रं प्रातस्सवनम् । तदस्य वसवोऽन्वायत्ताः ।
प्राणा वाव वसवः । एते हीदँ सर्वं वासयन्ति ॥ १ ॥
View Verse
तं चेदेतस्मिन् वयसि किश्चिदुपतपेत् , स ब्रूयात् प्राणा वसवः । इदं मेप्रातस्सवनं । माध्यन्दिनँ सवनमनु सन्तनुतेति । माऽहं प्राणानां वसूनां मध्येयज्ञो विलिप्सीयेति । उद्धैव तत एति, अगदो ह भवति ॥ २ ॥
View Verse
[माध्यन्दिनसवनम् ]
अथ यानि चतुश्चत्वारिंशद्वर्षाणि, तन्माध्यन्दिनँ सवनम् । चतुश्चत्वारिंशदक्षरात्रिष्टुप् । त्रैष्टुभं माध्यन्दिनँ सवनम् । तदस्य रुद्रा अन्वायत्ताः । प्राणा वाव रुद्राः ।एते हीदँ सर्वं रोदयन्ति ॥ ३ ॥
View Verse
तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत्, स ब्रूयात् प्राणाः रुद्राः इदं मेमाध्यन्दिनँ सवनं तृतीयसवनमनु सन्तनुतेति । माऽहं प्राणानाँ रुद्राणां मध्येयज्ञो विलोप्सीयेति । उद्धैव तत एति ; अगदो ह भवति ॥ ४ ॥
View Verse
अथ यान्यष्टाचत्वारिँशद्वर्षाणि, तत् तृतीयसवनम् अष्टाचत्वारिँशदक्षराजगती । जागतं तृतीयसवनं । तदस्यादित्या अन्वायत्ताः । प्राणा वाव आदित्याः ।एते हीदंँ सर्वमाददते ॥ ५ ॥
View Verse
[तृतीयसवनम्]
तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत्, स ब्रूयात्, ‘प्राणा आदित्याःइदं मे तृतीयसवनम् आयुरनु सन्तनुते‘ति । ‘माऽहं प्राणानामादित्यानां मध्येयज्ञो विलोप्सीये‘ति । उद्धैव तत एति ; अगदो हैव भवति ॥ ६ ॥
View Verse
[पुरुषविद्यायाः फलम्]
एतद्ध स्म वैतद् विद्वानाह महिदास ऐतरेयः, ‘स किं म एतदुपतपसि,योऽहमनेन न ‘प्रैष्यामी‘ति । स ह षोडशं वर्षशतमजीवत् । प्रह षोडशंवर्षशतं जीवति, य एवं वेद ॥ ७ ॥
॥ इति षोडशः खण्डः ॥
View Verse
सप्तदशः खण्डः
[पुरुषस्य यज्ञसादृश्यनिरूपणम्]
स यदशिशिषति, यत्पिपासति, यन्न रमते, ता अस्य दीक्षाः ॥ १ ॥
View Verse
अथ यदश्नाति, यत्पिबति, यद्रमते तदुपसदैरेति ॥ २ ॥
View Verse
[यज्ञस्य स्तुतशस्त्राणि]
अथ यद्धसति, यज्जक्षति, यन्मैथुनं चरति, स्तुतशस्रैरेव तदेति ॥ ३ ॥
View Verse
अथ यत् तपो दानमार्जवहिँसा सत्यवचनमिति, ता अस्य दक्षिणाः ॥ ४ ॥
View Verse
[पुरुषयज्ञस्य सवनावभृथौ]
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ॥ ५ ॥
View Verse
[विद्यास्तुतिः]
तद्धैतत् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच, अपिपास एवस बभूव, सोऽन्तवेलायामेतत् त्रयँ प्रतिपद्येत, ‘अक्षितमसि‘, ‘अच्युतमसि‘,‘प्राणसँशितमसी‘ति । तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥
View Verse
आदित् प्रत्नस्य रेतसः। उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरम् स्वः पश्यन्तउत्तरम् । देवं देवत्रा सूर्यमगन्मज्योतिरुत्तमम् । इति, ज्योतिरुत्तममिति ॥ ७ ॥
॥ इति सप्तदशः खण्डः ॥
View Verse
अष्टादशः खण्डः
[अध्यात्म मनसि अधिदेवतमाकाशे च ब्रह्मदृष्टिः]
मनो ब्रह्मेत्युपासीतेत्यध्यात्मम् । अथाधिदेवतम् । आकाशो ब्रह्मेति ।उभयमादिष्टं भवति अध्यात्मञ्चाधिदैवतञ्च ॥ १ ॥
View Verse
[ब्रह्मणः चतुष्पात्त्वम्]
तदेतञ्चतुष्पाद् ब्रह्म । वाक् पादः, प्राणः पादः, चक्षुः पादः,श्रोत्रं पादइत्यध्यात्मम् । अथाधिदैवतम् – अग्निः पादो वायुः पाद आदित्यः पादो दिशःपाद इति । उभयमेवादिष्टं भवति अध्यात्मञ्चैवाधिदैवतञ्च ॥ २ ॥
View Verse
वागेव ब्रह्मणश्चतुर्थः पादः । सोऽग्निना ज्योतिषा भाति च तपति च ।भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ॥ ३ ॥
View Verse
प्राण एव ब्रह्मणश्चतुर्थः पादः । स वायुना ज्योतिषा भाति च तपति च ।भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ॥ ४ ॥
View Verse
चक्षुरेव ब्रह्मणश्चतुर्थः पादः । स आदित्येन ज्योतिषा भाति च तपति च ।भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ॥ ५ ॥
View Verse
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः । स दिग्भिर्ज्योतिषा भाति च तपति च ।भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ॥ ६ ॥
॥ इति अष्टादशः खण्डः ॥
View Verse
एकोनविंशः खण्डः
[आदित्ये ब्रह्मदृष्टिः]
आदित्यो ब्रह्मेत्यादेशः । तस्योपव्याख्यानम् – असदेवेदमग्र आसीत् ।तत् सदासीत् । तत् समभवत् । तदाण्डं निरवर्तत । तत् संवत्सरस्य मात्रामशयत ।तन्निरभिद्यत । ते आण्डकपाले रजतञ्च सुवर्णञ्चाभवताम् ॥१॥
View Verse
तद् यद्रजतँ सेयं पृथिवी । यत् सुवर्णं सा द्यौः । यज्जरायु ते पर्वताः । यदुल्बँ
स मेघो नीहारः । या धमनयस्ता नद्यः । यद्वास्तेयमुदकँ स समुद्रः ॥ २ ॥
View Verse
अथ यत्तदजायत, सोऽसावादित्यः । तं जायमानं घोषा उलुलवोऽनूदतिष्ठन् ; सर्वाणि च भूतानिः, सर्वे च कामाः । तस्मात् तस्योदयं प्रति प्रत्यायनंप्रति घोषा उलूलवोऽनुत्तिष्ठन्ति, सर्वाणि च भूतानि, ‘सर्वे चैव‘कामाः ॥३॥
View Verse
[आदित्यब्रह्मोपासनस्य फलम् ]
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते, अभ्याशो ह यदेनँ साधवो घोषाआ च गच्छेयुः, उप च निम्रेडेरन्, निम्रेडेरन् ॥ ४ ॥
॥ इति एकोनविंशः खण्डः ॥
॥ इति तृतीयः प्रपाठकः समाप्तः ॥
View Verse

Chapter - 4

चतुर्थः प्रपाठकः
ओं । जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस । स ह सर्वत आवसथात् मापयाञ्चक्रे, सर्वत एव मेऽन्नमत्स्यन्तीति ।। 1 ।।
View Verse
अथ ह हँसा निशायामतिपेतुः । तद्धैर्वं हँसो हँसमभ्युवाद, भो1 भोऽयि भल्लाक्ष । भल्लाक्ष ! जानश्रुतेः पौत्रायणस्य समं दिवा ज्योति-राततम् । तन्मा प्रसाङ्क्षीः2 । तत् त्वा मा प्रधाक्षीदि3ति ।। 2।।
View Verse
तमु ह परः प्रत्युवाच, कम्वर एनमेतत्सन्तँ सयुग्वानमिव रैक्वमात्थेति। यो नु कथँ सयुग्वा रैक्व इति ।। 3 ।।
View Verse
यथा कृताय विजितायाधरेऽयाः संयन्ति, एवमेनँ सर्व तदमिसमेति, यत् किञ्च प्रजाः साधु कुर्वन्ति, यस्तद् वेद, यत् स वेद, स मयैतदुक्तः इति ।। 4 ।।
View Verse
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव । स ह सञ्जिहान एव क्षत्तारमुवाच, अङ्गारे ! ह सयुग्वानमिव रैक्वमात्थेति, यो नु कथँ सयुग्वा रैक्व इति ।। 5 ।।
View Verse
यथा कृतायविजितायाधरेऽयाः संयन्ति एवमेनँ सर्वं तदभिसमेति यत् किञ्च प्रजाः साधुकुर्वन्ति यत्सद् वेद, यत् स वेद स मयैतदुक्त इति ।।6।।
View Verse
स ह क्षत्ताऽन्विष्य, `नाविद'मिति प्रत्येयाय । तँ होवाच; `यत्रारे ब्राह्मणस्यान्वेषणा तदेनमच्छेति ।। 7 ।।
View Verse
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश । तँ हाभ्युवाद, त्वं नु भगवः ! सयुग्वा रैक्व इति । अहँ ह्यारा 3 इति1 ह प्रतिजज्ञे । स ह क्षत्ता2, अविदमिति प्रत्येयाय ।। 8 ।।
View Verse
तदुह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद ।। 1 ।।
View Verse
रैक्वेमानि षट् शतानि गवाम्, अयं निष्कोऽयमश्वतरीरथः । अनु म एतां भगवो ! देवताँ शाधि, यां देवतामुपास्से इति ।। 2 ।।
View Verse
तमु ह परः प्रत्युवाच - अह हारेत्वा शूद्र ! तवैव सह गोभिरस्त्विवति । तदुह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ।। 3 ।।
View Verse
तँ हाभ्यावाद - रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायाऽयं ग्रामो यस्मिन्नास्से । अन्वेव मा भगवः शाधीति ।। 4 ।।
View Verse
तस्याह मुखमुपोदगृह्णन्नुवाच - आजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति । ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास तस्मै होवाच ।। 5 ।।
View Verse
वायुर्वाव संवर्गः । यदा वा अग्निरुद्वायति, वायुमेवाप्येति । यदा सूर्योऽस्तमेति, वायुमेवाप्येति । यदा चन्द्रोऽस्तमेति, वायुमेवाप्येति ।। 1।।
View Verse
यदाप उच्छुष्यन्ति, वायुमेवापियन्ति वायुहर्येवैतान् सर्वान् संवृङ्क्त इत्यधिदैवतम् ।। 2 ।।
View Verse
अथाध्यात्मम् - प्राणो वाव संवर्गः । स यदा स्वपिति, प्राणमेव वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रम् ! प्राणं मनः, प्राणो ह्येवैतान् सर्वान् संवृङ्क्त इति ।। 3 ।।
View Verse
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ।। 4 ।।
View Verse
अथ ह शौनकञ्च कापेयमभिप्रतारिणञ्च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उह न ददतुः ।। 5 ।।
View Verse
स होवाच - महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः तं कापेयं नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम् यस्मै वा एतदन्नम्, तस्मा एतन्न दत्तम् इति ।। 6 ।।
View Verse
तदुह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय - आत्मा देवानां जनिता प्रजानाँ हिरण्यदंष्ट्रो बभसोऽनसूरिः । महान्तमस्य महिमानमाहुरनद्यमानो यदन्नमत्ति । इति वै वयं ब्रह्मचारिन्नेदमुपास्महे ।। दत्तास्मै भिक्षामिति ।। 7 ।।
View Verse
तस्मा उह ददुः । ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तः तत् कृतम् । तस्मात् सर्वासु दिक्ष्वन्नमेव दशकृतम् । सैषा विराडन्नादी । तयेदँ सर्वं दृष्टम् । सर्वमस्येदं दृष्टं भवत्यन्नादो भवति, य एवं वेद य एवं वेद ।। 8 ।।
View Verse
सत्यकामो ह जाबालो जबलां मातरमामन्त्रयाञ्चक्रे - ब्रह्मचर्यं भवति ! विवत्स्यामि । किंगोत्रोऽहमस्मीति ।। 1 ।।
View Verse
सा हैनमुवाच - नाहमेतद् वेद तात! यद्गोत्रस्त्वमसि । बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे । साऽहमेतन्न वेद, यद्गोत्रस्त्वमसि । जबाला तु नामाहमस्मि । सत्यकामो नाम त्वमसि स । सत्यकाम एव जाबालो ब्रवीथा इति ।। 2 ।।
View Verse
स ह हारिदुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्यामि उपेयां भगवन्तमिति ।। 3 ।।
View Verse
तँ होवाच - किंगोत्रो नु सोम्यासीति । स होवाच, नाहमेतद्वेद भो !, यद्गोत्रोऽहमस्मि । अपृच्छं मातरम् ! सा मा प्रत्यब्रवीत् - बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे । साऽहमेतन्न वेद, यद्गोत्रस्त्वमसि । जबाला तु नामाहमस्मि । सत्यकामो नाम त्वमसीति । सोऽहँ सत्यकामो जाबालोऽस्मि भो इति ।। 4 ।।
View Verse
[गौतमेन चतुश्शतगवीनिराकरणम् - सत्यकामस्य गोसेव] तँ होवाच - नैतदब्राह्मणो विवक्तुमर्हति । समिधँ सोम्याहर । उपत्वा नेष्ये । न सत्यादगा इति । तमुपनीय कृशानामबलाना चतुःशता गा1 निराकृत्योवाच - इमाः सोम्यानुसंव्रजेति । ता अभिप्रस्थापयन्नुवाच - नासहस्रेणावर्तेयेति । स ह वर्षगणं प्रोवास । ता यदा सहस्रं संपेदुः ।। 5 ।।
View Verse
[ऋषभेण सत्यकामाय चतुष्कलैकपादोपदेशः] अथ हैनमृषभोऽभ्युवाद - सत्यकामा इति । भगव इति ह प्रतिशुश्राव । प्राप्ताः सोम्य सहस्रँस्मः । प्रापय न आचार्यकुलम् ।। 1 ।।
View Verse
ब्राह्मणश्च ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मै होवाच - प्राचीदिक् कला ; प्रतीचीदिक् कलाः, दक्षिणा दिक् कला, उदीचीदिक् कला । एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान् नाम ।। 2 ।।
View Verse
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवान् इत्युपास्ते, प्रकाशवानस्मिन् लोके भवति । प्रकाशवतो ह लोकान् जयति, य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ।। 3 ।।
View Verse
अग्निष्टे पादं वक्तेति । स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार । ता यत्राभिसायं बभूवुः ; तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्मुपोपविवेश ।। 1 ।।
View Verse
तस्मग्निरभ्युवाद सत्यकामा 3 इति भगव इति ह प्रतिशुश्राव ।। 2 ।।
View Verse
ब्रह्मणः सोम्य! ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मै होवाच - पृथिवी कला, अन्तरिक्षं कला, द्यौः कला, समुद्रः कला । एष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान् नाम ।। 3 ।।
View Verse
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवा नस्मिन् लोके भवति । अनन्तवतो ह लोकान् जयति, य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ।। 4 ।।
View Verse
हँसस्ते पादं वक्तेति । स ह श्वोभूते गा अभि प्रस्थापयाञ्चकार । ता यत्राभिसायं बभूवुः तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ।। 1 ।।
View Verse
तँ हँस उपनिपत्याभ्युवाद, सत्यकामा 3इति । भगव इति ह प्रतिशुश्राव ।। 2 ।।
View Verse
ब्रह्मणः सोम्य ! ते पादं ब्रवाणीति, ब्रवीतु मे भगवानिति । तस्मै होवाच अग्निः कला, सूर्यः कला, चन्द्रः कला, विद्युत्कलैष वै सोम्य ! चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ।। 3 ।।
View Verse
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते, ज्योतिष्मानस्मिल्लोके भवति । ज्योतिष्मतो ह लोकाञ्जयति, य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ।। 4 ।।
View Verse
[मद्गोः सत्यकामाय चतुर्थपादोपदेशः तस्य फलञ्च] मद्गुष्टे पादं वक्तेति । स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार । ता यत्राभिसायं बभूवुः, तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ।। 1 ।।
View Verse
तं मद्गुरुपनिपत्याभ्युवाद, सत्यकामा3 इति । भगव इति ह प्रतिशुश्राव ।। 2 ।।
View Verse
ब्रह्मणः सोम्य ! ते पादं ब्रवाणीति । ब्रवीतु मे भगवानिति । तस्मै होवाच प्राणः कला, चक्षुः कला, श्रोत्रं कला, मनः कला । एष वै सोग्य ! चतुष्कलः पादो ब्रह्मणो आयतनवान् नाम ।। 3 ।।
View Verse
स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवान् इत्युपास्ते, आयतनवानस्मिन् लोके भवति । आयतनवतो ह लोकान् जयति, य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ।। 4 ।।
View Verse
[गुरुणा सत्यकामाय षोडशकलोपदेशः] प्राप हाचार्यकुलम् । तमाचार्योऽभ्युवाद सत्यकामा 3 इति । भगव इति ह प्रतिशुश्राव ।। 1 ।।
View Verse
ब्रह्मविदिव वै सोम्य भासि ; कोनु त्वाऽनुशशासेति । अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे । भगवांस्त्वेव मे कामे ब्रूयात् ।। 2 ।।
View Verse
श्रुतँ ह्येव मे भगवद्दृशेभ्यः आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापदिति । तस्मै हैतदेवोवाच अत्र ह न किञ्चन वीयायेति वीयायेति ।। 3 ।।
View Verse
[उपकोसलविद्या - उपकोसलस्य गुरुशुश्रूषा] उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचर्यमुवास । तस्य ह द्वादश वर्षाण्यग्नीन् परिचचार । स ह स्मान्यान् अन्तेवासिनः समावर्तयँस्तँ ह स्मैव न समावर्तयति ।। 1 ।।
View Verse
तं जायोवाच, तप्तो ब्रह्मचारी कुशलमग्नीन् 1पर्यचारीत्1 । मा त्वाऽग्नयः परिप्रवोचन् ; प्रब्रूह्यस्मा इति । तस्मै हा प्रोच्यैव प्रवासांचक्रे ।। 2 ।।
View Verse
स ह व्याधिनाऽनशितुं दध्रे । तमाचार्यजायोवाच - ब्रह्मचारिन् अशान ; किन्तु नाश्नासीति । स होवाच - बहव इमेऽस्मिन् पुरुषे कामाः नानात्ययाः । व्याधिभिः प्रतिपूर्णोऽस्मि ; नाशिष्यामीति ।। 3 ।।
View Verse
अथ हाग्नयः समूदिरे - तप्तो ब्रह्मचारी कुशलं नः पर्यचारीत् । हन्तास्मै प्रब्रवामेति1 तस्मै होचुः ।। 4 ।।
View Verse
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति । स होवाच विजानाम्यहं यत् प्राणो ब्रह्म ; कं च तु खं न विजानामीति । ते होचुः, यद्वाव कम् , तदेव खम् , यदेव खम् तदेव कमिति । प्राणं च हास्मै तदाकाशं चोचुः ।। 5 ।।
View Verse
अथ हैनं गार्हपत्योऽनुशशास - पृथिव्यग्निमादित्य इति । य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि ; स एवाहमस्मीति ।। 1 ।।
View Verse
स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकीभवति सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्ते उपवयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं विद्वानुपास्ते ।। 2 ।।
View Verse
अथ हैनमन्वाहार्यपचनोऽनुशशास - आपो दिशो नक्षत्राणि चन्द्रमा इति । य एष चन्द्रमसि पुरुषो दृश्यते, सोऽहमस्मि, स एवाहमस्मीति ।। 1 ।।
View Verse
स य एतमेवं विद्वानुपास्ते, अपहते पापकृत्याम् , लोकी भवति, सर्वमायुरेति ज्योग्जीवति, नास्यावरपुरुषाः क्षीयन्ते । उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च, य एतमेवं विद्वानुपास्ते ।। 2 ।।
View Verse
अथ हैनमाहवनीयोऽनुशशास - प्राण आकाशो द्यौर्विद्युदिति । य एष विद्युति पुरुषो दृश्यते ; सोऽहमस्मि, स एवाहमस्मीति ।। 1 ।।
View Verse
स य एतमेवं विद्वानुपास्ते, अपहते पापकृत्याम् लोकीभवति, सर्वमायुरेति, ज्योग्जीवति, नास्यावरपुरुषा क्षीयन्ते । उप वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च, य एतमेवं विद्वानुपास्ते ।। 2 ।।
View Verse
चतुर्दशः खण्डः - [अग्नीनामुपकोसलं प्रतिवचनम्] ते होचुः - उपकोसल ! एषा सोम्य तेऽस्मद्विद्या चात्मविद्या च आचार्यस्तु ते गतिं वक्तेति ।। आजगाम हास्याचार्यः । तमाचार्योऽभ्युवाद, उपकोसला 3 इति ।। 1 ।।
View Verse
भगव इति ह प्रतिशुश्राव । ब्रह्मविद इव सोम्य ते मुखं भाति । कोनु त्वाऽनुशशासेति । को नु माऽनुशिष्याद्भो इतीहापेव निह्नुते, इमे नूनमीदृशा अन्यादृशा इति ह अग्नीनभ्यूदे । किं नु सोम्य किल तेऽवोचन्निति ।। 2 ।।
View Verse
इदमिति ह प्रतिजज्ञे । लोकान् वाव किल सोम्य तेऽवोचन् । अहं तु ते तद्वक्ष्यामि, यथा पुष्करपलाश आपो न श्लिष्यन्ते, एवमेवंविदि पापं कर्म न श्लिष्यत इति । ब्रवीतु मे भगवानिति । तस्मै होवाच ।। 3 ।।
View Verse
य एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाच ; एतदमृतमभयम् एतद्ब्रह्मेति । तद् यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनीह्येव1 गच्छति ।। 1 ।।
View Verse
एतँ संयद्वाम इत्याचक्षते । एतँ हि सर्वाणि वामान्यभिसंयन्ति । सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ।। 2 ।।
View Verse
एष उ एव वामनीः । एष हि सर्वाणि वामानि नयति । सर्वाणि वामानि नयति, य एवं वेद ।। 3 ।।
View Verse
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ।। 4 ।।
View Verse
स एनान् ब्रह्म गमयति । एष देवपथो ब्रह्मपथः । एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ।। 6 ।।
View Verse
एष ह वै यज्ञो योऽयं पवते । एष ह यन् इदँ सर्वं पुनाति यदेष ह यन्निदँ सर्वं पुनाति, तस्मादेष एव यज्ञः । तस्य मनश्च वाक् च वर्तनी ।। 1 ।।
View Verse
तयोरन्यतरां मनसा संस्करोति ब्रह्मा, वाचा होताऽध्वर्यु रुद्गाताऽन्यतराम् । स यत्रोपाकृते1 प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा 1व्यवदति1 ।। 2 ।।
View Verse
अन्यतरामेव वर्तनीँ सँस्कुर्वन्ति, हीयतेऽन्यतरा । स यथा एकपाद् व्रजन् , रथो वैकेन चक्रेण वर्तमानो रिष्यति - एवमस्य यज्ञो रिष्यति, यज्ञं रिष्यन्तं यजमानोऽनुरिष्यति, स इष्ट्वा पापीयान् भवति ।। 3 ।।
View Verse
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदति, उभे एव वर्तनी सँस्कुर्वन्ति न हीयतेऽन्यतरा ।। 4 ।।
View Verse
स यथोभयपाद् व्रजन् , रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठति - एवमस्य यज्ञः प्रतितिष्ठति ; यज्ञं प्रतितिष्ठन्तं यजमानोऽनु प्रतितिष्ठति, स इष्ट्वा श्रेयान् भवति ।। 5 ।।
View Verse
प्रजापतिर्लोकानभ्यतपत् । तेषां तप्यमानानाँ रसान् "प्राबृहत् अग्निं पृथिव्याः, वायुमन्तरिक्षात् । आदित्यं दिवः ।। 1 ।। "
View Verse
स एतास्तिस्रो देवता अभ्यतपत् । तासां तप्यमानानाँ रसान् प्राबृहत् - अग्नेः ऋचः वायोर्यजूँषि सामान्यादित्यात् ।। 2 ।।
View Verse
स एतां त्रयीं विद्यामभ्यतपत् । तस्यास्तप्यमानाया रसान् प्राबृहत् - भूरिति ऋग्भ्यः भुवरिति यजुर्भ्यः, 1सुवरिति1 सामभ्यः ।। 3 ।।
View Verse
तद्यदृक्तो रिष्येत् , भूः स्वाहेति गार्हपत्ये जुहुयात् । ऋचामेव तद्रसेन ऋचां वीर्येण ऋचां यज्ञस्य विरिष्टँ सन्दधाति ।। 4 ।।
View Verse
अथ यदि यजुष्टो रिष्येत् , भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् , यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टँ सन्दधाति ।। 5 ।।
View Verse
अथ यदि सामतो रिष्येत् , सुवः स्वाहेत्याहवनीये जुहुयात् । साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टँ सन्दधाति ।। 6 ।।
View Verse
तद्यथा लवणेन सुवणँ सन्दध्यात् सुवर्णेन रजतँ, रजतेन त्रपु त्रपुणा सीसँ, सीसेन लोहं लोहेन दारु दारुचर्मणा ।। 7 ।।
View Verse
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टँ सन्दधाति । भेषजकृतो ह वा एष यज्ञः, यत्रैवंवित् ब्रह्मा भवति ।। 8 ।।
View Verse
एष ह वा उदक्प्रवणो यज्ञः यत्रैवंविद्ब्रह्मा भवति । एवंविदँ ह वा एषा ब्रह्माणमनु गाथायतो यत आवर्तते तत्तद्गच्छति ।। 9 ।।
View Verse
मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध वै ब्रह्मा यज्ञं यजमानँ सर्वांश्चर्त्विजोऽभिरक्षति तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ।। 10 ।।
View Verse

Chapter - 5

पञ्चमः प्रपाठकः
प्रथमः खण्डः
[ज्यैष्ठ्यश्रेष्ठ्यगुणकमुख्यप्राणोपासनम् ]
यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च ह वै श्रेष्ठश्च भवति । प्राणो वावज्येष्ठश्च श्रेष्ठश्च ॥ १ ॥
View Verse
[वाचः वसिष्ठत्वम्]
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति । वाग्वाव वसिष्ठः ॥ २ ॥
View Verse
[चक्षुषः प्रतिष्ठात्वम्]
यो ह वै प्रतिष्ठां वेद, प्रति ह तिष्ठत्यस्मिँश्च लोकेऽमुष्मिँश्च, चक्षुर्वावप्रतिष्ठा ॥ ३ ॥
View Verse
[श्रोत्रस्य सम्पत्त्वम्]
यो ह वै संपदं वेद, सँ हास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च । श्रोत्रंवाव सम्पत् ॥ ४ ॥
View Verse
[मनसः आयतनत्वम्]
यो ह वा आयतनं वेद, आयतनँ ह स्वानां भवति । मनो ह वा आयतनम् ॥ ५ ॥
View Verse
[मुख्यप्राणश्रैष्ठ्यप्रतिपादिकाख्यायिका]
अथ ह प्राणा अहँश्रेयसि व्यूदिरेऽहँ श्रेयानस्म्यहँ श्रेयानस्मीति । ते हप्राणाः प्रजापतिं पितरमेत्योचुः, भगवन् ! को नः श्रेष्ठः इति ॥ ६ ॥
View Verse
तान् होवाच, यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत, स वःश्रेष्ठः इति ॥ ७ ॥
View Verse
[वाचः पराजयः]
सा ह वागुच्चक्राम‘ । सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकत ऋतेमज्जीवितुमिति यथा कला अवदन्तः, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तःश्रोत्रेण, ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ८ ॥
View Verse
चक्षुर्होच्चक्राम । तत् संवत्सरं प्रोष्य पर्येत्योवाच ‘कथमशकत ऋतेमज्जीवितुमिति । यथा अन्धा अपश्यन्तः, प्राणन्तः प्राणेन, वदन्तो वाचा,शृण्वन्तः श्रोत्रेण, ध्यायन्तो मनसा – एवमिति । प्रविवेश ह चक्षुः ॥ ९ ॥
श्रोत्रं होच्चक्राम । तत् संवत्सरं प्रोष्य पर्येत्योवाच, ‘कथमशकत ऋतेमज्जीवितु‘मिति । यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन, वदन्तो वाचा,पश्यन्तश्चक्षुषा, ध्यायन्तो मनसैवमिति । प्रविवेश ह श्रोत्रम् ॥ १० ॥
View Verse
मनो होच्चक्राम । तत्संवत्सरं प्रोष्य पर्येत्योवाच ‘कथमशकत ऋते मज्जीवितु‘मिति ।यथा बाला अमनसः, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्षुषा, शृण्वन्तःश्रोत्रेणैवमिति । प्रविवेश ह मनः ॥ ११ ॥
View Verse
[प्राणस्य ज्येष्ठत्वश्रेष्ठत्वकथनम्]
अथ ह प्राण उच्चिक्रमिष्यन् , स यथा सुहयः पड्वीशशङ्कून् संखिदेत्,एवमितरान् प्राणान् समखिदत् । तँ हाभिसमेत्योचुः, ‘भगवन् ! एधि । त्वं नःश्रेष्ठोऽसि, मोत्क्रमी‘रिति ॥ १२ ॥
View Verse
अथ हैनं वागुवाच ‘यदहं वसिष्ठाऽस्मि, त्वं तद्वसिष्ठोऽसीति । अय हैनंचक्षुरुवाच, यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति ॥ १३ ॥
अथ हैनँ श्रोत्रमुवाच, यदहँ सम्पदस्मि, त्वं तत्सम्पदसीति । अब हैनं मनउवाच । यदहमायतनमस्मि, त्वं तदायतनमसीति ॥ १४ ॥
View Verse
न वै वाचो, न चक्षूँषि, न श्रोत्राणि, न मनाँसीत्याचक्षते । प्राणा इत्येवाचक्षते ।प्राणो ह्येवैतानि सर्वाणि भवन्ति ॥ १५ ॥
॥ इति प्रथमः खण्डः ॥
View Verse
द्वितीयः खण्डः
[मुख्यप्राणस्य अन्नत्वचिन्तनम्]
स होवाच ‘किं मेऽन्नं भविष्यतीति । ‘यत् किञ्चिदिदमाश्वभ्यःआशकुनिभ्य‘ इति होचुः । तद् वा एतदनस्यान्नम् । अनो ह वै नाम प्रत्यक्षम् ।न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ १ ॥
View Verse
[प्राणस्य वासस्त्वचिन्तनम् ]
स होवाच, किं मे वासो भविष्यतीति । ‘आप‘ इति होचुः । तस्माद्वाएतदशिष्यन्तः पुरस्ताञ्चोपरिष्टाच्चाद्भिः परिदधति । लम्भुको ह वासो भवति,अनग्नो ह भवति ॥ २ ॥
View Verse
[प्राणस्तुत्यर्थफलम्]
तद्धैतत् सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच,यद्यप्येनच्छुष्काय स्थाणवे ब्रूयात् , जायेरन्नेवास्मिन् शाखाः, प्ररोहेयुः पलाशानिइति ॥३॥
View Verse
[महत्वफलकमन्थाख्यकर्म]
अथ यदि महज्जिगमिषेत् अमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौसर्वोषधस्य मन्थं दधिमधुनोरुपमध्य, ज्येष्ठाय श्रेष्ठाय स्वाहा इत्यग्नावाज्यस्यहुत्वा मन्थे संपातमवनयेत् ॥ ४ ॥
View Verse
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् । प्रतिष्ठायैस्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् । संपदे स्वाहेत्याग्नावाज्यस्यहुत्वा मन्थे सम्पातमवनयेत् । आयतनाय स्वाहेत्यनावाज्यस्य हुत्वा मन्थेसम्पातमवनयेत् ॥ ५ ॥
View Verse
[मन्थजपमन्त्रः]
अथ प्रतिसृप्याजलौ मन्थमाधाय जपति, ‘अमो नामास्यमा हि तेसर्वमिदँ स हि ज्येष्ठः श्रेष्ठो राजाऽधिपतिः । स मा ज्यैष्ठ्यँ श्रैष्ठ्यँ राज्यमाधिपत्यंगमयत्वहमेवेदं सर्वमसानीति ॥ ६ ॥
View Verse
[मन्थभक्षणप्रकारः]
अथ खल्वेतयर्चा पच्छ आचामति तत् सवितुर्वृणीमहे इत्याचामति,वयं देवस्य भोजनम् इत्याचामति, श्रेष्ठँ सर्वधातमम् इत्याचामति । तुरं भगस्यधीमहि इति सर्वं पिबति ॥ ७ ॥
View Verse
निर्णिज्य कँसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वावाचंयमोऽप्रसाहः । स यदि स्त्रियं पश्येत्, समृद्धं कर्मेति विद्यात् ॥ ८ ॥
View Verse
[स्वप्ने स्त्रीदर्शनेन काम्यकर्मसमृद्धिः]
तदेष श्लोकः –
“यदा कर्मसु काम्येषु स्त्रियँ स्वप्नेषु पश्यति ।समृद्धिं तन्न जानीयात् तस्मिन् स्वप्ननिदर्शने, तस्मिन् स्वप्ननिदर्शने” ॥ ५ ॥
॥ इति द्वितीयः खण्डः ॥
View Verse
तृतीयः खण्डः
[पञ्चाग्निविद्या]
[श्वेतकेतुजैवल्योः संवादः]
श्वेतकेतुर्हारुणेयः पञ्चालानाँ समितिमेयाय । तँ ह प्रवाहणो जैवलिरुवाच,कुमारानु त्वाऽशिषत् पितेति । अनु हि भगव इति ॥ १ ॥
View Verse
[प्रवाहणस्य प्रश्नाः]
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति । न भगव इति । वेत्थ यथा पुनरावर्तन्ता३इति । न भगव इति । वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति । नभगव इति ॥२॥
View Verse
वेत्थ यथाऽसौ लोको न सम्पूर्यता ३ इति । न भगव इति । वेत्थ यथापञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति । नैव भगव इति ॥३॥
View Verse
अथनु किमनुशिष्टोऽवोचथाः । यो हीमानि न विद्यात्, कर्थं सोऽनुशिष्टोब्रुवीतेति । स हाऽऽयस्तः पितुरर्धमेयाय, तँ होवाच, अननुशिष्य वाव किल माभगवानब्रवीत् अनु त्वाऽशिषमिति ॥ ४ ॥
View Verse
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् । तेषां नैकञ्चनाशकं विवक्तुमिति ।स होवाच ‘यथा मा त्वं तदैतानवदो यथाऽहमेषां नैकञ्चन वेद, यद्यहमिमानवेदिष्यं,कथं ते नावक्ष्यम्‘ इति ॥ ५ ॥
View Verse
[गौतमेन राज्ञः समीपगमनम् ]
स ह गौतमो राज्ञोऽर्धमेयाय । तस्मै ह प्राप्तायार्हाँ चकार । स ह प्रातःसभाग उदेयाय । तँ होवाच मानुषस्य भगवन् गौतम ! वित्तस्य वरं वृणीथाःइति । स होवाच, तवैव राजन् ! मानुषं वित्तम् यामेव कुमारस्यान्ते वाचमभाषथाः,तामेव मे ब्रूहीति ॥ ६ ॥
View Verse
स ह कृच्छ्री बभूव । तँ ह चिरं वसेत्याज्ञापयाञ्चकार । तँ होवाच, ‘यथामा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति, तस्मादुसर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूत्‘ इति ॥ तस्मै होवाच ॥ ७ ॥
॥ इति तृतीयखण्डः ॥
View Verse
चतुर्थः खण्डः
[राज्ञा गौतमाय पञ्चाग्निविद्योपदेशः – द्युलोकाग्निः]
असौ वाव लोको गौतमाग्निः । तस्यादित्य एव समित् । रश्मयो धूमोऽहरर्चिःचन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ॥ १ ॥
View Verse
[सोमराजोत्पत्तिः]
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति । तस्या आहुतेः सोमो राजासम्भवति ॥ २ ॥
॥ इति चतुर्थः खण्डः ॥
View Verse
पञ्चमः खण्डः
[पर्जन्याग्निः]
पर्जन्यो वाव गौतमाग्निः, तस्य वायुरेव समित् अभ्रं धूमो विद्युदर्चिःअशनिरङ्गाराः ह्रादुनयो विस्फुलिङ्गाः ॥ १ ॥
View Verse
[होमेन वृष्ट्युत्पत्तिः]
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमँ राजानं जुह्वति । तस्या आहुतेर्वर्षंसम्भवति ॥ २ ॥
॥ इति पञ्चमः खण्डः ॥
View Verse
षष्ठः खण्डः
[पृथिव्यग्निः]
पृथिवी वाव गौतमाग्निः, तस्याः संवत्सर एव समित् आकाशो धूमोरात्रिरर्चिः दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ १ ॥
View Verse
[अन्नोत्पत्तिः]
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति । तस्या आहुतेरन्नँ सम्भवति ॥२॥
॥ इति षष्ठः खण्डः ॥
View Verse
सप्तमः खण्डः
[पुरुषाग्निः]
पुरुषो वाव गौतमाग्रिः, तस्य वागेव समित् प्राणी धूमो, जिह्वार्चिःचक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ १ ॥
View Verse
[रेतसः उत्पत्तिः]
तस्मिन्नेतस्मिनग्नौ देवा अन्नं जुह्वति । तस्या आहुते रेतः सम्भवति ॥ २ ॥
॥ इति सप्तमः खण्डः ॥
View Verse
अष्टमः खण्डः
[योषाग्निः]
योषा वाव गौतमाग्निः, तस्या उपस्थ एव समित् उपमन्त्रयते स धूमोयोनिरर्चिः, यदन्तः करोति तेऽङ्गाराः अभिनन्दा विस्फुलिङ्गाः ॥ १ ॥
View Verse
[गर्भोत्पत्तिः]
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति । तस्या आहुतेः गर्भः सम्भवति ॥ २ ॥
॥ इति अष्टमः खण्डः ॥
View Verse
नवमः खण्डः
[अपां पञ्चमाहुतौ पुरुषवचस्त्वनिगमनम् ]
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति । स उल्बावृतो गर्भोदश वा मासान् अन्तः शयित्वा यावद्वाऽथ जायते ॥ १ ॥
View Verse
[अन्त्यगमनम् (अन्त्येष्टिः)]
स जातो यावदायुषं जीवति । तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यतएवेतो यतः सम्भूतो भवति ॥ २ ॥
॥ इति नवमः खण्डः ॥
View Verse
दशमः खण्डः
[देवयानमार्गेण गमनागमननिरूपणम् ]
तद्य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभि–सम्भवन्ति, अर्चिषोऽहः, अह्नः आपूर्यमाणपक्षम्, आपूर्यमाणपक्षात् यान्षडुदङ्ङेति मासाँस्तान् ॥ १ ॥
View Verse
मासेभ्यः संवत्सरँ, संवत्सरादादित्यम्, आदित्याच्चन्द्रमसम्, चन्द्रमसो विद्युतम् ।तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति । एष देवयानः पन्था इति ॥ २ ॥
View Verse
[इष्टापूर्तकर्मिणां धूमादिमार्गः]
अथ य इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते, ते धूममभिसम्भवन्ति,धूमाद्रात्रिं, रात्रेरपरपक्षम्, अपरपक्षाद्यान् षड्दक्षिणैति मासाँ स्तान् नैतेसंवत्सरमभिप्राप्नुवन्ति ॥ ३ ॥
View Verse
मासेभ्यः पितृलोकम्, पितृलोकादाकाशम्, आकाशाञ्चन्द्रमसम् । एषसोमो राजा, तद्देवानामन्नम्। तं देवा भक्षयन्ति ॥ ४ ॥
View Verse
[इष्टादिकारिणां पुनरागमनमार्गः]
तस्मिन् यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते, यथेतमाकाशम्,आकाशाद्वायुम् । वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽभ्रं भवति ॥ ५ ॥
View Verse
अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति । त इह व्रीहियवाओषधिवनस्पतयस्तिलमाषा इति जायन्ते । अतो वै खलु दुनिष्प्रपतरं, यो योह्यन्नमत्ति यो रेतः सिञ्चति, तद्भूय एव भवति ॥ ६ ॥
View Verse
[इष्टापूर्तकारिणां स्वस्वकर्मानुगुणं जन्म]
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमाद्येरन् ,ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणाअभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिंवा ॥ ७ ॥
View Verse
[मार्गद्वयभ्रष्टानां तृतीयागतिः]
अथैतयोः पथोर्न कतरेण च न तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानिभवन्ति जायस्व म्रियस्वेति – एतत् तृतीयं स्थानम् । तेनासौ लोको न सम्पूर्यते ।तस्माज्जगुप्सेत । तदेष श्लोकः ॥ ८ ॥
View Verse
“स्तेनो हिरण्यस्य सुरां पिबँश्च गुरोस्तल्पमावसन्ब्रह्महा च । एते पतन्तिचत्वारः पञ्चमश्चाचरँस्ते” इति ॥ ९ ॥
View Verse
[पञ्चाग्निविद्यास्तुतिः]
अथ ह य एतानेवं पञ्चाग्नीन् वेद, न सह तैरप्याचरन् पाप्मना लिप्यते ।शुद्धः पूतः पुण्यलोको भवति, य एवं वेद य एवं वेद ॥ १० ॥
॥ इति दशमः खण्डः ॥
View Verse
एकादशः खण्डः
[वैश्वानरविद्या]
[प्राचीनशालादिऋषीणां मध्ये ब्रह्मविचारकचर्चा]
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयोजनश्शार्कराक्ष्यो बुडिल आश्वतराश्विः ते हैते महाशाला महाश्रोत्रियाः समेत्यमीमांसाञ्चक्रुः – को न आत्मा किं ब्रह्मेति ॥ १ ॥
View Verse
[पञ्चर्षिभिः उद्दालकसमीपगमनम्]
ते ह सम्पादयाञ्चक्रुः, उद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानंवैश्वानरमध्येति, तँ हन्ताभ्यागच्छामेति । तँ हाभ्याजग्मुः ॥२॥
View Verse
स ह सम्पादयाञ्चकार, प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियाः ।तेभ्यो न सर्वमिव प्रतिपत्स्ये । हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥
View Verse
[पञ्चर्षीणां उद्दालकेन सहाश्वपतिराजगमनम् ]
तान् होवाच, अश्वपतिर्वै भगवन्तोऽयं कैकयः सम्प्रतीममात्मानंवैश्वानरमध्येति, तँ हन्ताभ्यागच्छाम इति तँ हाभ्याजग्मुः ॥ ४ ॥
View Verse
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार । स ह प्रातः संजिहान
उवाच,
“न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।नानाहिताग्निर्ना विद्वान् न स्वैरी, स्वैरिणी कुत्तः” ॥
View Verse
प्र. – तेभ्यो ह……चकार । प्राप्तेभ्यः तेभ्यः महर्षिभ्यः केकयः पृथक् पृथकअर्हाणि – अर्हणानि पूजाः भृत्यैः पुरोहितादिभिश्च कारितवान् इत्यर्थः । स ह……उवाच ।सःह राजा अन्येद्युः प्रातःकाले स्वभवनं संजिहानः त्यजन स्वभवनात् निर्गत्यतत्समीपमेत्य इति यावत् – तान् महर्षीन् उवाच इत्यर्थः । किमिति ? तत्राह नमे……भगवन्तः इति । हे भगवन्तः ! पूजार्हाः ! मदधिष्ठिते जनपदे स्तेनः चोरःवा कदर्यः – दानशून्यो वा, मद्यपायी वा, सत्यां योग्यतायाम् अनाहिताग्निर्वा, अविद्वान् –वेदाध्ययनादिशून्यः त्रैवर्णिको वा, स्वैरी – परदारगन्ता वा न सन्ति । स्वैरिणी पुंश्चलीतु कुतः स्यात् इत्यर्थः । एवमाद्याः दुष्टाः मज्जनपदे न सन्ति – नहि तैः दत्तं धनम्उपजीवामि । अतो मम प्रतिग्रहयोग्यताम् अस्तीति भावः । अहम् अचिरेणैव कालेन यागंकरिष्यामि । तत्र यागे एकैकस्मै ऋत्विजे यावत् धनं दास्यामि, तावत् भगवभ्द्यः प्रत्येकंदास्यामि । तावत्कालमत्रैव वसन्तु; यागञ्च पश्यन्तु इति प्रार्थितवान् इत्यर्थः । भगवताच भाष्यकृता, “न मे स्तेनः’ इत्यादिना, ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’ इत्यन्तेनआत्मनो व्रतस्थतया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धस्य परिहरणीयताविहितस्य कर्तव्यतां च प्रतिज्ञाप्य, यावदेकैकस्मै ऋत्विजे धनं दास्यामि, तावत् भगवद्भ्यःदास्यामि । वसन्तु भगवन्तः इत्यवोचत् इति भाषितम् ॥
View Verse
प्र–ते होचुः । ते ऋषयः राजानं प्रति ऊचुः । किमिति ? तदाहयेन……ब्रूहीति येन अर्थेन – प्रयोजनेन, यत् प्रयोजनमुद्दिश्य पुरुषः चरेत् – आगच्छति,तं हैव – तमेव पुरुषार्थं तस्य वदेत् – कुर्यामिति वदेत् । कुर्यादिति यावत् । समीहितं हि कर्तव्यंभवति । अस्माकं च वैश्वानरः आत्मा जिज्ञासितः । त्वञ्च तम् आत्मानम् अधुनाअध्येषि – उपास्से । न च ते तद्ज्ञानम् अपलापार्हम् । अतः तमेव नः उपदिश । नप्रयोजनान्तरम् इत्यर्थः । विश्वान् नरान् नयतीति, विश्वे एनं नराः नयन्तीति वा विश्वानरः ।विश्वानर एव वैश्वानरः; ‘वय एव वायसः’ इतिवत् ॥
View Verse
प्र.–तान्…….प्रतिवक्तास्मीति । तेषाम् अभिमानं परिशोध्य, श्वः प्रतिवचनंदास्यामि इति मत्वा प्रातः प्रश्नस्य प्रतिवचनकर्तास्मि इत्युवाच इत्यर्थः । ते……प्रतिचक्रमिरे । तेच राज्ञः अभिप्रायज्ञाः समिद्भारहस्ताः’ अपरेद्युः पूर्वाह्ने राजानं, शिष्याः भवेम इत्युपगतवन्तः ।तान्……उवाच । राजा तु तान् समित्याणीन् उपयाम इति वदतः त्यक्तस्वजात्यभिमानान्उद्वीक्ष्य तेषाम् उपदेशयोग्यतां ज्ञात्वा ‘अब्राह्मणेन न ब्राह्मण उपनेतव्यः’ इति शास्त्रार्थज्ञात्वा तैः समर्पितं समिदाद्युपायनम् अस्वीकृत्य एव मैत्र्या एव एतत् वक्ष्यमाणम्उवाच इत्यर्थः ।यत एवं महाशालाः महाश्रोत्रिया ब्राह्मणास्सन्तः महाशालत्वाद्यभिमानं हित्वासमिद्भारहस्ताः जातितो हीनं राजानं विद्यार्थितया उपजग्मुः । तस्मात् तथा अन्यैःविद्योपादित्सुभिः भवितव्यम् इति आख्यायिकया सूच्यते ॥
॥ इति एकादशखण्डभाष्यम् ॥
View Verse
प्र.-अथ कैकयः तेभ्यः वैश्वानरात्मानम् उपदिदिक्षुः विशेषप्रश्नान्यथाऽनुपपत्त्यावैश्वानरात्मनि एतैः किञ्चित् ज्ञातम्, किञ्चित् अज्ञातमिति विज्ञाय ज्ञातांशबुभुत्सयातान् एकैकशः प्रष्टुम् उपक्रमते । तत्र औपमन्यवं पृच्छति – औपमन्यव कं त्वमात्मानमुपास्सेइति । स्पष्टोऽर्थः । दिवमेव भगवो राजन्निति होवाच । हे भगवः ! द्युलोकशरीरकंवैश्वानरम् अहमुपास्से इति औपमन्यवः प्रत्युवाच इत्यर्थः । कैकयः आहएष……….नागमिष्यः इति । यं – द्युलोकावच्छिन्नं वैश्वानरम् आत्मानं त्वमुपास्सेएषः वैश्वानरः आत्मा सुतेजाः – शोभनं तेजो यस्य सः सुतेजाः । द्युलोको हिसूर्यचन्द्रतेजोयुक्ततया सुतेजा भवति । यतश्च द्युलोकावच्छिन्नो वैश्वानर आत्मा त्वयाउपास्यमानः सुतेजस्त्वगुणयोगेन सुतेजोनामा वैश्वानरः । तस्मात्तव……दृश्यते । अत्रसुतप्रसुतासुतशब्दाः एकाहाहीनसत्र’-कर्मगताभिषवणपराः । सुतशब्दवत्त्वसाम्यात्सुतेजस्त्वोपासनायाः सुतादिफलकत्वोपपत्तिः इति भावः ॥
View Verse
प्र.–अत्स्यन्नं पश्यसि प्रियम् । तदुपासनावैभवेन अन्नं लौकिकं भोग्यम् अनुभवसि ।प्रियं – पुत्रादिकं च पश्यसि इत्यर्थः । एवमन्योऽपि यः त्वमिव, त्वदुपास्यं वैश्वानरमुपास्ते,सोऽपि त्वमिव अन्नादनप्रियदर्शनब्रह्मवर्चसशाली सन्तानवांश्च भवति इत्याहअत्त्यन्नं……उपास्ते । उक्तोऽर्थः । एवं तदुक्तम् अर्थमङ्गीकुर्वन्निव फलप्रदर्शनेनतमभिमुखीकृत्य तत्र वक्तव्यमंशम् उपदिशति । मूर्धात्वेष……नागमिष्य इति । त्वयावैश्वानरबुद्ध्या उपास्यमानः एषः – द्युलोकः परिच्छिन्नः आत्मनः वैश्वानरस्य आत्मनःमूर्धावयवभूतः । न तु स एव वैश्वानरात्मा । एतदर्थनिर्णयार्थ तव मत्समीपानागमने तत्रवैश्वानरात्ममूर्धरूपावयवभूते द्युलोके कृत्स्नवैश्वानरबुद्धिं कुर्वतः तव मूर्धा व्यपतिष्यत् -विपरीतविद्यावशात् अनर्थः स्यात् । अतः साधु अकार्षीः – यत्त्वं माम् आगतोऽसि इत्यभिप्रायः ॥
॥ इति द्वादशखण्डभाष्यम् ॥
View Verse
प्र–अथ होवाच……उपास्स इति इत्यादि । प्राचीनयोग्यः इति सत्ययज्ञस्यनामान्तरम् । आदित्य……विश्वरूप आत्मा वैश्वानरः – रूप्यते इति रूपम् । विश्वंरूपं प्रकाश्यं यस्य सः विश्वरूपः । आदित्यस्य विश्वप्रकाशकत्वात् विश्वरूपत्वम् ।तस्मात्……दृश्यते । एतदुपासनात् तव कुले बहु विश्वरूपं – विश्वप्रकाशकं पुत्ररत्नादिकंदृश्यते इत्यर्थः ॥
View Verse
प्र.–प्रवृत्तो……नागमिष्य इति । अश्वतरीभिः युक्तो रथः अश्वतरीरथःत्वाम् अनुप्रवृत्तः दासीभिः युक्तो निष्कः हारः दासीनिष्कः त्वाम् अनुप्रवृत्तःइत्यर्थः । शिष्टं सर्वं पूर्ववत् ॥
॥ इति त्रयोदशखण्डभाष्यम् ॥
View Verse
प्र.–अथ होवाच……उपास्स इति । व्याघ्रपद्यस्यापत्यं वैयाघ्रपद्यः ।भाल्लवेरेव व्याघ्रपद्य इति नामान्तरम् । एष वै पृथग्वर्त्मा वैश्वानर इति । वायोःविविधगतिस्वभावत्वात् पृथग्वर्त्मत्वम् । तस्मात्त्वां अनुयन्ति । पृथक् – नानादिक्स्थाःवस्त्रान्नादिलक्षणाः बलयः आययन्ति – आगच्छन्ति । रथपङ्कयोऽपि त्वामनुयान्ति इत्यर्थः ।शिष्टं स्पष्टम् ॥
View Verse
प्र. –अत्स्यन्नं पश्यसि प्रियम् इत्यादि । सर्वं पूर्ववत् ॥
॥ इति चतुर्दशखण्डभाष्यम् ॥
View Verse
प्र.–अथ……त्वमात्मनम् इत्यादि । एष वै बहुल आत्मा ।भूतान्तरेभ्यः आकाशस्य महत्त्वात् बहुलत्वम् । शिष्टं स्पष्टम् ।अत्स्यन्नम् इत्यादि । **सन्देहस्त्वेष आत्मन इति होवाच । सन्देहः।**मध्यकायः, मध्यकायो हि उत्तरापरकाययोः क्व अनुप्रविष्टः इति सन्दिह्यमानत्वात्सन्देहः इत्युच्यते । व्यशीर्यत् – विशीर्णोऽभविष्यत् । शिष्टं स्पष्टम् ॥
॥ इति पञ्चदशखण्डभाष्यम् ॥
View Verse
प्र.- अथ…..पुष्टिमानसि । वैयाघ्रपद्य – व्याघ्रपद्गोत्रापत्य इत्यर्थः । एषवै रयिरात्मा । अपां वेगवत्त्वात् रयित्वम् । विसर्गः छान्दसः । धनप्राप्तिहेतुत्वाद्वारयित्वम् । रयिमान् धनवान् इत्यर्थः ।अत्स्यन्नम् इत्यादि । वस्तिः – मूत्रस्थानम् । शिष्टं स्पष्टम् ॥
॥ इति षोडशखण्डभाष्यम् ॥
View Verse
प्र.–अथ……पशुभिश्च । प्राण्याधारत्वात् पृथिव्याः प्रतिष्ठात्वम् ।अत्स्यन्नम् इत्यादि । व्यम्लास्येतां – ग्लानौ, श्लथौ अभविष्यताम् इत्यर्थः । शिष्टंस्पष्टम् ॥
॥ इति सप्तदशखण्डभाष्यम् ॥
View Verse
प्र. – तान् होवाच । अथ राजा तान् ऋषीन् पुनरुवाच इत्यर्थः । एते वै……अत्थ ।एतादृशा हि यूयम् इमं वैश्वानरम् आत्मानं पृथगिव विद्वांसः‘ – भिन्नभिन्नतया उपासीनाःतदानुरूप्येण अन्नमत्थ–लौकिकं भोगम् अनुभवथ इत्यर्थः । पूर्वत्र अत्स्यन्नम् इतिप्रतिपुरुषमुक्तस्य अत्र अत्थ इति बहुवचनेन निर्देशः । अत्र अनमत्थ इत्येतत् प्रियं पश्यथइत्यस्यापि उपलक्षणम् । यस्तु……अत्ति । अभिविमानं‘ – सर्वाभिव्याप्ततया विगतमानंवैश्वानरं – विश्वेषां नराणां नेतारं एतमात्मानं प्रादेश मात्रं – द्युलोकादिप्रदेशसम्बन्धिनीप्रादेशी । प्रादेशी मात्रा यस्य तं प्रादेशमात्रं – द्युप्रभृतिप्रदेशपरिच्छिन्नं यः उपास्ते, ससर्वलोकसर्वभूतसर्वात्मवर्तिब्रह्मरूपम् अन्नं अत्ति अनुभवति इत्यर्थः ।
अनेन वैश्वानरोपासनस्य ब्रह्मप्राप्तिफलकत्वम् उक्तं भवति । भगवता हि भाष्यकृता,‘सर्वेषु भूतेषु सर्वेष्वात्मसु च वर्तमानं यत् अन्नं भोग्यम् , तदत्ति । सर्वत्र वर्तमानं‘स्वतः एव’ अनवधिकातिशयानन्दं ब्रह्म अनुभवति । यत्तु सर्वः कर्मवश्यः आत्मभिःप्रत्येकम् अनन्यसाधारणम् अन्नं भुज्यते, तत् मुमुक्षुभिः त्याज्यत्वात् इह ‘न गृह्यते इतिभाषितम् ।
[प्रादेशमात्रशब्दार्थविचारः]
अत्र ‘प्रादेशमात्रमिव ह वै देवाः सुविदिताः अभिसम्पन्नाः । तथा तु वा एनान्वक्ष्यामि यथा प्रादेशमात्रम् अभिसम्पादयिष्यामि इति । स होवाच मूर्धानम् उपदिशन् ,‘एष वा प्रतिष्ठा वैश्वानरः’ इति ; चक्षुषी उपदिशन्नुवाच, ‘एष वै सुतेजा वैश्वानरः’ इतिनासिके उपदिशन्नुवाच एष वै पृथग्वर्त्मा वैश्वानरः इति । मुख्यमाकाशम् उपदिशन्नुवाच,‘एष वै बहुलो वैश्वानरः’ इति । मुख्याः अपः उपदिशन्नुवाच, ‘एष वै रयिवैश्वानरः’ इति ;चुबुकम् उपदिशन् उवाच ; ‘एष वै प्रतिष्ठा वैश्वानरः’ इति ॥ (शत.बा.१०-६-१-१०,११)इति वाजसनेयकोक्तमूर्धचुबुकान्तरालप्रतिष्ठितत्वलभ्यं प्रादेशमात्रत्वं नोपजीव्यम् ।द्युप्रभृतिप्रदेशसंबन्धित्वमात्रस्य यौगिकार्थस्य प्रकरणतः प्रतीतेः । उक्तञ्च ‘व्यासार्यैःसर्ववेदान्तप्रत्ययाधिकरणे, ‘यस्त्वेतमिति न वाजसनेयकोक्तानुवादः । स्वशाखावाक्येएव पूर्वप्रतिपादितस्य अनुवादेन फलसमर्पकत्वोपपत्तेः’ इति ।न च अपरिच्छिन्नस्य परस्य ब्रह्मणः द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रयाकथं परिच्छिन्नत्वम् इति चोदनीयम् । परिच्छिन्नत्वे बुद्धिसौकर्यलक्षणाभिव्यक्तेः सम्भवात् ।सूत्रितं च ‘अभिव्यक्तेरित्याश्मरथ्यः’ इति (ब्र.सू.१-२-३०) बुद्धिसौकर्यलक्षणाभिव्यक्तेःहेतोः अभिविमानस्यापि ब्रह्मणः प्रादेशमात्रत्वम् उपदिश्यते इति आश्मरथ्यः आचार्यों मन्यतेइति सूत्रार्थः ॥ अभिव्यक्त्यर्थं परिच्छिन्नत्वोपदेशेऽपि मूर्धप्रभृत्यवयवविशेषैः पुरुषविधत्वंपरस्य ब्रह्मणः किमर्थमिति न चोदनीयम् – तथा उपासनार्थत्वात् । सूत्रितं च‘अनुस्मृतेर्बादरिः’ (ब्र.सू.१-२-३१) इति । अनुस्मृतिः – उपासनम् । अनुस्मृतेः हेतोःपुरुषविधत्वनिरूपणम् इति बादरिः आचार्यो मन्यते इति सूत्रार्थः ॥
View Verse
प्र. – अथ प्राणाहुत्याधारत्व-त्रिविधाग्नित्व-परिकल्पितजाठराग्निशरीरकधुमूर्धत्वादिविशिष्टात्मभाविते स्वशरीरे क्रियमाणप्राणाद्याहुतिभिः वैश्वानरविद्यानिष्ठेन परमात्मासमाराधनीयः इति प्रतिपादयति – तस्य ह इत्यादि । एतस्यात्मनः ‘उपास्ते’ इतिअव्यवहितप्रकृतस्य उपासकस्य आत्मनः मूर्धा एव तस्य वैश्वानरस्य – ‘मूर्धा त्वेषआत्मनः’ इति वैश्वानरात्ममूर्धत्वेन निर्दिष्टः सुतेजाः इत्यर्थः । न चात्र तस्य ह वाएतस्य इति पदयोः परमात्मपरतया सामानाधिकरण्यमेवास्तु, न त्वेतस्येति शब्दस्यउपासकपरामर्शित्वमिति शङ्कयम् – उर एव वेदिः‘ इत्यादी उपासकोरःपरामर्शस्यअवश्यम्भावात्, मूर्धेव इत्यत्रापि उपासकस्य मूर्धेव परामृश्यते । तस्मात् एतस्य इतिशब्दस्य उपासकपरत्वमेव सिद्धम् ।इह हि भगवता भाष्यकृता ‘आमनन्ति च’ (ब्र.सू.१-२-३३) इति सूत्रव्याख्याने -‘एनं पुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वायआमनन्ति च, ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाः’ इत्यादिना । अयमर्थः –‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति ‘त्रैलोक्यशरीरस्यपरमात्मनः वैश्वानरस्य उपासनं विधाय, ‘सर्वेषु लोकेषु’ इत्यादिना ब्रह्मप्राप्तिफलम्उपदिश्य, अस्यैव उपासनस्य अङ्गभूतं प्राणाग्निहोत्रं, ‘तस्य ह वा एतस्य’ इत्यादिनाउपदिशति । यः पूर्वम् उपास्यतया उपदिष्टो वैश्वानरः तस्य अवयवभूतान् द्व्यादित्यादीन्सुतेजोविश्वरूपादिनामधेयान् उपासकशरीरे मूर्धादिपादान्तेषु सम्पादयति । मूर्धेव सुतेजाःउपासकस्य मूर्धा एव परमात्ममूर्धभूता द्यौः इत्यर्थः । चक्षुर्विश्वरूपः – आदित्यः इत्यर्थः ।प्राणः पृथग्वर्त्मा वायुः इत्यर्थः । सन्देहो बहुलः उपासकस्य मध्यकायः एवपरमात्ममध्यकायभूताकाशः इत्यर्थः । वस्तिरेव रयिः अस्य वस्तिरेव तदवयवभूताःआपः इत्यर्थः । पृथिव्येव पादौ – अस्य पादावेव तत्पादभूता पृथिवी इत्यर्थः ।एवमुपासकस्य शरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं संनिहितम् अनुसन्धायस्वकीयानि उरोलोमहृदयमन आस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्यवेदिबर्हिर्गार्हिपत्यान्वाहार्यपचनाहवनीयान् अग्निहोत्रोपकरणभूतान् परिकल्प्य प्राणाहुतेश्चअग्निहोत्रत्वं परिकल्प्य एवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरम् आराधयेत् इति‘उर एव बादलामान बहिह्रदयं गार्हपत्यः’ इत्यादिना उपदिश्यते इति भाषितम् ।उरःप्रभृतीनां वेद्यादित्वोपदेशश्च प्राणाहुतेः अगिहोत्रत्वसंपत्त्यर्थः इति, ‘सम्पत्तेरितिजैमिनिस्तथा हि दर्शयति’ (ब्र.सू.१-२-३२) इति सूत्रितम् । स य इदमविद्वानग्निहोत्रंजुहोति’ (छां.उ.३-५-२४-१) इति दर्शिताग्निहोत्रत्वसम्पत्तेः हेतोः वेद्यादित्वोपदेशः इतिजैमिनिः मन्यते इति सूत्रार्थः । हृदयं गार्हपत्यः हृदयकमलावच्छिन्नजाठराग्निः गार्हपत्यः ।मनोऽन्वाहार्यपचनः । मनइन्द्रियावच्छिन्नजाठराग्निः दक्षिणाग्निः । आस्यमाहवनीयःआस्यावच्छिन्नजाठरः आहवनीयः इत्यर्थः । गार्हपत्यान्वाहार्यपचनादिपरिकल्पनस्यसजातीयजाठर एव उचितत्वात् ‘वैश्वानरस्य ‘हृदयादिस्थस्य’ अग्नित्रयकल्पनं क्रियते’इति भाषितत्वाच्च उक्तः एवार्थः । अत्र च हृदयादिशब्दाः तत्तदवच्छिन्नजाठराग्नि-शरीरकपरमात्मपर्यन्ताः इति द्रष्टव्यम् ॥
॥ इति अष्टादशवण्डभाष्यम् ॥
View Verse
प्र–तद्……होमीयम् । तत् – तस्य पुंस. यद्भक्तं यत् अन्नं भोजनकालेप्रथमतः आगच्छेत् उपनयेत, तत् होमीयं होमसाधनम् । तेन होतव्यम् इत्यर्थः ।स यां……प्राणस्तृष्यति । ‘प्राणाय स्वाहा इति प्रथमायाम् आहुतौ हुतायांप्राणः तृप्यति इत्यर्थः ॥
View Verse
प्र.–प्राणे……तत् तृप्यति । एवं प्राणे तृप्ते सति क्रमात् चक्षुः, आदित्यः, द्यौश्चतृप्यन्ति । ततश्चद्य्वादित्याभ्याम् अधिष्ठितं वस्तुजातञ्च तृप्यति इत्यर्थः । तस्यानुतृप्तिम्इत्यादि । तस्मिन् सर्वस्मिन् तृप्ते तस्य तृप्तिमनु – तृप्तेः पश्चात् प्रजापश्वादिभिः होताऽपि तृप्यतिइत्यर्थः । अत्र प्राणचक्षुरादिश्ब्दाः तत्तदभिमानिदेवतापराः; अचेतनानां तृप्तेः असम्भवादिति ॥
॥ इति एकोनविंशखण्डभाष्यम् ॥
View Verse
प्र. – ब्रह्मवर्चसेन तेजसा – वृत्ताध्ययननिमित्ततेजसा इत्यर्थः । शिष्टं स्पष्टम् ॥एवमुत्तरत्रापि दृष्टव्यम् ॥
View Verse
[पञ्चम्याहुतिः तजनिततृप्तिश्चः]
अथ यां पञ्चमीं जुहुयात् , तां जुहुयात् उदानाय स्वाहेति । उदानस्तृप्यति ॥ १ ॥
उदाने तृप्यति‘ वायुस्तृप्यति । वायौ तृप्यति आकाशस्तृप्यति । आकाशेतृप्यति यत्किञ्च वायुश्चाकाशाश्चाधितिष्ठतः तत् तृप्यति । तस्यानुतृप्तिं तृप्यतिप्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥
॥ इति विंश–एकविंश–द्वाविंश–प्रयोविंशखण्डभाष्यम् ॥
View Verse
प्र. – स य……जुहोति । उरःप्रभृतीनाम् अग्रिहोत्रोपकरणवेद्यादिताम् अजानन्यः प्राणाग्निहोत्रम् अनुतिष्ठति इत्यर्थः । यथा……स्यात् । तदनुष्ठानं भस्माहुतिसमानंस्यात् इत्यर्थः । निष्फलमिति यावत् ॥
View Verse
प्र.–अथ य…….भवति । सर्वेषु लोकेषु इत्यादिना सर्वात्मकभगवदाराधनेनसर्वम् आराधितं भवति इति हुतप्रकर्षोक्तिः ॥
View Verse
प्र. तद्यथा………प्रदूयन्ते । यथा इषीकायाः मुञ्जान्तर्वर्तितृणविशेषस्य तूलम्अग्रौ प्रक्षिप्तं सद्यो दह्यते, एवं सर्वाणि पापानि एतादृशविद्यापूर्वकप्राणाग्निहोत्रानुष्ठानेनदग्धानि भवन्ति इत्यर्थः । ब्रह्मोपासनफलस्य सर्वपापप्रदाहस्य प्राणाग्निहोत्रे कीर्तनम्अङ्गिफलेन अङ्गस्य स्तुत्यर्थम् । ततश्च अनेनापि प्राणाग्निहोत्रस्य वैश्वानरविद्याङ्गत्वं ज्ञापितंभवति ॥
View Verse
प्र–वैश्वानरविद्यां स्तौति – तस्मादु……स्यादिति । उच्छिष्टप्रदानायोग्यायचण्डालाय उच्छिष्टप्रदानमपि वैश्वानरे सर्वभूतात्मनि अन्नं जुहोमि इति बुद्ध्या अनुष्ठितत्वात्नाधर्माय भवति इत्यर्थः ।तदेष श्लोकः । तत् – उक्तप्राणाग्निहोत्रविषये एषः श्लोकः श्रूयते इत्यर्थः ॥
View Verse
प्र. – यथेह……उपासते । यथा बुभुक्षिताः बालाः, कदा माता अन्नं प्रयच्छतिइति मातरं परितः उपासते, एवं सर्वाणि भूतानि एवंविदः प्राणाग्निहोत्रमुपासतेइति विदुषः प्राणाग्निहोत्रस्तुत्यर्थः अयं श्लोकः इत्यर्थः । द्विरुक्तिः अध्यायपरिसमाप्त्यर्था ।एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते समन्वयाध्याये -‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इत्यत्र श्रुतस्य वैश्वानरशब्दस्यनार्थो निर्णेतुं शक्यः । ‘अयमग्निर्वैश्वानरो येनेदमन्नं पच्यते’ (बृ.उ.७-९-१) इतिवैश्वानरशब्दस्य जाठरे अग्नावपि प्रयोगदर्शनात् ; ‘विश्वस्मा अग्निं भुवनाय देवाः,वैश्वानरं केतुमह्नामकृण्वन्’ (ऋ.सं.१०-८८-१२) इति भूततृतीयेऽपि प्रयोगदर्शनात्‘वैश्वानरस्य सुमतौ स्याम राजा हि किं भुवनानामभिश्रीः’ (ऋ.सं.१-९८-१) इतिदेवतायामपि प्रयोगदर्शनात् ‘तदात्मन्येव ‘अग्नौ वैश्वानरे प्रास्यति स एष वैश्वानरोविश्वरूपः प्राणोऽग्निरुदयते’ (प्र.उ.१-७) इति परमात्मन्यपि प्रयोगदर्शनात् । अतः नार्थोनिर्णेतुं शक्य इति पूर्वपक्षे प्राप्ते – उच्यते – ‘वैश्वानरः साधारणशब्दविशेषात्’ (ब्र.सू.१-२-२५)वैश्वानरः परमात्मा । साधारणस्य वैश्वानरशब्दस्य परब्रह्मासाधारणैः ‘को न आत्माकिं ब्रह्म’ (छां.उ.५-११-१) ‘सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु आत्मसु अन्नमत्ति’(छां.उ.५-१८-१) ‘तद्यथा इषीकतूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’इति वाक्यश्रुतात्मत्वब्रह्मत्वब्रह्मप्राप्तिफलकोपासन-विषयत्वसर्वपापप्रदाहकत्वादिधर्मःविशेष्यमाणत्वात् ।
‘स्मर्यमाणमनुमानं स्यादिति’ (ब्र.सू.१-२-२६) । ‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्योदिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पभ्द्यां पृथिवी ह्येषसर्वभूतान्तरात्मा’ (मुं.उ.२-१-४) इति आथर्वणादिषु परमात्मसम्बन्धितया निर्दिष्टं रूपम्अस्यां विद्यायां तदिदमिति स्मर्यमाणं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वेऽनुमानं ज्ञापकंस्यादित्यर्थः । अग्निरिह द्युलोकः । ‘असो वाव लोको गौतमाग्निः’ (छां.उ.५-४-१)इत्यादिश्रुतेः ।
‘शब्दादिभ्योऽन्तःप्रतिष्ठानाञ्च नेति चेन्न तथा दृष्टयुपदेशादसम्भवात् पुरुषमपिचैनमधीयते’ (ब्र.सू.१-२-२७) । अग्निरहस्ये वैश्वानरविद्याप्रकरणे ‘स एषोऽगिर्वैश्वानरोयत्पुरुषः’ (शत.ब्रा.१०-६-१-११) इति वैश्वानरशब्दसमानाधिकरणाग्निशब्दश्रवणात्अग्नित्रयपरिकल्पनप्राणाहुत्याधारत्वरूपजाठराग्निलिङ्गाञ्च । वाजसनेयके ‘स यो हवैतमेवमग्निंवैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (शत.ब्रा.१०-६-१-११) इति पुरुषान्तःप्रतिष्ठितत्वश्रवणाञ्च जाठरः एव भवितुमर्हतीति चेत् – न । परमात्मलिङ्गानामिह सत्वेनअग्निशब्दलिङ्गानां तच्छरीरकपरमात्मोपासनपरतयाऽपि उपपत्तेः । तथा दृष्ट्व्युपदेशात् ।तथोपासनस्य उपदिष्टत्वात् इत्यर्थः । त्रैलोक्यशरीरकत्वादीनां च परमात्मधर्माणां जाठरेऽसम्भवात् । वाजसनेयके ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः (शत.बा.१०-६-१-११)इति पुरुषशब्दश्रवणात् ।
“भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।निरुपाधी च वर्तेते वासुदेवे सनातने ॥” (पाद्मोत्तर.६-२५४-६६)
इति निरुपाधिकपुरुषत्वस्य अन्यत्र असम्भवात् अचेतने जाठराग्नौ सर्वात्मना ‘असम्भवात्’न जाठराग्निः ।
‘अत एव न देवता भूतं च’ (ब्र.सू.१-२-२८) । उक्तैरेव हेतुभिः भूततृतीयदेवता-विशेषयोरपि न प्रसक्तिः इत्यर्थः ।
एवं सूत्रकारः अनित्रयपरिकल्पनादिजाठराग्न्याद्यनन्यथासिद्धलिङ्गै ः‘प्राणस्तथानुगमात्’ (ब्र.सू.१-१-२९) इत्यधिकरणोक्तन्यायेन जाठराग्निविशिष्टः प्ररमात्मैवइह उपास्य इति तथा दृष्ट्युपदेशात्’ इति सूत्रखण्डेन सिद्धान्तम् आविष्कृत्य लिङ्गान्यथासिद्धिंसम्भावयतः जैमिनेः अग्निशब्दनिर्वाहप्रकारं – दर्शयति ‘साक्षादप्यविरोधं जैमिनिः’(ब्र.सू.१-२-२९) । ‘मामुपास्व’, प्राणोऽस्मि प्रज्ञात्मा’ इत्यादिशब्दवत् अग्निशब्दस्यअपर्यवसानवृत्त्या न तच्छरीरकपरमात्मपरत्वम् आश्रयणीयम्, अग्नं नयतीति अग्निःइति योगव्युत्पत्या अग्निशब्दस्य अग्निव्यवधानमन्तरेण साक्षादेव परमात्मपरत्वसम्भवं जैमिनिराचार्योमन्यते । अत्र व्यासार्यैः अग्निलिङ्गे विद्यमाने अग्निशब्दस्य अपर्यवसानवृत्त्या’अग्निशरीरकपरमात्म परत्वमेव उचितम् । तादृशानन्यथासिद्धलिङ्गराहित्यस्थले अयमपिन्यायः अस्तीति व्युत्पादनार्थमिह एतत् उपन्यस्तम् । न तु प्रकृतोपयुक्ततया इत्युक्तम् ।‘अभिव्यक्तरित्याश्मरथ्यः’ (ब्र.सू.१-२-३०), ‘अनुस्मृतेर्बादरिः’ (ब्र.सू.१-२-३१),‘सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति’ (ब्र.सू.१-२-३२), ‘आमनन्ति चैनमस्मिन्’(ब्र.सू.१-२-३३) इति चत्वार्यपि सूत्राणि पूर्वत्र व्याख्यातानि । अतः वैश्वानरः परमात्माइति स्थितम् ।तथा गुणोपसंहारपादे – द्युमूर्धादिव्यस्तोपासनेषु औपमन्यवादिभिः उक्तेषु, अत्त्यन्नं,पश्यति प्रियं, भवत्यस्य ब्रह्मवर्चसं कुले, य एतमेवमात्मानं वैश्वानरमुपास्ते’ इतिव्यस्तोपासनेषु फलश्रवणात् व्यस्तोपासनमेव प्रामाणिकम् । ‘यस्त्वेतमेवंप्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषुआत्मसु अन्नमत्ति’ इति व्यस्तोपासनसमुदायानुवाद्रः एव । न तु समस्तोपासनविधिः ।अथवा अनेन वाक्येन समस्तोपासनमपि विधीयते । अतः द्वयमपि प्रामाणिकम् ।अल्पफलार्थिभिः व्यस्तोपासनं ‘कर्तव्यम्’ इति पूर्वपक्षे प्राप्ते – उच्यते – ‘भूम्नः क्रतुवज्यायस्त्वंतथा हि दर्शयति’ (ब्र.सू.३-३-५५)। भूम्नः सामस्त्यस्य ज्यायस्त्वं प्रामाणिकत्वम् ।तथा हि दर्शयति श्रुतिः व्यस्तोपासने अनर्थे ब्रुवती, ‘मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः’इत्यादिना । न चेदं न हि निन्दान्यायेन’ समस्तोपासनप्रशंसार्थमेव किं न स्यादितिवाच्यम् । अग्निहोत्रं प्रकृत्या श्रुतेन, ‘जर्तिलयवाग्वा वा जुहुयात्, गवधुकयवाग्वा वाजुहुयात्, न ग्राम्यान् पशून् हिनस्ति नारण्यान्’ इति वाक्येन जर्तिलगवेधुकशब्द-वाच्यारण्यतिलारण्यगोधूमकृतयवाग्वोः विकल्पेन अग्निहोत्राहुतौ द्रव्यत्वविधानेविस्पष्टलिङ्गप्रत्ययेन ग्राम्यारण्यपशुहिंसारहिततया तयोः स्तवने च प्रतीयमानेऽपि ‘अथोखल्वाहुः अनाहुतिर्वै जर्तिलाश्च गवेधुकाश्च, पयसाऽग्निहोत्रं जुहुयात्’ इति तदनन्तरंजर्तिलादिप्रतिक्षेपेण पयोविधिदर्शनात् तदेकवाक्यतया ‘जर्तिलयवाग्वा जुहुयात्’ इत्यादेःग्राम्यारण्यपशुहिंसारहित्येन प्रशस्ततया होमार्हाः अपि जर्तिलागवेधुकाश्च यदपेक्षयादुष्टाः, तत् पयः एव प्रशस्तम् इति पयःस्तुत्यर्थत्वं एकवाक्यतानुरोधादिति, ‘नचेदन्यंप्रकल्पयेत् प्रकॢप्तावर्थवादः स्यात्’ (पू.मी.सू.१०-८-४-७) इति पूर्वतन्त्राधिकरणेकिञ्चिद्विधिपूर्वकं तन्निन्दायां विध्यन्तरश्रवणे सति तदेकवाक्यतानुरोधात् पूर्वप्रवृत्तयोःविधिनिन्दयोः तदर्थवादत्वम् इति समर्थितम् । तद्वदेव इहापि युक्तम् ।ननु जर्तिलगवेधुकयोः पयसा सह सम्बन्धाभावात् जर्तिलगवेधुकयवागूविधानयोःअर्थवादतयैव विध्येकवाक्यता समर्थनीया इति तत्र तथास्तु नाम । इह तु – भूमविद्यायांनामादीनां सत्येन ब्रह्मणा सह भूयस्त्वावधित्वेन सम्बद्धानां प्रासङ्गिकतदुपासनाविधिवत्समस्तोपासनविषयेण वैश्वानरात्मना व्द्यादित्यादीनां तदवयवत्वेन सम्बद्धानांप्रासङ्गिकोपासनविधिः किं न स्यादिति चेत् – मैवम् । व्यस्तोपासननिन्दनेन, ‘मूर्धात्वेषआत्मन इति होवाच’ इत्यादिवाक्येषु तुशब्दकृतेन व्द्यादित्यादीनां स्वतन्त्रोपास्यत्वव्यवच्छेदेन,‘तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ’ इति व्यस्तोपासनानांभ्रममूलत्वोद्धाटनेन भूमविद्यावैषम्यस्य बहुविधस्य सत्त्वेन जर्तिलयवागून्यायस्यैव आत्र प्रत्यौचित्यात्क्रतुवत् । यथा ‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्र जाते’ इति विहितस्य क्रतोः ‘यदष्टाकपालोभवति’ इत्यादिः अर्थवादः, न तु अष्टाकपालादिद्रव्यविधायकः, एवम् अत्यन्नं पश्यति प्रियम्इत्यादिश्रवणमपि अर्थवादः एवैति स्थितम् । प्रकृतमनुसरामः ॥
॥ इति पञ्चमप्रपाठकप्रकाशिका ।“
॥ इति पञ्चमप्रपाठकभाष्यम् समाप्तम् ॥
View Verse

Chapter - 6

षष्ठः प्रपाठकः
प्रथमः खण्डः
[सद्विद्योपदेशार्थम् आख्यायिका]
श्वेतकेतुर्हारुणेय आस । तँ ह पितोवाच, ‘श्वेतकेतो वस ब्रह्मचर्यम् । नवै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति‘ इति ॥ १॥
View Verse
स ह द्वादशवर्षः उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामनाअनूचानमानी स्तब्ध एयाय । तँ ह पितोवाच ॥ २ ॥
View Verse
[पुत्रं प्रति ब्रह्मविषयकः प्रश्नः]
श्वेतकेतो ! यत्र सोम्येदं महामना अनूचानमानी स्तब्धोऽसि । उततमादेशमप्राक्ष्यो येनाश्रुतँ श्रुतं भवति अमतं मतमविज्ञातं विज्ञातमिति । कथं नुभगवः स आदेशो भवतीति ॥ ३ ॥
View Verse
[उपादानोपादेयभावः]
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्यात् ; वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यम् ॥ ४ ॥
View Verse
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातँ स्यात् । वाचारम्भणंविकारो नामधेयं लोहमित्येव सत्यम् ॥ ५ ॥
View Verse
यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातँ स्यात् ; वाचारम्भणंविकारो नामधेयं कृष्णायसमित्येव सत्यम् – एवँ सोम्य स आदेशो भवतीति ॥ ६ ॥
View Verse
न वै नूनं भगवन्तस्त एतदवेदिषुः । यद्ध्येतदवेदिष्यन्, कथं मे नावक्ष्यन्इति । ‘भगवाँस्त्वेव मे तद्ब्रवीतु‘ इति । ‘तथा सोम्य‘ इति होवाच ॥ ७ ॥
॥ इति प्रथमः खण्डः ॥
View Verse
द्वितीयः खण्डः
[सदेव सोम्येदमिति वाक्यार्थः]
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् तद्धैक आहुः, ‘असदेवेदमग्रआसीदेकमेवाद्वितीयम् । तस्मादसतस्सज्जायत‘ ॥ १ ॥
View Verse
‘कुतस्तु खलु सोम्येवँ स्यात्‘ इति होवाच ‘कथमसतः सज्जायेत‘ इति ।सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ २ ॥
View Verse
तदेक्षत, बहु स्यां प्रजायेयेति । तत् तेजोऽसृजत । तत्तेज ऐक्षत, बहु स्यांप्रजायेयेति । तदपोऽसृजत । तस्मात् यत्र क्वचन शोचति स्वेदते वा पुरुषः,तेजस एव तदध्यापो जायन्ते ॥ ३ ॥
View Verse
ता आप ऐक्षन्त । बह्व्यः स्याम प्रजायेमहीति । ता अन्नमसृजन्त ।तस्मात् यत्र क्वचन वर्षति, तदेव भूयिष्ठमन्नं भवति । अभ्द्य एव तदध्यन्नाद्यंजायते ॥ ४ ॥
॥ इति द्वितीयः खण्डः ॥
View Verse
तृतीयः खण्डः
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जम् इति ॥ १ ॥
View Verse
सेयं देवतैक्षत, ‘हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्यनामरूपे व्याकरवाणीति ॥ २ ॥
View Verse
तासां त्रिवृतं त्रिवृतमेकैकां करवाणि‘ इति । सेयं देवतेमास्तिस्रो देवताअनेनैव जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत् ॥ ३ ॥
View Verse
तासां त्रिवृतं त्रिवृतमेकैकामकरोत् । यथा तु खलु सोम्येमास्तिस्रो देवताःत्रिवत् त्रिवृदेकैका भवति, तन्मे विजानीहीति ॥ ४ ॥
॥ इति तृतीयः खण्डः ॥
View Verse
चतुर्थः खण्डः
यदग्ने रोहितँ रूपम्, तेजसस्तद्रूपम् । यच्छुक्लम्, तदपाम् । यत्कृष्णम्,तदन्नस्य । अपागादग्नेरग्नित्वम् । वाचारम्भणं विकारो नामधेयम् ; त्रीणि रूपाणीत्येवंसत्यम् ॥१॥
View Verse
यदादित्यस्य रोहितँ रूपम्, तेजसस्तद्रूपम् । यच्छुक्लम्, तदपाम् । यत्कृष्णम्,तदन्नस्य । अपागादादित्यादादित्यत्वम् । वाचारम्भणं विकारो नामधेयम् ; त्रीणिरूपाणीत्येव सत्यम् ॥ २ ॥
यच्चन्द्रमसो रोहितँ रूपम् तेजसस्तद्रूपम् । यच्छुक्लम्, तदपाम् । यत्कृष्णम्,तदन्नस्य । अपागाच्चन्द्राच्चन्द्रत्वम् । वाचारम्भणं विकारो नामधेयम् ; त्रीणि रूपाणीत्येवसत्यम् ॥ ३ ॥
यद्विद्युतो रोहितँ रूपम्, तेजसस्तद्रूपम् । यच्छुक्लम्, तदपाम् । यत्कृष्णम्,तदन्नस्य । अपागाद्विद्युतो विद्युत्त्वम् । वाचारम्भणं विकारो नामधेयम् ; त्रीणिरूपाणीत्येव सत्यम् ॥ ४ ॥
View Verse
एतद्धस्म वै तद्विद्वाँस आहुः पूर्वे महाशाला महाश्रोत्रियाः, ‘न नोऽध्यकश्चनाश्रुतममतमविज्ञातमुदाहरिष्यति‘ इति ह्येभ्यो विदाञ्चक्रुः ॥ ५ ॥
View Verse
यद् रोहितमिवाभूदिति, तेजसस्तद्रूपमिति तद्विदाञ्चक्रुः । यदुशुक्लमिवाभूदिति, अपाँ रूपमिति तद्विदाञ्चक्रुः । यदु कृष्णमिवाभूदिति, अन्नस्यरूपमिति तद्विदाञ्चक्रुः ॥ ६ ॥
View Verse
यद्वविज्ञातमिवाभूदिति, एतासामेव देवतानाँ समास इति तद्विदाञ्चक्रुः ।यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति,तन्मे विजानीहीति ॥ ७ ॥
॥ इति चतुर्थः खण्डः ॥
View Verse
पञ्चमः खण्डः
अन्नमशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुस्तत् पुरीषं भवति । योमध्यमस्तन्माँसम्; योऽणिष्ठस्तन्मनः ॥१॥
View Verse
आपः पीतास्त्रेधा विधीयन्ते । तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ; योमध्यमस्तल्लोहितम् । योऽणिष्ठः स प्राणः ॥ २ ॥
View Verse
तेजोऽशितं त्रेधा विधीयते । तस्य यः स्थविष्ठो धातुः तदस्थि भवति । योमध्यमः स मज्जा; योऽणिष्ठः सा वाक् ॥ ३ ॥
View Verse
अन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति । भूय एव माभगवान् विज्ञापयत्विति । तथा सोम्येति होवाच ॥ ४ ॥
॥ इति पञ्चमः खण्डः ॥
View Verse
॥षष्ठः खण्डः॥
[भक्ष्यमाणस्य अणीयभागः मन आदिर्भवति इति]
दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः। समुदीषति तत्सर्पिर्भवति ॥१॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनोभवति ॥२॥
अपाँ सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः । समुदीषति स प्राणोभवति ॥३॥
तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति सा वाग्भवति ॥ ४ ॥
आन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति ॥भूय एव मा भगवान् विज्ञापयत्विति । तथा सोम्येति होवाच ॥ ५ ॥
॥ इति षष्ठः खण्डः ॥
View Verse
सप्तमः खण्डः
[षोडशकलपुरुषोपदेशः]
षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माऽशीः; काममपः पिब ;आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ १ ॥
View Verse
स ह पञ्चदशाहानि नाऽऽश । अथ हैनमुपससाद, ‘किं ब्रवीमि भो‘ इति ।ऋचः सोम्य यजूँषि सामानीति । स होवाच, ‘न वै मा प्रतिभान्ति भो‘ इति ॥२॥
View Verse
तँ होवाच – यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गार; खद्योतमात्रः परिशिष्टःस्यात् ; तेन ततोऽपि न बहु दहेत् – एवँ सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टास्यात् ; तयैतर्हि वेदान्नानुभवसि । अशान । अथ मे विज्ञास्यसीति ॥३॥
View Verse
स हाऽऽश । अथ हैनमुपससाद । तँ ह यत् किञ्च पप्रच्छ, सर्वं ह प्रतिपेदंतँ होवाच ॥ ४ ॥
View Verse
यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधायप्राज्वालयेत् ; तेन ततोऽपि बहु दहेत् ॥ ५ ॥
एवँ सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाऽभूत् ; साऽन्नेनोपसमाहिताप्राज्वालीत् तयैतर्हि वेदान् अनुभवसि ।
अन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति ।तद्धास्य विजज्ञाविति – विजज्ञाविति ॥ ६ ॥
View Verse
अष्टमः खण्डः
[सुषुप्तिकालस्थितिनिरूपणम्]
उद्दालको हाऽऽरुणिः श्वेतकेतुं पुत्रमुवाच–स्वप्नान्तं मे सोम्य विजानीहीति ।यत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति । स्वमपीतो भवति ।तस्मादेनँ स्वपितीत्याचक्षते, स्व ह्यपीतो भवति ॥१॥
View Verse
[परमात्मा जीवस्य आश्रयः]
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्राऽऽयतनमलब्ध्वाबन्धनमेवोपश्रयते, एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्राऽऽयतन–मलब्ध्वा प्राणमेवोपश्रयते । प्राणबन्धनँ हि सोम्य मन इति ॥ २ ॥
View Verse
अशनायापिपासे मे सोम्य विजानीहीति । यत्रतत्पुरुषोऽशिशिषति नाम,आप एव तदशितं नयन्ते । तत् यथा गोनायोऽश्वनायः पुरुषनाय इति, एवंतदप आचक्षतेऽशनायेति । तत्रैतच्छुङ्गमुत्पतितँ सोम्य विजानीहि, नेदममूलंभविष्यतीति ॥ ३ ॥
तस्य क्व मूल स्यादन्यत्रान्नात् । एवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छ,अद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ, तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ ।सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ४ ॥
View Verse
तर्हि तस्य अन्नातिरिक्तं मूलान्तरं कल्प्यताम् इत्यत्राह तस्य क्व मूलम् इति ।कार्यशरीरस्य समूलकत्वात्, मूलान्तरस्य च अनुपलम्भात्, उपलब्धम् अन्नमेव मूलम्इत्यर्थः । एवमेव खलु इत्यादि । यथा शरीरेण कार्यभूतेन उपचीयमानेन तत्कारणमन्नम्अनुमीयते, एवमेव अन्नेन कार्येण अपः कारणम् अनुमिनुहीति यावत् । एवमुत्तरत्रापिसत्पर्यन्तां कारणपरंपराम् अनुमिनुहि इत्यर्थः । ततः किमित्यत्राह – सन्मूलास्सोम्यइत्यादि । एतस्य वाक्यस्य अर्थः पूर्वम् उक्तः एव ॥ ४ ॥
अथ यत्रैतत्पुरुषः पिपासति नाम, तेज एव तत् पीतं नयते । तत् यथागोनायोऽश्वनायः पुरुषनाय इति, एवं एतत् तेज आचष्ट उदन्येति । तत्रैतदेवशुङ्गमुत्पतितँ सोम्य विजानीहि । नेदममूलं भविष्यतीति ॥ ५ ॥
View Verse
अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसि,तेजः परस्यां देवतायाम् । स य एषोऽणिमा ॥ ६ ॥
View Verse
[ऐतदात्म्यम् इत्येतदर्थविशेषः]
ऐतदात्म्यमिदँ सर्वम् । तत्सत्यम् । स आत्मा । तत् त्वमसि श्वेतकेतो इति । भूयएव मा भगवान् विज्ञापयत्विति । तथा सोम्येति होवाच ॥ ७ ॥
॥ इति अष्टमः खण्डः ॥
View Verse
नवमः खण्डः
[मधुरसन्यायेन सत्सम्पत्तावविवेकवचनम् ]
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाँ रसान्समवहारमेकताँ रसं गमयन्ति ॥ १ ॥
ते यथा तत्र न विवेकं लभन्ते, अमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्यरसोस्मीति । एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सतिसम्पद्यामह इति ॥ २ ॥
View Verse
त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वामशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ३ ॥
View Verse
स य एषोऽणिमा । ऐतदात्म्यमिदँ सर्वम् । तत् सत्यम् । स आत्मा । तत्त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति । तथा सौम्येतिहोवाच ॥ ४ ॥
॥ इति नवमः खण्डः ॥
View Verse
दशमः खण्डः
इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते । पश्चात् प्रतीच्यः । ताःसमुद्रात् समुद्रमेवापियन्ति । समुद्र एव भवन्ति । ता यथा तत्र न विदुः, इयमहमस्मि,इयमहमस्मीति ॥ १ ॥
View Verse
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामहइति । त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशोवा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ २ ॥
View Verse
स य एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् । तत्सत्यम् । स आत्मा । तत्त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति । तथा सोम्येतिहोवाच ॥३॥
॥ इति दशमः खण्डः ॥
View Verse
एकादशः खण्डः
[वृक्षस्य शाखादिमात्रशोषणनिदर्शनेन जीवस्यामरत्वनिरूपणम् ]
अस्य सोम्य ! महतो वृक्षस्य यो मूलेऽभ्याहन्यात् जीवन् स्रवेत्, योमध्येऽभ्याहन्यात्, जीवन् स्रवेत् ; योऽग्रेऽभ्याहन्यात्, जीवन् स्रवेत् । स एषजीवेनाऽऽत्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ १ ॥
View Verse
तस्य यदेकाँ शाखां जीवो जहाति, अथ सा शुष्यति; द्वितीयां जहाति, अथसा शुष्यति ; तृतीयां जहाति, अथ सा शुष्यति; सर्व जहाति, सर्वः शुष्यति,एवमेव खलु सोम्य विद्धीति होवाच ॥ २ ॥
View Verse
[देहस्य मरणं न तु जीवस्य]
जीवापेतं वाव किलेदं म्रियते ; न जीवो म्रियते इति । स य एषोऽणिमा,ऐतदात्म्यमिदँ सर्वम् । तत् सत्यम् । स आत्मा । तत्त्वमसि श्वेतकेतो इति ।भूय एव मा भगवान् विज्ञापयत्विति । तथा सोम्येति होवाच ॥ ३ ॥
॥ इति एकादशः खण्डः ॥
View Verse
द्वादशः खण्डः
[न्यग्रोधबीजदृष्टान्तेन सूक्ष्मस्य स्थूलारम्भकत्वनिरूपणम् ]
न्यग्रोधफलमद आहरेति । इदं भगव इति । भिन्धीति । भिन्नं भगव इति ।किमत्र पश्यसीति । अण्व्य इवेमा धाना भगव इति । आसामङ्गैकां भिन्धीति । भिन्नाभगव इति । किमत्र पश्यसीति । न किञ्चन भगव इति ॥ १ ॥
View Verse
तँ होवाच यं वै सोम्यैतमणिमानं न निभालयसे, एतस्य वै किलसोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठति ॥ २ ॥
View Verse
श्रद्धत्स्व सोम्येति । स य एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् । तत्सत्यम् ।स आत्मा । तत् त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति ।तथा सोम्येति होवाच ॥ ३ ॥
॥ इति द्वादशः खण्डः ॥
View Verse
त्रयोदशः खण्डः
[उदकलीनलवणन्यायेन अन्तरात्मनोऽदृश्यत्वम् ]
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति । स ह तथा चकार ।तँ होवाच यद्दोषा लवणमुदकेऽवाधाः, अङ्ग ! तदाहरेति । तद्धावमृश्य न विवेद ।यथा विलीनमेवाङ्ग ॥ १ ॥
View Verse
अथास्याऽऽदावाचामेति ; कथमिति । लवणमिति । मध्यादाचामेति ;कथमिति । लवणमिति । अन्तादाचामेति ; कथमिति । लवणमिति । अभिप्रास्यैतत्अथ मोपसीदथा इति । तद्ध तथा चकार । तच्छश्वत् संवर्तते । तँ होवाच – अत्र वावकिल सत् सोम्य न निभालयसे अत्रैव किलेति ॥ २ ॥
स य एषोऽणिमा ऐतदात्म्यमिदँ सर्वम् । तत् सत्यम् । स आत्मा । तत्त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति । तथा सोम्येतिहोवाच ॥ ३ ॥
॥ इति त्रयोदशः खण्डः ॥
View Verse
चतुर्दशः खण्डः
[आचार्योपदेशेनैव ज्ञानस्य प्राप्तिः इति दृष्टान्तपूर्वकनिरूपणम् ]
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् ।स यथा तत्र प्राङ्वोदङ्वाऽधराङ्वा प्रत्यङ् वा प्रध्मायीत अभिनद्धाक्षआनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥
View Verse
तस्य यथाऽभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं ब्रजेति ; सग्रामात् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येत । एवमेवेहाऽऽचार्यवान्पुरुषो वेद । तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य इति ॥ २ ॥
View Verse
स य एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् । तत्सत्यम् । स आत्मा । तत्त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति । तथा सोप्यतिहोवाच ॥ ३ ॥
॥ इति चतुर्दशः खण्डः ॥
View Verse
पञ्चदशः खण्डः
पुरुषँ सोम्योपतापिनं ज्ञातयः पर्युपासते, जानासि मां जानासि मामिति । तस्ययावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ,तावज्जानाति ॥ १ ॥
अथ यदाऽस्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यांदेवतायाम्, अथ न जानाति ॥ २ ॥
View Verse
स य एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् । तत् सत्यम् । स आत्मा । तत्त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति । तथा सोम्येतिहोवाच ॥ ३ ॥
॥ इति पञ्चदशः खण्डः ॥
View Verse
षोडशः खण्डः
[अचोरस्यादाह्यता]
पुरुषँ सोम्योत हस्तगृहीतमानयन्ति, अपहार्षीत् स्तेयमकार्षीत् परशुमस्मैतपतेति । स यदि तस्य कर्ता भवति, तत एवानृतमात्मानं कुरुते ।सोऽनृताभिसन्धोऽनृतेनाऽऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति । स दह्यते ।अथ हन्यते ॥ १ ॥
अथ यदि तस्याकर्ता भवति, तत एव सत्यमात्मानं कुरुते । स सत्याभिसन्धःसत्येनाऽऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति, स न दह्यते; अथ मुच्यते ॥ २ ॥
View Verse
स यथा तत्र न दाह्येत ऐतदात्म्यमिदँ सर्वम् । तत् सत्यम् । स आत्मा । तत्त्वमसि श्वेतकेतो इति । तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ३ ॥
॥ इति षोडशः खण्डः ॥
॥ षष्ठः प्रपाठकः समाप्तः ॥
View Verse

Chapter - 7

सप्तमः प्रपाठकः
प्रथमः खण्डः
[भूमविद्या]
अधीहि भगव इति होपससाद सनत्कुमारं नारदः । तँ होवाच यद्वेत्थ, तेनमोपसीद । ततस्त ऊर्ध्वं वक्ष्यामीति ॥ १ ॥
View Verse
[नारदस्य प्रतिवचनम्]
स होवाच – ऋग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणंपञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनम् , देवविद्यां ब्रह्मविद्यांभूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्याम् एतद्भगवोऽध्येमि ॥ २ ॥
View Verse
सोऽहं भगवो मन्त्रविदेवाऽस्मि ; नाऽऽत्मवित् । श्रुतं ह्येव मे भगवद्दृशेभ्यः,तरति शोकमात्मविदिति । सोऽहं भगवः शोचामि । तं मा भगवाञ्छोकस्य पारंतारयत्विति । तँ होवाच । यद्वै किञ्चैतदद्यगीष्ठाः, नामैवैतत् ॥ ३ ॥
View Verse
[नामोपासनम्]
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमोवेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्याभूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतत् नामोपास्वेति ॥ ४ ॥
View Verse
[नामोपासनस्य फलम्]
स यो नाम ब्रह्मेत्युपास्ते, यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति, योनाम ब्रह्मेत्युपास्ते । अस्ति भगवो नाम्नो भूय इति । नाम्नो वाव भूयोऽस्तीति । तन्मेभगवान् ब्रवीत्विति ॥ ५ ॥
॥ इति प्रथमः खण्डः ॥
View Verse
द्वितीयः खण्डः
[नामापेक्षया वाचः श्रेष्ठत्वम् ]
वाग्वाव नाम्नो भूयसी । वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदँ सामवेदमाथर्वणंचतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनंदेवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्याम् , दिवञ्चपृथिवीञ्च वायुञ्चाऽऽकाशञ्चाऽऽपश्च तेजश्च देवांश्च मनुष्याँश्च पशूँश्च वयाँसि चतृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मञ्चाधर्मञ्च सत्यञ्चानृतञ्च साधु चासायच हृदयज्ञञ्चाहृदयज्ञञ्च । यद्वै वाङ्नाभविष्यत् – न धर्मो नाधर्मा ‘व्यज्ञापयिष्यत्‘ ःन सत्यम्, नानृतम्, न साधु, नासाधु, न हृदयज्ञो, नाहृदयज्ञो वागेवैतत् सर्वंविज्ञापयति । वाचमुपास्स्वेति ॥ १ ॥
स यो वाचं ब्रह्मेत्युपास्ते, यावद्वाचो गतम्, तत्रास्य यथाकामचारो भवतियो वाचं ब्रह्मेत्युपास्ते । अस्ति भगवो वाचो भूय इति । वाचो बाब भूयोऽस्तीति ।तन्मे भगवान् ब्रवीत्विति ॥ २ ॥
॥ इति द्वितीयः खण्डः ॥
View Verse
तृतीयः खण्डः
[वागपेक्षया मनसः श्रेष्ठत्वम्]
मनो वाव वाचो भूयः । यथा वै द्वे वाऽऽमलके द्वे वा कोले द्वौ वाऽक्षौमुष्टिरनुभवति, एवं वाचञ्च नाम च मनोऽनुभवति । स यदा मनसा मनस्यति–मन्त्रानघीयेयेति, अथाधीते ; कर्माणि, कुर्वीयेति, अथ कुरुते ; पुत्रांश्च पशुँश्चेेच्छेयेति,अथेच्छते ; इमञ्च लोकममुञ्चेच्छेयेति, अथेच्छते । मनो ह्यात्मा । मनो हि लोकोमनो हि ब्रह्म । मन उपास्वेति ॥ १ ॥
स यो मनो ब्रह्मेत्युपास्ते, यावन्मनसो गतम्, तत्रास्य यथा कामचारोभवति, यो मनो ब्रह्मेत्युपास्ते ।अस्ति भगवो मनसो भूय इति । मनसो वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
॥ इति तृतीयः खण्डः ॥
View Verse
चतुथः खण्डः
[मनसः सङ्कल्पस्य श्रेष्ठत्वम् ]
सङ्कल्पो वाव मनसो भूयान् । यदा वै सङ्कल्पयते, अथ मनस्यति, अथवाचमीरयति, तामु नाम्नीरयति । नाम्नि मन्त्रा एकं भवन्ति । मन्त्रेषु कर्माणि ॥ १ ॥
तानि ह वा एतानि सङ्कल्पकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि ।समकॢपतां द्यावापृथिवी, समकल्पेतां वायुश्चाऽऽकाशञ्च, समकल्पन्तामापश्च तेजश्च ।तेषाँ सङ्कॢप्त्यै वर्षँ सङ्कल्पते । वर्षस्य सङ्कॢप्त्या अन्नँ सङ्कल्पते । अन्नस्यसङ्कॢप्त्यै प्राणाः सङ्कल्पन्ते । प्राणानाँ सकॢप्त्यै मन्त्राः सङ्कल्पन्ते । मन्त्राणांसङ्कॢप्त्यै कर्माणि सङ्कल्पन्ते । कर्मणाँ सङ्कॢप्त्यै लोकः सङ्कल्पते । लोकस्यसङ्कॢप्त्यै सर्वं सङ्कल्पते । स एष सङ्कल्पः । सङ्कल्पमुपास्स्वेति ॥ २ ॥
स यः सङ्कल्पं ब्रह्मेत्युपास्ते, सङ्कॢप्तान्वै स लोकान् ध्रुवान् ध्रुवः, प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानान् अव्यथमानोऽभिसिद्ध्यति । यावत् सङ्कल्पस्य गतम्,तत्रास्य यथा कामाचारो भवति, यः सङ्कल्पं ब्रह्मेत्युपास्ते । अस्ति भगवः सङ्कल्पाद्भूय इति । सङ्कल्पाद्वाव भूयोऽस्तीति । तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥
॥ इति चतुर्थः खण्डः ॥
View Verse
पञ्चमः खण्डः
[चित्तस्य श्रेष्ठत्वम्]
चित्तं वाव सङ्कल्पात् भूयः । यदा वै चेतयते, अथ सङ्कल्पयते । अथमनस्यति । अथ वाचमीरयति । तामु नाम्नीरयति, नाम्नि मन्त्रा एकं भवन्ति,मन्त्रेषु कर्माणि ॥ १ ॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि ।तस्माद् यद्यपि बहुवित् अचित्तो भवति, नायमस्तीत्येवैनमाहुः, यदयं वेद ।यद्वा अयं विद्वान्, नेत्थमचित्तः स्यादिति । अथ यद्यल्पविच्चित्तवान् भवति,तस्मा एवोत शुश्रूषन्ते । चित्तँ ह्येवैषामेकायनम्, चित्तमात्मा, चित्तं प्रतिष्ठा ।चित्तमुपास्वेति ॥ २ ॥
स यश्चित्तं ब्रह्मेत्युपास्ते, चित्तान् वै स लोकान् ध्रुवान् ध्रुवः, प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानान् अव्यथमानोऽभिसिद्ध्यति – यावच्चित्तस्य गतम्, तत्रास्ययथाकामचारो भवति, यश्चित्तं ब्रह्मेत्युपास्ते ।अस्ति भगवश्चित्ताद्भूय इति । चित्ताद्वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥ ३ ॥
॥ इति पञ्चमः खण्डः ॥
View Verse
षष्ठः खण्डः
[चित्तात् ध्यानस्य श्रेष्ठत्वम् ]
ध्यानं वाव चित्तात् भूयः । ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षम्, ध्यायतीवद्यौर्ध्यायन्तीवाऽऽपो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्याः ।
तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति, ध्यानापादाँशा इवैव ते भवन्तिअथ येऽल्पाः, कलहिनः पिशुना उपवादिनस्ते । अथ ये प्रभवो ध्यानापादाँशाइवैव ते भवन्ति । ध्यानमुपास्स्वेति ॥ १ ॥
स यो ध्यानं ब्रह्मेत्युपास्ते, यावत् ध्यानस्य गतम्, तत्रास्य यथाकामचारोभवति, यो ध्यानं ब्रह्मेत्युपास्ते ।
अस्ति भगवो ध्यानात् भूय इति । ध्यानाद्वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
॥ इति षष्ठः खण्डः ॥
View Verse
सप्तमः खण्डः
[ध्यानात् विज्ञानस्य श्रेष्ठत्वम्]
विज्ञानं वाव ध्यानात् भूयः । विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेर्दैसामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं देवं निधिँवाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षुत्रविद्यां नक्षत्रविद्याँसर्पदेवजनविद्याम् । दिवञ्च पृथिवीञ्च वायुञ्चाकाशञ्चापश्च तेजश्च देवाँश्च मनुष्याँश्चवयाँसि च तृणवनस्पतीन् श्वापदानि आकीटपतङ्गपिपीलिकं धर्मञ्चाधर्मञ्चसत्यञ्चानृतञ्च साधु चासाधु च हृदयज्ञञ्चाहृदयज्ञञ्चान्नञ्च रसञ्चेमञ्च लोकममुञ्चविज्ञानेनैव विजानाति । विज्ञानमुपास्स्वेति ॥ १ ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते, विज्ञानवतो वै स लोकान् ज्ञानवतोऽभिसिद्ध्यतियावद्विज्ञानस्य गतम्, तत्रास्य यथाकामचारो भवति, यो विज्ञानं ब्रह्मेत्युपास्ते ।अस्ति भगवो विज्ञानाद्भूय इति । विज्ञानाद्वाव भूयोऽस्तीति । तन्में भगवान्ब्रवीत्विति ॥ २ ॥
॥ इति सप्तमः खण्डः ॥
View Verse
अष्टमः खण्डः
[विज्ञानात् बलस्य श्रेष्ठत्वम्]
बलं वाव विज्ञानाद्भूयः । अपि ह शतं विज्ञानवतामेको बलवानाकम्पयते । सयदा बली भवति, अथोत्थाता भवति, उत्तिष्ठन् परिचरिता भवति ; परिचरन्नुपसत्ताभवति ; उपसीदन् द्रष्टा भवति, श्रोता भवति, मन्ता भवति बोद्धा भवति, कर्ताभवति, विज्ञाता भवति । बलेन वै पृथिवी तिष्ठति, बलेनान्तरिक्षम्, बलेनद्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयाँसि च तृणवनस्पतयःश्वापदान्याकीटपतङ्गपिपीलिकं बलेन लोकस्तिष्ठति । बलमुपास्स्वेति ॥ १ ॥
स यो बलं ब्रह्मेत्युपास्ते, यावद्वलस्य गतम् तत्रास्य यथाकामचारो भवति,यो बलं ब्रह्मेत्युपास्ते ।अस्ति भगवो बलाद्भूय इति । बलाद्वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
॥ इति अष्टमः खण्डः ॥
View Verse
नवमः खण्डः
[बलात् अन्नस्य श्रेष्ठत्वम्]
अन्नं वाव बलाद्भूयः । तस्माद् यद्यपि दशरात्रीर्नाश्नीयात्, यद्युह जीवेत्अथवा, अद्रष्टाऽश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवति । अथान्नस्याऽऽयेद्रष्टा भवति, श्रोता भवति, मन्ता भवति, बोद्धा भवति, कर्ता भवति, विज्ञाताभवति । अन्नमुपास्स्वेति ॥ १ ॥
स योऽन्नं ब्रह्मेत्युपास्ते, अन्नवतो वै स लोकान् पानवतोऽभिसिद्ध्यति,यावदन्नस्य गतम् तत्रास्य यथाकामचारो भवति, योऽन्नं ब्रह्मेत्युपास्ते ।अस्ति भगवोऽन्नाद् भूय इति । अन्नाद्वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
॥ इति नवमः खण्डः ॥
View Verse
दशमः खण्डः
[अपां श्रेष्ठत्वम् ]
आपो वा अन्नाद् भूयस्यः तस्माद् यदा सुवृष्टिर्न भवति, व्याधीयन्तेप्राणाः, अन्नं कनीयो भविष्यतीति । अथ यदा सुवृष्टिर्भवति, आनन्दिनः प्राणाभवन्ति, अन्नं बहु भविष्यतीति । आप एवेमा मूर्ताः येयं पृथिवी, यदन्तरिक्षम्,यद् द्यौः, यत् पर्वताः, यद्देवमनुष्याः, यत् पशवश्च वयाँसि च ः तृणवनस्पतयःश्वापदान्याकीटपतङ्गपिपीलिकमाप एवेमा मूर्ताः । अप उपास्स्वेति ॥ १ ॥
स योऽपो ब्रह्मेत्युपास्ते, आप्नोति सर्वान् कामाँस्तृप्तिमान् भवति, यावदपांगतम्, तत्रास्य यथाकामचारो भवति, योऽपो ब्रह्मेत्युपास्ते ।अस्ति भगवोऽद्भ्यो भुय इति । अद्भ्यो वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥२॥
॥ इति दशमः खण्डः ॥
View Verse
एकादशः खण्डः
[अभ्द्यः तेजसः श्रेष्ठत्वम् ]
तेजो वा अभ्द्यो भूयः । तद्वा एतद्वायुमागृह्याऽऽकाशम् अभितपति । तदाहुः,निशोचति, नितपति, वर्षिष्यति वा इति । तेज एव तत् पूर्वं दर्शयित्वाऽथापःसृजते । तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिर्हादाश्चरन्ति । तस्मादाहुः – विद्योतते,स्तनयति, वर्षिष्यति वा इति । तेज एव तत् पूर्वं दर्शयित्वाऽथापः सृजते । तेजउपास्स्वेति ॥१॥
स यस्तेजो ब्रह्मेत्युपास्ते ; तेजस्वी वै स तेजस्वतो लोकान्भास्वतोऽपहततमस्कान् अभिसिद्ध्यति, यावत् तेजसो गतम्, तत्रास्य यथाकामचारोभवति, यस्तेजो ब्रह्मेत्युपास्ते ।
अस्ति भगवस्तेजसो भूय इति । तेजसो वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
॥ इति एकादशः खण्डः ॥
View Verse
द्वादशः खण्डः
[तेजसः आकाशस्य श्रेष्ठत्वम्]
आकाशो वाव तेजसो भूयान् । आकाशे वै सूर्याचन्द्रमसावुभौविद्युन्नक्षत्राण्यग्निः । आकाशेनाऽऽह्वयति, आकाशेन शृणोति, आकाशेन प्रतिशृणोति,आकाशे रमते, आकाशे न रमते, आकाशे जायते, आकाशमभिजायते ।आकाशमुपास्स्वेति ॥१॥
स य आकाशं ब्रह्मेत्युपास्ते, आकाशवतो वै स लोकान् प्रकाशवतोऽसम्बाधान्उरुगायवतोऽभिसिद्ध्यति । यावदाकाशस्य गतम् तत्रास्य यथाकामचारो भवति,य आकाशं ब्रह्मेत्युपास्ते।
अस्ति भगव आकाशद्भूय इति । आकाशाद्वाव भूयोऽस्तीति । तन्मेभगवान् ब्रवीत्विति ॥२॥
॥ इति द्वादशः खण्डः ॥
View Verse
त्रयोदशः खण्डः
[आकाशात् स्मृतेः श्रेष्ठत्वम्]
स्मरो वा आकाशाद् भूयः । तस्माद् यद्यपि बहव आसीरन् अस्मरन्तः,नैव ते कञ्चन शृणुयुः, न मन्वीरन्, न विजानीरन्, यदा वाव ते स्मरेयुः, अथशृणुयुः, अथ मन्चीरन्, अथ विजानीरन् । स्मरेण वै पुत्रान् विजानाति ;स्मरेण पशून् । स्मरमुपास्स्वेति ॥१॥
स यः स्मरं ब्रह्मेत्युपास्ते, यावत् स्मरस्य गतम् तत्रास्य यथाकामचारांभवति, यः स्मरं ब्रह्मेत्युपास्ते ।
अस्ति भगवः स्मराद् भूय इति । स्मराद्वाव भूयोऽस्तीति । तन्मे भगवान्ब्रवीत्विति ॥ २ ॥
॥ इति त्रयोदशः खण्डः ॥
View Verse
चतुर्दशः खण्डः
[स्मृतेः आशायाः श्रेष्ठत्वम्]
आशा वाव स्मराद् भूयसी । ‘आशयेद्वो वै स्मरो मन्त्रानधीते, कर्माणिकुरुते, पुत्रौंश्च पशूँश्चेच्छते, इमञ्च लोकममुञ्चेच्छते । आशामुपास्वेति ॥१॥
स य आशां ब्रह्मेत्युपास्ते, आशयाऽस्य सर्वे कामाः समृद्ध्यन्ति ; अमोघा‘ह्यस्याशिषो‘ भवन्ति, यावदाशाया गतम् तत्रास्य यथाकामचारो भवति, यआशां ब्रह्मेत्युपास्ते ।अस्ति भगव आशाया भूय इति । आशाया वाव भूयोऽस्तीति । तन्मेभगवान् ब्रवीत्विति ॥२॥
View Verse
पञ्चदशः खण्डः
[आशाया जीवात्मनः श्रेष्ठत्वम् ]
प्राणो वाव‘ आशाया भूयान् । यथा वा अरा नाभौ समर्पिताः, एवम्अस्मिन् प्राणे सर्वँ समर्पितम् । प्राणः, प्राणेन याति । प्राणः प्राणं ददाति ;प्राणाय ददाति । प्राणो ह पिता, प्राणो माता, प्राणो भ्राता, प्राणः स्वसा, प्राणआचार्यः, प्राणो ब्राह्मणः ॥ १ ॥
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाऽऽचार्यं वा ब्राह्मणं वाकिञ्चित् भृशमिव प्रत्याह, धिक् त्वाऽस्त्वित्येवैनमाहुः, पितृहा वै त्वमसि, मातृहावै त्वमसि, भ्रातृहा वै त्वमसि, स्वसृहा वै त्वमसि, आचार्यहा वै त्वमसि, ब्राह्मणहावै त्वमसीति ॥ २ ॥
अथ यद्यप्येनान् उत्क्रान्तप्राणान् शूलेन समासं व्यतिसन्दहेत्, नैवैनं ब्रूयुःपितृहाऽसीति, न मातृहाऽसीति, न भ्रातृहाऽसीति, न स्वसृहाऽसीति,नाचार्यहाऽसीति, न ब्राह्मणहाऽसीति ॥ ३ ॥
प्राणो ह्यैवैतानि सर्वाणि भवति । स वा एष एवं पश्यन् एवं मन्वान एवंविजानन् अतिवादी भवति । तञ्चेत् ब्रूयुः अतिवाद्यसीति, अतिवाद्यस्मीतिब्रूयात् ; नापह्नुवीत ॥ ४ ॥
॥ इति पञ्चदशः खण्डः ॥
View Verse
षोडशः खण्डः
[जीवात्याला परमात्मनः श्रेष्ठत्वम्]
एष तु वा अतिवदति, यः सत्येनातिवदति । सोऽहं भगवः सत्येनातिवदानीति ।सत्य त्वेव विजिज्ञासितव्यमिति । सत्यं भगवो विजिज्ञास इति ॥ १ ॥
View Verse
सप्तदशः खण्डः
[विज्ञानस्यावश्यकता]
यदा वै विजानाति, अथ सत्यं वदति । नाविजानन् सत्यं वदति ।विजानन्नेव सत्यं वदति । विज्ञानं त्वेव विजिज्ञासितव्यमिति । विज्ञानं भगवोविजिज्ञास इति ॥ १ ॥
॥ इति सप्तदशः खण्डः ॥
View Verse
अष्टादशः खण्डः
[मननस्यावश्यकता]
यदा वै मनुतेऽथ विजानाति । नामत्वा विजानाति । मत्वैव विजानातिमतिस्त्वेव विजिज्ञासितव्येति । मतिं भगवो विजिज्ञास इति ॥ १ ॥
॥ इति अष्टादशः खण्डः ॥
View Verse
एकोनविंशः खण्डः
[श्रद्धायाः आवश्यकता]
यदा वै श्रद्दधाति, अथ मनुते । नाश्रद्दधन्मनुते । श्रद्दधदेव मनुते । श्रद्धा त्वेवविजिज्ञासितव्येति । श्रद्धां भगवो विजिज्ञास इति ॥ १ ॥
॥ इति एकोनविंशः खण्डः ॥
View Verse
विंशः खण्डः
[व्यवसायस्य श्रेष्ठता]
यदा वै निस्तिष्ठति, अथ श्रद्दधाति । नानिस्तिष्ठन् श्रदधाति । निस्तिष्ठन्नेवश्रदधाति । निष्ठा त्वेव विजिज्ञासितव्येति । निष्ठां भगवो विजिज्ञास इति ॥ १ ॥
॥ इति विंशः खण्डः ॥
View Verse
एकविंशः खण्डः
[प्रयत्नस्यावश्यकता]
यदा वै करोति, अथ निस्तिष्ठति । नाकृत्वा निस्तिष्ठति । कृत्वैव निस्तिष्ठति ।कृतिस्त्वेव विजिज्ञासितव्येति । कृतिं भगवो विजिज्ञास इति ॥१॥
॥ इति एकविंशः खण्डः ॥
View Verse
द्वाविंशः खण्डः
[सुखमेव प्रवृत्तिहेतुः]
यदा वै सुखं लभते, अथ करोति । नासुखं लब्ध्वा करोति । सुखमेव लब्ध्वाकरोति । सुखं त्वेव विजिज्ञासितव्यमिति । सुखं भगवो विजिज्ञास इति ॥१॥
॥ इति द्वाविंशः खण्डः ॥
View Verse
त्रयोविंशः खण्डः
[भूम्रस्सुखरूपत्वम् ]
यो वै भूमा तत् सुखम् । नाल्पे सुखमस्ति । भूमैव सुखम् । भूमा त्वेवविजिज्ञासितव्य इति । भूमानं भगवो विजिज्ञास इति ॥ १ ॥
॥ इति त्रयोविंशः खण्डः ॥
View Verse
चतुर्विंशः खण्डः
[भूतः सुखरूपत्वे कारणम्]
यत्र नान्यत् पश्यति, नान्यच्छृणोति, नान्यत् विजानाति, स भूमा । अथयत्रान्यत् पश्यति, अन्यच्छृणोति, अन्यत् विजानाति, तदल्पम् । यो वै भूमा,तदमृतम् । अथ यदल्पम्, तन्मय॑म् । स भगवः कस्मिन् प्रतिष्ठित इति । स्वेमहिम्नि, यदि वा न महिम्नीति ॥ १ ॥
गोअश्वमिह महिमेत्याचक्षते, हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति ।नाहमेवं ब्रवीमीति होवाच, अन्यो ह्यन्यस्मिन् प्रतिष्ठित इति ॥ २ ॥
॥ इति चतुर्विशः खण्डः ॥
View Verse
पञ्चविंशः खण्डः
[भूम्नः सर्वात्मकत्वम्]
स एवाधस्तात् , स उपरिष्टात् , स पश्चात् , स पुरस्तात् , स दक्षिणतः, सउत्तरतः, स एवेदँ सर्वमिति ।अथातोऽहङ्कारादेश एव – अहमेवाधस्तात् , अहमुपरिष्टात्, अहं पश्चात्,अहं पुरस्तात्, अहं दक्षिणतः, अहमुत्तरतः, अहमेवेदँ सर्वमिति ॥ १ ॥
अथात आत्मादेश एव – आत्मैवाधस्तात्, आत्मोपरिष्टात्, आत्मा पश्चात्,आत्मा पुरस्तात्, आत्मा दक्षिणतः, आत्मोत्तरतः, आत्मैवेदँ सर्वमिति ।स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन् आत्मरतिः आत्मक्रीडआत्ममिथुन आत्माऽऽनन्दः, स स्वराड् भवति । तस्य सर्वेषु लोकेषु कामचारोभवति । अथ येऽन्यथाऽतो विदुरन्यराजानः ते क्षय्यलोका भवन्ति । तेषाँसर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥
॥ इति पञ्चविंशः खण्डः ॥
View Verse
षड्विंशः खण्डः
[भूम्नः आत्मवत्वम्]
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राणआत्मत आशाऽऽत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मतआविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतोध्यानमात्मतश्चित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतोमन्त्रा आत्मतः कर्माण्यात्मत एवेदँ सर्वमिति ॥ १ ॥
तदेष श्लोकः –
न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।सर्वँ ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ॥ इति ।स एकधा भवति त्रिधा भवति पञ्चधा ।सप्तधा नवधा चैव पुनश्चैकादश स्मृतः ॥शतञ्च दश चैकश्च सहस्राणि च विंशतिः ।आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः ॥स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ।तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः । तँ स्कन्दइत्याचक्षते तँ स्कन्द इत्याचक्षते ॥
॥ इति षड्विंशः खण्डः ॥
॥ इति सप्तमः प्रपाठकः समाप्तः ॥
View Verse

Chapter - 8

अष्टमः प्रपाठकः
[दहरविद्या]
अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशःतस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥
View Verse
तञ्चेत् ब्रूयुः – यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशःकिं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ॥ २ ॥
स ब्रूयात् – यावान् वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाशः । उभेअस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौविद्युन्नक्षत्राणि । याच्चास्येहास्ति यच्च नास्ति, सर्वं तदस्मिन् समाहितमिति ॥ ३ ॥
View Verse
तञ्चेत् ब्रूयुः – अस्मिँश्चेदिदं ब्रह्मपुरे सर्वं समाहितँ सर्वाणि च भूतानि सर्वेच कामाः, यदैनज्जरामाप्नोति प्रध्वँसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥
View Verse
[दहराकाशस्य परब्रह्मणः अपहतपाप्मत्वादिगुणवर्णनम् ]
स ब्रूयात् – नास्य जरयैतज्जीर्यति, न वधेनास्य हन्यते । एतत् सत्यंब्रह्मपुरम् ।अस्मिन् कामाः समाहिताः । एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः ।यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्तियं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥
View Verse
[स्वर्गलोकफलस्य अनित्यत्वकथनम् ]
तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते ।तद्य इहात्मानमननुविद्य व्रजन्त्येताँश्च सत्यान् कामान् , तेषां सर्वेषु लोकेष्वकामचारोभवति ।अथ य इहात्मानमनुविद्य व्रजन्त्येताँश्च सत्यान् कामान् , तेषाँ सर्वेषु लोकेषुकामचारो भवति ॥ ६ ॥
View Verse
द्वितीयः खण्डः
[दहरविद्योपासनाफलम्]
स यदि पितृलोककामो भवति, सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति । तेनपितृलोकेन सम्पन्नो महीयते ॥ १ ॥
अथ यदि मातृलोककामो भवति, सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति ।तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥
अथ यदि भ्रातृलोककामो भवति, सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्तितेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥
अथ यदि स्वसृलोककामो भवति, सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति । तेनस्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥
अथ यदि सखिलोककामो भवति, सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति । तेनसखिलोकेन सम्पन्नो महीयते ॥ ५ ॥
अथ यदि गन्धमाल्यलोककामो भवति, सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः ।तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥
अथ यद्यन्नपानलोककामो भवति, सङ्कल्पादेवास्य अन्नपाने समुत्तिष्ठतः ।तेन अन्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥
अथ यदि गीतवादित्रलोककामो भवति, सङ्कल्पादेवास्य गीतवादित्रेसमुत्तिष्ठतः । तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥
अथ यदि स्त्रीलोककामो भवति, सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति । तेनस्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥
यं यमन्तमभिकामो भवति, यं कामं कामयते, सोऽस्य सङ्कल्पादेव समुत्तिष्ठति । तेनसम्पन्नो महीयते ॥ १० ॥
॥ इति द्वितीयः खण्डः ॥
View Verse
तृतीयः खण्डः
[जीवस्वरूपस्य कर्मणा तिरोधानम्]
त इमे सत्याः कामा अनृतापिधानाः । तेषाँ सत्यानाँ सतामनृतमपिधानम् । योयो ह्यस्येतः प्रैति, न तमिह दर्शनाय लभते ॥१॥
View Verse
[कर्मणः आच्छादकत्वम्]
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते,सर्वं तदत्र गत्वाविन्दते । अत्र ह्यस्यैते सत्याः कामा अनृतापिधानाः । तद्यथा हिरण्यनिधिंनिहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः, एवमेवेमाः सर्वाः प्रजाअहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति ; अनृतेन हि प्रत्यूढाः ॥२॥
View Verse
[आत्मनो हृदयान्तर्वतित्वम् ]
स वा एष आत्मा हृदि । तस्यैतदेव निरुक्तँ हृद्ययमिति । तस्माद्धृदयम् ।अहरहर्वा एवंवित् स्वर्गं लोकमेति ॥ ३ ॥
View Verse
[मुक्तौ जीवस्य स्वरूपाविर्भावः]
अथ य एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेनरूपेणाभिनिष्पद्यते, एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति । तस्य हवा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ४ ॥
View Verse
[सत्यपदनिर्वचनम्]
तानि ह वा एतानि त्रीण्यक्षराणि सत् ति यमिति । तद् यत् सत्, तदमृतम् ।अथ यत् ति, तन्मर्यम् अथ यद् यम्, तेनोभे यच्छति । यदनेनोभे यच्छति,तस्मात् यम् । अहरहर्वा एवंवित् स्वर्गं लोकमेति ॥ ५ ॥
॥ इति तृतीयः खण्डः ॥
View Verse
चतुर्थः खण्डः
[आत्मनः माहात्म्यम्]
अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय । नैतँ सेतुमहोरात्रेतरतो न जरा न मृत्युः । न शोको न सुकृतँ न दुष्कृतँ सर्वे पाप्मानोऽतोनिवर्तन्ते । अपहतपाप्मा ह्येष ब्रह्मलोकः ॥१॥
View Verse
[मुक्तस्वरूपम्]
तस्माद्वा एतँ सेतुं तीर्त्वाऽन्धस्सन् अनन्धो भवति ; विद्धस्सन् अविद्धोभवति । उपतापी सन् अनुपतापी भवति । तस्माद्वा एतँ सेतुं तीर्त्वा अपिनक्तमहरेवाभिनिष्पद्यते । सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ २ ॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति, तेषामेवैष ब्रह्मलोकः, तेषाँसर्वेषु लोकेषु कामचारो भवति ॥३॥
॥ इति चतुर्थः खण्डः ॥
View Verse
पञ्चमः खण्डः
[ब्रह्मचर्यप्रशंसा]
अथ यत् यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् । ब्रह्मचर्येण ह्येव यो ज्ञाता तंविन्दते । अथ यदिष्टमित्याचक्षते, ब्रह्मचर्यमेव तत् । ब्रह्मचर्येणह्येवेष्ट्वाऽऽत्मानमनुविन्दते ॥ १ ॥
View Verse
[ब्रह्मचर्यस्यात्मरक्षकत्वम् ]
अथ यत् सत्त्रायणमित्याचक्षते, ब्रह्मचर्यमेव तत् । ब्रह्मचर्येण ह्येव सतआत्मनस्त्राणं विन्दते । अथ यन्मौनमित्याचक्षते, ब्रह्मचर्यमेव तत् । ब्रह्मचर्येणह्येवात्मानमनुविद्य मनुते ॥ २ ॥
View Verse
[व्रतोपवासादीनां ब्रह्मचर्यार्थत्वम्]
अथ यदनाशकायनमित्याचक्षते, ब्रह्मचर्यमेव तत् । एष ह्यात्मा न नश्यति,यं ब्रह्मचर्येणानुविन्दते ।अथ यदरण्यायनमित्याचक्षते, ब्रह्मचर्यमेव तत् । अरश्च ह वै ण्यश्चार्णवौब्रह्मलोके तृतीयस्यामितो दिवि । तदैरम्मदीयँ सरः तदश्वत्थः सोमसवनः ।तदपराजिता पूर्ब्रह्मणः, प्रभुविमितँ हिरण्मयम् ॥ ३ ॥
View Verse
[ब्रह्मचर्यस्य मुक्तिप्रयोजकत्वम्]
तद्य एवैतावरञ्च ण्यञ्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति, तेषामेवैषब्रह्मलोकः । तेषाँ सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥
॥ इति पञ्चमः खण्डः ॥
View Verse
षष्ठः खण्डः
[उत्क्रान्तिनिरूपणम्]
अथ या एता हृदयस्य नाड्यः, ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्यपीतस्य लोहितस्येति । असौ वा आदित्यः पिङ्गलः । एष शुक्ल एष नील एष पीतएष लोहितः ॥१॥
View Verse
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमञ्चामुञ्च, एवमेवैता आदित्यस्यरश्मय उभौ लोकौ गच्छतीमञ्चामुञ्च । अमुष्मादादित्यात् प्रतायन्ते ; ता आसुनाडीषु सृप्ताः । आभ्यो नाडीभ्यः प्रतायन्ते ; तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥
View Verse
तद्यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति, आसु तदा नाडीषुसृप्तो भवति । तं न कश्चन पाप्मा स्पृशति । तेजसा हि तदा संपन्नो भवति ॥ ३ ॥
View Verse
अथ यत्रैतदबलिमानं नीतो भवति, तमभित आसीना आहुः, जानासि मांजानासि मामिति । स यावदस्माच्छरीरादनुत्क्रान्तो भवति, तावज्जानाति ॥ ४ ॥
View Verse
अथ यत्रैतदस्माच्छरीरादुत्क्रामति, अथैतैरेव रश्मिभिरूर्ध्वं आक्रमते।सओमिति वाहोद्वा मीयते । स यावत् क्षिप्येन्मनः, तावदादित्यं गच्छति । एतद्वैखलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥
View Verse
[विदुषः मूर्धन्यनाड्या उत्क्रमणम् ]
तदेष श्लोकः
शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका ।तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमणे भवन्ति । उत्क्रमणे भवन्ति ॥६॥
॥ इति षष्ठः खण्डः ॥
View Verse
सप्तमः खण्डः
[प्रजापतिविद्या]
य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः,सत्यसङ्कल्पः, सोऽन्वेष्टव्यः स विजिज्ञासितव्यः । स सर्वांश्च लोकानाप्नोति सर्वांश्चकामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥
View Verse
तद्धोभये देवासुरा अनुबुबुधिरे । ते होचुः – हन्त तमात्मानमन्विच्छामोयमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिति ।इन्द्रो हैव देवानामभिप्रवव्राज ; विरोचनोऽसुराणाम् । तौ हासंविदानावेवसमित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ २ ॥
View Verse
[इन्द्रविरोचनयोः ब्रह्मचर्यवासः]
तौ ह द्वत्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः । तौ ह प्रजापतिरुवाचकिमिच्छन्ताववास्तमिति । तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युविंशोकोविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यःस सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीतिभगवतो वचो वेदयन्ते । तमिच्छन्ताववास्तमिति ॥ ३ ॥
View Verse
[ताभ्यां प्रजापत्युपदेशस्य प्रतिबिम्बात्मपरत्वग्रहः]
तौ ह प्रजापतिरुवाच य ‘एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेतिहोवाचैतदमृतमभयमेतद्ब्रह्मेति । अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शेकतम एष इति । एष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति स होवाच ॥ ४ ॥
॥ इति सप्तमः खण्डः ॥
View Verse
अष्टमः खण्डः
[इन्द्रविरोचनयोः उदशरावे आत्मदर्शनम्]
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथः तन्मे प्रब्रूतमिति । तौहोदशरावेऽवेक्षाञ्चक्राते । तौ ह प्रजापतिरुवाच – किं पश्यथ इति । तौहोचतुः, सर्वमेवेदमावां भगव ‘आत्मानं पश्याव आलोमभ्य आनखेभ्यःप्रतिरूपमिति ॥१॥
View Verse
तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेअवेक्षेथामिति । तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते ।तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥२॥
View Verse
तौ होचतुः – यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्वः,एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ इति । एष आत्मेति होवाचएतदमृतमभयमेतत् ब्रह्मेति । तौ ह शान्तहृदयौ प्रवव्रजतुः ॥३॥
View Verse
[विरोचनस्य देहात्मग्रहणेनैव तृप्तता]
तौ हान्वीक्ष्य प्रजापतिरुवाच – अनुपलभ्यात्मानमननुविद्य व्रजतः । यतरएतदुपनिषदो भविष्यन्ति देवा वा असुरा वा, ते पराभविष्यन्तीति ।स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम । तेभ्यो हैतामुपनिषदप्रोवाच – आत्मैवेह महय्य आत्मा परिचर्यः । आत्मानमेवेह महयन्नात्मानंपरिचरन् उभौ लोकाववाप्नोतीमञ्चामुञ्चेति ॥ ४ ॥
View Verse
स ह इत्यादि । विरोचनस्तु प्राजापत्यस्य द्विविधदेहच्छायादर्शननियोगस्य,देहानुकारित्वात् छायायाः देहः एव आत्मेति सूचने तात्पर्यम् – अलङ्कृतदेहच्छायांनिर्दिश्य ‘एष आत्मा’ इत्युपदेशस्य, ‘नीलानीलयोः आदर्शे दृश्यमानयोः वाससोः यत्नीलं तत् महार्घम्’ इति वचनस्य छायानिमित्ते वाससीव, अलङ्कृतदेहे तात्पर्यमितिमन्वानः, ‘देह एवात्मा अलङ्कारादिभिः परिचरणीयः’ इति निश्चित्य राज्यं प्राप्य असुरेभ्यःतथा उपादिक्षत् इत्यर्थः । आत्मैवेह महय्य इत्यादि । आत्मैव – देहः एव, महय्यःपूज्यः इत्यर्थः । उभौ लोकौ इति । सर्वलोकसुखानुभवोऽपि शरीरगतः एवेति भावः ।शिष्टं स्पष्टम् ॥
View Verse
प्र.-स सम्प्रदायः अद्यापि अनुवर्तते इत्याह तस्मात् इत्यादि । यस्मात्असुरेभ्यः एव इयमुपनिषत् प्रवृत्ता, ‘तस्मात्’ यागदानश्रद्धा वैमुख्य हेतुभूता नास्तिक्यबुद्धिःअसुराणामेव हि । अत एव तादृशं पुरुषं जनाः असुरमाहुः इत्यर्थः । प्रेतस्य शरीरम्इत्यादि । यतः एवं देहस्यैव आत्मतया परिचरणीयत्वम्, अत एव प्रेतस्य – मृतस्यशरीरं भिक्षित्वा वस्त्रालङ्कारादिभिः पूजयन्ति । कुणपसंस्कारेणैव परलोकजयं मन्यमानाःइत्यर्थः ॥
॥ इति अष्टमखण्डभाष्यम् ॥
View Verse
प्र.-अथ इत्यादि । इन्द्रस्य शुद्धान्तःकरणत्वात् देहात्मभ्रमोऽपि नाभूत् । सःस्वराज्यं प्राप्य देवेभ्यः तदुपदेशात् प्रागेव मध्येमार्गं प्रतिबिम्बात्मन्यपि इमं वक्ष्यमाणंदोषम् अपश्यत् इत्यर्थः । यथैव इत्यादि । अयं देहप्रतिबिम्बः इत्यर्थः । परिष्कृतेअपाकृतनखलोमादिके इत्यर्थः । एवमेव इत्यादि । नासिका यस्य सदा स्रवति, सस्रामः । ‘छिन्न’पाणिपादः परिवृक्णः । प्रतिबिम्बस्य बिम्बभूतशरीरगतसाध्वलङ्कृृतत्व-सुवसनत्वपरिष्कृ तत्वानुविधायित्ववत् तद्गतान्ध्य – स्राम्य – परिवृक्णत्व-नाशानुविधायित्वावश्यंभावेन अमृतत्वाभयत्वात्मत्वादिकं न सम्भवति इति अमन्यतइत्यर्थः ॥
View Verse
प्र. – स समित्पाणिः इत्यादि । सः इन्द्रः एयाय । प्रजापतिमिति शेषः ।मघवन् इति । हे मघवन् ! शान्तहृदयः शान्तदोषशङ्कः विरोचनेन सार्धं यत् यस्मात्त्वं प्राव्राजीः गतवान्, सः किं प्रयोजनमभिलषन् पुनरागतोऽसि ? इत्यर्थः । आगमइति गमेर्लुंङि ङित्वादङ्’ । स होवाच इति । उक्तोऽर्थः ॥
View Verse
प्र.-एवम् इत्यादि । हे मघवन् ! त्वदुक्तं सत्यमेव । उक्तमिममेव आत्मानंपुनरपि त्वदुक्तदोषशून्यतया प्रतिपादयिष्यामि । अन्तःकरणशुद्ध्यर्थम् इतोऽपि द्वात्रिँशतंवर्षाणि ब्रह्मचर्यं वसेति प्रजापत्याज्ञप्तः मघवान् तथैव कृतवान् इत्यर्थः । तस्मै होवाच ।एवम् उषितवते इन्द्राय प्रजापतिः वक्ष्यमाणम् उवाच इत्यर्थः ॥
॥ इति नवमखण्डभाष्यम् ॥
View Verse
प्र.-य एष ब्रह्मेति । यः स्वप्ने स्त्र्यादिभिः महीयमानः – पूज्यमानः चरति,एषः स्वप्नद्रष्टा निरतिशयसुखत्वादि’लक्षणामृतत्वादियुक्तः’ आत्मा इत्युक्तवान् इत्यर्थः । नायंपूर्वोक्तदेहगत आन्ध्यसाम्याद्यनु विधायित्वलक्षणदोषदुष्टः इति भावः । स हशान्त……ददर्श इत्यादि । उक्तोऽर्थः । तदेवाह – तद्यद्यपि……स्रामः । तदिदं शरीरंयद्यप्यन्धं भवति, तथाऽपि सोऽनन्धः भवतीति योजना । सः स्वप्नात्मा । शिष्टंस्पष्टम् ॥ १ ॥
न वधेनास्य……स्रामः । स्वप्नात्मेति शेषः । स्पष्टोऽर्थः । घ्नन्ति त्वेवैनंविच्छादयन्तीव । एवशब्द इवार्थः । एनं स्वप्नात्मानं केचन घ्नन्तीव, केचन विच्छादयन्तिद्रावयन्तीव भान्ति इत्यर्थः । अप्रिय……पश्यामीति । हन्यमानत्व-द्राव्यमाणत्व-बन्धुजनमरणाद्यप्रियवेत्तृत्व-रोदितृत्वादिदर्शनात् स्वप्नावस्थस्य न भोग्यत्वम् इत्यर्थः ॥ २ ॥
View Verse
प्र. – स समित्पाणिः इत्यादि । उक्तोऽर्थः ॥ ३-४ ॥
॥ इति दशमखण्डभाष्यम् ॥
View Verse
प्र. – तद्यत्रैतत्सुप्तः इत्यादि । यत्र यदा, तदेतत् – स एष पुरुषः । ‘सुपां सुलुक्(पा.सू.७-१-३९) इति सोर्लुक्’ । समस्तः उपसंहृतकरणग्रामः । संप्रसन्नः – बाह्यविषय-संपर्कजनितकालुष्यरहितः । शिष्टं स्पष्टम् । स ह इत्यादि । उक्तोऽर्थः । दोषदर्शनमेवाह –नाह खलु इत्यादि । अह इत्याश्चर्ये । अयं सुषुप्तः संप्रति सुषुप्तिकाले अयमहमस्मीतिविशेषज्ञानाभावेन स्वेतरभूतविषयकज्ञानाभावेन च सुषुप्तः विनष्टप्रायः इत्यर्थः । विनाशमेवविनाशमिव । अपीतः अपि इतः। इतिच्छेदः । विनष्टप्रायः इत्यर्थः ॥
View Verse
प्र.-स समित्पाणिः इत्यादि । उक्तोऽर्थः ॥
View Verse
प्र. – एवम् – । एतस्मात् पूर्वोक्तात् अन्यत्र इतरत् नो व्याख्यास्यामि । किन्तुएतमेव पूर्वोक्तमेव ‘निर्दोषतया व्याख्यास्यामि इत्यर्थः । तान्येकशतं संपेदुः । तानिवर्षाणि आहत्य एकशतं सम्पन्नानि इत्यर्थः । एतत् इत्यादि । एकशतसंवत्सरान् इन्द्रःप्रजापतेः सन्निधौ ब्रह्मचर्य चरन् उवास इति लोके प्रसिद्धतया यदाहुः, तत् एतत् एवंविधम् – अनेन प्रकारेणेति यावत् । तस्मै होवाच । एकशतवर्षब्रह्मचर्यनिर्मलीकृतान्तः-करणाय मघवते ‘शुद्धात्मस्वरूप योग्यतां परीक्ष्य उपादिक्षत् इत्यर्थः । अनया चआख्यायिकया बहुकालब्रह्मचर्यनिर्मलीकृतान्तःकरणतया संपन्नोपदेशयोग्यत्वाय उपदेष्टव्यम्इत्यर्थः सूच्यते ॥
॥ इति एकादशखण्डभाष्यम् ॥
View Verse
प्र.-मघवन् इत्यादि । वाशब्द एवार्थे । हे मघवन् ! इदं शरीरमेव हिमर्त्यम् – मरणधर्मि । न केवलं मरणमित्वमात्रम्, अपि तु मृत्युना आत्तम्तद्व्याप्तञ्च । सततविनाशशीलम् इति यावत् । इदञ्च शरीरे हेयत्वानुसन्धानार्थमुक्तम् ।एवंभूतं तदिदं शरीरं कर्मकृतशरीरराहित्यलक्षणामृतत्वस्वरूपस्य आत्मनः भोगाधिष्ठानम् ।कर्मवशेन जीवेन भोगार्थं परिगृहीतम् इत्यर्थः । ततश्च अशरीरत्वमेव स्वरूपम् । सैवअमृतत्वलक्षणा मुक्तिः ; सशरीरत्वमेव तदभावः इत्युक्तं भवति । ननु पुरुषार्थस्य हिमुक्तिरूपत्वं वक्तव्यम्, न ह्यशरीरत्वं पुरुषार्थः । अपितु दुःखाभावः, ततश्च तस्यैवअमृतत्वरूपत्वम् उचितम् ; न तु अशरीरत्वस्य इत्यत्राह – आत्तो वै इति । स्पष्टोऽर्थः ।तदेव उपपादयति – न ह इति । कर्मारब्धशरीरयोगिनः तदनुगुणसुखदुःखयोगस्यअवश्यंभावित्वात् कर्मणा आरब्धदेहसम्बन्धा भावस्य’ पुरुषार्थतया मुक्तिरूपत्वम् उपपद्यतेइति भावः । व्यतिरेकं दर्शयति – अशरीरम् इति । वाव शब्दः प्रसिद्धौ ; अवधारणेवा । शिष्टं स्पष्टम् ॥
View Verse
प्र.-अशरीरो वायुः – शिरःपाण्यादिलक्षणशरीरशून्यः वायुः इत्यर्थः । अभ्रम्इति । अभ्रादीनि च अशरीराणि इत्यर्थः । ‘अभ्रं भूत्वा मेघो भवति’ (छां.उ.५-१०-६)इत्यादिवत् अभ्रस्तनयित्नोः अवस्थाभेदेन भेदः द्रष्टव्यः । अशरीराणाञ्च प्रियाप्रियानन्वयः‘दृष्टः’ इति भावः । तद्यथा इत्यादि । अत्र व्यासार्यैः,‘वाय्वादीनामाकाशात् समुत्थानं नाम स्वकार्यकरणाय ऊर्ध्वदेशे अभिवृद्धिः ।परशब्दो वाय्वादीनां कारणावस्थावाची । ज्योतिश्शब्दस्तु कारणानां कार्योत्पादनद्वारेणतदभिव्यञ्जकतया प्रयुक्तः । वाय्वादीनि च कारणद्रव्यमुपगम्य कार्यावस्थां हित्वाकारणसदृशेन रूपेण विशिष्टानि भवन्ति । वायुर्हि आवहप्रवहादिरूपेण सप्तविधत्वंहित्वा वायुत्वमात्रेण अवतिष्ठते । विद्युत्तु विद्युत्त्वं हित्वा तेजस्त्वेन । अभ्रस्तनयित्नू चअभ्रत्वादिप्रहाणेन स्वकारणभूतरूपेण । एवं जीवोऽपि मार्गविशेषेण देशविशेषविशिष्टंपरं ब्रह्म प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेण आविर्भवति इत्येवमर्थे सत्येवदृष्टान्तदार्ष्टान्तिकवाक्यसामञ्जस्यं भवति’ इति वर्णितम् ।इदञ्च वाक्यं फलपादे चिन्तितम् । ‘स्वेन रूपेणाभिनिष्पद्यते’ इति देवादिरूपवत्साध्येन रूपेणाभिनिष्पत्तिः उच्यते । अभिनिष्पत्तिशब्दस्य आगन्तुकधर्मोत्पत्तिपरत्वात् । स्वशब्दःस्वात्मीयवचनः । आगन्तुकस्यापि रूपस्य आत्मीयत्वात् स्वेनरूपेण इत्युपपद्यते । नतु ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र स्वशब्दस्य आत्मार्थकत्वं वा निष्पत्तिशब्दस्यआविर्भावार्थकत्व वा युक्तम् । स्वरूपस्य नित्यत्वेन तत्प्राप्तेः अपुरुषार्थत्वप्रसङ्गादितिपूर्वपक्षे प्राप्ते, उच्यते – ‘सम्पद्याविर्भावः स्वेन शब्दात्’ (ब्र.सू. ४.४.१) । परंज्योतिरुपसंपद्यस्वस्य रूपस्यैव आविर्भावः । न तु आगन्तुकात्मीयधर्मोत्पत्तिः । तथा हि सति‘स्वेनरूपेणाभिनिष्पद्यते’ इत्यत्र ‘स्वेन’ शब्दवैयर्थ्यप्रसङ्गात् । अतः स्वशब्दः नआत्मीयवचनः अपि तु आत्मवचनः एव । आविर्भावऽपि अभिनिष्पत्तिशब्दः रश्यते,‘युक्त्याऽयमर्थो निष्पन्नः, ‘इदमेकं सुनिष्पन्नम्’ इत्यादिषु ।ननु आत्मनः पूर्वसिद्धत्वात् कथं तस्य पुरुषार्थत्वम् ? तत्राह – ‘मुक्तः प्रतिज्ञानात्’(ब्र.सू. ४.४.२) ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यस्य मुक्तः भवति इत्यर्थः ।निवृत्ताविधातिरोधानः भवतीति यावत् । कथमिदमवसीयते इति चेत् – प्रतिज्ञानात् ।जागराद्यवस्थात्रयकलुषितं जीवं प्रस्तुत्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि, नोएवान्यत्रैतस्मात्’ इति तस्यैव अशरीरत्वलक्षणमुक्तत्वम्, ‘मघवन् मर्त्यं वा इदं शरीरम्’इत्यादिना चतुर्थेन पर्यायेण प्रतिपादयिष्यामीति प्रतिज्ञानात् । निवृत्ताविद्यातिरोधानस्यस्वेन रूपेण साध्यत्वमस्त्येव इति न पुरुषार्थत्वहानिः ।
ननु निवृत्ततिरोधानस्यापि आत्मस्वरूपस्य कथञ्चित् साध्यत्वसम्भवेऽपि तस्य नपुरुषार्थत्वे प्रमाणमस्ति इत्यत्राह – ‘आत्मा प्रकरणात्’ (ब्र.सू.४-४-३) । ‘य आत्माऽपहतपाप्मा’इत्यादि वाक्यसन्दर्भप्रतिपाद्यापहतपाप्मत्वादिगुणाष्टकविशिष्टतया अत्यन्तानुकूलत्वेनपरमपुरुषार्थभूतोऽयमात्मा । अपहतपाप्मत्वादीनां कथं जीवसम्बन्धित्वम् इत्यत्राहप्रकरणात् इति । अवस्थात्रयकलुषितं जीवं प्रकृत्यैव अपहतपाप्मत्वादिगुणानाम् आम्नानात्इत्यर्थ इति स्थितम् ।
‘स्वेन रूपेणाभिनिष्पद्यते’ इत्युच्यमानं स्वरूपं ‘किमित्याकांक्षायाम्’ अस्मिन्प्रकरणे अपहतपाप्मत्वादिगुणानामेव उपन्यासात्, सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश्च,ब्रह्मसम्बन्धिना अपहतपाप्मत्वादिगुणलक्षणेन रूपेण आविर्भवतीति जैमिनिराचार्यों मन्यतेइति, ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’ (ब्र.सू.४-४-५) इति जैमिनिमतम् उपन्यस्य, ‘प्रज्ञानधन एव’, (बृ.उ.६-५-१३) विज्ञानघन एव’ (बृ.उ.४-४-१२) इति ज्ञानैकरसत्वाम्नानेननिर्धर्मकत्वप्रतिपादनात्, ज्ञानमात्रस्वरूपेण आविर्भवतीति, ‘चितितन्मात्रेणतदात्मकत्वादित्यौडुलोमिः’ (ब्र.सू.४-४-६) इत्यौडुलोमिमतम् उपन्यस्य, एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः’ (ब्र.सू.४-४-७) इति स्वसिद्धान्तमाविष्कृतवान् । तस्यच अयमर्थः । एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन, ‘ब्राह्मेणजैमिनिरुपन्यासादिभ्यः’ (ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूपस्यापि संभवात्, सैन्धवघनस्यकृत्स्नस्य रसनेन्द्रियावगतरसघनत्वस्य चक्षुराद्यवगतरूपकाठिन्यादेश्च अविरोधवत्मानान्तरावगतब्राह्मरूपस्य च मानान्तरावगतविज्ञानघनत्वस्य च अविरोधः इति बादरायणःआचार्यो मन्यते ; ‘विज्ञानघन एव’ इत्येवकारस्य स्वप्रकाशत्वाव्याप्तांशनिषेधमात्रपरत्वात्इति स्थितम् ।यत्परैरुक्तम्, ‘शरीरात् समुत्थाय-शरीरे आत्माभिमानं हित्वा स्वेन रूपेण परमात्मरूपेणसाक्षात्कृत्य परं ज्योतिर्भवति – परमात्मा भवति इत्यर्थः । न तु शरीरादुत्क्रमणं देशान्तरगमनंवाऽत्र विवक्षितम्’ इति – तदसत्, अपदार्थत्वात् । न हि ‘शरीरात् समुत्थाय’ इत्यस्यशरीरे आत्माभिमानं हित्वा इत्यर्थो भवति । स्वरूपसाक्षात्कारलक्षणस्वरूपाभिनिष्पत्त्यनन्तर-भाविनः परंज्योतिर्भावस्य च ‘परंज्योतिरुपसंपद्य’ इति पूर्वकालतया निर्देशः न युक्तः ।न हि सर्पात् समुत्थाय रज्जुमुपसंपद्य इति च प्रयोगः दृष्टचरः । वाय्वभ्रादिदृष्टान्तवैरूप्यञ्चस्पष्टमेव । किञ्च निर्विशेषब्रह्मभावोऽत्र परज्योतिरुपसंपद्य इत्यनेन विवक्षितश्चेत्सुषुप्तिदशोद्घाटितस्य विशेषविज्ञानाभावप्रयुक्तनष्टप्रायत्वदोषस्य अपरिहृततया तद्दोषपरिहारायमुक्त्यवस्थोपदेशासाङ्गत्यं स्यात् इत्यास्तां तावत् ॥
View Verse
प्र.-स उत्तमः पुरुषः । स तत्र पर्येति । सः उपसंपदनीयः उत्तमः पुरुषःइत्यर्थः । ‘उत्तमः पुरुषस्त्वन्यः’ (भ.गी.१५-१७) इति भगवतः एवोत्तमपुरुषत्वेनउपसम्पदनकर्तरि उत्तमपुरुषत्वस्य बाधितत्वात्, स तत्र पर्येति इत्युत्तरवाक्यस्वारस्य-भङ्गप्रसङ्गाच्च । सः उपसत्ता, तत्र परमात्मनि ‘पर्येति‘ । तं परितोऽनुभवति ।यद्वा अनुसञ्चरति इत्यर्थः । ‘कामरूप्यनुसञ्चरन्’ (तै.उ.भृ.१५), ‘यत्र यत्र धाता गच्छति’इति हि श्रुत्यन्तरम् । जक्षत् इति । यथेष्टं भोगान् अवाप्नोति इत्यर्थः । नोपजनं स्मरत्रिदंशरीरम् – स्त्रीपुंसयोः अन्योन्योपगमेन जातम् इत्युपजनत्वं शरीरस्य; तेन च अपुरुषार्थत्वम्उच्यते । अथवा उपजनं – जनानां बन्धुजनानां समीपे शयितम् ‘कुणपम्’ इत्यर्थः ।
यद्यपि मुक्तः सर्वज्ञत्वात् त्यक्तमपि शरीरम् अनुभवत्येव – तथाऽपि अब्रह्मात्मकयादुःखरूपत्वेन अनुभूतं शरीरं न मुक्तिदशायां तथाऽनुभवतीत्यर्थः । आत्मनः अशरीरस्वभावत्वेप्राक्छरीरसम्बन्धः किन्निबन्धनः इत्यत्राह स यथा इत्यादि । यथा आचरणे शकटे,प्रयोग्यः युग्यः अश्वः बलीवर्दः वा पाशेन युक्तः भवति, एवमेवायं प्राणः – प्राणसहचरःप्रत्यगात्मा संसारदशायां कर्मपाशेन युक्तः भवतीत्यर्थः । अनेन युग्यशकटदृष्टान्तेनदेहात्मनोः व्यतिरेकः दृढीकृतः भवति ॥
View Verse
प्र. अथ इन्द्रियव्यतिरेकं प्रपञ्चयति – अथ इति । आकाशं प्रकाशम् आलोकादि,अथवा प्रकाश्यमानत्वात् आकाशं रूपम् । ततश्च अयमर्थः – यस्मिन्नुपकरणत्वेनअनुविषण्णम् निबद्धं चक्षुः आकाशं आलोकं रूपं वा प्रकाशयतीति शेषः । यद्वा –आकाशं रूपादिप्रकाशकमित्यर्थः । सः चाक्षुषः चक्षुरुपकरणकः पुरुषः आत्माइत्यर्थः । चक्षुरुपकरणकम् उद्दिश्य पुरुषशब्देन आत्मत्वं विधीयते । चक्षुस्तु तद्दर्शनायकरणमात्रम् इत्यर्थः । ततश्च चक्षुरादीनां रूपादीनाम् आत्मनश्च करणत्व-ज्ञेयत्व-ज्ञातृत्वप्रदर्शनमुखेन शरीरेन्द्रियेभ्यः व्यतिरेकः उपपादितः भवति । अथ इति ।गन्धग्रहणकरणं घ्राणम्, ज्ञाता तु आत्मा इत्यर्थः । अनेन घ्राणेन्द्रियव्यतिरेकः उक्तःभवति । अथ इति स्पष्टम् ॥
View Verse
प्र.-अथ इति । सकलेन्द्रियविषयमननसाधनत्वात् मनः दिव्यं चक्षुः उच्यते ।शिष्टं स्पष्टम् । स इत्यादि । स एषः उक्तरीत्या शरीरेन्द्रियग्रामविलक्षणः आत्माविधूतकर्मनिमित्तशरीरेन्द्रियः पुरुषः मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन चक्षुषा ज्ञानेनपूर्वोक्तब्रह्मलोकशब्दितदहराकाशनिष्ठान् सर्वान् कामान् अनुभवन् मोदते इत्यर्थः ॥ ५ ॥
तं वा एतम् इत्यादि । एतादृशात्मस्वरूपस्य प्रजापतिना मघवते उपदिष्टत्वात्देवाः सर्वे मघवतः एतम् आत्मानम् उपश्रुत्य तमेव उपासते । अतः तेषांसर्वलोक-सर्वकामाप्त्युपलक्षितब्रह्मानुभवः भवति । असुराणां तु न तथेति ‘भावः’ । ससर्वाँश्च इत्यादि । अद्यत्वेऽपि मनुष्याणामपि तमात्मानं श्रुत्वा उपासीनानां सर्वलोक-सर्वकामावाप्तिः भवति इत्यर्थः । अत्र किं प्रमाणम् इत्यत्राह – इति ह इत्यादि । अत्रप्रत्यगात्मविद्यायाः ब्रह्मविद्याङ्गत्वेन अङ्गिभूतब्रह्मविद्याफलमेव तदङ्गभूतप्रत्यगात्मविद्यायांस्तुत्यर्थं निर्दिश्यते इति द्रष्टव्यम् । उक्तञ्च भगवता भाष्यकृता, ‘प्रजापतिवाक्ये चमुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितया उक्तम् । ब्रह्मप्रेप्सोर्हि जीवात्मनःस्वस्वरूपञ्च ज्ञातव्यमेव । स्वयमपि कल्याणगुणः एव सन् अनवधिकातिशयासंख्येय-कल्याणगुणगणं परं ब्रह्म अनुभविष्यति इति ब्रह्मोपासनफलान्तर्गतत्वात्, सर्वाँश्चलोकानाप्नोति सर्वांश्च कामान् इति प्रजापतिवाक्ये कीर्त्यमानं फलं दहरविद्याफलमेव’ इति ।ननु प्रजापतिविद्यायाः दहरविद्याङ्गत्वे दहरब्रह्मविद्याधिकृताय एव उपदेष्टच्या स्यात्,उपकोसलविद्याङ्ग भूताग्निशिविद्यावत् । प्रकृते च दहरनहाविद्याविधुराय इन्द्रायउपदिश्यमानायाः प्रत्यगात्मविषयकप्रजापतिविद्यायाः कथं विद्यान्तरशेषत्वमिति चेत् .न । प्रजापतिवाक्यस्य ‘एष संप्रसादः’ इति दहरविद्यावाक्यान्तर्गतसंप्रसादशब्दार्थशोधनार्थप्रवृत्ततया तदेकवाक्यत्वेन तादयें सिद्धे इन्द्रस्यापि पश्चात् दहरविद्या उपदिष्टा इत्येवअवगन्तव्यत्वेन अदोषात् ।
ननु प्रजापतिविद्यायाः प्रकरणात् दहरविद्याशेषत्वे सर्वब्रह्मविद्याशेषत्वं न स्यात् ;विद्यान्तरशेषत्वे प्रमाणाभावात् । न चेष्टापत्तिः । ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’(ब्र.सू.४-१-३) इत्यत्र प्रत्यगात्मनः परमात्मात्मकत्वेन अनुसन्धानस्य सकलब्रह्मविद्याङ्गत्वेनउक्तत्वात् । ‘प्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ (ब्र.सू.१-४-६) इति सूत्रे उपास्यस्वरूपवत्उपासकस्वरूपस्यापि ज्ञातव्यत्वोक्तेश्च । ‘आत्मेति तूपगच्छन्ति’ (ब्र.सू.४-१-३)इत्यधिकरणसिद्धं जीवोपास्यत्वम् अङ्गीकृत्य किं कर्तृत्वादिविशिष्टं सांसारिकस्वरूपम्अनुसन्धेयम् ? उत प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणः सांसारिकरूपव्यतिरेकःवा इति विशये – कर्तृत्वादिविशिष्टमेव रूपम् अनुसन्धेयम् । शरीरे वर्तमानस्य उपासितुःआत्मनः तथाभावादित्येके मन्यन्ते ‘इति’ ‘एक आत्मनः शरीरे भावात्’ (ब्र.सू.३-३-५१)इति सूत्रेण पूर्वपक्षं कृत्वा प्रजापतिवाक्योदित-अपहतपाप्मत्वादिलक्षणः सांसारिक-रूपव्यतिरेकः एव अनुसन्धेयः । तथा उपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपफलप्राप्तेःभावित्वात् इति ‘व्यतिरेकस्तद्भावभावित्वात्’ (ब्र.सू.३-३-५२) इति सूत्रेण सिद्धान्तितत्वादितिचेत् -न । यथा विद्याविशेषप्रकरणश्रुतानां सत्यत्व-ज्ञानत्वादिस्वरूपनिरूपकधर्माणां‘आनन्दादयः प्रधानस्य’ (ब्र.सू.३-३-११) इत्यधिकरणोक्तन्यायेन सर्वब्रह्मविद्यापेक्षित-ब्रह्मस्वरूपप्रतिपत्त्युपयोगितया सामर्थ्यरूपात् लिङ्गात् प्रकरणभङ्गेन सर्वब्रह्मविद्यासाधारण्यम्आश्रीयते । यथा वा, ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ.उ.६-४-२२) इतिविद्याविशेषप्रकरणश्रुतानां वेदानुवचनादीनां सर्वविद्यापेक्षितचित्तनैर्मल्योपयोगित्व-लक्षणसामर्थ्यरूपलिङ्गवशेन सर्वविद्यासाधारण्यम्, एवमिहापि ब्रह्मप्राप्तिपूर्वकअपहतपाप्मत्वादिगुणाष्टकविशिष्टस्वात्माविर्भावलक्षणमोक्षरूपफलस्य तत्क्रतुन्यायेनतादृशस्वात्मोपासनसाध्यत्वेन प्रजापतिवाक्योदितप्रत्यगात्मविद्यायाः सर्वब्रह्मविद्याङ्गत्वसिद्धेः ।दहरविद्यायाः परमात्मपरत्वञ्च दहराधिकरणे स्थितम् । तस्मिंश्च अधिकरणे ‘दहरउत्तरेभ्यः’ (ब्र.सू. १-३-१३), ‘गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च’ (ब्र.सू.१-३-१४), ‘धृतेश्चमहिम्नोऽस्यास्मिन्नुपलब्धेः’ (ब्र.सू.१-३-१५), ‘प्रसिद्धेश्च’ (ब्र.सू.१-३-१६), ‘अल्पश्रुतेरितिचेत् तदुक्तम्’ (अ.सू.१-३-२०) ‘इतरपरामर्शात् स इति चेन्नासम्भवात्’ (ब्र.सू.१-३-१७),‘अन्यार्थश्च परामर्शः’ (ब्र.सू.१-३-१९), ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू.१-३-१८),‘अनुकृतेस्तस्य च’ (ब्र.सू.१-३-२१) ‘अपि स्मर्यते’ (ब्र.सू.१-३-२२) इति दश सूत्राणि । तत्रआद्यानि सप्त सूत्राणि स्वावसर एव व्याख्यातानि । ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’‘अनुकृतेस्तस्य च, ‘अपि स्मर्यते’ इति त्रीणि सूत्राणि अव्याख्यातानि व्याख्यास्यन्ते ।उत्तरात् प्रजापतिवाक्यात् जीवस्यापि अपहतपाप्मत्वादिगुणयोगावसायात् अपहतपाप्मत्वादिगुणैःदहराकाशः परमात्मेति न शक्यं निर्णेतुम् इति चेत् – तत्राह – आविर्भूतस्वरूपस्तु इति ।पूर्वमनृततिरोहितापहतपाप्मत्वादिगुणकस्वस्वरूपः पश्चात् विमुक्तकर्मबन्धः शरीरात्समुत्थितः परञ्ज्योतिरुपसम्पन्नः आविर्भूतस्वरूपः सन् अपहतपाप्मत्वादिगुणविशिष्टःतत्र प्रजापतिवाक्ये अभिधीयते । दहरवाक्ये तु अतिरोहितस्वभावापहतपाप्मत्वादिविशिष्टःएव दहराकाशः प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्य संभावनीयाःसेतुत्वविधरणत्वादयः, सत्यशब्दनिर्वचनावगतं चेतनाचेतनयोः नियन्तृत्वम्, दहराकाशस्यपरब्रह्मतां साधयन्ति । सेतुत्वसर्वलोकविधरणत्वादयः न मुक्तानां नित्यमुक्तानां वा सम्भवन्तीति‘जगद्व्यापारवर्जम्’ (ब्र.सू.४-४-१७) इत्यत्र स्थितम् । अत एव नित्यानां नित्याविर्भूतापह-तपाप्मत्वादि’गुणाष्टकत्वात् तेषु अतिप्रसक्तस्य नित्याविर्भूतापहतपाप्मत्वादिमत्त्वस्यकथं ब्रह्मलिङ्गत्वमिति शङ्काऽपि निरस्ता । सेतुत्वादीनां तदसम्भावितधर्माणाम् अत्रश्रवणात् ।
ननु य एषोऽक्षिणि पुरुषो दृश्यते’ (छां.उ.८-७-४) इति प्रजापतिविद्यागतवाक्यान्यपिब्रह्मपराण्येव भवन्तु । वाक्यत्रयेऽपि, ‘एतदमृतमभयमेतत् ब्रह्म’ (छां.उ.८-७-४) इति श्रवणात् ,अक्षिवाक्ये उपकोसलविद्योपास्यप्रत्यभिज्ञानात्, ‘य एष स्वप्ने महीयमानश्चरति’ (छां.उ.८-८-१)इति वाक्येऽपि स्वाप्नपदार्थस्रष्टत्वेन महीयमानस्य परमात्मनः एव प्रतिपादनसंभवात्, सुषुप्तिपर्यायेऽपियत्र यस्मिन् आधारे समस्तः सुप्तः भवतीति सुषुप्त्याधारब्रह्मपरत्वोपपत्तेः इति चेत् – उच्यते ।स्वप्नपर्याये ‘घ्रन्ति त्वेवैनं विच्छादयन्तीवाप्रियवित्तेव भवत्यपि रोदितीव’ (छां.उ.८-१०-४) इतिइन्द्रेण तस्य हन्यमानत्व-द्राव्यमाणत्व-बन्धुजनमरणाद्यप्रियद्रष्टुत्व-रोदितृत्वादिप्रतिभासतःदुष्टत्वस्य उपन्यासात्, सुषुप्तिसम्बन्ध्यात्मोपदेशानन्तरं ‘नाह खल्वयमेवं संप्रत्यात्मानंजानात्ययमहमस्मीति नो एवेमानि भूतानि, विनाशमेवापीतो भवति’ (छां.उ.८-११-२)इति तस्य विशेषज्ञानरहिततया विनष्टप्रायत्वस्य उक्तत्वात्, अभयत्वामृतत्वादीनाञ्चमुक्त्यवस्थाभाविरूपापेक्षया अपि उपपत्तेः जीवविषयत्वमेव द्वितीयतृतीयपर्याययोः । एवंतयोः स्वप्रसुषुप्त्यवस्थावत् जीवपरत्वे स्थिते प्रथमपर्यायस्य जागरावस्थावत् जीवविषयत्वमेवउपपद्यते । एषोऽक्षिणि पुरुषो दृश्यते’ (छां.उ.८-७-४) इत्यस्य दर्शनलिङ्गात्अक्षिणि सन्निहितोऽनुमीयते इत्यर्थकत्वेन जागरावस्थाविषयत्वस्यैव उपपन्नत्वात्उपकोसलविद्यावैषम्यम् । ततश्च प्रजापतिवाक्ये जीवः संसारदशायाम् अनृततिरोहि-तापहतपाप्मत्वादिकः सन् मुक्तिदशायां साधनाधीनतदाविर्भावः प्रतिपाद्यते । दहराकाशेश्रूयमाणं तु अपहतपाप्मत्वादिकं नित्याविर्भूतमेव ग्राह्यम् । नित्याविर्भूतस्य ग्रहणसंभवेतिरोहितत्वेन असत्प्रायस्य साधनाधीनाविर्भावस्य ग्रहणायोगात् ।
ननु स्यादेवं यदि ब्रह्मणः नित्याविर्भूतापहतपाप्मत्वादिमत्त्वं जीवस्य अतथात्वञ्चयदि प्रमाणसिद्धं स्यात् । तदा दहराकाशे श्रूयमाणम् अपहतपाप्मत्वादिकं ब्रह्मगतंनित्याविर्भूतमेव ग्राह्यम् इति शक्यते वक्तुम् । न च तदस्तीति शङ्कमानं प्रत्याह – ‘अनुकृतेस्तस्यच’ (ब्र.सू. १-३-२१) । अनुकृतिः अनुकारः – साम्यम् । तस्य परब्रह्मणः उपासनयातदनुकारः हि जीवस्य श्रूयते – ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’(मु.उ.३-१-३) इति । ‘अपि स्मर्यते’ (ब्र.सू.१-३-२२) ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’(भ.गी. १४-२) इति च स्मर्यते इत्यर्थः । ततश्च तदुपासनासिद्धम् एतस्य ऐश्वर्यम् ।तस्य तु नान्योपासनसिद्धम् ; अपि तु नित्याविर्भूतम् । ततश्च दहरवाक्ये, श्रूयमाणम्अपहतपाप्मत्वादिकं ब्राह्ममेव इति स्थितम् । प्रकृतमनुसरामः ॥ ६ ॥
॥इति द्वादशखण्डभाष्यम् ॥
View Verse
प्र.-श्यामात् इत्यादि । एते च मन्त्राः विद्याङ्गभूताः विद्वद्भिः जप्याः ।परमात्मनः हि त्रिविधम् उपासनमुक्तम्, ‘उपासात्रैविध्यात्” (ब्र.सू.१-१-३२)इत्यत्र, चिच्छबलतया अचिच्छबलतया स्वरूपेण च । तत्र स्वरूपेण अनुसन्धानेज्ञानादिगुणवत् दिव्यविग्रहयोगिताऽपि अनुसन्धेया । तत्सिद्धयर्थमेव हिपुण्डरीकाक्षम् अप्राकृतं वपुः अतिदिश्यते – ‘स यश्चायं पुरुषे यश्चासावादित्यस एकः’ (तै.उ.आन.८) इति । तत्र ‘स यश्चायं पुरुषे’ इत्यानन्दमयम् अनूद्य‘यश्चासावादित्ये’ इति विग्रहातिदेशः इति व्यासार्यैः उपासात्रैविध्यात् इत्यत्रोक्तम् ।वेदार्थसङ्ग्रहे च भगवता भाष्यकृता, ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः’,(छां.उ.१-६-६) ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ (महा.ना.१-८) विद्युद्वर्णात्पुरुषादित्यर्थः । ‘नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा’ (महा.ना.११-१२)मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निशिखास्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा स्वान्तर्निहितनीलतोयदा विद्युदिवाभातीत्यर्थः,इत्युक्तम् । अतः नीलविग्रहवैशिष्टयं सिद्धम् । अत एव हि, ‘श्यामा एकरूपा भवन्ति,एवमिव हि प्रजापतिः समृद्ध्या’ इति प्रजापतिशब्दितस्य भगवतः श्यामरूपत्वमुक्तम् ।तस्मात् श्यामः इति विग्रहविशिष्टस्वरूपमुच्यते । ततश्च श्यामात् इति ल्यब्लोपे पञ्चमीश्यामविग्रहविशिष्टं स्वरूपं प्रपद्य – स्वरूपमुपास्य, शबलं – चिदचिद्विशिष्टं, प्रपद्ये .उपासे । शबलमुपास्य श्याममुपासे इत्यर्थः । ततश्च निरन्तरं त्रैविध्येन उपासे इत्यर्थः । अश्वइव इत्यादि । अश्वः रोमाणीव स्वयं पापं विधूय – विधूय इत्यनेन पापत्यागः उच्यते -राहुमुखप्रमुक्तश्चन्द्र इव शरीरात् विमुक्तः । अकृतं – नित्यं ‘भगवल्लोकं’, कृतात्मा .कृतार्थात्मा सन् अभिसंभवामि – प्राप्नुवामि इत्यर्थः । अभिसंभवामीति अभिसंभवामीतिद्विरुक्तिः खण्डसमाप्त्यर्था ॥
॥ इति प्रयोदशखण्डभाष्यम् ॥
View Verse
प्र–आकाशो वै इति । अत्र, आकाशो ह वै नामरूपयोर्निवहितेत्यपिपालान्तरे प्रश्व्यम् । उभयत्रापि अयमर्थः । श्रुतिषु आकाशः इति प्रसिद्धः नामरूपयोःनिर्वहिता ‘कर्ता’ । यत् – आकाशशब्दितम् । विधेयबह्याभिप्रायेण नपुंसकत्वम् । ते –नामरूपे, अन्तरा मध्ये वर्तमानम् । ताभ्याम् अस्पृष्टमित्यर्थः । ब्रह्मामृतात्मशब्दानांपूर्ववदेवार्थः ।इदञ्च वाक्ये समन्वयाध्याये चिन्तितम् । तत्र ‘आकाशो ह वै नामरूपयोर्निर्वहिता’इति नामरूपवोढृत्वश्रवणात्, नामरूपवोढृत्वस्य परमात्मनि ‘अनेन जीवेनात्मनाऽनुप्रविश्यनामरूपे व्याकरवाणि’ (छां.उ.६-३-२) इति जीवद्वारकतया एव उपपाद्यतया नामरूपवोढृत्वस्यजीवे एव स्वरसत्वात्, ‘एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसंपद्य स्वेनरूपेणाभिनिष्पद्यते’ (छो.उ.८-३-४) इति वाक्यप्रतिपाद्यस्य, ‘नामरूपयोः निर्वहिता तेयदन्तरा’ इति वाक्ये प्रत्यभिज्ञानात्, पूर्वं निरूढनामरूपः एव पश्चाद्विमुक्त इह प्रतिपाद्यते ।आकाशशब्दस्यापि यौगिक्या वृत्त्या मुक्तात्मनि संभवात् इत्येवं पूर्वपक्षे प्राप्ते – उच्यते‘आकाशोऽर्थान्तरत्वादिव्यपदेशात्’ (ब.सू.१-३-४२) । आकाशः परं ब्रह्म, अर्थान्तरत्वादि-व्यपदेशात् , ‘नामरूपयोनिर्वहिता’ इति जीवापेक्षया, अर्थान्तरत्वस्य भेदकधर्मस्य व्यपदेशात् ।न हि नितरां वोढृत्वं, निवोढृत्वं । रूढ्या निर्वोढृशब्दस्य कर्तृत्वाभिधायित्वात् । ते यदन्तरा’इति नामरूपास्पृष्टत्वकथनाच्च । नामरूपास्पृष्टत्वे सति नामरूपकर्तृत्वस्य बद्धे मुक्ते वाअसंभवात्, मुक्तस्यापि ‘जगद्व्यापारवर्जम्’ (ब्र.सू.४-४-१७) इति जगद्व्यापारराहित्यस्यप्रतिपादितत्वात् । आदिशब्देन अमृतत्वाभयत्वादीनां सङ्ग्रहः ।
ननु प्रत्यगात्मनोऽर्थान्तरत्वव्यपदेशात् इति न वक्तुं युक्तम् । शुद्धावस्थः एव हिप्रत्यगात्मा, परमात्मा परं ब्रह्मेति च व्यपदिश्यते । तत्राह – ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’(ब्र.सू.१-३-४३)। वाजसनेयके, ‘कतम आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ.उ.६-३-७)इति प्रकृतस्य प्रत्यगात्मनः सुषुप्तौ उत्क्रान्तौ च ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यंकिञ्चन वेद, नान्तरम्’ (बृ.उ.६-३-२१) इति, ‘प्राज्ञेनात्मना अन्वारूढ उत्सर्जन् याति’(बृ.उ.६-३-३५) इति च प्राज्ञेन परिष्वङ्गान्वारोहौ आम्नायेते । जीवस्यैव शुद्धावस्थस्यपरमात्मत्वे परिष्वङ्गान्वारोहौ नोपपद्येयाताम् । न ह्यभेदे तो संभवतः ।‘पत्यादिशब्देभ्यः’ (ब्र.सू.१-३-४४) ‘सर्वस्य वशी सर्वस्येशानः । सर्वस्याधिपतिःस न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् । एष सर्वेश्वरः, एष भूताधिपतिः, एष भूतपालः, एष सेतुर्विधरणः एषां लोकानामसंभेदाय’ (बृ.उ.६-४-२२) इतिप्रत्यगात्मासंभावितानां पतित्वादिधर्माणां श्रवणात् नायं मुक्तात्मा इति स्थितम् ।प्रकृतमनुसरामः ।
प्रजापतेः इति । प्रजापतेः परमात्मनः, **सभां–**स्थानं वेश्म प्रपद्ये।‘प्रभुविमितं हिरण्मयम्’ (छां.उ.८-५-३) इति दहरविद्यायां निर्दिष्टं वेश्म प्रपद्ये इत्यर्थः ॥नचात्र प्रजापतिशब्दः कार्यहिरण्यगर्भविषयः । ‘न च कार्ये प्रत्यभिसन्धिः’ (ब्र.सू.४-३-१३)इति सूत्रकृतैव निरस्तत्वात् । भाष्यकृता च, ‘न चायं प्रत्यभिसन्धिः कार्यहिरण्यगर्भ,अपि तु परस्मिन्नेव ब्रह्मणि, ‘यशोऽहं भवामि ब्राह्मणानाम्’ इत्येतस्य अभिसन्धातुःसर्वाविद्याविमोकपूर्वक-सर्वात्मभावाभिसन्धानात्, –‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य ।धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि’ ॥ (छां.उ.८-१३-१)इति अभिसंभाव्यब्रह्मलोकस्य अकृतत्वश्रवणात्, सर्वबन्धविनिर्मोकस्य च साक्षाच्छ्रवणात्इति भाषितम् । यशो इति । अत्र यशश्शब्देन ‘आत्मा’ उच्यते । ब्राह्मणादीनाम्आत्माऽस्मि इत्यर्थः । अत्र अहम् इति शब्दः स्वान्तर्यामिपरमात्मपरः ।ननु तव ब्राह्मणादीन् प्रति कथं यशश्शब्दितमात्मत्वम् इत्यत्राह यशः इति ।अहं यशः – यशोरूपं परमात्मानम् आत्मतया अहन्त्वेन प्राप्तवानस्मि, साक्षात्कृतवानस्मि ।अतः सोऽहं परमात्मरूपोऽहं यशसां – जीवात्मनां, यशः आत्माऽस्मि इत्यर्थः ।श्वेतमदत्कमदत्कं श्वेतं लिन्दु माभिगाम् । श्वेतम् – शुक्लधातुम्, अदत्कं दन्तहीनंश्वेतम् । अत्र श्वेतशब्देन लक्षणया सत्त्वगुणः उच्यते । तस्य अदत्कं भक्षयितृ ।चरमधातोः सत्त्वगुणतत्कार्यज्ञानादिप्रमोषकत्वात् तद्भक्षकत्वम् । तादृशं चरमधातुमदत्कंभक्षयितृ । लिन्दु स्त्रीव्यञ्जनं, माभिगाम् – न प्राप्नुयाम् । चरमधात्वाधारयोनिप्रवेशःमाभूदिति, जन्म माभूदिति यावत् । लिन्दु माभिगाम् – लिन्दु माभिगाम् इतिद्विर्वचनं जप्यमन्त्रपरिसमाप्त्यर्थम् ॥
॥ इति चतुर्दशखण्डभाष्यम् ॥
View Verse
प्र.-तद्धैतद् ब्रह्मा इति । एतत् – ब्रह्मविज्ञानम्, ब्रह्मा हिरण्यगर्भः,प्रजापतये – कश्यपाय इत्यर्थः । शिष्टं स्पष्टम् ।विद्याङ्गभूततया कर्म अनुष्ठातव्यम् इत्येतत् प्रस्तौति – आचार्य इति । यथाविधानं .विधिमनतिक्रम्य । गुरोः कर्मातिशेषेण – कर्मावशिष्टकालेन । गुरुशुश्रूषानवरुद्धेनकालेन अधीत्य इति योजना । व्यासार्यैस्तु – पुरुषार्थाधिकरणे, ‘अतिशेषेण निश्शेषम् इत्यर्थः’इति व्याख्यातम् । तेषाम् अयमाशयः ‘ब्रह्मचारी वेदमधीत्यो पन्याहत्य’ गुरवे,अनुज्ञातो दारान् कुर्वीत । विद्यान्ते गुरुमर्थेन निमन्त्र्य कृतानुज्ञातस्य वा स्नानम्’ इत्यादि-स्मृत्यनुसारात् ः ‘आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ‘(तै.उ.शि.१९) इत्यादिश्रुत्यनुसाराञ्च, गुरोः यथाविधानं आचार्यस्य नियमनम् अनतिलङ्घ्य कर्तव्यं कर्म अतिशेषेणअतिमर्वादम् इत्यादौ अते; मर्यादाऽभावे वृत्तेः दर्शनात् अतिः अर्थाभायें वर्तते । ततश्चअतिशेषेण – अशेषेण, अभिसमावृत्य – निर्वर्त्य इत्येव अन्वयः । न तु अतिशेषेणइत्यस्य अधीत्येति पूर्वेणान्वयः । तस्य व्यवहितत्वात् निराकांक्षत्वाच्च । न च ‘गुरोः,कर्मशेषेण जपेत्’ (गौ,ध.सू.१-३-६) इति गौतमस्मृत्यैकरूप्यात् कर्मातिशेषशब्दस्यापिकर्मातिशिष्ट कालपरत्वं वक्तव्यमिति वाच्यम्, शेषातिशेषशब्दयोः भिन्नार्थत्वेनतत्प्रत्यभिज्ञानाभावादिति । अभिसमावृत्य – इति । अभिसमावृत्य समावर्तनं कृत्या,गुरुकुलात् निवृत्य इत्यर्थः । न्यायतः दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्यविहितकर्मनिष्ठः,इत्यर्थः । ‘शुचौ देशे स्वाध्यायमधीयानः’ इत्यत्र स्वाध्यायमिति नित्यकर्मणामपि उपलक्षणम्धार्मिकान् विदधत् – पुत्रशिष्यादीन् धर्मे नियुञ्जानः । आत्मनि इति । अनात्मविषयेभ्यःइन्द्रियाणि निगृह्य शास्त्रीयर्हिसाव्यतिरिक्ता हिंसाम् अकुर्वाणः इत्यर्थः । न च अशुद्धमितिचेन्न शब्दात्’ (ब्र.सू.३-१-२५) इति सूत्रे क्रत्वर्थपशुहिंसायाः हिंसात्वाभावस्य उक्तत्वात्,अन्यत्र तीर्थभ्यः इति व्यर्थमिति वाच्यम् । ‘न वा उ एतन्म्रियसे न रिष्यसि’ (तै.ब्रा.३-७-१२)इति मन्त्रलिङ्गात् तस्य हिंसात्वाभावेऽपि गृहस्थानाम् अवर्जनीयतुलस्याहरणादिहिंसायाःहिंसाधात्वर्थत्वसंभवेन तत्पर्युदासार्थम् अन्यत्र तीर्थेभ्यः इत्यस्य आवश्यकत्यादितिद्रष्टव्यम् ।स खल्वेवम् इति । ‘आप्रयाणात् तत्रापि हि दृष्टम्’ (ब्र.सू.४-१-१२) इत्यत्रइदमपवर्गसाधनम् उपासनम् एकस्मिन्नेव अहनि कार्यम्, शास्त्रार्थस्य तावतैव समाप्तत्वात्इति पूर्वपक्षं कृत्वा आप्रयाणात् – आमरणात् अनुवर्तनीयम् । आमरणं सर्वस्मिन्काले ‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते’ इत्युपासनस्य दृष्टत्वात् ।अतः आप्रयाणं कर्तव्यमिति स्थितम् ।‘सहकार्यन्तरविधिः’ (ब्र.सू. ३-४-४६) इत्यधिकरणे, – छान्दोग्ये “अभिसमावृत्यकुटुम्बे शुचौ देशे इत्यारभ्य स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न चपुनरावर्तते’ इति ब्रह्मविदः यावदायुषं गृहस्थधर्मेण स्थितिदर्शनात् आश्रमान्तरेषु नब्रह्मविद्या ‘अस्तीत्याशङ्क्य’ सर्वेषु आश्रमेषु विद्यायाः प्रमाणप्रतिपन्नत्वात् गृहस्थधर्मेणउपसंहारः, आश्रमान्तरधर्माणामपि उपलक्षणार्थः इति ‘कृत्स्नभावात्तु गृहिणोपसंहारः’(ब्र.सू.३-४-४७) इति सूत्रेण समर्थितम् ।
‘अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’ (ब्र.सू.४-४-२२) इत्यत्र, ‘स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते’ इति शब्दात् मुक्तस्य पुनःप्रकृतिवश्यतालक्षणा आवृत्तिः नास्तीत्युक्तम् । तत्र पुनरावृत्तौ हि न मुक्तेच्छा हेतुः ।अनवधिकातिशयानन्दरूपं ब्रह्म अनुभवतः ‘प्राकृतभोगेच्छायाः’ असंभवात् । नापि’परमपुरुषेच्छावशात् पुनरावृत्तिः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । ज्ञानीत्वात्मैव मे मतम्’ (भ.गी.७-१८), इत्युक्तरीत्या ‘परमप्रियं ज्ञानिनं प्राप्य आत्मानंकृतार्थं मन्यमानस्य परमपुरुषस्य तत्त्यागेच्छाया असंभवात् । नापि कर्मवशात् पुनरावृत्तिः ।उच्छिन्नकर्मबन्धत्वेन कर्माधीनायाः अपि पुनरावृत्तेः असंभवादिति’ भाष्ये प्रतिपादितम् । न चपुनरावर्तते न च पुनरावर्तते इति द्विरुक्तिः ब्रह्मविद्यायाः साङ्गायाः परिसमाप्त्यर्था ॥
View Verse
प्र. आप्यायन्तु इति । अध्ययनजपादौ शान्तिपाठार्थोऽयं मन्त्रः । मदङ्गानिबागादिभिः सह आप्यायितानि भवन्तु इत्यर्थः । सर्वं इति । सर्वां ब्रह्मप्रतिपादिकाम्उपनिषदं प्रति, ब्रह्मविषये च नास्तिक्यबुद्धि मा कार्षम् इत्यर्थः । मा मा ब्रह्मनिराकरोत् । मा मां ब्रह्म निराकुर्यात् अनुगृह्णातु इत्यर्थः । अनिराकरणम् इति ।परस्परम् अनिराकरणमस्तु इत्यर्थः । तदात्मनि इति’ । आत्मज्ञाननिरतस्य ये धर्माःशान्तिदान्त्यादयः उपनिषत्सु प्रसिद्धाः, ते सर्वे मयि सन्तु इत्यर्थः । ते मयि सन्तुतेमयि सन्तु इति द्विरुक्तिः उपनिषत्समाप्त्यर्था ॥
क्षेमाय यः करुणया क्षितिनिर्जराणांभूमावजृम्भयत भाष्यसुधामुदारः ।वामागमाध्वगवदावदतूलवातोरामानुजः स मुनिराद्रियतां मदुक्तिम् ॥
॥ इति श्रीरङ्गरामानुजमुनिविरचिता प्रकाशिका समाप्ता ॥
॥ इति छान्दोग्योपनिषद्भाष्यं संपूर्णम् ॥
View Verse