Paramapuruṣa Samhitā
By Unknown
Composed in Unknown
10 chapters • 840 verses
Filter Content
Display Mode
Chapter - 1
श्रीमत्पांचरात्र दिव्यागमांतर्गत
श्रीपरमपुरुष संहिता.
प्रथमाध्यायः शास्त्रावतरणं.
मंगलम्
श्लो।। श्रीवैकुंठनिवासाय श्रीनिवासाय वेधसे।
शंखचक्रगदापद्म धारिणे वनमालिने।। 1
भक्ताभीष्टप्रदाताय भव्यरूपायशार्जिणे।
पतितावन दीक्षाय परमात्मस्वरूपिणे।। 2
सृष्टिस्थित्यंतरूपाय सुरेशाय परायच।
मत्स्याद्यनंतरूपाय(मत्स्यकच्चादिरूपाय)माथवायनमोनमः।। 3
भागीरधीतीरवर्णनं
एकदानारदोमौनि(प्यटन् भुवन त्रयं) स्संचरन् भुवनत्रयं।
नानातरुलतागुल्मैः नानामृगसमाकुलैः।। 4
नानापुष्पफलैश्चैव नानाजाति विहंगमैः।
निषेवितंसदारम्यं भागीरध्यास्तटंमहत्।। 5
तत्रनारदागमनं-
मुनिमुख्यैस्चमोपेतं महापातकनाशनं।
गत्वा(तत्रतु सुस्नात्वा)स्नात्वामहभक्त्याध्यात्वा(तुमथुविद्विषं)चैवजनार्दनं।। 6
तत्रस्थान् संयमींद्रांच नमस्कृत्ययधाविधि।
तानुवाच मुनींद्रस्तु भक्तिनम्रस्त्विदंवचः।। 7
नारदवचनं-
भोनंयमिवरायूयं किमर्धमिहचागताः।
किं कुर्वंत्यत्रमे सर्वं विदतां विस्तरेणच।। 8
एवं संप्रार्धितास्सर्वे ऋषयोहृष्टचेतसाः।
सुरर्षि प्रवरंवीक्ष्य(नमस्कृत्य पुनःपुनः) प्रणम्यचमुहुर्मुहुः।। 9
तेतमूचुरिदंवाक्यं वक्ष्यमाणेन वर्त्मना।
भगवन् सर्वधर्मज्ञ नारदद्विज(सत्तम)पुंगव।। 10
ऋषि प्रतिवचनं-
वयंपवित्रितास्सर्वे भवद्दर्शनहेतुना।
(किंत्वेतदाश्रमंचैव)किंत्वस्मदाश्रमंचैतत् भवत्पादाब्जरेणुभिः।। 11
परमं पावनं चाभू दस्मत्तप फलंतुत्वं।
भावितास्सत्वमेतद्वै महत्मन् मुनिशेखर।। 12
(आस्माभिस्समधीतान्स्यु स्सर्वे वेदाश्चभूतले)अस्माभिस्तुपुरासर्वे वेदाधीतास्समग्रतः।
तधैवचतदंगानि शास्त्राण्यन्यानि विस्तरात्।। 13
किंत्व स्माकंब्रह्मनिष्ठा नकेनापिच प्रापिता।
तस्मात्तद्ञातु(कामेन)कामास्तु इहागत्यसुदुस्तरं।। 14
तसस्तप्तं चिरंतेन शंकरोप्रीतमानसः।
पार्वत्यासहितोदेवः प्रत्यक्षमभवन्मुने।। 15
तस्यवैकृपयास्माकं एकायनमहाश्रुतेः।
विज्ञानं प्रापितोकिंचि त्तस्याचरण(दीक्षया)दीक्षिताः।। 16
अत्रभागीरधीतीरे कृतावासावयंमुने
किंत्वस्माकमिदानींच भगवच्छास्त्रचोदिते। 17
हरेरर्चादिकेकेचि त्संशयाः परिवर्तते।
तेषांनिवारणार्धाय त्वमेवार्हसिनारद।। 18
एकायन शृतिप्रोक्त सर्वधर्म विदांभुवि।
त्वत्समोनास्ति कोप्यस्मिन् लोकेवादिविचापिवा।। 19
तस्माच्छ्रीमत्सांचरात्र शास्त्रोक्तेनैववर्त्मना।
अस्मत्संशयजालंतु(विनिवार्यकृपांकुरु)परिहृत्यदयांकुरु।। 20
पुनरपिनारद वचनं
इति संप्रार्धितान् मौनीन् दृष्ट्यातुकरुणानिधिः।
नारदो परमैकांति रित्येवंचाभ्यभाषत।। 21
शास्त्रावतरणं
शॄयतां(मद्यमुनःयो)मुन यस्सर्वे यदुष्माभिरपेक्षितं।
भगवच्छास्त्रराहस्यं यधाशक्तिवदाम्यहं।। 22
पुरात्वेतन्महाशास्त्रं लोकानुग्रहकाम्यया।
ममपित्राविधात्रातु वैकुंठनगरे श्रुतं।। 23
श्रीमन्नारायणोशौरि र्हरिःपरमपूरुषः।
पंचरात्रिषु तत्सर्वं ब्रह्मणेप्य वदत्स्वयं।। 24
तदन्वेतन्मयाधीतं समग्रंममपितृणा।
सरहस्यंच श्रीविष्णो राराधन परं परं।। 25
एतद्ज्ञात्वाभवांबोधि निमग्नामानवाभुवि।
शाश्वतं श्रीहरेस्ध्सानं प्राप्नुवंतिन संशयः।। 26
इत्येवंवदतंधीरं नारदंमुनिसत्तमं।
वीक्ष्यहृष्टमनांसस्तु ऋषयोभगवत्प्रियाः।। 27
तमाश्रमेचोपविश्य अर्घ्यपाद्यादि(कैल्लुभैः) पूर्वकं।
नमभ्यर्च्यफलादीनि कंदमूल मधूनिच।। 28
दत्वासंतृप्त्यविधिव त्तस्यसावीप्यभूतले।
तेचोपविश्यहृदये ध्यायन्(तुमधुविद्विषं)देवंजनार्दनं।। 29
संशयान् पृच्छतुंचैक मेकमा रेभिरेतधा
इति श्रीपांचरात्र-रहस्यसारे परमपुरुष-संहितायां
शास्त्रावतरणं नाम प्रथमोऽध्यायः
Chapter - 2
श्रीमत्पांचरात्रागमांतर्गत-श्री-परमपुरुष संहिता
द्वितीयाथ्यायः
अर्चक परिचारकादि संख्यानिर्णयं.
ऋषयः-
ऋषि प्रश्न
श्लो।। भगवन् मुनिशार्दूल पांचरात्रार्धकोविद
अज्ञापयार्चकादीनां संख्यानिर्णयमुत्तमं।। 1
परिचारकवर्गेतु विभेदःकिमुदीरितः
तेषांतुनिर्णयंकस्मिन् कालेकर्तव्यमुत्तमं।। 2
तत्कुटुंबाभि वृद्ध्यर्धमुपाथिः किमुदीरतः
(विस्तरेणैव सर्वज्ञ वदत्वंवदतांवर)निस्तरेणैव तेषांतु लक्षणानिचब्रूहिनः।। 3
नारदप्रतिवचन
श्रीनारदः-
प्रतिष्ठादिवसेह्यर्चकादिनिर्णयं कार्यं
शृणुध्वंमुनयस्सर्वे भक्तियुक्तैस्तुमानसैः
कल्पितेतुहरेर्धाम्नि राजाराष्ट्राभिवृद्धये।। 4
आचंद्रार्कमविच्छिन्न पूजनार्थंमधुद्विषः
निर्णीतव्यार्चकाश्चान्याः प्रतिष्ठादिवसेवहि।। 5
अर्चकलक्षणं
वेदवेदांग तत्वज्ञान् सुशीलान् भक्तिपारगान्
जपहोमादि निरतान् युवकान्सत्यवादिनः।। 6
पापभीतियुतान्चैव पंचसंस्कारसंयुतान्
श्रीवैष्णवान् दीक्षितान्च पांच(रात्रार्धकोविदान्)रात्रविशारदान्।। 7
अन्यतंत्रविदश्चैव स्वार्थत्यागे सुशिक्षितान्
सर्वावयव संपूर्णान् सदारोग्यशरीरकान्।। 8
वंशपारंपरेणैव विष्ण्वर्चन परायणान्
असंभवेतुचैतेषां(वैष्णवान् भक्तिपारगान्)महाभक्तान् द्विजान्तुवा।। 9
पंचसंस्कार संयुक्ता नागमज्ञान्चकोविदान्
सदाहरि पदध्यान पूजातत्परमानसान्।। 10
परमैकांतिनश्चैव पंचकाल परायणान्
सदाचारपरान्सर्वैः पूर्वोकैर्लक्षणैर्युतान्।। 11
अर्चकसंख्या
अर्चकान् वरयेत्पूर्वं शतमष्टोत्तरंतुवा
द्वात्रिंशत्संख्ययायद्वा चतुर्विंशतिवाधवा।। 12
षोडशद्पादशाष्टौवा (चतुरोद्वय मेववा)अर्चकद्वयमेववा
अधमाथममेकंवा यजमान स्स्वशक्तितः।। 13
आश्रमनिर्णयं
ब्रह्मचारि र्गृहस्थोवा काननस्थोधवायतिः
परार्धयजने विष्णोरर्हत्येवन संशयः।। 14
अर्चकत्वानर्हतानिरूपणं
अनुपवीतोत्यपत्नीकः आलयेयदि पूजते
तद्देशेसर्वनाशंच (कर्त्रुवंशक्षियंभवेत्)राज्ञोवंशक्षयं धृवं।। 15
देवलकत्व निरूपणं
अदीक्षि(तोप्यनाचारी)तश्चनाचारी (संस्काररहितोजडः)पंचसंस्कारवर्जितः
अंगहीनोव्याधियुक्तो प्यधमान्वय संभवः।। 16
पाषंडश्चागमानज्ञो अवैष्णवनराधमः।
यद्देशेधनलोभेन हरिंपूज(तिचेत्तदा)यतिस्वयं।। 17
देशारिष्टं(सदातस्मिन् देशेभवति निश्चयं)तुतस्मिन् वैदेशेभवति सर्वदा
सवैदेवलकोनाम सर्वकर्मबहिष्कृतः।। 18
तस्यदर्शनमात्रेण(घोरपापोभवेद्धृवं)घोरंपापं भविष्यति
अर्चकछंडाल निरूपणं
अन्यसेवादिकंयस्तु पूजकःकुरुतेभुवि।। 19
सछंडालयितिप्रोक्तो अर्चकेषु मुनीश्वराः
क्षेत्राधिक्यतयामर्चक संख्याधिक्य ताकधनं
तत्कृतैरर्चनेर्लोकेनकिंचिच्च(ल्लभतेफलं)फलंलभेत्।। 20
क्षेत्राधिक्यंसमालोक्य निर्णीतव्यार्चकद्विजाः
भिन्नगोत्र समुत्सन्ना यधाविभव विस्तरं।। 21
अर्चकोपाधि प्रकल्पनविधिः
तत्कुटुंबाभि वृद्ध्यर्ध मुपाधिं(कल्पयेद्विजाः)परिकल्पयेत्
(शाश्वतंचैववसतिं)वसतिंशाश्वतंतेषां वंशपारं परागतं।। 22
प्रतिष्ठंतेतुदेवस्य यजमानः प्रसन्नधीः
आचार्यस्याज्ञयादेव सन्निधौपूयकद्विजं।। 23
समाहूय सुमूहूर्ते नमस्कृत्ययधाविधि
बद्धांजलिपुटोंभूत्वा (इतिविज्ञापनंचरेत्)विज्ञापन मधाचरेत्।। 24
देवस्याराधनार्धाय त्वत्कुटुंबप्रवृद्धये
(करिष्याम्यद्यभूदानं)मयादत्तामिमां भूमिंगृहाणद्विजपुंगव.।। 25
प्रतिष्ठाफलसंसिद्धि र्येतस्माद्दान कारणात् दीयतां मम श्रीनाधः-
प्रसन्नस्तु दयामयः (इत्यधिकपाठः)
इतिविज्ञा प्यकर्तातु प्रसन्ने नैवचेतसा
अर्चकस्स हरि स्साक्षाच्चररूपीन संशयः।। 26
इतिमत्वातु हृदये प्रणम्य शिरसाभुवि
अर्चकस्य करीभूमिं सहिरण्य फलोदकां।। 27
दत्वाय धोक्तविधिना भूदानं देवसन्निधौ
शिलायां ताम्रपत्रेवा लिखित्वादान शासनं।। 28
अर्चकाय प्रदातव्यं (कर्तानिर्मलचेतसा)निर्मलेनैवचेतसा
यःकरोति प्रसन्नात्मा (चैतद्भूदानमुत्तमं.)विधिनाने नकेवलं।। 29
भृतकनिर्णये प्रत्यवायः
तद्वंशजाः परंयांति शतपूर्वाशतापराः
इत्येवं विधिनाकर्ता भगवत्पूजनार्धकं।। 30
भूदानमेव कुर्वीत भृतकं नकदाचन
भूमीदानं विनाकर्ता भृतकं प्रददातिचेत्।। 31
तस्यवंश क्षयंभूयात्तस्यायु श्श्रीश्चनश्यति
योगृह्णा तिद्विज श्रेष्ठाः भृतकं हरिपूजने।। 32
सवैदेवलकः प्रोक्त स्सर्व कर्म बहिष्कृतः
तस्मात्सर्व प्रयत्नेन भूमीमेवप्रदापयेत्।। 33
दानशासन नामनिर्णयः
भगवत्प्रीत येचैत द्दानशासन मुत्तमं
लिखित्वा भगवन्नाम्मात्वर्चकायप्रदापयेत्।। 34
देवनाम्मातु भूदान मुत्तमं परिचक्षते
अर्चकस्य भवेन्नाम्मा मध्यमं फलदायकं।। 35
अधमं चोदितं कर्ता स्वनाम्मा यदितल्लिखेत्
केवलं परमार्धाय कर्तातु भगवद्ग्रुहं।। 36
देवादायस्वीकरणे अर्चकस्यार्हता यजमानस्य प्रत्यवायश्चछ
यदिनिर्माय तेतर्हि तद्देवाल यरूपतः
आदायं लभतेचैत त्किंचिद्वा(धिकमेववा)घनमेववा।। 37
विषप्रायं(तुतंवीक्ष्य[दृष्ट्वा])समालोक्यअर्चकेभ्यः प्रदापयेत्
कृतेत्वेत न्महात्यागंकर्तासद्यशमाव्मुयात्।। 38
योमोहाद्लव मात्रंवादेवादायं (तुभक्षयेत्)भुजत्यसौ
सगच्छेन्नरकान् घोरान् शारवादीन् नराधमः।। 39
तस्मात्सर्व प्रयत्नेन निष्कामोस्धापयेद्धरिं।
स्थानाचार्यलक्षणं
भगवत्पादतीर्थांबु सेवनार्थंवरेत्ततः।। 40
स्थानाचार्यंचतत्थ्साने हस्तकंचनियोजयेत्
सद्वंशचो सत्यवादी सज्जनोसद्गुकणारः।। 41
सदाचारीच सद्भक्त स्सदाहरि परायणः
क्रोधलोभमदाद्यैस्तु वर्जितोवैष्णवोत्तमः।। 42
वेदवेदांग वेदीच तपस्स्वाध्यायतत्परः
पांचरात्र विधानज्ञः पंचसंस्कार(संयुतः)दीक्षितः।। 43
पांचकालिक धर्मज्ञः परमैकांतिरुत्तमः
सर्वावयवसंपूर्णो सदारोग्यशरीरकः।। 44
तत्कर्तव्यविधयः
वयोवृद्धः कृपामूर्ति स्थ्सानाचार्येभवेच्छुचिः
वंश(पारंपरेणैव)क्रमागतेनैवविधिनाहरिसन्निधौ।। 45
प्रसादं भगवत्तीर्धं प्रधमं(सपरिगृहेत्)तुपरिगृहेत्
आलयेचैव वस्तव्य महोरात्रं स्वयं गुरुः।। 46
सूर्योदयं समारभ्य यावदर्चावसानकं
तत्सम्मानादि तदाश्रमनिर्णयः
ब्रह्मोत्सवादिकेत्वादौ तस्यसन्मानमुत्यते।। 47
ब्रह्मचारिर्ग्रुहस्तोवा यतिर्वा लक्षणैर्युतः
स्थानाचार्योभवेत्सत्यमिति(शास्त्रविनिश्चयः)शास्त्रेषुनिश्चयः।। 48
यतिश्चेदुत्तमः प्रोक्तोगृहस्थुर्मध्य मस्मृतः
अधमो ब्रह्मचारीस्यात्थ्सानाचार्य विनिश्चये।। 49
मठसांप्रदाय निरूपणं
स्थानाधीपोयतियदिस्यात्तन्निवेशार्धमादरात्
द्वितीयावरणेवापि तृतीयावरणेपिवा।। 50
मठमेकंतुनिर्माय दातव्यंकर्त्रुरिच्छया
मठस्यसांप्रदायेन मुख्यशिष्यो भवेद्गुरुः।। 51
यतिश्चेन्मधनाम्नाच गृहस्थस्तस्यनामनि
तदुपाथिप्रकल्पनं
ग्रामंवाभूमिवातस्य जीवनार्धं प्रकल्पयेत्।। 52
तत्संख्या निर्णयः
क्षेत्राधिक्यतयाप्येकद्वि त्रिसंख्याकवैष्णवान्
स्थानाचार्य पदेकर्तानिश्छित्य तदनंतरं।। 53
अध्यापकाः
वेदपारायणार्धेच शास्तप्रस्तोत्रप्रपाठने
द्राविडाम्नायपठने प्रत्यहंदेवसन्निधौ।। 54
(अध्यापक गणं स्थाप्यं) आध्यापकानीचवरये त्पूर्वोक्तेनैववर्त्मना
तत्संख्या निर्णयः
सहस्रमयुतंनापि शतमष्टोत्तरंतुवा।। 55
चतुस्सप्तति संख्यावा द्वात्रिंशद्वायधाविधि
द्वादशाष्टाचतदनु चतुरोप्यधमाधमं।। 56
अध्यापकान् तुवरयेत्ध्सानाधिपतिनासह
अथ्ययन प्रशस्तिः
देवालयेषुसर्वत्र मुख्यमध्ययसंस्मृतं।। 57
शरीरेपोषणंयद्व न्मुख्यमित्यभिधीयते
तधैवाध्यापकैर्नित्य मालयेस्तोत्रमुच्यते।। 58
अथ्यापक संख्या यामुत्तमाधम निरूपणं
अध्यापकानांसंख्यास्या दयुतंदिव्यमुत्तमं
सहस्रनामगणनात्तत्संख्याचोत्तमोत्तमं।। 59
अष्टोत्तरशतंयस्तु तत्स्यादुत्तममध्यमं
चतुस्सप्तति(पीठाख्य)संख्याक मुत्तमाधममीरितं।। 60
द्वात्रिंशदुपचाराणां संख्यास्यान्मध्यमोत्तमा
चतुर्विंशतिनामानां संख्यामध्यममध्यमा।। 61
उपचारैष्षोडशभिः मध्यमाधममुच्यते
भूतादिमुनिसंख्याकं अधमोत्तममीरितं।। 62
अष्टदिक्संख्ययायत्तु तत्स्यादधममध्यमं
व्यूहसंख्यातुसाप्रोक्ता अधमाधमनामकं।। 63
इत्येतेध्यापकाःप्रोक्तावैष्णवार्चाविधानके
एतैस्तुसर्वदागेहे देवदेवस्यशार्ज्गिणः।। 64
आध्येतव्यास्सदावेदशास्त्रस्तोत्रादिकाश्शुभाः
क्षेत्राधिक्यतया अध्यापकसंख्या निर्णयं
दिव्यक्षेत्केषु(सर्वेषु)सर्वत्र उत्तमोत्तमसंख्यया।। 65
अध्यापकगणंस्थाप्यं सर्वलोकसुखावहं
अशक्तश्च्येददाकर्ता अधमोत्तमसंख्यकान्।। 66
अध्यापकांतुवरयेत्तस्मादल्पंनकारयेत्
अथ्यापकानां कर्तव्यविथयः तत्सान्मातादि
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदंच दक्षिणे।। 67
पश्चिमेसामवेदंच अधर्वं चोत्तरेतधा
इतिहासं(चाग्निदेशे.)चाग्निकोणे नैरुत्यांस्तोत्रमुत्यते।। 68
धर्मशास्त्रंतुवायव्ये ईशा(न्यांमंत्रपाठकं.)न्यामागमंस्मृतं
द्राविडाम्नायमेकैकं चतुर्दिक्षुचपाठयेत्।। 69
द्वादशाक्षरसंख्याका श्चैवमध्यापकास्सदा
दिवारात्रंचदेवेशं प्रार्धयेल्लोकरक्षणे।। 70
राजाराष्ट्राभिवृध्यर्धं निर्मलेनैवचेतसा
यात्राकालेपिचैतेषां स्तवंहारिसमीपतः।। 71
वस्तव्यंनान्यधायात्रा पुनातिग्रामवासिनः
तस्मात्तान् केवलंभूत सरोयोगीश्वरादिकान्।। 72
मत्वालोकस्तुसंभाव्य तरिष्यतिविनिश्चयं
देवालयेपिचैतेषां सत्कारंप्रधमं(चरेत्)स्मृतं।। 73
हरिप्रसादतीर्थाद्यै रादौतान्परि(तोषयेत्)तृप्त्ययेत्
शेषामुपाधिपरिकल्पनं
ऎतेषांजीवनार्धाय यजमा(नस्स्यशक्तितः)नोयधावसु।। 74
भूमिंवाभृतकंवापि शाश्वतंपरिकल्पयेत्
भूवसत्त्युत्तमंप्रॊक्तं भृतकंत्वधमंभवेत्।। 75
तस्मात्सर्वप्रयत्नेन भूमीमेवप्रदापयेत्
हस्तकाःतत्कर्तव्यविधयः
अर्चकस्यसहायार्धं देवकार्येष्वहर्निशं।। 76
पात्रादिशोधनार्थंच दीपप्रज्वलनार्धकं
हस्तघंटाचालनार्थं प्रोक्षणायस्थलादिकं।। 77
तत्संख्या
एकस्यार्चकविप्रस्य द्वौद्वौसंख्याकवैष्णवौ
अर्चकार्हैश्चसर्वैश्च लक्षणैस्संयुतौशुचौ।। 78
तदुपाधिः
हस्तकौवरयेत्तेषां भूमिंवाभृतकंतुवा
निर्णीतव्यं यधाशक्ति यजमानेनभक्तितः।। 79
पाचकाः त्संख्याच.
त्रिकालंदेवदेवस्य हविःपचनकर्मणि
द्वादशंनवकंवापि षट्त्रिसंख्याकवैष्णवान्।। 80
पाचकान् लक्षणैर्युक्तान् पूर्वोक्तविधिनातुवै
तद्विधयः
पाकशस्त्रेषुनिपुणान् निर्णीतव्यंयधावसु।। 81
हविःचनकालेतु तेबध्वानाशिकापुटं
नैवेद्यांतंप्रवर्तेत भयभक्तियुतास्सतं।। 82
संभाषणंपरित्याज्यं पूक्वोक्तसमयेद्विजाः
तदुपाधिः.
येतेषांजीवनार्धाय भूमिंवाभृतकंतुवा।। 83
कर्तास्वशक्तिमालोक्य(यधाशक्तिविनिश्चयेत्)निर्णीतव्यं द्विजोत्तमाः
तदितर परिचारक निर्णयः
भेरीमृदंगपटह वीणावेण्वादिवाद्यकान्।। 84
घंटाकाहलतूर्यादि मर्दलध्वनिकारकान्
नृत्तगीतादिनिपुणान् वंदिमागथलेखकान्।। 85
वेत्रहस्तान् भटान्चैव गजाश्वोष्ठ्रादिपालकान्
गोपालकान् देवदासीः रधसारधिकान् तधा।। 86
स्धानशुद्धिकरान्चैव पात्रशुद्धिकरान्तधा
छत्रचामरवेत्रादि धारकान्वाहकान्ततः।। 87
देवपूजाभिवृध्यर्धं यधाशक्तिनियोजयेत्
देवालयसेवकानर्हतानिरूपणं
सेवकास्सर्वयेवैते पंचसंस्कारसंयुताः।। 88
अन्वास्त्वनर्हाइत्युक्ताहरेर्गेहेबुधोत्तमाः
एदेषांजीवनार्धाय भूमिंवाभृतकंतुवा।। 89
तदुपाथिः प्रकल्पनं फलश्रुतिः
यधायोग्यंविनिश्चित्य यजमानःप्रसन्नधीः
तान्तान्निश्चितकार्येषु तदाकर्तानियोजयेत्।। 90
एवमुक्तविधानेन पांचरात्रोक्तवर्त्मना
(परिचारकैश्च सर्वैश्च,)परिचारकवर्गैश्च यःप्रतिष्ठाप्यतेहरिं।। 91
सयातिपरमंस्धानं योगीनामपिदुर्लभं
साक्षाद्वैकुंठनगरं(तत्रसायुज्यमाप्नुयात्)तत्रास्तेभगवानिव।। 92
सर्वपरिचारिक निर्णयशक्त्यभावे
यजमानस्यविभवे सर्वानेतान्प्रकल्पयेत्
नोचेदर्चकमेकंवा वरयेद्भक्तिभावतः।। 93
अर्चकद्वितयंशौरिं संस्थाप्यचयधाविधि
यजमानोप्यशक्तश्चेत्संपूर्णंफलमाप्नुयात्।। 94
जीर्णोद्धारे यधा पूर्वक संख्या प्रकल्पनंतल्लोपे प्रत्यवाय किधनंच
जीर्णोद्धारादिसमये प्यालयस्यमधुद्विषः
ऋष्यादिपूजितेस्थाने पारंपर्याक्रमंविवा।। 95
विशेषंनाचरेत्किंचि(ल्लोकक्षेमार्ध मेवहि)द्राजाराष्ट्राभिवृद्धये
क्रोधाद्वालोभतोवापि मोहाद्वापत्सरेणवा।। 96
यःकरोतिविभेदोस्मिन् तस्यवंशक्षयं(धृवं)स्मृतं
दिव्यक्षेत्रेषुसर्वत्र पारंपर्याक्रमागते।। 97
परिचारकसंख्याया(मल्पाधिक्या)मल्पाधिक्यंनकारयेत्
आधिक्यंनिष्फलंप्रोक्तं अल्पत्वंलोकनाशकं।। 98
तस्मात्सर्वप्रयत्नेन(विभेदंतुवकारयेत्)न्यूनाधिक्यंनकारयॆत्
इत्येवमर्चकादिनां संख्यानिर्णयमुत्तमं।। 99
हरिणास्वयमेवोक्तं पुराकमलजन्मने
संग्रहेणमया(चैतत्)त्वद्यबोधितं(संयमीश्वराः)गोप्यमुत्तमं।। 100
इति श्रीपांचरात्र-रहस्यसारे परमपुरुषसंहितायां
अर्चक-परिचारकादि-संख्यानिर्णयो नाम
द्वितीयोऽध्यायः
Chapter - 3
श्रीमत्पांचरात्रदिव्यागमांतर्गत श्रीपरमपुरुष संहिता
तृतीयाथ्यायः
अर्चकाथिक्यता निरूपणं
ऋषि प्रश्न. ऋषयः-
श्लो।। मौनिचंद्रमहाभाग सदाहरिपरायण
(विष्ण्वालयंतु निर्माय राजाराष्ट्र प्रवृद्धये)किंत्वालयंविनिर्माय देवदेवस्यशार्ञिणः।। 1
प्रतिष्टांतेतुतत्कर्ताकस्मैदद्यात्तदालयं
अधीकारिस्तुकोभूया त्तदारभ्यसदाहरेः।। 2
नित्यनैमित्तिकाख्यासु पूजासुचसवेषुच
विस्तरेण(द्विजश्रेष्ठ)तुतत्सर्वंब्रूह्यस्माकंकृपानिधे।। 3
नारदप्रतिवचनं
श्रीनारदः-
वक्ष्यामितत्सविस्तारं श्रुणुध्वंश्रर्धयान्विताः
ऋषयोभगवच्चास्त्र निष्ठातत्परमानसाः।। 4
गोप्यमेतन्महभागा (युष्माकं यद्वदाम्यहं)आद्याहंवदयामियत्
नाभक्तायनशिष्याय नकदापिवदेद्द्विजाः।। 5
अर्चकोभगत्सुतः
आराधकस्तुश्रीशौरेः पुत्रयेवनसंशयः
अर्चनादिष्वर्चकाधिक्यता.
तस्मादर्चकयेवस्या दथिपोसर्वकर्मसु।। 6
अर्चनादिकलापासु सततंभगवद्ग्रुहॆ
परिचार कादीना मर्चकाज्ञानु सरणं
परिचारकवर्गश्च तधाचास्येपिसेवकाः।। 7
अर्चकाज्ञानुसारेण सर्वदाचप्रवर्तयेत्
यजमानकुलोद्भूतो(यद्वान्य कुलसंभवः)यद्वानिर्णीतवंशजः।। 8
धर्माधिकारिश्च अर्चकाज्ञानुसारेणैव प्रवर्तव्यं
धर्माधीकारीचैकस्तु वर्ततेयदिसोपिच
अर्चकाज्ञानुसारेण सेवकान्सर्वदापिच।। 9
समाहूयचतेषांतु योग्यकार्याणिनिर्दिशेत्
तधैवचार्चनायोग्य गंधपुष्पफलादिकं।। 10
देवालय परिचारक सेवकादिदंडने धर्माधिकार्यधिकारः
सकालेनैवसंपाद्य अर्चकायप्रदापयेत्
सेवकेषुयदाकेचि द्धोषाणिपरिदृश्यते।। 11
तदातान्दंडयेद्विज्ञो अधीकारिस्तुसर्वदा
परंत्वर्चकवर्गेषु यदादोषादिकंभवेत्।। 12
अर्चकदोष विमर्शनादिषुभगवधधीकारः
दंडनेनाधिकारोस्ति यस्यकस्यापिचद्विजाः
हरिरेवस्वयंतेषांददातिनरकंतदा।। 13
अधवापुत्रभावेन तान्क्षमिष्यतिवैहरिः
तस्मा(त्स्वयंहरि)त्तेषांहरिस्साक्षात्(अधीकारिर्भवेधृवं)अथीकारीतिमन्यते।। 14
अर्चकस्यनरकस्राप्तिकधनं
यस्मात् पूजकदोषाणां(नविमर्शनमुच्यते)विमर्शनमनुच्यते
तस्मादेवसदालोके अर्चकोनरकंव्रजेत्।। 15
अर्चनादिस्वल्पदोषा नर्चकःकुरुतेयदि
तदर्हशिक्षामाप्नोति इहयेवनसंशयः।। 16
अर्चकत्वफल निरूपणं
तस्मात्सदार्चकोभक्त्या महताचभयेवच
प्रभुसेवकभावेन वर्तयेद्भगवद्ग्रुहे।। 17
यःकरोत्वर्चनंविष्णो द्देवस्यमधुविद्विषः
भक्त्याचश्रर्धयाचैव केवलंपरचिंतया।। 18
स्वार्धंविसृज्यसर्वेषां लोकानांहितकाम्यया
सयेवधन्योमान्यश्चभुक्तिंमुक्तिमवाप्नुयात्।। 19
ऋषयः-
अर्चकाधिक्यहेतुश्रवणेऋषिप्रश्न
द्विजोत्तममुनिश्रेष्ठ(सर्वधर्म विशारद)सर्वशास्त्रार्धकोविद
विष्ण्वालयेत्वर्चकानां प्राधान्यंकिंप्रकाशय।। 20
कुतस्तेभगवद्गेहे भक्तैरर्पितदक्षिणान्
वस्त्रभूषादिकान्सर्वान् स्वीकरिष्यंति(नित्यशः)भूतले।। 21
सर्वाधिकारिणश्चैते किमर्धमभवन्मुने
लोकःकिमर्धंतान्भक्तिविश्वासैः(पूजयेत्सदा)पूजतेसदा।। 22
एतदन्यत्सविस्तारं यदस्माभिर्नचोदितं
वदस्वनोमहाभाग (विद्यतेयदितेदया)यदितेविद्यतेकृपा।। 23
श्रीनारदाः-
नारदप्रतिवचनं
साधुपृष्ठंमुनिवराः यदुष्मत्कांक्षितंप्रियं
संग्रहेणाद्य(वक्षेहां)वक्ष्यामि सावधानेनश्रूयतां।। 24
अर्चकाधिक्यहेतु निरूपणं
विष्ण्वादि(सर्वे)सर्वदेवाश्च मंत्राधी(नाइतीरिताः)वाःप्रतीयते
तन्मंत्रसाधनैरेव देवमंदिरविग्रहन्।। 25
प्रतिष्ठाप्यतुदेवेशं स्धिरीकुर्वंति(देशिकाः)पूजकाः
यस्याधीनाःप्रवर्तंते सर्वेमंत्राश्चनित्यशः।। 26
आगमज्ञस्सवैपूज्यो अर्चको(भगवत्सुतः)भगवत्समः
एकेनार्चकहीनेन सर्वेप्यालयसेवकाः।। 27
अमूल्यथनधान्यादि विभवाश्चवृधास्मृताः
तस्मादेवप्रतिष्ठांते कर्तातुभगवद्ग्रुहं।। 28
सर्वैःपरिकरैर्युक्त मर्चकायप्रदापयेत्
तदादिमंतिरेविष्णोः पूजकोधिपतिस्मृतः।। 29
सर्वस्वतंत्रोसोभूया दर्चको(हरिसन्निधा)भगवद्ग्रुहे
तमाज्ञापयितुंकोपि(शास्त्रोक्तार्चाविधानके)विध्युक्तास्वर्चवादिषु।। 30
नशक्तोयितिविज्ञेयः कर्तावाप्यन्ययेववा
यधादेवालयेसर्वे सेवकाश्रर्धयान्विताः।। 31
धर्माणिकारिणश्चाज्ञां (पालयंतिशिरोथृतां)पालयेच्छिरसाधृतां
तधैवचाधिका(रिश्च)रीच अर्चकाज्ञाँतुपालयन्।। 32
पूजोपकरण्न्सर्वेसकालेचार्चयेत्सदा
शास्त्रोक्ताराधना प्रधानता
आलयेषुचसर्वत्रशास्त्रोक्ताराधनंसदा।। 33
ऎकंमुख्यतमंप्रोक्तं अन्येचोत्सववैभवाः
सर्वेपिचांगभूतावै जनाकर्णणहेतवे।। 34
तस्मादेवहरेर्गेहे यजमानस्यशक्तितः
सर्वैश्च(विभवै)वैभवैर्दिव्यै(र्भोगरागादिभिर्युतं)रुत्सवैस्सयुतंतुवा।। 35
(यद्वाचदैर्विहीनंवा)यद्वावैभवहीनंवा शास्त्रोक्ताराधनंपरं
प्रकल्पनीयमेकंतु राजाराष्ट्राभिवृद्धये।। 36
यधालोकेशरीरस्य प्राणुमुख्यमितीर्यते
तधैवचालयस्यापि शास्त्रोक्ताराथंनंभवेत्।। 37
प्राणॊपेतशरीरस्य शोभार्थंभूषणान्यथा
तधैवभगवद्गेहे शास्त्रोक्तार्चासमन्विते।। 38
(सर्वेप्योत्सवभोगाद्याः)सर्वेचोत्सवभोगानि शोभार्धमितिमन्यतां
प्राणहीनशरीरस्य यधाभूषानशोभते।। 39
तधैवचालयेत्वर्चा हीने(चोत्सववैभवाः)त्वुत्सववैभवाः
नशोभंतिद्विजश्रेष्ठास्सत्यमेतद्विनिश्चयं।। 40
आलयस्यतुयन्मुख्यं तत्पूजात्वर्चकैर्भवेत्
अर्चकतोषणविधिः
तस्माद्देतो(ह्यर्चकान्तु)श्चार्चकान्तुसर्वताप्रियभाषणैः।। 41
गोभूहिरण्यवस्त्राद्यैत्तोषयेद्भगवत्प्रियं
भगवदर्पितवस्तु स्वीकरणविधिः
भगवत्समर्पितंसर्वमर्चकोभगवित्सुतः।। 42
स्वीकृत्यसर्वदालोक क्षेमार्थं(श्रीहरिं स्वयं)जनकंहरिं
(संप्रार्ध्यचहरेस्धाने)संप्रार्थ्यभगवत्ध्साने स्वयमाशीःप्रदास्यति।। 43
अर्चकस्यतु संतृप्तिर्भगवत्तृप्तिरीरितं
अर्चकाशीर्वादे विशेषः
तस्यप्रसादं श्रीविष्णोः प्रसादंभवतिधृवं।। 44
वरप्रभावातस्यैव सर्वलोकसुखंभवेत्
धर्मसूक्ष्म मिदंप्रोक्तंलोकेस्मिन् मुनिसत्तमाः।। 45
अर्चकनिंदायां दोषप्राप्तिः
योनिंदतिहरेस्सूनु मर्चकंकुपितोनरः
भगवन्निंदको(सोस्या)भूयात्तस्यवंशक्षयंधृवं।। 46
अर्चकःकुपितोयस्मिन् तस्मिन् शौरिश्चकुप्यति
पर्वकालशुभ कार्यादिषु अर्चक सन्मानविधिः
तस्मात्सदाच भगवत्प्रीत्यर्धं सर्वतोनराः।। 47
हरेरर्पण भावेन अर्चकान् सर्ववस्तुभिः
विवाहादिषुकार्येषु सर्वपर्वसुतोषयेत्।। 48
अर्चक शापफल निरूपणं
अर्चकःकुपितोभूत्वा यदिशप्त्यतितक्षणात्
तद्द्राष्ट्रंचाथि पोराजा जनास्सर्वेनशंतिच।। 49
अर्चकस्वीकृतौ विशेषः
भगवत्समर्पितंयत्तु धनवस्त्रफलादिकं
अर्चकस्वीकृतिर्भूया त्स्वयंहरिपरिग्रहः।। 50
अर्चकोपाथिलोपेन पूजलोप निरूपणं.
यत्रार्चकस्यतज्जीवनोपाधौ लोपमुच्यते
तत्रपूजावृथाज्ञेया यत्तृतो स्वस्तचेतसा।। 51
पूजालोप दोषकधनं अर्चकोपोधिभंग कारिणां नरकप्राप्तिः
पूजालोपोभवेद्यत्रतत्रसर्वं वृधा(भवेत्)स्मृतं
तद्द्राष्ट्रेनाभिवृद्धिस्स्याद्देवोपिकुपितोभवेत्।। 52
तस्माद्योक्रोधरोभादि हेतुभिःपूयरस्यच।
उपोधौकुरुते(लोपं)भिन्नं तस्यवंशक्षयं भवेत्।। 53
पितृणांतस्यदैत्यत्वं जन्मपैशाचिकंस्मृतं
ब्रह्महोवासुरापीवा स्वर्णस्वेयीचस्त्रीहतः।। 54
अस्यास्समं घोरपापं नप्राप्नोत्येवभूतले
धर्मसूक्ष्ममिदं मख्यंज्ञेयं सर्वैश्चमानवै।। 55
अर्चक पूजाफल निरूपणं
लोककल्याणहेत्वर्ध मेवदेवाल(यार्चकः)येर्चकः
तस्मादेवमुनिश्रेष्ठा स्स्वर्वदाचार्चकंभुवि।। 56
प्रसन्नंपरितृप्तंच कृत्वालोकः प्रवर्थते
अर्चकस्य अग्रपूजार्हत्वं
यस्मात्सदार्चकोपूज्योहरिभावेन केवलं।। 57
तस्मात्सयेवचार्हस्यात्सदसिप्रधमार्चने
निर्णीतार्चकवंशजायेवसदा
यधातु भगवद्गेहे मूर्तिंसंस्धाप्ययत्नतः।। 58
समुद्धर्तुं कदाकोपि(नशक्तयितिनिश्चितं)नशक्तोभवतिधृवं
वस्तव्यं तेषांपरिहरणे प्रत्यवायः
तधैवच प्कतिष्ठांते यजमा(नविनिश्चितं)नेन निश्चितं।। 59
अर्चकंवापितद्वंध संभवान्वाकदापिवा
यजमान स्स्वयंचैव परिहर्तुंनशक्त्यते।। 60
यःक्रोधाद्यैस्तधाकुर्यात्तस्यवंशक्षयंभवेत्।
देशारिष्ठं तदाभूया त्प्रजापीडाच(निश्चिता)निश्चयं।। 61
नूतनार्चक निर्माणे पुनःप्रतिष्ठा
पुनःप्रतिष्ठाकर्तव्या निर्मितेतुरवार्चके
तस्मात्पतिष्ठादिवस मारभ्या(चंद्रतारकं)भूतसंप्लवं।। 62
एकमर्चकवंशंतु कुर्यादर्चांहरेर्गृहे
देवालयावरणेह्यर्चक गृहनिर्माण विधिः.
अर्चकस्तुहरेर्धाम्नि अहोरात्रंचनित्यशः।। 63
शास्त्रोक्तेनैव्ार्गेण करिष्यत्युत्सवादिकं
तस्मादैव(नुसावीप्ये)हिसामीप्ये भगवन्मंदिरस्यतु।। 64
द्वितीयावकणेवापि तृतीयावरणेपिवा
गृहमेकंतुनिक्माय सर्वलक्षणसंयुतं।। 65
सर्पशोभासमायुक्त मर्चकायप्रदापयेत्
देवालयनिवासे अर्चकस्यानुज्ञा
यस्मात्तुपूजरस्साक्षाद्भगवत्पुत्रउत्यते।। 66
तस्मात्तस्यकुटुंबंच दिव्यमित्येवभावयेत्
तस्मादेवनदोषस्या दालयावरणेष्वपि।। 67
अर्चकगृहनिर्माण करणेमुनिपुंगवाः
तदन्येषांनिवासे प्रत्यवायः
यजमानोपिवातेन निश्चितोधर्मपालाः।। 68
तदन्यःकोपिवाशौरे रालयावरणेषुयः
(वसतेलोभतोयत्र)निवासंकुरुतेयस्मिन् देशेतद्देशनाशनं।। 69
ग्रामारिष्टंचतस्यैव वंशनाशंभवे धृवं
हरिश्चकुपितोभूया न्निश्चयंमुनिसत्तमाः।। 70
भगवत्समर्पित पुष्प फलादिषु अर्चकस्य अर्धभाग स्वीकारार्हता
अर्चक स्वीकृतिविना भगवत्प्रसादंन भवेत्
भगवत्समर्पितंपुष्पं फलं(चाप्यर्चकस्स्वयं)वापूजकस्स्वयं
(अर्धभागंतु स्वीकृत्य)अर्धभागंतुगृह्णीया द्भक्तेभ्यश्चाव्यदुच्यते।। 71
विनार्चकस्वीकृतिना तत्प्रसादंनउच्यते
यस्तुभक्षतितन्मोहात्तस्यपापंभवेधृवं।। 72
अर्चकदत्ततीर्ध महिमा
अर्चकेनतुयद्दत्तं तत्तीर्धंमहिमान्वितं
यत्पीत्वाचायुरारोग्य मोक्षादीन्लभतेनरः।। 73
महोत्सवादिषुदेव सन्निधौ अर्चकनिवासावश्यकतावा हनादिष्वर्चक निवासार्हता
महोत्सवादिसमये देवदेवस्यशार्ण्ङ्गिः
सन्निधावेवसर्वेपि पूजकानिदसेत्सदा।. 74
समीपेदेवदेवस्य वाहनादिषुचार्चकः
छत्रचामरकैंकर्य परतस्तुवसेत्सतं।। 75
अत्मानं समलंकृत्य(माल्यभूषांबरादिभिः)वस्त्रभूषादिकैश्शुभैः
अर्चक सहितभगवद्वहनेविशेष फलप्राप्तिः
अर्चकद्वितयंशौरिं यानारूढं वहंतिये।। 76
तेपातकैर्विनिर्मुक्ता(स्साक्षाद्वैकुंठमाप्नुयात्)यांति वैकुंठमुत्तमं
भगवद्द्वहनेचैक मुहूर्तमपिभूतले।। 77
भूप्रदक्षिणतः पुण्यः लभतेनात्रसंशयः
श्रीहरेर्वाहन स्पर्शा चापि(मुक्तिफलप्रदा)मुक्तिप्रदाभवेत्।। 78
अर्चकमहिमा निरूपणं
किंतुदेवोकाग्रहितो देवोदाक्सहितोर्चकः
प्रत्यक्षदेवता(भूयात्)लोके सर्वसौख्यप्रदायकः।। 79
(अर्चकस्य तपश्शक्तिः)अर्चकस्सात्मशक्तिर्वै भगवन्महिमास्मृता
विनार्चकेनदेवोपि नास्तिनास्तिच मंदिरं।। 80
पूजानास्त्युत्सवंनास्ति(सर्वंनास्तिधरातले)महिमानास्तिनिश्चयं
तस्मादर्चकयेव श्रीयनार्दनयितीर्यते।। 81
भगवन्निवेदितान्नं अर्चकायदातव्यं अर्चकेनकृतपरान्न भक्षणे प्रत्यवायः
नित्यंनिवेदितान्नंतु अर्चकेभ्यःप्रदापयेत्
भगवन्निवेदितान्नंहि भक्षयेदर्चकस्सदा।। 82
यदिमोहात्परान्नंतु भुक्त्वाचजगधीश्वरं
यःपूजकोर्च(येत्तस्य)तेतस्य पूजास्यान्निष्फलाभुवि।। 83
भगवन्निवेदतान्नवधिकंचेत् अर्चक भाग निर्णयं
अर्चकेभ्योनदत्त मन्नंत्याज्यमेव तद्भक्षणेदोष प्राप्तिः
तस्मात्सर्व प्रयत्नेन नैवेद्यं सकलंतुवा
अधिकंचेदर्धभागं चातुर्भागमधापिवा।। 84
प्रधमंत्वर्चकेभ्यस्तु दत्वान्येभ्यःप्रदीयतां
यन्नैवेद्यंत्वर्चकेभ्यो नदत्तंफगवद्ग्रुहे।। 85
तत्त्याज्यं सर्वदाभ क्तैर्विषभावेन केवलं
यस्तुभक्षतितल्लोभा(त्तस्यदोषो भवेद्भुवि)त्पूर्वपुण्यं विनस्यति।। 86
गर्भालय प्रवेश अग्रासनोवेशादि ष्वर्चकस्यार्हता
अर्चकेन सर्वदापि मंत्रानुष्टानादि कंकर्तव्यं
गर्भालयप्रवेशेच आसतेचोपवेशने
अर्चकस्त्वर्हयित्यतक्तो सर्वशास्त्रे षुभूसुराः।। 87
दंडयुक्तवरंदृष्ट्वा यधाभीतोहिराड्भुवि
मंत्रहीनार्चकं दृष्ट्वा तथाभीतो(भवेद्धरिः)जनार्धनः।। 88
तस्मात्तुपूजकश्चापि मंत्रानुष्ठानतत्परः
सर्वदाच(भवेल्लोके)भवेद्भूमौ अन्यधानरकंव्रजेत्।। 89
देवद्रव्यस्वीकरणे अर्चकार्हता तदन्येषांप्रत्यवायः यजमान स्वीकृतावपिदोष प्राप्तिःदेवालयेषु सद्भक्तैर्दत्तंसर्वधवादिकं
स्वीकर्तुंचार्च कास्त्वर्हा यिति(शास्त्रविनिश्चयः)शास्त्रेषुनिश्चयः।। 90
तस्मात्तस्मिन् धनेकोपि यत्किंचिद्धरतेभुवि
तस्यवंश क्षयं(भूया-त्श्रीघ्रमेव बुधोत्तमाः)शीघ्रं निश्चितं मुनिसत्तमाः।। 91
यजमानोपितद्द्रव्यं स्वीकृत्ययदिलोभतः
उत्सवादिककार्याणि कुर्वत्सपिवृधास्मृताः।। 92
यजमास्यशक्तिलोपेभिक्षाटनवशेन दैवोत्सवकर्तव्य निरूपणं
यजमास्त्व शक्तश्चेद्धरिमंदिर पोषणे
भिक्षाटनवशेनैव सर्वकार्याणिचाचरेत्।। 93
इतिसम्यक्सरूख्यातं अर्चकाधिक्यकारणं
ममपित्रेपुराप्रोक्तं(इदंतु हरिणास्वयं)स्वयंभगवताद्विजाः।। 94
संग्रहेणाद्यतत्सर्वं युष्माकंचसुबोधितं
नाभक्तायन शीष्याय नकदापिवदेद्बुधाः।। 95
इति श्रीपांचरात्र-रहस्यसारे श्रीपरमपुरुष-संहितायां
अर्चकाधिक्यता-निरूपणं नाम
तृतीयोऽध्यायः
Chapter - 4
श्रीमत्पांचरात्रागमांतर्गत श्री-परमपुरुष संहिता
चतुर्थाध्यायः
भगवत्तीर्ध प्रसादादि महिमाभि वर्णनं
ऋषयः-
भगवत्तीर्ध प्रसादादि महिमाश्रवणे ऋषि प्रश्न
श्लो।। भगवन् श्रोतुमिच्छामो सर्वशास्त्र विशारद
हरिप्रसादमहिमा तत्तीर्थस्य विशेषता।। 1
भगवद्दर्शनेचैव पूजने चतुयद्भलं
गंधपुष्पफलादीनां वस्त्रभूषादिकांमुने।। 2
विष्णोस्समर्पणेचैव किंफलंलभतेभुवि
महोत्सवादिकरणे जीर्णोद्धारेचकिंफलं।। 3
तत्सर्वंविस्तरेणैव कृपयाब्रूहिनोमुने
श्रीनारदः-
नारद प्रति वचनं
शॄयतामद्यमुनयो भक्तियुक्तैस्तुचेतसैः।। 4
सविस्तरेणवक्ष्यामि युष्मार्यत्तुकांक्षितं
भगवन्निवेदनान्नंच भक्ष्यलेह्यादिकंसदा।। 5
भगत्प्रसाद महिमा निरूपणं
दिव्यंप्रसाद मित्युक्तं यद्दत्तंत्वर्चकेंहि
यद्ग्रुहीत्वानरोभूयात्सर्वल्बिषवर्जितः।। 6
यस्मिन्कालेतु संप्राप्तं प्रसादं जगतांपतेः
तक्षणेनैवतद्ग्रुह्य भुज्यतां मुनिपुंगवाः।। 7
योभक्षतिहरेरन्नं प्रत्यहंभक्तिभावतः।
इहसर्वसुखान् भुक्त्वा चांतेवैकुंठमाप्नुयात्।। 8
प्रसाद भक्षणे दृष्टिदोषादिशंकानकर्तव्या
दृष्टिदोषंस्पृष्टिदोषं नविचार्यहरेक्गृहे
सर्वैरपिपरिग्राह्योप्रसादोमुनिसत्तमाः।। 9
यःकरोतिविभेदोस्मिन् तस्यवंशक्षयेभवेत्
प्रसादनिंदकोयस्तु सगच्छेन्नरकंधृवं।। 10
एकादश्यामपिभगवत्प्रसाद स्वीकारार्हणा
एकादश्यामपिबुथाः प्रसादं न परित्यजेत्।
उषोषितस्तु भुंजीत कणमेकंशिरोधृतं।। 11
हरिप्रीत्यैतुसर्वेपि एकादस्यादिकाव्रताः।
तस्मात्तेषुदिनेषुस्यात्प्रसाद स्वीकृतिश्शुभः।। 12
तद्विसर्जनेप्रत्यवायकधनंच
हेतुभिःक्रोथलोभाद्यैर्यःप्रसादं(विसर्जते)नभक्षते
व्रतोपवासनिरतो सयेवस्यान्नराधमः।। 13
तस्यसर्वव्रतानिस्यान्निष्फलानि बुधोत्तमाः।
श्रार्थादिषु भगवत्प्रसादेन पितृदेवतार्चनविधिः
पितृमातृश्रार्थकाले ष्वपिविष्ण्वर्पितैश्शुभैः।। 14
अन्नाद्यैरर्चयेत्पित्रून् कर्ताभक्ति विशेषतः।
तत्पित्रूणांतु सुगति स्सत्वरंलभतेद्विजाः।। 15
श्रार्थनिमंत्रित विप्राणांभगवत्तीर्ध स्वीकारार्हता प्रसाद भक्षणी अकालसकाल विचारो नकर्तव्यः प्रसादस्य भूप
श्रार्धेनिमंत्रिताविप्राःकर्ताचहरिमंदिरे।
तीर्धं पीत्वाप्रसादंतु भक्तेभ्य(स्सर्व)स्तत्समर्पयेत्।। 16
प्रसादभक्षणे विष्णोर्यस्मिन् कस्मिन्दिनेपिच।
अकालमतिकालंवा नविमर्शर मुच्यते।। 17
प्रसाद स्वीकृतौभक्तिश्रर्धालोपादिहेतुभिः।
यत्किंचित्पतते(भूमौ तद्राष्ठ्रस्यक्षयंधृवं)यत्र तद्ग्रामस्यक्षयंस्मृतं।। 18
तन प्राप्तौ दोष निरूपणं
योभक्षतिहरेरन्नं सोमपायीसनिश्चयं।
त्रिदिनंभक्षतेयस्तु(सत्वारोग्यमवाप्नुयात्)सचारोग्यशरीरकः।। 19
प्रसाद भक्षणेशालाधिक्यतया अधिक फलप्राप्ति कथनं भगवन्नैवेद्यार्थंधनधान्यादिक प्रदाने फल निरूपणं
नित्यंचभक्षणेचैत (त्सगच्छेत्परमंपदं)त्सवैकुंठमाप्नुयात्।
निष्यामोवासकामोवा येनकेनचहेतुना।। 20
नैवेद्यार्धं हरेरन्नं धान्यंवाधनमेववा।
योददातिमुनिश्रेष्ठा स्तस्यभूयान्महाधनं।। 21
धान्यादयस्त्विहेलोके चांतेश्रीविष्णुसन्निधिः।
महाभक्त्यातुयोदद्याद्दनंकिंचिद्धरॆःप्रियं।। 22
नैवेद्यार्धं यदाशक्तिसोपि वैकुंठमाप्नुयात्।
नैवेद्य प्रभावः
सर्वेलोकाःप्रवर्तंते यस्यकुक्षौतु सर्वदा।। 23
तस्यसतृप्तयेविष्णोर्नैवेद्यस्यप्रकल्पनं।
तस्मात्तत्सर्वलोकानां संतृप्यैस्यान्मुनीश्वराः।। 24
सर्वदेहस्थितोशौरिस्संतृप्तश्चेन्निवेदने।
सर्वेलोकाश्चतृप्त्यंते नात्रकार्यविचारणा।। 25
नैवेद्यार्धमन्नादीन् समानीयविधिः
पचनालयमारभ्य भगवत्सन्निधिंप्रति
मध्येमार्गे पसादंतु छत्रचामर दीपिकैः।। 26
सर्वैश्चवाद्यघोषैश्च वेदघोषैश्शुभैस्तवैः।
उपचारैश्च सकलैः पाचकोशिरसाथृतः।। 27
स्पृष्टिदृष्ट्यादिकैर्दोषै र्वर्जितंतु यधातधा।
आनीयमंटपेभोगे मंत्रराज मनुस्मरन्।। 28
संप्रोक्ष्यनिक्षिपेद्भक्त्या हरेरभिमुखंयथा।
नैवेद्यानर्ह अन्नादिक निरूपणं
अपक्व च विपक्वंच क्रिमिकीटादि(संयुतं)भिर्युतं।। 29
अत्युष्णमतिशीतंच अवैष्णवकृतंतुवा।
शूद्रछंडालदृष्टंच काकाद्यैश्शुनकादिभिः।। 30
स्पृष्टंच रसहीनंच अन्यदेवार्पितंतुवा।
(रोमकेशादिभिर्युक्तं)शिलाकेशादिभिर्युक्तं सुरामांसादिदूषित।। 31
आघ्रातं लंघितंचैव थरणीपतितंतुवा।
(भक्षितंवापि श्रीविष्णोः)देवदेवसृशौरेस्तु नकदापिनिवेदयेत्।। 32
दूषितान्न निवेदने शांतिहोमादि
यद्वा निवेदयेदन्नं दोषयुक्तंश्रियःपतेः।
तक्षणंस्नपंकृत्वा शांतिहौमंसमाचरेत्।। 33
हविःपात्र लक्षणं
हविःपचन योग्यानि सर्वेपात्राणिच द्विजाः।
शंखचक्रोर्ध्वपुंड्राद्यै र्लांछयेद्भक्तिवर्त्मना।। 34
नैवेद्यात्पूर्व मेव हाविर्भक्षणे प्रत्यवायः
हरेर्निवेदनार्धंतु यदन्नं पचितं भुवि।
तन्नैवेद्यात्पूर्वमेव नकदा(पिचभक्षयेत्)भक्षयेन्नराः।। 35
यस्तुभक्षतिमोहाद्वातस्यायुश्श्रीश्चनश्यति।
नैवेद्यात्पूर्व मेव हविर्दूषिते सतिकर्तव्यविधिः
नैवेद्यार्थं यदन्नंतु पचितं तवनुद्विजाः।। 36
तन्नैवेद्यात्पूरमेव दूषितंचेत्तदाचतत्।
जलेनिक्षिप्य विधिव त्पुरन्नंतु पाचयेत्।। 37
तद्भक्षणे दोष निरूपणं
विनातु जलनिक्षेपा त्तदन्नंयोभुजत्यसौ।
इहभुक्त्वाखिलान् दुःखान् रौरवंनरकंप्रजेत्।। 38
षण्मासं भक्षतैयस्तु प्रसादं भगवद्ग्रुहे।
प्रसादभक्षण कालाधिक्यतयाधिक्य निरूपणं
तस्य सर्वाणिपापानि(विनस्यंति नसंशयः)नशंतिनच संशयः।। 39
अब्दमेकं हरेर्धाम्मिनैवेद्यान्नंतुयोभुजेत्।
तस्यज्ञानोदयं ब्रह्मनिष्ठाचलभते बुधाः।। 40
रधारूढ हरिप्रसाद महिमा
रधस्थस्यतु(महाविष्मोः)देवस्य प्रसादं भक्षतेयदि।
वंध्यापुत्रवतीभूयादचिरेण विनिश्चयः।। 41
श्रीकृष्ण जन्मदिने भगवन्निवेदित क्षीर महिम
श्रीकृष्णजन्मदिवसे संतानाका क्षयाभुवि।
यास्त्रि पिबति गोक्षीरं वासुदेवनिवेदितं।। 42
सासुपुत्रवतीभूया(द्लोकेस्मिन्)न्निश्चयं मुनिसत्तमाः
ध्वजारोहण काले गरुड प्रसाद महिमा
थ्वजारोहण कालेतु वैनतेय निवेदितं।। 43
मुद्गान्नं भक्षतेयस्त्री सासु पुत्रवती भवेत्।
भक्तशेष प्रसाद महिमा
भक्तेभ्योर्पितसेषंतु प्रसादं मोक्षसिद्थिदं।। 44
धनुर्मासे अरुणोदयकाल निवेदितान्न महिमा
अरुणोदयवेलायां धरुर्मासे(श्रियःपतेः)जगत्पतेः।
निवेदितंतुमुद्गान्नं सहस्रफलदं स्मृतं।। 45
महोत्सवेषु प्रसाद महिमा
महोत्सवे प्रवर्तेतु सर्वैद्भक्तैर्यदर्पितं।
नैवेद्यं केवलं विष्णो र्वैकुंठप्राप्तिकारणं।। 46
भगवत्पदतीर्ध महिमा
भगवत्पादतीर्धंतु नित्यंयःपिबतेवरः।
तस्यारोग्यं सदाभूयात्सायुज्यंलभतेधृवं।। 47
सालग्राम तीर्ध महिमा
सालग्राम शिलावारि तुलशीदलयुतं।
सर्वरो(गप्रशमनं)गादिशमनं सर्वपापहरंभवेत्।। 48
पंचगव्य महिमा
भगवत्सन्निथौदत्तं पंचगव्यंमुनिश्वराः।
महापातक नाशंच विष्णुसायुज्यदायकं।। 49
अभिषेक तीर्थ महिमा
विशेषस्वपनेकाले देवस्यमथुविद्विषः।
स्नानोदकंपिबेद्यस्तु सर्वान् कामानवाप्नुयात्।। 50
चक्र तीर्ध महिमा
तीर्धॊत्सवेप्रवर्तेतु चक्कस्नानोदकंपिबेत्।
सर्वाघशमनंनॄणां सर्वसंपत्व्रदायकं।। 51
आचार्य श्रीपाद तीर्ध महिमा
आचार्यपदतीर्धंच प्रसन्नस्यपदोदकं।
सर्वदापानवंप्रोक्तं सर्वपातक नाशनं।। 52
तस्मात्सर्वप्रयत्नेन भक्तिभावेनकेवलं।
भगवद्भागवताचार्य पादतीर्धंसदापिबेत्।। 53
भगवत्तीर्ध विसर्जने दोषप्राप्तिः
हरिगेहेतुयोतीर्धं गृहीत्वाप्यपिबन्त्यजेत्।
सत्यस्प्यश्ययितिज्ञेयो छंडालयिवभूतले।। 54
तदलक्ष्यकरणेच पाप निरूपणं
अलक्ष्यंकुरुतेयस्तु तीर्धेस्मिन् द्विजपुंगवाः।
तस्यपापक्षयंनास्ति शतजन्मैरपिद्विजाः।। 55
चक्रेण सहमज्ञनविशेषः
तीर्धोत्सवेतुयोभक्त्या चक्रेणसहमज्जते।
सहस्रग्रहणस्नान(समंसद्भलमाप्नुयात्)समंसद्बल माप्नुयात्।। 56
भगवत्तीर्ध ग्रहणेश्रर्धालोपे सतिप्रत्यवायः
हरितीर्धपरिग्राहे यस्तुश्रर्धाविवर्जितः।
निक्षिपेत्ततुभूमौच तस्यदुःखंमहत् भवेत्।। 57
अर्चकहस्तेन तीर्ध स्वीकार विधिः
अर्चकस्यतुहस्तेन गृह्णीयाद्धरितीर्धकं।
नोचेत्सुरासमंज्ञेयं तत्तीर्थं(तुविसर्जयेत्)द्विजसत्तमाः।। 58
भगवद्धन फलकधनं
अथवक्ष्येविशेषेण भगवद्दर्शनेफलं।
सेवनेचद्विजश्रेष्ठा श्श्रुणुध्वंश्रर्थयान्विताः।। 59
नित्यदर्शने निशेषः
प्रत्यहंदेवदेवस्य मंदिरं यस्तुगच्चति।
तस्याभीष्ठानिसर्वाणि ददातिपुरुषोत्तमं।। 60
प्रभोदोत्सव दर्शन फलनिरूपणं
प्रबोधोत्सववेलायां विष्णोद्दर्शनमुत्तमं।
सर्वपापप्रशमनं आयुरारोग्यवर्धनं।। 61
एकापश्याविसर्वदर्शन फलप्राप्तिः
एकादश्याममायांच सर्वपर्वसुशार्ज्गिणः।
वैदर्शनंपावनंपुण्यं अभीष्टफलसिद्थिदं।। 62
वैकुंठयेकादश्यां उत्तरद्वारगमन दर्शन फल कदनं
वैकुंठपदपूर्वाया मेकादश्यांद्विजेत्तमाः।
उत्तरद्वारगमने देवस्यमधुविद्विषः।। 63
रधस्धभगवद्दर्शन फलनिरूपणं
दर्शनंसर्वलोकानां दुर्लभंमोक्षदायकं।
रथस्थस्यतुदेवस्य दर्शनंयःकरोतिसः।। 64
गरुडारूढे दर्शन फलं
जन्मराहित्यममलं प्राप्नोति(विबुधोत्तमाः)सुविनिश्चयः।
गरुडारूढविष्णोस्तु सेवामोक्षफलप्रदा।। 65
महोत्सवे भगवद्दर्शन फलप्राप्तिः
महोत्सवेप्रवर्तेतु भगवद्दनंभुवि।
असमानफलप्राप्ति हेतुभूतमितीरितं।। 66
कल्याणोत्सवेदेव दर्शनफल विशेषः
कल्याणोत्सववेलायां देवेशंयस्तुपश्यति।
तस्यसर्वाणिपापानि नशंत्येवनसंशयाः।। 67
पुष्पयागोत्सवांत प्रणयकल्हारोत्सवेदेवीसहित भगवद्दर्शन फल निरूपणं
पुष्पयागोत्सवदिनेदेवस्य(जगतांपतेः)मधुविद्विषः।
अंतेतुप्रणयकलह महोत्सववर्णेद्विजाः।। 68
श्रीभुनीलादिसहितं हरेर्दर्शन मुत्ुमं।
योगीनांदुर्लभंचैतन्निश्चयं मुनिपुंगवा।। 69
विशेष स्नपनकाले दर्शन विशेषः
विशेस्नपदेकाले भगवन्मूर्तिदर्शनं।
जन्मसाफल्यताहेतु भूतंमोक्ष(प्रदंस्मृतं)फलप्रदं।। 70
कृत्तिका दीप प्रदर्शन फलं
एवकेनापिचद्विजाः कृत्तिकादीपदर्शनं।
अष्टैश्वर्यकरंमोक्ष साधनंभवतिथृवं।। 71
अर्चक दर्शन फल विशेषकथनं
दर्शनंत्वर्चकसा पि हरिभावेन केवलं।
सर्वसंपत्क रंभूया त्सर्वपातकनाशनं।। 72
भगवदालय दर्शने विशेषः
दर्शन तुहरेर्धाम्नः क्षुद्रग्रहनिवारकं।
गोपुर दृश्यतेयस्तु महाभक्त्याजगत्पतेः।। 73
गोपुर दर्शने चक्रदर्शने
तस्यवंशाभिवृद्धिप्यादाचंद्रार्कं(चभूतले)धरातले।
गोपुराग्रस्थचक्रस्य दर्शन पापनाशनं।। 74
भगवत्पादतुलश्या द्याघ्राणे निर्म्याधारणे
भगवत्पादतुलसी माघ्रायसकलानराः।
निरामयाभवेद्भूमौविष्णुलोकमवाव्नुयात्।। 75
हरेर्निर्माल्य पुष्पंच चंदनंच बुधोत्तमाः।
शिरसागृहितंभूया छ्रेयोकामैस्सतंभुवि।। 76
पालिकांकुर थारणे
भगवत्समर्पितान्दिप्यान् पालिकाद्यंकुरान्शुभान्।
धृत्वातुशिरसा(लोको दूतपापोभःष्यति)लोकेधूतपापोनरोभवेत्।। 77
विजय दशम्यां शमीपल्लवथारणे
आश्विनस्यसितेपक्षे दशम्यांविजयोत्सते।
शमीपल्लवस युक्तानक्षतान्योपरिगृहेत्।। 78
होमभस्मथारणे
तस्यर्वत्रविजयं(सर्वदाच विनिश्चयं)सर्वकार्येषु निश्चयं।
हरेर्गेहेस्थितोहोम भस्मस्यान्मंगल प्रदः।। 79
पवित्र धारणे
तस्मातद्त्धारयेद्विप्रास्सर्वेपिचनराभुवि।
पवित्कोत्सवकालेतु वासुदेवस्यसक्रिणः।। 80
पूजालोपादि शांत्यर्ध मर्पितंतुपवित्रकं।
भक्त्यायोधारयेन्नित्यं तस्यकुत्रापिचद्विजाः।। 81
कर्मलोपंतुनभवे दितिशास्त्रविनिश्चयः।
होमधूमाघ्राणे
अघ्रातोहोमदूमश्च येवभक्त्याहरेर्गृहे।। 82
तस्यभूयात्सदारोग्यं आयुश्श्रीर्वर्ससंघनं।
वीरलक्ष्माद्यर्पित कुंकुमादिधारणे
वीरलक्ष्मीभोगलक्ष्मोरर्पितंकुंकुमादिकं।। 83
धृतंयेनसदातस्य सौभाग्यं(वर्थतेसदा)लभतिधृवं।
नीरांजनदर्शने
निरांजनस्यसमये दृश्यते योजंत्पतिं।। 84
धूतपापोनरोभूया दैश्वर्यंच महल्लभेत्।
दिव्यक्षेत्रेषुदिनत्रयनिवासे
स्वयंव्यकादि क्षेत्रेषु त्रिदिनंयवसेन्नरः।। 85
तस्यपातकवर्गस्तु (तक्षणाद्वैविनश्यते)तक्षणाच्चैवनश्यते
तेषुशरीरविसर्जने
पुण्यक्षेत्रेषुयोभक्त्या स्वशरीरं विसर्जयेत्।। 86
तस्यवैजन्मराहित्यं निश्चयंभवति धृवं।
द्वात्रिंशदुपचारा द्वैर्भगवदर्चने
द्वात्रिंशदुपचाराद्यैष्षोडशैरुपचारकैः।। 87
यःपूजयतिदेवेशं तस्याभीष्ठास्तुसिद्द्यते।
पर्वकालेषु सहस्र नामैरर्चने
एकादश्यांतु संर्काता वमायांश्रवणेपिच।। 88
सहस्सनामैर्योभक्त्या हरिमर्चयतिस्वयं।
अन्येषु पर्वलेषु तस्य(वैकुंठमुच्यते)मोक्षोविनिश्चय।। 89
अष्टोत्तरशतनामादिभिरर्चने
अष्टोत्तरशतैर्यस्तु नामभिश्चजगत्पतिं
यःपूजतिसदातस्य महत्सौख्यंभवेधृवे।। 90
चतुर्विंशति संख्याकैर्द्वादशैर्ना मभिस्तुवा
योर्चनं कुरुतेतस्य भवबंधो विनस्यति।। 91
गोभूहिरण्यादिक समर्पणे
हरिसंप्रीतयेयस्तु गोभूस्वर्णधनादिकान्
धान्यंच वाहनादीनि गजाश्वोष्ट्रादिकान्तधा।। 92
पात्रादिकान्च भूषाश्च गंधपुष्पफला(फलांबरान्)दिकान्
छत्रचामर(भूषाश्च)वस्त्रादीन् दासीदासान् च भक्तितः।। 93
(यस्तुदद्यान्मुनि श्रेष्ठाः)प्रदद्याद्विबुधश्रेष्ठा स्सर्वेष्टान्लभेतनः।
भुसमर्पण महिमा
भूमीदानंतुयोभक्त्या शाश्वतं कुरतेभुवि।। 94
हरेस्तस्यमहत्सौख्यमायुर्वृद्थिर्भवेद्द्विजाः।
अर्चकस्य सालग्रामादिदानेफल निरूपणं
सालग्रामादिदानैश्च वस्त्रभूषधनादिभिः।। 95
अर्चकंतोषयेद्यस्तु वासुदे स सन्निधौ
सोभूयाजन्मरहितो सुप्रसिद्धोधरातले।। 96
देवालयसम्मार्जनेफलं
गेहसम्मार्जनेविष्णोर्जन्मसाफल्य(मीरितं)मुच्यते
चामरसेवायां
(चामरव्यजनाद्यैस्तु सेवामोक्ष फलप्रदा)धारणेचामरादीनां स्वर्गलोकस्थितिर्लभेत्।। 97
छत्रादिवहने
वहनेछत्रवेत्रादि अभीष्टार्धान् लभेन्नरः
भगवद्वहने पुष्प माल्यादि समर्पणे
देवस्यवहनेसाक्षा द्विष्णुसायुज्यमीरितं।। 98
पुष्पमाल्यादितानंस्या दसम फलदायकं।
नृत्तगीतादिकरणे
आलयेनृत्तगीताद्यै रिष्ट्धारान्लभतेनरः।। 99
वाद्यघोशादिकरणे स्तोत्रपाठे
वाद्यघोषादिकरणे हरेःप्रीतिर्भवेथृवं।
स्तोत्रादिपठने विष्णो स्सायुज्यं (तुलभेद्द्विजाः)समवाप्नुयात्।।100
पात्रशुद्धिकरणे
स्थानशुद्ध्यादिकरणे पात्रशतद्धौलभेद्यशः।
दीप प्रज्वलने
दीपप्रज्वलने(भूयात्)चैव ग्रहस्नान सद्भलं।। 101
आराधरार्ह वस्तुप्रदाने
नित्याराथनार्हाणां वस्तुनांतुसमर्पणे।
सप्तजन्मकृतंपापं तक्षणादेवनश्यति।। 102
महोत्सवकरणे
महोत्सवस्यकरणे पंचपातकनिर्वृतिः।
पवित्राद्युत्सव करणे
पवित्राद्युत्सवानांतु रणेजगतांपतेः।। 103
वंशाभिवृद्धिस्सायुज्यं लभते(वतुसंशयः)नात्रसंशयः।
सहस्रकलशाभिषेक कल्पने
सहस्रकलशस्नान कल्पनेमधुविद्विषः।। 104
सहस्रतीर्धसुस्नाता यजमानोभवेधृवः।
महोत्सवादिकालेषु ग्रामालंकरणंतुवाः।। 105
धामालंकरणा दिषु
धामालंकरणंवापि महाभक्त्याकृतंयदि।
सर्वार्थासाधकंभूया(साक्षाद्वैकुंठदायिनी)त्सर्वसंपत्प्रदायिनी।। 106
हविःपाचने
हविःपचनकर्मास्वाद्भुक्तिमुक्तिफलप्रदा।
विस्तरेणतुकिंविप्रास्सर्वेकार्या जगत्पतेः।। 107
देवालयादिक निर्माणे
विशेषफलदाप्रोक्ता स्सत्यमेतद्विनिश्चयं।
यस्तुभक्त्याहरेर्गेहं राजाराष्ट्राभिवृद्धये।। 108
निर्मायतेतस्यविष्णो स्सायुज्यंलभतिद्धृवं।
इहलोकेपिवैतस्य अभिष्ठार्धाश्च सिद्धयते।
तद्वंशजाःपरंयांति शतपूर्वाशतापराः।।
मंटप निर्माणे
मंटपस्यविनिर्माणे येनकेनापि भूतले।। 109
तस्यंवंशाभिवृद्धिस्या द्यावदाभूतसंप्लवं।
गोपुरादिक निर्माणे
गोपुरस्यविनिर्माणे शिखरस्थापनेपिच।। 110
सत्संतानफलप्राप्ति स्तक्षणाल्लभतेनः।
प्राकारादिक निर्माने
प्राकारस्यचद्वारस्य विनिर्माणेहरेर्गृहे।। 111
संसारबंधमोक्षश्च(भवेदिष्टार्ध सिद्धिच)निश्चितंमुनिसत्तमाः।
वीरलक्ष्मीस्थापने
वीरलक्ष्म्यास्थापनंतु महदैश्वर्यदायकं।। 112
ध्वजस्थंभस्थापने
ध्वजस्थंभ(प्रतिष्टायां)प्रतिष्ठातु सर्वसंपत्करंभवेत्।
हरेस्सायुज्य प्राप्तिश्च संभवेत्तेनभूतले।। 113
वाहन निर्माणे
वाहनादिक निर्माणे देवस्यमधुविद्विषः।
शतयज्ञफलप्राप्ति(रिष्ट सिद्धिश्चनियं)र्निश्चयंमुनिसत्तमाः।। 114
भगवदालय गोपुरादि दर्शनेषु कर्तव्य विधयः
भगवद्ग्रुहंतुसंविक्ष्य साष्टांगं प्रणमेद्द्विजाः।
दर्शनेगोपुरस्यापि शिखरस्यतधैवच।। 115
शिखराग्रस्थ चक्रस्य ध्वजाग्रस्यव भूसुवाः।।
साष्टांगंदंडवद्भूमौ नमस्कारं समाचरेत्।
यःकरोतितधालोके तस्यभूयान्महाफलं।। 116
दंडप्रणामकर्तव्यप्रदेशानि
बलिपीठे(महाद्वारे)द्वारदेशे महामंटपमथ्यतः।
पूर्वोक्तेनैवविधिना साष्टांगंप्रणमेद्बुथाः।। 117
देवालये प्रवर्तव्य विधि निरूपशं पृष्ठ दर्शने दोषः
देवालयेषुसततं भक्तिश्रर्धान्वितोनरः।
विष्णोरभिमुखंतष्ठे त्प्रुष्ठभागंरदर्शयेत्ः।। 118
वीरासनाद्यैर्धॊष निरूपणं
वीरासनाद्याननेषु नकदापिहरेर्ग्रुहे।
संविसेद्विबुधश्रेष्ठात्तेन(दुःखं महद्भवेत्)पापोमहान्भवेत्।। 119
छत्रपादुकदंडादिधारणेप्रत्यवायः
तस्मात्तुसर्वदालोके भक्तिनम्रस्तुसंविसेत्।
छत्रंदंडं पादुकौच भगवत्सन्निथौस्वयं।। 120
विन्मूत्रनिष्टिवनादि विसर्जने
नधारयेदितिप्रोक्तं श्रेयःकामैस्तुसर्वदा।
भगवन्मंदिरेवापि(तत्समीपेच भूसुराः)तत्समीपधरातले।। 121
विण्मूत्रोत्सर्जनंचैव निष्टीवन विसर्जनं।
स्नानंचवर्जनीयंस्याद्भ वत्कोपकारणं।। 122
भगवदुत्सवे मानुषात्सवादिकरणे
महोत्सवेप्रवर्तेतु देवदेवस्यशार्ङ्गेणः।
यावत्तीर्धोत्सवदिनंतद्ग्रायेचान्वदुत्सवं।। 123
विवाहादिकसर्वेपि वर्जनीयाद्विजोत्तमाः।
यस्तुकुर्यात्तुतान्विप्रा स्तस्यदोषाभवेद्भुवि।। 124
महोत्सवमध्ये अन्यदेवोत्सवाचरणे
विष्णोरुत्सवमध्येतु अन्यदेवोत्सवंयदा।
कुरुतेमूढभावेन तदातद्ग्रामनाशनं।। 125
भगवदुत्सवात्पूर्वमेन विवाहादि करणे
विष्णोरुत्सव कालेचतत्पूर्वं(वाद्विजोत्तमाः)चद्विजोत्तमाः।
यस्तुकुर्याद्विवाहादीन्तत्सर्वं निष्फलंभवेत्।। 126
देवताह्वानमारभ्यतद्विसर्जनांतं अन्यग्रामादिक गमने
महोत्सवेप्रवर्तेतु वासुदेवस्यश्रीपतेः।
देवताह्वानसमये भेरींशृण्वंतियेनराः।। 127
नगच्छेयुस्तेन्यदेशं नदूरंयोजनात्परं।
गमनेसतिमोहाद्वै व्याधियुक्ताभवेद्भुवि।। 128
ध्वजारोहाद्यवरोहोंतं अन्य ग्रामादिक गमने
ध्वजारोहणमारभ्य अवरोहदिनावधि।
यस्तुगच्छेदन्यदेश मन्य(ग्रामंतुवाबुथाः)ग्राममथापिवा।। 129
तन्यभूयाद्यशोनाश श्चायुक्षीणं थरातले।
तस्मात्सर्वप्रयत्नेन बहिर्यानं विसर्जयेत्।। 130
महोत्सव फल निरूपणं
महोत्सवःकृतोयेन सोश्वमेधफलंव्रजेत्।
यत्रदेशेभवेद्येत दुत्सद तत्रचद्विजाः।। 131
सुवृष्टित्सर्वलोभूया(द्राज्ञो वृद्धिश्चनिश्चितः) द्राजानृद्धिमवाप्नुयात्।
ध्वजारोहे गरुड दर्शन फलं
ध्वजारोहण वेलायां खगेशंयस्तुदृश्यते।। 132
तस्यसन्मंगलंभूयात्सर्वदासनसंशयः।
भेरीश्रवण फलकथनं
देवताह्वानकालेतु (भेरींशृण्वंतुयोनराः)भेरींयस्तुशृणोतिपः।। 133
अवाप्यात्रतुसर्वेष्टा नंतेवैकुंठमाप्नुयात्।
थनुस्संक्रमणेकाले प्रत्यहंचारुणोदये।। 134
धनुर्मासार्चन फल निरूपणं
शास्त्रोक्तेनैवमार्गेण हरिंनम्यक्प्रपूजयेत्।
अब्दमेकंतुसंपूज्य यद्भल लभतेनरः।। 135
तद्भलंसर्वमाप्नोदि(चासेत्वेकदिनेनहि)दिनेनैकेवपूजकः।
कृत्तिकादीवदर्शने
वृश्चिकस्तेदिनकरे(कॆत्तिकायाम महोत्सवं) कृत्तिकादीपदर्शनं।। 136
सर्वाभीष्ठ्रदंनृणां सर्वपातक नाशनं।
घंटानाद महिमा
घंटानादंहारेर्धाम्निशृत्वाब्रह्मग्रहापिच।। 137
गच्छंतिदूरतश्शीघ्रं नागमिष्यंति तेपुनः।
एकादश्यां दर्शन पूजनादिक फल निरूपणं
एकदश्यांतुभगवद्दर्शनं (मोक्षदायकं)पापनाशनं।। 138
अर्चनादिककार्यास्तु सहस्रफलदास्मृताः।
एकादशि व्रत महिमा
एकदश्याव्रतंलोके सर्वोत्तम मुदाहृतं।। 139
भक्तानांकल्पकंचैव भुक्तिमुक्ति फलप्रदं।
एकादश श्रार्ध विवर्जनं
तस्मिन्(तुदिवसे श्रार्धं)दिनेपितृश्रार्धंचापिवर्ज्य मुनीश्वराः।। 140
(द्वादाश्यांदिवसेत्वेतत्)परस्मिन् दिवसेचैत त्कुर्वतांशास्त्रवर्त्मना।
वीरलक्ष्मीत्सव महिमा
आश्विनस्यसितेपक्षे नवम्यांसर्वतोभुवि।। 141
वीरलश्र्म्युत्सवंकार्यं सर्वलोकसुखावहं।
यःकरोत्युत्सवंचैत त्तस्यश्र्रीर्निश्चलाभवेत्।। 142
श्रीकृष्ण जयंत्या चरणे फलप्राप्तिः
श्रीकृष्ण जन्मदिवसे यःकरोत्यु(महोत्सवं)त्सवंहरेः।
तस्यगोभूहिरण्यानि वर्धंतेनात्रसंशयः।। 143
यस्मिन्देशेकृतंचैत दुत्सवंजगतांपतेः।
तस्मिन्देशेविशेषेण गवांवृद्धिर्भविष्यति।। 144
भक्तजन्मदिनोत्सवादिकरणे
भक्तजन्मदिनेषुश्च स्वीयजन्मदिनेपिच।
महोत्सवंप्रकुर्वीत देवदेवस्यसन्निधौ।। 145
एवंयःकुरुतेभूमौ(सत्वायुर्वृद्धि माप्नुयात्)तस्यायुर्वृद्धिरुत्यते।
ज्येष्टाभिषेकाद्युत्सवकरणे फलनिरूपणं
ज्येष्टाभिषेकमारभ्य यावद्वासंतिकोत्सवं।। 146
भगवन्मंदियस्तु कुरुतेतस्यसर्वदा।
आयुरारोग्यभाग्यानि लभंत्यत्रवसंशयः।। 147
राजाराष्ट्राभिवृद्धिश्च तस्मिन्देशे(भविष्यति)भवेद्धृवः।
भगवन्मंदिर जीर्णोद्धारे
जीर्णितंभगवद्गेहं दृष्ट्यायोभक्तिभावतः।। 148
उद्धारंकुरुते(तस्यहरेस्सायुज्य मीरितं)भूमौहरेस्चायुज्यमाप्नुयूत्।
भगवत्त्सोत्रपाठंतु प्रभातेयस्तुकुर्वति।। 149
तस्याभीष्टानि सिध्यंते शीघ्रकालेमुनीश्वराः।
श्रीपुष्पयाग दर्शने
पुष्पयागेप्रवर्तेतु चक्राब्जस्धंजगत्पतिं।। 150
दर्शतेयस्तुसद्भक्त्या प्राप्नोतिपरमांगतिं।
श्रीहरि नाम संकीर्तन श्रवणादिक फल निरूपणं
नामसंकीर्तनंचैव श्रवणंचथरातले।। 151
सर्वपापहरंभूया त्सर्वविघ्नविनाशनं।
युद्धजयप्राप्ति साधनं
युद्धमथ्यस्थितो(यस्तु)भूमौहरिंसंप्रार्थ्यभक्तितः।। 152
सत्वरंजयमाप्नोति संशयंनास्तिभूसुराः।
महोत्सवेसयजमानार्चक परिचारिक प्रेक्षकानां फलप्राप्तिकधनं
देवस्योत्सवकर्ताच(अचार्य ब्रह्म ऋत्विजाः)आचार्येऋत्विजास्तथा।। 153
परिचारकवर्गश्च प्रेक्षकाश्चसदाहरेः।
सायुज्यंप्राप्यमोदंतेनित्यमुक्तायिवद्विजाः।। 154
अष्टम्यांचचतुर्दश्यां नवम्यांभृगुवासरे।
लक्ष्मीपूजा विशेष दिवस निरूपणं
पूर्णिमायाममायांच वीरलक्ष्म्याःप्रपूजने।। 155
सहस्रनामभिस्तस्या हरिद्राचूर्णकुंकुमैः।
धनधान्याभिवृद्धिश्च(मोक्षसिद्धिच निश्चयं)वैकुंठप्राप्तिचधृवं।। 156
अष्टाक्षरादि वैष्णव मंत्रजपे विशेषः
वासुदेवद्वादशार्णं श्रविष्णोस्तुषडक्षरं।
श्रीमन्नारायणस्यापि आष्टाक्षरमहाममं।। 157
श्रीरामतारकंचैव श्रीमंत्रंचसदाभुवि।
श्रीपुरुष सूक्तादि नित्यपारायण विषय निरूपणं
पौरुषंसूक्तममलं श्रसूक्तंचमुनीश्वराः।। 158
भूमीनीलादिमूक्तानि गीताश्चहरिभोधिताः।
विष्णोस्सहस्रनामानि यधाशक्तितुप्रत्यहं।। 159
जपित्वाचपठित्वाच ध्यात्वाचैवजगत्पतिं।
सकलैर्भवबंधैश्च मुत्यंतेविबुधोत्तमाः।। 160
गारुड मंत्रजपफलं
यःपठेत्प्रत्यहंभक्त्या गरुडस्यमहामनुं।
तस्यसर्पविषादीनि निर्विषंतुभवेद्द्विजाः।।
हनुमन्मंत्र जपफलं
हनुमन्मंत्रराजंतु योनित्यंपठतेभुवि।
तस्यदर्शनमात्रेण ग्रहजालं विमुत्यते।।
इहलोकेपिचैतेषां भवेदिष्टार्धसंभवं।
ग्रीष्मकालेभगवस्चमर्पणयोग्य वस्तु विशेष कधनं वैशाखपूजा महिमा
(ग्रीष्मर्तौयदि संप्राप्ते)ग्रीष्मकालेतुसंप्राप्ते हरिसंतर्प्यशीतलैः।
दध्यन्नाद्यैर्नरोभूयात्सर्वकिल्बिष वर्जितः।। 161
वैशाखेवैष्णवादिभ्ये(लस्तुदद्याद्गुडेदकं)योददातिगुडैदकं।
द्ध्यन्नव्यजनादीनि छत्रपादुकदक्षीणाः।। 162
फलानिचहरिप्रीत्यै तस्यमुक्तिःकरेस्थितः।
हिमवंत ऋतौ वस्त्रकंचुकादि प्रदाने फल निरूपणं
हिमवंत ऋतौयस्तु वस्त्रपर्यंककंचुकान्।। 163
वैष्णवेभ्यन्तुयोदद्या त्सोपिवैकुंठमाश्रयेत्।
श्रीवेष्णवान्न भश्रण फलं
सर्वदा वैष्णवान्नंतु भुंजीयाद्विबुधोत्तमः।। 164
साक्षाद्धरिप्रसादंतु तद्भवेन्नचसंशयः।
पंच संस्कार महिमा
पंच संस्कार महिमा त्वसमाभवति धृवं।। 165
तस्मात्सायुज्यकामा स्धान्धारयेत्तुफाथरातले।
श्रीवैष्णवस्य पुज्यता निरूपणं
श्रीवैष्ण(प्रपन्नंतु)वोत्तमंविप्रं हरिपूजापरायणं।। 166
यदारृश्यतिलोकेस्मिन् साष्टांगंप्रणमेद्द्विजाः।
तद्वंदनात्सदाभूमौ इष्टार्धान्लभतॆनरः।। 167
श्रीवैष्णव भोजने सहास्र ब्राह्मण भोजनफलं
श्रीवैष्णवद्विजंत्वेक्क भुजित्वावैसहस्रकं।
विप्रसंतर्पणफलं कर्ताभूमौलभेद्द्विजा।। 168
श्रीवैष्णवनिंदायां प्रत्यवायकधनं
श्रीवैष्णवप्रसन्नंतु योनिंद तिधरातले।
वेषभाषादिकंदृष्ट्या सगच्छेन्नरकंधृवं।। 169
ऊर्ध्वपुंड्र महिमा
ऊर्ध्वपुंड्रस्य मात्रेण वैष्णवं पूजयेदर्भृवि।
तदूर्ध्वपुंड्रंलोकेतु यत्रकुत्रापिदृश्यतेः।। 170
(साष्टांगतु प्रणम्यात्र)प्रणामंतस्यवैकृत्वा धूतपापोनरोभवेत्।
श्रीवैष्णव सांगत्य फलं श्रीवैष्णव पाद तीर्थविशेषः
श्रीवैष्णवस्यसंगस्या न्महापातक नाशनं।। 171
तस्यपादांबुपानंच जन्मकाहित्य कारणं।
श्रीवैष्णव भुक्तशेषान्नादिक भक्षण फलं श्रीवैष्णव पूजादिक फलविशेषः
श्रीवैष्णवैर्भुक्तशेष मन्नं(मोक्षफलप्रदं)मोक्षप्रदंस्मृतं।। 172
यस्यभक्षणमात्रेण विष्णोस्सायुज्युमाप्नुयात्।
श्रीमद्भागवताचार्य पादपूजापरोनरः।। 173
श्रीवैष्णवपदांभोज ध्यानसंसक्तमानसः।
हरेःप्रीतिमतःकृत्याश्रीवैकुंठमवाप्नुयात्।। 174
भगवद्दर्शने प्रधमं लक्ष्मी दर्शनं
भगवद्दर्शनेचादौ श्रियादीनांचदर्शनं।
पुरुषाकारभूतंस्याद्देवस्यारुग्रहप्रदं।। 175
तस्माच्छ्रीद्दर्शनंत्वादौकृत्वादेवस्यदर्शनं।
भगवद्दर्शने पादादिमुखपर्यंत दर्शनं त्याज्यप्रणाम प्रदक्षीण निरूपणं देवालयादिकच्छायालंघनादित्याज्यःषयाः
तधापिपावमारभ्य मुखपर्यंत(दर्शनं)मीक्षणं।। 176
वैष्णवानांतुविहितं गोप्यमेतन्मुनीश्वराः।
एकहस्तप्रणामंच येकंचैवप्रदक्षणं।। 177
लंघनंत्वालयच्छाया द्वजदंडस्यशौरिणः।
ध्वजस्थानंतुत्यक्त्वावै हरेर्धाम प्रदक्षणं।। 178
नत्वेतेशुभदाःप्रोक्ता(वासतदेवस्य मंदिरे)स्सर्वशास्त्रेषुनिश्चयः।
हरिप्रदक्षणे भूप्रदक्षण फलकथनं
प्रदक्षणंहरेर्धान्नुः भूप्रदक्षणमीरितं।। 179
द्वित्रिवारंयधाशक्ति प्रत्यहंविबुधोत्तमाः।
कार्तीकमासेदीपप्रय्वलन फलकथनं
कार्तिकेमासिश्रीविषोर्गेहे(दीपान्) दीपंज्वलंतिये।
ज्वलन फलकधनं गृहार्चायां विशेषः
तेषांश्रीहरिसायुज्यं लभत्येवनसंशयः।। 180
गृहेसंस्थाप्यदेवेशं श्रियादिसहित द्विजाः।
प्रत्यहंपूजतेयस्तु यधाविभवविस्तरैः।। 181
तस्यसर्वाणिपापानि मुत्यंतेनात्रसंशयः।
तस्याभीष्टप्रदंभूया दिहलोकेचभूसुराः।। 182
अर्चकदंडने दोष निरूपणं
अर्चकंदंड्यतेयस्तु क्रोधलोभादिहेतुभिः।
तस्यपूर्वार्जेतंपुण्यं सर्वंचापिविनश्यति।। 183
गृहर्चारहित गृहस्य स्मशान साम्यता कधनं सर्व गृहेषु शंख चक्रोर्ध्वपुंद्राद्यलंकार विधिः
यस्मिन्गेहेगृहोर्चातु नभवेद्वैष्ण नस्यच।
तद्ग्रुहंतुस्मशानंस्या त्संशयोनास्तिभूतले।। 184
सर्वदावैष्णवंगेहं शंखचक्रोर्थ्वपुंड्रकैः।
अलंकुर्यान्मुनिश्रेष्ठा श्शास्त्रोक्तविधिनाभुवि।। 185
वैष्णवेतरान्न भक्षणे प्रत्यवायः
अवैष्णवकृतंत्वन्नं नभगवन्निवेदितं।
नकदाचभुजेद्विप्रा यस्तुभक्षतिमोहः
तस्यवंशविनाशंच(नरकंच भवे धृवं)रौरवंनरकंभवेत्।
देवालय सेवकानां पंच संक्कारावश्यकता
देवाल(येषु सर्वत्र सर्वसेवक संततिः)यस्यसर्वेपि सेवकास्तुधरातले।। 187
पंचसंस्कारसंयुक्ता निर्णीतव्या(हिसर्वदा)द्विजोत्तमाः।
पूजाकालेतुदेवस्य दर्शनंयःकरिष्यति।। 188
पूजाकाले ऊर्ध्वपुंड्रविहीनेन भगवद्दर्शनेशृतेः
ऊर्ध्वपुंड्रविहीनें षुखेनवसुधातले,
तस्यभूयान्महापापं तत्पूजानिष्फलंभवेत्।। 189
इत्येवंहरिणाप्रोक्तं पुराकमलजन्मने
नाभक्तायनशिष्याय नकदापिप्रकाशयेत्।। 190
अध्यायांतः
गुह्याद्गुह्यतरंचैत दुष्माकंयतुदीरितं।
संग्रहेणद्विजश्रेष्ठास्तद्विस्तारेणबोधितुं।। 191
शेषोपिचनशक्तस्या(ससहस्रभण मंडितः)न्निश्चयंनचसंशयं,
अस्यश्रवणमात्रेण धूतपापोनरोभवेत्।। 192
इति श्रीपांचरात्रागमरहस्यसारे श्रीपरपुरुषसंहितायां
भगवत्तीर्धप्रसादादिक महिमाभि वर्णनं नाम
चतुर्धोऽध्यायः
Chapter - 5
श्रीपांचरात्रागमांतर्गत श्रीपरम पुरुष संहिता
पंचमोऽध्यायः
धर्माधीकारि विनिश्चय विधिः
ऋषयः
देवालय धर्म पालन विषये ऋषी प्रश्नः
भगवन् संयमिश्रेष्ठ सर्वधर्मविदांवर।
देवालयेष्वर्चकास्तु सदापूजापरायणाः।। 1
तस्मात्तेषां सहायार्धं किंकर्तव्यंधरातले।
यस्यनिर्णय(मात्रेण)कार्वेण सकालाराधनार्थकं।। 2
सेवकाश्चान्यवस्तुश्च अर्चकस्यलभेद्भुवि।
तत्सर्वंविस्तरेणैव(अस्माकंबॄहि हेमुने)चास्माकंवदभोविभो।। 3
नारद प्रतिवचनं
श्री नारदाः-
धर्मकर्तृ निर्णय कथनं
शृणुध्वमुनयस्सर्वे हरिध्यानपरायणाः।
वक्ष्यामिभगवद्गेहे अधीकारिविनिश्चयं।। 4
तन्निर्णयावसर निरूपणं
कल्पितेतुहरेर्धाम सर्वैश्चपरिचारकैः।
भोगरागैश्चविभवैश्शाश्यतैर्यदिभूतले।। 5
तन्निर्णय समय निरूपणं
(तेषां तुपालनार्धंवै) एतेषांपालनार्थंस्या दधीकारि विनिश्चयं।
प्रतिष्ठांतेतुदेवस्य यजमानःप्रसन्नधीः।। 6
अर्चकादीन् विनिश्चित्य यधाशास्त्र विधानतः।
देभ्यस्तुभगवद्गेहं दत्वातद्भलसिद्धये।। 7
तत्सहायार्धमेलैक मधीकारिं विनिश्चयेत्।
धर्मकर्तृ लक्षण कथनं
सद्ब्राह्मणस्सदाचारी सत्यवादी बहुश्रुतः।। 8
पापभीतयुतश्चैव बहुशास्त्र विशारदः।
पंचरात्र विथानज्ञो ब्रह्मवादीच धर्मवित्।। 9
परदारथनाकांक्षा वर्जितो(वृद्धभूनुरः)वृद्धयेवच।
पंचसंस्कार संयुक्तः प्रियभाषीकृपाविधिः।। 10
मताभिवृद्धिकामश्च महाभक्तशिखामणिः।
उत्तमान्वयसंजातो योगविद्याविशारदः।। 11
धीरश्चधीयुतश्शांतः क्षमाशालीच(वेष्णवः)धैर्यवान्।
सदसद्विवेचनादक्षो सदानम्रश्चसज्जनः।। 12
ब्रह्मचारिर्गृहस्तोवा काननस्धोधवायतिः।
(पूर्वोक्त लक्षणैर्युक्तो)एतैश्च लक्षणैर्युक्तो दुष्टरोगविवर्जेतः।। 13
देवालये सदाभूया दधीकारिर्द्विजोत्तमाः।
तत्कर्तव्यविधयः दिवारात्रं भगवत्सन्निधि वासः
तस्यकर्तव्यमद्याहं वक्ष्यामि मुनिपुंगवा।। 14
ब्राह्मीमुहूर्त मारभ्य यावत्पूजावसानकं।
भगवत्सन्निधावेव सवसे(त्सततं)त्सर्वदाशुचिः।। 15
आराधनार्ह वस्तु संपादनं आदायव्यय परिशिलन लेखनादि
सकालाराधनार्थंतु सर्ववस्तुचसेवकान्।
संपाद्यपूजकेभ्यस्तु दद्याद्वैधर्मपालकः।। 16
(देवादायव्ययादीनि)देवादायंव्ययंसर्वं सयेवपरिशीलयेत्।
लेखकैस्सर्वयेवैते प्रत्यहं(चापि)चविलेखयेत्।। 17
धर्मकर्तृनिर्णयेगृहस्थाद्याश्रम भेदेन उत्तमाधमनिरूपणं यतिनिर्णये श्रेष्टतो निरूपणं
यतिश्चेदुत्तमःप्रोक्तः गृहस्धोमध्यमस्स्मृतः।
अधमो ब्रह्मचारीच अधिकारिविनिश्चये।। 18
यस्माद्थरेर्दर्शनार्थ(मागच्छंति)मागच्छंते प्रभुस्त्रीयः।
असूर्यं पश्यताश्चैव भक्त्यातु सततंभुवि।। 19
तस्मा(त्सदाहरेर्गेहे)द्देव समीपेतु वासयोग्यस्तुयोभवेत्।
सर्व संगपरित्यागी सयतिस्त्वुत्त मस्स्मृतः।। 20
विप्रनिर्णयहेतुः सामान्य विप्र निर्णये विशेष परिशीलनं
यद्वातु सभवेद्विप्र स्सर्वदालोक पूजितः।
तत्रापि परदारासु धनेषु विमुखश्शुचिः।। 21
गृहस्धो ब्रह्मचारीवा धर्मकर्ताभ वेद्भुवि।
अपत्नीकस्य अनर्हता शूद्रस्य अनर्हता हेतु कथनं
अपत्नीकस्तुनकदा भवेद्दर्माधिपोद्वजाः।। 22
यस्मात्तु पूजाकालेषु शूद्रसेवान उच्यते।
तस्मादेव सशूद्रस्तु धर्मकर्ताभ वेद्भुवि।। 23
मतांतरस्य अनर्हता निरूपणं
यस्मान्मतप्रचारार्धमेते देवालयास्स्मृताः।
तस्मान्मतांतरोविप्रो नभवेद्धर्म पालकः।। 24
अनर्ह निर्णये प्रत्य वाय कथनं
यजमानो यदाशौरेर्गेहं निर्मायतेभुवि।
राजाराष्ट्राभिवृद्ध्यर्धं शास्त्रोक्तेनैव(वर्त्मना)मार्गतः।। 25
तदा(विधि विधानेन)तच्चास्त्र विधिना धर्मकर्तांच निश्चयेत्।
अन्यदा कुरुतेचैतत्सर्वंस्यान्निष्फलंबुधाः।। 26
मतांतर विप्र निर्णये देवालय गौरव नाशः
मतांतरस्स्वभावेन दूषकोन्य मतेभवेत्।
तस्मात्तस्य विनिर्माणे धर्मकर्तृपदेद्विजाः।। 27
लोकस्यापि विनश्यंति गौरवाद्यास्तदालये।
तस्मात्तुस्व मतस्धंवैब्राह्मणं तत्रनिर्दिशेत्।। 28
अब्राह्मण निर्णये पूजा लोपोदिक निरूपणं
अब्राह्मणस्त्वनर्हस्या द्वेदादि पठनेभुवि।
तस्माच्छास्त्र विधानार्चांकंध(त्वेषा)मेषोविमर्शति।। 29
तस्मात्तस्य विनिर्माणे नकिंचिल्लभतेफलं।
थर्मकर्तृ सम्मानहेतु निरूपणं
देवालयोधिपोयस्मान्नतधर्मस्य पालकः।। 30
तस्मात्तं हरिभावेन सदा (लोकस्तु)लोकेच पूजयेत्।
अर्चकंविना सर्वसेवकदंडने धर्मकर्तु रधीकारः
अर्चकद्विज मेकंतुविना (त्वन्यान्तु)चालयसेवकान्।। 31
सर्वान् चदंडितुंशक्तो धर्मकर्ताभ वेद्भुवि।
धर्मपालक दंडने यजमानस्यार्हता
तद्थर्म पालकंलोके यजमानस्तुदंडयेत्।। 32
यधातु भगवद्गेह निर्माणानंतरंभुवि।
अनर्हधर्माधिकारिनि निर्णयेप्रत्यवायः
निर्णीतव्यार्च काश्चान्यास्सर्वलक्षण संयुताः।। 33
तधैव धर्मकर्ताच यजमानेन भूतले।
पूर्वोक्त लक्षणैर्युक्तः (निश्चितव्यो)निर्णीतव्योयधाविधिः।। 34
यजमानस्तु योमोहा त्पूर्वोक्यैस्सर्वलक्षणैः।
अयुक्तं वाद्विजंवापि यदिनिर्णयतेतदा।। 35
तत्संभ वेकर्तव्य विधिः
तद्देवालय नाशंस्याद्देशारिष्टंच भूसुराः।
कर्तृनाशंभ वेत्तद्वदधीकारि क्षयंभवेत्।। 36
यत्रभूयात्तु पूर्वोक्त मयोग्याधिपनिर्णयं।
शांतिहोमादिकान्कृत्वासंप्रोक्ष्य भगवद्गृहं।। 37
तक्षणेत्व परंधर्म पालकं लक्षणैर्युतं।
विनिश्चत्य हरेःप्रीतिं यजमानस्तु कारयेत्।। 38
धर्मपालकस्य उपाधि प्रकल्पनं
धर्माथिकारिणश्चापि (उपादिंच)जीननार्धं यदावसु।
भूमींवाभृतकंवापि यजमानो विनिश्चयेत्।। 39
भूमीस्यादुत्तमंलोके भृतकं त्वधमंस्मृतं।
तस्मात्सर्वप्रयत्ने नभूमीयेव प्रदापयेत्।। 40
वंशपारंपर्य निर्णय कधनं
वंशपारं परेणैतन्निश्चयंतु भवेद्भुवि।
शिष्यपारं परायद्वा यतिश्चेद्य दिनिश्चितः।। 41
यति निर्णये शिष्यपरंपरा निरूपणं
यजमानस्स्व यंयत्र धर्मरक्षणमिच्छति।
पूर्वोक्तलक्षणैर्हीन स्तत्रस्थानाधिपंतुना।। 42
यजमानस्स्वयमधीकारमिच्चतिचेत्कर्तव्य निरूपणं
अर्चकं वाविनिश्चित्य नामकार्थं तुतत्पदे।
तदाज्ञ यात्वर्हकार्याण्याचरेतस्वयंसः।। 43
प्रत्यहं देवदेवस्य सन्निधौ धर्मपालकः।
देवालये प्रतिनित्यं आदायव्ययादि पठनं तस्मिन् संशयानि पृच्छयांभक्तानामर्हता
सर्वाण्या यव्ययाधीनि(पाठयेद्भक्ति नम्रतः)पठेद्भक्ति विनम्रतः।। 44
तस्मिन्यदा संशयश्चे त्किंचिद्वाघनमेववा।
तदासर्वेषिभक्ताश्चशक्ताःपृच्छतुमालये।। 45
तत्पत्रे अर्चक सम्मति स्वीकारः
एवंतत्पठनं कृत्वायाधर्मकर्ताह्यनंतरं।
भगवत्प्रीतये तस्मिन् पत्रेपूजक सम्मतिं।। 46
भगवदास्थाने सर्वसेवकादि प्रदर्शनं
स्वीकृत्यचतदाविष्णो रास्धाने सर्वसेवकान्।
समाहूयचतानेक मेकंशौरेःप्रदर्शयेत्ः।। 47
नित्यंच वासुदेवस्य सन्निधौ धर्मपालकः।
प्रातःकाले भगव द्विज्ञापनं
(प्रभातेतु)प्रातःकाले नमस्कृत्य विज्ञापन मधाचरेत्।। 48
देवदेव महाविष्णोदिनेस्मिन् तवमंदिरे।
विमर्शयामि सर्वाणि धर्माणि भवदाज्ञया।। 49
सेवकेषुच सर्वेषु यस्मिन् दोषोभ वेत्क्वचित्।
तान्चदंडयितुंचाज्ञांकृपया(ममदीयतां)दीयतांप्रभो।। 50
इतिविज्ञाप्य देवेशं पुष्पमाल्यादिभिस्तदा।
धर्मकर्तृ सम्मान विधिःभगवद्द्रव्याभरणादिकगणन निवेदनं सेविक प्रदर्शंच
सम्मनितो भ वेद्धर्श पालकः प्रतिवासरं।। 51
भगवद्द्रव्यभूषादि गणितंचत दास्स्वयं।
विज्ञाप्य सेवकानांतु गणनंच प्रदर्शयेत्।। 52
एवं प्रतिदिनंचादौ कृत्वातद्धर्म पालकः।
तदारभ्यहरेस्ध्साने सर्वधर्माणि पालयेत्।। 53
धक्मपालन लोपेन सेवक दोषफलं स्वयमनुभवनीयं भगवर्द्रव्यहरणे प्रत्यवायः
यदाच भगवद्गेहे सेवकेष्वेन केनच।
दोषादिकं (संभवेच्चे) यदिभवेद्धर्मपालन लोपतः।। 54
तद्भलंतु स्वयंधर्म कर्ताभुंजीत भूतले।
लोभाद्वामोहतोवापियेनकेनापिहेतुनाः।। 55
यत्किंचिद्भ गवद्रव्यं धर्मकर्ताहरेद्भुवि।
सजन्मशत साहस्रैश्श्वानयोनिंसमाश्रयेत्।। 56
रौरवं नरकं गच्छे द्यावदाभूतसंप्लवं।
इहलोकेच सर्वाणि दुःखानिसमवाप्नुयात्।। 57
भगवद्दर्शनार्धमागतस्त्रीषु अन्यभाव प्रदर्शनेदोष प्राप्तिः
यस्तुपश्येद्थरेर्गेहे भगवत्सन्निधौवसन्।
यस्यकयस्यापिचस्त्रीयो दर्शनार्धं समागताः।। 58
मोहदृष्ट्यातुसोधर्म कर्तावापूज कोपिवा।
वंशक्षयमवाप्नोति रौरवं नरकं व्रजेत्।। 59
भगवद्वस्त्र माल्यादि निर्माल्यधारणे अर्चकार्हता
वस्त्रभूषादि कानांतु निर्माल्यानांश्रियःपतेः।
स्वीकर्तुमर्ह यित्युक्तोह्यर्चकस्त्वेक येवहि।। 60
स्वार्धपरतयास्वसुत बांधवादिक सेवक निर्णयेदोषः
तस्मा(त्तद्दरणेचैव)त्तेषांच हरणे धर्मकर्ता निनश्यति।
यस्मात्तु धर्मकर्ताच स्वसुतान् बांधवान्हरेः।। 61
सेवकेषुनियुंजीत लोभमोहादि हेतुभिः।
तस्मादेवसदातस्य नरकं संभवेद्भुवि।। 62
देवालय निवास अग्रासनाधिवासा दिषु प्रत्यवायः
देवालय निवासंच आग्रासन सुखस्धितिः।
यजमानंच थर्माधि कारिणंहंतिभूतले।। 63
प्रत्यहंनित्यपूजादौयजमानस्यनामच।
महाक्षेत्र नित्य पूजादिषु यजमानादिक गोत्र नामादिनवक्तव्य कधनं
नपक्तव्यं महाक्षेत्रे स्वयंव्यक्तादि केशुभे।। 64
केवलंलोकरक्षार्थ मेत(त्पूजां प्रकल्पयेत्)त्पूजाभवेत्सदा।
तस्माद्यत्रतुकर्तावै स्वनाम्नार्चनमीच्छते।। 65
प्रत्येक मेवत्पूजां (नित्यंचापि)प्रतिनित्यं समाचरेत्।
उत्सवांतेय समानस्यसम्मान विथिः
उत्सवांतेतुदेवस्य यजमानंहरेर्गृहे।। 66
पुष्पमाल्यानुलेपाद्यै र्मानयेत्सततंभुवि।
यजमानाभावेधर्म पालक सम्मानविधिः अब्राह्मण यजमानसंभवे रक्षासूत्र धारणं
दीक्षा वस्त्रधारणंच
अप्रत्यक्षेतुवै(कर्त्रुः)तस्यतत्ध्सानेधर्मपालकः।। 67
माननीयस्सदाभूयात्पूर्वो(क्तेनैव वर्त्मना)क्तविधिनाद्विजाः।
अब्राह्मणोभवेद्यत्र यजमानस्तुभूतले।। 68
रक्षासूत्रं तुतत्ध्साने घंटायां बंधयेत्पुरा।
तदन्वेकंतुलौक्यंच यजमानस्य बंधयेत्।। 69
धीक्षावस्त्रादिकास्सर्वा स्तधैवस्यान्मुनीश्वराः।
एतद्वैथर्मपालस्य निर्णयादि विधानकं।। 70
इति श्रीपांचरात्रागम-रहस्यसारे श्री-परमपुरुष-संहितायां
धर्माधिकारि विनिश्चय विधिर्नाम
पंचमोथ्योयः
Chapter - 6
श्रीपांच रात्रागमांतर्गत श्रीपरमपुरुष संहिता
षष्टोऽध्यायः
संप्रोक्षणादि समय निरूपणं
ऋषयः
संप्रोक्षणावसर समय निरूपणे ऋषि प्रश्नः
भगवन् मुनिशार्दूल सर्वशास्त्रार्ध कोविद।
हरेर्गेहे किमर्थंतु संप्रोक्षण माचरेत्।। 1
विभेदोस्मिन् चकिं प्रोक्तं विस्तरेण(वदस्वनः)वदप्रभो।
श्रीनारदप्रतिवचनं
श्रीनारदः
शृणुध्वंमुनयस्सर्वे भक्तियुक्तैस्तुचैतसैः।। 2
संप्रोक्षण विधान कथनं
संप्रोक्षण विधानंतु अद्यवक्ष्यामि विस्तरात्।
आलयेप्रोक्षणंचैवन्नपनं मधुविध्विषः।। 3
आलय पतनादिषु ध्वजस्थंभादिक विच्छिन्ने बिंबपतनचलवादिषु
शांतिहोमं चान्नदाने संप्रोक्षणमि तीरितं।
आलयेपतनेचैव चलने(ऋषिपुंगवाः)चमुनीश्वराः।। 4
ध्वजस्धंभादिविच्छिन्ने विनष्टेशिखरस्यतु।
बिंबस्य पतनेचैव चलनेहसने तधा।। 5
पूयालोपाग्ने नष्टादिषु
पूजालोपेचाग्नि(नाशे)नष्टे अंगभंगादि संभवे।
नैवेद्यहीन अखंड नाशादिषु
नैवेद्यहीने चाखंड दीपनाशेतदापिच।। 6
विद्युत्पातादिषु अग्निदाहे जीर्णोद्धारे भूकंपातिवृष्ट्या दिषु
आलयध्वज बिंबानां अग्निदाहादि संभवे।
जीर्णोद्धारादि केचैव संप्रोक्षमुदाहृतं।। 7
भूकंपेचातिवृष्टौच विद्युत्पाताल्पवृष्टिषु।
देशारिष्टेदुर्निमित्ते संप्रोक्षण माचरेत्।। 8
छत्रचामं वाहनादिक दहने
छत्रचामरवस्त्रादि वाद्यवाहन भूषणाः।
दहंतिचे(प्रमादाद्यै)द्यदाविप्रा श्शांतिहोमादिकंचरेत्।। 9
वर्षांबु क्रिमिकीटा द्यैर्बिंबस्पृष्टौ
क्रिमिकीटादि भिर्बिंबं स्पष्टंचेद्यदि भूसुराः।
वर्षांबु पतनंचैव संभवेद्यदि विग्रहे।। 10
प्रोक्षणं स्नपनंचैव शांतिहोमं समाचरैत्।
अनर्चकच्पृष्टौ रोमकेश वायस शुनकादि भिस्पृष्टौ
अनर्चकेन विप्रेण स्पृष्टं चेद्यदि विग्रहं।। 11
रोमकेशादिभिस्स्पृष्टं तधानिष्टीवनादिभिः।
गृध्रवायसगौल्यादि शुनकादिभि रैवच।। 12
संप्रोक्षणं प्रकुर्वीत यधाशास्त्र विधानतः।
छंडालशुनकाद्यालय प्रवेशे
(छंडाल गार्थभगृद्धश्वानकुक्कुट वायसैः)छंडाल शुनकाद्यैस्तु देवालय प्रवेशने।। 13
अनर्चकगर्भगैह प्रवेशे
अनर्चकनरैश्चैव(गर्भालय) गर्भगेहप्रवेशने।
रजकनापकद्यैरंतराल प्रवेशे
रजकैर्नाप कैश्चैव अंतराल प्रवेशने।। 14
वायसाद्यैश्च सर्पद्यैर्गर्भगृह प्रवेशने।
वायसाद्यैर्गर्भालय प्रवेशे
संप्रोक्षणंतदाकार्यंयथाविथिद्विजोत्तमाः।। 15
स्त्रीणां रजोदर्शने प्रसवादिक संभवे जाताद्याशौचैरालय प्रवेशे
संभवेद्यदि नारीणां रजोदर्शनमालये।
गर्भश्रावंच प्रसवं तदासंप्रोक्षणंचरेत्।। 16
जाताद्याशौचयुक्ताश्च प्रविशंति यदालयं।
संप्रोक्षणंतदाकुर्याच्छास्त्रोक्तेनैव वर्त्मना।। 17
जारचोराद्यैर्बिं बस्पृष्टौ आलये जननमरणादि संभवे मथुमासाद्यानीते
जारचोरादि भिर्बिंबं स्पृष्टंचेद्यदिभूसुराः।
जननंमरणंचैव आलये यदिसंभवेत्।। 18
आनीतामधुमांसाद्या यदादेवालयेनघाः।
तदासंप्रोक्षणं(कुर्वा)सर्वंशांतिहो(मादिपूर्वकं देवालय प्रवेशेच संप्रोक्षणमाचरेत्ः।।)मंयकारयेत्।। 19
मृतशरीराद्यानीते
यदामृतशरीरंतु आनीतं भगवद्गृहे।
विसर्ज्य तक्षणंचैतत् दूरतोमुनिसत्तमाः।। 20
संप्रोक्ष णादिकंसर्वं (पूरोक्त)यधोक्त विधिनाचरेत्।
बिंबस्य आतप
संभवेदा तपस्पर्शा भगवद्विग्रहेयधा।। 21
खद्येतादिक संस्पर्शाबिंबेसंभवतेयदा
स्पृष्टौ वर्ज्यपुष्पादिक समर्पणे
तदाच प्रोक्षणंकुर्या त्स्नपनं शांति होमकं।
वर्ज्यपुष्पादिभिर्वापि दूषितैर्वामधुद्विषः।। 22
पूजासंभवतेयत्र तत्रसंप्रोक्षणंभवेत्।
क्रिमिकीयाद्यैर्दूषितान्न निवेदने अन्यदेवता प्रदर्शने नित्योत्सवादिक लोपे
क्रिमिकीट शिलारोम केशाद्यैर्दूषितंयदा।। 23
निवेदयेद्धरेरन्नं तदासंप्रोक्षणंस्मृतं।
यात्राकालेयदिभवे दन्यदेवस्यदर्शनं।। 24
वासुदेवस्य तत्काले संप्रोक्षण माचरेत्।
नित्योत्सवस्यलोपेच नित्याराधन लोपने।। 25
तक्षणंस्नपनंकृत्वा शांतिहोमय माचरेत्।
पुनःपूजादिकंसर्वं यधाविधि समाचरेत्।। 26
नित्यनैवेद्यलोपे
नित्यनैवेद्यलोपेच विशेषस्नपनादिकं।
शांतिहोमादि(कंकुर्याद्यथाविधिबुथोत्तमाः)सकलं कुर्वतांमुनिपुंगवाः।। 27
दिनत्रयंनैवेद्यलोपे
नैवेद्येयदिलोपंस्यात्त्रिदिनंमधुविद्विषः।
(कालशैरष्टोत्तर शतैःस्नपनादिक माचरेत्)अष्टोत्तरशतैःकुर्यात्स्नपनंकलशैस्तदा।। 28
शांतिहोमादिकंचैव यथाविधितदाचरेत्।
दिनत्रयमारभ्य पक्षपर्यंतं
त्रिदिनंतु समारभ्ययावत्पक्षावसारकं।। 29
नैवेद्येयदिलोपंस्या द्येनकेनच हेतुना।
उत्तमोत्तममार्गेण स्नपनादिकमाचरेत्।। 30
मासपर्यंतं नैवेद्यहीने
मासंतस्याधिकंवापि नैवेद्येयदिलोपिते।
सहस्रकलशैस्नानं प्रोक्तंदेवस्यशार्ङ्गिणः।। 31
षण्मासं नैवेद्य लोपे
षण्मासंवातदाथिक्यं नैवेद्येयदिलोपिते।
पुनःप्रतिष्ठाकर्तव्या यधाविथिबुधोत्तमाः।। 32
महोत्सवलो कालातिक्रमणादिषु
महोत्सवस्यलोपेच कालातिक्रमणेपिच।
संप्रोक्षणादि कंकृत्वापुनःकुर्यान्महोत्सवं।। 33
होमाग्नि नष्टादिषु
अग्नेनष्टेच होमाग्नौ अशुभस्यचदर्शने।
जिह्वाहोमादिभेदे
जिह्वाभेदेन होमादि भवेद्यदि तदापिच।। 34
समिध दोषादिके
समिधेष्वार्द्रतादोषा स्संभवेच्चेन्मुनीश्वराः।
जलहोमे
तधाच घृतभावेन जलहोमादि संभवे।। 35
तदासंप्रोक्षणं(चैव-शांतिहोमं समाचरेल्)शांति होमंकुर्याद्यथाविथिः।
ध्वजनाशे
महोत्सवस्यमध्येतु ध्वजनाशेबुधोत्तमाः।। 36
शांतिहोमादिकंकृत्वा ध्वजमन्यत्समद्धरेत्।
पालिकाद्यंकुर दोषादिषु
पालिकादिष्वंकुराणि(नभवेद्यदिवा) नभवंतियदाद्विजाः।। 37
यद्वात(दंकुराणां)दंकुराश्चैव शुष्के (नाशादि संभवे)नाशेयधाविधि।
संप्रोक्षणंतुकृत्वाग्नौ शांतिंपरिसमाप्यच।। 38
पुनस्स्यादंकुरारोपं यथाशास्त्रविधानतः।
कुंडालंकरणानां नष्टादिषु
यदातुकुशकूर्चादि कुंडालं करणानिच।। 39
विनश्यंतिदहंत्यैव तदासंप्रोक्षणंचरेत्।
पुनस्तान् चसुसंस्कृत्य यधापूर्वं विनिक्षिपेत्।। 40
ब्रह्मकूर्चनाशे
ब्रह्मकूर्च विनिष्टेच शांतिहोमादि पूर्वकं।
पुनरेकंतु सस्धाप्यकर्म शेषं समापयेत्।। 41
द्वारतोरणकुंभादिक नष्टादिषु
द्वारतोरण कुंभानां विनष्ठेदहने(तधा)पिच।
संप्रोक्षणं यथाशास्त्रंकुर्वतांमुनिपुंगवाः।। 42
कुंडाग्नौ मार्जाल मूषकादिक पतने देवालये वल्मीक मध्वादिक संभवे
मार्जालमूषिकादीनि गौलिर्वा दृश्चिकंतुवा।
सर्पादीनिचकुंडाग्नौ पतंत्यदिमुनीश्वराः।। 43
तदासंप्रोक्षणंशांति होमंकुर्याद्यधाविधि।
अलयेसंभवेद्यत्र मधुवल्मीक संभवं।। 44
मार्जालमूषकादिक जनन मरण संभवेषु
दूरतस्तान्विसृज्यात्र शांतिहोमं समाचरेत्।
मार्जाल मूषकादीनां (जननमरणेकथा)जननंमरणंतुवा।। 45
आलयेयदिसंप्राप्ते तक्षतणात्फ्रोक्षणंस्मृतं।
गृद्धवायसमार्जालाद्यालय प्रवेशेमलनिष्टीवनादिशे
मार्जालं मूषिकंचाहि र्वृश्चिकंगौलिरेवच।। 46
खद्येतंवायसंगृध्रं गार्धभश्वान कुक्कुटाः।
प्रविशंतियदागेहॆ मलनिष्टीवनादिकं।। 47
कुरुतेचालयेवापि बिंबेवापि मुनीश्वराः।
बिंबस्पृष्टौच नित्यनैमित्तिकाराधनादीं कालातिक्रमणे मंत्रतंत्रद्रव्य लोपादिषु
तैस्सृष्टंयदिबिंबंच तदासंप्रोक्षणं स्मृतं।। 48
नित्यनैमित्तिकाख्यासु पूजासुचसवेषुच।
कालातीतंभवेद्यत्र शांतिहोमंसमाचरेत्।। 49
द्रव्यलोपेतुदातारं मंत्रलोपेतु पूजकं।
हंतिसर्वकलापाश्च(तस्माज्जाग्रतजाग्रता)निश्चयंमुनिसत्तमाः।। 50
पवित्राद्युत्सव लोपे
पवित्राद्युत्सवानांच यदिलोपादिकंभवेत्।
संप्रोक्षणंतुकृत्वावैपुसस्तान् सर्वमाचरेत्।। 51
अर्घ्यपात्रादिक हस्तघंटा पतने संवत्सरोत्सवेषु लोपारिक संभवे
अर्घ्यपाद्यादिपात्राणि हस्तघंटाच भूसुराः।
पतंतिचेद्यदाभूमौलघुसंप्रोक्षणंभवेत्।। 52
संवत्सरोत्सवेषुश्च यदालोपादिकंभवेत्।
तदल्पाधिकतांवीक्ष्य (संप्रोक्षण माचरेत्)प्रोक्षणादिकमाचरेत्।। 53
घटनीरांजनेकालेयदितद्दीपनाशनं।
नीरांजन नाशेगंध पुष्पाद्युप चारलोपे
हरेःपुष्पोदकस्नानं कृत्वानीरांजनंचरेत्।।
नित्याराधनकालेतु गंथपुष्पादिलोपिते।
क्षहरेस्तु क्षमांप्रार्ध्य द्विगुणंतत्समर्पयेत्।।
संप्रोक्षणादिक परित्यागे प्रत्यवायः
इदंसंप्रोक्षणादीनां (समयस्यनिरूपणं)समय प्रवचनंबुधाः।
(येवलोभादिकैस्त्वेते त्यक्तास्तस्यक्षयं धृवं)यस्तुलोभान्नकुर्वीत यदितस्य क्षयंभवेत्।। 54
देवश्चकुवितोभूयात्तद्राष्ट्रंचविनस्यति।
तदालयविनाशंच (नचिरात्सवं)शीघ्रमेवभवेद्द्विजाः।। 55
इति श्रीपोंचरात्रागम-रहस्यसारे श्रीपरमपुरुष-संहितायां
संप्रोक्षणादि समय निरूपणं नाम
षष्टोऽध्यायः
Chapter - 7
श्रीमत्पांचरात्रांतर्गत श्रीपरमपुरुष संहिता
सप्तमोऽध्यायः
भगवदपचार निरूपणं
ऋषयः-
श्लो।। वुनिसत्तमभोदेव नारदद्विजपुंगव।
भगवदपचारादि कधने ऋषि प्रश्नः
देवालयेषुलोकेस्मिन् ज्ञानाज्ञानकृतंतुयुत्।। 1
अपचारस्वरूपंच तस्मिन् भेदनिरूपणं।
ब्रूह्यस्माकंदयासांद्र तद्भलं(त्वद्यबोधय)चवदप्रभो।। 2
श्रीनारदः
नारद प्रतिवचनं अपचारकरणे दोष निरूपणं
अधवक्ष्ये विशेषेण अपचार निरूपणं।
क्रोधलो(भादिकैः कैश्चित्)भमदाद्यैस्तु हेतुभिर्मुनि सत्तमाः।। 3
अपचारः कृतोयेन भगवत्सन्निधौभुवि।
तस्यनस्याद्यधाचैव भुक्तिमुक्तिध्वयंद्विजाः।। 4
भगवत्पाद तीर्धे जल सामान्य भावनं प्रसादे अन्न भावनं
भगवत्पादतीर्धेतु सामान्यजलभावना।
प्रसादेवासुदेवस्य सामान्यान्नभावनं।। 5
नैवेद्यात्पूर्व माघ्राण भक्षणादिषु प्रसाद भक्षणे
नैवेद्यात्पूर्वमन्नस्य आघ्राणं(भक्षणंतथा)चापिभक्षणं।
प्रसादभक्षणाच्छौरेः करशुद्धिश्चभूसुराः।। 6
करशुद्धिःदेवालयादिषु मलमूत्रादिकरणं देवालये निवास शयन भोजनादि अग्रासनस्थितिः
देवारये विग्रहेच कुंडाग्नौ चद्विजोत्तमाः।
मलमूत्रपुरीषादि करणंनिष्टीवनंतधा।। 7
देवा(लये)लयनिवासंच शयनंभोजनंतधा।
अग्रासनोपवेशंच महादोषयितिस्मृताः।। 8
प्रसादभक्षणे कालात्रीतादिशंकानिर्माल्यधारणे अगौरव भावनं प्रसादे रुचिशंका देवालये शुचिशंका तद्भल प्राप्ति कधनं
प्रसादभक्षणेविष्णोः कालातीतादिभावना।
निर्माल्यधारणेचैव अश्रर्धाचयगौरवं।। 9
प्रसादेरुचिशंकाच शुचिशंकाहरेर्गृहे।
येनकेनकृतंलोके तस्यवंशक्षयं(स्मृतं)भवेत्।। 10
देवालय गमनात्पादप्रक्षालनं
देवालयाद्गृहंगत्वा पादप्रक्षालनंकृते।
विग्रहॆशिलालोहादि भावं उत्सवेष्वपहास्यं
शिलालोहादि भावंच भगवद्विग्रहेकृते।। 11
अपहास्यंकृतेचैन उत्सवादिषुशार्ङ्गिणः।
अकालेदेवालय कवाटमोचनं पूजाकाले दर्शनं
अकालेतुहरेर्गेहे कवाटानांविमोचने।। 12
आराधने प्रवर्तेतु भगवद्दर्शने(तधा)कृते।
देवालये कलहं असत्य भाषणंच भगवद्वस्त्रादिक धारणं तद्भल निरूपणं
कलहंचा सत्यभाषा भगव(न्मंदिरे)त्सन्निधौकृते।। 13
भगवद्वस्त्रभूषादि धारणे(हरणेतथा)चधरातले।
देवालये मद्यमांसभक्षणादि पशुपक्षिहनसं स्त्रीसंगमं चौर्यं परिहासनिंदाभाषणं तद्भलश्रुतिः।
देवालयेसुरापानं(मत्स्यमांसादि)मांसादीनांचभक्षणं।
पशुपक्ष्यादिहसनं वनितासंगमंतधा।। 15
चौर्यंच परिहासंच निंदावचनभाषणं।
येनकेनकृतं(लोकॆ तस्यवंशक्षयंभवेत्)तस्य वंशनाशनमीरितं।। 16
भगवद्वस्तु हरणं भगवन्निंदनंच अनर्चकेन गर्भालय प्रवेशं
भगवद्वस्तुहरणं तधाचहरिनिंदनं।
अनर्चकेनयेनापि गर्भालयप्रवेशनं।। 17
अर्चके विप्रलामान्य भावं
भगवत्पूजकेचैव विप्रसामान्य भावनं।
तन्निंदन दंडनादि तश्रद्धव्यहरणादि तिद्भल श्रुतिः
निंदनं दंडनंचैव (तत्पूजक बुधं द्विजाः)अर्चकस्यद्विजोत्तमाः।। 18
तस्यदुःख प्रदानंच तद्द्रव्यहरणंतथा।
यःकरोति विमूढात्मा तस्यायुश्श्रीश्चनश्यति।। 19
देवालये छत्रपादुकादि धारणं तद्भल निरूपणं
छत्रपादुक धारीच दंडधारीच भूतले।
प्रविशेच्चेद्धरेर्गे(हे)हं तस्यवंशक्षयंस्मृतं।। 20
देवस्यपुरतः छत्रादि धारणं तद्दोष निरूपणं
अग्रेतु देवदेवस्य छत्रपादुकलांछनैः।
योगच्छेत्तस्यनांशस्या द्रौरवंनरकं (भवेत्)लभेत्।। 21
अर्चनादि पुष्पादि कहरणे थारणेच कंचुकोष्णी षैहि मंदिर प्रवेशं
भगवत्बूजनार्धंतु आनीताः कुसुमादिकाः।
योहरेतस्यवैघोरं नरकंलभतेद्विजाः।। 22
कंचुकोष्णीषधारीच नगच्छेद्धरिमंदिरे।
हरेःप्पृष्ठ दर्शनं तीर्ध प्रसाद वर्जनं तत्फ्रतिफल प्राप्तिः
नपृष्टंदर्शनीयंस्या द्देवदेवस्यशार्ङ्गिणः।। 23
योवर्जतिहरेस्तीर्थं प्रसादंभक्तिलोपतः।
तप्यान्वयस्य नाशंस्या त्सगच्छेन्नरकं धृवं।। 24
भगवतीर्धस्य भूवतनादिकं
तीर्धादिग्रहणेविष्णो(र्भक्तिराहित्य हेतुना)रश्रर्थादिक हेतुभिः।
येनतत्पतितं भूमौ तस्यायुश्रीश्चनस्यति।। 25
यस्त्वात्मानं कर्मयोगिं मत्वाहंकृतिनाजडः।
तीर्थविसर्जनं तद्दोषः
विसर्जतिहरेस्तीर्धं सकलाकाल शंकया।। 26
तस्यपूर्वार्जितंपुण्यं सर्वंचापि विनश्यति।
देवालय प्रवेशेच सत्वनर्हयितिस्मृतः।। 27
म्लेच्छपाषंडादिक देवालय प्रवेशे दोष निरूपणं
म्लेच्छपाषंडजातीनामालयस्यप्रवेशने।
तदन्येषांचभक्तानां गौरवं (दि)तुविनश्यति।। 28
,स्मात्तेषांप्रवेशेतु अनर्हत्वं निरूपितं।
यदाभूयत्तत्प्रवेशं येनकेनच हेतुना।। 29
तत्प्रवेशे संप्रोक्षणादि कर्तप्यं
महा संप्रोक्षणंकृत्वा शांतिहोदिकंसरेत्।
भगवद्दर्शनार्थमागत स्त्रीष्वन्यभावनं प्रसाद विनियोगे अन्यसंभाषणादि
भगवत्संदर्शनार्ध मागतासुचस्त्रिषुयः।। 30
अन्यभावंकरोत्येव तस्यनाशो(भवेद्थृवं)भविष्यति।
विनियोगस्यसमये प्रसादस्यश्रियःपतेः।। 31
अन्यसंभाषणादीनि(वर्जनीयानि भूसुराः)वर्जयेत्सततंभुवि।
प्रसादनिंदनरंघन घट्टनादि
प्रसादलंघनंचैव घट्टनं(चापि)चतुनिंदनं।। 32
तद्दूषणं चतद्दोष प्राप्ति कधनं
दूषणंयेनकेनापि वंशनाशन कारणं।
एकहस्त प्रणामादि देवतांतराधिक्य कीर्तनं
एकहस्त प्रणामंच एकंचैव प्रदक्षणं।। 33
हरिगेहेविसर्जंस्यात्स्रेय(स्कामैर्धरातलै)स्कामैस्सदाभुवि।
भगवन्मंदिरेत्वन्य देवाधिक्य प्रकीर्तने।। 34
ऊर्ध्वपुंड्राद्यपहास्यं भगवच्चरितादिक निंदनं तद्दोषविशेषः
ऊर्थ्वपुंड्रादिकंदृष्ट्या(परिहसत्यदिभूसुराः) परिहासं कृतेयदि।
भगवच्चरितालाप श्रवणादिक निंदने।। 35
येनकेनापिभूमौतु महद्दुःखंभविष्यति।
देवालयादिक निर्माण विघ्नकल्पनं तद्दोष प्राप्तिः
देवालयविनिर्माणे येनविघ्नादिकंभवेत्।। 36
तस्यवंशक्षयंभूया दचिरेणनसंशयः।
महोत्सव भंगकारणं तद्दोषप्राप्तिः
महोत्सवस्ययोभूया द्भंगकर्ताधरातले।। 37
पांडुरोगेसदाभूत्वा नरकंप्रतिच्छति।
कुंडाग्नि दीपादिक शमनं तद्दोषः
शमयेद्यस्तुकुंडाग्निं (दीपस्य)दीपप्रज्वलनंतुवा।। 38
देवालयेतस्यभूया द्घोरदुःखंधरातले।
भक्तनिंदन दूषणादिकं। तद्दोषः।
भक्तानां दूषणेचैव निंदनेविबुधोत्तमाः।। 39
सर्वाभीष्ट विनाशंच भवेच्चैव धरातले।
मधुमांसाधिकं भुक्त्वा आलय प्रवेशं
मधुमांसादिकं भुक्त्वायःप्रविश्यति मंदिरं।। 40
स्नानादिकं विना आलय प्रवेशं तद्दोष प्राप्तिश्च यात्राकाले उपाहारादिक प्रधानं तद्दोषश्च
अस्नातस्त्वशुचिश्चैव ऊर्ध्वपुंड्र(विवर्जतः)विहीनकः।
तस्यवंश क्षयंभूयान्निश्चयं मुनिसत्तमाः।। 41
यात्राकालेतु देवेशं समीपेस्वग्वहस्यतु।
दृष्ट्वात मुपहाराद्यै र्योनतृप्त्यति भूतले।। 42
तस्यधान्य धनादीनि(सर्वेकार्याश्च निष्फला।।)सर्वाणिस्यात्तुनिष्फलाः।
अलक्ष्यकरणं तत्प्रतिफलंच अन्यभक्षित फलादीनां भगवदर्पणं
आगतंपुरमध्येतु हरिंदृष्ट्वातुयोनरः।। 43
अलक्ष्यं कुरुतेचैव प्रणामं नकरोतिच।
तस्यभूयान्म हद्दुःखं रौरवं नरकं(भवेत्)व्रजेत्।। 44
अन्यभक्षण शेषंतु योदद्याद्वै फलादिकं।
आघ्रातगंथ पुष्पादि समर्पणं देवालयादिदहनं तद्दोष प्राप्तिः
आघ्रातगंध(पुष्पाद्याः)पुष्पादीन् हरेस्तस्यभवेदघं।। 45
देवालयं दहेद्यस्तु अर्चकगृहमेववा।
तस्यवंश क्षयं श्रीघ्रं भवत्येवन संशयः।। 46
अर्चकस्त्रीष्वन्यभावनं तद्दोषप्राप्तिः!
अर्चकस्त्रीषुयःकुर्या(द्दुष्टभावं)दन्यभावं मुनीश्वराः।
तस्यभूयान्महा(दुःखंरौरवंनरकंतधा)घोर दुःखंतु वसुधातलेः।। 47
भगवतापहास्यं तद्दोषश्च
महाभागवतान् विप्रान् दृष्ट्वायः परिहास्यति।
तस्यपूर्वार्जितं पुण्यं वित्तं (सर्वंच)चापिविनश्यति।। 48
रधवाहकादि निंदनं तद्दोषः
रथस्थेतु जगन्नाधे तद्रधस्यतु वाहकान्।
योनिंदतिसदाभूमौ तस्यदुःखं महद्भवेत्।। 49
भगवच्छास्त्रे अपौरुषेयत्वशंका! तद्दोष निरूपणं
देवालयस्य यद्धर्म शास्त्रंस्या त्पांचरात्रकं।
तस्मिन्नपौरुषेयत्वे शंकायःकुरुतेनरः।। 50
ध्वयारोहाद्यवरोह मध्ये अन्नगाम गमनं तद्दोषः
तस्यवंशक्षयंविद्दि सर्व(शास्त्रेषु निश्चतं)शास्त्र विनिश्चितं।
थ्वजारोहणमारभ्य यावत्तीर्थदिनोत्सवं।। 51
आन्यग्रामादिगमनं यस्यकस्या पिनाशनं।
भगवदुत्सवे मनुष्योत्सवादिकरणं तद्दोषः
दैवोत्सवेप्रवर्तेतु नमनुष्योत्सवंचरेत्।। 52
यःकरोदि विमूढात्मा तस्यवंश क्षयं(भवेत्)धृवं।
याताशौचादिषु देवालय प्रवेशं तद्दोष प्राप्तिः
(द्याशौच कालेषु)शौचमृताशौचे आलयंयःप्रविश्यते।। 53
तस्यवंश विनाशंच रौरवंनरकं भवेत्।
वस्त्रहीन देवालय प्रवेश तद्दोष निरूपणं
वस्त्रहीनस्तुयश्शौरे र्मंदिरं संप्रविश्यति।। 54
समहापातकैर्युक्त श्चंडालस्याद्धरातले।
देवालयाग्रतःणामादिनकरणं तद्भलप्राप्तिः
प्रयस्तुगच्छेद्धरेर्गेह पुरतः(मार्गतोपिवा)पधिमार्गतः।। 55
देवालयाग्रभागेतु नमस्कारं समाचरेत्।
योनकुर्यात्तधातस्यकुल नाशनमुच्यते।। 56
देवद्रव्यहरणं भगवत्सेवकोपादि भंगकरणं तद्भलितंच
देवद्रव्यापहरणं महापातक मीरितं।
भगवत्सेवकोपादि भंगरकरणं तद्फलितंच
भगवत्सेवकानांतु उपाधौभंग कल्पनं।। 57
येन केनापितद्वंश नाश(कारण)हेतुकमीरितं।
नूतनागत पुष्प फलादीनां भगवत्समर्पण विशेषःतन्नकरणे प्रत्यवायः
फलपुष्पादिकंचैव धान्यादीनिचभूसुराः।। 58
यदाभवेन्नूतनंतत्छ्रीहरेस्तु समर्पयेत्।
योनदद्यात्तथौशौरे स्तद्वृद्धिर्नभवेद्भुवी।। 59
अर्चकाज्ञा दिपाल नावसर कथनं
अन्येष्वितरकार्येषु अर्चकाज्ञांतु पालयेत्।
स्धानाधिपस्यया यद्वा भक्तिश्रर्धादि(संयुतः)कैर्युतः।। 60
तन्नकरणेदोषः
एवंनकुरुतेयस्तु तस्यदुःखं(महत् स्मृतं)महद्भवेत्।
अध्याय परिसमाप्तिः
इत्येवं भगवद्गेहे अपचारनिरूपणं।। 61
ज्ञेयंसर्वैश्चलोकेस्मिन् श्रेयःकामै(स्तुसर्वदा)र्द्विजोत्तमाः।
इतिश्रीपांचरात्रागम-रहस्यसारे श्रीपरमपुरुष-संहितायां
भगवदपचार निरूपणंनाम सप्तमोऽध्यायः
Chapter - 8
श्रीमत्पांचरात्रागमांतर्गत श्रीपरमपुरुष संहिता.
अष्ठमोऽध्यायः
भक्तभाव विलक्षणकधनं
ऋषयः-
भक्तभाव विलक्षण विषये ऋषि प्रश्नः
श्लो।। भगवन्मुनिशार्दूल(हरिध्यानपरायणा) सदाहरि परायणा।
पुरात्वयोदितास्सर्वाःप्रपन्न स्यतुलक्षणाः।। 1
किंत्वद्यश्रोतुमिच्छामो तस्यभाव विलक्षणं।
केनभावेनमहता लोकेसर्वजनास्सदा।। 2
भवसागरमग्नाश्च अमग्नायिव श्रीपतेः।
सायुज्यं प्राप्तुमर्हंति (तदद्यवदनोमुने)तद्वदन्व महामुने।। 3
श्रीनारदप्रतिवचनं भक्तभाव विलक्षण कधनं भावनाधिक्य निरूपणं
श्रीनारदः-
शृणुध्वं मुनयस्सर्वेलोकानुग्रहकांक्षया।
अपेक्षितंयदुष्माभि श्श्रोतुमद्यबुथोत्तमाः।। 4
तद्भावनाक्रमंचैकं लोके(मुख्यमितीरितं)मुख्यतमंस्मृतं।
कर्मण्यस्मिन् चकस्मिन्वा यद्भावंतद्भवेद्धृवं।। 5
सत्कार्य निर्वहणाशक्तानां भावमात्रेण फलप्राप्तिकथनं भावरहित कर्मणो निष्फलत्व निरूपणं
हरिकैंकर्य करणे अंगलोपादि हेतुभिः।
आलयादिकनिर्माणे धनहीनतयापिच।। 6
येवर्तंति जनालोके तेचभावनयातया।
प्राप्नुवंतिहरेस्थ्सानं दुर्लभंपरमंमहत्।। 7
येभवेयुस्सदापुण्यक्षेत्रयात्रापरानराः!
सर्वदापुण्यतिर्धेषु सुस्नाताश्चतधैवच।। 8
हरिमंदिरनिर्माता स्तधायज्ञपरा(पिच)भुवि।
तद्भावरहिताश्चान्य भावेनयदिवर्तते।। 9
तेषांतुतद्भलं(नास्तिकिंचिच्चावि मुनीश्वराः)भूयान्नकिंचिच्चमुनीश्वराः।
गजस्नानवदेतेषां सर्वेकार्याश्चनिष्फलाः।। 10
प्रसन्नयिवभावकरणे विशेषकधनं
अद्याहंते प्रवक्ष्यामि प्रपन्न स्यमहामतेः।
भावनालक्षणंतद्व द्यःकरोतिधरातले।। 11
तस्यवैनिश्चयंविष्णो स्सायुज्यंमुनिसत्तमाः।
देवालयादि निर्माणे कर्तव्य भाव निरूपण विधिः
पुरायेवमयाप्रोक्तं हरिपूजाविधानके।। 12
देवालयादिनिर्माणे प्रसादादिकभक्षणे।
तधैवसर्वशास्त्रोक्त धर्माद्याचरणे(षुच)पिच।। 13
भोजनादिक सामान्यकर्म सुभावमात्रेण विशेष प्राप्तिः
यद्भावेनप्रवर्तव्यं तत्सर्वं विस्तरेणवः।
अद्यवक्ष्याम्यशक्तानां भक्तानांभावनाक्रमं।। 14
एनभावेनलोकेस्मिन् सर्वसामान्य कर्मसु।
भोजनस्नानपानादि सर्वेषुचमहाफलं।। 15
स्वगृहेदेवालय भावः। स्वात्मनि पूजक भावः दारापुत्रादिष्वालय परिचारक भावः तद्भल निरूपणं
प्रपन्नस्समनाप्नोति तच्छ्रुणुध्वंमुनीश्वराः।
गृहस्थस्सर्वदास्वीय गृहंतुहरिमंदिरं।। 16
आत्मानमर्चकंदारा पुत्रास्त्वन्येतुसेवकाः।
इति(भावेन)मत्वाप्रवर्तेतयदि तस्यहरेर्गृहे।। 17
स्वकलत्रपुत्रादिक भूषणादिषु भगवत्समर्पण भावः तद्भलंच
सर्वदाप्यर्चितंपुण्यं लभतेनात्रसंशयः।
स्वकीयदारापुत्राणां पोषणेभूषणेपिच।। 18
तेषामंतस्थितंशौरिं ध्यायन्तस्मैहिसर्वदा।
समर्पितं(चेतिभाव्य यजमानस्तुभूतले)सर्वमेत दितिमत्वाधरातदले।। 19
स्वशरीरक्षालने भगवदालय सम्मार्जनादिक भावः स्ववस्त्रधारणेधामालंकार भावः
हरेस्समर्पितंपुण्यं प्राप्नोतिसनरोत्तमः।
यस्तुकुर्वीतसद्भावं(स्वकीयस्नानकर्मणि! मार्जनप्रोक्षणानि)स्वशरीरस्यक्षालने।। 20
सम्मार्जनादिकंचेि भगवन्मंदिरेबुधाः।
स्ववस्त्रधारणेचैव अलंकारंहरेर्गृहे।। 21
भोजने भगवन्निवेदन भावः तेषां फल निरूपणं
भोजनेचस्वकीयांतः प्रविष्ठस्यनिवेदनं।
इत्येवं भावमात्रेण सर्वदासनराग्रणिः।। 22
तद्भलंसर्वमाप्नोति (संशयोनास्ति भूसुराः)नास्त्यस्मिन् संशयंभुवि।
वैष्णवादिक वंदने भगवद्वंचन फल निरूपणं
वंदनेवैष्णवादीनां तेषांतुहृदयस्थितं।। 23
श्रीहरिंमनसाध्यात्वा तद्मंदनफलंलभेत्।
संध्योपासना द्यैर्भगवत्प्रीतिरकणं नष्टवस्त्रादिके हरि समर्पण भावनं
संध्याद्युपासनेचैव देवर्षिपितृतर्पणे।। 24
केवलंभावमात्रेण सर्वदेव स्वरूपिणं।
हरिंसंतर्प्यतेभूमौ निश्चयंमुनिसत्तमाः।। 25
प्रमादाद्यदिवस्त्रंवा भूषावाधरणीतले।
यदिस्यात्पतितंनष्टं यस्यकस्यच भूसुराः।। 26
तद्वस्त्रादिक सर्वंच हरेरर्पण भावनात्।
तद्भलप्राप्ति कधनं चोरापहृतवस्तुषु हरिसमर्पण भावनं तेनफलप्राप्ति कधनं
लभतेतद्भवंसर्वं संशयोनास्ति(भूसुराः)भूतले।। 27
चोरेणापहृतंयद्यप्यस्यकस्यधनादिकं।
तत्सर्वंश्रीमहाविष्णो रर्पितंचेतिभावयेत्।। 28
तेनभावेनमहता चोरस्यहृदयेस्थितः।
शौरिस्तृप्यतिपूर्वोक्त थनाद्यैर्मुनिपुंगवाः।। 29
दुःखितयेव भगवत्कृपापात्रः भगवत्कृपया दुःखसंभ हेतु निरूपणं भक्तानां दुःखहेतुः
यस्यलोकेमहद्दुःखं (भवेद्भुविद्विजोत्तमाः)भविष्यतिधरातले।
तस्मिन्नेवतुदेवेशः प्रसन्नयितिभावयेत्।। 30
किंतुयस्मीन् महाविष्णुः प्रसन्नस्याद्धरातले।
सतुसर्वंचप्रारब्धं जन्मजन्मांतरार्डितं।। 31
अद्ययेवतुभक्त्वांते हरेसायुज्यमाघ्नयात्।
तस्मादेवहिलोकेस्मिन् भक्तानांदुःख संभवं।। 32
धनधान्याधिक्य तयाभवबंधाधिक्य कधनं भक्तशोधनं
किंसलोकेनराणांतु धनाधिक्यतयासतं।
भवबंधाधिकताचैव संभविष्यतिभूतले।। 33
तस्मादेवहरिर्यस्य सायुज्यंदातुमिच्छते।
महद्दुःखानितत्पूर्वं दत्वाशोधतितंस्वयं।। 34
सुखदुःखादिषु समानभाव निरूपणं
(जगत्सृष्ट्यौतु देवस्य)सृष्ट्यौतुदेवदेवस्य सुखंदुःखं समंस्मृतं।
तस्मात्प्रपन्नस्तुसुखे दुःखेचसमभावनं।। 35
कृत्वाहरिप्रसादैव भावयेद्दुःख संभवं।
लोकेस्मिन् यस्यवैभूया (द्विशेषधन गौरवं)दधिकं गौरवंधनं।। 36
सौख्याद्याधिक्यतया भक्तिलोप कथनं दुःखितस्यमोक्ष प्राप्तिः
सौख्यंचदारापुत्राश्च सहाकीर्तिश्चमान्यता।
तस्यश्रीभगवद्भक्तिरल्पमेवभवेत्सदा।। 37
तस्मात्सुदुःखितोप्यत्र प्रपन्नस्तुधरातले।
सदाहरिपदध्यान(परतो)निरतोमोक्षमाप्नुयात्।। 38
मृत्युप्राप्तिर्नज्ञात विषयः तद्ञ्जानेनप्रपन्नस्यकर्तव्य निरूपणं
जगत्यस्मिन्हिसर्वेषां मृत्युर्देहेनजायते।
किंत्वस्यप्राप्तिमात्रंतु (सज्ञातुंशक्त्यतेनरः)ज्ञातुंकोपिनशक्त्यते।। 39
तस्मात्प्रपन्न स्स्वात्मानं मृत्युदंष्ट्रांतरस्थितं।
सर्वदाभूतलेज्ञात्वा जन्मराहित्यकांक्षया।। 40
माधवंहृदयेध्यायन् सर्वकार्येषुवर्तयेत्।
मार्गसमीप देवालय प्रवेशादिषु स्नानादिनाम नावश्य कधनं भगवन्नामस्मरणेन भक्तानांशुद्धि निरूपणं
यस्तुगच्छेद्थरेर्गेह समीपेमार्गतोपिच।। 41
अस्नातस्त्वशुचिश्चैव मंदिरंसंप्रविश्यच।
भगवद्दर्शनंकुर्या द्भक्त्यानिर्मलचेतसा।। 42
यस्स्मरेद्भर्तिभावेन हरिंस्वहृदयेवरः।
सभूयात्सस्वदा(भूमौ परिशुद्धस्तुनिर्मलः)लोके परिशुद्धोविनिर्मलः।। 43
तस्माद्यस्ययदाशौरेर्दर्शनंतुहठाल्लभेत्।
तदाबाह्यविशुद्ध्यापि रहितोदर्शनंचरेत्।। 44
भगवद्दर्शने सर्वशुद्धि निरूपणं-भगवद्दर्शन महिमा
किंच शौरेर्दर्शनंच स्वयंशुद्थिंकरिष्यति।
महापातक वर्गंच स्वमहिम्नाहिकेवलं।। 45
स्नानदान जपादिभ्यो यद्भलं(नलभेद्द्विजाः) दुर्लभं भुवि।
तत्सर्वं हरिसेवायां लभिष्यति धरातले।। 46
शरिरस्य अस्थिरत्वनिरूपणं-हठाल्लब्द हरिदर्शनत्यागे प्रत्यवायः
लोकेस्मिन् यस्यकस्यापि शरीरं बुद्बुदं भवेत्।
सर्वेजना(श्चलोकेस्मिन्)स्सदालोके मृत्युदंष्ठ्रातरस्थिताः।। 47
तस्मादयत्न सिद्धंश्री हरिदर्शन सद्भलं।
यःत्यजेन्मूढ भावेन अशुद्ध्यादि क(भावनात्)हेतुना।। 48
तस्यस्नानाद्यनुष्ठाना नंतरं हरिदर्शनं।
कर्तुंचाप्यु चितंकालं (लभेतनपनर्भुवि)नलभेच्चधरातले।। 49
तस्मात्प्रपन्नस्तुसदा भगवद्दर्श नादिकं।
भगवद्दर्शस्य प्रधम कर्तव्य निरूपणं
सर्वाधिक्यं तुसंभाव्य यत्रकुत्र चतल्लभेत्।। 50
यदाकदावातन्मुख्य मग्रेकृत्वान्य दाचरेत्।
सर्वधर्माणां भगवत्कैंकर्य भावेन कर्तव्यत्व निरूपणं
लोकेसमस्त(कार्याणि धर्माणिच मुनीश्वराः)धर्माणि सर्वेकार्याश्च भूसुराः।। 51
हरिकैंकर्यरूपेण भगवच्छास नादिति।
प्रसन्नानां काम्य राहित्येनापि अभीष्ट सिद्धि निरूपणं
मत्वाकुर्वंतु तस्माद्वै जगन्नाधोरमापति।। 52
तेषुतृप्तस्सदाभूत्वा सर्वाभीष्टानि (दास्यति)दीयते।
यःकरोति सकामश्च पुण्यकार्याणि भूतले।। 53
सकामानांच अर्ह फलसिद्धिरेव-नत्दिष्ट सिद्धिः- काम्यकर्म विसर्जन हेतुः-
तस्यापि श्रीपतिस्त्वर्ह फलान्येवददातिवै।
यदाकॄर ज्वरोपेतो जल्पते भोजनादिकं।। 54
तथाभवज्व रोपेत स्सर्वाकामान् चवांछति।
यधातुप्रधमं वीक्ष्य माताप्यन्नंनदीयते।। 55
तधाद्वितीय मालोक्य हरिश्चेष्टान् नदीयते।
सर्वभारसन्यास निरूपणं
तस्मादेव सदाकाम्यं कर्मत्याज्यंहि सज्जनैः।। 56
किंतुप्रपन्न स्सर्वंच हर्यधीनं विभावयन्।
सर्वभारंच श्रीनाधौ सन्न्यस्य भुविवर्तयेत्।। 57
तस्यदोषादिकंयस्मिन् कस्मिन्कार्येच नाभवेत्।
प्रसन्नानां दिव्यक्षेत्र यात्रावसर कधनं-
प्रसन्नस्सर्वदालोकेयदिशक्त्यति भूसुराः।। 58
दिव्यक्षेत्रादि कंसर्वं गत्वातेषु जनार्दनं।
तत्रतत्र स्थितानंत महिमादिकस्सयुतं।। 59
संवीक्ष्यश्रीहरेर्लीला विशेषादिर दर्शनात्।
ब्रह्मानंदमवाप्यांतेहरेस्सायुज्यमाप्नुयात्।। 60
दिव्यक्षेत्रादि कानांतु अधिक्यंशृणु तांद्विजाः।
प्रतिष्ठादिक भाव निरूपणं-
प्रतिष्ठांतेतु देवस्य आचार्यस्स्वात्म निस्थितं।। 61
तपश्शक्तिं(समस्तंच)कलांचैव ब्रह्मरंध्रेण विग्रहे।
स्वहस्तस्पर्शना देव स्थावयिष्यति भूतले।। 62
तदारभ्य महाभक्ताः प्रपन्नास्संयमीश्वराः।
स्वतपश्शक्ति महिमां लोकानुग्रहकाम्यया।। 63
दिव्यक्षेत्र महिमंतक्षेत्राः ऋष्यादीणां तपोनिथयः- दिव्यक्षेत्र दर्शन महिमा
केवलंभाव मात्रेण प्रविश्यंतिच विग्रहे।
तस्माद्दिव्यस्थलाःप्रोक्ता देवर्ष्यादि(प्रपूजिताः) प्रतिष्यिताः।। 64
सद्भक्तानां तपश्शक्ति निधयो (यितिभावयेत्)क्षेत्रेनामकाः।
केवलंदर्शनात्तेषां सर्वेपापाः प्रमुच्यते।। 65
दिव्यक्षेत्र निवास, शरीर विसर्जनादिषु विशेष निरूपणं-
तक्षेत्रेषु निवासंच(तत, देह विसर्जनं)स्वशरीर विसर्जनं।
केवलं(श्रीहरेस्थ्सान प्राप्तिसाथन मीरितं)सद्गतिप्राप्ति हेतुभूत मितीरितं।। 66
तक्षेत्रेषु निर्माल्य धारण तीर्थ प्रसादादिक भक्षणे विशेषः-
तक्षेत्राथिपतेश्शौरेः निर्माल्यादि कधारणं।
तत्रतीर्थ प्रसादादि भक्षणंच धरातले।। 67
सर्वाघ (शमनंभूयात्)शमनंचैव सर्वसौख्य प्रदायकं।
निरामय करणचैव अयुराकोग्य साधनं।। 68
तक्षेत्र निवासाना माथिक्यता-तेषांदर्शन सेवनादिषु विशेषः
भक्तामोदकरं(शौरेःप्रियकारणमुच्यते)भूयान्निश्चयंमुनि सत्तमाः।
पुण्यक्षेत्रेषु येभक्ता स्सर्वदानिव संतिते।। 69
विशेष महिमोवेता स्संभवंति धरातले।
तस्मात्तेषांच सांगत्ये दर्शनेच महाफलं।। 70
अयुरारोग्य संवृद्धि र्ङ्ञानसिद्धि (र्भवेद्द्विजाः)र्लभेद्धृवं।
यस्तुदद्यात्तुतेषांवै गोभूवस्त्रधनादिकं।
सहस्र फलदंभूयान्निश्चयं मुनिसत्तमाः।।
वैष्णव द्विजमेकंतु भुजित्वाक्षेत्र वासिनं।
सहस्रविप्रसंतृप्ति फलंप्राप्नोति भूतले।।
अध्यायांतः
एतत्सर्वंपुरात्वंबु जासनःप्रधमंस्वयं।। 71
शृत्वातुहरिणातद्व न्मयिप्रीत्यावभोधयत्।
तदिदानींतुयुष्माकं बोधितं (मुनिसत्तमाः)गोप्यमुत्तमं।। 72
इति श्रीपांचरात्रागमरहस्यसारे श्रीपरमपुरुष-संहितायां
भक्तभाव विलक्षण कथनं नाम
अष्टमोऽध्यायः.
Chapter - 9
श्रीपोंच रात्रागमांतर्गत श्रीपरमपुरुष संहिता
श्रीजयंत्याद्युत्सव निर्णयविधिः
नवमोऽध्यायः
श्रीजयंत्याद्युत्सव काल निर्णय विषये ऋषि प्रश्नः
ऋषयः
श्लो।। भगवन् (संयमिश्रेष्ठ)मुनिशार्दूल जगन्मंगल दायका।
श्रीजयंत्युत्सवादीनां निर्णयंकधमीरितं।। 1
वदस्व नोमहाभाग यदितेविद्यतेकृपा।
नारद प्रतिवयनं
श्रीनारदः
शॄयतां (मद्यमुनयो)नंयमिश्रेष्ठयदुष्माभिरवेक्षितं।। 2
श्रीयंत्युत्सवादीनां निर्णयंनक्ष्यतेधुना।
श्रीराम नवमी
चैत्रमासेसितेपक्षे नवम्यांच पुनर्वसौ।। 3
मेषसंक्रम युक्तायां मध्याह्णॆकर्कटेतधा।
रामचंप्रो हरिस्साक्षा दाविरासीज्जगत्पति।। 4
तस्मात्पुनर्वसूयुक्ता मयुक्तां वातधैवच।
मेषसंक्रमणोपेता मयुतां मपिभूसुराः।। 5
चैत्रशुक्लाष्टमीविद्धा रहितां कलयापिच।
परवेधायुतांवापि नवमीदिव संपुरा।। 6
विनिश्चित्यतुतस्मिन् वैसीतारामं जगत्पतिं।
विघेषोत्सवसुस्नान पूजाभोगादि कैश्शुभै।। 7
लोककल्याणहेत्वर्थं प्रत्यब्दं परितोषयेत्।
श्रीनृसिंहजयंती
वैशाखेमासि शुक्लायां चतुर्दश्यां(द्विजोत्तमाः) मुनीश्वराः।
पूर्ववेधादिकंहित्वा परवेधा युतामपि।। 8
शुद्धांच तुर्दशींवीक्ष्य मुहूर्तं वाकलापिवा।
तस्मि(तुवासरे देवं)न्नेवदिनेशौरिं नृहरिं सम्यगर्चयेत्।। 9
तज्जयंतीति विख्यातो नृसिंहस्य जगत्पतेः।
दध्योदनगुडान्नाद्यैश्शीतलैश्च जगत्पतिं।। 10
संतर्प्य सर्वदालोके सुखंसौख्यं लभेन्नराः।
विशेषस्नानपूर्वादीन् यधाशास्त्रं प्रकल्पयेत्।। 11
यःकरोति नरोमोहात्कामविद्धांच तुर्दशीं।
धनापतैर्वियुज्येत तस्मात्तां परिवर्जयेत्।। 12
तधैवस्वातीयुक्तांवा वृषभेनतु संयुतां।
मधुमासचतुर्दश्या रहितांदिव संत्यजेत्।। 13
श्रीकृष्णजयंती
अधातस्संप्रवक्ष्यामि श्रीकृष्णस्य जगद्गुरोः।
जन्माष्टमीजयंत्योर्वैनिर्णयं(मुनिसत्तमाः)विबुधोत्तमाः।। 14
श्रीवैष्णवेषुयेकुर्युःंकाम्यंकर्म धरातले।
तेषांजन्माष्टमी(भूयात्)प्रोक्तातदन्येषांमहात्मनां।। 15
निष्कामकर्म निरतां (वैष्णवानां)प्रसन्नानां विशेषतः।
श्रीजयंतीतिविख्यातो भुक्तिमुक्ति फलप्रदा।। 16
नभोमास्य सितेपक्षे सिंहसंक्र मसंयुते!
सौम्यवारेचरोहिण्या मष्टम्या मर्धरात्रतः।। 17
देवकीनंदनश्शौरि श्श्रीकृष्णस्सम जायत।
तस्मात्प्रत्यब्द मेतस्मिन् दिवसे पुरुषोत्तमं।। 18
नानाविधोपहाराद्यैर्विविधैरुपचारकैः।
विशेषैरुत्सवैश्चैव तोषयेद्वि बुधोत्तमाः।। 19
नभोमास्यदि वानस्यात्सिंहसंक्रम(णंबुधा)संभवं।
सिंहभाद्र पदेकुर्यादुत्सवं संयमीश्वराः।। 20
सप्तमीविद्धयायुक्ता मष्टमींच तथैवच।
कृत्तिकावेधा सहितां रोहिणीं चविसर्जयेत्।। 21
सप्तमीवेधारहित शुद्धाष्टम्यामपिद्विजाः।
रोहिणीयदि नस्यात्तु तदावैमृगशीर्षया।। 22
संयुतामपितस्मीन् वैहरॆःकुर्यान्म होत्सवं।
अष्टमीपूर्वगातारायदिचेत्सं यमीश्वराः।। 23
तां विसर्ज्याष्टमींशुद्धा मुत्सवार्धं(परिग्रहेत्)प्रकल्पयेत्।
यदाष्टमीरोहिणीच द्वयं वेधादि दूषितं।। 24
तदामृगेण संयुक्त नवम्या मुत्सवंचरेत्।
यदानवम्यामपिच रोहिणी दूषितं भवेत्।। 25
मृगेणच दशम्यांवै कुर्यादे तन्महोत्सवं।
एकस्मिन् सिंहमासेतु यदाऋक्षद्वयंभवेत्।। 26
प्रधमंतु परित्यज्य परतोत्सव माचरेत्।
यदाद्वि तीयऋक्षंतु संक्रमेणच दूषितं।। 27
तदातुप्रधमंऋक्ष मत्सनार्धं विधीयते।
एकस्मिन् सिंहमासेच (यदाऋक्षद्वयंभवेत्) नक्षत्रद्वय संभवं।। 28
श्रीजयंतीयोग निरूपणं
अष्टमीरोहिणीयोगं नवमीरोहिणीतधा।
दशमीरोहिणीचैव मृगयुक्ताष्टमीतधा।। 29
नवमी मृगशीर्षाच दशमी मृगसंयुता।
योगानेतान् समालोक्यतदनु(र्मुनिसत्तमाः)द्विज पुंगवाः।। 30
विशेष योगदिवसे कुर्यादे तन्महोत्सवं।
यदितद्योग कालंच द्विवारंलभते(तदा)द्विजाः।। 31
एकस्मिन् सिंहमासेतु पूर्वंहित्वा परंचरेत्।
ऋक्षप्रधान निष्काम कर्माचरण दीक्षितां।। 32
प्रपन्नानां जयंती स्याद्येवं शास्त्रोक्तवर्त्मना।
काम्यकर्म पराणांतु वैष्णवानां (धरातले)तुभूतले।। 33
श्रीजन्माष्टमी निरूपणंच
जन्माष्टमी निर्णयं(तु,)च वक्ष्याम्य द्यमुनीश्वराः।
अष्टमीरोहिणीचैव मृगेणसहिताष्टमी।। 34
रोहिणी नवमीचैव मृगेण नवमीतधा।
रोहिणी दशमीचैव मृगेण दशमी तधा।। 35
योगानेतान् तुसंवीक्ष्य विद्धादोष विवर्जितान्।
तेषु पूर्वोत्तरं भेदं क्रमेण चविनिश्चयेत्।। 36
उत्सवाचरणेश्रेष्ठ तरंयोगं यदाद्विजाः।
द्विवारं लभतेतत्र पूर्वंत्यक्त्वापरंगृहेत्।। 37
पूर्वविद्धायुतायांच अष्टम्यां संयमीश्वराः।
सौम्यवासरयोगेन कुर्यादेतन्महोत्सवं।। 38
श्रीकृष्णजन्मोत्सवं अर्धरात्रावेनकर्तव्यं एतदुत्सव विषेष निरूपणं
कृष्ण जन्मोत्सवंचैवं प्रत्यब्दंच समाचरेत्।
अर्ध रात्रौतु सर्वेपि कुर्यादेतन्महोत्सव।। 39
देवालये विशेषंस्याद्ग्रुहॆसामान्य मुच्यते।
यस्मात्तु वासुदेवस्या त्स्वयंसाक्षाज्जगद्गुरुः।। 40
चरमार्ध प्रदाताच तस्मात्तस्य(जगत्पतेः जन्मोत्सवंतु सर्वैश्चवैष्णवैः कार्यमुत्तमं)तुजन्मनि।
सर्वैश्च वैष्णवैर्लोके कार्यमे तन्महोत्सवं।। 41
रात्रावेदपारणं कर्तव्यं
उपोष्य दिवसेत्वस्मिन् रात्रौ(पारण माचरेत्)कुर्यात्तुपारणं।
जन्मोत्सवानंतरंहि देवदेवस्यश्ङार्गिणः।। 42
पारणेस्मिन्नकालादि शंकात्याज्याभ वेत्सदा।
एतदुत्सवनकर्तव्ये प्रत्यवायः
योनकुर्यादिदंकृष्ण जन्मोत्सव मादरात्।। 43
गुरुद्रोही दैवद्रोही स्वामिद्रोहीच सोभवेत्।
तत्कृते नान्यकार्येण येवकेनापिभूतले।। 44
तद्वत्सरावधिस्तस्य श्रेयस्तुनकदाभवेत्।
श्रार्धादिक संभवे कर्तव्य विधिः
एतस्मिन् दिवसेयस्य पितृश्रार्धादिकं भवेत्।। 45
पूर्वाह्णेवापराह्णेवाकृत्वा चैतन्महोत्सवं।
भगवन्निवेदितान्नाद्यैस्स्वपितॄन्चापितोषयेत्।। 46
मासादिक पर्यंत महोत्सव करणं
श्रीजन्मदिनमारभ्य मासंवापक्ष मेववा।
एकादश नवाहंवा पंचाहंत्य्र हंतुवा।। 47
यधाविभवविस्तारैः कुर्यादे तन्महोत्सवं।
श्रीकृष्ण लीलानटनैः तस्यसंकीर्तनै (स्सह)स्तधा।। 48
प्रत्यहंग्रामोत्सवा द्यैस्तधाचान्यैश्चवैभवः।
आछंडालान्नदानैश्च महाभोगैश्श्रियःपतेः।। 49
कुर्याज्जन्मोत्सवंचैत त्प्रत्यब्दंच बुधोत्तमा।
यस्मिन् देशेस्त्वि दंशौरे रुत्सवंनभवेद्भुवि।। 50
तस्मिन् देशेस्त्वनावृष्टिर्निश्चयं मुनिपुंगवाः।
शीदेव्युत्सव कधनं
अधातस्सं प्रवक्ष्यामि श्रीदेव्युत्सव निर्णयं।। 51
अश्विनस्य सितेपक्षे नवम्यां तुमहोत्सवं।
वीरलक्ष्म्यास्तु कर्तव्यं प्रत्यब्दंच (मुनीश्वराः (सर्वसिद्धिदं)धरातले।। 52
एतदुत्सवाधिक्यता निरूपणं
यस्माद्येषाज नन्माता पुरुषाकार रूपिणी।
तस्मात्तस्यास्तु संप्रीत्यै कर्तव्य मिदमुत्सवं।। 53
सर्वेष्वन्ये षूत्सवेषु लोकेमुख्यतरं भवेत्।
तस्मात्सर्वैः प्रपन्नैश्च देवागारे गृहेपिच।। 54
निर्मलेनैव भक्त्यातु(कुर्या)कार्यमे तन्महौत्सवं।
महा नवमी निर्णयं
कलयाप्यष्टमीविद्धा रहितां नवमींपुरा।। 55
विनिश्चित्यतु तस्मिन् वैकुर्यादे तन्महोत्सवं।
चतुस्धानार्चन्यैर्युक्तं सविशेषं यधा(विधि)वसु।। 56
श्रीशरन्नवरत्रा संभव निर्णयः
तद्वासरानु सारेण नवाहोत्सव (मीरतं)माचरेत्।
तिधिलोपेत्वमा(वास्या)यां वैआरभ्योत्सवमुच्यते।। 57
वृद्धौद्वितीयामारभ्यकुर्यादे तन्महोत्सवं।
यधाशास्त्रंतु नित्यंच चतुस्थानार्चनंचरेत्।। 58
श्रीमहा नवमीयुत्सव विधि निरूपणं
कुंभाग्निमंडलस्धांतु श्रियंवै नवमीदिने।
बिंबेसमर्प्यविधिवत्कु र्याद्देवि महोत्सवं।। 59
यस्मिन् देशेभवेद्येत दुत्सवं प्रतिवत्सरं।
तस्मिन् देशे (महाभाग्य)तुसौभाग्यसमृद्धिस्सर्वतोभवेत्।। 60
विजयदशमी
इषस्य दशमीं शुक्लां विजयांतां विदुर्बुधाः।
तस्मिन्नेव (महाविष्णोः) तुदेवस्य विजयोत्सवमाचरेत्।। 61
नवमीकलयाचैव विद्धात्याज्याभ वेत्सदा।
परवेधायुतायांतु दशम्यामुत्सवंचरेत्।। 62
श्रवणर्षयुतांचापि पूर्वविद्धां परित्यजेत्।
अपराजितापूजाप्रस्धानादिक निर्णयं विजयोत्सव निर्णयं राज्ञां पट्टाभिषेक निर्णयं
अपराजितार्चनेभूयाच्छ्रवण(र्षस्यविशेषता)र्षाधिक्य ताभुवि।। 63
तधैवशुभ यात्राया स्सायंकालस्थितातिधिः।
किंचश्रीवासु देवस्य उत्सवार्धंतु (तधापिच)भूतले।। 64
राज्ञापट्टाभिषेकार्थं पूर्वविद्धादि दूषितां।
दशमींतु परित्यज्य शुद्धामेव परिगृहेत्।। 65
तिधिलोपेयदाभूया द्दशमीनव मीदिने।
परस्मिन्तु मुहूर्तंवा दशमीयदि नास्तिच।। 66
एकादश्यांतु श्रीविष्णोः कुर्याते तन्महोत्सवं।
नत्वेतत्तुभ वेत्पूर्व विद्धायां दशमीदिने।। 67
कदापिचमुनिश्रेष्ठा राजाराष्ट्र प्रवृद्धये।
यदावृद्धौतिधीनांतु दशमीद्वयसंभवं।। 68
तदातुप्रधमंत्यक्त्वा द्वितीयेह्युत्सवंचरेत्।
नवम्यांतु महाहक्ष्मा(श्चोत्सवंतु)श्चार्चनंतु समाप्त्यच।। 69
प्रधमेतु दशम्यांवै आयुधाद्यधिवासनं।
द्वितीये शेषशमी दिवसेतु सहौत्सवं।। 70
कुर्यादेवंमुनिवराः (राजाराष्ट्र प्रवृद्धये)लोकक्षेमार्धमेवहि।
श्रीकृत्तिकादीवोत्सव निर्णयं
अधातन्संप्रवक्ष्यामि कृत्तिकादीपनिर्णयं।। 71
वृश्चिकस्धेदिनकरे कार्तिकेमासिवैबुधाः।
पौर्णमास्यांकृत्तिकासु सायंकालेश्रियःपते।। 72
मंदिरंसर्वतोदीपै रलंकृत्य महोत्सवं।
प्रत्यब्दंकारयेद्भूमौ राजाराष्ट्राभिवृद्धये।। 73
वृश्चिकंतुयदानस्यात्कार्तिकेमासिवैबुधाः।
मार्गशीर्षे(पि)प्रकुर्वीत वृश्चिकाधिक्यहेतुना।। 74
वृश्चिकेतुयदाभूयात्पौर्णमास्याद्वयंतधा।
ऋक्षद्वयंतदापूर्वं विसृज्यपरतोचरेत्।। 75
चतुर्दस्याविद्धयातु कृत्तिका(यदिदूषिता) दूषितोयदि।
पौर्णमास्यांतुरोहिण्यांकुर्यादेतन्महोत्सवं।। 76
चतुर्दशीविद्धयातु पौर्णमीनंयुतायदि।
तदातुप्रतिपद्यांवै कार्यमेतन्महोत्सवं।। 77
भौमेनदूषितंयत्र पौर्णमीप्रतिपत्तदा।
तद्वासरं परित्यज्य परस्मिन् दिपसेचरेत्।। 78
पौर्णमीकृत्तिकाचैव रोहिणीप्रतिपत्तधा।
सर्वेपिविद्धायुक्ताश्चेत्तदाशुद्धमृगेपिच।। 79
द्वितीयायांतुकुर्याद्वै दीपारोपमहोत्सवं।
संक्रमश्चतुविद्धाच सदात्याज्याभवेद्फुवि।। 80
परतस्संभवेद्येतद्विद्धा तत्रतु पूर्वतः।
उत्सवंकारयेच्छौरे र्दीपारोपाह्ययं(महत्)शुभं।। 81
एवंयःकुरुते भूमौप्रपन्नस्तुमहोत्सवं।
तस्याभीष्टानि(सर्वाणि सिद्थ्यंते नात्रसंशयः)सिध्यंते नाचिरान्निश्चयंभुवि।। 82
एतदेवमुनिश्रेष्ठा जयंत्यादिर निर्णयं।
साक्षान्नारायणेनोक्तं पुरापद्मोद्भवाययत्।। 83
इति श्रीपांचरात्रागम-रहस्यसारे श्रीपरमपुरुष-संहितायां
श्री जयंत्याद्युत्सव निर्णयोनाम
नवमोऽध्यायः
Chapter - 10
श्रीपांच रात्रागमांतर्गत श्रीपरम पुरुष संहिता
एकादशीव्रत महिमाभिवर्णनं
दशमोऽध्यायः
ऋषयः-
एकादशी व्रत निर्णयादिक विषये ऋषि प्रश्नःश्लो।।
मुनीश्वर महाभाग श्रीहरिध्यानतत्परा।
एकादश्याव्रतंलोके कधमाविरभून्मुने।। 1
कधंत्वेतद्व्रतंकार्यं (कृतेचेत्किं फलं लभेत्)कृतेकिं लभतेफलं।
तन्निर्णयंकधंभूयाद्ब्रूह्यस्माकंदयानिधे।। 2
श्रीनारद प्रति वचनं
श्रीनारदः-
श्रूयतामद्यमुनयो वैकुंठप्राप्तिकारणं।
एकादशी महिमा
इहलोकेपरेचैव भुक्तिमुक्ति फलप्रदं।। 3
महा महिमयायुक्तं भवसागरतारणं।
एकादश्याःप्रभानंच तद्व्रतस्य(विधिस्तथा)विधानकं।। 4
वक्ष्याम्यद्ययधाशक्ति यधाहंशृतवान्पुरा।
एकादशीव्रत जपनादिक कधनं
पुरात्विंद्राद योदेवाःदूर्वासेनमहात्मना।। 5
घोरंशापंतु संप्राप्यतस्मा (द्दैत्य विनिर्जिताः)द्दानवनिर्जिताः।
कानने संचरंतस्ते महद्दुःखानि प्रापिताः।। 6
क्षीरार्णवं(समासाद्य)तुसंप्राप्य वासुदेवं जगत्पतिं।
पौरुषेणैव सूक्तेनध्यायन् निश्चलमानसैः।। 7
अनेकवर्ष साहस्रंतपस्तेपुस्सुदुर्लभं।
तधापिच हरेस्तेषां दर्शनं नाभवन् द्विजाः।। 8
तस्मात्परं दुःखितास्तु त्रिदशास्संब भूवुः।
तान् वीक्ष्य(तुदयाराशिः)कृपयादेवो भगवान् पार्वतीपतिः।। (
उवाच त्रिदशान्त्वेकं वाक्यंसुमधुरं(महत्) तधा।
भोसुराश्श्रूयतामद्यममवाचः प्रियंमहत्।। 10
पुराहंहरिणात्वेतच्छ्रतं सर्वार्ध(सिद्धये)सिद्धिदं।
एकादशीव्रतंसर्वश्रेष्टं त्रिषुजगत्सुच।। 11
हरिवासरनामान मेतद्यूयंप्रकुर्वतां।
तेनतुष्टो(रमाधीश)जगन्नाध स्स्वयंदास्यति दर्शनं।। 12
(तस्मात्)तेनयुष्मद भीष्टारा सिद्ध्यंतेनात्र संशयः।
इत्येवंकधि तास्सर्वे देवाच्छ्री शंकरेणतु।। 13
एकादशीव्रतंभक्त्या यधाशास्त्रं समाचरेत्।
ततोच्युततस्स्वयं साक्षा त्प्रत्यक्षमभवन्(तदा)बुधाः।। 14
त्रिदशाश्चतुतंदृष्ट्या (साष्टांगं (प्रणिपद्यमुहुर्मुहुः)दंडवत्स्रणिपद्यच।
तस्मै विज्ञापनंचक्रु स्तेषांदुःख सविस्तरं।। 15
तंनिशम्य रमानाधः करुणा सागरोहरिः।
इत्येवमवदद्वा चं गंभीरं सफलं महत्।। 16
शृणुध्वंत्रि दशास्सर्वे युष्मदिष्टार्थ सिद्थिदं।
सुलभं साधनंचैक मद्यवक्ष्यामि विस्तरात्।। 17
भूमौतु मंधरंनाम नगराजोस्तिवैमहन्।
तधैववासुकीनाम विख्यातोहिश्चवर्तते।। 18
इहचादायतौदेवा विनिक्षिप्य पयोनिधौ।
तंमधित्वातदा यूयं कल्पवृक्षादिकंलभेत्।। 19
किंचामृतंच सिद्धेत परमंलोक दुर्लभं।
यत्पीत्वा (तत्प्रभावेन जरामरण वर्जिताः। विशेषधैर्य संयुक्ताः पराक्रमयुताभवेत्)चभवेद्यूयंजरामरणवर्जिताः।। 20
विशेषधैर्य सद्वीर्य पराक्रम युतास्तधा।
दानवान्तु विनिर्जित्य पुनस्स्वर्गमवाप्नुयात्
किंतुदानववर्गस्य मैत्रिमाकांक्ष्यवैपुरा।। 21
भवंतो तैस्संयुताहि कुर्वतां मधनंत्विदं।
नोचेदुश्माभिरेवत्त दशक्त्यंतु भवेत्सुराः।। 22
इत्याज्ञाप्य (चतान्)तदाशौरिस्तत्रै वांतरधीयत।
ततस्तुत्रि दशाश्चैव हर्यनुज्ञांशिरो धृता।। 23
क्षीरार्णवं मधित्वातु सर्पान् कामान् चप्रापिताः।
तदादि सर्वलोकेषु हरिवासर सद्व्रतं।। 24
हरेःप्रीति करंभक्त कल्पकंचा भवन्मुने।
तद्व्रतफल कधनं तद्व्रतविधिश्च
यस्तुकुर्याद्व्रतंत्वेतन्निष्कामोवाहरेःप्रियं।। 25
सतुसर्वसुखान् भुक्त्वाचांतेवैकुंठमाप्नुयात्।
दशम्यां दिवसेप्रात रुद्धायजगतांपतिं।। 26
श्रीहरिं मनसाध्यात्वा तवप्रीत्यै रमावरा।
एकादशीप्रतंत्वद्य करिष्यामी (महाप्रभो)दयानिधे।। 27
अविघ्नं कुरुदेवेश यदितेविद्यतेकृपा।
इतिविज्ञाप्यतंभक्त्या रात्रौवर्ज्यच भौजनं।। 28
दर्भास्तरण शायीच श्रीहरिंचिंत येद्धृति।
ततःप्रातस्स मुद्धाय कृत्वा स्नानादिकंतधा।। 29
चतुस्धानार्च नैर्देवं सविशेषं(समर्चयेत्)तु पूजयेत्।
तीर्धप्रसादौ स्वीकृत्य हरिनामादि कीर्तनैः।। 30
गीतापाठैस्तधावेद पाठैस्तद्धिवसंनयेत्।
उपोष्य(दिवसेत्वस्मिन्) चतदारात्रौ कुर्याज्जागरणंद्विजाः।। 31
गंधंपुष्पंच तांबूलं वनितासंगमंतधा।
तदन्यानि सुगंधानि एकादश्यां विसर्जयेत्।। 32
यस्तुलोके विमूढात्मा एकादश्यामु पोषितः।
प्रसादंतु महाविष्णॊर्नभक्षति यदिद्विजाः।। 33
तस्यवैतद्व्रतंसर्वं निष्फलंभवति धृवं।
तस्मात्सर्व प्रयत्नेन येकादश्यां कणंहरेः।। 34
प्रसादंभक्षयेद्विप्रास्तदाधिक्यं नभक्षयेत्।
अतिधीनांच तस्मिन्वै दिवसेन्नं नदीयते।। 35
श्रार्थविसर्जनं
पितृश्रार्थादिकंचैव प्राप्तंचेत्तद्दिने द्विजाः।
एकादश्यां नकुर्वीत द्वादश्या मेवकारयेत्।। 36
अशक्तानांफलाहारानुज्ञा
स्त्रीबालक वयोवृद्था द्यशक्ताश्च तुतद्दिने।
भोजनं वर्ज्यगोक्षिर फलाधीविच भक्षीयेत्।। 37
रात्रौजागरणंकर्तु मशक्ता (भुविमानवाः)श्चापि तद्दिने।
नामसंकीर्तनैश्चैव कधालापैश्च श्रीहरॆः।। 38
कालक्षेपं यधाशक्ति कुर्याद्रात्रौ मुनीश्वराः।
एकादश्यांतुलशीदलच्चेदनेदोष प्राप्तिः
एकादश्यांतु तुलसी दलच्छेदं(मुनीश्वराः)तु भूतले।। 39
यःकरो तिविमूढात्मा तस्यायुश्श्रीश्च नस्यति।
सालग्रामार्चनंतस्य दानमेकादशीदिने।। 40
सालग्रामदानादिक महिमा
विशेषफलदंनॄणां सर्वाभीष्ट फलप्रदं।
द्वादश्यांतु ततोविप्राः प्रातष्षड्घटि कांतरे।। 41
द्वादशीपारण निरूपणं
वैष्णवान् तुहाभक्तान् प्रपन्नान् वैयधावसु।
हरितीर्धप्रसादाद्यैर्भक्ष्यभोज्यादिकै(श्शुभैः)स्स्वयं।। 42
समभ्यर्च्यच संतर्प्यतत्सेषंतुस्वयं गृहेत्।
मध्याह्ण शयनंतस्मिन् दिवसेरात्रि भोजनं।। 43
एकादश्याः फलंसर्वं हरतेनात्र संशयः।
तस्मादेव हिद्वादश्यां मध्या (ह्ण)ह्णे शयनंतधा।। 44
एकादशी व्रतफल निरूपणं एकादशी व्रतावरणयोग्यकाल निर्णयः
रात्रौतु भोजनंचैव वर्जयेन्मुनि पुंगवाः।
यस्तुकुर्याद्व्रतंचैदं सर्वंशास्त्र विधानतः।। 45
सर्वाभीष्टाववाप्यात्र (विष्णोस्सायुज्य माप्नुयात्) वैकुंठनगरं व्रजेत्।
अतःपरं प्रवक्ष्यामि एकादश्यास्तु निर्णयं।। 46
यच्छ्रुत्वाघोर संसारान्मुत्यते सर्वतो (जनाः)नराः।
व्रतस्यास्य(पुरा) सदाभूयाद्योग्यंतुदशमी(दिनं)पुराः।। 47
तदन्वेकादशीचैव द्वादशीति दिनत्रयं।
दशम्यां नवमीविद्धा संभ(वश्चेन्मुनीश्वराः)वेद्यति भूसुराः।। 48
द्वादश्यामुपवासंस्यात्त्रयोदश्यांतु पारणं।
एकादश्यां यदिवा दशमीपरिदृश्यते।। 49
तद्वासरं(तदात्यक्त्वा)परित्यज्य परत्रैव मुपोषयेत्।
यदास्याद्वादशीकिंचित्त्रयेदश्या(तुभुसुराः)मपिद्विजाः।। 50
संपूर्णद्वादशीमेव (व्रतार्धंतु)मुपोष्यार्धं प्रकल्पयेत्।
दशम्येकादशीचैव द्वादशीति दिनत्रये।। 51
अरुणोदयादि विद्धाद्यैर्यद्येक मपिदूषितं।
(द्वादश्यामुपवासंस्यात्रयोदश्यांहिपारणं।)द्वादशीमुपवासार्धं परिकल्प्यच भूसुराः।। 52
त्रयोदश्यांतु कुर्याद्वैपारणंविधि वद्भुवि।
यदिलोभमदाद्यैस्तु हेतुभिर्योधरातले।। 53
पूर्वविद्धां नवम्यांवा एकादश्या मथापिवा।
द्वादश्यांवा व्रतंत्वेतत्कुरुते (यदिभूसुराः) संयमीश्वराः।। 54
तस्यपूर्वार्जितं(पुण्यंसर्वंचापि विवश्यति)चापि पुण्यं सर्वं विनश्यति।
परंत्वेतद्व्रतंचैवनिष्फलं भवति धृवं।। 55
तस्माच्छुद्ध दशम्यांच एकादश्यांतधैवच।
द्वादश्यांचैव कुर्याद्वै व्रतमेतन्मु नीश्वराः।। 56
यद्यलाभेतु चैतेषां यद्येकमपि दूषितं।
एकादश्यांचद्वादश्यांत्रयोदश्यां(व्रतंचरेत्)चकारयेत्।। 57
यःकरोति व्रतंत्वेवं(यथाशास्त्रंतु भूसुराः) यधाविधिद्विजोत्तमाः।।
(तस्याभीष्टानि सर्वाणि) तस्येष्टास्सर्व येवैते सिध्यंते (नाचिराद्भुवि)नात्रसंशयः।। 58
परंत्वस्यतुश्रीविष्णो स्सायुज्यंचलभेद्भुवि।
तस्मात्सर्वैश्च भक्यैश्च वैष्णवैश्च व्रतंत्विदं।। 59
(निष्कामैर्वा सकामैर्वा कर्तव्यं हरिप्रीतिये) निष्कामैर्वापि कर्तव्यं भगवत्प्रीतयेवहि।
यःत्यजेत्व्रतमेतत्तु येनकेनापि हेतुना।। 60
तस्यकेनापि कार्येण मोक्षंतु नलभेद्विजाः।
उद्दैनेकादशीचैव शयनैकादशीतधा।। 61
सर्वश्रेष्ठ तरौभूयात्तस्मात्तौन परित्यजेत्।
वैकुंठ पदपूर्वाया मेकादश्यांच भूतले।। 62
सर्वैरपि नरैःकार्यं व्रतमेतन्मु नीश्वराः।
तेनैकेनापि भूमौतु संवत्सरफलं लभेत्।। 63
धनुर्मासेसितेपक्षे एकादश्यां (तुश्रीपतेः)श्रियःपतेः।
वैकुंठ पदपूर्वाया (देवस्योत्सव माचरेत्)मुत्सवंसम्यगाचरेत्।। 64
(यद्येकस्मिन् धनुर्मासे एकादश्याद्वयंभवेत्)यदिभूया द्येकमासे एकादश्याद्वयंबुधाः।
(प्रधमंतुपरित्यज्य)तदातुप्रधमंत्यक्त्वा द्वितीयेह्युत्सवंचरेत्।। 65
(यदाद्वितीयदिवसं संक्रमेणापि दूषितं) यदा भूयाद्वितीयस्य वेधा संक्रमणस्यच।
तदातु प्रधमेकुर्याच्छ्रीपतेस्तुमहोत्सवं।। 66
एकादशी मरण विशेषः
यःत्यजेत्स्व शरीरंच एकादश्यां मुनीश्वराः।
नगच्छेच्छ्रीहरेस्धानं योगीनाम पिदुर्लभं।। 67
एकादशी व्रत विधान श्रवण फल निरूपणं
इत्येतत्तु विधानंच निर्णयंतद्व्र तस्यतु।
हरिवासर नाम्नस्तु एकाद(श्यान्तु भूतले)श्याः मुनीश्वराः।। 68
यस्यश्रवण मात्रेण नरास्सर्वेपि भूतले।
भवांबुधि समुत्तीर्णाः प्राप्नुवंति हरेःपदः।। 69
ग्रंथांतः
इत्येवं नारदोमौनिः संयमिप्रवरान्प्रति।
भगवच्छास्त्रराहस्यं यधाभगवतापुरा।। 70
विधात्रे कृपयाप्रोक्तं तदनुब्रह्मणास्वयं।
श्रुतंच सकलंचैवं कृपया(समभाषयत्)चाव दत्तदा।। 71
ग्रंध परिमिति निरूपणं
सहस्रश्लोक संख्यावै स्संग्रहेण हरिप्रियं।
सर्वासु संहितास्वेतच्छ्रेष्ठं परमपूरुषं।। 72
एतत्संहिताप्रशस्तिः
येतच्छ्रुत्वासंयमींद्रास्सर्वेहृष्टमनास्तधा।
भक्ताग्रणिं नारदंतु मुनिमुख्यं (कृपामयं)जगत्प्रियं।। 73
मुहुर्मुहुर्नमस्कृत्ययधेष्टंतमपूजयत्।
एवं समर्चितोमौनि (र्नारदो मुनिपुंगवैः)र्नारदश्चश्रियःपतिं।। 74
ध्यायन् स्वहृदये(शौरिं)तस्य नामसंकीर्तनैस्स्वयं।
सर्वेलोकान् तारयंतो जगामस्वाश्रमंप्रति।। 75
इति श्रीपांच रात्रागमरहस्यसारेश्रीपरमपुरुष-संहितायां
एकादशी व्रतमहिमाभि ववर्णनं नाम
दशमोऽध्यायः
संपूर्णम्