Mīmāmsa Paribāṣā
By Kr̥śṇa Yajva
Composed in ~1750 CE
1 chapter • 91 verses
Filter Content
Display Mode
Mimamsa Paribāṣa
0. INTRODUCTORY
सूर्यनारायणं बन्दे देवीं त्रिपुरसुन्दरीम् । गुरुनधिगता श्च निरन्तरमहं भजे ॥ १ ॥
बालानां शास्त्रसिद्धार्थलेशबोधाय धीमता । मीमांसापरिभाषेयं क्रियते कृष्णयज्वना ॥ २ ॥ I.
इह खलु महर्षिणा जैमिनिना द्वादशलक्षण्यां पूर्वमीमसार्या धर्माधर्मावेवानुष्ठानोपयोगितया विचारितौ । तत्र वेदबोधितेष्ट साधनताको धर्मः यथा यागादिः । वेदबोधितानिष्टसाधनता- कोऽधर्मः, यथा कलअभक्षणादिः । तयोश्च वेदः स्मृतिराचारश्च प्रमाणम् । तत्र वेदः स्वतन्त्रं प्रमाणम्, इतरी तु वेदमूलकतया ।
तत्र वेदो द्विविधः- मन्त्ररूपो ब्राह्मणरूपश्चेति । तत्र प्रयोगकालीनार्थस्मरणहेतुतया मन्त्राणामुपयोग इति वक्ष्यते । प्रयोगोऽनु ष्ठानम्, तत्कालीनेत्यर्थः । विधायकं वाक्यं ब्राह्मणम् । तच्छ्रेषश्चार्थबादः । तस्य विधेयप्राशस्त्यप्रतीतिजननद्वारा विधिवाक्य कवाक्यतया प्रामाण्यमिति वक्ष्यते ।
VARIETIES OF BRAHMANA SENTENCES
ब्राह्मणवाक्यं चानेकविधम्- कर्मोत्पत्तिवाक्यम्, गुणवाक्यम्, फलवाक्यम्, फलाय गुणवाक्यम्, सगुणकर्मोत्पत्तिवाक्य मित्यादि- भेदात् । तत्र येन वाक्येन 'इदं कर्म कर्तव्यम् इति बोध्यते तत् कर्मोत्पत्तिवाक्यम् यथा "अग्निहोत्रं जुहोति" इति । अत्राग्निहोत्रहोमः कर्तव्यतया विधीयत इति कर्मोत्पत्तिवाक्यमिदम् । 'विहिते कर्मणि तदङ्गतया द्रव्यदेवतादिविधायक वाक्यं गुणवाक्यम् यथा "दना जुहुयात्" इति । अत्र होममुद्दिश्याङ्गतया दधि विधीयत इति गुणवाक्यमिदम् । कर्माङ्गतया विहितत्वमेव दध्यादेर्गुणत्वम् ।
अत्र होमस्योद्देश्यत्वं नाम मानान्तरप्राप्तत्वे सति विधेयान्वयितया निर्देश्यत्वम् । तस्यैव मानान्तरप्राप्तस्य पुनः कथ्यमानरूपत्वमनुवाद्यत्वम् वच्यादिगुणान्धयितया प्राधान्यञ्च प्र । ध्यादेर्मानान्तरा प्राप्तत्यादव विधेयत्वम्, होमसाधनत्वाञ्च होमापेक्षया गुणात्वम्, पुरुषेणानुष्ठीयमानत्वादुपादेयत्वञ्च । अत्र मानान्तरप्राप्तत्वं मानान्तरज्ञातत्वम्, अप्राप्तत्वञ्चाज्ञातत्वमिति बोध्यम् ।
उत्पन्नस्य कर्मणः फलाकांक्षायां फलसम्बन्धबोधको विधिः फलविधिः यथा "अग्निहोत्रं जुहुयात् स्वर्गकामः" इति । अत्र 'यः स्वर्ग कामयते स तत्साधनत्वेनाग्निहोत्रनामक होमं भावयेत् कुर्यात्' इति अग्निहोत्रवाक्योत्यन्नस्य कर्मणः फलसम्बन्धो बोध्यत इति फलवाक्यमिदम् ।
प्राप्तं कर्माश्रित्य फलाय गुणविधौ फलाय गुणवाक्यम्; यथा "दनेन्द्रियकामस्य जुहुयात्" इति । अत्राग्निहोत्रवाक्योत्पन् होममाश्रित्येन्द्रियफलाय दधिरूपो गुणो विधीयते - ‘होमाश्रितेन दध्ना इन्द्रियरूपं फलं भावयेत्' इति । होमाश्रितेन होमकारकी- भूतेनेत्यर्थः । अयमेव गुणफलविधिः, गुणकामविधिरिति चोच्यते
द्रव्यदेवतादिगुणविशिष्टकर्मविधायक वाक्यं सगुणकर्मोत्पत्ति- वाक्यम् यथा "सोमेन यजेत" इति । अत्र सोमलताविशिष्टो यागो विधीयते । विशिष्टविधावपि विशेषणस्यार्थाद्विधिः । कचित् कर्मोत्पतिवाक्यमेव फलसम्बन्धबोधकमपि भवति । यथा “उद्धिदा यजेत पशुकामः” इति । अत्रोङ्गिनामको यागो वाक्यान्तराविहित एव पशुफलाय विधीयत इत्येकमेवेदं वाक्यं फलसाधनयागविधायकम् ।
THE INJUNCTION REGARDING PERFORMANCE
प्रधानविधिरेषाङ्गविधिभिरेक वाक्यतया महावाक्यतामापन्नः सन् सर्वाङ्ग विशिष्टप्रधानप्रयोगविधायकत्वात् प्रयोगविधिरित्युच्यते यथा "अग्निहोत्रं जुहुयात् स्वर्गकामः” इति । अत्र 'अग्निहोत्र होमेन स्वर्ग भावयेत्' इत्यर्थः प्रतीयते । भावयेत् - उत्पादयेत्, कुर्यात् इति यावत् । अत्र 'कथमनेन होमेन स्वर्ग कुर्यात्' इति कथम्भावाकांक्षा जायते । यथा 'कुठारेण द्वैधीभाव कुर्यात्' इत्युक्त भवत्याकांक्षा 'कथमनेन धीभावं कुर्यात्' इति । तत्र 'उद्यमननिपातनादिसहायेन' इति गम्यते । तद्वदत्रापि "अग्नि प्रणयति," "अग्निषु समिध आदधाति" इत्याद्यविधिविहितप्रणयनसमिदाधानायतनशोधनादिकाङ्गकलापजनितोपकारसहितेन अग्निहोत्रहोमेन स्वर्ग कुर्यात् इति प्रकरणकल्पितेन महावाक्येन स्वर्गाय साङ्गानिहोत्रप्रयोगो विधीयत इत्येताद्वशः प्रयोगविधिः । अङ्गजातमेवेत्यम्भाव इति, इतिकर्तव्यता इति चोच्यते । अत्राग्निहोत्रहीमः प्रधानम्, प्रणयनादिकं सर्वमङ्गम् ।
नन्विदमनुपपन्नम्, आशुतरविनाशिनां कर्मणां कालान्तरभावि स्वर्गादिफलसाधनत्वानुपपत्तेरिति चेत्, मैवम् । विहितनिषिद्धकर्मणां तत्तद्वाक्यस्तत्तत्फल साधनत्वेऽवगते आशुतर विनाशिनां कर्मणां कालान्तर भाविफलसाधनत्वोपपत्त्यर्थमन्तरा पुण्यपापरूपमपूर्वं कल्यते । ततश्च यागादेरपूर्वद्वारा स्वर्गसाधनत्वम्, न साक्षात् । तदेव फलापूर्वम् । तत्करणत्वञ्च प्राच्योदीच्याङ्गविशिष्टस्य प्रधानस्य भवति, न प्रधानमात्रस्य । प्रधानमात्रादेव फला पूर्वजनने फलस्यापि तत एव सिद्धेरङ्गानामानर्थक्यापत्तः ।
ननु सर्वाङ्गविशिष्टस्य प्रधानस्यापूर्वजनकत्वमयुक्तम्, श्राणुतरविनाशिनः प्रधानस्याङ्गसाहित्याभावादिति चेत्, न प्रधानकर्मणः स्वरूपेणाङ्गसाहित्याभावेऽपि उत्पत्यपूर्वद्वारा साहित्यसम्भवात् । प्रधानस्य सर्वाङ्गसाहित्यसिद्ध्यर्थ प्रधानकर्मपरमापूर्वयोर्मध्ये प्रधानमात्रजन्यमुत्पत्तिनामकं किञ्चिदपूर्व- मस्तीत्यङ्गीकारात् । एवमङ्गानामपि परस्पर सहितानामेव प्रधानोपकारकत्वात्तेषां स्वरूपेण साहित्याभावात् तत्तदुत्पत्यपूर्वद्वारा साहित्यं बोध्यम् । अङ्गानां प्रधानोपकारकत्वं नाम प्रधानस्य फलापूर्वजननसामन्मुखीकरणमेव ।
दर्शपूर्णमासयोस्तु विशेषः- "यदाग्नेयोऽष्टाकपालोऽमावास्या- याञ्चपौर्णमास्याञ्चाच्युतो भवति इत्याग्नेययागो विहितः, "ताभ्या- मेत मनीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्" इत्यग्नीषोमीययागो विहितः, "उपशुयाजमन्तरा यजति " इति उपांशुयागः" ताव तामझीषोमावाज्यस्येव नावुपशु पौर्णमास्यां यजन्” इति वाक्यात् पौर्णमास्यां विहितः । एतानि पौर्णमास्यां प्रधानानि । पवामाग्नेयानीषोमीयो शुयागान तसद्धाक्यावगत पौर्णमासीकालसम्बन्धं निमित्तीकृत्य "य एवं विद्वान् पौर्णमासीं यजते" इति विद्वाक्ये पौर्णमासीपदेन एकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र यत्र पौर्णमासीशब्दः तत्र ताग्न याविसमुदायोपस्थितिः ।
ननु "यदाग्नेय" इति वाक्ये यागवाचकपदस्याश्रवणात् कथं यागविधायकत्वमिति चेत्, मैवम् । अग्निर्देवता अस्य पुरोडाशस्य इत्यर्थे विहितदेवतातद्धितान्त आग्नेयशब्दः । तस्य पुरोडाशपद सामानाधिकरण्या द्रव्य देवंतासम्बन्धोऽवगतः । स यागमन्तश न सम्भवति, द्रव्यदेवतासम्बन्धस्य यागादन्यत्र क्रियायामसम्भवात् याग क्रियायामेव सम्बन्धो वाच्यः । देवतोद्देशेन द्रव्यत्यागस्य यागरूपत्वाङ्गीकारात् । अतः श्रुतद्रव्यदेवतासम्बन्धानुमितो यागो यजे- तेति कल्पितेन पदेन विधीयते, अग्निदैवत्यपुरोडाशद्रव्यकामावा- स्यादिकाल कर्तव्ययागेन इष्टं भावयेदिति । एवं यत्र द्रव्यदेवता सम्बन्धमात्रं श्रूयते, “सौर्यञ्चद निर्वपत्" इत्यादो, तत्र द्वन्यदेवता सम्बन्धानुमितो यागो विधीयत इति न कश्चिदोष ।
ननूपशुयागवाक्ये यजेः श्रवणेऽपि विधिप्रत्ययलिङादेरभावात् कथं विधायकत्वमिति चेत्, मेवम् । यजतीत्यस्य यजेतेति विपरि णामैन विधायकत्वसम्भवात् । एवं "वीहीन प्रोक्षति, " "समिधो यजति" इत्यादावपि विपरिणामो बोध्यः । केचित्तु यजतीत्यस्य पञ्चमलकारत्वाङ्गीकारात् विधायकत्वसम्भव इत्याहुः ।
तथा "पेन्द्र दध्यमावास्यायाम्." "पेन्द्रं पयोऽमावास्यायाम्” इति वाक्यविहितौ सानाय्ययागौ, "यदाग्नेय" इति वाक्यविहिताग्ने- यश्चामावास्यायां प्रधानानि ।
एषां त्रयाणां "य एवं विद्वानमावास्य यजते" इति वाक्ये प्रमा- वास्यामिति नाम्ना द्वितीयेकवचनान्तेन समुदायरूपेणानुवादः । तेन वेदे यत्र दर्शशब्दोऽमावास्याशब्दो षा श्रुतस्तत्र यागसमुदायोपस्थितिः । त्रिकस्य त्रिकस्यामात्रास्यापौर्णमासीशब्दाभ्यां समुदाय रूपेण विद्वद्वाक्येऽनुवादस्य प्रयोजनं तु "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यादो द्विवचनोपपत्तिः । अन्यथा षण्णामाग्नेयादि- यागानां बहुत्वाद्दर्शपूर्णमासैरिति बहुवचनं स्यात् । मानान्तरेण प्राप्तार्थस्य पुनःश्रवणमनुवादः ।
तथा फलवदाग्नेयादिसन्निधौ धाम्नातानि प्रयाजाज्यभागानूया - जादीनि षण्णां यागानामङ्गभूतानि ।
एवं स्थिते "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यस्यायमर्थः- दर्शपूर्णमासाभ्यां समुदायाभ्यां परस्परसहितायां स्वर्गापूर्व कुर्यादिति । तत्र कथं कालद्वयवर्तिनोः समुदाययोः परस्परसाहित्यमित्याकांक्षाय स्वरूपेण साहित्याभावेऽपि त्रिका- चिकादेकैकमपूर्व जायते, तद्वारा द्वयोः समुदाययोः साहित्यमि त्युच्यते । एकैकस्य त्रिकस्यापि त्रिकापूर्वजनकत्वं कथमित्या- कांतायां प्रयाजानू याजादिपूर्वोत्तराङ्गकलापविशिष्टस्य एकैकस्य त्रिकस्य समुदायापूर्वजनकत्वमुच्यते । एकैकत्रिकस्य सर्वाङ्ग साहित्य स्वरूपेण न सम्भवतीति त्रिभिर्यागेस्त्रीण्युत्पत्यपूर्वाणि जायन्ते, तद्वारा सर्वाङ्गसाहित्यम् ।
अङ्गानामपि प्रयाजादीनां स्वरूपेण प्रधानसाहित्याभावात् तत्तदुत्पत्यपूर्वद्वारा साहित्य वाच्यम् । तथा व प्रधानजन्यो- त्पत्यपूर्वाण प्रयाजादिजन्योत्पत्यपूर्वः साहित्यं यदस्ति तदेव प्रधानानामङ्गविशिष्टत्वरूपं साङ्गत्वम् । एवञ्च पौर्णमास्यामाग्ने- यादिजन्यस्त्रिभिरपूर्वः प्रयाजाविजन्योत्पत्यपूर्वसविषैः समुदाया- पूर्वमेकं जन्यते, तथा दर्शऽपि आग्नेयेन्द्रद्वयजन्ये स्त्रिभिरपूर्वेरङ्गो त्पत्यपूर्व सचिवें रेक भिकापूर्व जन्यते, ताभ्यां त्रिकापूर्वाभ्याम् आग्नेयाद्युत्पत्यपूर्वत्रितयजन्याय फलजन कीभूतं महापूर्व फला- पूर्वनामकं जन्यते, ततश्च फलमिति ।
तथा व सर्वाङ्गोपकृताभ्य दर्शपूर्णमासाभ्यामपूर्वद्वारा स्वग कुर्यादिति फळापूर्वनिष्पत्तये साङ्ग्रधानकर्तव्यताबोधको विधिः प्रयोगविधिरिति सिद्धम् ।
THREE KINDS OF INJUNCTIONS
पुनरपि विधित्रिविधः- अपूर्वविधिः, नियमविधिः, परि- संख्याविधिश्चेति ।
तत्र यो विधिरत्यन्ताप्राप्तमर्थं प्रापयति सोऽपूर्वविधिः; यथा दर्शपूर्णमासप्रकरणे "त्रीहीन प्रोक्षति इति । एतद्विघ्य भावे दर्शपूर्णमासीवीहिषु प्रोक्षणं कथमपि न प्राप्नोति। एतविधि सत्वे तु तत्सम्बन्धिनीहिषु प्रोक्षणं प्राप्नोत्येव इति अत्यन्ता- प्राप्तप्रोक्षणप्रापकत्वादयमपूर्वविधिः।
यश्च पक्षे प्राप्तमर्थं नियमयति स नियमविधिः; यथा तत्रव "त्रीहीनवहन्ति" इति । एतद्विध्यभावे दार्शपोर्णमासिकेषु वीहिष् त्पत्तिवाक्याबगतपुरोडाशोपयोगितराहुल निष्पत्यनुकूल तुष्यकार्याय अवहननवत् कदाचिनखविदलनमपि प्राप्नुयात् इति तस्मिन् पक्षेऽवहननस्य प्राप्तरभावात् कार्यान्यथोपपत्तरवहननस्य पाक्षिकी प्राप्तिः स्यात् । सति त्वस्मिन् विधौ अवहननेनेव वैतुष्यं कार्यमिति नियमे सति विदलनं सर्वात्मना निवर्तत इति नियमविधिरयम् ।
न च वैतुष्यस्य नखविदलनेनापि सम्भवात् अबहनननियमो व्यर्थः, प्रयोजनाभावादिति वाच्यम् । अवघातेनैव वैतुष्यकरणे किञ्चिवदृष्टं जन्यत इति नियमादृष्टाङ्गीकारात्, नियमेन दृष्टकार्या लाभेऽप्यगष्टस्योत्पत्तेः । तचापूर्व यागोत्पत्यपूर्वद्वारा फलापूर्वे उपयुज्यते । तेन नियमापूर्वाभावे फलापूर्वमेव नोत्पद्यते इति कल्पनान्नियमापूर्वस्य न वैयर्थ्यम् । एवं वीहिसोमादिद्रव्यनियम- विधिषु बोध्यम् ।
द्वयोः समुचित्य प्राप्तावितरनिवृत्तिफलको विधिः परिसंख्या- विधिः यथा चयनप्रकरणे "इमामगृभ्णन् रशनामृतस्येत्यश्वा- भिधानीमादत्ते इत्यश्वर शनाग्रहणात्वेन मन्त्रविधिः । पत द्विध्यभावे हि रशनाग्रहणप्रकाशको मन्त्रो रशनाऽऽदानप्रकाशनसामर्थ्यरूपात् लिङ्गात् अश्वरशमा ऽऽदाने इव गर्दभरशनाऽऽदानेऽपि नियमेन प्राप्नुयात्। सत्यस्मिन् विधो अनेन मन्त्रेण अश्वरशना- मेवाददीत, न तु गर्दभरशनाम्, सा तु तृष्णीमैव ग्राह्येति गर्दभ- रशनायां मन्त्रनिवृत्तिर्भवतीति द्वयोः समुश्चित्य प्राप्तावितर निवृत्तिफलकत्वादयं परिसंख्याविधिः । एवं “पञ्च पञ्चनला भक्ष्याः” इत्यादावपि बोध्यम् ।
SIX TESTS OF A SUBSIDIARY
पूर्वं दर्शपूर्णमासाङ्गत्वं प्रयाजादीनामुक्तम् । तत्राङ्गत्वबोधकप्रमाणानि श्रुति-लिङ्ग-वाक्य-प्रकरण स्थान समाख्याभेदेन षट् ।
तत्र "दना जुहुयात्” इत्यत्राग्निहोत्रवाक्यप्राप्त होमं जुहुंयादित्यनेनोहिश्य तत्करणत्वेन तृतीयाश्रुत्या दधि विधीयत इति श्रुत्या दध्नोऽङ्गत्वम् ।
लिङ्ग नाम सामर्थ्यम् । तच्च विविधम्- अर्थगतं शब्दगतचेति । आद्यं यथा "सुवेणावद्यति” इत्यवदानसामान्यशेषत्वावगमेऽपि ध्रुवस्य सामर्थ्यरूपात् लिङ्गात् आज्यसानाय्यादि द्रवद्रव्यावदानविशेषाङ्गत्वम् वेण पुरोडाशाद्यवदानस्य कर्तु मशक्यत्वात् । शब्दगतं तु लिङ्गमर्थप्रकाशनसामर्थ्यम् यथा "अग्नये शुष्टं निर्वपामि" इति मन्त्रस्य निर्वापप्रकाशनसामर्थ्यरूपात् लिङ्गात् निर्वापाङ्गत्वम् । यस्य मन्त्रस्य यत्प्रकाशनसामर्थ्य तस्य तदङ्गत्वम् ।
पदान्तरसमभिव्याहारी वाक्यम् । यथा "इषे त्वेति छिनति” इत्यत्र वेदनाङ्गत्वेन “इवे त्वा" इति मन्त्रो वाक्येन विधीयते । यदा "अग्नये जुष्टम्” इत्यत्रेष 'अग्नये,' 'जुष्टम्' इत्यादिपदानां 'निर्वपामी'त्यनेनेकवाक्यतापन्नत्वान्निर्वापाङ्गत्त्वम् ।
प्रकरणां नाम परस्पराकांक्षा । यथा "दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" इत्यत्र दर्शपूर्णमासाभ्यां स्वर्गापूर्व कुर्यादित्युक्ते भवत्याकांक्षा - कथमाभ्यां स्वर्गापूर्व कर्तव्यमिति । तथा फलवहाग्नेयादिसन्निधौ "समिधो यजति,” “तनूनपातं यजति, " "आज्यभागी यजति " इत्यादिभिः प्रयाजादयः फलरहिताः श्रुताः, तेषां स्ववाक्येषु फलावणात् भवति प्रयोजनाकांक्षा- किमेतेष प्रयोजन मिति । ततश्च प्रयाजादीनां प्रयोजनाकांक्षायां दर्शपूर्णमासयोश्च कथम्भावाकांक्षाय परस्पराकांक्षालक्षणेन प्रकरणेन प्रयाजादीनां सर्वेषां दर्शपूर्णमासाङ्गत्वं निश्चीयते ।
स्थानं नाम सन्निधिः । यथा सान्नाय्यपात्रसन्निधौ "शुन्धध्वम्" इति मन्त्रस्य पाठात् सन्निधानात् सानाय्यपात्रप्रोक्षणाङ्कत्वम् ।
समाख्या संक्षा । यथा अभ्यर्युकाण्डप्रतिपादिते कर्मजाते आभ्वर्यवसमाख्यावशात् अध्वर्योः कर्तृत्वेनाङ्गत्वम् । तथा "पेन्द्रा अमेकादशकपालं निर्वपेत् प्रजाकामः” इत्यादिषु काम्येष्टिसमाख्या- तेषु पेन्द्राग्नादियागेषु काम्येष्टियाज्यानुवाक्याकाण्डसमाख्यावशात् "उभा वामिन्द्राम्नी" इत्यादिनां याज्यानुवाक्यात्वेन विनियोगः । विनियोगो नाम अङ्गत्वेनान्वयः ।
श्रुत्यादीनामैकत्र समावेशे पूर्वपूर्वस्य प्राबल्यम्, उत्तरोत्तरस्य दौर्बल्यम् ।
यथा "कदाचन स्तरीरसीत्येन्द्रया गार्हपत्यमुपतिष्ठते" इत्यग्नि- होत्रप्रकरणे श्रूयते । तत्र मन्त्रस्य इन्द्रप्रकाशनसामर्थ्यरूपात् लिङ्गात् इन्द्रोपस्थानाङ्गत्वे प्राप्ते, पेन्द्रेति तृतीयाश्रुत्या गार्हपत्यमिति द्वितीयाश्रुत्या व गार्हपत्योपस्थानाङ्गत्वेन विधानात् लेङ्गिक इन्द्रोपस्थाने विनियोगो बाध्यते । श्रुतिर्हि स्वतो विनियोजिका । लिङ्गं त्विन्द्रप्रकाशनसामर्थ्य मालोच्य 'पेन्द्रेन्द्रमुपतिष्ठते, इति श्रुतिकल्पनाद्वारा विनियोजकमिति वाव्यम् । तच्चात्र न सम्भवति । यत्र श्रुतिविनियोगो नास्ति "अनये तुष्टं निर्वपामि" इत्यादी, तत्र मन्त्रस्य निर्वापप्रकाशनसामर्थ्यमालोच्य 'अनेन मन्त्रेण निर्वापं कुर्यात्' इति श्रुतिकल्पनाद्वारा लिङ्ग विनियोजकं भवत्येव, श्रुति- कल्पनाप्रतिबन्धकाभावात् ।
तथा "स्योनन्ते सदनं कृणोमि तस्मिन् सीद" इत्यत्र तस्मिन्निति तच्छदस्य पूर्ववाक्यार्थसापेक्षतया एकवाक्यत्वभानात् बाक्यप्रमाणेन द्वयोरेकमन्त्रत्वं भाति, लिङ्गेन तु भिन्नमन्त्रत्वं भातिः आद्यस्य सदनप्रकाशन सामर्थ्यात्, “तस्मिन् सीद" इत्यस्य सादन प्रकाशकत्वात् । तत्र वाक्यापेक्षया लिङ्गस्य प्रावल्यात् वाक्यं बाधित्वा लिङ्गेन "स्योनं ते" इत्यस्य सदनाङ्गत्वम्, “तस्मिन् सीद" इत्यस्य सादनाङ्गत्व मिति निर्णयः ।
"स्योनं ते" इत्यस्य "तस्मिन् सीद" इत्यनेनैकवाक्यत्वबलात् यथाकथञ्चित् सादनसामर्थ्यरूपं लिङ्ग कल्पयित्वा 'अनेन विशिष्टमन्त्रेण सादनं कुर्यात्' इति श्रुतिः कल्पनीया । सदनप्रकाशनरूपप्रत्यत्तलिङ्गेन कल्पितया 'स्योनं ते इत्यनेन सदनं कुर्यात्' इति श्रुत्या "स्योनं ते" इत्यस्य शीघ्र सदने विनियोगे सति तेनैव मन्त्रस्य नैराकांक्ष्यात् वाक्यप्रमाणात् लिङ्ग कल्पयित्वा श्रुतिकल्पना प्रतिबध्यते, विलम्बितत्वादिति लिङ्गेन वाक्यस्य बाधः ।
एवं वाक्येन प्रकरणस्य, प्रकरणात् क्रमस्य, क्रमात्समाख्याया बाधो वेदितव्यः । तथा श्रुत्या वाक्यादेरपि बाधः । तदेव मङ्गताबोधकप्रमाणानि श्रुत्यादीनि निरूपितानि ।
WHAT IS A SUBSIDIARY?
तच्चाङ्गत्वं शेषत्वम्, पारार्थ्यमिति यावत् । परोद्देशेन प्रवृत्तकृतिव्याप्यत्वं पारार्थ्यम् । प्रयाजादीन दर्शपूर्णमासोद्देशन प्रवृत्तपुरुषकृतिव्याप्यत्वात् लक्षणसङ्गतिः । दर्शादेः प्रयाजा द्युद्देशेन प्रवृत्तकृतिविषयत्वाभावानातिव्याप्तिः । केवलप्रयाजा दीनुद्दिश्य कस्यचिदपि पुरुषस्याप्रवृत्तेः । तान्यङ्गानि द्विविधानि सन्निपत्योपकारकागि, आरादुपकारकाणि चेति ।
यान्यङ्गानि साक्षात्परम्परया वा प्रधानयागशरीर निष्पाद्य तद्द्वारा तदुत्पत्यपूर्वोपयोगीनि तानि सन्निपत्योपकारकाणि यथा श्रीह्यादिद्रव्याणि तत्संयुक्तावहनननप्रोक्षणादीनि, अग्न्यादि देवतातत्संयुक्तयाज्यानुवाक्यानुवचनादीनि व । अत्र प्रोक्षणादेवी हिगतातिशयद्वारा, अवहननादेस्तुषविमोकादिरूपदृष्टद्वारा, श्रीह्यादीनां पिष्टद्वारा पुरोडाशनिष्पादकत्वम्, तद्वारा यागशरीरतदुत्पत्यपूर्व हेतुत्वञ्च । याज्यानुवाक्यादेवेवतासंस्कारद्वारा, देवतायाश्च साझाद्यागशरीरनिर्वर्तकत्वम्, तबुद्वारा तदुत्पत्यपूर्वोप योगित्वञ्च यागस्य देवतो देशेन द्रव्यत्यागरूपत्वात्, द्रव्यदेवते हि यागस्वरूपमिति सिद्धान्ताञ्च । एतान्येव सामवायिका- नीत्युष्यन्ते ।
आत्मसमवेतापूर्वजन कान्यारा दुपकारकाणि यथा प्रयाजाज्यभागानूयाजादीनि । एतानि द्रव्यगतं देवतागतं वा संस्कारं न जनयन्ति, किन्त्वात्मगतमष्टं जनयन्ति इत्यारादुपकारकाणि । तत्र सामान्यतः कर्म द्विविधम् - अर्थकर्म गुणकर्म चेति । सत्रात्मगता पूर्वजनकं कर्म अर्थकर्म, यथा अग्निहोत्रदर्श पूर्णमासप्रयाजादिकम् ।
TWO MAIN DIVISIONS OF SUBSIDIARY RITES
गुणकर्म संस्कारजनकम्। तञ्च द्विविधम्- उपयुक्तसंस्कारकम्, उपयोदयमाण संस्कारकञ्चति । तत्र उपयुक्तसंस्कारक प्रतिपत्तिकर्म । उपयुक्तस्य आकी - करस्य द्रव्यस्य विहित देशे प्रत्तेपः प्रतिपत्तिरिति लक्षणात् । क्या इडाभ क्षण-कृष्णविषाणाप्रासन चतुरवत्तहोमादिकम् ।
ननु विडाभत्तणस्य प्रधानयागोपयोगि ताकीर्णकरपुरोडाशद्रव्यप्रत्तेऽपात्मकत्वात् प्रतिपत्तित्वं युक्तम्, होमस्य तु यागोपयुक्तद्रव्यसंस्कारकत्वाभावात् कथं प्रतिपत्तित्वम्? होमस्य यागसमानकालीनत्वेन होमसंस्कार्यस्य च तस्य तादृशोपयुक्तत्वाभावादिति चेत् — अत्राहुः, उपयुक्तसंस्कारमात्रं प्रतिपत्तिः, न तु प्रधानयागोपयुक्तत्वम्। तथा सति पशोविंशनान्तरणं वपाहृदयाद्युद्धरणकालकर्तव्यलोहितशकटनिरसनस्य प्रतिपत्तित्वाभावप्रसङ्गात्, यागोपयुक्तद्रव्यप्रत्तेपरूपत्वाभावात्। तथा कृष्णविषाणाप्राशनस्थलेऽपि प्रतिपत्तित्वं न स्यात्, यागाङ्गीभूतकण्डनोपयुक्तत्वेऽपि यागोपयुक्तत्वाभावात्।
अतो यत्र केवलोपयोगमात्रं विवक्षितम्, यत्र कश्चिदुपयोगस्त्वत्राप्यस्ति — वपाहृदययुद्धरणेनोपयुक्तस्य पशोः सम्बन्धिनः शललोहितस्य आकिरणं प्रतिपत्त्यपेक्षत्वात्। एवं यथाकथञ्चिदुपयोगो होमस्थलेऽप्यस्ति।
तथाहि प्रतिपत्तिस्त्रिधा - प्रधानोसरकाला, प्रधानसमकाला, प्रधानपूर्वकाला चेति । तत्राद्या इडाभक्षणादिका । द्वितीया होमादिका । तथाहि - दर्शपूर्णमासप्रकरणे श्रूयते, "स दुप स्तृणाति." "द्विहंविषोऽक्यति," " "सतभिधारयति," "चतुरवतं जुहोति इति । तत्र चतुरवत्तवाक्ये होमानुवादेन चतुरवतद्रयं तत्साधनत्वेन न विधीयते, होमस्याप्राप्तत्वेनानुवादासम्भवात्।
नच "यदाग्नेय वाक्यामप्राप्तिः, तद्वाक्यस्य यागविधायकत्वेन होमविधायकत्वाभावात् । नच यागहोमयोर भेद इति वाच्यम् । देवतो देशेन द्रव्यत्यागस्य यागशब्दार्थत्वात्, प्रक्षेपविशिष्टस्य यागस्य होमशब्दार्थत्वात् । तत्राग्नेयचोदनया यागस्य प्राप्तत्वेऽपि प्रक्षेपस्य शक्त्याऽप्राप्तत्वेनानुवादासम्भवात् । किन्तूपस्तरण द्विरवदानाभिधारणवाक्यैः प्राप्तं चतुरवत्तमुद्दिश्य तत्संस्कारत्वेन प्रक्षेपो जुहोतीत्यनेन विधीयते । स च संस्कारः प्रतिपत्ति रूप पत्र । “अग्नये जुष्टमभिधारयामि " इत्यादिनिर्देशेर्यागाङ्गभूता- न्यादिदेवतार्थतया यथा कथञ्चिदुपयुक्तस्य पुरोडाशस्य प्रतिपत्यपेक्षतया तदवयवद्वयवदानकर्मक प्रक्षेपस्य प्रतिपत्तिकर्मत्वचित्यात् ।
स व संस्कारः प्रधानसमकालः । होमो हि "वषते जुहोति" इति विधानात् वषट्कारोत्तरक्षणे अध्वर्युणा कर्तव्यः । यागोऽपि तस्मिन्नेव क्षणे यागस्य स्मरणार्थेन वषट्कारेण स्मारितः सन् यजमानेनानुष्ठेय इति तयोर्योगपद्यसम्भवात् । तदिदं सर्वप्रदाना- धिकरणवार्तिके स्थितम् । प्रधानपूर्वकाला प्रतिपत्तिर्यथा - "शकृत्संप्रविध्यति," "लेलोहित निरस्यति" इति शक्कत्संप्रवेधनलोहितनिरसने । इदमपि "पशावमालम्भाल्लो हितशकतो रकमंत्वम् इत्यधिकरणे स्थितम् ।
उपयोक्ष्यमाणसंस्कारोऽप्यनेकविधः-सात्ताद्विनियुक्तसंस्कारः, सात्ताहिनियुक्तस्य यदुपकारकं तत्संस्कारः, विनियोदयमाणसंस्का- रश्चेति । तत्र श्राद्यो यथा "वीहीनवहन्ति इत्यादी "वीहिभिर्यजेत" इति वाक्यविनियुक्तत्रीहीणामवहननसंस्कारः । द्वितीयो यथा "वत्समालभेत" इति । दोहाङ्गत्वेन सात्ताद्विनियुक्तस्य गोद्रव्यस्यो- पकारको यो वत्सः तत्संस्कारकमिदमालम्भनम् । तृतीयो यथा "तप्ते पयसि दध्यानयति" इत्यत्र “सा वैश्वदेव्यामिक्षा" इति वाक्येन तच्छन्देन निर्विश्य वैश्वदेवयागात्त्वेन विनियोक्ष्यमाणं यत्ययस्तत्संस्कारकत्वात् विनियोक्ष्यमाणसंस्कारकं दयानयनम् ।
पशुपुरोडाशयागस्तूपयुक्तोपयोक्ष्यमाणदेवतासंस्कारार्थः, त्या- गांशे अदृष्टार्थश्च । अत्र तत्संस्कार्याग्नीषोमदेवताया वपायागे उपयुक्तत्वात्, हृदयाद्यङ्गयागेषु उपयोक्ष्यमाणत्वाच । स्विष्टरुद्यागो द्रव्यांशे देवर्ता चोपयुक्तसंस्कारार्थः, त्यागांशे अगष्टार्थश्च । सूक्तवाक साधनकं प्रहरणमपि तथैव । उत्तमप्रयाजो यक्ष्यमाणदेव तासंस्कारत्वात् त शे उपयोदयमाणसंस्कारः, इतरांशे अगष्टार्थः । हृदयादिहविर्यागात्पूर्व क्रियमाणो वसाहोमोऽपि वसांशे प्रतिपत्तिः, इतरांशे अगष्टार्थ इत्याचूह्यम् ।
केचित्तु उपयोक्ष्यमाणसंस्कारभिन्नसंस्कारकर्मत्वं प्रतिपत्त कर्मत्वम्; चतुरवत्तद्रव्यस्य होमेन भस्मीभूतस्य होमे उपयोदयमा णत्वाभावात् तद्भिन्नत्वं होमेऽस्तीति लत्तणसङ्गतिरित्याहुः ।
अत्रायं विशेषः- अर्थकर्मणि द्रव्यापेक्षया कर्मणः प्राधान्यम्, कर्मणि द्रव्यस्य गुणत्वम् । यथा अग्निहोत्रादो दध्यादेर्गुणत्वम् । गुणकर्मणि द्रव्यस्य प्राधान्यम्, द्रव्ये च कर्मणो गुणत्वम् । यथा "त्रीहीन् प्रोत्तति, अवहन्ति " इत्यादो द्वितीयया वीहीण क्रिया- साध्यत्वप्रतीतेः क्रियापेत्तया द्रव्यस्य प्राधान्यम्, प्रोतणादिक्रियाया- स्तदपेक्षया गुणत्वमिति ।
A FOURFOLD DIVISION OF SUBSIDIARY RITES
पुनरपि गुणकर्म चतुर्विधम्-उत्पस्याप्तिधिकृतिसंस्कृति- भेदात् । तत्रोत्पत्तिसंस्कारी यथा "अग्नीनादधीत" इति । मन्त्रविशेषैः सम्भारेषु निधापिता आहवनीयादय उत्पद्यन्त इत्याहनीयाद्युत्पत्तिहेतुभूतसंस्कारजनकत्वात् आधानस्य उत्पत्तिसंस्कारत्वम् । अप्तिसंस्कारो यथा "स्वाध्यायोऽध्येतव्यः" इति । अध्ययनेन स्वाध्याय आप्यत इत्याप्तिसंस्कारोऽयम् । विकृतिर्यथा "वीहीनवहन्ति इति । वीहिगतवैतुष्यरूपविकृतिजनकत्वाइवहननं विकृति- संस्कारः । संस्कृतिर्यथा "त्रीहीन प्रोत्तति" इति । अत्र प्रोक्षणस्य वीहिगतातिशयरूपसंस्कृतिजनकत्वात् संस्कृतिरूपगुणकर्मत्वम् । अत्राधानमध्ययनञ्च स्वतन्त्रं गुणकर्म, न तु कत्वङ्गम् । प्रोतणादिक सर्व कत्वङ्ग गुणकर्मेति ध्येयम् ।
अर्थकर्म त्रिविधम् - नित्यनभित्तिककाम्य भेदात् । तत्र "याव जीवमग्निहोत्रं जुहोति,” “सायं जुहोति," "प्रात होति" इति जीवता पुरुषेण सायंप्रातःकालयोर्नियमैन कर्तव्यतया अवगत मग्नि होत्रादिकं नित्यम् । “अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् इति दर्शपूर्णमासातिपत्तिनिमित्तक पथिकृदिष्ट्यादिकं नैमितिकम् ।
नित्यनमित्तिकयोरकरण प्रत्यवाय पव, कृते फलं नास्तीति केचित् । अन्ये तु दुरितनिवृत्तिः फलमस्ति, "नित्यन मित्तिकैरेष कुर्वाणी दुरित यम् इत्यादिवाक्यैः प्रत्यवायनिवृत्तेः फलत्वेन श्रूयमाणत्वात् । न चैत्रं तयोरपि काम्यत्वापत्तिः, फलवत्त्वादिति वाच्यम् फलकामनापूर्वकानुष्ठानाभावात्, तत्तविधिवाक्ये फलकाममुद्दिश्य तदर्थ फलसाधनत्वेन विधानाभावाच काम्यत्वा- नुपपतेः ।
काम्यमपि कर्म त्रिविधम्- केवलमेहिकफलकम, मुष्मिक फलकम्, पेहिकामुष्मिकफलकञ्चेति । तत्राद्यं यथा कारीर्यादि । तत् तत्समयवर्ति शुष्यत्सस्यसञ्जीवनहेतुवृष्टिकामिना कियते, न कालान्तरभाविवृष्टिकामेन, जन्मान्तरीयवृष्टिकामेन वा। केवला- मुष्मिकफलक यथा स्वर्गाद्यर्थं दर्शपूर्णमासादिकम् । स्वर्गस्य इहलोकभोग्यत्वाभावात् । ऐहिकामुष्मिकसाधारणफलक यथा "वायव्यं श्वेतमालभेत भूतिकामः" इति भूत्यादिफलक मित्यन्यत्र विस्तरः ।
नतु दर्शपूर्णमासादिकर्मणां वीह्यादिद्रव्याणाञ्च प्रत्यक्षत्वेन लौकिकत्वात् कथं वेदस्यालौकिकार्थबोधकत्वमिति चेत्, न । कर्मणां प्रत्यक्षत्वेऽपि तेषां स्वर्गादिफलसाधनत्वमप्रत्यत्तमिति तत्फल साधनतया तत् कर्म कर्तव्यम्, इत्येवं फलसाधनतया कर्मकर्तव्यताबोधकस्य वेदस्यालौकिकार्थबोधकत्वात् । एवं श्रीह्यादीनां यागादिक्रियासाधनत्वं न प्रत्यत्तवेद्यमिति तद्बोधकस्यापि वेदवाक्यस्यालौकिकार्थबोधकत्वमिति न दोषः ।
HOW AN INJUNCTION FUNCTIONS
इदानी विधिवाक्यस्य विधायकत्वप्रकारः कथ्यते । तत्र "स्वर्गकामो यजेत" इत्यत्र यजिधातोरुपरितने तप्रत्यये धर्मद्वयमस्ति आख्यातत्वं लिङ्गत्वं चेति । तत्र भाख्यातत्वं सर्वलकारसाधारणम्, तद्वच्छेदेन लिप्रत्ययः पुरुषप्रवृत्तिरूपामर्थभावनां प्रतिपादयति ।
सा चार्थभावना किं, केन, कथमिति भ्रंशत्रय विशिष्टा । तथाहि यजेत इत्यत्र प्रथमं प्रत्ययेन 'भावयेत्' इति प्रतीयते । सुबन्ताभिहितान सर्वेषां कारकार्णा तिङन्तार्थ क्रियान्वय नियमै सति तिङन्तार्थस्य प्राधान्यात् । तत्र व प्रकृत्यर्थापत्तया प्रत्ययार्थस्य प्राधान्यात् प्रथमं प्रत्ययार्थभावनाया उपस्थितियुक्ता । ततः करोतिसमानार्थकभावयतेः सकर्मकत्वात् 'किं भावयेत्' इति कर्माकांक्षायां भिन्न पदोपात्तोऽपि स्वर्गो भाव्यत्वेनान्वेति । भान्यत्वेन कर्मत्वेनेत्यर्थः, साध्यत्वेनेति यावत् । न तु समानपदोपात्तो- ऽपि धात्वर्थो भाव्यत्वेनान्वेति । दुःखात्मकस्य यागस्य ईप्सित तमत्वरूपकर्मत्वायोग्यत्वात् । स्वर्गस्य त्वानन्दात्मकत्वेन ईप्सित तमतया कर्मत्वेनान्वययोग्यत्वात् । ततश्च 'स्वर्ग भावयेत्' इति बोधो भवति ।
ततः 'केन' इति करणाकांतायां समानपदोपातो यागः करणत्वेनान्वेति - 'यागेन स्वर्ग कुर्यात्' इति । ततः 'कथं यागेन स्वर्ग कुर्यात्' इति कथम्भावाकांक्षायाम् अभ्यन्वाधानावहननादि- जन्यदृष्टोपकारेण प्रयाजा दिजनितागृष्टोपकारसहितेन यागेन स्वर्ग कुर्यादिति अन्यन्वाधानप्रयाजादिकमङ्गजातम् इतिकर्तव्यतात्वे नाऽन्वेति । कथम्भाषाकांक्षापूरकत्वमितिकर्तव्यतात्वम् । यथा 'ओदनकामः पचेत्' इत्यत्र लिङा भावना प्रतीयते । किं भावये- दित्याकत्तायाम् श्रोदनो भाव्यत्वेनान्वेति, केनेत्याकत्तार्या पाके- नेति लभ्यते, कथमित्याकत्तायां तृणफूत्कारादिसहितेनेति । ततश्च तृणफूत्कारा धुप तेन पाकेन (तेजःसंयोगेन ) ओदनं भावयेदिति धाक्यार्थः सम्पद्यते । तद्वेदेऽपि बोध्यम् ।
स एव लिङ्गप्रत्ययो लिङ्कत्वावच्छेदेन शब्दभावनां प्रेरणा- ख्यामभिधत्ते । लोकेऽपि "गामानय" इत्याचार्यवाक्यश्रवणानन्तरम् 'अयमाचार्यो मां गवानयने प्रेरयति' इति प्रेरणाख्यव्यापारं शात्व शिष्यो गवानयने प्रवर्तत इत्यन्वयव्यतिरेकाभ्यां प्रेरणाज्ञानं प्रवृतिकारणम् । प्रेरणाज्ञानस्य चान्वयव्यतिरेकाभ्यां लिङ्गदिश्रवणजन्यत्वावधारणात्, लिङादेः प्रेरणाय शक्तिलक गृहात इति वेदेऽपि तत्रैव शक्तिकल्पनौचित्यात् । इयस्तु विशेष: लोके गवानयनादिप्रवृत्यनुकूलः प्रेरणाख्यो व्यापारः प्रयोक्तृपुरुषगता- भिप्रायविशेषः । वेदे तु प्रयोक्तपुरुषाभावात् लिङादिशब्दनिष्ठ एव स इत्यङ्गीक्रियते । अत एव शब्दनिष्ठव्यापारत्वाच्छाब्दी भावने- त्युच्यते, यागहोमादिविषयप्रवृत्तिहेतुत्वात् प्रवर्तना प्रेरणेति चोच्यते ।
सैषा शाब्दी भावनापि अंशत्रयविशिष्टा । तत्र पुरुषप्रवृत्तिरूपार्थ भावना भाव्यत्वेनान्वेति, अध्ययनावगत लिङादिकं करणत्वे- नान्वेति, अर्थवा दप्रतिपाद्यप्राशस्त्यज्ञानमितिकर्तव्यतात्वेनान्वेति । तत्र 'साङ्गवेदाभ्येतारोऽधीतव्याकरण निगमनिरुक्ताविवशाव्युत्प तिमन्तः पुरुषा अध्ययनगृहीतस्वाध्यायगतलिङादिभिः प्राशस्त्यज्ञानसचिवैर्यागायर्थं स्वकर्तव्यत्वेन बुद्धा यागादीननुतिष्ठेयुः' इति शाब्दभावनाबोधः । अनुतिष्ठेयुः अनुष्ठानं कुरित्यर्थः । अनु- ष्ठानं प्रवृत्तिः । तेन पुरुषप्रवृत्तेः शब्दभावनाभाव्यत्वमक्षतम् ।
इयञ्च शब्दभावना ज्योतिष्टोमादिप्रातिस्विकवाक्येषु स्वरू पेण प्रतीयमानाऽपि कर्तव्यत्वेन न प्रतीयते, अर्थभावनाया एव तेषु कर्तव्यत्वावगमात्, किन्तु स्वाध्यायोऽभ्येतव्यः" इति वाक्ये पत्र कर्तव्यत्वेन प्रतीयते । न चात्रार्थभावनाया एव विधेयत्वमिति वाच्यम्, “स्वाध्यायोऽभ्येतव्यः” इति वाक्यस्थार्थभावनाया प सकलविधिवाक्यस्थशब्दभावनारूपत्वात् ।
तथाहि- अधिपूर्वकात् 'इङ्क अध्ययने" इति धातोः कर्मणि तव्यप्रत्ययो विहितः । कर्म च स्वाध्यायः प्रधानम् । तत्संस्कारकमध्ययनं गुण कर्म, वीहिसंस्कारकप्रोक्षणादिवत् । अध्ययनजनितप्रहण संस्कार विशिष्टस्त्राध्यायस्य प्रयोजनाकांक्षायां स्वाध्यायगत - लिङादिविशिष्ठवाक्यसामर्थ्यलभ्यं यदनुष्ठानौपयिकं यागादिरूपार्थ ज्ञानं तदेव दृष्टत्वात्, तत्तत्कर्मानुष्ठानद्वारा स्वर्गादिरूपालौकिक यः- साधनत्वाच्च प्रयोजनम्, कर्मावबोध विना कर्मानुष्ठानायोगात् । न त्वद्वष्टं प्रयोजनम्, दृष्टफले सम्भवत्यदृष्टफलकल्पनाऽयोगात् ।
तथाच स्वाभ्यायविधिनेव स्वाध्यायगतविधिवाक्यगत लिङदि प्रतिपादिताः सर्वाः शाब्दभावना अंशत्रय विशिष्टाः कर्तव्यत्वेन विधी- यन्ते । साङ्गवेशाध्ययनेन व्युत्पन्नाः पुरुषाः अध्ययनगृहीतस्वाध्याय- गतलिङादिभिरर्थवादावगतप्राशस्त्यरूपाङ्गसचिवैः फलवद्यागादि कर्तव्यर्ता बुद्धा यागादीननुतिष्ठेयुरिति । अनुतिष्ठेयुः प्रवृत्ति कुर्युरित्यर्थः । तत्र पुरुषप्रवृत्तेर्भाव्यत्वेनान्वयात्, अध्ययनावगतलिका करणत्वेनान्वयात्, प्राशस्त्यज्ञान स्येतिकर्तव्यतात्वेनान्वयात्, शब्दभावनाया अपि अंशत्रयवैशिष्ट्यम् अर्थभावनाया इवेष्टम् ।
तत्र समीहितस्वर्गादिभाव्यकत्वभानमपि विधिवशादेव । प्रवतना परो विधिः यागादेः पुरुषार्थसाधनत्वे तत्र पुरुषं प्रवर्तयितुं नशातोतीति स्वभाव्यपुरुषप्रवृत्तिविषयस्य यागादेः पुरुषाभिलषित स्वर्गादिसाधनत्वमापादयति । अन्यथा स्वस्य प्रवर्तनात्वमेष न स्यात्, प्रवृत्तिहेतुव्यापारस्येव प्रवर्तनात्वात् । लडादिस्यले तु प्रवर्तनात्मकविधेर भाषादर्थभावनायाः पुरुषार्थभाव्यकत्व नियमो नास्ति । भावनात्वं नाम भवितुः प्रयोजकव्यापारत्वम् । तत्रार्थभावनार्या भवितुर्जायमानस्य स्वर्गादेः प्रयोजक व्यापारत्वात् लक्षणसङ्गतिः । शाब्दभावनायामपि पुरुषप्रवृत्तिरूपस्य भवितुः प्रयोजकव्यापारत्वात् लत्तणसङ्गतिः ।
ननु "ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यन्त्र यागेन स्वर्ग भावयेदित्यर्थवर्णने ज्योतिष्टोमपदस्य कथमन्वयः इति चेत्, न । भावनाकरणत्वेनाभिमतयागनामत्वेनान्वयात्- 'ज्योतिष्टमनामकेन यागेन' इति । कथं तनामत्वमिति चेत्, ज्योतिराख्या स्त्रिवृदादिस्तोमा अस्मिन् सन्तीति व्युत्पत्या यागनामत्वात् । यागस्य त्रिवृदादि स्तोमसम्बन्धः केनावगम्यते इति चेत्, न । “त्रिवृत् पञ्चदशः सप्तदश पतस्य स्तोमाः” इति वाक्यान्तरेण पतच्छदार्थस्य तत्सम्बन्धावगमात् । एवं शास्त्रोक्तस्तत्प्रख्यादिभिहंतुभिस्तत्र तत्र नामत्वं बोध्यम् ।
FOUR TESTS OF NAMES
शास्त्रे हि तत्प्रख्य तद्यपदेश यौगिक वाक्य भेदैश्चतुभिनमत्व प्रतिपादितम् । तथाहि अग्निहोत्रं जुहोति" इत्यत्र अग्निहोत्रशब्देन अग्निदेवतारूपो गुणो न विधीयते, “अग्नियतियतिरग्निः स्वाहेति सायं जुहोति" इति वाक्यविहितेन मन्त्रेण देवतायाः प्राप्तत्वात् । किन्तु अग्निप्रख्यापकम् (अग्निशापक) यच्छास्त्रान्त रम्-"अग्निज्यतियोंतिरग्निः " इत्यादिकम्, तेन प्राप्तमग्निसम्बन्धं निमित्तीकृत्य 'अन्नये होत्रं होमोऽस्मिन् इति बहुवीहिणा अग्निहोत्रपदस्य होमनामधेयत्वम् ।
न च होमस्य प्रत्ययवाच्यार्थभावनायां करणत्वात् तन्नामत्वे 'अग्निहोत्रेण' इति तृतीया स्यात्, 'ज्योतिष्टोमैन' इतिदिति वाच्यम् । द्वितीयाया एव लक्षणया करणार्थकत्वात्,' 'नासाधितं करणम् इति न्यायेन असाधितस्य करणत्वायोगात् अर्थात् प्राप्तहोमगतसाध्यत्वानुवादकत्वेन वा द्वितीयोपपत्तेरिति तत्प्रख्यन्यायादत्र नामधेयत्वम् ।
तथा "श्येनेनाभिचरन्यजेत" इत्यत्र श्येनपदं यागनामधेयम्, न तु यागाङ्गत्वेन श्येनपक्षिरूपगुणविधिः। “यथा वै श्येनो निप त्यादते एवमेवायं द्विषन्तं भ्रातृव्यं निपत्यादत्ते यमभिचरति श्येनेन" इत्युपमानोपमेयव्यपदेशानुपपत्तिप्रसङ्गात् । 'श्येनपत्ती यथा पक्ष्यन्तरं निपत्यादत्ते एवमयमपि श्येननामकः कर्मविशेषो भ्रातृव्यं शत्रु निपत्यादत्ते' इति व्यपदेशः कर्मनामत्वपत्त एव युज्यते । यागाङ्ग तथा श्येनपत्तिविधौ तु स्वस्य स्वेनवोपमानोपमेयभावः स्यात् । स वायुक्तः । तस्माच्छेानतुल्यतान्यपदेशाच्य नपदं कर्मनामधेयम् । ततच 'अभिचरन् शत्रुवधकामः श्येननामकेन यागेन अभिचारं भाषयेत्' इति वाक्यार्थः ।
नन्वेषमप्यभिचारस्यापि वेदोक्तत्वात् आभिचारिके कर्मण्या- स्तिकानामपि प्रवृत्तिः स्यादिति चेत्, न । वेदोक्तोऽप्यभिचारो वेदविहितो न भवति, फलत्वात् । 'फलं न विधेयं किन्तु फलमुद्दिश्य तत्साधनत्वेन कर्मष विधेयम्' इति सिद्धान्तात् । अतोऽभिचारस्याविहितत्वेन प्रत्यवायजनकत्वम् ।
एवम् "उद्धिदा यजेत पशुकामः" इत्यत्र पशुरूपफलाय विधि- त्सितस्य यागस्य उद्धित्पदं नामधेयम्, न तु यथाकथञ्चित प्राप्तयागमुद्दिश्य तदङ्गतयोद्भिद्र पगुणविधिः । दध्यादिवदुद्भिन्ना- मकस्य गुणस्याप्रसिद्धत्वात् । यागे तु 'उद्भिद्यते फलमनेन' इति योगसम्भवाद्यागनामत्वम् ।
ननु 'उद्भिद्यते भूमिरनेन' इति योगवशेन खनित्रादावयुद्धिदः प्रयोगसम्भवात् खनित्रादिगुण विधिः किं न स्यादिति चेत्, न । पता शस्थले गुणविधिः कापि वक्तुं न शक्यते । विरुद्धत्रिक द्वयसमावेशाख्यदोषप्रसङ्गात् । तथाहि - "उद्धिदा यजेत पशुकामः” इत्यत्र मानान्तरेणाप्राप्तस्य यागस्यानुवादासम्भवात् पशुकर्मकभाव नायां करणत्वेन यागो विधेयः- 'यागेन पशून् भावयेत्' इति । ततश्च यागस्य विधेयत्वम्, फलं प्रति शेषतया प्रतीयमानत्वाद्गुणत्वम्- शेषतया अङ्गतयेत्यर्थः - फलसिद्धार्थं पुंसाऽनुष्ठीयमानत्वादु पादेयत्वमिति विधेयत्वगुणत्वोपादेयत्वात्मकमेकं त्रिकं यागेऽस्ति। तथा यागोद्देशनोद्भिद्गुणविधौ विधित्सितगुणापेक्षया प्राधान्यम्, उद्देश्यत्वम्, अनुषाद्यत्वञ्चेति द्वितीयं त्रिकम् । तदेतत् त्रिकद्वयं परस्परविरुद्धम् एकस्मिन् यागे प्रसज्येत । अतो न गुणाविधिः ।
न च "सोमेन यजेत" इत्यत्र विरुद्धत्रिक विनैव सोमशब्दस्य सोभवति यागे लक्षणामङ्गीकृत्य 'सोमवता यागेनेष्टं भावयेत्' इति सोमविशिष्ट्रयाग विधानाद्यथा सोमरूपगुणविधिः, तह दुद्धित्प दस्यापि मत्वर्यलक्षणयाऽत्रोगिद्गुण विशिष्टयागविधिः स्यादिति वाच्यम् । सोमादौ गत्यन्तराभावात् मत्वर्थलत्तणया विशिष्टविध्यङ्गीकारात् । उद्धिदादो नामत्वेन गतिसम्भवाद्विशिष्टविध्यङ्गी- कारायोगात् । तस्माद्योगवशादुद्धिदादीनां नामत्वम् ।
तथा "चित्रया यजेत पशुकामः" इत्यन्त्र चित्रापदं प्राजापत्यनामधेयम् । “दधिमधुघृतमापो धानास्तण्डुलास्तत्संसृष्टं प्राजा- पत्यम्" इत्यत्र 'तत्संसृष्टं प्राजापत्यम्' इति सामानाधिकरण्याद्यो दध्यादिद्रव्यषट्कस्य प्रजापतिदेवतासम्बन्धः श्रुतः तेनानुमितो यागो विधीयते । विहितस्य यागस्य फलाकत्तायां "चित्रया यजेत" इति वाक्यं फलसम्बन्धविधायकम् । तत्र फलार्थत्वेन पुनविधि- रिति तस्य प्राजापत्ययागस्य दध्यादिविचित्रद्रव्यकत्वात् चित्रापदं कर्मनामधेयम् । न तु "अग्नीवोमीयं पशुमालभेत" इति वाक्य प्राप्तं पशुयागं 'यजेत' इत्यनूध चित्रत्वस्त्रीत्वरूपगुणद्वयविधानम् । मानान्तरप्राप्त कर्मोद्दिश्य तत्रानेकगुणविधाने वाक्यभेदात् । तदुक्तम् "प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः” इति । मानान्तराप्राप्ते कर्मणि त्वनेकदेवताऽष्टाकपालपुरोडाशामावास्या- पौर्णमास्याद्यनेकगुणाविशिष्टो द्रव्यदेवतासम्बन्धेनानुमितो यागो विधीयते इति सिद्धान्तः । तदुक्तम् "अप्राप्ते तु विधीयन्ते बहवो- ऽप्येकयनतः” इति ।
अथ यथा "पशुना यजेत" इत्यत्र मानान्तरप्राप्तयागमुद्दिश्य तदङ्गतया 'पशुना' इत्येक पदोपात्तान पशुद्रव्यतगतलिङ्गसंख्यानां प्रयाणां वाक्यमेदं बिनैव विधिरङ्गीकृतः, तद्वत्राप्येक पदोपातचित्रत्वनीत्वविशेषितपशुद्रव्यकारकस्य विधानान्न धाक्यभेदः । अत एष तत्र विधेयस्य पशोरुपादेयत्वात् तगतमैकत्वं यज्ञाङ्गतया विवक्षित मित्येकेनैव पशुना यष्टव्यम्, “ग्रहं संमाष्टि इत्यत्र उद्देश्यगतत्यादेकत्वमविवक्षित मिति सिद्धान्तप्रवादः ।
कथम् ? "ग्रहं संमाष्टि इत्यत्र 'ग्रहम्' इति द्वितीयया प्रहस्येप्सिततमत्वेनोद्देश्यत्वात् प्रयोजनवत्त्वाच प्राधान्यं गम्यते । संमार्गस्तु प्रहं प्रति गुणभूतः । 'प्रतिप्रधानं गुण आवर्तनीयः' इति न्यायात् 'यावन्तो प्रहास्तेषां सर्वेषां संमार्गः' इति निश्चये सति, 'कति प्रहाः संमार्जनीयाः' इति बुभुत्साया अभावादुद्देश्यगत मेकत्वं धूयमाणमप्यविवक्षितम् । यद्युच्येत "ने मुद्देश्यगतं किन्तु स्वयं विधेयम्- 'ग्रहं संमृज्यात्, तं चैकम्' इति, तथा सति विधेयभेदाद्वाक्यभेदः स्यात् । तथा बुभुत्साया अभावात् विधा- नायोगाचोद्देश्यगता संख्या न विवक्षिता । उद्देश्यगतमपि विशेषणं किञ्चिद्विवक्षितं यस्य विशेषणस्य विवां विना उद्देश्यप्रतीतिर्न पर्यवस्यति । यथा तत्रैव ग्रहत्वं विवक्षितम्, तद्विवक्षां विना उद्देश्यस्वरूपस्य ज्ञातुमशक्यत्वात् । तेन ग्रहजातीयसाधनक सोम यागापूर्वार्थत्वाञ्चमसेषु न संमार्ग इति स्थितम् ।
"पशुना यजेत" इत्यत्र तु यागं प्रति पशुविधेयत्वाद्गुणभूतः । प्रतिगुणं प्रधानावृत्तिस्तीति कियद्धिः पशुभिः यागः कर्तव्य इत्याकांक्षायाम् एकवचनेन प्रतीयमानं विधेयगतमेकत्वं विवक्षितम्, बुभुत्सितत्वात् । किञ्च लिङ्गसंख्याविशेषितस्य पशुद्रव्यरूपकारकस्य पकपदो पातस्य विधेयत्वाद्विधेयपशुद्वारा तगत लिङ्गसंख्यादेरपि क्रियाङ्ग त्यादेकत्वं विवक्षितम् ।
अथवा तृतीयया विभक्तयाऽभिहितयोलिङ्गसंख्ययोर्षिमता- भिहिततया करणकारकशक्त्याऽऽत्मसात्कृतयोः प्राप्तिपदिकार्थपशुद्रव्येण सम्बन्धमनागत्य तदेव सात्तात् क्रियाङ्गत्वेन विधाने सति पश्चावरुणे कहायनीन्यायेन परस्परमन्वयः- यागाङ्गत्वेन विहितो यः पशःस एकः पुमश्चेति । यथा "अरुणया पिङ्गाक्ष्या एकहायन्या गया सोमं क्रीणाति" इत्यन्त्र कारकाणां क्रियान्वयनियमा करण विभक्तिभिरारुण्यपिङ्गात्तीत्यादीनां चतुर्णी परस्परमनन्विता- नामेव सोमक्रयणाङ्गरवेन अन्वये सति आरुण्या देगुणस्यामूर्तस्य स्वतः क्रियासाधनत्वायोगात् क्रियासाधने कहायनीगोपरिच्छेदकत्वेन पश्चात् परस्पर पाष्णिकान्वयः - या एकद्दायनी गौः सा पिङ्गनक्षी अरुणेति, तद्वत् ।
देवमुद्देश्यगत विंशेषणमविवक्षितम्, उपादेयगतं विवक्षितमिति स्थितम् । एवञ्च चित्रापदेन चित्रत्वस्त्रीत्वोभय विशेषितपशु- कारकस्य यजेतेति पदानूदितेऽग्नीषोमीयपशुयागे विधातुं शक्यत्वात् कथं नामत्वमिति चेत्, न । यथा सति प्रकृतस्य प्राजापत्ययागस्य फलसम्बन्धार्कात्तस्य हानम् । अप्रकृतस्य अग्नीषोमीययागस्य कल्पना च स्यात् । तद्वयमयुक्तम् । तस्माश्चित्रापदं कर्मनामधेयम् । एवं तत्प्रख्यादिभिरन्यतमैन सर्वत्र कर्मनामत्वमूह्यम् ॥ इत्थं विधिवाक्यस्य प्रामाण्यं विचारितम् ।
CORROBORATIVE STATEMENTS
अथार्थवादो विचार्यते । अर्थवादानां तु स्वार्थपरत्वे प्रयोजना- भावादध्ययनविधिवशेन फलवदर्थज्ञानार्थत्वस्यावश्यकत्वात् विधेय गतप्राशस्त्यप्रतिपादनद्वारा विधिवाक्येकवाक्यतया प्रामाण्यम् । स चतुर्विधः - निन्दा प्रशंसा परकृति पुराकल्पभेदात् । तत्र निन्दाऽर्थवादो यथा "असत्त्रं वा एतद्यदच्छन्दोमम्,” "अश्रुजं हि रजतं यो बर्हिषि ददाति पुराऽस्य संवत्सराद्गृहे रुदन्ति" इत्यादि । प्रशंसार्थवादो यथा "शोभतेऽस्य मुखं य एवं वेद," "वायुर्वे लेपिष्ठा देवता, वायुमेव स्वेन भागधेयेनोपधावति, स एवेनं भूर्ति गमयति" इत्येवमादिः ।
परेण महता पुरुषेणेषं कर्म कृतमिति प्रतिपादको ऽर्थवादः परकृतिः । यथा "अग्निर्वा अकामयत" इत्यादिः । परप्रवक्तृकार्यप्रतिपादकोऽर्थवादः पुराकल्पः । यथा "तमश पदुधिया धिया त्वा वयासुः” इत्यादिः ।
तत्र निन्दाऽर्थवादस्य विधेयान्यनिन्दाद्वारा विधेयप्राशस्त्यपर - त्वम् । “अश्रुजम्” इत्यादिरजतभिन्दाद्वारा विधेयभूतरजतदाननिपेधप्राशस्त्यपरत्वे विरोधाभावात् । इतरेषां त्रयाणां साक्षात् प्राशस्त्यपरत्वमेव । “वायुर्वे" इत्यर्थवादस्य वायुः क्षिप्रगामि त्वादतीव प्रशस्ता देवता, अतस्तदेवत्यं कर्म प्रशस्तमिति विधेयदेव तागतप्राशस्त्यप्रतिपादनद्वारा विध्येकवाक्यत्वम् ।
"अग्निर्वा अकामयत " इत्यस्य अग्निदैवत्यो यागः पूर्वकाले अग्निना कृतत्वात् प्रशस्तः, आधिक्यादिदानीमप्यन्यैर्य जमानेरवश्यं कर्तव्य इति विधेयक गतप्राशस्त्यद्वारा विध्येकवाक्यत्वम् । एवमन्यत्राप्यूह्यम् ।
क्वचित् कार्यान्तरमष्यस्ति । यथा "भक्ताः शर्करा उपदधाति" इति विधौ "यक्ता" इति पदेन द्रवद्रव्यसामान्यं प्रतीयते । तच्च द्रव्यं किमिति सन्देहे "तेजो वे घृतम् इत्यर्थवादाघृतमिति निश्वीयत इति "तेजो वै घृतम्" इत्यर्थवादस्य सन्दिग्धार्थ निर्णायकत्वेन प्रामाण्यम् ।
SACRED TEXTS
अथ मन्त्रविचारः । मन्त्राणामपि अध्ययनविधिना कुत्स्नस्वाभ्यायस्य फलव दर्यज्ञानार्थत्वमेव, न त्वदृष्टार्थत्वम् । द्वष्टे सम्भवत्यदृष्टकल्पनाऽयोगात् । प्रयोगकाले कर्मज्ञानं विना कर्मानु- ष्ठानायोगात् कमपयिकमर्थज्ञानं मन्त्रैः क्रियते । न चोपदेष्ट्रवचनादिनाऽप्यर्थस्मरणसम्भवादनुष्ठानोपपत्तिरिति वाच्यम् । मन्त्र रेवार्थ स्मृत्वाऽनुष्ठाने सति फलं भवति नान्यथेति नियमाङ्गीकारात् । नियमेनादृष्टस्याङ्गीकारात् तदभावे तजन्या- दृष्टलोपे तन्मूलं फलं न सिभ्यतीति कल्पनात् ।
नन्वेवं मन्त्राण स्वप्रकाश्येऽर्थे विनियोग इति फलितम् । विनियोगो नाम शेषत्वेनान्वयः । शेषत्वं नाम अङ्गत्वम् । ततश्च "इमामगृभ्णन्रशनाम् इति मन्त्रस्य रशनाग्रहणप्रकाशनसामर्थ्यमस्तीति रशनाप्रहण प्रकाशनसामर्थ्यरूपात् लिङ्गादेव रशनाग्रहणा- इत्वोपपत्तेः "इमामगृभ्णन् रशनामृतस्य इत्यश्वाभिधानीमादते " इति वचनं किमर्थमिति चेत् न, परिसंख्यार्थत्वात् । चयनप्रकरणेऽश्वरशनाग्रहणं गर्दभरशवाग्रहणं चेति द्वयमस्ति । तत्र लिङ्गादश्वरशनार्या मन्त्रप्राप्ताबुच्यमानायां लिङ्गाविशेषागई भरशनायामपि मन्त्रः प्राप्तः, प्रतो अश्वरशनायामेव मन्त्रः कार्यः, न गर्दभरशनायामिति मन्त्रनिवृत्तिरूपपरिसंख्याऽर्थोऽयं विधिः ।
सा च परिसंख्या त्रिदोषा-स्वार्थत्यागः, परार्थस्वीकारः, प्राप्तबाधश्चेति । तत्र “अश्वाभिधानीमादते" इति वाक्यस्य अनेन मन्त्रेणाश्वरशनाऽऽदानं कुर्यादिति स्वार्थः, स च त्यक्तः । गर्दभरशनातो मन्त्र निवृत्तिः परार्थः, स च स्त्रीकृतः । गर्दभरशनायामपि लिङ्गात् प्राप्तस्य मन्त्रस्य अनेन बाधश्च इति त्रिदोषा परिसंख्या गत्यभावादङ्गीकृता । गत्यन्तरे सति सा न युक्ता ।
एवमष्टदोषदुष्टविकल्पोऽप्यगतिकोऽङ्गीकृतः । यथा, आग्नेयोऽटाकपालः संस्कृतः पुरोडाशो यागाङ्गत्वेनावगतः । तत्र अपूप- विशेषस्य पुरोडाशस्त्र प्रकृतिद्रव्याकांक्षायाम् अनियमेन यस्य कस्यचिद्रव्यस्य प्राप्तौ "वीहिभिर्यजेत" इति वाक्यात् व्रीहयो नियम्यन्ते । एवं "यवैर्यजेत" इति वाक्याद्यवा अपि नियम्यन्ते । तयोरेकार्थत्वाद्विकल्पः । एवम् "अतिरात्रे षोडशिनं गृह्णाति" इत्यतिराने षोडशिप्रहणं विहितम् । तथा "नातिरात्रे षोडशिनं गृह्णाति” इति प्रतिषेधात् प्रहणाभावो विहितः । तयोर्प्रहणाग्रहणयोः परस्परविरुद्धयोरे- कस्मिन् प्रयोगेऽनुष्ठातुमशक्यत्वात् कचित् प्रयोगे प्रहणानुष्ठानम्, प्रयोगान्तरे तदभावानुष्ठानमिति तत्रापि विकल्पः ।
स चाष्टदोषदुष्टः । तथाहि- पूर्व ब्रीहिप्रयोगे यवशास्त्रस्य स्वार्थानुष्ठापकत्वलक्षणग्रामाण्यपरित्यागः, अननुष्ठापकत्वलक्षणा- प्रामाण्यस्वीकारः । ततो द्वितीयप्रयोगे यवानुष्ठाने यवशास्त्रस्य पूर्व त्यक्तं यत् प्रामाण्यं तत्स्वीकारः, स्वीकृतं यदप्रामारायं तत्परित्यागश्चेति यवशास्त्रे चत्वारो दोषाः । एवं पूर्व यवप्रयोगे वीहि शास्त्रस्य स्वार्थानुष्ठापकत्वलक्षणं यत्यामाण्यं तत्परित्यागः, अननुष्ठापकत्वलक्षणं यदप्रामाण्यं तत्स्वीकारः। पुनर्वितीयप्रयोगे बीह्यनुष्ठाने वीहिशास्त्रस्य त्यक्तप्रामाण्यस्वीकारः, स्वीकृताप्रामारायपरित्यागश्चेति वीहिशास्त्रे चत्वारो दोषाः, इत्यष्टदोषदुष्टो विकल्पः ।
सच विकल्पः कचिदेकार्थत्वात्, एककार्यकारित्वादित्यर्थः । यथा वीहियवयोरकैकस्य पुरोडाशनिष्पादनक्षमत्वाद्विकल्पः । कचित् बचनबलात् । यथा. "बृहत्पृष्ठं भवति इति बृहत्सामसाध्यं पृष्ठनामकं स्तोत्रं विहितम्, “रथन्तरं पृष्ठं भवति " इति रथन्तरसामसाध्यं पृष्ठस्तोत्रान्तरं विधीयते ।
स्तोत्रं च प्रयाजाविदपूर्वार्थत्वादर्थकर्म । साम तु संस्कारकर्मत्वाद्गुणकर्म । स्तोत्रसाधनीभूतस्तोत्रियाक्षराभिव्यक्तिरूपसंस्कारद्वारा साम्नां स्तोत्र साधनत्वाङ्गीकारात् । प्रगीतमन्त्रसाध्यमिन्द्रादिगुणिनिष्ठगुणाभिधानं स्तोत्रम् । प्रगीतमन्त्रसाध्यं सामा- भिव्यक्तऋगत्तरसाध्यमित्यर्थः । अप्रगीतमन्त्रसाभ्यगुणिनिष्ठगुणाभि धानं शस्त्रम् । गानक्रियाविशेषः साम । स्तोत्रसाधनीभूता ऋवः स्तोत्रियाः। तद्रतविवृत्पञ्चदशत्वादिसंख्या विशेषः स्तोमः इत्येतेषां भेदः । तथाच बृहद्रथन्तरपृष्ठयोः भिन्ना पूर्वार्थ वेन एकार्थत्वाभावेऽपि "बृहदा पृष्ठं कार्यम्,” “रथन्तरं वा पृष्ठं कार्यम्,” इति वचनबलादेव विकल्पः ।
कचित् व्यवस्थितविकल्पः । यथा द्वितीयप्रयाजकर्मणि नराशंस तनूनपान्मन्त्रयोः एकार्थत्वाविकल्पः । स च "राजन्यवासिष्ठादीनां नाराशंसो द्वितीयः प्रयाजस्तनूनपादन्येषाम्” इति वाक्याव्यवस्थित इति व्यवस्थितविकल्पः । तदेवं चोदनापरपर्याया विधिवाक्यानाम् अंशयविशिष्ट भावनाविधायकत्वात् प्रामाण्यम् उद्भिदादीन नामतया, अर्थवादान विधेयप्राशस्त्य परतया, मन्त्राणामनुष्ठेयार्थस्मारकतथा प्रामाण्यमिति कृत्स्नस्य वेदस्यालौकिके धर्माधर्माख्येऽर्थे प्रामाण्यं स्थितम् ।
मन्वादिप्रणीतानां स्मृतीनामपि वेदमूलकत्वात्स्यादष्टकादौ धर्मे प्रामाण्यम् । "यौटुम्बरी सब वैष्टयितव्या" इति स्मृतिरप्र माणम्, " दुम्बरी स्पृष्ट्वोहायेत्" इति प्रत्यत्तश्रुतिविरुद्धत्वात् । सर्ववेटने सति श्रुत्युक्तस्पर्शनस्य कर्तुमशक्यत्वात् । “वैसर्जनहोमीर्य वासोऽध्वर्युर्गुहाति" इत्यादि स्मृतिरप्रमाणम्, श्रुत्यर्थाविरुद्धत्वेऽपि लोभमूलतत्वात् ।
तथा शिष्टाचारोऽपि स्मृतिद्वारा श्रुतिमूलकत्वात् प्रमाणम् । मातुलसुतापरिणयनाविशिष्टाचारस्त्वप्रमाणम् । “मातुलस्य सुता- मूवा" इत्यादि स्मृत्या निषिद्धत्वेन स्मृतिविरुद्धत्वात् । तदेषं श्रुतिस्मृत्याचाराणां धर्माधर्मयोः प्रामाण्यमुक्तम् ।
CRITERIA OF A DIFFERENCE OF RITE
स च धर्मः परस्परं भिन्नः । भेदकप्रमाणानि तु शब्दान्तशदीनि । तथाहि- यागदानहोमानां यजति ददाति-मुहोत्यपर्यायशब्दप्रतिपाद्यत्वाच्छब्दान्तरानेदः । स्त्रस्वत्वनिवृत्तिपूर्वकं परस्वत्वा पादानं दानम् । "समिधो यजति" इत्यादीनां पञ्चान वाक्यानां मध्ये एकस्य कर्मविधायकत्वमन्येषां तस्मिन् कर्मणि गुणविधायक त्व मित्यत्र नियामका भावात्सर्वेषां कर्मविधायकत्वे स्थिते विहितस्य कर्मणः पुनर्विधानं व्यर्थमिति पुनर्विधानसामर्थ्यात् पूर्ववाक्यविहितकर्मापे- तया उत्तरोत्तरवाक्यविहितस्य कर्मणो भेदः सिभ्यतीत्येतादृशस्थलेष्वविशेषपुनः श्रुतिरूपाद्य जतिपदाभ्यासात् कर्मभेदः ।
"तिस्त्र आहुती होति" इत्यत्र जुहोतिपदाभ्यासाभावेऽपि जुहोतीत्यर्थे होमै त्रित्वसंख्यान्वयात्परस्परं भिन्नास्त्रयो होमा इति संख्ययाऽत्र कमभेदः । "प्रथैष ज्योतिरथैव विश्वज्योतिरथैव सर्वज्योति रेतेन सहस्र दक्षिणेन यजेत इति ज्योतिष्टोमप्रकरणे श्रुतानामपि ज्योतिराद्या- ख्यान त्रयाणां यागानां ज्योतिष्टोमसंज्ञापेक्षया पृथक् संशात्रयकरणात् ज्योतिष्टोमा पेक्षया भेदः । भिन्नसंज्ञावशादेव त्रयाण परस्पर भेद इति संचया कर्मभेदः ।
तथा "तप्ते पयसि दध्यानयति, सा वैश्व देव्यामित्ता, बाजिभ्यो वाजिनम्" इत्यत्र "सा वैश्वदेवी" इति वाक्ये विश्वदेवदेवताऽऽ मिक्षा- द्रव्यसम्बन्धानुमितो यागो विधीयते । “वाजिम्यो वाजिनम् " इत्यत्रापि वाजिदैवत्य वाजिनद्रव्यक कर्मान्तरं विधीयते । न तु पूर्व विहिते वैश्वदेवयागे वाजिनद्रव्यरूपो गुणो विधीयते, पूर्वयागस्या- ऽऽमिक्षागुणावरुद्धत्वेन तत्र वाजिनस्य निवेशायोगात् । न च वीहि यववद्विकल्पः; वाजिनामिक्षयोः समशिष्टत्वाभावात्, विषमशिष्टयोविकल्पायोगात् । वैश्वदेवयागोत्पत्तिवाक्ये एवामित्तागुणः शिष्यत इत्युत्पत्तिशिष्टः । शिष्यते विधीयत इत्यर्थः । वैश्वदेववाक्यादुत्पन्ने कर्मणि वाक्यान्तरेण शिष्टो विहितो वाजिनगुण उत्पन्नशिष्टः । तयोर्मध्ये हद्युत्पत्तिशिष्ठः प्रबलः, कर्मोत्पतिवेलायामेव कर्माङ्गत्वेन प्रमितत्वात् । उत्पन्न शिष्टो वाजिनगुणोऽनन्तरं प्रमितोऽपि विलम्बि- तत्वेन दुर्बलत्वात् तत्पूर्वकर्मणि निवेशमलभमानो वाजिरूपदेवता-न्तरसम्बन्धात्स्ववाक्यस्य कर्मान्तरविधायकत्वमानयतीति गुणानु- भेदः । तत्र घनीभूतं पय आमित्ता, शिष्टं जलं वाजिनम् ।
तथा कुण्डपायिनामयने श्रूयते -"उपसद्भिश्चरित्वा मासमग्नि- होत्रं जुहोति इति । भत्र पूर्व कर्म किञ्चिदपि सन्निहितं न भवति । अपूर्वकर्मसन्निधानरूपात् प्रकरणान्तरात् प्रसिद्धाग्निहोत्रधर्मकं तन्ना- मर्क कर्मान्तरं विधीयते । न त्वग्निहोत्रशब्देन प्रसिद्धाग्निहोत्रमनूच गुणविधिः । प्राप्त कर्मणि आनन्तर्य मासरूपाने कगुणविधौ वाक्य- भेदापत्तेरिति प्रकरणान्तरादा कर्मभेदः । प्रसिद्धानिहोत्रं नेयमिका- ग्निहोत्रम्, नित्याग्निहोत्रमिति यावत् । तदेवं शब्दान्तराभ्यास संख्या संज्ञा गुण प्रकरणान्तरैः कर्मभेदो दर्शितः ।
THREEFOLD VEDIC SUBJECT-MATTER
अथ प्रमेयादिविचारः । तत्र वेदादिप्रमेयोऽर्थस्त्रिविधः- क्रत्वर्थः, पुरुषार्थः, उभयार्थश्चेति । तत्र प्रयाजादिकं केवलं कत्वर्थः, फलं तत्करणं च पुरुषार्थः, यथा स्वर्गादिज्यतिष्टोमादिश्च । दध्यादि तूभयरुपम्, “दना जुहुयात्” इति फलासंयुक्तवाक्येन कत्वर्यत्वात्, “दनेन्द्रियकामस्य जुहुयात्" इत्यनेन फलाय विधानात् पुरुषार्थत्वात् । तदुक्तम्- "एकस्य तूभयत्वे संयोगपृथक्त म् इति । संयोगो वाक्यम्, तस्य पृथक्तुं भेदः, स एकस्य उभयार्थत्वे नियामक इत्यर्थः ।
कत्वर्थ प्रयाजादी कतुः प्रयोजकः, पुरुषार्थ फलं प्रयोजकम् । प्रयोजकत्वं नामानुष्ठापकत्वमित्यर्थः । विधियंदर्थं यदनुष्ठापयति स तत्र प्रयोजकः । दर्शादिविधिः स्वर्गाद्यर्थं दर्शादिकमनुष्ठा- पयतीति स्वर्गादिवंशदी प्रयोजकः । प्रयाजादिविधिः प्रयाजादीन् दर्शाद्यर्थम् अनुष्ठापयतीति दर्शादिः प्रयाजानां प्रयोजकः । दध्यानयनविधिः दध्यानयनमामित्तार्थमनुष्ठापयति, न वाजिनार्थम्; श्रामि क्षार्थ दयानयनानुष्ठाने सति वाजिनस्य स्वतः सिद्धत्वात् । अत आमि व दध्यानयने प्रयोजिका, न वाजिनम् । “पुरोडाशक पालेन तुषानुपवपति" इति तुषोपवापाङ्गत्वेन पुरोडाशकपालं विधीयते । तथापि तुषोपवापः कपालस्य प्रयोजको न भवति, पुरोडाशार्थ मुपातेनेव कपालेन तुषोपवापसिद्धः, किन्तु पुरोडाश एव कपालस्य प्रयोजक इत्या ह्यम् ॥
ORDER
अथ कमनिरूपणम् । ननु विधिना साङ्ग प्रधानं कर्तव्यतया चोद्यते । तत्राङ्गानां प्रधानानां व कर्मणां बहुत्वात् कमेणानुष्ठानं वाच्यम् । तत्क्रमनियामकं प्रमाणं किमिति चेत्, न श्रुत्या- दीनामेव कमनियामकत्वात् ।
तथाहि- "अध्वर्युगृहपति दत्तयित्वा ब्रह्माणं दीत्तयति इत्यत्र क्त्वाश्रुत्या गृहपतिदीत्तानन्तरं ब्रह्मदीक्षेति श्रोतक्रमः ।
"समिधो यजति," "तनूनपातं यजति" इत्यादौ विधिवाक्य पाठक्रमादेव समिदादियागानुष्ठानक्रमः । "अग्निहोत्रं जुहोति, यवागूं पचति" इत्यत्र यवागूपाकस्य होमार्थत्वेन पाकात् पूर्व होमस्य कर्तुमशक्यत्वात् पाठक मं त्यक्त्वाऽर्थक्रमः स्वीकर्तव्यः । अर्थः प्रयोजनं होमादिरूपम्, तदधीनः क्रमः अर्थक्रमः । तेन पूर्व पाकः, पश्चाद्धोमः ।
तथा "सप्तदश प्राजापत्यान् पशुनालभेत" इत्यत्र सप्तदशपशु- द्रव्यक प्रजापतिदेवताकाः सप्तदश यागाः कर्तव्यत्वेन बोधिताः । तत्रोपाकरणारूय आद्यः पदार्थः यतः कुतविदारभ्य यत्र कचित् समापनीयः । नियोजनादिकं तु येन क्रमेण उपाकरणं प्रवृत्तं तेनव क्रमेण कर्तव्यम्। कथम् ? प्रकृतावनीषोमीय पशोरेकत्वेन उपाकरणमादी कृत्वा द्वितीयक्षणे एव नियोजनं तृतीयत्तणे एव प्रोक्षणम्, व्यवधानप्रयोजकाभावात् । भत्र तु सप्तदशपशून सहानुष्ठेयत्ववचनात् प्रथम तो यत्र कचित् पशौ कृतमुपाकरणं स्वाध्यकर्तव्य - नियोजनाय षोडशभिः तयवधानं सहते, न त्वधिकम् । तत्रो- पाकरणक्रमेण नियोजनं प्रथमपशावकृत्वा पश्यन्तरे नियोजनं कृत्वाऽनन्तरं प्रथमपशौ नियोजनकरण बोडशक्षणाधिकक्षणव्यवधानं शास्त्राननुमतमापर्धेत । तभिरासायोपाकरणं येन क्रमेण प्रवृत्त तेनैव नियोजनादिकं कार्यमिति प्रवृत्तिक्रमः ।
तथा ज्योतिष्टोमे औपवसथ्यमहरारभ्य क्रमेणानुष्ठेयानाम् अग्नी- पोमीयसवनीयानुबन्ध्यानां पशून त्रयाणां साद्यस्क्राख्ये सोमयागे "सह पशुनालभेत" इत्येकदाऽनुष्ठानलक्षणं साहित्यं बोधितम् । तदपि सवनीयस्य स्थाने विहितम् । तत्र प्राकृतक्रमं परित्यज्य सवनीयस्य स्थाने साहित्यविधानादादौ सवनीयपशोरुपाकरणम्, ततोऽग्नीषोमीयस्य, ततोऽनुबन्ध्याया इति स्थानात् क्रमः । सुत्या- दिवसात् पूर्वमहरौपवसथ्यम् ।
तथा दर्शे सानाय्यधर्माण शाखाच्छेदादीनां पूर्वम्, भाग्नेयधर्माण निर्धापादीनाञ्च अनन्तर प्रवृत्तावपि मुख्ययोराग्नेयसानाय्ययागयो ध्ये आग्नेययागस्य पूर्वमनुष्ठानान्मुख्ययागक्रमेणादावाग्नेयपुरोडाशस्य प्रयाजशेषाभिधारणम्, ततः पयसोऽभिधारणपू इति मुख्ययागक्रमादभिधारणक्रमः । इत्येवं श्रुत्यर्थ-पाठ स्थान मुख्य प्रवृतिकमरेष कर्मानुष्ठानम् । अन्यथाऽनुष्ठाने वैगुण्यमित्यलम् । इति श्रीकृष्णायज्यकृता मीमांसापरिभाषा समाप्ता ।