Śrī Viṣṇu Samhitā
By Unknown
Composed in Unknown
30 chapters • 2572 verses
Filter Content
Display Mode
Chapter - 1
श्रीशैलशिखरे सिद्धमासीनं तन्त्रपारगम्।
प्रणम्यात्युज्ज्वलाकारं पृष्टवानौपमन्यवः॥ 1.1 ॥
भगवन्! दुर्निरीक्ष्योऽर्कं जित्वेवासि स्थितस्त्विषा।
नेदृशं जात्वहं रूपं दृष्टवानस्मि कस्यचित्॥ 1.2 ॥
किं देवानां भवानेको मुनीनामथवा नृणाम्।
त्वामहं प्रष्टुमिच्छामि तव विस्मापितस्त्विषा॥ 1.3 ॥
तेजसोऽत्युज्ज्वलस्यास्य श्लाघनीयः समुद्भवः।
कुतोऽत्रागाः किमर्थं वा कतमे जन्म वा कुले॥ 1.4 ॥
कृतकृत्योऽस्पृहो वा त्वमतुल्यमहिमा ध्रुवम्।
त्वद्गोत्रनामकर्मादि याथातथ्येन सर्वशः॥ 1.5 ॥
महत् कौतूहलं श्रोतुमविज्ञेयं नचेन्मया।
इति पृष्टोऽब्रवीत् सिद्धो हरिं ध्यात्वा कृताञ्जलिः॥ 1.6 ॥
हर्षगद्गदया वाचा सरोमाञ्चाश्रुविक्रियः।
श्रूयतामखिलं वक्ष्ये मायैवैषा हि वैष्णवी॥ 1.7 ॥
बुद्ध्याद्यक्षार्थनानात्वैर्या मोहयति देहिनः।
सुमतिर्नाम बैदोऽहमृषेरिध्मवतः सुतः॥ 1.8 ॥
साङ्गेषु त्रिषु वेदेषु तन्त्रेषु च कृतश्रमः।
बाल्येऽहं ब्रह्मचर्येण शैलेऽस्मिन् विमलोदके॥ 1.9 ॥
रैभ्यस्य जपतोऽभ्याशे चिरं शुश्रूषकोऽवसम्।
चिरदृष्टं दिदृक्षुस्तमिमं पूर्वोपकारिणम्॥ 1.10 ॥
इहागतोऽस्मि भद्रं ते विष्णुलोकाद् विहायसा।
को न मन्त्रस्त्वया लब्धः पुरेह जपतो गुरोः॥ 1.11 ॥
किमन्यद्वा यदभ्यासात् परिणामोऽयमीदृशः।
तस्मिन्ननुपदिश्यैव मन्त्रसिद्ध्या तिरोहिते॥ 1.12 ॥
रुदन् का गतिरित्युच्चैरश्रौषं खेऽस्फुटां गिरम्।
गतिस्तारनमोनामेत्यनया दुर्गमार्थया॥ 1.13 ॥
शिवमन्त्रं स्मृतं जप्त्वा तत्सिद्ध्याऽद्राक्षमीश्वरम्।
तेनोक्तो ब्रह्ममन्त्रं त्वं जपेत्येनं ततोऽजपम्॥ 1.14 ॥
ततश्चाविरभूद् ब्रह्मा वरदो लोकभावनः।
तेनाप्युक्तोऽस्मी नम्रोऽहं विष्णुमन्त्रस्तु जप्यताम्॥ 1.15 ॥
ततो जटाक्षमालादितपोलिङ्गधरावुभौ।
मन्वानस्तावपर्याप्तौ पर्याप्तं विष्णुमेव च॥ 1.16 ॥
षडक्षरं जपन् मन्त्रमहर्निशमनाकुलम्।
विश्वरूपमरूपं तं दृष्टवानस्मि रूपिणम्॥ 1.17 ॥
शङ्खचक्रगदापद्मशार्ङ्गासिशरखेटकैः।
श्रीवत्सकौस्तुभापीतकौशेयैर्वनमालया॥ 1.18 ॥
किरीटहारकेयूरकुण्डलादिविभूषणैः।
अलङ्कृतमुदाराङ्गमप्रमेयं सुरोत्तमम्॥ 1.19 ॥
दिव्यरूपं खगारूढं दिव्यगन्घानुलेपनम्।
सहस्रदित्यसंकाशं दुर्निरीक्षं सुरासुरैः॥ 1.20 ॥
ऋग्यजुस्सामजैर्मन्त्रैः स्तोत्रैश्च विविधैरपि।
प्रसाद्यैनं ततो भक्त्या व्यज्ञापयमहं पुनः॥ 1.21 ॥
भगवन्! देवदेवेश! वासुदेव! जगत्पते!।
तज्ज्ञानं मेऽनुगृह्णीष्व येन स्यात् कृतकृत्यता॥ 1.22 ॥
इत्युक्तो भगवान् प्रीतः प्राह गम्भीरया गिरा।
दिष्ट्या ते वत्स! धीः शुद्धा सुमत्याख्या तवामृषा॥ 1.23 ॥
परितुष्टोऽस्मि भद्रं ते तस्माद् वक्ष्यामि ते हितम्।
शृणु त्वं दीक्षितो भूत्वा पूर्वमीश्वरसंहिताम्॥ 1.24 ॥
ईश्वराद् ब्रह्मणः पश्चात् तथैव ब्रह्मसंहिताम्।
मद् विष्णुसंहितां श्रुत्वा ततो ज्ञानमवाप्स्यसि॥ 1.25 ॥
त्रयो मन्त्रास्त्वया जप्ताः शिवस्य ब्रह्मणो मम।
तस्मादनुग्रहेणापि त्रिभ्यो भाव्यं तव क्रमात्॥ 1.26 ॥
इत्युक्त्वाऽन्तर्हिते देवे स्मृतः प्रादुरभूच्छिवः।
स नतं प्राह मां प्रीतो विष्णूक्तं क्रियतामिति॥ 1.27 ॥
ततो दीक्षाविधिं कृत्वा तस्मादीश्वरसंहिताम्।
अवाप्य द्वादशाध्यायां निर्बीजार्चाविधायिनीम्॥ 1.28 ॥
ततः स्मृतागताद् देवाद् ब्रह्मणो ब्रह्मसंहिताम्।
श्रुत्वा द्वात्रिंशदध्यायां बीजाबीजार्चनाश्रयाम्॥ 1.29 ॥
ततः स्मृतागतं देवमष्टबाहुमधोक्षजम्।
पूर्ववत् प्रणिपत्याहं व्यज्ञापयमिदं पुनः॥ 1.30 ॥
देवदे! नमस्तेऽस्तु वासुदेव! सुरोत्तम।
ईश्वराद् ब्रह्मणश्चाहं श्रुतवानस्मि तत्कृते॥ 1.31 ॥
संहिते सर्वलोकेश! त्वन्नियोगाद् यथाविधि।
अतस्त्वमनुगृह्णीष्व यथावद् विष्णुसंहिताम्॥ 1.32 ॥
इति विज्ञापितो भक्त्या भगवान् विष्णुरव्ययः।
आचष्टाखिलसिद्ध्यर्थां विस्तीर्णां विष्णुसंहिताम्॥ 1.33 ॥
अष्टोत्तरशताध्यायामष्टैश्वर्यादिसिद्धिदाम्।
ज्ञानचर्याक्रियायोगशुभपादचतुष्टयाम्॥ 1.34 ॥
बीजाबीजसबीजार्चाविधानादिसमन्विताम्।
ततो नष्टः क्षणान्मोहः कामेषूपरता स्पृहा॥ 1.35 ॥
छिन्ना मे संशयाः सर्वे प्रसन्ना चाभवन्मतिः।
प्रकाशं चाभवत् साक्षात् तद् विष्णोः परमं पदम्॥ 1.36 ॥
दिव्यतूर्यरवो जज्ञे पुष्पवृष्टिश्च शोभना।
समन्तात् सुखसंस्पर्शः सुगन्धिश्च समीरणः॥ 1.37 ॥
ततश्चान्तर्हिते तस्मिन् भगवत्यखिलेश्वरे।
जपार्चादिपरो भूत्वा कञ्चित् कालमिहावसम्॥ 1.38 ॥
जपतो मे कदाचित्तु पुष्पवृष्ट्यादि पूर्ववत्।
सुनिमित्तान्वितं जज्ञे सर्वाश्चुक्षुभिरे दिशः॥ 1.39 ॥
ततो द्रुतमुपागम्य तार्क्ष्यो मां हरिशासनात्।
आदाय दिव्यया गत्या विष्णुलोकमुपानयत्॥ 1.40 ॥
तत्र साक्षान्महाविष्णुं ब्रह्मादिभिरभिष्टुतम्।
दिव्यरूपं पुनर्दृष्ट्वा प्रणम्यातिष्ठमग्रतः॥ 1.41 ॥
स प्रीतो मत्समीपे त्वं वसेति वरदोऽब्रवीत्।
सुसुखं तत्समीपेऽहमुषित्वा बहुवत्सरम्॥ 1.42 ॥
प्राप्याष्टगुणमैश्वर्यं तत्प्रसादादनत्ययम्।
द्युतिं चेमामिह प्राप्तश्चरल्ँलोकान् यदृच्छया॥ 1.43 ॥
त्वं तु भक्तो विनीतश्च श्रोतव्यं चैव तेऽखिलम्।
अशक्याऽल्पेन कालेन सा श्रोतुं विष्णुसंहिता॥ 1.44 ॥
वक्ष्याम्युद्धृत्य सारं ते यथा न स्यादिहाश्रुतम्।
मया पृष्टो यथा भूयो भगवान् सङ्ग्रहेच्छया॥ 1.45 ॥
सारभूतां ममावोचत् संक्षिप्तां विष्णुसंहिताम्।
तन्त्रोद्देशोऽथ तद्व्याख्या वैभवं क्षेत्रनिर्णयः॥ 1.46 ॥
मन्त्रोद्धारोऽर्चना मुद्रा संस्कारोऽग्नेश्च मण्डलम्।
दीक्षाभिषेचनं भूमिः प्रासादो बिम्बलक्षणम्॥ 1.47 ॥
प्रतिष्ठापञ्चकं चैव बिम्बशुद्धिक्रमस्तथा।
अधिवासः प्रतिष्ठा च प्रतिष्ठानन्तरक्रिया॥ 1.48 ॥
उत्सवश्च तथा यात्रा बलिर्विश्वार्चनं तथा।
जीर्णोद्धारो महोत्पातशमनं स्नपनं तथा॥ 1.49 ॥
प्रोक्षणं कर्मशेषश्च समयाचारसङ्ग्रहः।
योगो भागवतश्चैवमध्यायास्त्रिंशदेव तु॥ 1.50 ॥
याऽष्टोत्तरशताध्याया महती विष्णुसंहिता।
तत्रोक्तानां तु सर्वेषामर्थानामिह सङ्ग्रहः॥ 1.51 ॥
सेयं गुह्यतमा पुण्या स्पष्टार्था विष्णुसंहिता।
भुक्तिमुक्तिप्रदा ज्ञेया विष्णुना स्वयमीरिता॥ 1.52 ॥
Chapter - 2
अथ वक्ष्यामि संक्षेपात् तन्त्रव्याख्यानमादितः।
येन सम्यक्कृतेनेह सिद्धिर्भवति शाश्वती॥ 2.1 ॥
दीक्षाभिषेकवान् भक्तो ब्राह्मणः समयस्थितः।
परानुग्रहवान् वाग्ग्मी सिद्धः सिद्धान्तपारगः॥ 2.2 ॥
वादजल्पवितण्डाभिः परतन्त्रविघातकृत्।
सर्वलक्षणसम्पन्नः सत्यवादी दृढव्रतः॥ 2.3 ॥
निर्दोषो योगविद् दान्तः कर्मज्ञः कालवित्तमः।
व्याचक्षीतोपसन्नेभ्यः स्वशिष्येभ्यो विशेषतः॥ 2.4 ॥
दीक्षितेभ्यो विनीतेभ्यो भक्तेभ्यश्चापि यत्नतः।
द्विजेभ्योऽधीतवेदेभ्यः श्रद्दधानेभ्य एव च॥ 2.5 ॥
अभिवाद्य गुरुं शिष्यः सुखासीनः प्रयत्नवान्।
पठेत् प्रणवपूर्वं तु शृणुयाच्च पूनर्गुरोः॥ 2.6 ॥
अभ्यसेच्च द्विजैरेव तादृशैर्दीक्षितैः सह।
ज्ञात्वेवमभिषिक्तस्तु परेभ्यः प्रतिपादयेत्॥ 2.7 ॥
दीक्षयेच्च ततः शिष्यान् कुर्याच् स्थापनादिकम्।
दीक्षितोऽपि न शूद्रस्तु पठेच्च शृणुयात् तथा॥ 2.8 ॥
गुरुदत्तं जपेन्मन्त्रमर्चयेत् स्थण्डिले च सः।
व्याख्यास्थापितदेवार्चाहोमेष्वस्य न कर्तृता॥ 2.9 ॥
दीक्षितस्यापि किन्त्वेष कामं विप्रैस्तु कारयेत्।
सर्वेऽर्था येन तन्यन्ते त्रायन्ते च भयाज्जनाः॥ 2.10 ॥
इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते।
वेदमूलतया तन्त्रमाप्तमूलतयाऽथवा॥ 2.11 ॥
पुराणवत् प्रमाणं स्यात् तथा मन्वादिवाक्यवत्।
दृष्टानुमोपमाशाब्दैरर्थापत्त्या च पञ्चधा॥ 2.12 ॥
सर्वेऽप्यर्थाः प्रतीयन्ते यदि नाभासता भवेत्।
दृष्टमक्षोद्भवं ज्ञानं शब्दादिविषया मतिः॥ 2.13 ॥
प्रमाणं विषयाक्षादिदोषैराभासता स्मृता।
ततः सामान्यतो दृष्टं पूर्ववच्छेषवत् त्रिधा॥ 2.14 ॥
अनुमानं भवेद् भाविभूतार्थज्ञानसाधनम्।
उपमा यत्र सादृश्यादुपमेयार्थदर्शनम्॥ 2.15 ॥
याऽर्थादापद्यते सेयमर्थापत्तिरिहेष्यते।
वेदतन्त्रादिभेदेन शाब्दं तु बहुधा स्मृतम्॥ 2.16 ॥
स्वयंप्रकाश एकेषामात्माऽन्यैरनुमीयते।
प्रकृतिश्च विकृत्योभावागमैर्विधैरपि॥ 2.17 ॥
निष्कलः सकलैर्भावैः सृष्टैः स्रष्टाऽनुमीयते।
ज्ञात्वैवं सृज्यते सर्वमिति सर्वज्ञ एव सः॥ 2.18 ॥
आप्तप्रोक्ततया तन्त्रं प्रमाणमिति ये विदुः।
वेदप्रामाण्यमप्याहुराप्तमूलतयैव ते॥ 2.19 ॥
तच्छैववैष्णवब्राह्मसौरकौमारभेदतः।
पञ्चधा भिद्यते तन्त्रं वक्तॄणां च विशेषतः॥ 2.20 ॥
विष्णोर्धर्मप्रवक्तृत्वात् तत्प्रोक्तं मनुवाक्यवत्।
ब्रह्मविष्णू हि धर्माणां प्रवक्तारौ बुधैः स्मुतौ॥ 2.21 ॥
यथा तु वेदवृक्षस्य शाखाभेदा ह्मनेकशः।
तथा भेदाः समाख्याताः पञ्चरात्रस्य सूरिभिः॥ 2.22 ॥
क्रियापाठविशेषैस्तु भिद्यन्ते ते पृथक् पृथक्।
तन्मूलानि च तन्त्राणि मुनिभिर्देवमानुषैः॥ 2.23 ॥
बहुधा सम्प्रणीतानि तेनेदं बहुधा स्मृतम्।
तथा बहुविधेऽप्यस्मिन् पञ्चरात्रेऽतिविस्तरे॥ 2.24 ॥
अभेदेन स्थितं तत्त्वमेकमेव तु नान्यथा।
गोचरं कुलमित्युक्तमनुष्ठानविशेषतः॥ 2.25 ॥
तदेव ज्ञापकं तेषां देशिकत्वे न संशयः।
वैखानसाः सात्त्वताश्च विख्येकान्तिकमूलकाः॥ 2.26 ॥
गोचरास्तु समाख्याता वासुदेवाद्यजाश्रयाः।
भिद्यन्ते पञ्चधैते तु गोचराः पारमार्थिकाः॥ 2.27 ॥
अर्चनं सर्वकालं तु देवदेवस्य नित्यशः।
अयाचितोपपन्नेन कुटुम्बस्य च पोषणम्॥ 2.28 ॥
वृत्तिभेदः क्रिया चेति यत्र वैखानसं कुलम्।
एककालं द्विकालं वा विष्णोराराधनं स्फुटम्॥ 2.29 ॥
क्षत्रवृत्त्योपपन्नेन कुटुम्बस्य च पोषणम्।
नावर्तनं च सङ्ग्रामे सर्वशास्त्रेषु कौशलम्॥ 2.30 ॥
एतैस्तु लक्षणैर्युक्ताः सात्त्वतास्ते प्रकीर्तिताः।
कृषिवाणिज्यगोरक्षा द्विकालं विष्णुपूजनम्॥ 2.31 ॥
एतच्च दृश्यते यत्र शिखिनस्ते प्रकीर्तिताः।
शुश्रूषणं द्विजातीनां भैक्षवृत्त्या च वर्तनम्॥ 2.32 ॥
सकृच्चाराधनं येषां ते ततैकान्तिकाः स्मृताः।
एककालं द्विकालं वा त्रिकालमथवा पुनः॥ 2.33 ॥
अर्चनं देवदेवस्य मनोवाक्कायकर्मभिः।
अयाचितोपपन्नेन वर्तनं येषु दृश्यते॥ 2.34 ॥
स्वशिष्याद् वर्तनं वाऽपि ते ज्ञेया मूलसंज्ञकाः।
प्रत्येकं पञ्चभिर्भेदैस्तान्यासन् पञ्चविंशतिः॥ 2.35 ॥
तन्त्राणि पुनरेतेषामपर्यन्तः प्रविस्तरः।
भक्ताश्च भगवद्भक्ता दासाः पारिषदास्तथा॥ 2.36 ॥
इति भागवतान्तोऽन्यो विभागश्चेह कीर्तितः।
भक्ता वर्णरताः शान्ता वैष्णवा ये त्वदीक्षिताः॥ 2.37 ॥
दीक्षिता भगवद्भक्ता दासा वै नेष्ठिकाः स्मृताः।
पार्षदास्तत्क्रियैकस्थास्तन्निवेदितवृत्तयः॥ 2.38 ॥
नित्यमातोद्यवाद्यैस्तु पूजका ब्रह्मचारिणः।
विप्रा भागवता ज्ञेयाः सर्वोत्कृष्टतमास्तु ते॥ 2.39 ॥
समयी पुत्रकश्चैव साधको देशिको गुरुः।
इति दीक्षितभेदोऽन्यो विहितश्चेह विष्णुना॥ 2.40 ॥
मण्डलं विधिनाऽऽलिख्य साङ्गमूर्तिं यथाविधि।
दर्शयेत् यमिहाचार्यः समयी नाम स स्मृतः॥ 2.41 ॥
मण्डले देवमाराध्य साङ्गमूर्तिं यथाविधि।
दर्शयेत् स्वयमाचार्यः पुत्रको नाम स स्मृतः॥ 2.42 ॥
प्रदर्श्य मण्डलं हुत्वा मन्त्रानग्नौ यथाविधि।
दीक्षयेद् यं गुरुः शिष्यं साधकः स तु मन्त्रभाक्॥ 2.43 ॥
मण्डलाराघनाहोमविधानैरखिलैः क्रमात्।
दीक्षयेद् यं गुरुः शिष्यं स तन्त्रज्ञस्तु देशिकः॥ 2.44 ॥
दीक्षितः समायाचारशीलवान् सर्वतन्त्रवित्।
अभिषिक्तस्तु विज्ञेयो गुरुर्ध्यानार्चनादिकृत्॥ 2.45 ॥
वर्णेषु विप्रा विप्रेषु वैष्णवास्तेषु दीक्षिताः।
तेषु मन्त्रविदस्तेषु तन्त्रज्ञास्तेषु पूजकाः॥ 2.46 ॥
तेषु च ग्रन्थवन्तोऽत्र पाठकास्तेषु तद्विदः।
तेषु सिद्धाश्च तेष्वेवमक्षिषिक्तो विशिष्यते॥ 2.47 ॥
ततोऽनुग्रहकर्ताऽस्माद् व्याख्याताऽस्मात् स्वयं हरिः।
सङ्ग्रहादेवमाख्याता मया ते तन्त्रगोचराः॥ 2.48 ॥
सेव्यास्तत् प्रेप्सुभिर्नित्यं विष्णोर्यत् परमं पदम्।
रात्रयो गोचराः पञ्च शब्दादिविषयात्मिकाः॥ 2.49 ॥
महाभूतात्मका वाऽत्र पञ्चरात्रमिदं ततः।
अवाप्य तु परं तेजो यत्रैताः पञ्च रात्रयः॥ 2.50 ॥
नश्यन्ति पञ्चरात्रं तत् सर्वाज्ञानविनाशनम्।
अध्येतव्यमतः श्रव्यमनुष्ठेयार्थमादरात्॥ 2.51 ॥
प्रमाणप्रवरं तन्त्रं पञ्चरात्राख्यमीदृशम्।
एताभ्यः पञ्चरात्रिभ्यो व्यतिरिक्तं निरञ्जनम्॥ 2.52 ॥
यदा पश्येत् परं तत्वं तदा मुक्तः स नान्यथा।
स एव देशिको ज्ञेयः संसारर्णवतारकः॥ 2.53 ॥
Chapter - 3
अथ वक्ष्यामि संक्षेपाद् विष्णोर्वैभवमुत्तमम्।
येन ज्ञातेन शुद्धात्मा वैष्णवं पदमाप्नुयात्॥ 3.1 ॥
देवतेह परं ज्योतिरेक एव परः पुमान्।
स एव बहुधा लोके मायया भिद्यते स्वया॥ 3.2 ॥
पुरुषाख्यः स्वयं मायां प्रकृतिं व्यज्य स द्विधा।
स्थितस्त्रिधा च सत्त्वादिगुणभेदात् प्रतीयते॥ 3.3 ॥
विष्णुब्रह्मशिवाख्योऽसौ स्थित्युत्पत्त्यन्तकृन्मतः।
मूर्तयो वासुदेवाद्या धर्मज्ञानादिभेदतः॥ 3.4 ॥
चतस्रस्तस्य विज्ञेया वेदवर्णयुगाश्रयाः।
परमेष्ठी पुमान् विश्वो निवृत्तिः सर्व इत्यसौ॥ 3.5 ॥
पञ्चधोपनिषद्भेदान्महाभूतत्वमागतः।
मनः श्रोत्रादिभिः षड्भिरङ्गैश्च हृदयादिभिः॥ 3.6 ॥
षडक्षरात्मको नित्यमृतुभिश्चैष भिद्यते।
सप्तव्याहृतिभिर्लोकैश्छन्दोभिः क्रतुभिस्तथा॥ 3.7 ॥
सप्तधा भिद्यमानोऽसौ विज्ञातव्यो विचक्षणैः।
अष्टप्रकृतिभिश्चासावष्टमूर्तिभिरेव च॥ 3.8 ॥
अष्टाक्षरमयो नित्यमष्टधा चैष भिद्यते।
नारायणो नृसिंहश्च वराहो वामनस्तथा॥ 3.9 ॥
रामब्रह्मेन्द्रसूर्याश्च चन्द्रस्तैर्नवधा स्थितः।
इन्द्रोऽग्निश्च यमश्चैव निर्ऋतिर्वरुणस्तथा॥ 3.10 ॥
वायुश्च सोम ईशानो ब्रह्माऽनन्तश्च ते दश।
एकादशेन्द्रियैर्भिन्नस्तथा द्वादशमासपैः॥ 3.11 ॥
स त्रयोदशधा चैव विश्वेदेवादिभिः स्मृतः।
स चतुर्दशधा भिन्नो मनुभिश्चाक्षुषादिभिः॥ 3.12 ॥
तिथिभिश्चैव विज्ञेयः स पञ्चदशधा स्थितः।
स्वरैः षोडशधा भिन्नो दिक्कोणावान्तरैस्तथा॥ 3.13 ॥
मूर्त्यन्तरैश्च विज्ञेयो बहुधा तस्य विस्तरः।
एकद्वित्रिचतुष्पञ्चषडाद्या विश्वतोमुखाः॥ 3.14 ॥
मुखभेदाः समाख्यातास्तस्य विश्वात्मनो हरेः।
द्व्यादयो विश्वतः पाणेर्भुजभेदास्तथा स्मृताः॥ 3.15 ॥
विविधाभरणा दीर्घा विविधायुधधारिणः।
मूर्धानश्चैव तस्योक्ता लसन्मकुटकुण्डलाः॥ 3.16 ॥
सहस्रं पौरुषे सूक्ते पादाश्चाक्षीण्यनेकशः।
हिरण्यगर्भोऽनेकात्मा विमलः श्याम एव च॥ 3.17 ॥
नीलः पीतश्च रक्तश्च नानावर्णश्च कीर्तितः।
चन्द्रादित्यौ स्मृतौ तस्य वामदक्षिणलोचने॥ 3.18 ॥
ब्रह्माणमाहुर्मुर्धानं केशांश्चास्य वनस्पतीन्।
भ्रुवेर्मध्यं तथा रुद्रं सोमं च मनसि स्थितम्॥ 3.19 ॥
एकादशास्य विज्ञेया रुद्राः कण्ठं समाश्रिताः।
नक्षत्रग्रहताराश्च दर्शनास्तस्य कीर्तिताः॥ 3.20 ॥
धर्माधर्मौ तथोर्ध्वाधरोष्ठसम्पुटमाश्रितौ।
इद्राग्नी तालुके तस्य जिह्वा चैव सरस्वती॥ 3.21 ॥
दिशश्च विदिशश्चैव श्रोत्रयोः संव्यवस्थिताः।
वायुः प्राणेषु विज्ञेयो मरुतोऽङ्गुलयः स्मृताः॥ 3.22 ॥
ऋषयो रोमकूपस्थाः समुद्रा बस्तिगोचराः।
नद्यश्च वसुधा चास्य नागाश्च नलके स्थिताः॥ 3.23 ॥
जातुस्थावश्विनौ देवौ पर्वताश्चोरुसंस्थिताः।
गुह्येऽस्य गुह्यका ज्ञेया वसवश्चोरसि स्थिताः॥ 3.24 ॥
नखाग्रेषु च विज्ञेया दिव्या ओषधयः स्थिताः।
नासिकायाः पुटौ ज्ञेयावयने दक्षिणोत्तरे॥ 3.25 ॥
ऋतवो बाहुमूलस्था मासास्तस्य करेषु च।
ललाटाग्रे स्थिताः सिद्धा भ्रुवोर्मेघाः सविद्युतः॥ 3.26 ॥
यक्षकिन्नरगन्धर्वा दैतेया दानवास्तथा।
राक्षसाश्चारणाश्चस्य जठरं तु समाश्रिताः॥ 3.27 ॥
पितरः प्रेतकूश्माण्डवेतालप्रमथास्तथा।
पातालगोचराश्चास्य पादयुग्मे व्यवस्थिताः॥ 3.28 ॥
पार्श्वयोस्तस्य विज्ञेया यज्ञा वेदिकतान्त्रिकाः।
अग्निहोत्रादिकर्माणि वर्णाश्रमगतानि च॥ 3.29 ॥
स्वाहास्वधावषट्काराः सर्वेऽस्य हृदये स्थिताः।
ये वै सहस्रनामानो विष्णवः परिकीर्तिताः॥ 3.30 ॥
सहस्रमूर्तयस्तेऽत्र यथायोगमवस्थिताः।
यतः सहस्रसंख्याऽपि बहुसंख्या प्रकीर्तिता॥ 3.31 ॥
मूर्तयश्चास्य सर्वास्ताः संख्यातीता ह्यनेकशः।
देवादीनां च सर्वेषां मूर्तयोऽत्रैव कीर्तिताः॥ 3.32 ॥
तस्मात् सहस्रमूर्तिः सन् विष्णुः सर्वात्मको मतः।
दर्पणानां बहुत्वे तु दृश्यते नैकता यथा॥ 3.33 ॥
तद्वद् बहुत्वं मन्यन्ते विष्णोस्तस्याल्पचेतसः।
यथाऽम्भसीन्दुबिम्बानि प्रतिशब्दाश्च नैकधा॥ 3.34 ॥
एकोऽप्यात्मा बहुष्वेवमित्याहुस्तत्त्वदर्शिनः।
परमार्थमजानन्तो मूढास्त्वज्ञानमोहिताः॥ 3.35 ॥
क्षेत्रज्ञस्य बहुत्वं हि वदन्तीह रमन्ति च।
ब्राह्मणा यस्य मुखतः क्षत्रिया यस्य बाहुतः॥ 3.36 ॥
वैश्या यस्योरुतो जातास्तद्विष्णोः परमं पदम्।
ईदृशं तं महाविष्णुमप्रमेयमनामयम्॥ 3.37 ॥
तत्प्रसादादृते वक्तुं ज्ञातुं वा नैव शक्यते।
सर्वदेवाश्रयो विष्णुः सर्वे देवास्तदात्मकाः॥ 3.38 ॥
अशेषं वाङ्मयं चेदं लोकालोकं चराचरम्।
व्याप्तं विष्णुशरीरेण वायुनेवाम्बरं सदा॥ 3.39 ॥
सर्वे विष्णुपरा देवाः सर्वशास्त्रेषु कीर्तिताः।
यतो जाताऽखिला सृष्टिरन्ते तल्लयभागिनी॥ 3.40 ॥
ततोऽन्यः पुण्डरीकाक्षात् को विश्वं व्याप्य तिष्ठति।
आधाराधेयभावेन द्विधावस्थो जनार्दनः॥ 3.41 ॥
सर्वभूतहितायासौ स्थितः सकलनिष्कलः।
एवं चोभयरूपोऽसौ ज्ञेयो विष्णुः परात् परः॥ 3.42 ॥
स्थूलसूक्ष्मपरत्वेन त्रिधा च भगवान् स्थितः।
प्रभविष्णुर्महाविष्णुः सदाविष्णुश्च स स्मृतः॥ 3.43 ॥
स ह्यात्मा चान्तरात्मा च परमात्मा च स स्मृतः।
वैराजं लैङ्गिकं चैशं वहिरन्तश्च सर्वशः॥ 3.44 ॥
शब्दादिश्चिन्मयं रूपं जाग्रत्स्वप्नसुषुप्तिगम्।
मन्त्रानुस्वारनादेषु त्रयमन्वेषयेद् बुधः॥ 3.45 ॥
वेदे साङ्ख्ये च योगे च पञ्चरात्रे च केवले।
धर्मशास्त्रे पुराणे च मुनिभिर्देवमानुषैः॥ 3.46 ॥
पठ्यते निखिलैर्नित्यं विश्वं विष्णुमयं जगत्।
अतीतानागतं चैव वर्तमानं च किञ्चन॥ 3.47 ॥
इन्द्रियाणीन्द्रियार्थाश्च भूतान्तःकरणानि च।
अव्यक्तं त्रिगुणा माया विद्या धर्मादयस्तथा॥ 3.48 ॥
नियतिश्च कला कालः सर्वमन्यच्च तन्मयम्।
विष्णुरेव परो देवः सर्वभूतेष्ववस्थितः॥ 3.49 ॥
सर्वभूतानि चैवासौ न तदस्तीह यन्न सः।
देवासुरादयो मर्त्याः पशवश्च सरीसृपाः॥ 3.50 ॥
तरुवल्लीतृणौषध्यो महाभ्राशनिविद्युतः।
शैलाब्धिसरिदारामनगराणि सरांसि च॥ 3.51 ॥
लोकाश्चानन्तकालाग्निप्रेतावासोरगालयाः।
सप्त भूरादयो ब्राह्मशैववैष्णवसंज्ञिताः॥ 3.52 ॥
सर्वे च विष्णुनैकेन व्याप्ता इत्यवधारय।
वराहो भार्गवः सिंहो रामश्रीधरवामनाः॥ 3.53 ॥
अश्वकृष्णौ च दिक्ष्वेषां लोकैरण्डं सहाखिलम्।
यच्चानुक्तमशेषेण विष्णोरेता विभूतयः॥ 3.54 ॥
विश्वव्यापितयैवैष विष्णुत्वं प्राप्तवान् प्रभुः।
वसनात् सर्वभूतेषु वासुदेवत्वमेव च॥ 3.55 ॥
आदिमूर्तेः समाकृष्ट इति सङ्कर्षणः स्मृतः।
प्रद्युम्नो द्युम्नपुष्टत्वादनिरुद्धोऽनिरोधनात्॥ 3.56 ॥
अच्युतोऽच्यवनाद् योगात् त्रिधामा धामभिस्त्रिभिः।
विलोमेन्द्रियगम्यत्वाज्ज्ञेयोऽन्तर्याम्यधोक्षजः॥ 3.57 ॥
वैकुण्ठामलवर्णत्वाद् वैकुण्ठश्चायमुच्यते।
केशौ सर्गान्तयोरस्य स्त इत्येवैष केशवः॥ 3.58 ॥
नरनारीप्रकर्तृत्वान्नराणां चायनादयम्।
नारायणो नरोत्थानामयनत्वादपां च सः॥ 3.59 ॥
माधवो मधुषूत्पत्त्या धवत्वाद् वा श्रियः स्मृतः।
गां विन्दतीति गोविन्दो दुःखानां हरणद्धरिः॥ 3.60 ॥
मध्वाख्यासुरघातित्वादुच्यते मधुसूदनः।
त्रिभिः स्वैर्विक्रमैर्व्याप्त इति ज्ञेयस्त्रिविक्रमः॥ 3.61 ॥
वामनो ह्रस्वतायोगाच्छ्रीधरो वहनाच्छ्रियः।
हृषीकाख्येन्द्रियेशत्वाद्धृषीकेशोऽयमीरितः॥ 3.62 ॥
पद्मं नाभेरभूद् यस्य पद्मनाभस्ततः स्मृतः।
उदरालम्बि दामास्येत्युक्तो दामोदरश्च सः॥ 3.63 ॥
स रुद्रो रोदानाज्जातो ब्रह्मा बृंहणकर्मणा।
इन्द्रश्च परमैश्वर्याद् वहनाद् वह्निरुच्यते॥ 3.64 ॥
यमः संयमनात् पुसां वरणाद् वरुमस्तथा।
वायुर्वानात् सवात् सोम ईशश्चेष्टो जनेष्वतः॥ 3.65 ॥
आदित्योऽदितिपुत्रत्वाच्चन्द्रश्चन्दयतीति सः।
इत्येवं गुणगृत्त्योह्यैः शब्दैरेकोऽप्यनेकधा॥ 3.66 ॥
प्रतीयतेऽम्भसीवेन्दुर्बहुत्वं नास्य तावता।
यथा सर्वगतो वायुरतिसूक्ष्मो न दृश्यते॥ 3.67 ॥
तथा सर्वगतो विष्णुरज्ञैस्तज्ज्ञैस्तु दुश्यते।
इच्छाज्ञानक्रियाभेदात् तिस्रो वै तस्य शक्तयः॥ 3.68 ॥
याभिर्द्वादशधा भिन्नाश्चतस्रस्तस्य मूर्तयः।
सा तु शक्तिः परा सूक्ष्मा येच्छाख्या कामरूपिणी॥ 3.69 ॥
ओतं प्रोतं यया सर्वं दृश्यते सचराचरम्।
द्विधा विभज्य साऽऽत्मानं क्रियाज्ञानप्रवर्तनम्॥ 3.70 ॥
प्रकरोति जगत् कृत्स्नं स्वतन्त्रमिव तद्वशात्।
क्रियाशक्त्यापरो विष्णुः ज्ञानशक्त्या खगेश्वरः॥ 3.71 ॥
तं यज्ञपुरुषं प्राहुस्तपश्छन्दोमयं खगम्।
इच्छाशक्त्या तु विज्ञेयः पुरुषोः यः परोऽव्ययः॥ 3.72 ॥
ज्ञानपूर्वं प्रवर्तेत क्रिया कर्ता ततः पुनः।
ज्ञानाधारा क्रिया ज्ञेया न चैका संप्रवर्तते॥ 3.73 ॥
क्रियाज्ञानप्रभेदेन शक्तिरेका परस्य नु।
द्विधा व्याप्य जगत् कृत्स्नं चराचरमवस्थिता॥ 3.74 ॥
शक्तिशक्तिमतोर्यस्मान्न भेदोऽस्ति परस्परम्।
अभिन्नं तेन बोद्धव्यं क्रियाज्ञानद्वयं बुधैः॥ 3.75 ॥
एक एव त्रिधारूपो भेदेनानेन संस्थितः।
क्रिया ज्ञान तथेच्छा च त्रितयं चैकमेव हि॥ 3.76 ॥
उपचारः स्मृतो भेद एकस्यैव महात्मनः।
खगोपेन्द्रशिवाश्चैवमभिन्नास्तेन किर्तिताः॥ 3.77 ॥
इन्द्रियाणीन्द्रियार्थाश्च बुद्धेरेव विभूतयः।
अहङ्कारविकाराश्च जलबुद्बुदवन्मताः॥ 3.78 ॥
गोष्वप्यनेकवर्णासु यथा क्षीरैकवर्णता।
तथाऽऽश्रयेषु भिन्नेष्वप्येकरूपमवेक्ष्यताम्॥ 3.79 ॥
क्षणभङ्गि जगत् सर्वं विद्ध्येतत् सचराचरम्।
तदभङ्ग्येकमेवेह यद् विष्णोः परमं पदम्॥ 3.80 ॥
तस्येश्वरस्य चैश्वर्यात् सर्वमेतत् प्रवर्तते।
सेश्वरं हि जगत् कृत्स्नं नानीश्वरमिदं भवेत्॥ 3.81 ॥
क्षेत्रज्ञस्य बहुत्वं च वदन्त्यज्ञानमोहिताः।
न क्षेत्रज्ञबहुत्वं तु तत्त्वज्ञानां तु सम्मतम्॥ 3.82 ॥
उपाधिभेदाद् ये त्वाहुर्बहुत्वं परमात्मनः।
संसरन्त्येव ते मूढा नाप्नुवन्ति परं पदम्॥ 3.83 ॥
येषां विश्वसृजोऽप्यस्य सर्वज्ञत्वमनीप्सितम्।
तैः प्रमाणप्रमेयानां सम्बन्धो नोऽवधारितः॥ 3.84 ॥
संस्थानिनां समुत्पत्त्या जगतो जन्म यन्मतम्।
तदीशकृतमन्योऽलं प्रकृतेर्न हि चोदने॥ 3.85 ॥
तस्मादीशकृतं विश्वं तदूढं तन्मयं तथा।
तत्पालितं तदर्थं च तदीयं चेति गृह्यताम्॥ 3.86 ॥
तस्येदृशस्य देवस्य प्रभावो नन्वदुर्गमः।
स्वयमेव स तं वेद यदि वा न तथा श्रुतेः॥ 3.87 ॥
यतो जाताऽखिला सृष्टिरियं को वेद तत् परम्।
अर्वाग्देवा हि तत्सृष्टा ब्रह्माद्या अपि मूर्तयः॥ 3.88 ॥
तथाऽपि महिमोद्देशस्तस्योक्तोऽचिन्त्यरूपिणः।
वक्ति यन्महिमानन्त्यं न ते विष्णाविति श्रुतिः॥ 3.89 ॥
Chapter - 4
अथ वक्ष्यामि संक्षेपात् क्षेत्रक्षेत्रज्ञनिर्णयम्।
सृष्टिसंहारयोगं च भोक्तृभोज्यत्वसंयुतम्॥ 4.1 ॥
क्षेत्राख्या प्रकृतिर्ज्ञेया तद्वित् क्षेत्रज्ञ ईश्वरः।
उभयं चेदमत्यन्तमभिन्नमिव तिष्ठति॥ 4.2 ॥
अव्यक्तं बुद्ध्यहङ्कारौ तन्मात्राणीह पञ्च च।
एकादशेन्द्रियैर्भूतैः क्षेत्रमेवं प्रकीर्तितम्॥ 4.3 ॥
स्थूलसूक्ष्मविभागेन द्विधा क्षेत्रमवस्थितम्।
कार्यषोडशकं स्थूलं सूक्ष्मं बुद्ध्यादिमात्रजम्॥ 4.4 ॥
तदनित्यं च नित्यं च शरीरं सर्वदेहिनाम्।
पुर्यस्यामुषितो भोक्ता पुरुषश्चैष कथ्यते॥ 4.5 ॥
चिन्मात्रः पुरुषो व्यापी व्याप्या पूस्त्रिगुणा जडा।
तन्नियोगात् स्वतन्त्रेव सूते भावान् हरत्यपि॥ 4.6 ॥
परार्थाऽचेतनासूक्ष्मा त्रिगुणा नित्यविक्रिया।
प्रकृतिर्गुणभेदात् तु बुद्ध्यादिविकृतिस्त्रिधा॥ 4.7 ॥
सत्त्वं सुखं रजो दुःखं तमो मोहश्च ते गुणाः।
तेऽन्योन्याभिभवव्यक्तमिथुनाश्रयवृत्तयः॥ 4.8 ॥
लघुप्रकाशकं सत्त्वं क्रियानिर्बन्धकृद् रजः।
तमो गुरु निरोध्येते सितरक्तासिताः स्मृताः॥ 4.9 ॥
त्रिभिरेव गुणैरेतैः प्रकृतिस्थैः समन्विताः।
सर्वे भावा भवन्त्येते श्रेष्ठमध्यमकन्यसाः॥ 4.10 ॥
प्रकृतेर्गुणसंयोगभेदैरेकोऽप्यनेकधा।
निर्गुणोऽपि पुमान् भाति स्फटिकोऽन्यैरिवान्वितः॥ 4.11 ॥
सात्त्विकैरर्चयेन्मुक्त्यै भावैर्भोगाय राजसैः।
तामसैः परपीडादौ मिश्रितैर्मिश्रसिद्धये॥ 4.12 ॥
तस्मात् तं प्रत्युपासीनः सर्वान् भावानतन्द्रितः।
कुर्याच्च सात्त्विकानेव भावानन्योपमर्दनात्॥ 4.13 ॥
महदाख्याऽष्टधा बुद्धिर्जाताऽव्यक्ताद् गुणैस्त्रिभिः।
चतुरेकत्रिभेदा सा बुद्धिरष्टविधा स्मृता॥ 4.14 ॥
धर्मो ज्ञानं च वैराग्यमैश्वर्यं सत्त्वबुद्धयः।
अवैराग्यं रजोबुद्धिरधर्माद्यास्तमोधिकाः॥ 4.15 ॥
यमश्च नियमो धर्मो मनोवाक्कायजक्रियः।
देवप्रसादनायासौ कर्तव्यो मोक्षकाङक्षिभिः॥ 4.16 ॥
श्रद्धा धृतिः प्रसादाख्यो मानसो धर्म उत्तमः।
सत्यप्रियहितालापो वाग्धर्म इह कीर्तितः॥ 4.17 ॥
शारीरः परिचर्याशुद्ध्यनुग्रहमयस्त्रिधा।
एते धर्मास्तु कर्तव्या वर्णाश्रमगताश्च ये॥ 4.18 ॥
वैदिकास्तान्त्रिका वाऽस्य सिद्धिर्भवति नान्यथा।
ज्ञानं तु मोक्षधर्मार्थकामाङ्गत्वाच्चतुर्विधम्॥ 4.19 ॥
द्विधा विवेकनिर्वेदकृतं वैराग्यमिष्यते।
आद्यमाभ्यन्तरं मुक्त्यै बाह्यमन्यत्तु बन्धनम्॥ 4.20 ॥
जातो बुद्धेरहङ्कारस्त्रिविधस्त्रिगुणात्मकः।
येन जन्तुरनात्मानमात्मानमिव मन्यते॥ 4.21 ॥
वैकृतः सात्त्विको गर्वो राजसस्तैजसाह्वयः।
भूतादिस्तामसो नाम्ना गर्वभेदा इमे स्मृताः॥ 4.22 ॥
वैकारिकादहङ्कारात् पञ्च बुद्धीन्द्रियाणि च।
समुत्पन्नानि यैर्ज्ञानं नरस्यार्थेषु जायते॥ 4.23 ॥
कर्मेन्द्रियाणि पञ्चैव कर्मार्थानि च तैजसात्।
मनो जातं द्विरूपं च ततः सङ्कल्पसाधनम्॥ 4.24 ॥
मनः श्रोत्रादिषु ज्ञेयं चित्तं वागादिषु स्मृतम्।
भूतादेः पञ्च जातानि तन्मात्राणि यथाक्रमम्॥ 4.25 ॥
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः।
परमेष्ठ्यादयो ज्ञेया विष्णोस्ताः पञ्च शक्तयः॥ 4.26 ॥
याभिरेष परो देवः परमे व्योम्नि तिष्ठति।
चिच्छक्तिः सर्वकार्यादिकूटस्था परमेष्ठ्यसौ॥ 4.27 ॥
द्वितीया तस्य या शक्तिः पुरुषाख्यादिविक्रिया।
विश्वाख्या विविधाभासा तृतीया करणात्मिका॥ 4.28 ॥
चतुर्थी विषयं प्राप्य निवृत्त्याख्या स्थिता पुनः।
पूर्णज्ञानक्रियाशक्तिः सर्वाख्या तस्य पञ्चमी॥ 4.29 ॥
एताभिः शक्तिभिर्युक्तः परमात्मा निरञ्जनः।
उत्पत्तिस्थितिसंहारहेतुः स्यादक्रियोऽपि सन्॥ 4.30 ॥
निग्रहानुग्रहौ चापि करोति जगतः प्रभुः।
एकैकोत्कर्षभेदेन पञ्चधा पञ्चशक्तिभिः॥ 4.31 ॥
पञ्चात्मानः स्मृता ह्येते सूक्ष्मरूपा व्यवस्थिताः।
संसारविषयातीता योगगम्याः सनातनाः॥ 4.32 ॥
एतत् सूक्ष्मशरीरं तु कथितं मूर्त्तिकारणम्।
तन्मात्रेभ्यस्तु भूतानि क्रमाज्जातानि पञ्च वै॥ 4.33 ॥
व्योम वायुश्च तेजश्च जलं पृथ्वी च पञ्चमी।
एतत् स्थूलशरीरं तु सर्वाधारं प्रजायते॥ 4.34 ॥
श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं बुद्धीन्द्रियाणि तु।
कर्मेन्द्रियाणि वाक्पाणिगुह्यपाय्वङ्घ्रयः स्मृताः॥ 4.35 ॥
एवं सृष्टिः शरीरान्ता स्थूलसूक्ष्मविभागतः।
कीर्तिता ते मया सर्गविपरीतो लयक्रमः॥ 4.36 ॥
यथैकसूक्ष्मदेहोऽपि देही जन्मनि जन्मनि।
देहैरनेकतामेति तता देवोऽपि मूर्तिभिः॥ 4.37 ॥
परस्य पुरुषस्यैव शक्तयः कोटिशोऽपराः।
जातिनामस्वरूपाणां भेदाद् भिन्ना इव स्थिताः॥ 4.38 ॥
शरीरं भौतिकं प्राप्य कर्मभिः स्वैरुपार्जितैः।
दीर्घं भ्रमन्ति संसारे ते वै संसारिणो जनाः॥ 4.39 ॥
शुभेन कर्मणा यान्ति गतिमूर्ध्वमुखीं शुभाम्।
अशुभेनाशुभं चैव तथा गतिमधोमुखीम्॥ 4.40 ॥
पुमांसो व्याकृते मग्नाश्चिद्रूपा अपि ते स्वतः।
अशक्ताः स्वं परं ज्ञातुमाश्रयध्वान्तमोहिताः॥ 4.41 ॥
रागद्वेषादयस्तेषां दोषाः प्रकृतिसम्भवाः।
संसारवासनामेव कुर्वन्त्यस्य पृथग्विधाम्॥ 4.42 ॥
तेषां सत्त्वगुणोद्रेके गतिर्देवत्वमिष्यते।
मानुष्यं रजसा प्रोक्तं तिर्यक्त्वं तमसा तथा॥ 4.43 ॥
एवं शरीरिणः सर्वे गच्छन्ति विविधां गतिम्।
कालचक्रं समारुह्य भ्रमन्त्यज्ञानमायया॥ 4.44 ॥
यत्र व्यस्ताः समस्ता वा धर्माद्याः सात्त्विका गुणाः।
स प्रियोऽस्याप्रियश्चान्यो यत्राधर्मादयः स्थिताः॥ 4.45 ॥
प्रलयान्ते तु सम्प्राप्ते निर्व्यापारः परः पुमान्।
विज्ञानघनरूपोऽसौ परमे व्योम्नि तिष्ठति॥ 4.46 ॥
यत एवमतो लब्ध्वा शरीरं सर्वसाधनम्।
शुभं कर्मैव कर्तव्यं तत्प्रसादाय मानवैः॥ 4.47 ॥
प्रसादितेऽस्मिन् सर्वेषां स्ववर्णाश्रमकर्मभिः।
सर्वे हस्तगताः कामा मुक्तिश्चान्ते न दुर्लभा॥ 4.48 ॥
कार्यार्था मूर्तयस्तस्य लोकानुग्रहहेतवः।
अतः साकारमिष्ट्वेमं भक्त्याप्याः सर्वसिद्धयः॥ 4.49 ॥
भक्त्यैव परया तुष्टो देवदेवः स योगिनाम्।
पूजाद्यनुग्रहायादौ रूपं भेजे चतुर्भुजम्॥ 4.50 ॥
तस्मात् तेनैव रूपेण ध्येयोऽर्च्यश्च सदा बुधैः।
आकारेऽस्मिन् कृता पूजा स्तुतिर्वा ध्यानमेव वा॥ 4.51 ॥
विधिना शास्त्रदृष्टेन देव एव कृता भवेत्।
उदयायापरः पूज्यो निर्वाणाय परः पुमान्॥ 4.52 ॥
पूर्वाह्णे चापराह्णे च पूजनं शस्यते तयोः।
श्याममष्टभुजं देवं कल्पयित्वा सवाहनम्॥ 4.53 ॥
सायुधं सपरीवारमुदयार्थी प्रपूजयेत्।
शुद्धस्फटिकसङ्काशं शङ्खचक्रगदाधरम्॥ 4.54 ॥
चतुर्भुजमनन्तस्थं यजेन्मोक्षाय भक्तितः।
सृष्टिबीजं विदुः पद्मं चक्रं स्थितिनिबन्धनम्॥ 4.55 ॥
गदशङ्खौ च संहारमुक्त्यर्थौ सर्वदा स्मृतौ।
सर्वतत्त्वयुतस्यैव पूजा संहारमार्गतः॥ 4.56 ॥
ध्यानं फलानपेक्षित्वमिति मोक्षार्थिनां क्रमः।
उत्तरोत्तरभूयिष्ठं कर्मवाग्बुद्ध्युपासनम्॥ 4.57 ॥
तामसं राजसं चैव सात्त्विकं च तथा भवेत्।
समयोऽग्रे समाचारः स्वाध्यायो द्रव्यसङ्ग्रहः॥ 4.58 ॥
बुद्धिर्यागः स्तितिर्ध्यानमित्येवं विधिरष्टधा।
द्विविधः पुरुषो भक्तो दीक्षितोऽदीक्षितस्तथा॥ 4.59 ॥
दीक्षितः सर्वकर्ताऽन्यः समयार्चनमात्रभाक्।
क्रियार्चा समयो भक्तविश्वासः पूजनादरः॥ 4.60 ॥
नः कथाश्रुतिः शान्तिरनाजीवो व्रताष्टकम्।
स्वारामोत्पादितैः पुष्पैर्वन्यैः क्रीतैस्तु वाऽर्चयेत्॥ 4.61 ॥
प्रतिग्राह्यं न पूजार्थं दातुरेव फलं यतः।
अलाभे गन्धपुष्पाभ्याम् पुष्पैरपि समर्चयेत्॥ 4.62 ॥
Chapter - 5
अथ वक्ष्यामि संक्षोपान्मन्त्रोद्धारविधिं परम्।
यस्मिन् सम्यक्कृते मन्त्रा वीर्यवन्तः स्युरिष्टदाः॥ 5.1 ॥
विविक्ते सुसमे देशे शुचौ स्निग्धे मनोरमे।
पुष्पप्रकरसंकीर्णे मन्त्रोद्धारं समाचरेत्॥ 5.2 ॥
स्रात्वाऽऽचान्तः कृतन्यासो गन्धपुष्पाद्यलङ्कृतः।
सानुगः प्रयतो मन्त्री सूत्रपातं प्रकल्पयेत्॥ 5.3 ॥
चतुष्षष्टिपदं कृत्वा चन्दनेन सुगन्धिना।
आदिहान्तां समालिख्य मातृकामष्टविर्गिणीम्॥ 5.4 ॥
आदिपङ्कौ द्विशो वर्गं वर्गशोऽन्यत्र चान्ततः।
नादात् सर्वगतादष्टवर्गोत्पत्तिमनुस्मरेत्॥ 5.5 ॥
नादोऽकारः स्वयं जातो वासुदेवात्मकस्ततः।
संकर्षणाख्ययाऽऽकार इकारश्च शिवाख्यया॥ 5.6 ॥
ईकारश्च ततो जातस्तौ च संकर्षणात्मको।
ब्रह्मोकारोऽत ऊकारः प्रद्युमनाख्यौ च तौ स्मृतौ॥ 5.7 ॥
हंसाख्योऽस्मादृकारोऽत ऋकारश्चानिरुद्धकः।
लृकारो महदाख्योऽज लॄकारश्च ततोऽजनि॥ 5.8 ॥
ततो रुद्राख्य एकार ऐकारश्चाप्यनन्तरः।
प्रजापत्याख्य ओकार औकारश्च तदात्मकः॥ 5.9 ॥
बिन्दुस्तस्माद्धरीशात्मा विसर्गोऽस्माच्च ते स्वराः।
तस्माद्धरीशाद् ब्राह्म्यादिमातृभेदेन सप्तधा॥ 5.10 ॥
कादिवर्गा यशादी च न्यस्तव्यास्तेऽन्यपङ्क्तिषु।
एवं सरस्वतीं देवीमष्टवर्गात्मिकां सुभाम्॥ 5.11 ॥
गन्धपूष्पैर्यजेद् वर्णदेवतानामभिः क्रमात्।
ततो गारुडमश्विभ्यामुद्धृतं वर्णहारकम्॥ 5.12 ॥
यमाख्यमोद्वयं चेष्ट्वा तेन मन्त्रान् समुद्धरेत्।
प्रणवाष्टाक्षरोद्धारे वासुदेवः स्वयं भवेत्॥ 5.13 ॥
षट्के संकर्षणो ब्रह्मा गायत्र्यां चाक्रिके हरः।
प्रद्युम्नस्त्वजितोद्धारे नारसिंहेऽनिरुद्धकः॥ 5.14 ॥
वासुदेवादिभिः स्वे स्वे बीजमन्त्राश्च हेतयः।
आदित्येनैव तूद्धार्याः पञ्चोपनिषदादयः॥ 5.15 ॥
आद्यादिमुद्धरेत् पूर्वं पुनस्तत्रैव पञ्चमम्।
षष्ठान्तं चादिवर्गोनं त्रयमेकत्र योजयेत्॥ 5.16 ॥
एतत् तत् परमं तत्त्वमक्षरं परमं पदम्।
अनेनैवार्चनं विष्णोर्जपो होमश्च मोक्षदः॥ 5.17 ॥
त्रिदेवगुणवेदाग्निसन्ध्यालोकदशास्वयम्।
वेदादिरक्षरव्याप्त्या सर्वमन्त्रादितां गतः॥ 5.18 ॥
पञ्चमान्तं परं तारात् षष्ठान्तं सत्रयोदशम्।
देवनाम चतुर्थ्यन्तमित्येतन्मन्त्रलक्षणम्॥ 5.19 ॥
एवं षडक्षरो मन्त्रो निर्बीजोऽष्टाक्षरस्तथा।
द्विषट्के भगवच्छब्दो नमस्कारात् परो भवेत्॥ 5.20 ॥
बीजं तारादिनत्यन्तं सर्वत्राख्या न चेत् परा।
यत्राऽख्या तु चतुर्थ्यन्ता नमस्कारस्तदाऽन्ततः॥ 5.21 ॥
चतुर्थमष्टमे बीजमादिषष्ठान्तबिन्दुकम्।
हृदयं तदबीजस्य विष्णुबीजं च यद् विदुः॥ 5.22 ॥
द्वितीयाद्यं शिरश्चास्य बिन्द्वन्तमुपकल्पयेत्।
अष्टमाद्यं शिखाबीजं तृतीयस्वरभेदितम्॥ 5.23 ॥
चतुर्थं कवचं चान्त्ये पञ्चमस्वरबिन्दुमत्।
तदेवास्त्रं भवेत् तस्य षोडशस्वरसंयुतम्॥ 5.24 ॥
एतत् पञ्चाङ्गमुद्दिष्टं निर्बीजस्य षडात्मनः।
यदाख्याजातिभिर्युक्तं सर्वकामप्रदं विदुः॥ 5.25 ॥
हृद्बीजं मूलमङ्गानि द्विचतुष्षष्ठयोगतः।
नेत्रान्तानि षडप्याहुर्द्वादशान्त्यचतुर्दशैः॥ 5.26 ॥
नमोन्तानि निराख्यानि साख्यानि तु सबीजके।
प्रणवानन्तरं बीजमनन्ते चेन्नमोन्वितम्॥ 5.27 ॥
सबीजस्येदमुद्दिष्टं मूलमन्त्रस्य लक्षणम्।
तारात् सबिन्दुकैर्वर्णैः स्वरभेदितबीजकैः॥ 5.28 ॥
नमोन्ताख्यैः षडङ्गानि नेत्रान्तं तत् प्रकल्पयेत्।
हृदयं कुन्दसङ्काशं शिरो भिन्नाञ्जनप्रभम्॥ 5.29 ॥
शिखा तु पिङ्गला ज्ञेया कवचं हेमसन्निभम्।
विद्युदाकारमस्त्रं स्यान्नेत्रं ज्वलनसन्निभम्॥ 5.30 ॥
ज्ञानसन्तोषनित्यत्वस्वातन्त्र्याविघ्नवैभवैः।
हृदयादिगुणैर्युक्तः सकलोऽनुग्रहादिकृत्॥ 5.31 ॥
स्वाहाकारवषट्कारौ होमे शान्तिकपौष्टिके।
नमस्कारो जपार्चादावैश्वर्ये प्रणवोऽन्ततः॥ 5.32 ॥
आदौ तारनमोमध्ये बिन्द्वन्ताः षोयरावलाः।
पराय भगवत्स्थाने पञ्चोपनिषदादिषु॥ 5.33 ॥
प्रथमः परमेष्ठ्यात्मा पुरुषात्मा तथापरः।
विश्वात्माऽथ निवृत्त्यात्मा सर्वात्मा पञ्च ते स्मृताः॥ 5.34 ॥
आवाहने विसर्गे च योज्याः पञ्च क्रमोत्क्रमात्।
प्रोक्षणे शान्तिहोमे च द्रव्यशुद्धौ च कीर्तिताः॥ 5.35 ॥
पुरुषः प्रकृतिश्चोभौ जीवप्राणसमाह्वयौ।
बुद्ध्यहंकारसङ्कल्पास्तन्मात्राणीन्द्रियाणि च॥ 5.36 ॥
भूतानि चेति बिन्द्वन्तैर्मादिकान्तैरनुक्रमात्।
पञ्चविंशतितत्त्वानि विज्ञातव्यानि देशिकैः॥ 5.37 ॥
अष्टमान्त्यं स्वरान्त्याभ्यां कालदिङ्मन्त्रयोः क्रमात्।
खकारो वैनतेयस्य विघ्नेशस्य ततः परम्॥ 5.38 ॥
कालबीजमनन्तस्य दीर्घैरङ्गानि तस्य षट्।
अक्षबीजं तु वर्णान्त्यं चक्रमण्डलकल्पने॥ 5.39 ॥
पद्मस्य प्रणवोऽस्यांशाः पत्रकेसरकर्णिकाः।
ह्रस्वाक्षराणि बीजानि नाभिस्थे सवनत्रये॥ 5.40 ॥
असंवृतस्वरैः कालमरमासेषु योजयेत्।
अविसर्गैः स्वरैराद्यैर्वामदक्षिणपार्श्वयोः॥ 5.41 ॥
राशीनां तैर्विसर्गाद्यैरप्यूह्यास्तिथयो द्विधा।
अश्वयुक्प्रभृतीन्येषु नक्षत्राणि यथाक्रमम्॥ 5.42 ॥
बिन्द्वन्तैरादिकान्तैस्तु हादिमान्तैर्नव ग्रहाः।
अर्कादयः स्वराशिस्था राहुकेतू च यद्गतौ॥ 5.43 ॥
सकारश्च षकारश्च नेम्योरन्तर्बहिष्ठयोः।
प्रकृत्यादीनि तत्त्वानि योज्यानीह पृथक् क्रमात्॥ 5.44 ॥
द्वादशाक्षरबीजैस्तु योज्या विष्ण्वादयोऽरगाः।
ऋतवो मूलबीजैस्तु वसन्ताद्य यथाक्रमम्॥ 5.45 ॥
चक्रमण्डलयागे तु विशेषोऽयमिहोदितः।
भद्रकस्थण्डिलार्चासु न मन्त्राः कालसंश्रयाः॥ 5.46 ॥
नामाष्टकद्विषट्कस्थं विद्महेधीमहेन्वितम्।
क्रमेण कल्पयेत् तन्नो विष्णुरन्ते प्रचोदयात्॥ 5.47 ॥
गायत्री वैष्णवी ज्ञेया सर्वपापहरा त्वियम्।
यद् दत्तमनया सर्वं प्रतिगृह्णाति देवराट्॥ 5.48 ॥
उपचारे च योक्तव्या पक्वे पूर्णाहुतौ च सा।
सहस्रारेति संकीर्त्य हुंकारं फट् च योजयेत्॥ 5.49 ॥
षडक्षरमिदं ज्ञेयं सुदर्शनमखण्डितम्।
क्षुद्रभूतपिशाचादिवारणं रोगनाशनम्॥ 5.50 ॥
सचतुर्दशबिन्द्वन्त्यं नारसिंहं च तादृशम्।
विलोमाष्टमवर्गार्णैस्तारपूर्वैरबिन्दुभिः॥ 5.51 ॥
वासुदेवादयो योज्या नमोन्ता दिक्षु मूर्तयः।
दीर्घैस्तैरेव कोणेषु शान्तिः श्रीश्च सरस्वती॥ 5.52 ॥
रतिश्चेति क्रमाद् योज्याश्चतस्रो मूर्तिशक्तयः।
अष्टमस्यादिबीजं तु द्विसप्तान्तेन संयुतम्॥ 5.53 ॥
सप्तमस्य द्वितीयं च तृतीयं च तथा भवेत्।
द्वितीयस्य तृतीयं च तृतीयावरणे क्रमात्॥ 5.54 ॥
दीर्घोऽन्त्यादिस्तु बिन्द्वन्तो द्वितीयस्य द्वितीयकः।
बिन्द्वेकादशसंयुक्तः सोऽन्त्यादिश्च सबिन्दुकः॥ 5.55 ॥
दिक्कोणेषु क्रमादष्टौ बीजानि कथितानि च।
वर्गादिभिः क्रमाद् बीजैरिन्द्राद्याः परितः स्मृताः॥ 5.56 ॥
वज्रादयोऽस्त्रमन्त्राश्च तद्वितीयैः सबिन्दुभिः।
विष्वक्सेनोऽन्तवौंकारो नमोन्तः परिकीर्तितः॥ 5.57 ॥
सर्वासां देवतानां तु गुणशक्तिसमन्वयात्।
बीजानि कल्पयेद् विद्वान् पञ्चरात्रविशारदः॥ 5.58 ॥
अक्षराणि तु वाक् प्रोक्ता न सा प्रक्षीयते किल।
तस्माद् वर्णे गृहीतेऽपि न शून्यं पुटमुच्यते॥ 5.59 ॥
व्यञ्जनानि स्वरानत्र गृह्णीयाच्च पृथक् पृथक्।
तद् गृहीतं गृहीतं च सन्धयित्वान्यदुद्धरेत्॥ 5.60 ॥
सकलीकरणं नाम मन्त्रसंस्कार उत्तमः।
तस्मादुद्धरणं कार्यमिष्ट्वा कोष्ठेषु मातृकाम्॥ 5.61 ॥
अनक्षरेषु कोष्ठेषु पूजयेन्मन्त्रमुद्धृतम्।
एवं समुद्धृता मन्त्रः प्रणवोद्दीपिताक्षराः॥ 5.62 ॥
वीर्यवन्तो भविष्यन्ति भुक्तिमुक्तिफलप्रदाः।
गत्वैकान्ते शुचौ देशे स्राताचान्तो जितेन्द्रियः॥ 5.63 ॥
मण्डले देवमाराध्य साङ्गं सावरणं क्रमात्।
जपेत् षड्विंशतिं लक्षान् व्रतस्थोऽनन्यमानसः॥ 5.64 ॥
तिलानां घृतमिश्राणां सहस्रं चैव होमयेत्।
ततस्तु सिध्यते मन्त्रो वरदश्चापि जायते॥ 5.65 ॥
सप्तलोक्यं यदिष्टं स्यादात्मनः सुखसाधनम्।
तद्भोग्यत्वमनेनाशु याति ध्यानप्रयोगतः॥ 5.66 ॥
देवशक्तिरमोघैषा न क्वचित् प्रतिहन्यते।
देवदानवयक्षेषु किम्पुनर्मानुषे जने॥ 5.67 ॥
यक्षिणी किन्नरी चाथ दिव्ययोषा च मानुषी।
तस्य षट्पञ्चसप्तैकमासतः किंकरी भवेत्॥ 5.68 ॥
नाम संकीर्त्य साध्याया बीजान्ते वशमेत्विति।
बीजमन्ते च योक्तव्यं ज्वलद्वह्निस्फुलिङ्गमुक्॥ 5.69 ॥
क्रुद्धं प्लुतप्रयोगेण साधयेदचिराद् बलात्।
एवमेवाभिचारेषु फट्कारान्तं प्रयोजयेत्॥ 5.70 ॥
नामान्ते नाशमायातु विशेषोऽयं च विद्यते।
नामान्ते नाम इत्युक्त्वा ततो बीजं विचिन्तयेत्॥ 5.71 ॥
आकर्षे च वशीकारे विशेषोऽयमिहोदितः।
विसंज्ञं विह्वलं साध्यमायान्तं चिन्तयेदलम्॥ 5.72 ॥
कलशो हेमरत्नाढ्यस्तद्धृतोऽविरतां वहन्।
ध्येयः स्वपुरतो धारां धनस्यापरिमाणतः॥ 5.73 ॥
भूतिकामस्य योगोऽयं नाम्ना वैश्रवणस्य हि।
प्रयच्छत्विति नामान्ते वसुनाम सनामकम्॥ 5.74 ॥
वशीकारे परां कन्यामाप्नोति चिरमभ्यसन्।
लभ्यतामिति नामान्ते तस्याः संपरिकीर्तयेत्॥ 5.75 ॥
उच्चाटे गच्छतु ज्ञेयमायात्वानयनेऽभ्यसेत्।
प्रीतावावहतु प्रीतिं विद्वेषे द्वेषमृच्छतु॥ 5.76 ॥
यत् सिसाधयिषुर्विद्वानिदं सिद्धं पुनर्जपेत्।
तस्य सिध्यतितत् क्षिप्रं किन्तु श्रद्धाबियोगतः॥ 5.77 ॥
हृद्बीजं तु प्लुतं चिन्त्यं ज्वलदष्टतनौ स्थितम्।
अनेनैवात्मनः कृत्वा सकलीकरणं तनौ॥ 5.78 ॥
येन येन स्वरेणैतद् युक्तं यत्र नियुज्यते।
तदेतत् साधयत्याशु न मोघमिति दारणा॥ 5.79 ॥
Chapter - 6
अथ वक्ष्यामि संक्षेपात् स्नानाचामादि पूजनम्।
येन सम्यक्कृतेनेह साधकः सिद्धिमाप्नुयात्॥ 6.1 ॥
तीर्थे नद्यां तटाके वा सुधीर्गत्वा कुशादिमान्।
मृदमस्त्रेण सङ्गृह्य सर्वदोषविवर्जिताम्॥ 6.2 ॥
अस्त्रेण क्षालिते तीर्थे संस्थाप्य विभजेत् त्रिधा।
अस्त्रेण च हृदा प्रोक्ष्य भागांस्तान् कवचेन च॥ 6.3 ॥
प्रदक्षिणं परिक्रम्य नमस्कृत्वाऽथ तज्जलम्।
पूर्वांशेन मलस्नानं कृत्वा मज्जेत् त्रिरोमिति॥ 6.4 ॥
द्वितीयेनालभेत् पश्चादाचम्य विधिपूर्वकम्।
तृतीयं दिक्षु सर्वासु क्षिपेद् विघ्नोपशान्तये॥ 6.5 ॥
प्रतिस्रोतः पुनर्मज्जेत् तीर्थं ध्यात्वा तु वैष्णवम्।
तीर्थं पुनः समासाद्य विधिनाऽऽचम्य वाग्यतः॥ 6.6 ॥
मन्त्रन्यासं क्रमात् कृत्वा प्रोक्ष्य मूलादिभिस्तथा।
ततश्चाचम्य कुर्वीत प्राणायामत्रयं क्रमात्॥ 6.7 ॥
मूलमन्त्रेण साङ्गेन व्यस्तेन सुसमाहितः।
नाभ्याश्लिष्टेन तोयेन ततस्तेनाधमर्षणम्॥ 6.8 ॥
समस्तेन समुद्दिष्टं सर्वपापहरं तथा।
कृत्वाऽभिषेकमुत्तीर्य परिधाय सिताम्बरम्॥ 6.9 ॥
आचान्तो न्यस्य सम्प्रोक्ष्य कुशाग्रैः पूर्ववत् क्रमात्।
उपविश्य शुचौ देशे प्राणायामत्रयं चरेत्॥ 6.10 ॥
परतत्त्वेन कृत्वैवं नमस्कृत्य च मार्जयेत्।
उपस्थानं ततः कुर्यात् परतत्त्वेन देशिकः॥ 6.11 ॥
ध्यात्वा ज्योतिर्मयं विष्णुं मण्डलस्थं जलार्घ्यदः।
स्थित्वाऽष्टोत्तरजप्तेन मूलमन्त्रशतेन तु॥ 6.12 ॥
गायत्र्या चैव वैष्णव्या प्रणवाद्यन्तरुद्धया।
उपविश्य शुचौ देशे ततस्तर्पणमारभेत्॥ 6.13 ॥
विष्ण्वादिदेवताश्चर्षीन् मनुष्यां पितॄंस्तथा।
तर्पयेत् तानशेषेण पश्चात् तीर्थं तु संहरेत्॥ 6.14 ॥
मूलमन्त्रं जपन् गच्छेद् वाग्यतश्चिन्तयन् हरिम्।
आजानु पादौ प्रक्षाल्य हस्तावाकोर्परं पुनः॥ 6.15 ॥
त्रिः पिबेदं ब्रह्मतीर्थेन द्विरून्मृज्य मुखं पुनः।
वामहस्तं च पादौ च प्रोक्ष्याङ्गानि पुनः स्पृशेत्॥ 6.16 ॥
वेदास्त्रयस्त्रिभिः पानैः पितरश्च पितामहाः।
क्रमशस्तृप्तिमायान्ति तथैव प्रपितामहाः॥ 6.17 ॥
मार्जने प्रथमे ब्रह्मा द्वितीये दक्ष एव च।
तत्राथर्वेतिहासाश्च तृप्तिमायान्ति संस्मृताः॥ 6.18 ॥
चक्षुषोः स्पृष्टयोस्तृप्तिं चन्द्रादित्यौ प्रयास्यतः।
अङ्गुष्ठेऽनामिकां कृत्वा तर्जनीं पवनो नसोः॥ 6.19 ॥
कनिष्ठां कर्णयोर्दस्रौ बाह्वोरङ्गुष्ठकेन च।
शक्रशैलाश्च तृप्यन्ति नाभौ विष्णुश्च मध्यया॥ 6.20 ॥
महाविष्णुः सदा विष्णुश्चतुर्भिर्हृदि केऽखिलैः।
एतदाचमनं प्रोक्तं दीक्षितस्य विसेषतः॥ 6.21 ॥
यागस्थानं समासाद्य देवं संस्मृत्य वाग्यतः।
अस्त्रेम गृहमालोक्य वेदिं स्थण्डिलमेव च॥ 6.22 ॥
ततः प्रदक्षिणीकृत्य नमस्कृत्य समाहितः।
कृत्वोपवीतवद्वस्त्रमुत्तरं प्राङ्मुखः शुचिः॥ 6.23 ॥
नारसिंहेन दिग्बन्धं कृत्वा पद्मासनस्थितः।
परतत्त्वं समुच्चार्य कृत्वा ब्रह्माञ्जलिं शुभम्॥ 6.24 ॥
प्राणायामत्रयं कुर्याद् धारणात्रयसंयुतम्।
नाभिमण्डलमध्ये यं धूम्रं चण्डानिलात्मकम्॥ 6.25 ॥
विश्लेषयदघं देहात् सर्वगात्रोपशोषकम्।
धारयेद्धृदये चाग्निं तारेणार्कादुपाहृतम्॥ 6.26 ॥
ज्वालाभिस्तिर्यगूर्ध्वाधो दहन्तं काष्ठवत् तनुम्।
शिखान्ते जीवमायोज्य बीजेन सुसमाहितः॥ 6.27 ॥
गत्वा सुषुम्नारन्ध्रेण ततोऽर्कस्योपरिस्थितात्।
चन्द्रादमृतमानीय स्वतनुं भस्मसात्कृताम्॥ 6.28 ॥
प्लावयित्वा नवं देहं पार्थिवैः परमाणुभिः।
जलबुद्बुदमध्यस्थं प्राजापत्यं तु कल्पयेत्॥ 6.29 ॥
आत्मानं योजयित्वाऽत्र सर्वज्ञं गतकल्मषम्।
अस्त्रशोधितयोर्मूलं करयोर्व्यापकं न्यसेत्॥ 6.30 ॥
दक्षिणेऽङ्गुष्ठमारभ्य बीजानि क्रमशो न्यसेत्।
ताराद्यन्तानि वामेऽपि तलान्तमुभयत्र तु॥ 6.31 ॥
अङ्गानि च तयोर्न्यस्य सर्वाङ्गे व्यापकं न्यसेत्।
प्रथमं मूर्न्धि विन्यस्य ललाटे च द्वितीयकम्॥ 6.32 ॥
तृतीयं हृदये चैव चतुर्थं नाभिमण्डले।
पञ्चमं तु न्यसेदूर्वोः पादावस्थं तु षष्ठकम्॥ 6.33 ॥
सृष्टिन्यासोऽयमासीने कर्तव्यः काम्यसिद्धये।
स्थिते कुर्यात् स्थितिन्यासं नाभ्यादि हृदयान्तकम्॥ 6.34 ॥
शयिते संहृतिन्यासं पादादि प्रतिलोमतः।
स्थितिन्यासो गृहस्थस्य सृष्ट्याख्यो ब्रह्मचारिणः॥ 6.35 ॥
मुमुक्षोः संहृतिन्यास एवं न्यासस्रिधा स्मृतः।
एवं न्यासविधिं कृत्वा ताराद्यन्तैः षडक्षरैः॥ 6.36 ॥
हृदयादीनि चाङ्गानि स्वस्थानेषु नियोजयेत्।
जप्त्वा मन्त्रं ततोऽस्त्रेण संविध्य शकलं त्यजेत्॥ 6.37 ॥
पुष्पमस्त्रेण च क्षिप्त्वा सम्भारानुपकल्पयेत्।
अस्त्रक्षालितपात्रस्थे गन्धपुष्पान्विते जले॥ 6.38 ॥
मन्त्रं न्यस्याष्टकृत्वस्तु प्रणवेनाभिमन्त्रयेत्।
ततस्तु प्रोक्षणं कुर्यादस्त्रमन्त्रेण सर्वतः॥ 6.39 ॥
फट्कारान्तेन मेधावी ततः पीठं प्रकल्पयेत्।
मण्डले स्थण्डिलेऽर्चायां पूजयेद्धृदि वा बुधः॥ 6.40 ॥
स्थण्डिलाद्यर्चनात् सिद्धो हृत्पद्मे मनसाऽर्चयेत्।
धर्माधर्मादिपादेषमनन्तमयमासनभ्॥ 6.41 ॥
त्रिगुणाकलितं मायाविद्यासितसितास्तरम्।
विपुलं स्थण्डिलेभ्यर्च्य गन्धपुष्पैर्यथाक्रमम्॥ 6.42 ॥
तस्योपरि तथा पद्मं प्रणवेन समाहितः।
तदंशैः सूर्यसोमाग्निमण्डलात्मत्रयं पुनः॥ 6.43 ॥
उपर्युपरि सङ्कल्प्य पत्रकेसरकर्णिकाः।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा यथाक्रमम्॥ 6.44 ॥
प्रह्वी सत्या तथेशा च केसरेष्वष्ट शक्तयः।
मध्यतोऽनुग्रहा चान्ते पूज्याः सर्वार्थसिद्धये॥ 6.45 ॥
हृद्येवं योगपीठस्थं ध्यात्वा विष्णुमतन्द्रितः।
क्षालिते तैजसे पात्रे गन्धपुष्पयुतोदके॥ 6.46 ॥
प्रणवेन स्मरेद् विष्णुमव्यक्तस्योपरिस्थितम्।
विष्णुमूर्तिं ततो ध्यात्वा सर्वतेजोमयं विभुम्॥ 6.47 ॥
कर्णिकोपरि सञचिन्त्य निरुध्य सकलीकृतम्।
पूजयेत् साङ्गमव्यग्रे भक्त्याऽर्घ्यादिभिरच्युतम्॥ 6.48 ॥
पूर्वेण हृदयं न्यस्य दक्षिणेन शिरस्तथा।
पश्चिमेन शिखां चैव कवचं चोत्तरेण तु॥ 6.49 ॥
आग्नेयादिषु काणेषु पूजयेदस्त्रमुत्तमम्।
वासुदेवादिकान् न्यस्य दिक्षु शक्तीश्च कोणतः॥ 6.50 ॥
तद्बहिः शङ्खचक्राब्जगदा दिक्षु निवेशयेत्।
कोणेषु च ततः शार्ङ्गखेटखङ्गशरान् न्यसेत्॥ 6.51 ॥
इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा।
वायुं सोमं तथेशानं स्वासु दिक्षु क्रमान्न्यसेत्॥ 6.52 ॥
वज्रं शक्तिं च दण्डं च खड्गं पाशं ध्वजं तथा।
गदां त्रिशूलं च बहिस्तेषामस्त्राणि कल्पयेत्॥ 6.53 ॥
अग्रतो वैनतेयं तु तृतीयावरणाद् बहिः।
विष्वक्सेनं तथैशान्यां द्वितीयावरणाद् बहिः॥ 6.54 ॥
सर्वेषामपि चैतेषां प्रत्येकम पद्ममासनम्।
नामभिः कल्पयेद् विद्वानर्ध्यं देवाय भक्तितः॥ 6.55 ॥
पाद्यमाचमनीयं च स्रानमालेपनं तथा।
वस्त्रालङ्कारपुष्पाणि धूपदीपनिवेद्यकम्॥ 6.56 ॥
तत्सर्वं विष्णुगायत्र्या दातव्यं तु यथाक्रमम्।
दत्त्वा देवाय भूषान्तं स्नानाद्यङ्गेषु कल्पयेत्॥ 6.57 ॥
गायत्र्या च ततः पुष्पं देवायान्येभ्य एव च।
व्यस्तेन मूलमन्त्रेण समस्तेन च तैः सह॥ 6.58 ॥
यागोऽयं तस्य विज्ञेयः सदाऽन्येऽर्च्याः स्वनामभिः।
परतत्त्वेन व्याप्यान्ते पूजयेत् तं सनातनम्॥ 6.59 ॥
धूपं दीपं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्।
यथासम्भवतोऽन्येषां निवेद्यमुपकल्पयेत्॥ 6.60 ॥
अग्नौ च कल्पयेत् साङ्गं योगपीठस्थमुज्ज्वलम्।
परिस्तरणपर्युक्षापवित्रकरणादि यत्॥ 6.61 ॥
प्रणवेनैव सर्वं तत् कृत्वाऽथाज्येन होमयेत्।
दशांशमङ्गमूर्त्तीनामन्येषामेकशः क्रमात्॥ 6.62 ॥
नमः परिषदेभ्यश्चेत्यष्टदिक्षु बलिं हरेत्।
आचम्य सकलीकृत्य जप्त्वा स्तुत्वा प्रणम्य च॥ 6.63 ॥
अर्घ्यं दत्त्वा क्षमस्वेति संहृत्य हृदि योजयेत्।
ध्यायेज्ज्योतिर्मयं देवं शङ्खचक्रगदाधरम्॥ 6.64 ॥
पीतवस्त्रमुदाराङ्गं सर्वाभरणभूषितम्।
शुद्धस्फटिकसङ्काशं वासुदेवं चतुर्भुजम्॥ 6.65 ॥
शङ्खचक्रगदापाणिं धृतश्रीवत्सकौस्तुभम्।
तथा सङ्कर्षणं ध्यायेज्जातरूपसमप्रभम्॥ 6.66 ॥
दूर्वामरकतप्रख्यं प्रद्युम्नं च तथा स्मरेत्।
नीलाम्बुदप्रतीकाशमनिरुद्धं तथैव च॥ 6.67 ॥
शान्तस्फटिकसङ्काशां श्रियं पद्मरजःप्रभाम्।
सरस्वतीं तथारूपां रतिं श्यामां तु चिन्तयेत्॥ 6.68 ॥
शुक्लवर्णं तथा शङ्खं चक्रमग्निसमप्रभम्।
गदां चैव हरिद्राभां सुवर्णाभं तु पङ्कजम्॥ 6.69 ॥
गदां स्त्रीलक्षणैर्युक्तां सर्वसंहारकारिणीम्।
खड्गमाकाशसंकाशं ध्यायेच्चक्रसमाकृतिम्॥ 6.70 ॥
शार्ङ्गं च तत्समं पीतमधोभागे गदासमम्।
शरं च धनुराकारं खेटकं खङ्गसन्निभम्॥ 6.71 ॥
चक्रमुग्रं प्रभूताक्षं नाभ्यरप्रथिनेमिकम्।
लेलिहानं दुरालोकं भ्रमद्वह्निस्फुलिङ्गमुक्॥ 6.72 ॥
चतुर्बाहुं द्विबाहुं वा दंष्ट्रिणं पिङ्गमूर्धजम्।
लम्बोदरं तथा शङ्खं ह्रस्वकुञ्चितमूर्धजम्॥ 6.73 ॥
इन्द्रः श्यामो यमः पीतो वरुणः श्याम एव च।
शङ्खामलरुचिः सोमो वह्निः शोणस्तु कीर्तितः॥ 6.74 ॥
सदंष्ट्रो निर्ऋतिः श्यामो वायुर्धूम्रः प्रशस्यते।
ईशानस्तु भवेद् रक्त एवं ध्यायेत् क्रमादिमान्॥ 6.75 ॥
इन्द्रकारं भवेद् वज्रं चित्रशास्त्रोदितं तु वा।
एवमस्त्राणि दिक्पानामन्येषां च प्रकल्पयेत्॥ 6.76 ॥
अग्निवर्मश्चतुर्बाहुस्तार्क्ष्यो लूनाग्रनासिकः।
ग्रसन्निव दृशा ध्येयो महापक्षो महाबलः॥ 6.77 ॥
विष्वक्सेनोऽभ्रवर्णस्तु शङ्खचक्रगदाधरः।
पञ्चमूर्धा चतुर्बाहुरनन्तः पृष्ठतो हरेः॥ 6.78 ॥
ध्येयोऽन्ये पार्षदास्तस्य ज्ञातव्याश्चागमान्तरे।
योऽनेन विधिना विष्णुं पूजयेद् भक्तिमान् नरः॥ 6.79 ॥
Chapter - 7
अथ वक्ष्यामि संक्षेपान्मुद्राणां लक्षणं परम्।
न्यासादिषु प्रयुज्यन्ते यता मुद्राः सुगोपिताः॥ 7.1 ॥
अञ्जलिः प्रथमा मुद्रा क्षिप्रं देवप्रसादनी।
वन्दनी हृदयासक्ता किञ्चिद् दक्षिणतो नता॥ 7.2 ॥
ऊर्ध्वाङ्गुष्ठो वाममुष्टिर्दक्षिणोऽङ्गुष्ठबन्धनः।
वामस्य तस्य चाङ्गुष्ठो भवत्यूर्ध्वमुखः स्थितः॥ 7.3 ॥
तिस्रः साधारणा मुद्रा मूर्तीनामिह किर्तिताः।
पद्मासनगतो मूर्ध्नि कुर्यादञ्जलिबन्धनम्॥ 7.4 ॥
मुद्रा ब्रह्माञ्जलिर्नाम देवसान्निध्यकारिणी।
अनया बद्धया चैव नित्यं तुष्यन्ति देवताः॥ 7.5 ॥
तस्मात् तु सर्वदेवानां मुद्रामेनां प्रदर्शयेत्।
सम्मुखौ प्रसृतौ कृत्वा किञ्चिदाकुञ्चिताङ्गुली॥ 7.6 ॥
अङ्गुष्ठाभ्यां लिखेदन्तर्मुंद्रैषाऽऽवाहिनी स्मृता।
कृत्वा नताङ्गुली हस्तावूर्ध्वङ्गुष्ठौ तु चालयेत्॥ 7.7 ॥
सान्निद्यमुद्रिका ज्ञेया न्यस्तवत् स्थापनी भवेत्।
उभावन्तर्गताङ्गुष्ठै मुष्टी कुर्यान्निरोधिनी॥ 7.8 ॥
संहतौ तु करौ कृत्वा मध्येऽङ्गुष्ठौ निपीडयेत्।
प्रसार्य चाङ्गुलीः सर्वा मुद्रेयं परमेष्ठिनः॥ 7.9 ॥
एकैकस्य क्रमादन्या अङ्गलीश्च नियोजयेत्।
पुरुषादिक्रमेणैव सर्वमुद्राः प्रकल्पयेत्॥ 7.10 ॥
सप्तजन्मकृतं पापं यच्च पातकपञ्चकम्।
मुद्रापञ्चकविज्ञानान्नश्यत्येव न संशयः॥ 7.11 ॥
वामहस्तेन मुष्टिं तु कृत्वाऽङ्गुष्ठं समुच्छ्रितम्।
हृदि संयोजयेदेतां गृहीत्वेतरमुष्टिना॥ 7.12 ॥
योनिमुद्रा त्वियं प्रोक्ता वैष्णवी भुक्तिमुक्तिदा।
दर्शयेद् देवदेवस्य बद्ध्वा पद्मासनं पुरः॥ 7.13 ॥
दृष्ट्वैवं दर्शितां सद्यः प्रणामं यान्ति देवताः।
यक्षविद्याधराद्याश्च भ्रमन्ति भयमोहिताः॥ 7.14 ॥
वामहस्तमथोत्तानं कृत्वोत्तानं च दक्षिणम्।
संश्लिष्य भ्रामयेत् पश्चाद् ग्रथित्वा चाङ्गुलीः क्रमात्॥ 7.15 ॥
कोटिमुद्रा त्वियं प्रोक्ता देवदेवस्य च प्रिया।
अनामामध्ययोर्मध्ये निवेश्याङ्गुष्ठमायतम्॥ 7.16 ॥
दक्षिणस्य तु हस्तस्य मुद्रेयं हृदये स्मृता।
निर्वर्त्य मुष्टिमाहन्यादङ्गुष्ठाग्रेण तर्जनीम्॥ 7.17 ॥
स्थापयेत् तु ललाटान्ते मुद्रेयं शिरसि स्मृता।
वर्तयित्वा दृढां मुष्टिं कुर्यादङ्गुष्ठमूर्ध्वगम्॥ 7.18 ॥
स्थापयेत् तां शिखादेशे शिखामुद्रा प्रकीर्तिता।
सम्प्रवेश्यान्तरङ्गुष्ठौ वेष्टयित्वा समन्ततः॥ 7.19 ॥
संहरेत् तत्प्रदेशिन्यौ मुद्रेयं कवचे स्मृता।
अग्रहस्तं परावृत्य बद्ध्वा नाराचमुष्टिवत्॥ 7.20 ॥
विसृजेत् तिर्यगायम्य मुद्रास्त्रस्येयमीरिता।
भ्रूमध्ये स्थापयेद् बद्ध्वा शिखामुद्रामधोमुखीम्॥ 7.21 ॥
नेत्रमुद्रेयमाख्याता षडेतास्त्वङ्गमुद्रिकाः।
आत्मरक्षणमेताभिः कर्तव्यं साधकैः सदा॥ 7.22 ॥
कृत्वाऽङ्गुष्ठौ समावूर्ध्वं बध्वा हस्तौ परस्परम्।
योगसम्पुटमुद्रेयं ध्याने सर्वत्र युज्यते॥ 7.23 ॥
तथैवाच्छिद्रवत् कृत्वा कुर्यान्मूर्धन्यधोमुखीम्।
अभिषेके प्रयोक्तव्या मुद्रेयं पावनी परा॥ 7.24 ॥
मणिबन्धसमौ हस्तावूर्ध्वं शाखाः प्रसारिताः।
अन्तः प्रवेशिताङ्गुष्ठौ पद्ममुद्रासने स्मृता॥ 7.25 ॥
मणिबन्धसमौ हस्तौ तिर्यक् सम्भ्राम्य चक्रवत्।
पर्यायेण प्रयोक्तव्या चक्रमुद्रा महोदया॥ 7.26 ॥
मुष्टिं कृत्वा तु हस्ताभ्यामङ्गुष्ठौ विनतावुभौ।
युक्त्वा सम्भ्राम्य निर्मुक्तौ गदाख्या विघ्ननाशिनी॥ 7.27 ॥
निबध्य दक्षिणाङ्गुष्ठं वामहस्तस्थमुष्टिगम्।
कृत्वा चाङ्गुष्ठतर्जन्यौ संयुक्ते प्रसृते समे॥ 7.28 ॥
तिस्रस्तु दक्षिणस्यान्या बध्नीयुर्मुष्टिमूर्ध्वतः।
शङ्खमुद्रेयमुद्दिष्टा द्रव्याणां स्थापने परा॥ 7.29 ॥
धनुषस्तु धनुर्मुष्टिः शरमुष्टिः शरस्य च।
खङ्गस्य कोशविश्लेषो मुद्रा खेटस्य मण्डलम्॥ 7.30 ॥
उभे कनिष्ठिके बद्ध्वा प्रदेशिन्यावुभे तथा।
हस्तावुभौ परावृत्तावङ्गुष्ठौ सहितावधः॥ 7.31 ॥
मध्यमानामिके युक्ते चालयेत् पक्षयुग्मवत्।
बद्धा गरुडमुद्रेयं वाहनादौ बलावहा॥ 7.32 ॥
विरलोर्ध्वाङ्गुलिं हस्तं कृत्वाऽऽयामेन दर्शयेत्।
मुद्रानन्तस्य विज्ञेया शयनादौ प्रयुज्यते॥ 7.33 ॥
कृत्वोत्तानावुभौ हस्तौ सम्पुटाग्रौ प्रसारितौ।
कुर्वीत प्रार्थनामुद्रां सान्निध्यादिषु सर्वदा॥ 7.34 ॥
श्रीवत्सकौस्तुभार्थः स्यादुरःस्पर्शो द्विपार्श्वगः।
ऊर्ध्वमुद्रां प्रयुज्यादावुत्तानीकृत्य तां पुनः॥ 7.35 ॥
मुञ्चेद् वामकनिष्ठादिक्रमान्मूर्तिचतुष्टये।
किञ्चिदाकुञ्चिताग्रास्तु योजयित्वाऽङ्गुलीः शनैः॥ 7.36 ॥
तर्जन्यौ मध्यमापृष्ठे योजयित्वा विचक्षणः।
अङ्गुष्ठाभ्यां लिखेदन्तः शक्तीनां योनिसंज्ञिता॥ 7.37 ॥
वामहस्तेन सङ्गृह्य करं तिर्यक्प्रसारितम्।
संहतं चालयेदेषा ध्वजमुद्रा प्रकीर्तिता॥ 7.38 ॥
मध्यानामान्तरेऽङ्गुष्ठो निर्गतो मध्यमानता।
दक्षिणस्य तु मुष्टौ स्यान्मुद्रा वैनायकी स्मृता॥ 7.39 ॥
ऊर्ध्वाङ्गुष्ठो भवेन्मुष्टिर्लिङ्गमुद्रा शिवे स्मृता।
तर्जयेद् वामतर्जन्या नासाग्रासन्नया जगत्॥ 7.40 ॥
विष्वक्सेनस्य सा मुद्रा जीर्णोद्धारादिषु स्मृता।
मानसो रूपसङ्कल्पो मुद्रा मोक्षार्थिनां स्मृता॥ 7.41 ॥
इतरेषां तु हस्ताभ्यां प्रयोगः शस्यते बुधैः।
नान्यसन्दर्शने मुद्रा नानिमित्तं च बन्धयेत्॥ 7.42 ॥
गुह्यमेतद्धि तन्त्रेषु तस्माद् रहसि योजयेत्।
मुदं कुर्वन्ति देवानां राक्षसान् द्रावयन्ति च॥ 7.43 ॥
इत्येवं सर्वमुद्राणां मुद्रात्वं तान्त्रिका विदुः।
पटान्ते बन्धयेन्मुद्रा नचापि कथयेद् बुधः॥ 7.44 ॥
कथनाज्जायते स्रंसस्तस्माद् गोप्याः सदा बुधैः।
आनन्त्यादखिला मुद्रा वक्तुं ब्रह्मन्! न शक्यते॥ 7.45 ॥
देवतानां बहुत्वाच्च मुद्रोद्देशो मयेरितः।
प्रणामप्रार्थनाद्यास्तु मुद्राः सर्वदिवौकसाम्॥ 7.46 ॥
अच्युतस्यापि पूजायामज्ञानां कल्पयेदिमाः।
अलाभे सर्वमुद्राणामञ्जलिर्हिदि मूर्ध्नि वा॥ 7.47 ॥
सामान्यमुद्रा विज्ञेया सर्वेषां च दिवौकसाम्।
मन्त्रश्च प्रणवो योज्यः सिद्धिरेवं भविष्यति॥ 7.48 ॥
पूर्वं कृत्वा करन्यासं मुद्राबन्धः शुभो भवेत्।
अन्यथा विफलाः सर्वा भविष्यन्ति न संशयः॥ 7.49 ॥
वृथाऽन्यदर्शने वाऽपि प्रयुक्ता विफलास्तथा।
कुप्यन्ति देवताश्चास्य सिद्धिमाशु हरन्ति च॥ 7.50 ॥
गुप्तं मुद्रागणं यस्तु यथाकालं प्रदर्शयेत्।
कामाः सर्वेऽस्य सिध्यन्ति प्रीयन्ते चास्य देवताः॥ 7.51 ॥
सामान्याख्या विशेषाख्यास्तथाङ्गाख्याश्च कीर्तिताः।
तथैव परिवाराख्या मुद्रा ह्येताश्चतुर्विधाः॥ 7.52 ॥
मध्यमानामिके विद्वानङ्गुष्ठाभ्यां तु पीडयेत्।
कनिष्ठा तर्जनीयोज्या श्रीवत्सस्य प्रदर्शयेत्॥ 7.53 ॥
अनामा पृष्ठसंलग्ना दक्षिणस्य कनिष्ठिका।
कनिष्ठया तु सङ्गृह्य तर्जन्याऽनामिकां तथा॥ 7.54 ॥
गृहीत्वाऽनामिकां मध्यामङ्गुष्ठं चोछ्रितं कुरु।
तस्मिन्नङ्गुष्ठके श्लिष्टा वामहस्तस्य तर्जनी॥ 7.55 ॥
मध्यमे मध्यमां कृत्वा चाङुष्ठं मणिबन्धने।
कौस्तुभस्य त्वियं मुद्रा दर्शनीया च साधकैः॥ 7.56 ॥
सम्मुखावुच्छ्रितौ हस्तौ व्योममध्ये विमोचयेत्।
तर्जन्यङ्गुष्ठकौ श्लिष्य मालामुद्रां प्रदर्शयेत्॥ 7.57 ॥
एवं चतुर्विधा मुद्रा गोप्या यत्नेन सर्वदा।
प्रयोज्याश्च यथाकालं साधकैः सिद्धिकाङ्क्षिभिः॥ 7.58 ॥
Chapter - 8
अथ वक्ष्यामि संक्षेपादग्निसंस्कारमुत्तमम्।
प्राच्यां कुण्डमुदीच्यां वा स्थण्डिलं वाऽप्यसम्भवे॥ 8.1 ॥
द्विहस्तमेकहस्तं वा चतुरश्रं त्रिमेखलम्।
द्विमेखलं वा कुण्डं स्यादेकमेखलमेव वा॥ 8.2 ॥
एककुण्डस्य मानार्धं खातमन्यत्र तत्समम्।
द्वादशाष्टचतुर्भिः स्यादङ्गुलैर्मेखलोन्नतिः॥ 8.3 ॥
सात्तविकी राजसी चात्र तामसी मेखलाः स्मृताः।
चतुरङ्गुलविस्ताराः सर्वास्ता हस्तमात्रके॥ 8.4 ॥
द्विगुणे द्विगुणा ज्ञेया योनिः पश्चिमतो भवेत्।
चतुर्दशाङुला पश्चात् तन्नालं चतुरङ्गुलम्॥ 8.5 ॥
अष्टाङ्गुलं भवेद् वृत्तं निर्वाहस्तु षडङ्गुलः।
गजोष्ठसदृशोऽश्वत्थपत्राग्राकार एव वा॥ 8.6 ॥
प्राजापत्या गजोष्ठाग्रा योनिरन्या तु वैष्णवी।
कुण्डस्था वैष्णवी शक्तिः प्रकृतिस्त्रिगुणात्मिका॥ 8.7 ॥
सा योनिः सर्वभूतानां सिद्धीनां च विशेषतः।
प्राच्यां शिरः समाख्यातं बाहू दक्षिणसौम्ययोः॥ 8.8 ॥
उदरं कुण्डमित्युक्तं योनिः पादौ च पश्चिमे।
पदान्येकोनपञ्चाशत् कुण्डे सप्तविभाजिते॥ 8.9 ॥
आदिहान्तां क्रमात् तेषु पदेषु परिकल्पयेत्।
प्रणवं पूर्वमुद्दिश्य मेखलात्रितयेंऽशकान्॥ 8.10 ॥
व्यापिनं पुरुषं नादं स्मरेद् व्याप्तां च मातृकाम्।
विसर्गं योनिमध्ये च ध्यात्वाऽग्नीषोमबिन्दुकम्॥ 8.11 ॥
गर्भरूपा तु सा योनिर्मातृकेयं तदुद्भवा।
पितृमर्त्यसुरांशस्थां प्रादक्षिण्येन पूजयेत्॥ 8.12 ॥
हकारं मध्यकोष्ठेऽन्त्यं विष्णुं जीवात्मकं तथा।
गर्त्ताकारोदरा सेयं प्रकृतिर्गर्भभागिनी॥ 8.13 ॥
ज्ञातव्या साधकेनैवं परां सिद्धिमभीप्सता।
गायत्री कुण्डरूपेयं चतुर्विंशतिधा स्थिता॥ 8.14 ॥
तारात्मकः पुमान् विष्णुरधिष्ठाताऽत्र कीर्तितः।
नाभिगुह्यान्तरं विद्यादग्निस्थानं तु देहिनाम्॥ 8.15 ॥
तत्रैवाधीयते गर्भस्तत्र होमश्च सिद्धये।
चतुर्विंशाङ्गुलं कुण्डं गायत्रीसंख्यया स्मृतम्॥ 8.16 ॥
चतुर्विंशतितत्त्वानि द्विहस्ते द्व्यङ्गुलानि तु।
स्वराः पञ्चदशाधस्ताद् योनिः पञ्चदशाङ्गुला॥ 8.17 ॥
षोडशः सविसर्गोऽत्र नाभ्यन्ते संव्यवस्थितः।
सैव शक्तिः परा विष्णोः परमामृतवाहिनी॥ 8.18 ॥
अग्नीषोमात्मिका दिव्या सर्वं ज्ञेयं च तन्मयम्।
साग्निरूपेण संहारं सोमरूपेण चोदयम्॥ 8.19 ॥
करोति बिन्दुयुग्मस्था नित्यमेषा मदिच्छया।
ब्रह्मलोकं स्थिता भित्त्वा गता मूर्ध्ना ममालयम्॥ 8.20 ॥
पितृयानं च वामे स्याद् देवयानं च दक्षिणे।
मध्यमे ब्रह्मणो मार्गो मुक्तये सैवमीरिता॥ 8.21 ॥
साऽग्निरूपा व्रजत्यूर्ध्वं सोमरूपा व्रजत्यधः।
वामदक्षिणतो हित्वा स्थिता व्याप्य जगत्त्रयम्॥ 8.22 ॥
इडा च पिङ्गला नाड्यौ वामदक्षिणपार्श्वयोः।
सुषुम्नोर्ध्वगता नाडी मोक्षमार्गस्तु स स्मृतः॥ 8.23 ॥
तत्र चित्तं समाधाय धर्मधर्मविवर्जितम्।
सर्वरोगविनिर्मुक्तो लयमायात्यसंशयम्॥ 8.24 ॥
एवं कुण्डशरीरं तु ज्ञातव्यं मातृकामयम्।
लीयते विश्वमत्रेति कुण्डं तद्विश्वकुण्डनात्॥ 8.25 ॥
तस्मात् कुण्डेऽत्र होतव्यं विधिदृष्टेन वर्त्मना।
सुसंस्कृते यथा क्षेत्रे फलं प्राप्नोति कर्षकः॥ 8.26 ॥
हुतभुक् च तथा ज्ञेयः संस्कृतः फलदो नृणाम्।
यथैवाज्यस्य संस्कारः कर्तव्योऽग्नेस्तथैव च॥ 8.27 ॥
होतव्यं संस्कृते तस्मादग्नौ नासंस्कृते बुधैः।
शिष्यस्यैव तु संस्कारो वह्नेराज्यस्य वाऽत्र यः॥ 8.28 ॥
नाग्न्यर्थस्तत्त्वतस्तस्मादिष्टो यागेषु सर्वथा।
मथितं मणिजं वाऽथ श्रोत्रियागारजं तु वा॥ 8.29 ॥
शरावेणाग्निमानीय तमस्त्रेण तु शोधयेत्।
संहारमुद्रया तस्य जीवमात्मनि योजयेत्॥ 8.30 ॥
शय्यां तु चिन्तयित्वाऽऽदौ धर्माधर्मादिसंयुताम्।
वरास्तरणसंछन्नां धूपामोदाधिवासिताम्॥ 8.31 ॥
सुगन्धकुसुमाकीर्णां नानाद्रव्यैश्च शोभिताम्।
ध्यायेल्लक्ष्मीं च वाग्रूपां भूषितां नवयौवनाम्॥ 8.32 ॥
साभिलाषामृतुस्नातां फुल्लपङ्गजधारिणीम्।
एवं च चिन्तयेत् सौम्यं सदा प्रहसिताननम्॥ 8.33 ॥
रत्यर्थिनं समासक्तदृष्टिं देवीमुखाम्बुजे।
एवंरूपावुभौ ध्यात्वा गन्धपुष्पैः प्रपूजयेत्॥ 8.34 ॥
देवस्य सुक्लमध्यस्थमग्निबीजं तु चिन्तयेत्।
गर्भाशयप्रविष्टं तु तद्रक्तेन समन्वितम्॥ 8.35 ॥
देवं विसर्जयेत् पश्चात् गर्भाधाने कृते तथा।
कुण्डभूतां ततो देवीं वह्निभूतं च तं स्मरेत्॥ 8.36 ॥
तत्पुंसवनसीमन्तजातनामाशनक्रियाः।
हृदयादिभिरंष्टाष्ट हुत्वाऽऽज्यं कल्पयेत् क्रमात्॥ 8.37 ॥
वैषडन्तेन मन्त्रेण प्लुतान्तेन यथाविधि।
पृथक् पूर्णाहुतिं दद्याद् गन्धपुष्पैश्च पूजयेत्॥ 8.38 ॥
प्रणवस्तु स्रुवो ज्ञेयो मातृका स्रुगिति द्वयम्।
पुरुषप्रकृतित्वेन विज्ञातव्यं विचक्षणैः॥ 8.39 ॥
रत्निमात्रं स्रुवं कुर्याद् वर्तुलं द्व्यङ्गुलं मुखम्।
गोष्पदं तु यथा मग्नमल्पपङ्के तथा भवेत्॥ 8.40 ॥
वर्तुलानन्तरग्रन्थिविष्कम्भेणाङ्गुलो भवेत्।
दण्डस्तु वर्तुलाकारो ग्रन्थिवक्रादिवर्जितः॥ 8.41 ॥
क्रमात् तनूकृताग्रोऽधो नाडी स्याच्चतुरङ्गुला।
स्वयं निपतितः शुष्को दग्धो भग्नश्च दन्तिना॥ 8.42 ॥
दुष्टदेशभवो वक्रः स्फुटितश्च सकोटरः।
सक्षतः कृमिजुष्टोऽन्यवृक्षजश्चान्यतोमुखः॥ 8.43 ॥
स्रुवः स्यादभिचाराय स्रुग्वा तस्मान्न कारयेत्।
क्षीरवृक्षोद्भवः शान्त्यै खादिरः सर्वकामदः॥ 8.44 ॥
ब्रह्मवर्चसकृद् ब्राह्मो जुहूर्ब्राह्मी सदा भवेत्।
ऋग्वेदाद्यास्त्रयो वेदा ब्रह्माद्याश्चैव देवताः॥ 8.45 ॥
भूरादयोऽग्नयोऽवस्थाः सवनान्यक्षराणि च।
प्रणवांशक्रमाद्दण्डग्रन्थिवृत्तेषु कल्पयेत्॥ 8.46 ॥
बाहुमात्रां स्रुचं सप्तषट्पञ्चाङ्गुलविस्तराम्।
कारयेन्मध्यतो वृत्तं त्रिभागेन च खातयेत्॥ 8.47 ॥
तिर्यगूर्ध्वं समं तस्य बहिरर्धं तु शोधयेत्।
अङ्गुलस्य चतुर्थाशं शैषार्धेऽर्धं तथाऽन्ततः॥ 8.48 ॥
खातस्य मेखलां रम्यां शेषार्धेन तु कारयेत्।
कलाध्यर्धाङ्गुलायामं कण्ठं त्र्यंशैकविस्तृतम्॥ 8.49 ॥
चतुरङ्गुलविस्तारं मुखं पञ्चाङ्गुलं तथा।
समायामं तु कर्तव्यं शुभं हंसमुखाकृति॥ 8.50 ॥
धाराकुल्या च तन्मध्ये वृत्तगर्तप्रवेशिनी।
कण्ठे कनीयसी नाहं सुषिरं तस्य कल्पयेत्॥ 8.51 ॥
धारा स्यात्तदधोभागे दण्डमूले च युक्तितः।
शेषं दण्डं सुवृत्तं च क्रमेणाग्रं तनूकृतम्॥ 8.52 ॥
प्रादक्षिण्याद् बिलस्यान्तर्न्यस्तव्याः षोडश स्वराः।
दण्डेऽन्ये कोणतोऽन्तःस्था बिलपार्श्वाग्रगाः परे॥ 8.53 ॥
तया पूर्णाऽत्र दातव्या स्रुवसम्पुटगुप्तया।
स्रुवेण केवलेनापि होमस्तत्सहितेन च॥ 8.54 ॥
स्रुचा नो स्रुवया? तारः केवलोऽपि हि सिद्धिदः।
सृष्ट्यर्थोऽयं स्रुवस्तस्मात् तेनासीनस्तु होमयेत्॥ 8.55 ॥
स्थित्यर्थं स्रुक् तया पूर्णां तिष्ठन्नेव तु दापयेत्।
गायत्री तु जुहूर्ब्राह्मी स्याच्चतुर्विशद्ङ्गुला॥ 8.56 ॥
दण्डाग्रेऽस्यां मुखाग्रेऽन्तर्गण्डयोराज्यवर्त्मनि।
हृदयादीनि नेत्रान्तान्यङ्गानि परिकल्पयेत्॥ 8.57 ॥
तारोपस्तीर्णया नित्यं तया पक्वं तु होमयेत्।
प्राणापानस्वरूपौ च स्रुक्स्रुवौ कथितावुभौ॥ 8.58 ॥
कर्तव्यौ नाभिसंलग्नौ प्राणस्थानं तु तद्विदुः।
धूमस्तु नासिका ज्ञेया पार्श्वयोः कर्णचक्षुषी॥ 8.59 ॥
पूर्वापरं ललाटास्यं वह्निस्थानमिदं भवेत्।
कृत्वोल्लेखादि गायत्र्या परिधायार्चितेऽनले॥ 8.60 ॥
पूर्ववत् पङ्कजं ध्यात्वा सर्वतत्त्वान्यनुक्रमात्।
मध्ये जनार्दनं ध्यायेत् सूर्यकोटिसमप्रभम्॥ 8.61 ॥
आहुतीनां सहस्रेण तर्पयेत् तं शतेन वा।
दश पूर्णाहुतीस्तत्र मूलमन्त्रेण होमयेत्॥ 8.62 ॥
दशांशेनेतरांश्चैव तर्पयेच्चरूणैव वा।
नैत्यके तु विधिर्ह्येष कर्तव्यो दीक्षितैर्द्विजैः॥ 8.63 ॥
शोषदाहामृतप्लावकाठिन्यपरिकल्पनैः।
तत्तद्बीजकृतैः शोध्यं वह्नेरायतनं सदा॥ 8.64 ॥
यत्परिस्तीर्यते दर्भैर्यत्प्रणीता निधीयते।
यद्ब्रह्मा कल्प्यते चात्र सर्वं तद्विघ्नशान्तये॥ 8.65 ॥
स्निग्धे प्रदक्षिणवर्ते सुसमिद्धे हुताशने।
विधूमे लेलिहाने च होतव्यं कर्मसिद्धये॥ 8.66 ॥
अल्पतेजाश्च रूक्षश्च शुक्लः कृष्णश्च योऽनलः।
भूलेही विष्फुलिङ्गी च दुर्गन्धश्च न शस्यते॥ 8.67 ॥
रूपादिभेदतः काली कराली च मनोजवा।
लोहिता चार्धधूम्रा च ज्वाला चाथ स्फुलिङगिनी॥ 8.68 ॥
विश्वरूपेति सप्तैता जिह्वा ज्ञेया हविर्भुजः।
ताभिरस्य मुखं पूर्णं विदीर्ण सप्तजिह्वकम्॥ 8.69 ॥
लेलिह्यमानमुज्ज्वालं सदा ध्येयं जुहूषता।
कर्षार्धं जुहुयादाज्यमन्नं ग्रासार्धमात्रकम्॥ 8.70 ॥
शुक्तिमात्राहुतीर्दध्नः क्षीरस्य मधुनस्तथा।
यवतण्डुलशालीनां प्रसृतिः पृथुकस्य च॥ 8.71 ॥
लाजानां मुष्टिमात्रं तु फलानां स्वप्रमामतः।
भक्ष्याणामभयामात्रं मूलानां खण्डनत्रयम्॥ 8.72 ॥
दूर्वाणां च त्रयं साग्रं सक्तूनां कर्षमात्रकम्।
तिलानां सर्षपाणां च मुद्गानां चैव पञ्चकम्॥ 8.73 ॥
एकैकं चैव होतव्यं पुष्पाणां समिधां तथा।
चतुर्गृहीतमापूर्य स्रुवेणाज्यं महास्रुचा॥ 8.74 ॥
पुर्णाहुतिस्तु दातव्या नित्यमच्छिन्नधारया।
अरत्निमात्रमिध्माख्यं समित्पूगं घृताप्लुतम्॥ 8.75 ॥
पालाशं युगपन्नित्यं होतव्यमविकम्पितम्।
स्रुवेणाज्यमुपस्तीर्य जुह्वां पिण्डद्वयं चरोः॥ 8.76 ॥
घृताभिघारितं पक्वं यत् साद्यन्तस्रुवाहुति।
एवमेकैकपिण्डं तु पुनर्द्विरभिघारितम्॥ 8.77 ॥
प्रधानाहुतिहोमान्ते होतव्यं स्विष्टकृद् भवेत्।
अन्यत् सर्वं घृताभ्यक्तं दक्षिणस्य करस्य तु॥ 8.78 ॥
जुहुयाद्देवतीर्थेन कनिष्ठामूलवर्तिना।
स्रुवेणैव द्रवद्रव्यं दधिक्षीरादि सर्वदा॥ 8.79 ॥
होतव्यं विधिना सर्वमन्यथा दोषमाप्नुयात्।
पूर्वं त्रिः क्षालितैः शालितण्डुलैरमलैश्चरुम्॥ 8.80 ॥
यन्त्रेणाग्नावदिश्रित्य श्रपयेद् व्यजनानिलैः।
संस्कृत्य विधिना चाज्यं दर्भैः सम्मृज्य च स्रुवम्॥ 8.81 ॥
निधाय परिधीनद्भिः परिषिच्याग्निमर्चयेत्।
इध्माघाराज्यभागेषु हुतेष्वाहूय देवताम्॥ 8.82 ॥
पक्वमन्यच्च होतव्यं समिदादि यथाक्रमम्।
आघारवत् क्रमो ह्येष कर्तव्यः सिद्धिमीप्सता॥ 8.83 ॥
आधायाग्निं परिस्तीर्य संस्कृत्याभ्यर्च्य च क्रमात्।
होतव्यमखिलैर्द्रव्यैरयमापूर्विको विधिः॥ 8.84 ॥
होमशेषं समाप्याथ विधिनोद्वास्य देवताम्।
स्वशक्त्या दक्षिणां दद्यादेवं सिद्ध्यन्ति सिद्धयः॥ 8.85 ॥
सामान्येन समाख्यातमग्निकार्यमिदं मया।
विसेषतस्तु कर्तव्यं तत्र तत्रैव वक्ष्यते॥ 8.86 ॥
Chapter - 9
अथ वक्ष्यामि संक्षेपान्मण्डलं सार्वकामिकम्।
यद् ज्ञात्वा मुनयः सम्यक् परां सिद्धिमितो गताः॥ 9.1 ॥
यागभूमिं परीक्ष्यादौ सर्वदोषविवर्जिताम्।
शल्यैर्विमोचितां यत्नात् समां पूर्वोत्तरप्लवाम्॥ 9.2 ॥
शोधयित्वा यथान्यायं मण्डपं तत्र कारयेत्।
चतुरश्रं चतुर्द्वारमेकद्वारमथापि वा॥ 9.3 ॥
तोरणध्वजसंयुक्तं वितानादिविभूषितम्।
समङ्गलाङ्कुरादर्शलाजकुम्भाष्टमङ्गलम्॥ 9.4 ॥
अग्न्यायतनसंयुक्तमादर्शसमवेदिकम्।
संस्कृत्य मार्जनालेपगव्यगन्धाक्षतादिभिः॥ 9.5 ॥
सूत्रपातं ततः कुर्यात् दिग्विभागानुरूपतः।
प्राक्पश्चिमायते सूत्रे मध्यङ्कोभयपाश्वगौ॥ 9.6 ॥
कृत्वाऽङ्कौ लाञ्छयेत् ताभ्यां मत्स्यौ दक्षिणसौम्ययोः।
तयोश्च सूत्रमास्फाल्य लाञ्छयेद् दिक्षि मानतः॥ 9.7 ॥
द्वाभ्यां द्वाभ्यामथाङ्काभ्यां लाञ्छयेत् कोणमत्स्यकान्।
बाहुसूत्राणि चास्फाल्य चतुरश्रं प्रसाधयेत्॥ 9.8 ॥
समं षोडशधा भङ्क्त्वा सूत्राण्यास्फाल्य भद्रकम्।
आलिखेन्मण्डलं तत्र चतुरश्रं सुशोभनम्॥ 9.9 ॥
पञ्चवर्णैश्चतुर्द्वारं सिताब्जं तत् सपीठकम्।
चतुर्भिर्नवकैः पद्मं पीठं पङ्क्यैकया बहिः॥ 9.10 ॥
द्वाभ्यां वीथीं तथा द्वाराण्यब्जस्थानं तु वर्तयेत्।
तदर्धे द्वादशांशोने चतुर्धावर्तितेंऽशकैः॥ 9.11 ॥
पृथिव्यादीनि तत्त्वानि कर्णिकादिषु कल्पयेत्।
कर्णिकां केसरान् सन्धीन् दलान्यग्राणि च क्रमात्॥ 9.12 ॥
कोणसूत्रं समास्फाल्य कुर्यादष्टदलं यथा।
क्षिप्तेषु सन्धिसूत्रेषु दलसन्ध्यन्तरेण तु॥ 9.13 ॥
दलान्यग्राणि मानेन पार्श्वस्थेन च वर्तयेत्।
पीठे त्रिभिश्चतुर्भिश्च पादगात्राणि कल्पयेत्॥ 9.14 ॥
द्वेऽन्तर्बहिश्च चत्वारि द्वारे द्वारे तु मार्जयेत्।
त्रीण्येकं चैव शोभार्थमुपशोभार्थमन्यथा॥ 9.15 ॥
षड्भिः कोणं लतापत्रवितानैर्वीथिरुज्ज्वला।
एकहस्तं द्विहस्तं च चतुर्हस्तं च भद्रकम्॥ 9.16 ॥
ततोऽधिकं तु चक्राब्जमष्टहस्तान्तमिष्यते।
द्वादशारत्निका वेदिर्दशाष्टारत्निरेव वा॥ 9.17 ॥
तस्या द्वादशभागेन मध्यतोऽक्षं प्रकल्पयेत्।
नाभिं च तावतीं क्षेत्रमराणां द्विगुणं बहिः॥ 9.18 ॥
नाभिवन्नेमिवीथ्योश्च क्रमात् क्षेत्राणि कल्पयेत्।
अक्षभिमिं त्रिधा कृत्वा कर्णिकादि यथाक्रमम्॥ 9.19 ॥
वर्तयेन्नाभिसंस्थानि दलान्यग्राणि कल्पयेत्।
त्रिनाभि द्वादशारं तच्चक्राब्जं शुभवीथिकम्॥ 9.20 ॥
कल्पयेद् विदिशोऽरस्था दिशोऽरान्तरगोचराः।
तुल्यमेवोभयोर्मानं सर्वत्र परिकल्पयेत्॥ 9.21 ॥
अरं द्वादशधा कृत्वा सूत्राण्यूर्ध्वगतानि च।
मूलाग्रयोरराः स्थूला वृत्तरूपाश्च मध्यतः॥ 9.22 ॥
पिपीलिकोदराः कार्या विपरीता यवोदराः।
नेमिक्षेत्रं द्विधा कृत्वा प्रथयश्चाधरोत्तराः॥ 9.23 ॥
चतिर्विंशतिधा कार्यस्ते चाराग्रान्यसन्धयः।
बहिरावरणं चात्र नेमिमानेन कल्पयेत्॥ 9.24 ॥
तत्र स्थानानि कल्प्यानि दिक्पालानां यथाक्रमम्।
चतुरश्राणि सर्वाणि तालमात्राणि कल्पयेत्॥ 9.25 ॥
बहिर्द्वारादि कर्तव्यं चतुरश्रं यथोदितम्।
एवं मण्डलामालिख्य रजोभिः पूरयेत् क्रमात्॥ 9.26 ॥
सितरक्तासितापीतश्यामैरेवात्र पञ्चभिः।
सर्वत्र कर्णिका पीता सितान्यब्जदलानि च॥ 9.27 ॥
पृथुलारुणमध्यानि पीतान्येव यथाक्रमम्।
केसराण्यच्छबिन्द्वग्राण्युज्ज्वलानि प्रकल्पयेत्॥ 9.28 ॥
दलान्तराणि श्यामानि व्योमबाह्योऽश्रयोऽरुणाः।
सिता धर्मादयः श्यामास्तथाऽधर्मादयः स्मृताः॥ 9.29 ॥
द्वाराणि तु सितान्येव चतुर्दिक्षु प्रकल्पयेत्।
उत्तरादीनि सर्वाणि विप्रादीनां यथाक्रमम्॥ 9.30 ॥
शोभा रक्तोपशोभा तु पीता नीलं च कोणकम्।
भद्रकेऽन्यद्यथाशोभं सर्ववर्णैस्तु कल्पयेत्॥ 9.31 ॥
चक्राब्जेऽपि तथा पद्मं त्रिधा नाभिमथालिखेत्।
सितरक्तासितैः पीताः सर्वेऽराः सितसन्धयः॥ 9.32 ॥
प्रथयः शुक्लकृष्णाः स्युर्व्यत्ययात् पीतसन्धयः।
नानावर्णानि कार्याणि दिक्पानां स्वस्तिकानि तु॥ 9.33 ॥
पीताच्छपाटलश्यामकृष्णरेखास्तु तद्बहिः।
सितरक्तासितास्तिस्रो भद्रके विहिताः क्रमात्॥ 9.34 ॥
द्वारादि भद्रके यत्तत् चक्राब्जेऽपि बहिस्तथा।
कल्पनीयं प्रयत्नेन दीक्षायां देशिकोत्तमैः॥ 9.35 ॥
येन रूपेण यल्लेख्यं विधिवच्चक्रमण्डलम्।
तद्वर्णेनैव रजसा तत्तत्पूरणमत्र तु॥ 9.36 ॥
रत्नैरोषधिभिर्लोहर्गन्धैर्बीजैश्च धातुभिः।
पत्रैश्च याज्ञिकैर्वृक्षै रजांस्येतानि कल्पयेत्॥ 9.37 ॥
मुक्त्यै न्यासोऽपसव्येन देवतीर्थेन तु श्रियै।
सर्वकामसमृद्ध्यर्थं कर्तव्योऽङ्गुलिभिस्तु सः॥ 9.38 ॥
ग्रन्थिवक्रकृशस्थूलनिम्नोन्नतविमिश्रणैः।
छिद्रैश्च बहवो दोषा रेखाच्छेदो न सर्वथा॥ 9.39 ॥
प्रमादाद्यत्र शिष्याणां मण्डलस्य तु लेखने।
ग्रन्थ्यादि स्यादतन्द्री तु समये कुशलो गुरुः॥ 9.40 ॥
कर्णिकाकेसरादीनि ललितानि प्रयोजयेत्।
सकृदर्पणमात्रेण न पुनः परिवर्तनैः॥ 9.41 ॥
कर्णिकामुच्छ्रितां कुर्यात् पत्ररेखाश्च सर्वतः।
कनिष्ठामध्यमाङ्गुष्ठमिता रेखास्त्रिधोच्छ्रिताः॥ 9.42 ॥
मुख्ये मध्येऽधमेऽब्जादिक्रमादूह्यश्च तत्क्षयः।
तन्मध्येषु रजोन्यासस्तत्तत्पादोच्छ्रितो भवेत्॥ 9.43 ॥
ग्रन्थ्यादिपरिहारेण प्रयत्नाद् देशिकोत्तमः।
सर्वत्र समरूपाणि रजांसि विकिरेत् क्रमात्॥ 9.44 ॥
कुड्ये पटे च तच्तक्रं लिखितं मानयोगतः।
पूजनीयं गृहे नित्यं क्षुद्रभूतादिशान्तये॥ 9.45 ॥
काले स्वयं तु सम्पश्येन्न तत् साधारणो जनः।
तस्यानुध्यानमात्रेण सर्वमेनो विशीर्यते॥ 9.46 ॥
तस्यान्तिके न तिष्ठन्ति वेताला ब्रह्मराक्षसाः।
इदं चक्रमुपारूढो विष्णुः सर्वजगत्प्रभुः॥ 9.47 ॥
पूज्यो भक्तैः प्रयत्नेन सदा सर्वार्थसिद्धये।
असम्भवे द्विहस्तादिमानेनाप्यर्चनादिषु॥ 9.48 ॥
चक्राब्जं वर्तयेद्विद्वानल्पं नानल्पसम्भवे।
असम्भवेऽपि स्थानानि नेम्यन्तानि न हापयेत्॥ 9.49 ॥
बहिरावरणं त्वल्पे कल्पनीयं यथेप्सितम्।
वर्णाः सितारुणाः पीताः पृष्णाः शान्त्यादिदेवताः॥ 9.50 ॥
योज्या युगेषु वेदेषु वर्णेषु च यथाक्रमम्।
युगान्तरानुलोमाङ्करूपं श्यामं तु पञ्चमम्॥ 9.51 ॥
पञ्चवर्णमयं विश्वं तन्मात्रा मूर्तिभेदतः।
विषयेन्द्रियभेदाच्च पञ्चधेदमवस्थितम्॥ 9.52 ॥
नादरूपेण विज्ञेयं व्याप्तमाद्यक्षरेण तु।
वर्णादिकल्पनातीतं तद्विष्णोः परमं पदम्॥ 9.53 ॥
व्यापिनी तु परा शक्तिररूपा सर्वतोमुखी।
अविमुक्तस्तया देवो द्रष्टव्यः साधकैः सदा॥ 9.54 ॥
अवर्मा सा समाख्याता सर्ववर्णा च साधकैः।
तद्बीजं सा परा माया प्रकृतिः सा गुणात्मिका॥ 9.55 ॥
एकैव सा परा सूक्ष्मा गुणभेदात् त्रिधा भवेत्।
तद्भेदाद्देवभेदोऽपि ब्रह्मोपेन्द्रहरात्मकः॥ 9.56 ॥
पञ्चधा सा भवेत् पश्चाद् यथा पूर्वं मयोदितम्।
तद्भेदानुविधायित्वं देवस्य श्रुतिदर्शनात्॥ 9.57 ॥
कल्पितं मुनिभिर्भेदास्त्वसंख्येया गुणोद्भवाः।
पुरुषं मण्डलं विद्यात् पद्मं हृदयमस्य तु॥ 9.58 ॥
बाह्वन्तरगतं मध्यं नाभिमूलेऽब्जनालकम्।
पदे द्वे पश्चिमद्वारे ज्ञातव्ये दक्षिणोत्तरे॥ 9.59 ॥
पद्मनालं नवच्छिद्रं विमलादिकलाश्रयम्।
तस्य मूलं भवेत् सूक्ष्मो बीजरूपो जनार्दनः॥ 9.60 ॥
आधारभूतं सर्वस्य महिम्नि स्वे व्यवस्थितम्।
पद्ममूलं विजानीयाद्यतोऽकारादयोऽभवन्॥ 9.61 ॥
मरुतः कण्टका नालं ग्रन्थिर्गुणमयो महान्।
बुद्धिभेदा दलान्यष्टौ धर्माधर्मादयस्ततः॥ 9.62 ॥
नालान्तेऽहंकृतोऽनन्तस्तन्मात्रेन्द्रियभूतभृत्।
पद्मोऽव्यक्तमकारादिभेदोऽर्केन्द्वग्निमण्डलम्॥ 9.63 ॥
बुद्धिगर्वमनोमात्रा दक्षिणादिदलाष्टकम्।
इत्यन्ये विमलाद्यष्टशक्तिजं चापरे विदुः॥ 9.64 ॥
अण्डमध्यगतं पद्मं पिश्वस्यायतनं महत्।
मायाण्डाधःकपालस्था विद्या चोर्ध्वं व्यवस्थिता॥ 9.65 ॥
पुरीततं हृदब्जस्य कल्पयेत् प्रतिवारणम्।
तद्बाह्यतः पुराकारो वैराजो देव उच्यते॥ 9.66 ॥
पीताच्छारुणकृष्णेषु श्यामे च क्ष्मादयः स्थिताः।
वसवोऽब्जदलाग्रस्था रुद्रादित्याश्च केसराः॥ 9.67 ॥
मरुतो दलसन्धिस्था रेणवो ग्रहतारकाः।
दलान्तराग्ररेखासु सरितः सागरास्तथा॥ 9.68 ॥
मेरुस्तु कर्णिकान्तस्थो बीजेषु मुनयः स्थिताः।
सूर्येन्द्वग्निगतो विष्णुस्तानतीत्य स्थितस्त्विषा॥ 9.69 ॥
तस्त्वरूपं परं नित्यं यः पश्यति स पश्यति।
आत्मानमन्तरात्मानं परमात्मानमित्यपि॥ 9.70 ॥
तस्य तुर्यं परं रूपं यः पश्यति स एव सः।
यक्षाद्याः कण्टका नाले रोमाण्यप्सरसः स्मृताः॥ 9.71 ॥
सूत्रं प्रजापतिः पत्रमूले प्राणादिवायवः।
चक्रमण्डलमध्यस्थ आत्मा सर्वेश्वरो हरिः॥ 9.72 ॥
निष्कलस्तु समाख्यातः परमे व्योम्नि संस्थितः।
एवं यो वेत्ति देवं तं मण्डलान्तर्गतं तथा॥ 9.73 ॥
स हित्वा वैष्णवीं मायामाप्नुयात् परमं पदम्।
अविधानेऽपि यो देवं मण्डलान्तः स्थितं यजेत्॥ 9.74 ॥
पश्येद् वा तेन देवेशः साक्षाद् दृष्टो भवेद् ध्रुवम्।
मण्डलेऽत्र भवेन्नित्यं सान्निध्यं सर्वरूपिणः॥ 9.75 ॥
Chapter - 10
अथ वक्ष्यामि संक्षेपाद् दीक्षापूजाद्यनुग्रहम्।
शिष्याधिकारसिद्ध्यर्थं निर्वाणार्थं च योगिनाम्॥ 10.1 ॥
दीयन्ते सिद्धयः सर्वाः क्षीयन्ते ग्रन्थयोऽप्यतः।
दीक्षात्वमेवं दीक्षाया धर्माधर्महृदात्मनः॥ 10.2 ॥
वसन्तग्रीष्मयोर्दीक्षा कार्या वा कार्त्तिकादिषु।
शरदाषाढयोश्चोक्तो वर्णजानामनुग्रहः॥ 10.3 ॥
जातिशौचगुणान् पूर्वं परीक्ष्य स्वयमादरात्।
शुद्धान् गुरुर्विजानीयात् स्रीशूद्रांस्तु विशेषतः॥ 10.4 ॥
ते तु भक्तिं ततो ज्ञात्वा कर्तव्या परमेश्वरे।
देववद् भक्तिमन्तोऽस्य कुर्युः शुश्रूषणं चिरम्॥ 10.5 ॥
भगवंस्त्वत्प्रसादेन संसारार्णवतारणम्।
इच्छामश्चैहिकीं सिद्धिं विशेषेण तपोधन!॥ 10.6 ॥
इति विज्ञाप्य सन्तोष्य दानानुगमसान्त्वनैः।
तदिच्छयोक्तसम्भारानाहरेयुर्यथाबलम्॥ 10.7 ॥
द्रव्याण्यानाय्य संशोध्य पूर्वोद्युरधिवास्य च।
द्वादश्यां दीक्षयेच्छिष्यानिष्ट्वा देवविधानतः॥ 10.8 ॥
देवालयनदीतीर्थगोष्ठारामादिसन्निधौ।
ब्राह्मणादिविभागेन यागस्थानं प्रकल्पयेत्॥ 10.9 ॥
दीक्षार्थिनस्तु यावन्तः सम्भवन्त्यत्र वैष्णवाः।
ते सर्वे सममेवात्र यतेरन्नात्मशक्तितः॥ 10.10 ॥
यत्नोऽर्थो वाऽधिको यस्य फलं तस्याधिकं तथा।
वित्तशाठ्यं तु यः कुर्यान्नरके स पतेद् ध्रुवम्॥ 10.11 ॥
वैष्णवैरभ्यनुज्ञातो दीक्षितैः कुशलैः सह।
स्नात्वाऽऽचम्य शुचिर्भूत्वा कृतिनित्यः स्वलंकृतः॥ 10.12 ॥
यागार्थं कल्पितां भूमिमाचार्यः स्वयमाविशेत्।
सञ्चिन्त्य मनसा देवं सकलं मण्डलात्मकम्॥ 10.13 ॥
संस्कृत्य विधिना वेदिं कलशन्यासमारभेत्।
नृसिंहजप्तान् सिद्धार्थान् फडन्तेन विकीर्य तु॥ 10.14 ॥
मूलेन विकिरान् जप्त्वा पञ्चगव्यं तु साधयेत्।
गोमूत्रं प्रणवेनैव विसर्गेण तु गोमयम्॥ 10.15 ॥
बिन्द्वन्तेन पयो दद्याद्दधि दीर्घेण विष्णुना।
घृतमाद्येन शुद्धेन विष्णुबीजेन पूजयेत्॥ 10.16 ॥
गोमूत्राद् गोमयं त्वर्धं क्षीरमष्टगुणं ततः।
दधि सप्तगुणं दद्यादाज्यं चैव चतुर्गुणम्॥ 10.17 ॥
त्रिबीजेन कुशैः प्रोक्ष्य मूलेन विकिरान् क्षिपेत्।
त्रिरेव प्राङ्मुखस्तिष्ठंस्तं ध्यात्वोत्तानपाणिना॥ 10.18 ॥
पीठन्यासक्रमादीशे कलशं कर्करीयुतम्।
सरत्नं निर्व्रणं रम्यं लोहजं सूत्रवेष्टितम्॥ 10.19 ॥
पूरयित्वाऽर्चयेद् विद्वान् गन्धपुष्पैर्यथाक्रमम्।
धर्माधर्मादिपीठस्थं पङ्कजं कलशे न्यसेत्॥ 10.20 ॥
क्षादिमूर्तिशिफानालसरः कण्टकरन्ध्रकम्।
धर्माद्यन्तःस्थयुग्ग्रन्थिसाधर्म्यादिनपुंसकम्॥ 10.21 ॥
तारांशत्रितयोपेतमात्मविद्यापरक्रमात्।
नादशक्तियुतं मध्ये तत्रावाह्यार्चयेत् प्रभुम्॥ 10.23 ॥
वर्धन्यां चासने सिद्धे तस्मादावाहनं भवेत्।
आज्येऽर्घ्ये च प्रणीतायां स्रुक्स्रुवेषु विशेषतः॥ 10.24 ॥
पञ्चगव्ये चरौ कुण्डे मण्डले विष्णुहस्तके।
पूजयित्वा तथा साङ्गं कलशस्थं तु केशवम्॥ 10.25 ॥
अग्रतोऽस्त्रेण वर्धन्या मण्डपस्य समन्ततः।
अच्छिन्नां पातयेद् धारामीशाद्यन्तं प्रदक्षिणम्॥ 10.26 ॥
पश्चात् तेनैव मार्गेण साधकः कलशं नयेत्।
संहृत्य विकिरान् सर्वान् विकीर्णान् पात्रगैः सह॥ 10.27 ॥
सर्वधान्यस्थितं कुम्भं पूजयेद् वर्धनीं तथा।
नवेनांशुकयुग्मेन वेष्टयेत् तं सितेन तु॥ 10.28 ॥
घटिकां च तथैकेन रक्षां चास्त्रेण कल्पयेत्।
विकिरेदस्त्रजप्तैश्च सर्वधान्यैः समन्ततः॥ 10.29 ॥
सम्मृज्य मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम्।
मूलेन मूर्तिभिश्चाग्नौ संस्कृते श्रपयेच्चरुम्॥ 10.30 ॥
क्षालिताज्याक्तसक्षीरानुखामारोप्य तण्डुलान्।
क्षालितान् समुपस्तीर्णान् न्यस्यालोड्यावघट्य च॥ 10.31 ॥
उपस्तीर्योदगुद्वास्य क्षालितं प्रोक्ष्य पूजयेत्।
कुर्याद् भस्मोर्ध्वपुण्ड्रं च तत्पार्श्वेऽष्टाक्षरेण तु॥ 10.32 ॥
उपस्तीर्य शुभे पात्रे क्षिप्तं प्रत्यभिघार्य च।
अभिघार्य क्षतं चाद्यं भागं देवाय कल्पयेत्॥ 10.33 ॥
द्वितीयं कलशस्थाय वह्निस्थाय तृतीयकम्।
घृताप्लुतं तु मूलेन जुहुयादाहुतित्रयम्॥ 10.34 ॥
तच्छेषेण बलिं पीत्वा पञ्चगव्यं चतुर्थकम्।
प्रणवेन पुरा पीत्वा पञ्चगव्यं चतुर्थकम्॥ 10.35 ॥
भागं शिष्यैः सहाश्नीयाद् गुरुः कायविशोधनम्।
सप्ताभिमन्त्रितं प्राच्यां निखातं द्वादशाङ्गुलम्॥ 10.36 ॥
भक्ष्यं तैर्दन्तकाष्ठं च क्षीरवृक्षजमव्रणम्।
शुभं परीक्षयेत् तेन शान्तिहोमोऽशुभे स्मृतः॥ 10.37 ॥
आचान्तः सकलो भूत्वा प्रार्थयेद् गुरुरच्युतम्।
प्रदक्षिणमुपावृत्य नमस्कृत्य प्रसाद्य च॥ 10.38 ॥
संसारार्णवमग्नानां पशूनां पाशमुक्तये।
त्वमेव शरणं देव! सदा त्वं भक्तवत्सल॥ 10.39 ॥
देवदेवानुजानीहि प्राकृतैः पाशबन्धनैः।
पाशितान् मोक्षयिष्यामि त्वत्प्रसादात् पशूनिमान्॥ 10.40 ॥
लब्धानुज्ञस्तु संशोध्य धारणाभिरुपोषितान्।
अस्त्रेण प्रोक्ष्य लिङ्गस्थान् पशून् स्वात्मनि योजयेत्॥ 10.41 ॥
सम्प्रोक्ष्य तं पुनर्देहं वाताग्निधृतमग्रतः।
भस्मकूटमिव ध्यात्वा प्लावयेद् वारिणाऽखिलम्॥ 10.42 ॥
उदकैकनिधिं सम्यग् ध्यात्वा संसारमण्डलम्।
कल्पयेत् पार्थिवीं शक्तिं ब्रह्माण्डैकस्वरूपिणीम्॥ 10.43 ॥
तन्मात्रासम्भृतां शुभ्रां वृत्तां बुद्बुदसन्निभाम्।
लिङ्गे संक्रामिते ध्यायेत् पुरुषं प्रणवात्मकम्॥ 10.44 ॥
विभक्तेन्द्रियसंस्थानं बुद्ध्याऽब्देनाण्डभेदनम्।
शकले रोदसी मध्ये प्रजापतिमिमं स्मरेत्॥ 10.45 ॥
प्रणवेन पुनः प्रोक्ष्य सकलीकृत्य देशिकः।
स्वहस्ते सकलं ध्यायेन्मण्डलादिकमादरात्॥ 10.46 ॥
चतुर्द्वारं पुरं तच्च ब्रह्मतीर्थाद्यनुक्रमात्।
मध्ये पद्मं यथाप्रोक्तं पत्राण्यङ्गुलयः स्मृताः॥ 10.47 ॥
कर्णिका तलमध्यं तु पर्वाण्यस्य तु केसराः।
अग्निस्थानं च मध्येऽत्र तन्मध्ये केशवः स्थितः॥ 10.48 ॥
मण्डलत्रितयस्यान्तः सूर्यकोटिसमप्रभम्।
तं ध्यात्वा पूजयेन्मध्ये गन्धपुष्पैर्यथाक्रमम्॥ 10.49 ॥
तं हस्तं दापयेन्मूर्ध्नि शिष्यस्य सुसमाहितः।
हस्ते विष्णुः स्थितो यस्मिन् विष्णुहस्तस्तु स स्मृतः॥ 10.50 ॥
जन्मान्तरसहस्रैस्तु यत् पापं सञ्चितं पुरा।
सर्वं तत् स्पर्शमात्रेण विलयं यात्यसंशयम्॥ 10.51 ॥
एवमेकं बहून् वापि जनयेद् ध्यानयोगतः।
एवं संशुद्धदेहं तं गन्धपुष्पैः प्रपूजयेत्॥ 10.52 ॥
करौ सम्मृज्य मूलेन नेत्रे बद्ध्वा सुवाससा।
नेत्रमन्त्रेण मेधावी सदशेनाहतेन तु॥ 10.53 ॥
शिष्यं पुष्पाञ्जलिधरं प्राङ्मुखं तु प्रवेशयेत्।
ब्राह्मणादिक्रमेणैव बहवश्चेद् विविक्षवः॥ 10.54 ॥
द्वारं तु दक्षिणं श्रेष्ठं मण्डपस्य प्रवेशने।
उत्तरादीनि चत्वारि विप्रादीनां विशेषतः॥ 10.55 ॥
पुरप्रवेशनं कार्यं शिष्यकामानुरूपतः।
प्रजाबलार्थसौभाग्यं रत्नान्नविजयस्त्रियः॥ 10.56 ॥
धृतिमोक्षायुरारोग्यं पशुपुत्रसुखादि च।
पूर्वादिषु प्रवेशे स्यात् करं दत्त्वा प्रवेशयेत्॥ 10.57 ॥
कृतप्रदक्षिणं शिष्यं क्रमाद् वन्दितदिक्पतिम्।
देवाभिमुखमानीय प्राड्मुखं स्थापयेत् ततः॥ 10.58 ॥
तूष्णीं स गुरुणोद्दिष्टो यतवाक्कायमानसः।
जानुद्वयेन भूमिं तु विष्टभ्य नतिपूर्वकम्॥ 10.59 ॥
ध्यात्वा देवं हरिं भक्त्या सूर्यकोटिसमप्रभम्।
लक्ष्म्या समन्वितं सौम्यमष्टबाहुमलङ्कृतम्॥ 10.60 ॥
समाहितः क्षिपेन्माल्यं गुर्वदेशप्रतीक्षया।
तन्नेत्रावरणं मुक्त्वा पुष्पपातं विलोकयेत्॥ 10.61 ॥
पुष्पपातानूरूपेण मूर्तिनाम्ना तमाह्वयेत्।
अमन्त्रमर्चनं तत्र कारयेद् देवमूर्तिषु॥ 10.62 ॥
देवान्तं ब्राह्मणस्योक्तं वर्मान्तं क्षत्रियस्य तु।
गुप्तान्तं नाम वैश्यस्य शूद्रे दासान्तमुद्दिशेत्॥ 10.63 ॥
स्त्रीणां देवीति नाम स्यात् सा मूर्तिस्तस्य कामदा।
दृष्टमात्रे प्रणश्यन्ति मण्डले पापसञ्चयाः॥ 10.64 ॥
धूपं दीपं क्रमाद् दत्त्वा निवेद्यं चात्र कल्पयेत्।
प्रकृत्यादिपृथिव्यन्तं साधिभूताधिदैवतम्॥ 10.65 ॥
अध्यात्मसंहृतं सर्वं क्रमाच्छिष्यतनौ न्यसेत्।
दक्षिणेनोपवेश्यैनं दर्भपाणिं तु वाग्यतम्॥ 10.66 ॥
अन्वारब्धेन होतव्यमाचार्येण विजानता।
अग्नौ सम्पातविधिना तत्त्वानां तु शतं शतम्॥ 10.67 ॥
दत्त्वा पूर्णाहुतिं सर्वं कुम्भेशाय निवेदयेत्।
करणीं कर्तरीं चाथ रजांसि घटिकां तथा॥ 10.68 ॥
यच्चान्यदुपयोगि स्यात् सर्वं तद् वायुगोचरे।
साङ्गेन मूलमन्त्रेण परामृश्याधिवासयेत्॥ 10.69 ॥
ततः शयीत तैः शिष्यैः कुशानास्तीर्य तं स्मरन्।
दुःस्वप्नादिषु शान्तिः स्यान्नान्यथा सिद्धिरैहिकी॥ 10.70 ॥
प्रातः स्नात्वा विसृज्येशं मण्डले पुनरर्चयेत्।
प्रवालमुक्ताभारणहेमपुष्पैर्मनोहरैः॥ 10.71 ॥
निवेद्यैर्विविधैश्चाग्निं सन्तर्प्याहूय तान् क्रमात्।
पूर्ववत् कृतदेवार्चानग्रे पद्मासनस्थितान्॥ 10.72 ॥
सम्प्रोक्ष्य सकलीकृत्य विष्णुहस्तेन के स्पृशेत्।
प्रकृत्यादिपृथिव्यन्तां सृष्टिं ध्यात्वाऽखिलां क्रमात्॥ 10.73 ॥
तन्मात्रभूतां तद्देहे जीवेन समतां गताम्।
तारेणात्मनि संयोज्य ध्यात्वा समरसीकृतम्॥ 10.74 ॥
जीवं तद्देहकालाग्निशक्तियोनिसमर्पणात्।
गर्भं जन्माधिकारं च भोगं नाशं च पञ्चभिः॥ 10.75 ॥
अष्टाष्टाहुतिर्भिर्हुत्वा नरके च तथा पुनः।
पाताले भुवि शंशोध्य स्थावरत्वादिजन्मभिः॥ 10.76 ॥
विलोमं शूद्रविट्क्षत्रब्राह्मणत्वेषु योजयेत्।
क्रियाः षोडश मूलेन पाकयज्ञादिभिः क्रमात्॥ 10.77 ॥
शोधयित्वाऽश्वमेधान्तैः कल्पयेदन्त्यमाश्रमम्।
कृत्वाऽन्त्येष्टिं पिशाचादियोन्यष्टकविभागतः॥ 10.78 ॥
त्रिसुरान्तं क्रमान्नीत्वा नाशयेत् कर्मबन्धनम्।
ततः सम्प्रोक्ष्य तद्देहमाहुतीनां शतेन तम्॥ 10.79 ॥
सृष्टीश्वरमुदासीनं पूर्णाहुत्या च कल्पयेत्।
मूलजप्तेन शुक्लेन रजसा हृदि ताडयेत्॥ 10.80 ॥
वियुङ्क्ष्वहुंफडन्तेन नाम्ना तत्त्वाक्षरादिना।
विश्लेष्यायाहिहामन्तबीजाद्यामन्त्रितेन च॥ 10.81 ॥
आदाय समतां नीत्वा युङ्क्ष्वहुंफडिति क्रमात्।
प्रकृत्याकृत्य तेनैव संहारान्तेन होमयेत्॥ 10.82 ॥
वह्नावखिलतत्त्वानामालयेऽव्याकृते हरौ।
लीयमानं क्रमात् सर्वं तत्त्वाध्वानं स्मरेद् बुधः॥ 10.83 ॥
शुद्धं परेण तत्त्वेन पूर्णाहुत्या च सन्धयेत्।
एवं तत्त्वानि संशोध्य प्रकृतिं परमात्मनि॥ 10.84 ॥
विलाप्य ज्ञानयोगेन दद्यात् पूर्णाहुतिं बुधः।
निर्वामे प्रकृतिं दग्ध्वा सन्दध्यात् पूर्णया परे॥ 10.85 ॥
अधिकारे समादध्यान्नरं प्राकृतमीश्वरे।
इष्ट्वा देवमशक्तौ तु सर्वोपकरणान्वितम्॥ 10.86 ॥
सद्योऽधिवास्य द्वादश्यां दीक्षयेत् स्थण्डिलेऽपि वा।
अष्टाष्टाहुतिभिः पूर्वं क्रमात् तत्त्वानि शोधयेत्॥ 10.87 ॥
मनसो वासना येयं सा मुक्तेः परिपन्थिनी।
तच्छुद्ध्या शुध्यति क्षेत्री दुष्टया दूष्यतेच सः॥ 10.88 ॥
मनसो वासनोच्छेदः कर्मबन्धविमोचनात्।
निर्बीजकरणं तस्य शोधनं समुदाहृतम्॥ 10.89 ॥
गुरुणा योजितो नित्यं योगी योगं समभ्यसेत्।
न सिध्यति विना तेन योगो नास्त्यत्र संशयः॥ 10.90 ॥
Chapter - 11
अथ वक्ष्यामि संक्षेपाद् दीक्षितस्याभिषेचनम्।
पुत्रको देशिको वाऽपि येनाचार्यत्वमृच्छति॥ 11.1 ॥
प्रथमं समये दीक्षा तन्त्रज्ञाने ततोऽर्चने।
तिस्रो ह्येताः प्रयोक्तव्या दीक्षा धर्मविवृद्धये॥ 11.2 ॥
आलिख्य मण्डलं पूर्वं परिवारसमायुतम्।
दर्शयेच्छिष्यमाचार्यो यमसौ समयी स्मृतः॥ 11.3 ॥
मण्डले देवमाराध्य पुष्पाञ्जलिपुरस्सरम्।
दर्शयेद् विधिना यं तु स भवेत् तन्त्रदीक्षितः॥ 11.4 ॥
अग्नौ हुत्वाऽखिलान् मन्त्रान् पूजयित्वा च तं प्रभुम्।
दर्शयेद् विधिना यं तु स ज्ञेयो देशिकोऽर्चकः॥ 11.5 ॥
पुत्रकोऽधीत्य तन्त्राणि द्वितीयं मन्त्रमाप्नुयात्।
तृतीयं पूजयेद् देवमित्येवं त्रिविधः क्रमः॥ 11.6 ॥
एकेनैव प्रयोगेण तिस्रो दीक्षा ह्यनुग्रहे।
समयग्रन्थपूजार्थाः कर्तव्यस्तत्त्ववेदिना॥ 11.7 ॥
पूर्वं कृत्वा तु संस्कारं गर्भाधानादिकं क्रमात्।
व्रतबन्धान्तमाचार्यस्तत्त्वेन परमेण वै॥ 11.8 ॥
एकैकं दशहोमेन ततस्तत्त्वानि संहरेत्।
वेकारादीनि तत्त्वानि पञ्चभूतात्मकानि वै॥ 11.9 ॥
ध्यात्वा शिष्यशरीरे तु षष्ठं क्षेत्रज्ञलक्षणम्।
होमेन शोधयित्वाऽन्ते पूर्णया योजयेत् परे॥ 11.10 ॥
पञ्चभूतस्वरूपेण तत्र माया व्यवस्थिता।
षष्ठं तु परमं तत्वमबद्धं परमार्थतः॥ 11.11 ॥
न स्वभावस्य विच्छित्तिर्भवेदग्न्यौष्ण्यवद् यतः।
तस्माद् घटादिवद् बद्धो व्योमवत् परमं पदम्॥ 11.12 ॥
एवं ज्ञात्वा तु मेधावी व्यतिरिक्तं निरञ्जनम्।
घटवद् यः स्मृतो बन्धस्तं होमेन विनाशयेत्॥ 11.13 ॥
पृथिव्यादि समारभ्य वेकाराद्यैस्तु पञ्चभिः।
एकैकं शतहोमेन क्रमात् तत्त्वानि शोधयेत्॥ 11.14 ॥
पञ्च पूर्णाहुतीर्हुत्वा बन्धच्छेदं च भावयेत्।
क्षेत्रज्ञं शतहोमान्ते मायाबन्धविवर्जितम्॥ 11.15 ॥
ध्यायन् पूर्णाहुतिं दद्यान्मक्तिदीक्षेयमुत्तमा।
समयादिविभागेन कर्म यस्य यदीरितम्॥ 11.16 ॥
तदेवास्य पुनः कार्यं प्रायश्चित्तविधावपि।
अब्देऽब्देऽपि च कर्तव्या दीक्षा शिष्येष्वनुग्रहात्॥ 11.17 ॥
यागैर्द्वादशभिर्यस्तु दीक्षितोऽसौ हरिः स्वयम्।
यं तु शिष्यं गुणोपेतमाचार्यं कर्तुमिच्छति॥ 11.18 ॥
तस्याभिषेचनं कुर्याद् विधिनाऽनेन मन्त्रवित्।
राज्ञोऽभिषेचनं कुर्याद् विधिनाऽनेन मन्त्रवित्॥ 11.19 ॥
साधकस्यानपत्यस्य दरिद्रस्य च रोगिणः।
पूर्ववन्मण्डलं कृत्वा सर्वलक्षमलक्षितम्॥ 11.20 ॥
समभ्यर्च्यात्र देवेशं हुत्वाऽग्नौ च यथाविधि।
कलशान् स्थापयेदग्रे निर्दोषान् सूत्रवेष्टितान्॥ 11.21 ॥
पञ्चरत्नसमायुक्तान् सहिरण्यान् सपल्लवान्।
वेष्टितान् वस्त्रयुग्मैस्तु चतुरो दिक्ष्वनुक्रमात्॥ 11.22 ॥
मध्यतः पञ्चमं चैव सकूर्चं सापिधानकम्।
प्रणवं कलशे पूर्वे सर्वमन्त्रात्मकं न्यसेत्॥ 11.23 ॥
अकारं दक्षिणे चैव सर्वतन्त्रात्मकं बुधः।
पश्चिमे विष्णुगायत्रीमधिकारमयीं तथा॥ 11.24 ॥
उत्तरेऽपि न्यसेद् विष्णुं सर्वगं ज्ञानविग्रहम्।
मध्यमे वैष्णवं बीजं शब्दब्रह्म सनातनम्॥ 11.25 ॥
ततस्तानर्चयेत् सर्वान् गन्धपुष्पाक्षतैः क्रमात्।
योगाधिकारतन्त्रार्थसर्वविद्यासमन्वितान्॥ 11.26 ॥
यथोक्तमातृकाब्जस्थतारादिज्योतिषोऽखिलान्।
मन्त्रतन्त्रादिरूपेण ध्यात्वा देवं पृथक् क्रमात्॥ 11.27 ॥
सहस्रावर्तितं कुर्याच्छतावर्तितमेव वा।
एकैकं कलशं त्वेवमाचार्यः सुसमाहितः॥ 11.28 ॥
ततो होमं च कुर्वीत यथावत् साधकेश्वरः।
उपसंहारमार्गेण निर्वाणाख्यं यथोदितम्॥ 11.29 ॥
एवं योगविधानेन कृत्वा तत्राधिवासनम्।
अभिषेकं ततः सम्यक् कुर्याद् वै साधकस्य तु॥ 11.30 ॥
मण्डपस्योत्तरे पार्श्वे पूर्वं कृत्वा सुशोभनाम्।
एकहस्तां द्विहस्तां वा चतुर्हस्तां तु वेदिकाम्॥ 11.31 ॥
तालोच्छ्रितां चतुःस्तम्भे मण्डपे छदनान्विते।
वितानवस्त्रसञ्छन्ने स्रग्दामादिविभूषिते॥ 11.32 ॥
अलंकृते यथाशोभं लाजकुम्भैश्चतुर्दिशम्।
लिखित्वा स्वस्तिकं मध्ये चतुरश्रं सुशोभनम्॥ 11.33 ॥
सितेन रजसा तत्र श्रीपर्णीद्रुमसम्भवम्।
भद्रपीठं तु संस्थाप्य चतुरश्रं नवं शुभम्॥ 11.34 ॥
अनन्तं साम्बुजं तस्मिन् धर्मादिमयमर्चयेत्।
ततोऽग्रे प्राङ्मुखः स्थित्वा ध्यात्वा पीठगतं प्रभुम्॥ 11.35 ॥
मनसा पूजयित्वा तु कार्यमेनं निवेदयेत्।
भगवन्! दीक्षितस्योक्तमाचार्यत्वेऽभिषेचनम्॥ 11.36 ॥
तत् करिष्याम्यनुज्ञातस्त्वया सर्वार्थसिद्धये।
लब्धानुज्ञस्ततः कुर्यादभिषेकं यथाविधि॥ 11.37 ॥
सृष्टिक्रमेण वै ध्यात्वा तत्त्वाध्वानं सुभावितः।
प्रवेशयेद् गुरुः शिष्यं प्राङ्मुखं शुक्लवाससम्॥ 11.38 ॥
ध्यात्वाऽनन्तासनस्थं तमर्चितं विष्णुमव्ययम्।
आनीय कलशानत्र स्वासु दिक्षु निवेशयेत्॥ 11.39 ॥
स्त्रीभिः सुस्वरकण्ठाभिर्गीयमानेऽथ मङ्गले।
शङ्खतूर्यनिनादेन नीराजनपुरस्सरम्॥ 11.40 ॥
ततोऽभिषेचयेत् सार्धं ब्रह्मघोषेण देशिकः।
पूर्वोक्तैरेव मन्त्रैस्तु ध्यात्वा मन्त्रात्मकं जलम्॥ 11.41 ॥
प्रतिकुम्भं तथाऽभ्यर्च्य धूपयित्वा यथाक्रमम्।
चतुर्भिः पञ्चमेनाथ परं ज्ञानात्मकेन च॥ 11.42 ॥
नीराजनं पुनः कृत्वा पूजयेद् गन्धपुष्पकैः।
परिधाप्य नवे वस्त्रे शोभने तमुपागतम्॥ 11.43 ॥
आचान्तमुपवेश्याग्रे बृसीं दत्त्वा स्वयं गुरुः।
सोऽपि प्रणम्य देवेशं तस्यामासीत वाग्यतः॥ 11.44 ॥
सकलीकृत्य मन्त्रैस्तं पूजयेत् पूर्ववत् पुनः।
योगपट्टकमुष्णीषं चक्रं चैवाङ्गुलीयकम्॥ 11.45 ॥
अधिकारं स्वकीयं च तत्त्वं चास्मै निवेदयेत्।
दद्याच्च वैष्णवं ज्ञानं संसारच्छेदकारणम्॥ 11.46 ॥
श्रावयेत् समयांश्चैतांस्तन्त्रोक्तान् देशिकोत्तमः।
अनुग्राह्यास्त्वया शिष्या वैष्णवाः शुभचारिणः॥ 11.47 ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा योषित एव वा।
अन्यदेवरता ये तु चातुर्वर्ण्याच्च ये बहिः॥ 11.48 ॥
डाम्बिकाः पापकर्माणो देवब्राह्मणनिन्दकाः।
तेषामनुग्रहो नैव कर्तव्यो वैष्णव! त्वया॥ 11.49 ॥
समीपे तु गुरुर्यत्र न कर्तव्या स्वतन्त्रता।
बहुयोजनमात्रे तु आचार्यो यत्र तिष्ठति॥ 11.50 ॥
तत्र दीक्षा न कर्तव्या अनुक्तेन त्वयाऽनघ!।
गुरूपूजा च कर्तव्या यथा विष्णोस्तथा त्वया॥ 11.51 ॥
व्याख्यानादिषु कालेषु स्मर्तव्यश्च सदा गुरुः।
न कदाचित् त्वया कार्यमप्रमाणं गुरोर्वचः॥ 11.52 ॥
कृते प्रमादे कर्तव्यं प्रायश्चित्तं तदाज्ञया।
न कदाचिच्च कर्तव्यो लोकोद्वेगस्त्वयानघ!॥ 11.53 ॥
वैष्णवानां च वैभाष्यं यच्च लोकेऽपि गर्हितम्।
प्रतिपत्तिश्च वृद्धानां कर्तव्या शास्रतस्त्वया॥ 11.54 ॥
अभिमानो न कर्तव्यः स्वप्नेष्वपि कदाचन।
समयाश्च त्वया वत्स! आचाराश्च मयोदिताः॥ 11.55 ॥
पालितव्याः प्रयत्नेन यावज्जीवं ममाज्ञया।
आचार्यो वैष्णवे तन्त्रे त्वं भव प्राणिनां प्रियः॥ 11.56 ॥
शिष्यास्त्वामुपसर्पन्तु तेषु वर्तस्व शास्त्रवत्।
नार्थलोभेन वर्तेथा नाशया न भयेन वा॥ 11.57 ॥
पञ्चरात्रे विशेषेण देवं च सततं स्मर।
अयनादिषु कालेषु यष्टव्यो विष्णुरव्ययः॥ 11.58 ॥
गुरवः पूजनीयाश्च मनोवाक्कायकर्मभिः।
वृथषा हिंसा न कर्तव्या भर्तव्याश्च स्वशक्तितः॥ 11.59 ॥
दीनानाथास्तथान्धाश्च पूज्या विप्राश्च सर्वदा।
उद्युक्तः सर्वदा तिष्ठेन्नित्यकर्मण्यतन्द्रितः॥ 11.60 ॥
स्वल्पमह्ना जपं कुर्यात् स्वल्पमग्नौ च होमयेत्।
स्वल्पं वै ध्यानमातिष्ठेत् सत्रमेतत् सदा गुरोः॥ 11.61 ॥
एवमुक्त्वा गुरुः शिष्यं देवाग्रस्थं सुचेतसम्।
तन्त्रं चैवाखिलं दद्यात् साधके मन्त्रमेव तु॥ 11.62 ॥
देवस्य पुरतो गन्धपुष्पाक्षतयुतैर्जलैः।
चुलुकं पूरयित्वा तु मन्त्रमुच्चार्य तत्करे॥ 11.63 ॥
प्रदद्यात् सिध्यतां शीघ्रं तवेष्टं मन्त्रजं फलम्।
इत्युक्तः स्वयमुत्थाय कॉत्वाऽचार्यं प्रदक्षिणम्॥ 11.64 ॥
आसने स्थापयित्वाऽस्य पादौ प्रक्षाल्य भक्तितः।
तोषयेद् धनधान्येन शक्तिभक्तिवशाद् गुरुम्॥ 11.65 ॥
परितोष्य तु पाणिभ्यामुपसङ्गृह्य पादयोः।
प्रार्थ्य पूजय देवं त्वमित्यनुज्ञापयेत् गुरुम्॥ 11.66 ॥
लब्धानुज्ञः स शिष्योऽपि ततः प्रभृति भूजयेत्।
एवं तेनाननुज्ञातो यः पूजां कुरुते नरः॥ 11.67 ॥
न तस्य पूजया सिद्धिरिति शास्त्रस्य निश्चयः।
तस्मान्मण्डलमध्यस्थं देवमाचार्यपूजितम्॥ 11.68 ॥
दृष्ट्वाऽनुज्ञानं गुरोः प्राप्य पूजयेत् पुरुषोत्तमम्।
एवं यो वैष्णवीं दीक्षां कुर्यात् कारयिता च यः॥ 11.69 ॥
तावुभौ गच्छतः स्वर्गं नरकं च विपर्यये।
विष्वक्सेनं च यागान्ते दिश्यैशान्यां प्रपूजयेत्॥ 11.70 ॥
पिङ्गश्मश्रुं विवृत्ताक्षं गदापाणिं चतुर्भुजम्।
शङ्खचक्रधरं देवं जगत्संरक्षणे स्थितम्॥ 11.71 ॥
तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत्।
वारुणे मण्डले साङ्गं शिष्टद्रव्यैस्तु पूजयेत्॥ 11.72 ॥
विसृज्योक्तेन विधिना मण्डलस्थमधोक्षजम्।
निर्माल्यं सकलं तस्मै समाहृत्य निवेदयेत्॥ 11.73 ॥
तस्य विं वं नमः ष्वां वीं स्वाहेति च यथाक्रमम्।
क्सें वषट् तथा विष्वं वैं हुमित्यपि कल्पयेत्॥ 11.74 ॥
क्नेन वः फडितीमानि पञ्चाङ्गानि तदर्चने।
प्रणीतस्थं जलं सिक्त्वा प्रस्तरोपरि तेन तु॥ 11.75 ॥
आत्मानं सह शिष्यैस्तु प्रोक्ष्याग्निं च विसर्जयेत्।
विष्वक्सेनं विसृज्यास्मै निर्माल्यं सकलं ततः॥ 11.76 ॥
पूर्वदत्तं जलेऽगाधे धृतमन्यैर्निधापयेत्।
वैष्णवान् पूजयेच्छक्त्या ब्राह्मणांस्तु विशेषतः॥ 11.77 ॥
अनिवारितमन्नाद्यं सार्वजन्यं च कारयेत्।
एवमाचार्यतां प्राप्तौ दीक्षितो धर्मवत्सलः॥ 11.78 ॥
वर्णाश्रमरतो भक्तो विनीतः समयान्वितः।
एककालं द्विकालं वा त्रिकालं वाऽर्चयेद्धरिम्॥ 11.79 ॥
शिष्यानथानुगुह्णीयाद् दीक्षापूजाभिषेचनैः।
स्थापनादिक्रियायां च तथाऽऽचार्यत्वमर्हति॥ 11.80 ॥
दीक्षान्ते चाभिषेकान्ते शक्त्या सम्पूज्य वैष्णवान्।
प्रभातेऽवभूथं गच्छेद् यत्र तीर्थं परं भवेत्॥ 11.81 ॥
Chapter - 12
अथ वक्ष्यामि संक्षेपाद् यागभूमेस्तु लक्षणम्।
यत्रेष्ट्वा विधिवद् देवं लभ्यन्ते सर्वसिद्धयः॥ 12.1 ॥
त्रिधोत्तमाधमा मध्या चतुर्धा जातिभेदतः।
सुपद्मा भद्रिका पूर्णा धूम्रेत्यपि तथैव भूः॥ 12.2 ॥
बहुपांसुरशुष्काम्बुः क्षिप्रं व्रीह्यादिरोहणा।
प्रदक्षिणजला श्रेष्ठा समा शीतोष्णकालयोः॥ 12.3 ॥
नदी पूर्ववहा यत्र क्षीरपुष्पफलद्रुमाः।
रमन्ते यत्र गोमर्त्याः समा स्निग्धा च सोत्तमा॥ 12.4 ॥
शङ्खाभ्रादिस्वरा चेष्टा सवर्णा सर्ववर्णिनाम्।
अलाभे कृत्रिमैवं स्यादधमा स्यादतोऽन्यथा॥ 12.5 ॥
सर्वप्लवा च मध्योक्ता लक्षणैश्च शुभाशुभैः।
चतुरश्राष्टषड्भागापादाधिकसमायता॥ 12.6 ॥
विप्रादीनां स्मृता भूमिः सर्वेषां वोत्तमस्य या।
सिता रक्ता च पीता च कृष्णा विप्रादिभूस्तथा॥ 12.7 ॥
मधुरा र कषाया च तिक्ता च कटुका क्रमात्।
घृतासृक्चरुविड्गन्धा बहुवर्णा तु वर्जिता॥ 12.8 ॥
धान्यपूर्णामकुम्भस्थवर्धमानाज्यवर्त्तिभिः।
सितादिभिर्निशि ज्ञेया प्रज्वाल्यावृत्य दर्शनात्॥ 12.9 ॥
खाते रात्र्युषितैः पुष्पैस्तथा ज्ञेया सितादिभिः।
वल्मीकशर्करारन्द्रतुषाङ्गारास्थिभस्मभिः॥ 12.10 ॥
केशकर्दमकीटैश्च संयुक्तां वर्जयेन्महीम्।
धूम्रतारौक्ष्यदौर्गन्ध्यकाठिन्यैश्चाशुभा मही॥ 12.11 ॥
अदिक्स्था जलहीना च कुटिला द्विगुणायता।
वृत्ता पञ्चत्रिषट्कोणा चार्धचन्द्रा च शूर्पिका॥ 12.12 ॥
पीलुशेल्वक्षवेण्वर्कस्नुक्पिशाचकटुद्रुमैः।
श्येनगृध्रर्क्षगोमायुसूकरध्वाङ्क्षवानरैः॥ 12.13 ॥
रक्षोयमाग्निवाताप्यनिम्नत्वेन च निन्दिता।
मध्यनिम्ना सगर्भा च प्रतिलोमा च नेष्यते॥ 12.14 ॥
कुशैः शरैश्च दूर्वाभिः काशैश्च ब्राह्मणादिभूः।
पुष्पैर्दीपैश्च विज्ञेया नत्वा विज्ञाप्य तं प्रभुम्॥ 12.15 ॥
निमित्तं ब्रूहि मे देव कल्प्रोक्तं द्विजादिकम्।
वर्णार्यं तु प्रयुक्ते तु ततो वर्तिचतुष्टये॥ 12.16 ॥
मुहूर्ते गमिते यस्य दीपो ज्वलति तस्य भूः।
वास्तु संकीर्णमिष्टं च सर्वेषा सर्वभासनात्॥ 12.17 ॥
न्यग्रोधोदुम्बराश्वत्थप्लक्षाः पूर्वादयः सुभाः।
एते व्यस्ताः समस्ता वा शस्ता वामास्त्वकामदाः॥ 12.18 ॥
नादेयं तु जलं श्रेष्ठं दिक्षु सर्वास्ववस्थितम्।
कूपमैन्द्रैशसौम्येषु न चैकसलिलं शुभम्॥ 12.19 ॥
जलाद्रिवृक्षगुल्माश्च पूर्वादिषु शुभाः स्थिताः।
शिग्रुनिम्बादयश्छेद्यास्तत्र हस्तशतान्तरे॥ 12.20 ॥
बहिःस्थिता न दोषाय मध्ये कार्यास्तु वा शुभाः।
द्विगुणं गृहवक्षोच्चं त्यक्त्वा दोषाय न स्थिताः॥ 12.21 ॥
गृहोच्चद्विगुणाद् बाह्ये फलपुष्पद्रुमास्तथा।
बकुलाशोकपुन्नागनागचन्दनचम्पकाः॥ 12.22 ॥
बिल्वाम्रपनसाद्याश्च पलाशाद्याश्च शोभनाः।
अन्तस्सारं बहिस्सारं निस्सारं सर्वसारकम्॥ 12.23 ॥
चतुर्धा स्थावरं तेषामसारं न गृहाग्रतः।
कदल्यादि बहिर्धार्यं गृहपृष्ठान्तपक्षतः॥ 12.24 ॥
सर्वसारं तु सर्वत्र चिञ्चादि परिकीर्त्तितम्।
अन्तस्सारं तथा विद्याद् बहिस्सारमसारवत्॥ 12.25 ॥
अपि सौवर्णकं वृक्षमुपगेहं न धारयेत्।
गुल्मवल्ल्योषधीनां तु नैकान्तो विधिरीदृशः॥ 12.26 ॥
चन्दनागरुकर्पूरकदम्बतिलकार्जुनैः।
क्रमुकैर्नालिकेरैश्च कुशैर्दर्भैः समावृता॥ 12.27 ॥
पद्मोत्पलवनाकीर्णा तोयाढ्यैन्द्रोरप्लवा।
केतकीक्षुसमाकीर्णा सुपद्मा शान्तिदा मही॥ 12.28 ॥
नदीसागरपर्यन्ततीर्थायतनमाश्रिता।
क्षीरवृक्षसमाकीर्णा फलवृक्षसमाकुला॥ 12.29 ॥
उद्यानोपवनोपेता फुल्लगुल्मलताकुला।
पश्चिमे याज्ञिकैर्वृक्षैर्व्रीहिक्षेत्रेण दक्षिणे॥ 12.30 ॥
भद्रिका भूमिराख्याता सुखदा तत्र यज्वनाम्।
किंशुकाशोकबकुलैरङ्कोलैश्चैव निम्बकैः॥ 12.31 ॥
खदिरै रोहितैः प्लक्षैर्माधवीचम्पकासनैः।
कुलस्थतिलनिष्पावकोद्रवैश्च समाकुला॥ 12.32 ॥
गिरिपार्श्वाश्रिता चैव गिरेः शिखरमाश्रिता।
अप्रभूतोदका भूमिः सा पूर्णेति च पुष्टिदा॥ 12.33 ॥
पीलुवेणुवनाकीर्णा स्नुहिश्लेष्मातकान्विता।
विभीतकार्कसङ्कीर्णा कठिना शर्करान्विता॥ 12.34 ॥
श्येनगृध्रर्क्षगोमायुसूकरध्वाङ्क्षसङ्कुला।
सोषरा गर्भयुक्ता च क्षयदा धूम्रिका भवेत्॥ 12.35 ॥
एवं परीक्ष्य यत्नेन गन्धवर्णरसादिभिः।
गुल्मादि परिशोध्यात्र कर्षयेल्लाङ्गलैः शुभैः॥ 12.36 ॥
पञ्चधा दशधा वाऽपि सर्वधान्यानि वापयेत्।
कर्षयित्वाऽथ भूयोऽपि कुर्यात् पुष्फलान्विताम्॥ 12.37 ॥
अत्यन्तोपहता या तु तस्याः शुद्धिरथोच्यते।
शतशः कर्षयित्वा तु गोकुलं तत्र वासयेत्॥ 12.38 ॥
ततो वर्षोषिते कृष्ट्वा तिलादीन्यत्र वापयेत्।
यदा सस्येषु पुष्पाणि फलानि च भवन्ति हि॥ 12.39 ॥
तदा कृष्टा पुनर्भूमिः शुद्धिमृच्छत्यसंशयम्।
भूतकूरबलिं तत्र पूर्वं दत्त्वा विचक्षणः॥ 12.40 ॥
यावत् प्राकारपर्यन्तं तावत् कुर्यात् परिग्रहम्।
भूतानि राक्षसा वाऽपि येऽत्र तिष्ठन्ति केचन॥ 12.41 ॥
ते सर्वे ह्यपगच्छन्तु स्थानं कुर्यामहं हरेः।
इत्यनुज्ञाप्य भूतादींस्ततस्तं विधिमाचरेत्॥ 12.42 ॥
इन्द्रादीशावसानं तु शङ्कुद्विगुणवेष्टनात्।
निमित्तैः शोभनैर्मन्त्री कुर्यात् सूत्रप्रसारणम्॥ 12.43 ॥
पुन्नामैकतरूद्भूता निर्घृणाः शङ्कवो दृढाः।
प्राङ्मुखेनाष्टधा ताड्याः पूजिता लोहमुद्गरैः॥ 12.44 ॥
खात्वा पुरुषमात्रं तु जलाश्मान्तमथापि वा।
ततो न्यस्य घटं मध्ये विधिना पूर्णमर्चितम्॥ 12.45 ॥
सरत्नं धान्यराशिस्थं मुहूर्त्ते मङ्गलान्विते।
सुमृद्भिः खातमापूर्य हस्तपूरं ततोऽश्मभिः॥ 12.46 ॥
पादोनं प्लावयित्वाऽद्भिः पालाशाश्वत्थमुद्गरैः।
आकोट्य घर्षयित्वा च सुदृढं कारयेत् तलम्॥ 12.47 ॥
द्वारदेशेऽर्चयेद् देवं स्थण्डिलेऽग्निं च तर्पयेत्।
चतुरश्रं समं कृत्वा तत्र वास्तुं च तर्पयेत्॥ 12.48 ॥
सूत्रपातं पुनः कुर्यादेकाशीतिपदं यथा।
सुसमः सुखदो वास्तुर्विषमो न सुखावहः॥ 12.49 ॥
दध्यक्षताज्यपुष्पाम्बुहेमरत्नैः प्रदक्षिणम्।
मङ्गलार्थं लिखेत् पूर्वं नाङ्गुल्याद्यैः कदाचन॥ 12.50 ॥
ईशमूर्ध्नि निर्ऋत्यङ्घ्रौ तत्रोत्तानशये स्थितान्।
कुशपुष्पाक्षतान्नाद्भिर्गन्धपुष्पैः प्रपूजयेत्॥ 12.51 ॥
ब्रह्मा नवसु मध्ये स्याद् दिक्षु षट्के द्विकेऽन्यतः।
द्वात्रिंशद् बहिरीशादिक्रमादर्च्यास्तु देवताः॥ 12.52 ॥
ब्रह्मा मध्यपदे पूज्यः तत्प्राच्यामार्यकस्ततः।
सावित्रः सविता चाग्नौ ततो द्विपदगौ स्मृतौ॥ 12.53 ॥
विवस्वान् दक्षिणे षट्के जयन्तेन्द्रौ द्विकद्वये।
षट्के तु पश्चिमे मित्रो वायव्यद्विकयोः पुनः॥ 12.54 ॥
राजयक्ष्मा च रुद्रश्च षट्के क्षितिभृदुत्तरे।
आपवत्सस्तथापश्च द्विकयोस्तद्बहिः शिवः॥ 12.55 ॥
पर्जन्यश्च जयन्तेन्द्रसूर्यसत्यभृशाम्बराः।
प्राच्यामग्न्यादिकान् वक्ष्ये पूषा च वितथस्तथा॥ 12.56 ॥
गृहक्षतो धर्मराजो गन्धर्वो भृङ्गराजकः।
मृगश्च नैर्ऋते कोणे पूजयेच्च पितॄंस्ततः॥ 12.57 ॥
दौवारिकं च सुग्रीवं पुष्पदन्तं जलाधिपम्।
असुरं तैव शोषं च पापयक्ष्माणमेव च॥ 12.58 ॥
वायुं नागं तथा मुख्यं भल्लाटं सोममेव च।
अदितिं दितिं कुबेरं च बहिरीशादिषु क्रमात्॥ 12.59 ॥
चरकीं च विदारीं च पूतनां पापराक्षसीम्।
शर्वस्कन्दं चार्यमणं जम्भकं पिलिपिञ्छकम्॥ 12.60 ॥
दिक्षु तेषां बलिं दत्त्वा मध्यादारभ्य सर्वतः।
भूतेभ्योऽपि बलिं दद्यादष्टदिक्षु यताक्रमम्॥ 12.61 ॥
पूजिता वास्तुदेहस्थास्त्रिपञ्चाशत् तु देवताः।
सिद्धये स्युरनर्थाय गृहभाजामपूजिताः॥ 12.62 ॥
सङ्कल्पितोपवासस्तु सुस्नातः सुसहायवान्।
सुलिप्तायां समासीनः क्षितौ रात्रावुदङ्मुखः॥ 12.63 ॥
ज्पेत् स्वप्नप्रदं मन्त्रं यावन्निद्रावशंगतः।
ततः पश्यत्यसौ स्वप्नं तद्भूमिफलसूचकम्॥ 12.64 ॥
सुस्वप्नेऽत्र गृहं कुर्यात् सुगृहर्क्षदिनोदये।
सुमृदा स्थण्डिलं कृत्वा चतुर्हस्तं सुशोभनम्॥ 12.65 ॥
प्रलिप्त पद्ममध्यस्थमुदकुम्भं निवेशयेत्।
सर्वौषदियुतं भद्रं रत्नगर्भं सपल्लवम्॥ 12.66 ॥
सितचन्दनदिग्धाङ्गं पद्ममालाविभूषितम्।
सितवस्त्रयुगच्छन्नमव्यग्रं स्वस्तिकान्वितम्॥ 12.67 ॥
तन्मुखे प्रणवेनादौ ध्यात्वा कमलमुज्ज्वलम्।
साङ्गुलीयकरो मन्त्री ग्रहांस्तत्र प्रकल्पयेत्॥ 12.68 ॥
बद्धपद्मासनान् हृष्टान् पूजयेच्च स्वनामभिः।
सूर्यं रक्तं सितं सोमं रक्तमङ्गारकं पुनः॥ 12.69 ॥
बुधं चामीकरप्रख्यं कृष्णवर्णं शनैश्चरम्।
पीतं बृहस्पतिं शुक्रं शुक्लमेव तु कल्पयेत्॥ 12.70 ॥
राहुं चासितपीताभं कृष्णं केतुं यताक्रमम्।
स्ववर्णलक्षितैः पुष्पैः सर्वेऽर्च्यास्तु विधानतः॥ 12.71 ॥
कुर्याद्धोमं बलिं चान्ते गीतवादित्रसंयुतम्।
स्तुतिं कृत्वा ग्रहाणां तु पवित्रं स्तोत्रमीरयेत्॥ 12.72 ॥
शुभाशुभमहार्थानि निमित्तानि ग्रहाधिप!।
दिव्यान्तरिक्षभौमानि पृच्छतो मे प्रकाशय॥ 12.73 ॥
इत्युक्त्वोद्धृत्य तं कुम्भं शाकुनं सूक्तमुच्चरन्।
परितो भ्रामयेद् यत्नाज्जयशब्दादिसंयुतम्॥ 12.74 ॥
अनिष्टदर्शनेऽप्येवं भूमौ स्थापितपूजितम्।
उद्धृत्य भ्रामयेद् भूयस्तदा खे दृश्यतेऽद्भुतम्॥ 12.75 ॥
सिद्धानां दर्शनं शब्दः सातपा वृष्टिरेव वा।
रत्नपुष्पफलान्नानां धान्यमध्वाज्यवाससाम्॥ 12.76 ॥
दधिपाठीनभेकानां मूत्रस्य पिशितस्य च।
कूर्मस्य वा महीपृष्ठे प्रपातो नभसः शुभः॥ 12.77 ॥
नृपब्राह्मणकन्यानां पूर्वकुम्भस्य दर्शनम्।
हस्त्यश्वशिखिहंसाभ्रशङ्खवेणुसमाः स्वराः॥ 12.78 ॥
इत्येवमादयो ज्ञेयाः कर्मकाले विचक्षणैः।
स्पष्टे घ्राते श्रुते दृष्टेऽप्यनिष्टे वर्जयेत् क्षितिम्॥ 12.79 ॥
दिनमन्यत् समासाद्य प्रागुक्तविधिवर्त्मना।
सुनिमित्तं च विज्ञाय कर्ता वै कर्म कारयेत्॥ 12.80 ॥
तथेष्ट्वाऽग्निं क्षमेत्युक्त्वा ब्राह्मणैः स्वस्ति वाच्य च।
बलिं दत्त्वा खनेत् प्राग्वत् तां धरां पूरयेत् पुनः॥ 12.81 ॥
गृहमध्ये तु मेधावी शुभां पूर्वप्रकल्पिताम्।
न्यसेत् कूर्मशिलां चैव यस्यां कूर्मो निवेश्यते॥ 12.82 ॥
राजतं विन्यसेत् कूर्मं सौवर्णं तद्वदेव तु।
पूर्ववत् कल्पयेत् पद्मं साष्टवर्गां च मातृकाम्॥ 12.83 ॥
आधारशक्तिमत्रेष्ट्वा नत्वा विज्ञापयेत् ततः।
त्वमेव परमा शक्तिस्त्वमेवासनधारिका॥ 12.84 ॥
सन्तृप्तया त्वया देवि! स्थातव्यमिह सर्वदा।
कूर्मराजमकूपारं तथा विश्वस्य धारकम्॥ 12.85 ॥
ध्यात्वा पूर्वोक्तपद्मस्थं स्वनाम्नैव तु पूजयेत्।
नमस्ते कूर्मरूपाय विष्णवे विश्वधारिणे॥ 12.86 ॥
करिष्यमाणं प्रासादमिह त्वं धर्तुमर्हसि।
इति विज्ञाप्य तं भक्त्या गणेशं चात्र पूजयेत्॥ 12.87 ॥
कूर्मस्य दक्षिणे पार्श्वे पद्मं कृत्वा तु पूर्ववत्।
नामयुक्तेन बीजेन गन्धपुष्पादिभिः क्रमात्॥ 12.88 ॥
कुर्याद् बीजस्य पञ्चाङ्गं त्रिदीर्घं द्वादशान्तगैः।
निवेद्य लड्डुकापूपपृथुकादि विशेषतः॥ 12.89 ॥
ध्यायेद् गजाननं रक्तं बृहत्कुक्षिं चतुर्भुजम्।
पाशाङ्कुशधरं भक्ष्यं दधानं दन्तमेव च॥ 12.90 ॥
एवं सम्पूज्यते नित्यं गणेशो यत्र भक्तितः।
विघ्नास्तत्र न जायन्ते वर्धन्ते चात्र सम्पदः॥ 12.91 ॥
Chapter - 13
अथ वक्ष्यामि संक्षेपात् प्रासादविधिमुत्तमम्।
यत्क्रियाव्यवसायोऽपि सद्यः सर्वाघनाशनः॥ 13.1 ॥
अष्टेष्टकानिधानेऽपि फलं वक्तुं न शक्यते।
अनुमेयं हि तेनैव फलं प्रासादविस्तरे॥ 13.2 ॥
सर्वयज्ञतपोदानतीर्थवेदेषु यत् फलम्।
तत् सर्वं कोटिगुणितं यजमानस्य जायते॥ 13.3 ॥
द्रव्यसंस्थानभेदाच्च फलं भूयोऽस्य वर्धते।
हितं नातः परं तस्माच्छक्तैः कार्यं तु सर्वथा॥ 13.4 ॥
वृषाभ्यां कपिलाभ्यां तु समाभ्यां प्राङ्मुखो गुरुः।
कृष्ट्वाऽसनमयैरेव यष्टीयुगहलैर्भुवम्॥ 13.5 ॥
द्वादशाक्षरमन्त्रेण नववस्त्राद्यलंकृतः।
शम्यासमीकृते गोभिः सस्यमुत्पाद्य खादयेत्॥ 13.6 ॥
पुनः कृष्ट्वेष्टकाधानं कुर्याद् द्वारे तु कल्पिते।
द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेष्टका॥ 13.7 ॥
उल्लेखाद्याज्यभागान्तं कृत्वोदक्स्थण्डिले क्रमात्।
पक्वं च विष्णुगायत्र्या हुत्वाऽथाज्याहुतीः क्रमात्॥ 13.8 ॥
व्यस्तौरष्टाक्षरैरष्टौ व्याहृतीन्द्रादिभिस्ततः।
अग्नये चैव सोमाय ग्रहेभ्योऽपि यथाक्रमम्॥ 13.9 ॥
नक्षत्रेभ्यश्च भूतेभ्यो नागेभ्य इति चैव हि।
देवताभ्यश्च सर्वाभ्यो विश्वेभ्यश्चेति देशिकः॥ 13.10 ॥
विष्णवे चेति हुत्वाऽन्ते व्याहृतीर्जुहुयात् ततः।
समिदाज्यचरून् हुत्वा गायत्र्याऽष्टोत्तरं शतम्॥ 13.11 ॥
ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च।
इष्टकासु च मूलेन सम्पाताज्यं समर्पयेत्॥ 13.12 ॥
अश्वत्थशङ्कुना रेखाः पूर्वाग्राश्चोत्तराग्रकाः।
तारेणाष्टौ समालिख्य प्राङ्मुखः सुसमाहितः॥ 13.13 ॥
चतुरश्रे चतुष्कोष्ठे न्यस्याग्न्यनिलकोष्ठयोः।
पूर्वाग्रसूत्रे सौम्याग्रे तथैव निर्ऋतीशयोः॥ 13.14 ॥
स्थित्वा कृताञ्जलिः पश्चाद् ध्यात्वा देवमधोक्षजम्।
मूलमष्टशतं जप्त्वा द्वादशाक्षरमेव च॥ 13.15 ॥
ततः स्वाक्षरसङ्खयातो जपेदष्टाक्षरं बुधः।
प्रभुं तं प्रणतो ध्यात्वा कोष्ठेष्वष्टभिरक्षरैः॥ 13.16 ॥
अग्न्यादीन्द्रान्तमष्टौ ता इष्टका विन्यसेत् क्रमात्।
उपानड्वत् प्रयुञ्जीत वर्जयेन्निम्नमुन्नतम्॥ 13.17 ॥
इष्टकास्तु निधायैवं श्वभ्रं सम्पूर्य वारिभिः।
सम्पातरत्नगन्धाढ्यैर्विमलैस्तु सुगन्धिभिः॥ 13.18 ॥
कलशैः पूरितैः पूर्वमर्चितैर्मन्त्रसंस्कृतैः।
शुक्लपुष्पाक्षतान् न्यस्य तारेणावर्तमीक्षयेत्॥ 13.19 ॥
शुभाशुभाविहावर्तौ ज्ञातव्यौ दक्षिणोत्तरौ।
शाल्यादिक्षेत्रमृत्साभिर्गर्तं प्रच्छादयेत् ततः॥ 13.20 ॥
विसृज्य शिल्पिनोऽत्रापि कल्पयेत् स्वप्नदर्शनम्।
शुभे लाभोऽशुभे मोक्षः शान्तिः कार्या त्वदर्शने॥ 13.21 ॥
गर्भाधानं ततः कुर्यान्नागर्भे धाम्नि सम्पदः।
मृत्तिका दश सङ्ग्राह्या मूलानि जलजानि च॥ 13.22 ॥
धातवो रत्नबीजानि लोहादि च यदिष्यते।
अष्टाङ्गुलं तदर्धोच्चं पादहीनोत्तरच्छदम्॥ 13.23 ॥
सान्द्रं ताम्रमयं श्लक्ष्णं गर्भपात्रं च शोभनम्।
सुगुप्तं तद्यथा भित्तौ भित्तिमानेन वा भवेत्॥ 13.24 ॥
पादुकोपरि विप्रस्य भुवि राज्ञोऽन्ययोरधः।
द्वारस्य दक्षिणे भागे तृतीयांशे द्विशेषिते॥ 13.25 ॥
गोमूत्रेणाप्लुते न्यस्येद् द्वारमूलस्य पार्श्वतः।
क्षालिते पञ्चगव्येन पात्रेऽस्मिन् परिशोधिते॥ 13.26 ॥
धारणाभिर्यथान्यायं ध्यात्वा पीठेऽक्षराम्बुजम्।
भूमण्डलमनन्तस्थं सशैलाम्भोधिदिग्गजम्॥ 13.27 ॥
प्रादक्षिण्येन कृत्वाऽन्तः पूर्वं सागरमृद्वृतिम्।
दिग्विदिक्षु च मध्ये च गायत्र्या विन्यसेन्मृदः॥ 13.28 ॥
गिरितीर्थनदीभ्यश्च ह्रदात् कर्कटकालयात्।
वल्मीकखलदन्त्युक्षशृङ्गेभ्यश्चाहृताः क्रमात्॥ 13.29 ॥
पङ्कजोत्पलयोर्मूले कुमुदस्य च देशिकः।
दिक्षु लोहितकस्यापि चत्वार्येवं क्रमान्न्यसेत्॥ 13.30 ॥
मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रीं रोचनां चैव गौरिकं पारतं तथा॥ 13.31 ॥
वज्रमौक्तिक्तिकवैडूर्यशङ्खस्पटिकपुष्यकान्।
चन्द्रकान्तं महानीलं पद्मरागं तथा पुनः॥ 13.32 ॥
शालिनीवारकौ चैव कङ्कुमाषकुलुस्थकान्।
निष्पावतिलमुद्गांश्च पाकपूर्णान् ससर्षपान्॥ 13.33 ॥
दिक्षु काञ्चनरूप्यायस्त्रपुण्यथ हिरण्मयम्।
सुपर्णं कूर्मरूपं च शङ्खं चक्रं च कोणतः॥ 13.34 ॥
धनुर्गदाम्बुजं मध्ये प्रत्येकं च हिरण्मयम्।
एतत् सर्वं समानीय न्यस्तव्यं गर्भभाजने॥ 13.35 ॥
कृत्वैवं पञ्चगव्येन प्रोक्ष्य द्वादशविद्यया।
अग्नेर्दक्षिणतः कृत्वा जुहुयात् पूर्ववत् क्रमात्॥ 13.36 ॥
घृतं द्वादशभिर्वर्णैर्दिक्पैर्नारायणेन च।
तारादिना हुतान्तेन वक्ष्यमाणैश्च नामभिः॥ 13.37 ॥
बीजानि सर्वधातूनि सर्वलोकाश्च पर्वताः।
समुद्राः सर्वतीर्थानि नद्यश्चाथ ह्रदास्तथा॥ 13.38 ॥
पातालाश्चाथ नागाश्च दिग्गजा वृषभास्तथा।
व्याहृत्यन्तं ततो हुत्वा सम्पातविधिनैव तु॥ 13.39 ॥
आज्यं समर्प्य तत् पात्रं विधायाग्रकरस्थितम्।
जप्त्वा मन्त्रं भुवं ध्यात्वा प्राङ्मुखो निशि देशिकः॥ 13.40 ॥
सुमुहूर्त्ते द्विजानुज्ञां प्राप्य तूर्यादिनिस्वनैः।
शक्तिं ध्यात्वाऽर्चयित्वाऽस्यां गर्भभूतमिदं स्मरन्॥ 13.41 ॥
ब्रह्माण्डं पार्थिवं शुभ्रं गृहमूर्त्तिप्रसूतये।
ध्यात्वाऽस्मिन् पूर्ववच्चोर्वी शनैर्मन्त्रमुदीरयेत्॥ 13.42 ॥
सर्वभूतधरे! कान्ते! पर्वतस्तनमण्डिते।
समुद्रपरिधाने! त्वं देवि! गर्भं समाश्रय॥ 13.43 ॥
एवं न्यस्ते तु गर्भेऽस्मिन् सर्वत्र च सुखं भवेत्।
हिरण्यं दक्षिणां दत्त्वा प्रासादं कारयेत् ततः॥ 13.44 ॥
द्वार्स्थापनादधः प्राग्वदिष्ट्वा वास्तुं यथाक्रमम्।
कृत्वा होमं च संस्पृश्य शक्त्या रत्नादि विन्यसेत्॥ 13.45 ॥
द्वारमाच्छाद्य वस्त्राभ्यां गव्यादिक्षालितं शुभम्।
गन्धादिभिः समभ्यर्च्य शान्तिहोमादिसंयुतम्॥ 13.46 ॥
मुहूर्ते स्थापयेद् विद्वान् मध्यान्मध्यं विमुच्य तु।
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वं च शाखयोः॥ 13.47 ॥
परतत्त्वं च मध्ये तत् सुशिरस्संव्यवस्थितम्।
स्थापयेत् प्रणवेनाथ पूजयेच्च पुनः क्रमात्॥ 13.48 ॥
स्थिराप्रमेयव्यापित्वबोधनित्याविनाशिताः।
तृप्तिश्च सप्त होतव्याः क्रमादाहुतिसप्तकैः॥ 13.49 ॥
प्रतीहारादयो देवा ये तस्मिन् संव्यवस्थिताः।
नामभिस्तेऽत्र होतव्यास्ततो देयश्च तद्बलिः॥ 13.50 ॥
भित्तिस्तम्भादिविन्यासे सिरामर्मादिपीडनम्।
सर्वथा परिहर्तव्यं वास्तुकोपोऽन्यथा भवेत्॥ 13.51 ॥
किञ्चिदुत्तरतो नीत्वा पूर्वतो वा सिरादिवित्।
स्तम्भादीन् विन्यसेदेवं वेधदोषो न जायते॥ 13.52 ॥
प्राग्द्वारमृषभस्थं स्याद् ध्वजस्थं पश्चिमामुखम्।
अन्यथा सर्वनाशः स्यादायदोषान्न संशयः॥ 13.53 ॥
प्राग्द्वारं ग्राममध्ये स्यात् पश्चिमे चोत्तरे तथा।
दक्षिणेन्द्राग्निषु प्रायः पश्चिमद्वारमिष्यते॥ 13.54 ॥
त्रिंशदन्तं त्रिहस्तादि सप्तान्तैकादिभूमिकम्।
वृत्तं वा चतुरश्रं वा दर्शनीयं तु कारयेत्॥ 13.55 ॥
भूवृद्ध्या वायुवह्नीन्द्रवरुणार्केन्दुविष्णवः।
गृहाणां देवता ज्ञेया भूमीनां मूर्तयोऽपराः॥ 13.56 ॥
शयानासीनतिष्ठन्तो गच्छन् पूर्वे च योगिनः।
भूमीनां देवता ज्ञेया दिक्कोणस्थास्ततोऽपराः॥ 13.57 ॥
वराहो नारसिंहश्च श्रीधरश्व हयाननः।
जामदग्न्यश्च रामश्च वामनः कृष्ण एव च॥ 13.58 ॥
तत ऊर्ध्वं चतुर्दिक्षु वैनतेयं प्रकल्पयेत्।
मध्ये ब्रह्मा शिवोऽन्ते स्यात् कलशे तु स्वयं हरिः॥ 13.59 ॥
कलशान्ते महाविष्णुः सदाविष्णुस्तदग्रतः।
ज्ञातव्या गृहगर्भार्चाः स्थूलसूक्ष्मपरात्मिकाः॥ 13.60 ॥
अनन्तं पादुकं विद्यादात्मतत्त्वेश्वरं प्रभुम्।
विद्यातत्त्वमधिष्ठानमित ऊर्ध्वं परं तथा॥ 13.61 ॥
वेद्यामिन्द्रादयो दिक्स्था विष्वक्सेनः प्रणालके।
पादुकाद्यङ्घ्रिदङ्घोरु पट्टिकान्तं प्रतिः कटिः॥ 13.62 ॥
मेखला रशना कुक्षिर्गर्भः स्तम्भाश्च बाहवः।
मध्यं नाभिश्च हृत् पीठमपानं जलनिर्गमः॥ 13.63 ॥
पादाधारस्त्वहंकारः पिण्डिका बुद्धिरुच्यते।
तदन्ते प्रकृतिः पद्मं प्रतिमा पुरुषः स्मृतः॥ 13.64 ॥
घण्टा जिह्वा मनो दीपो दारु स्नायुः शिलाऽस्थि च।
त्वक् सुधा लेपनं मांसं रुधिरं तत्र यो रसः॥ 13.65 ॥
चक्षुः शिखरपार्श्वे तु ध्वजाग्रं च शिखा भवेत्।
तलकुम्भो भवेत् पाणिर्द्वारं प्रजननं स्मृतम्॥ 13.66 ॥
शुकनासैव नासोक्ता गवाक्षं श्रवणं विदुः।
कपोतालिं तथा स्कन्धं कण्ठं चामलसारकम्॥ 13.67 ॥
घटं शिरो घृतं मज्जा वाङ् मन्त्रः सेचन पयः।
नामशैत्यादिवर्णान्नधूपेषु विषयाः स्थिताः॥ 13.68 ॥
रन्ध्रे वातायने धाम्नि लेपे स्थैर्य च खादयः।
पर्वाणि सन्धयो ज्ञेया लोहबन्धास्तथा नखाः॥ 13.69 ॥
केशरोमाणि चैवास्य विज्ञेया दुग्धकूर्चकाः।
प्रासादपादमात्रोच्चः प्राकारः परितो भवेत्॥ 13.70 ॥
गोपुरं पादहीनोच्चं तत्समं मण्डपं विदुः।
पीठद्विगुणविस्तारो गरुडस्यट च मण्डपः॥ 13.71 ॥
तावन्तो लोकपालानां विष्वक्सेनस्य चालयाः।
पृष्ठेऽनन्तस्य चाग्नेय्यां हविश्शाला च तावती॥ 13.72 ॥
मातॄणामालयाः कार्या दक्षिणे चोत्तरे तथा।
इन्द्राग्नीशगताः कार्याः सर्वे प्रत्यङ्मुखा गृहाः॥ 13.73 ॥
रक्षोवरुणवायव्यगताश्च प्राङ्मुखास्तथा।
दक्षिणोत्तरयोः कार्याः प्रासादाभिमुखा यथा॥ 13.74 ॥
तुषहीनैरनुत्तानैरष्टभिर्मध्यमैर्यवैः।
उत्तमं सप्तभिर्मध्यमधमं षड्भिरङ्गुलम्॥ 13.75 ॥
गायत्र्यक्षरसंख्यातैरङ्गुलैरेव साधितः।
यो हस्तस्तेन मातव्यं सर्वं त्रिविधमिष्यते॥ 13.76 ॥
शिलाभिरिष्टकाभिर्वा काष्ठैर्वा मृद्भिरेव वा।
कुर्यात् प्रासादविस्तारं सदोषं तु विवर्जयेत्॥ 13.77 ॥
वृद्धां बालां च चण्डालीं गर्भिणीं दुष्टभूमिजाम्।
शिलां त्यक्त्वा शुभामन्यां गृह्णीयाद् वर्णयोगतः॥ 13.78 ॥
पुल्लिङ्गे प्रतिमा प्रोक्ता स्रीलिङ्गे पीठिका स्मृता।
रत्नन्यासादधस्तात्तु नपुंसकशिलेष्यते॥ 13.79 ॥
कार्या गृहानुरूपाऽर्चा गृहं वाऽर्चानुरूपतः।
न्यायोऽयं पीठिकादीनामपि ज्ञेयो विचक्षणैः॥ 13.80 ॥
न जीर्णैरुपयुक्तैर्वा शिलाद्यैर्वैष्णवं गृहम्।
कारयेत् पीठिकां वाऽर्चामाभिचारोऽन्यथा भवेत्॥ 13.81 ॥
पुरातन्यो विवर्णाः स्युरपक्वाश्चात्र नेष्टकाः।
गर्भवन्तः स्वयं शुष्काः पतिता वाऽग्निदूषिताः॥ 13.82 ॥
असारा दुष्टदेशस्था दूषिताश्चापि न द्रुमाः।
कटुकण्टकिपैशाचक्षुद्रचैत्यादयस्तथा॥ 13.83 ॥
शूलसूचिध्वजस्तम्भचक्रयष्टिकृतानि च।
न युञ्ज्याच्छास्त्रविद् गेहे नोत्तमं योजयेदधः॥ 13.84 ॥
घटीयन्त्रादिदारूणि न कपित्थाक्षजानि च।
वाहयेन्मूलमग्रेण नोत्तमं सन्धयेन्नवे॥ 13.85 ॥
नाधोमुखं नियुञ्जीत न तथा दक्षिणामुखम्।
अनुयागे नावन्येव द्रव्याणि शुभदानि तु॥ 13.86 ॥
प्रासादेऽधः शिलादीनि शुभान्यन्यानि वेच्छया।
यदार्चोत्पाटिता स्थाप्या तदा पूर्वैव पीठिका॥ 13.87 ॥
Chapter - 14
अथ वक्ष्यामि संक्षेपात् प्रतिमालक्षणं परम्।
योनिसंस्थानभेदं च साधकानां हिताय वै॥ 14.1 ॥
रत्नलोहशिलाधातुमृत्काष्ठालेख्यभेदतः।
प्रतिमा सप्तधा ज्ञेया निर्दोषा रत्नलोहजा॥ 14.2 ॥
बहुदोषा शिला सा तु पुण्यशैलोद्भवेष्यते।
वारुण्यैन्द्री तथाऽऽग्नेयी वायवी भूश्चतुर्विधा॥ 14.3 ॥
आद्ययोर्या शिला सैषा निर्दोषाऽपि तु नान्ययोः।
निमग्ना भुवि या रम्या स्निग्धाऽर्ककिरणोज्झिता॥ 14.4 ॥
एकवर्णा सुवर्णा च सवर्णा चातिशोभना।
श्वेतब्जाभा मृगे ग्राह्या सौम्या विप्रस्य सा शिला॥ 14.5 ॥
ऐन्द्री रक्ता कुलस्थाभा ज्येष्ठायां क्षत्रियस्य तु।
फल्गुन्यां भगदेवत्या पीता वा हरिता विशः॥ 14.6 ॥
कृष्णा मुद्गनिभाऽश्विन्यां शूद्रस्यैवाश्विदेवता।
विशाला नातिबहला छिद्रवन्मधुरस्वरा॥ 14.7 ॥
रम्भादलाकृतिः स्त्री स्याच्छीतला च मनोरमा।
गम्भीरनिनदा गुर्वी सदृढा विस्फुलिङ्गिनी॥ 14.8 ॥
अश्वत्थवटपत्राभा विशाला बहला पुमान्।
नपुंसकं द्वयाकारा तद्धीना या सपर्पटा॥ 14.9 ॥
निबिडावयवा स्निग्धा धीरशब्दा सुशीतला।
सुगन्धरसूरुपाढ्या युवतिः सा सुशोभना॥ 14.10 ॥
बाला शस्त्रासहा मृद्वी पिच्छिला पल्लवास्थिरा।
चण्डाली शुल्किनी वा स्याद् यस्यां न रमते मनः॥ 14.11 ॥
सा हि मण्डूकखण्डा च वृद्धा रूक्षाऽतिझर्झरा।
बहुवर्णाऽतिनीला च धूम्रा च स्थूलरोमिका॥ 14.12 ॥
हीनस्वना च निन्द्याङ्गी सोष्णा चण्डालिका स्मृता।
वल्मीकवृक्षसंलग्ना वह्निवातातपाहता॥ 14.13 ॥
चितिचैत्यसमीपस्था बाह्यालीढाऽन्त्यसेविता।
ग्रहजुष्टा विवर्णा च चत्वरान्तर्जलोषिता॥ 14.14 ॥
कल्पिताऽन्यत्र शिष्टा च संस्कृता येन केनचित्।
सगर्भमण्डलच्छिद्रसन्धिकीलकजालका॥ 14.15 ॥
स्फोटावर्तसिराग्रन्थिभेदयुक्ता च वर्जिता।
हीनरेखोत्तमा हीना हीना रेखोत्तमोत्तमा॥ 14.16 ॥
शिलासवर्मा रेखाः स्युः सुवर्णाश्चातिशोभनाः।
इन्द्रायुधपताकोर्मिकलशाभा मनोरमा॥ 14.17 ॥
सदा वृद्धिकरी ज्ञेया गोब्राह्मणहितावहा।
श्रीवत्सशङ्खचक्राब्जनन्द्यावर्तप्रदक्षिणा॥ 14.18 ॥
तोरणच्छत्रवस्त्रोक्षकन्यास्रक्कुसुमोपमा।
प्रासादस्वस्तिकाश्वेभवर्धनी शफरोपमा॥ 14.19 ॥
रथेक्षणाङ्गुलीकूर्मचामराङ्कुशकेसरी।
रत्नाभरणगोवृक्षपत्रचन्द्रार्कतारकाः॥ 14.20 ॥
पवित्रकुण्डिकादर्शमृगहंसादयः शुभाः।
एकद्विबहुविच्छेदे पुत्रेशगृहिणीक्षयः॥ 14.21 ॥
वक्रस्थूलकृशा रूक्षाश्छिन्नाग्राश्च न शोभनाः।
सङ्कीर्णा बहुवर्मा च यस्यां नेष्टा च सा शिला॥ 14.22 ॥
अ वृद्धिकृदि शत्रुघ्नमु संवृतमशोभनम्।
सन्ध्यक्षरेषु वृद्धिः स्यात् कादिमान्तेषु सम्पदः॥ 14.23 ॥
या योगवाहेषूच्चाटो रादौ भीपुष्टिशान्तयः।
सिद्धिरूष्मसु मोक्षोऽन्त्ये तिर्यग्रेखास्त्वशोभनाः॥ 14.24 ॥
सगर्भोद्धाट्यमाना या भिद्यते शिथिलध्वनिः।
मण्डलादियुतोष्णा वा विवर्णा वाऽपि तां त्यजेत्॥ 14.25 ॥
शिलायां क्षालितायां तु यदि किञ्चिन्न लक्ष्यते।
मध्यमा सा शिला ज्ञेया हीना युक्ता शुभाशुभैः॥ 14.26 ॥
ध्वनिर्घण्टानिभो यत्र स्फुलिङ्गाश्छेदने सदा।
दृश्यन्ते तच्छिरस्तस्याः पृष्ठमूर्ध्वमधोमुखम्॥ 14.27 ॥
द्विजो वा शिल्पिना कन्या यद् ब्रूयादधिवासिता।
तच्छिरः स्यात् ततो वक्रं कल्पयेदविकल्पितम्॥ 14.28 ॥
प्राक्पश्चिमशिरा ग्राह्या प्राक्प्रत्यग्द्वारवेश्मनोः।
अलाभे याम्यसौम्याग्रा कोणाग्रा तु न शस्यते॥ 14.29 ॥
स्थण्डिले देवमिष्ट्वाऽऽदौ ब्राह्मणैः स्वस्ति वाचयेत्।
सुदिने प्राश्य दध्यन्नं रक्षामङ्गलपूर्वकम्॥ 14.30 ॥
शस्त्राण्यस्त्रेण सम्पूज्य शोभनान्यभिधाय च।
शस्त्राण्यस्त्रेण सम्पूज्य प्राङ्मुखो वाऽप्युदङ्मुखः॥ 14.31 ॥
मङ्गलानि च सन्दृश्य निमित्तानि परीक्ष्य च।
प्रतिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिः सह॥ 14.32 ॥
विद्याराज्ञीं सदा ध्यायन्नग्रतोऽर्घ्यकरः स्थितः।
निमित्तैः शोभनैर्गच्छेत् कृत्वैवं पुनरन्यथा॥ 14.33 ॥
निर्गतस्तु शिलां पश्येत् तदाप्रभृति नित्यशः।
प्रतिमां कारयेत् कर्ता तत्कर्मान्तं हविष्यभुक्॥ 14.34 ॥
सोमेशेन्द्रेषु न स्याच्चेत् तादृशी शोभना शिला।
सिद्धं शिलाकरं गच्छेत् कृत्वा दिग्यजनं पुनः॥ 14.35 ॥
दिशो विलोक्य चास्त्रेण रक्षामङ्गलपूर्वकम्।
तत्राधिवासनं कुर्यादाचार्यः प्रयतो निशि॥ 14.36 ॥
शिलाया मण्डपं कृत्वा परिश्रित्य समन्ततः।
चतुर्दिक्षु पताकाभिश्चतुर्वर्णाभिरन्वितम्॥ 14.37 ॥
इष्ट्वा हरिं च दिग्देवान् भूतक्रूरबलिं हरेत्।
देवाग्रे दर्भशय्यायामुपोष्य नियतेन्द्रियः॥ 14.38 ॥
आचार्यः सुस्थितो विष्णुं ध्यात्वा मन्त्रमुदीरयेत्।
नमः सकललोकाय विष्णवे प्रभविष्णवे॥ 14.39 ॥
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः।
तेनाष्टशतजप्तेन ततः सव्प्नं स पश्यति॥ 14.40 ॥
शोभनं स्याच्छुभे स्वप्ने कर्तव्या शान्तिरन्यथा।
शोभनां तु शिलां ज्ञात्वा वर्णं लिङ्गं शिरस्तथा॥ 14.41 ॥
उद्बुध्यस्वेति मन्त्रेण लाञ्छयेत् तत्र तत्र तु।
आचार्योऽस्त्रेण कृत्वैवं शिल्पिभिर्ग्राहयेत् ततः॥ 14.42 ॥
देवमिष्ट्वा बलिं दत्त्वा कृत्वाऽथ स्वस्तिवाचनम्।
शिलां रथे समारोप्य प्रयत्नादानयेत् ततः॥ 14.43 ॥
रथशिल्पिविकारादौ शतमस्त्रेण होमयेत्।
ध्वजादिघोषैः पर्येत्य शालायामुत्तरे न्यसेत्॥ 14.44 ॥
संकल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा।
नान्यां तु प्रतिमां कुर्यात् कृता भवति निष्फला॥ 14.45 ॥
स्वयमुत्पादिता मुख्या क्रीता द्रव्यैस्तु मध्यमा।
विदितावयवैः शुद्धा या ह्रदादिषु साऽधमा॥ 14.46 ॥
शिलायामिव संस्कारः कर्तव्यो दारुकर्मणि।
दारुचन्दनशम्याकमधूकासनबिल्वकाः॥ 14.47 ॥
सरलः स्पन्दनः सालः स्तबकः स्तम्भकस्तिमिः।
वरणस्तिन्दुकाशोकपर्णीपनसशिंशपाः॥ 14.48 ॥
अन्येऽपि याज्ञिका वृक्षाः सारवन्तश्च शोभनाः।
ऋजुः स्निग्धः समोऽशाखः शुभदेशोद्भवो घनः॥ 14.49 ॥
अगर्भव्रणरन्ध्रादिर्दृढमूलः शुभो मतः।
दक्षिणप्रवणः शुष्को दग्धः पक्षिग्रहाश्रयः॥ 14.50 ॥
पतितश्चैत्यवल्मीकचितादिस्थश्च नेष्यते।
अधोभागं तु संशोध्य दर्भानास्तीर्य सर्वतः॥ 14.51 ॥
गायत्रीपरिपूतेन सर्वतः प्रोक्ष्य वारिणा।
हुत्वाऽनेनैव मन्त्रेण क्षीरवृक्षसमिच्छतम्॥ 14.52 ॥
यत्परं वैष्णवं तत्त्वं यच्च भागवतं पुनः।
तत्सर्वमेकसंलीनमस्मिन् देहे विबुध्यताम्॥ 14.53 ॥
धर्मं पुण्यं तथा सत्यं सर्वमेकत्र वर्तताम्।
वृक्ष! लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम्॥ 14.54 ॥
देवत्वं यास्यसे तत्र दाहच्छेदविवर्जितम्।
जलपुष्पप्रदानेन सधूपैर्बलिभिस्तथा॥ 14.55 ॥
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम्।
गन्धपुष्पैश्च संपूज्य बलिं दत्त्वा च पूर्ववत्॥ 14.56 ॥
स्वप्नं दृष्ट्वा द्विजायोक्त्वा शोभनान्यभिधाय च।
पूर्वोत्तरमुखो मन्त्री जप्त्वेदंविष्णुरित्यृचम्॥ 14.57 ॥
मध्वाज्याक्तकुठारेण स्मृत्वाऽस्त्रं छेत्तुमारभेत्।
दिवा वारेभिरेत्येवं पातं तस्य समुद्धरेत्॥ 14.58 ॥
सोमेन्द्रेशेषु तत्पातः सुभोऽन्यत्र न शस्यते।
भग्नेऽस्मिन् कारयेच्छान्तिं महाव्याहृतिहोमतः॥ 14.59 ॥
अग्नआयाहिमन्त्रेण पतितं सोधयेद् द्रुमम्।
चतुरश्रं ततः कृत्वा रथेनाश्मवदानयेत्॥ 14.60 ॥
मृत्तिकाऽप्येवमानेया सवर्णा दोषवर्जिता।
पुण्यादायतनाद् रम्यादुद्धृतासीति चाहृता॥ 14.61 ॥
अपक्वं पार्थिवं शस्तं पक्वमत्र विगर्हितम्।
कपिलाज्यातसीतैलकषायैश्चूर्णसंयुताम्॥ 14.62 ॥
श्रीवेष्टकादिसंयुक्तां पेषयित्वा पुनः पुनः।
मासपक्षोषितां कृत्वा कारयेत् प्रतिमां ततः॥ 14.63 ॥
संस्कृतं प्रतिमाशूलमधिवास्याग्रमण्डपे।
रत्नन्यासं पुरा कृत्वा मुहूर्ते स्तापयेद् गुरुः॥ 14.64 ॥
लोहे सिक्थमयीमर्चां कारयित्वा मृदावृताम्।
सुवर्णादीनि संशोध्य विद्राव्याङ्गारवत् पुनः॥ 14.65 ॥
कुशलैः कारयेद् यत्नात् सम्पूर्णां सर्वतोघनाम्।
पुष्टिदाऽर्चा तु सौवर्मी राजती किर्त्तिदा स्मृता॥ 14.66 ॥
ताम्रजा धनपुत्रार्था मणिजा सुखदा भवेत्।
दारुजा श्रीकरी ज्ञेया मृन्मयी सर्वकामदा॥ 14.67 ॥
एकबेरं शिलालोहरत्नधातुमयं भवेत्।
बहुबेरं तु मृद्दारुकृतमालेख्यमेव च॥ 14.68 ॥
प्रासाद एव तु स्थाप्या या शिलादारुमृन्मयी।
प्रतिमाऽन्या गृहे पूज्या प्रासादे च यथाविधि॥ 14.69 ॥
अङ्गुष्ठादिवितस्त्यन्तं गृहे संस्थाप्य पूजयेत्।
प्रासादे चोर्ध्वमाहस्तात् परं प्रासाद एव तु॥ 14.70 ॥
जङ्गमं पूजयेन्नित्यमावाहनविसर्गतः।
नावाहनविसर्गाभ्यामेकबेरं प्रतिष्ठितम्॥ 14.71 ॥
कर्मार्चां लोहजां कृत्वा पादमात्रां शुभाननाम्।
मूलानुरूपसंस्थानां शोधयित्वा यथाविधि॥ 14.72 ॥
तस्यामावाह्य सम्पूज्य लेप्यादौ विसृजेत् पुनः।
द्वारोच्चेऽष्टांशहीने स्यात् त्रिभक्तेऽर्चा द्विभागिका॥ 14.73 ॥
नवांशोने समस्ते वा पादोना वाऽपि तत्समा।
उत्तमं पार्थिवे मानं दारवे मध्यमं भवेत्॥ 14.74 ॥
मणिजे चाधमं ज्ञेयमिच्छयाऽन्यत्र कल्पयेत्।
उत्तमा दशतालार्चा नवताला तु मध्यमा॥ 14.75 ॥
अष्टतालाधमा ज्ञेया देव्यः स्युश्चाष्टतालिकाः।
दशधा नवधा चेष्टं मानं कृत्त्वैकमंशकम्॥ 14.76 ॥
भङ्क्त्त्वा द्वादशदा ज्ञेयं स्वाङ्गुलं येन मीयते।
ग्रीवाहृन्नाभिमेढ्रान्तं मुखमानेन कल्पयेत्॥ 14.77 ॥
तद् भङ्क्त्त्वा मूर्ध्नि कण्ठाङ्घ्रिजानुदेशे समं न्यसेत्।
जङ्घोरू द्विगुणौ कार्यौ बाहू चाजानुलम्बिनौ॥ 14.78 ॥
किञ्चिदूनाः प्रमाणेन ज्ञेयाश्चैवोपबाहवः।
किरीटमधिकं कुर्यात् पद्मं नालं च मानतः॥ 14.79 ॥
तिर्यक् षोडशसूत्राणि सप्तोर्ध्वानि च कल्पयेत्।
तिर्यगूर्ध्वगतैः सूत्रैर्मुखे द्वादशधा कृते॥ 14.80 ॥
केशपञ्चमसूत्रस्थं मद्यैकान्तरितं द्वयोः।
पदयोरक्षिणी कार्ये पदमानेन विस्तृते॥ 14.81 ॥
तयोर्मध्ये शुभा नासा कार्याक्षिद्विगुणायता।
तारे सृक्वान्तसूत्रस्थे कंबीरौ पुटसंमितौ॥ 14.82 ॥
कुर्याद् भ्रूसूत्रगौ कर्णौ नेत्रे नेत्रान्तरायते।
तारके तत्र्त्रिभागस्थे ज्योतिषी तत्र्त्रिभागतः॥ 14.83 ॥
नेत्रवन्नासिकाग्रोच्चं निम्नं मूलं तदर्धतः।
निष्पावाभौ निम्नपुटौ भ्रूमद्यं नेत्रमध्यवत्॥ 14.84 ॥
अधरस्तत्समोऽन्योष्ठगोजिकामानमर्धतः।
कर्णायामस्तु नासावद् विस्तारश्च तदग्रवत्॥ 14.85 ॥
तुटुकौ नेत्रसूत्रस्थौ तद्विस्तारेण सम्मितौ।
ललाटकण्ठविस्तारो नासिकाद्विगुणो मतः॥ 14.86 ॥
चिबुको कर्णमूलात् तु नासिका द्विगुणायता।
स्तनान्तरं मुखं विद्याद् द्विगुणं चैव कक्षयोः॥ 14.87 ॥
कण्ठाद् द्विगुण एवेष्टो नाभिदेशे तु विस्तरः।
कटौ नेत्राधिक्स्त्र्यंशं स्तनकक्षान्तरं विदुः॥ 14.88 ॥
तावत् कक्षांसमध्यं च कारयेत् स्कन्धमुन्नतम्।
कटिवत् सन्धिकक्षान्तं प्रकोष्ठं नासिकादिकम्॥ 14.89 ॥
तत्र मध्यमयोर्मानं नासिकाधरयोगतः।
कल्पयेदर्धपर्वोने तथा तर्जन्यनामिके॥ 14.90 ॥
तयोरप्यर्धपर्वोने तथाङ्गुष्ठकनिष्ठिके।
तले नेत्राधिकायामे मद्यमायामविस्तरे॥ 14.91 ॥
तत्राङ्गुष्ठप्रदेशिन्योर्नेत्रसम्मितमन्तरम्।
अन्तरं मध्यमातुल्यं कनिष्ठामणिबन्धयोः॥ 14.92 ॥
मणिबन्धस्तु नासावत् ततोऽङ्गुष्ठान्तरं तथा।
द्विगुणो बाहुविस्तारो नेत्रोनं चैव कोर्परे॥ 14.93 ॥
सर्वत्र त्रिगुणोऽनाहो बाहू गोपुच्छवच्छुभौ।
मद्यमापर्वणी पूर्वे समे शेषं तदर्धकम्॥ 14.94 ॥
अष्टांशोनानि पर्वाणि ततो देशिन्यनामयोः।
पादोनानि कनीयस्य योक्तव्यान्यनुरूपतः॥ 14.95 ॥
तर्जनीमध्यमापर्वसमे चाङ्गुष्ठपर्वणी।
सर्वाङ्गुलीषु कार्याः स्युरग्रपर्वार्धतो नखाः॥ 14.96 ॥
नाहोऽङ्गुष्ठस्य नासावदष्टांशोनस्ततोऽन्ययोः।
त्ततश्चैवं कनिष्ठाया वृत्ते भुजसमे स्फिजौ॥ 14.97 ॥
ऊरू मुखवदक्ष्यूनं जानु जङ्घा मुखार्धतः।
मुखायततलौ पादौ पुरस्ताज्जङ्घया समौ॥ 14.98 ॥
कूर्मोन्नतौ क्रमादुच्चौ तत्राङ्गुष्ठौ तदर्धकौ।
प्रदेशिन्यौ च तत्तुल्ये हीनाः शेषा नखान्नखम्॥ 14.99 ॥
अनङ्गुष्ठास्रिपर्वाणो नखा रक्तार्धचन्द्रवत्।
नाहोऽङ्गुष्ठेऽन्यमध्यावत् तर्जन्यङ्गुष्ठदैर्घ्यवत्॥ 14.100 ॥
अष्टांशोनाः क्रमादन्याः कारयेदनुरूपतः।
कर्णपाशौ च केशाश्च भूषावस्त्रायुधानि च॥ 14.101 ॥
सन्निवेशाश्च योक्तव्या यथाशेभं विजानता।
विशालधवलाताम्रे पक्ष्मले चैव लोचने॥ 14.102 ॥
साधारणीव दृष्टिः स्यात् पश्यतां नाधऊर्ध्वगा।
पटे वा लेखयित्वैवं तं पटं साधकः स्वयम्॥ 14.103 ॥
एकान्ते तु प्रतिष्ठाप्य पूजयेन्नित्यमादरात्।
बिम्बोच्चार्धं तु पीठोच्चमायामो बिम्बमानतः॥ 14.104 ॥
केशान्तमुखमानो वा प्दमतुल्यो जलाश्रयः।
नाधिकं पीठमिष्टं तु जङ्गमस्य षडङ्गुलात्॥ 14.105 ॥
अङ्गुलाभ्यां नच न्यूनं लोहजस्यैकयोनिकम्।
शैलमन्यत्र विज्ञेयं रत्नजानां तु लोहजम्॥ 14.106 ॥
Chapter - 15
अथ वक्ष्यामि संक्षेपात् प्रतिष्ठापञ्कं क्रमात्।
परमेष्ठ्यादिभिर्मन्त्रैः कर्तव्यं तु विशेषतः॥ 15.1 ॥
स्थापनास्तापना चैव तथा संस्थापना पुनः।
प्रस्थापना च पञ्चोक्ताः प्रतिष्ठापनया सह॥ 15.2 ॥
स्थितासीनशयानानां यानगस्य चलस्य च।
या क्रिया पञ्चधा प्रोक्ता सा प्रतिष्ठेति कीर्तिता॥ 15.3 ॥
स्थाने सौम्या भवेन्मूर्तिः सौम्याग्नैयी तथासने।
आग्नेऽयी शयनेऽन्यत्र यथाकामं तु कल्पयेत्॥ 15.4 ॥
सात्त्विकी राजसी चापि तामसी च यथाक्रमात्।
सिता रक्ताऽसिता मूर्तिः श्यामा सर्वत्र वा भवेत्॥ 15.5 ॥
स्थिता तु दैविकी मूर्त्तिः परस्य परमात्मनः।
किञ्चिन्मानुषसंयुक्ता त्वासीनाऽन्या समोच्यते॥ 15.6 ॥
स्थाने तु व्यापको विष्णुर्व्याप्यव्यापक आसने।
व्याप्यस्तु शयने ज्ञेयः सवनत्रयदेवताः॥ 15.7 ॥
पार्श्वयोर्ब्रह्मरुद्राभ्यामर्केन्दुभ्यां तदन्तिके।
पृष्ठे श्रिया सरस्वत्या शान्त्या रत्या च पार्श्वयोः॥ 15.8 ॥
वराहहयशीर्षाभ्यां तत्पृष्ठे दशभिः स्थिः।
पार्श्वेऽजभृगुदक्षैश्च रुद्राग्निमनुभिस्तथा॥ 15.9 ॥
सनत्कुमारस्कन्दाभ्यां श्रीस्थानस्थितसिद्धिभिः।
आसीनश्चामख्यग्रकराभिर्द्वादशावृतः॥ 15.10 ॥
प्रद्युम्नेनानिरुद्धेन नाभिपद्मस्थितेन च।
पञ्चभिः शयितोऽग्रस्थमार्कण्डेयमहीयुतः॥ 15.11 ॥
त्रिधोक्तानां तु सर्वेषामेषामन्यतमान् क्रमात्।
यानगस्य परीवारान् यथाकामं प्रकल्पयेत्॥ 15.12 ॥
तथा धनुर्गदाचक्रशङ्खासिशरलाङ्गलैः।
खेटकेन च पद्मेन वृतः साधारणैर्भते॥ 15.13 ॥
चतुर्भुजः स्थितो देव आसीनोऽष्टभुजो भवेत्।
शयानस्येच्छया योज्या भुजाः सर्वत्र वेच्छया॥ 15.14 ॥
पञ्चोपनिषदस्त्वेताः सुसूक्ष्मा देवशक्तयः।
पञ्चतन्मात्रशब्देन कीर्त्तिता वेदवादिभिः॥ 15.15 ॥
पञ्चैताः संहता यस्माच्छक्तयः सर्वहेतवः।
पञ्चभिर्युक्त एवाभिः स सर्गादौ प्रवर्तते॥ 15.16 ॥
निग्रहानुग्रहौ चापि करोतीशः स्वतोऽक्रियः।
स्थापनादिषु सर्वत्र पूर्णैश्वर्यस्तु नान्यथा॥ 15.17 ॥
गुणप्रधानतो भेदात् संहतास्वेव शक्तिषु।
विभागः पञ्चधा ज्ञेयो नैकशः पृथगास्थितेः॥ 15.18 ॥
विचित्रकार्यकरणसम्बन्धो भोगकारणम्।
इत्यन्ये शक्तयश्चास्य सकार्यकरणास्तथा॥ 15.19 ॥
अतः प्रतिष्ठानिपुणैराचार्यैस्तन्त्रपारगैः।
संहतास्ताः प्रयोक्तव्या बिम्बैश्वर्यप्रसिद्धये॥ 15.20 ॥
स्थापनादिविभागः स्याद् बिम्बविन्यासजोऽप्यतः।
प्राधान्यख्यापनार्थैव भेदोक्तिरिति तद्विदः॥ 15.21 ॥
पञ्चशक्तिमये सूक्ष्मे देहे साधारणे पुनः।
मूर्त्तयस्तस्य मूलाङ्गविशेषाद् बहुधा स्मृताः॥ 15.22 ॥
वृत्तायते च प्रासादे चतुरश्रायते तु वा।
स्थाप्यं शयनमन्यत्र स्थितासीनयियासवः॥ 15.23 ॥
यत्र वा तत्र वा काले प्रतिष्ठा मुक्तये कृता।
उत्तरे त्वयने कार्या शुक्लपक्षे च मुक्तये॥ 15.24 ॥
पुनर्वस्वश्विनीश्रोणपुष्यहस्तोत्तरत्रये।
रेवतीरोहिणीस्वातीभरणीषु च शस्यते॥ 15.25 ॥
प्रतिपच्च द्वितीया च पञ्चमी च त्रयोदशी।
दशमी पौर्णमासी च द्वादशी तिथयस्त्विमाः॥ 15.26 ॥
सोमो बृहस्पतिश्चैव भार्गवोऽथ बुधस्तथा।
एते सौम्यग्रहा योज्या वारोदयनिरीक्षणैः॥ 15.27 ॥
सप्तमान्नवमाद् वाऽपि प्रागेव स्याच्छुभेऽहनि।
पञ्चमाद् वाऽङ्कुरारोपस्त्रिकालोक्षार्चनान्वितः॥ 15.28 ॥
त्रिविधं पात्रमुद्दिष्टं मङ्गलाङ्कुररोपणे।
पालिका घटिका चैव शरावश्चेति भेदतः॥ 15.29 ॥
विष्णुब्रह्मशिवाधीशा निर्दोषाः सर्वकर्मसु।
प्रत्येकं द्वादश ग्राह्याः पालिकाः षोडशैव वा॥ 15.30 ॥
पञ्चविंशाङ्गुलोच्चास्तास्तद्वक्त्रं षोडशाङ्गुलम्।
षडङ्गुलं चतुष्कोच्चं पीठं तत्सन्धिरङ्गुलम्॥ 15.31 ॥
घटिकामानमङ्गुल्यः षोडश द्वादशैव वा।
पञ्च वक्त्राणि दिक्षूर्ध्वं मितानि चतुरङ्गुलैः॥ 15.32 ॥
पालिकापीठवत् पीठं नालं तु चतुरङ्गुलम्।
तालास्योच्चं शरावं तु चतुरङ्गुलपीठकम्॥ 15.33 ॥
त्रिषङ्क्त्तीकृत्य पात्राणि सुगुप्ते स्थान उत्तरे।
अग्न्यादीशानपर्यन्तं स्थापयित्वा प्रयत्नतः॥ 15.34 ॥
मृद्वालुकाकरीषैस्तु पूरितान्युत्तरोत्तरम्।
दूर्वादिभिरलंकृत्य धान्यकूर्चस्थितानि च॥ 15.35 ॥
यवमुद्गतिलव्रीहिमाषशिम्बकुलुस्थकान्।
प्रियङ्गुसर्षपश्यामराजमाषाढकीयुतान्॥ 15.36 ॥
द्वादशाक्षरमन्त्रेण क्षालयेच्च शुभानिमान्।
पुण्याहं वाचयित्वाऽऽदौ ब्राह्मणैः स्वस्ति वांच्य च॥ 15.37 ॥
अष्टाक्षरेण बीजानि क्रमात् तेषु विनिक्षिपेत्।
प्रादक्षिण्येन पूर्वोक्तक्रमादवहितो गुरुः॥ 15.38 ॥
जितं ते पुण्डरीकाक्ष! नमस्ते विश्वभावन!।
सुब्रह्मण्य! नमस्तेऽस्तु नमः पुरुष! पूर्वज!॥ 15.39 ॥
त्रितारकनमोऽन्तेन तेनैवं सवनत्रये।
कूर्चपाणिः क्रमात् सिञ्चेद् गन्धहारिद्रवारिणा॥ 15.40 ॥
देवतानामभिस्तानि गन्धपुष्पैश्च पूजयेत्।
पात्राणां देवताः प्रोक्ता बीजानामधुना शृणु॥ 15.41 ॥
यवसर्षमुद्गेषु ब्रह्मा रुद्रो हरिः क्रमात्।
वायुः पूज्यस्तु निष्पावे स्कन्दश्चैव प्रियङ्गुके॥ 15.42 ॥
माषेष्विन्द्रः कुलुस्थेऽग्निः शालिष्वर्को यमस्तिले।
वरुणो राजमाषे श्रीराढक्यां श्यामगः शशी॥ 15.43 ॥
मण्डलेषु सकूर्चेषु पूजयित्वाऽष्टदिक्क्रमात्।
रात्रीशेभ्यो बलिं दद्यात् पार्षदान्तं जलान्वितम्॥ 15.44 ॥
पललं रजनीचूर्णं सलाजं दधिसक्तुकम्।
भूतक्रूरबलिं दद्यात् पूर्वं भूतप्रहर्षणम्॥ 15.45 ॥
द्वितीयं पैतृकं चैव दद्यात् सतिलतण्डुलम्।
धानोडुम्बिकलाजैस्तु ततो यक्षबलिं हरेत्॥ 15.46 ॥
नालिकेरपयस्सक्तुशालिपिष्टविमिश्रितम्।
चतुर्थं निशि वै दद्यात् ततो नागबलिं बुधः॥ 15.47 ॥
पञ्चमं तु बलिं दद्यात् ब्राह्मं पद्माक्षतैर्युतम्।
चरुमाऽपूपयुक्तेन षष्ठं शैवबलिं हरेत्॥ 15.48 ॥
गुलान्नं वैष्णवं चैव सप्तमं तदनन्तरम्।
पायसं कृसरं दद्यादष्टमं नवमं तथा॥ 15.49 ॥
शुद्धवासाः शुचिर्भूत्वा नियतात्मा हविष्यभुक्।
प्रतिरात्रं बलिं दद्यात् ततः स्नानं समाचरेत्॥ 15.50 ॥
प्रातः कर्मदिने दत्त्वा पश्चात् कर्मणि योजयेत्।
प्रविशेत् गुरुरेवात्र नान्यः कोऽपि कथञ्चन॥ 15.51 ॥
उच्छिष्टाद्यशुभं सर्वं वर्जयेच्च प्रयत्नतः।
अदत्त्वा तु बलिं तत्र न कुर्यात् पालिकाक्रियाम्॥ 15.52 ॥
बल्यदाने तु नैष्फल्यात् सर्वथाऽङ्कुररोपणम्।
बलिना सह कर्तव्यं प्रयत्नाद् दिशिकोत्तमैः॥ 15.53 ॥
मण्डपे स्तम्भमूलेषु धान्ययुक्तेषु विन्यसेत्।
कर्मारम्भेषु पात्राणि सम्यग्रूढाङ्कुराणि तु॥ 15.54 ॥
श्यामेषु द्रव्यनाशः स्याद् रक्तेषु कलहो ध्रुवम्।
तिर्यग्गतेषु रोगः स्यादप्ररूढे मृतिर्भवेत्॥ 15.55 ॥
यदाऽङ्कुराणि रोहन्ति तदाप्रभृति नित्यशः।
मार्जनं ग्रामवीथीनां कृत्वाऽऽसिच्य समन्ततः॥ 15.57 ॥
नास्तिकोन्मत्तपाषण्डिपतितादीक्षिताशुचीन्।
ततो निर्वास्य यत्नेन यागद्रव्याणि संहरेत्॥ 15.58 ॥
प्रासादस्याग्रतः कृत्वा मण्डपं चतुरश्रकम्।
चतुर्द्वारं वितानादिशोभितं सुपरिच्छदम्॥ 15.59 ॥
तोरणान्यथ चत्वारि पञ्चहस्तोच्छ्रितानि च।
ध्वजानष्टौ पताकाश्च नवमं तार्क्ष्यलक्षणम्॥ 15.60 ॥
प्रासादविस्तरोत्सेधान् दशद्वारायतं ध्वजम्।
घटा हैमादयो ग्राह्या मार्त्तिका वा नवाः शुभाः॥ 15.61 ॥
लोहजं च महत् पात्रं कुम्भं द्रोणवहं तथा।
प्रस्थोद्वहानि चत्वारि चरुस्थालीश्च शोभनाः॥ 15.62 ॥
आज्यस्थालीं प्रणीतां च समिद्दर्भकुशांस्तथा।
सौवर्मराजते चान्ये पात्रे द्वे प्रसृतोद्वहे॥ 15.63 ॥
अर्घ्याद्यर्थानि चान्यानि लौहान्यब्जनिभानि च।
आयुधानि तथान्यानि जातिहेममयानि च॥ 15.64 ॥
कूर्मं गरुडमब्जं तु रत्नानि विविधानि च।
लोहान् धातूंश्च बीजानि दर्वीस्रुवजुहूस्रुचः॥ 15.65 ॥
मृत्तिकाघटिकाः सूत्ररजांसि कुसुमानि च।
गन्धगुग्गुलुतैलानि दधिक्षीरगुलं मधु॥ 15.66 ॥
गव्यं घृतं च होमार्थं गोमयं मूत्रमेव च।
कम्बलाजिनखट्वाश्च शयनं च नवं शुभम्॥ 15.67 ॥
उपधानद्वयोपेतं सकपोलस्थलद्वयम्।
शुक्लास्तरणसंयुक्तं वस्त्राणि विविधानि च॥ 15.68 ॥
सवत्सां कपिलां चौकां हेमशृङ्गीं पयस्विनीम्।
सुरभीश्च चतस्रोऽन्या दोहनानि शुभानि च॥ 15.69 ॥
कषायार्थस्त्वचश्चैव होमद्रव्याणि सर्वशः।
भूषणानि च रम्याणी चक्रिकापल्लवांस्तथा॥ 15.70 ॥
दूर्वाद्योषधिजातानि फलानि मधुराणि च।
मूलान्युद्वर्त्तनादीनि हैमं यज्ञोपवीतकम्॥ 15.71 ॥
मङ्गलानि शुभान्यष्टौ कुण्डिकां वर्धनीं तथा।
शुष्केन्धनानि दीपांश्च सूत्रं धान्यानि तण्डुलान्॥ 15.72 ॥
चतुर्विधं तथा वाद्यं गायकान् नर्त्तकांस्तथा।
विप्रान् वेदविदः शान्तान् वैष्णवांस्तु विशेषतः॥ 15.73 ॥
शब्दन्यायनिमित्तज्ञान् प्रयोग्ज्ञांश्च वैदिकान्।
मुहूर्त्तज्ञांश्च कालज्ञान् व्रतिनो मन्त्रपाठकान्॥ 15.74 ॥
यतींश्च विमलज्ञानांस्तक्षकांश्च विशेषतः।
उक्तानुक्तं च यत् सर्वं कार्ये दृष्ट्वा तदाहरेत्॥ 15.75 ॥
यागोपकरणं सर्वं स्थानादि च विशेषतः।
सर्वं भोगेन दुष्टं स्यात् तस्मात् सर्वं नवं शुभम्॥ 15.76 ॥
मलक्षालनमात्रेण शुद्धिर्भवति लौकिकी।
देवपूजासु शास्त्रोक्तं स्नानं स्यात् कायशोधनम्॥ 15.77 ॥
लोकसंव्यवहारेषु धर्मशास्रान्तरेषु च।
विहिताः शुद्धयो ग्राह्या विष्णुभक्तेन धीमता॥ 15.78 ॥
खननादीनि दुष्टायाः शोधनानि विदुर्भुवः।
शुद्धामपि तु यागार्थं गोमयेनोपलेपयेत्॥ 15.79 ॥
तद् धेनुजं नवं भूस्थं क्षीराद्यपि सुगालितम्।
घृतं विलीनमुत्पूतं सुगन्धीष्टं विशेषतः॥ 15.80 ॥
गां लिप्त्वाऽस्त्रेण संविध्य हस्तं प्रक्षाल्य सम्मृशेत्।
प्रोक्ष्याक्षतैः ससिद्धार्थैः किरेत् तत् स्थानशोधनम्॥ 15.81 ॥
तोयेन साम्लकल्केन ताम्रं हैमं तु वारिणा।
राजतं गृहधूमेन पलालाङ्गारकेण वा॥ 15.82 ॥
लोजतं भस्मना शुध्येच्छङ्खादि लवणेन च।
मृदाऽद्भिः फलपात्राणि दारवाणि तु तक्षणात्॥ 15.83 ॥
पार्थिवानि तु दाहेन नवान्येवाददीत वा।
लेपगन्धापनोदेन शुद्धिः सर्वस्य कीर्त्तिवा॥ 15.84 ॥
सकूर्चे गन्धपुष्पाढ्ये जले ताराभिमन्त्रिते।
ध्यात्वा मन्त्रमयं ज्योतिः प्रोक्षणं द्रव्यशोधनम्॥ 15.85 ॥
अक्षाराकलुषं शुद्धं भूरि नद्यादिसम्भवम्।
सुरसं दुर्जनास्पृष्टमम्भः स्यात् सर्वकर्मसु॥ 15.86 ॥
लौही पात्रवदर्चाऽपि शोध्या चूर्णैस्तु शैलजा।
शोधनं दारवस्यैवं चित्रस्य मलहानतः॥ 15.87 ॥
मार्जनं मणिजानां तु धातुजानां तु शैलवत्।
एवं संशोध्य संहृत्य सृष्ट्वाऽङ्गैः सकलीकृतम्॥ 15.88 ॥
शुध्यत्यस्थावरं बेरं स्थावरं स्नपनादिभिः।
मार्जनादेव शुध्यन्ति क्षालनाद् वा कुशादयः॥ 15.89 ॥
सदर्भासन आसीनः पूजास्थानादधः सुधीः।
दर्भपाणिः सकूर्चेन वारिणा मन्त्रतेजसा॥ 15.90 ॥
प्रोक्षणाच्छोधयेत् सर्वमात्मानं दारणादिभिः।
न्यासश्च प्रणवो दर्भाः प्रशस्ता मन्त्रशोधने॥ 15.91 ॥
आवृत्तिगणनं मुद्रा ध्यानं च परिकीर्तितम्।
सत्यप्रियहितैर्वाचो ज्ञानं तुष्टिश्च चेतसः॥ 15.92 ॥
सर्वेषामपि विज्ञेया भक्तिरेका विशोदिनी।
स्थलजं करवीरादि जलजं कमलादि च॥ 15.93 ॥
अवर्जितं नवं पुष्पं सुगन्धि विनिवेदयेत्।
यत्किञ्चित् पीतवर्णं तु सितं वा शुचिनाऽऽहृदतम्॥ 15.94 ॥
अवस्त्राहृतमम्लानं पुष्पं स्याद् ग्राह्यमापादि।
सच्छिद्रं मुकुलं जीर्णं पतितं पात्रवर्जितम्॥ 15.95 ॥
भुक्तसेषमगन्धं च केशकीटादिमिश्रितम्।
पुष्पमापद्यपि त्याज्यमर्कपत्रगतं तथा॥ 15.96 ॥
प्रतिषिद्धानि पुष्पाणि सुस्नातोऽपि यदि स्पृशेत्।
स्नायात् पुनरशक्तश्चेदुपस्पृश्यार्चयेत् प्रभुम्॥ 15.97 ॥
स्वयं पत्न्यथवा पुत्रः शिष्यो वा पुष्पमाहरेत्।
शुद्धपाणिः सुपात्रस्थं पिधायानातपे न्यसेत्॥ 15.98 ॥
रात्रिपुष्पैर्यजेद् रात्रौ दिवापुष्पैर्दिवा तथा।
आपत्काले यथायोगं प्राप्तकालं तु शस्यते॥ 15.99 ॥
निर्गन्धमपि मन्दारपीतकोरण्डकादि यत्।
प्रशस्तं तदपि ग्राह्यं गिरिकर्ण्यादिवर्जितम्॥ 15.100 ॥
दूर्वापामार्गभद्राणां तृलसीगन्धपूर्णयोः।
तमालाश्वत्थबिल्वानां शम्याः कुशपलाशयोः॥ 15.101 ॥
पत्राणि धातकीब्राह्मीभृङ्गाणामपि पुष्पवत्।
यवप्रियङ्गुनिष्पावमुद्गमाषचणाङ्कुरान्॥ 15.102 ॥
सुसंभृतानलूनाग्रान् पुष्पालाभे प्रकल्पयेत्।
पुष्पं स्वारामजं मुख्यं मध्यमं वन्यमाहृतम्॥ 15.103 ॥
अधमं क्रीतमर्चायां फलं दातुः प्रतिग्रहे।
पृथग्वा सह वा पिष्टैः सितास्रेन्दुरुगायसैः॥ 15.104 ॥
कृत्रिमैर्वाऽर्चयद् गन्धैः प्राण्यङ्गरहितैः शुभैः।
सालसर्जपुराणां वा दारुसेव्येन्द्वयोरुजाम्॥ 15.105 ॥
धूपमाज्यादिसंयुक्तं शुभे पात्रे निवेदयेत्।
तैलेनाज्येन वा दीपं दारुस्रेहेन वाऽऽपदि॥ 15.106 ॥
सूत्रवर्त्तियुतं तद्यादमुखानिलदीपितम्।
त्रिः क्षालितैरनुत्स्विन्नैरमलैः शालितण्डुलैः॥ 15.107 ॥
शृतं घृतोपदंशादियुतमन्नं निवेदयेत्।
कालपक्वान्यदुष्टानि फलानि मधुराणि च॥ 15.108 ॥
Chapter - 16
अथ वक्ष्यामि संक्षेपाद् बिम्बशुद्धिं यथाक्रमम्।
आचार्यं वरयेत् पूर्वं ततः कर्माणि कारयेत्॥ 16.1 ॥
देवस्तु द्विविधो ज्ञेयः स्थावरो जङ्गमस्तथा।
प्रतिमा स्थावरो देव आचार्यो जङ्गमस्तथा॥ 16.2 ॥
भक्तानुकम्पी भगवान् विधिमन्त्रपुरस्कृताम्।
पूजां तयोः प्रगृह्णाति याज्यो नह्यन्यता हरिः॥ 16.3 ॥
आचार्यानुमतादेव क्रिया कार्या विजानता।
तत्पूजयैव देवश्च वरदो नान्यता भवेत्॥ 16.4 ॥
दीक्षादिसंस्कृतः शान्तो विद्वानक्रोधनो युवा।
समयाचारकृद् वाग्मी वर्णाश्रमगुणान्वितः॥ 16.5 ॥
आचार्यः सर्वथा ग्राह्यः स्थापनादिषु यज्वना।
सर्वरोगोपशान्तेन भद्राकारेण धीमता॥ 16.6 ॥
श्रोत्रियेण गृहस्थेन स्थाप्यो देवस्तु सिद्धये।
कुलीनाः शुचयो दक्षा दीक्षितास्तन्त्रपारगाः॥ 16.7 ॥
भक्ता दक्षा विनीताश्च विप्रा मूर्तिधराः स्मृताः।
देवागारे गृहे नाद्यास्तीरे गोष्ठे तरुस्थले॥ 16.8 ॥
अन्यत्र वा शुभे स्थाने दुर्जनालोकवर्जिते।
गोमयेन समालिप्ते पञ्चगव्यादिशोधिते॥ 16.9 ॥
आसने वस्त्रसंवीते सदर्भे प्रार्थितं गुरुम्।
चतुर्भिर्मूर्तिपैः सार्धमष्टद्वादशभिस्तु वा॥ 16.10 ॥
उपवेश्य यथान्यायं पाद्यादिभिरथार्चयेत्।
पूर्वोत्तरदिशाभागे प्रागग्रेषु कुशेषु च॥ 16.11 ॥
यजमानः शुचिर्भुत्वा पूजाद्रव्याणि सादयेत्।
प्रणवेन सकूर्चानि पात्राणि तु शुभानि च॥ 16.12 ॥
वस्त्रकुण्डलयुग्मानि भूषणानि शुभानि च।
कूर्चसंस्कृततोयेन प्रोक्ष्योत्तानानि वै क्रमात्॥ 16.13 ॥
कूर्चेषु प्रणवेनैव विन्यस्यार्ध्यादि योजयेत्।
कुशाग्रयवसिद्धार्थतिलमाषफलाक्षतैः॥ 16.14 ॥
सक्षीरगन्धपुष्पैश्च योजयित्वाऽर्घ्यमर्चयेत्।
पाद्यमाचमनीयं च पात्रयोरन्ययोस्तथा॥ 16.15 ॥
मन्त्रयेत् पुनरेतानि मूलाङ्गैर्मूर्त्तिभिस्तु वा।
दत्त्वा कूर्चान्यथैतेषामासनार्थं तु वाग्यतः॥ 16.16 ॥
सपवित्रैर्जलैः पादौ क्षलयेद्धृदयेन तु।
शिरसाऽऽचमनं दद्याच्छिखया चार्घ्यमेव च॥ 16.17 ॥
वस्त्रयुग्मानि भूषाश्च शेषाभ्यां तु निवेदयेत्।
पायसं भोजयेत् साज्यं प्रणम्य विधिनाऽर्च्य च॥ 16.18 ॥
सोष्णीषं गुरुमाचान्तमभिवाद्य प्रसाद्य च।
यथालाभं सुवर्णादि दद्याद् देवमनुस्मरन्॥ 16.19 ॥
ऋत्विग्भ्योऽपि तथा दत्त्वा वरयेत् प्रणिपत्य तान्।
कार्यमुक्त्वा विधानेन पूजयेच्च पुनः पृथक्॥ 16.20 ॥
सन्तोष्य प्रियवादैश्च प्रणम्य प्रार्थयेत् ततः।
मया सम्पूजितैरत्र दक्षिणाभिश्च तोषितैः॥ 16.21 ॥
क्रियतां विष्णुयागो मे प्रार्थयामि प्रसीदतु।
इत्युक्त्वा दक्षिणे पाणावालम्ब्य वरयेत् क्रमात्॥ 16.22 ॥
तत्रों तथा करिष्यामीत्याचार्यस्तु समीरयेत्।
एवं वै सर्वयागेषु गुरुं सम्पूज्य यत्नतः॥ 16.23 ॥
प्रणिपत्यर्त्विजस्तेभ्यो दत्त्वाऽर्घ्यं वरयेद् बुधः।
पुनरेवं तु तन्त्रज्ञान् दीक्षितान् होमिनस्तथा॥ 16.24 ॥
वेदाध्ययनकर्तॄंश्च शुद्धान् वै मन्त्रपाठकान्।
कल्पयेद् यजमानस्तानाचार्यवचने स्थितान्॥ 16.25 ॥
वास्तुसङ्ग्रहमारभ्य तीर्थस्नानानावसानिकम्।
कारयेत् सर्वमेतेन भक्त्या हरिमिवार्चयेत्॥ 16.26 ॥
शयने सन्निवेश्यादौ बिम्बं तु सुपरीक्षितम्।
गृहीतं धनदानेन पूजयित्वाऽत्र शिल्पिनः॥ 16.27 ॥
नयनोन्मीलनं तुष्टैः कारयेच्च यथाविधि।
प्रणवेन तु कर्तव्यः प्रतिमालोकसङ्ग्रहः॥ 16.28 ॥
प्लुतं प्रणवमुच्चार्य पादयोस्तां तदा स्पृशेत्।
प्रक्षाल्य वारिभिः पूर्वं दर्भैः संघृष्य सर्वतः॥ 16.29 ॥
स्पृष्ट्वा गोवालकैश्चैनां घृताक्तां क्षालयेत् ततः।
शमीपल्लवसंयुक्तानक्षतान् संस्कृतेऽनले॥ 16.30 ॥
भूरादिसत्यपर्यन्तैः प्रत्येकं जुहुयाच्छतम्।
स्थूलदेहो यतो विष्णुर्वैराजश्रुतिदर्शनात्॥ 16.31 ॥
तस्मादेवं हुते विष्णोः सम्पूर्णा प्रतिमा भवेत्।
ब्राह्मणैः स्वस्ति वाच्याथ शाकुनं सूक्तमुच्चरन्॥ 16.32 ॥
दत्त्वा दूर्वाक्षतान् मूर्ध्नि प्रणवेन समाहितः।
नीराजनं ततः कुर्यान्मङ्गलानि च दर्शयेत्॥ 16.33 ॥
अपराह्णे तु सम्प्राप्ते मूर्त्तिपैः साहितो गुरुः।
गत्वा नद्यां तटाके वा देवखाते मनोरमे॥ 16.34 ॥
तोयपूर्णेऽथवा पात्रे सम्पूज्य वरुणं पुनः।
सपताकं तटं कृत्वा शोधितं सर्वतो वृतम्॥ 16.35 ॥
संहृत्याग्निमयं ध्यात्वा बिम्बं संहारमार्गतः।
दर्भैर्वस्त्रैश्च संछाद्य फलकायां निवेश्य च॥ 16.36 ॥
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च संयुतम्।
योगपीठं स्मरञ् ज्योतिर्बिम्बमप्सु निवेशयेत्॥ 16.37 ॥
लोकपालान् बहिर्ध्यात्वा पञ्चमन्त्रैश्च रक्षयेत्।
प्राक्शिरः शाययित्वैवं बिम्बं तोयेऽधिवासयेत्॥ 16.38 ॥
त्रिरात्रमश्मनो लोहमेकरात्रं मणिं निशाम्।
स्नात्वाऽऽचम्य शुचिर्भूत्वा वस्त्रालङ्कारभूषितः॥ 16.39 ॥
मूर्त्तिपैः सार्धमागम्य प्रासादं सप्रदक्षिणम्।
न्यासादिकं क्रमात् कृत्वा दक्षइणे प्राङ्मुखः शुचिः॥ 16.40 ॥
प्रासादं शोधयेत् सम्यक् मुक्तमात्रं तु तक्षकैः।
सूत्रेण दर्भदाम्ना च वेष्टयित्वा समन्ततः॥ 16.41 ॥
अस्त्रदृष्ट्या समालोक्य गर्भागारं पुनस्तथा।
कुशास्त्रमार्जितं तोयैः प्रोक्ष्य गन्धैश्च लेपयेत्॥ 16.42 ॥
सर्षपाक्षतदूर्वाभिः समन्ताद् विकिरेत् पुनः।
ततश्चास्त्रेण सम्प्रोक्ष्य कुर्यात् तालत्रयं तथा॥ 16.43 ॥
दूर्वाक्षतकुशाग्रैस्तु विकिरेत् पञ्चशक्तिभिः।
सर्जश्रवेष्टलाक्षाब्जश्वेतलोध्रफलादिभिः॥ 16.44 ॥
अष्टाक्षरेण सर्वत्र धूपं दत्त्वा सदीपकम्।
पूर्णकुम्भं च धान्यं च न्यस्य पुष्पास्त्रमोचनम्॥ 16.45 ॥
कृत्वा राक्षोघ्नसूक्तेन पञ्चगव्येन सर्वतः।
चक्रमन्त्रेण च प्रोक्ष्य गोमयेनोपलेपिते॥ 16.46 ॥
आग्नेय्यां स्थण्डिले होममारभेत यथाविधि।
रक्षोहणादिमन्त्राभ्यां पक्वमाज्यं च होमयेत्॥ 16.47 ॥
कृणुष्वाष्टादशैर्भूयो येदेवा इति पञ्चभिः।
जातवेदादिभिश्चैव क्रमाद् व्याहृतिभिस्तथा॥ 16.48 ॥
अपामार्गसमिद्भिस्तु शतमष्टोत्तरं ततः।
चक्रमन्त्रेण वै हुत्वा हविराज्यं समापयेत्॥ 16.49 ॥
वस्त्रेणानीय पात्रे तु होमभस्मसमायुतम्।
आज्यशेषमपां शेषमपामार्गरसैर्युतम्॥ 16.50 ॥
मन्त्रयेच्चक्रमन्त्रेण शतमष्टोत्तरं ततः।
पलाशाश्वत्थशाखभिः प्रोक्ष्य सर्वत्र मन्दिरे॥ 16.51 ॥
कृणुष्वेत्यादिभिः पश्चात् विकिरेद् यवसर्षपैः।
तालत्रयं पुनः कुर्यादग्निप्राकारमेव च॥ 16.52 ॥
पुनरष्टशतं जप्त्वा चक्रं श्वभ्रं च पूजयेत्।
एवं कृत्वाऽथ राक्षोघ्नं निशि विप्रांश्च भोजयेत्॥ 16.53 ॥
तमेवैशेऽग्निमाधाय स्थण्डिले व्रीहितण्डुलैः।
तत्पूर्वे स्थण्डिले कलृप्ते वस्रास्तीर्णे घटं न्यसेत्॥ 16.54 ॥
कुशदूर्वाशमीपर्णकूर्चस्थं जलपूरितम्।
जातिहेम न्यसेत् तस्मिन् विधिना शान्तिमर्चयेत्॥ 16.55 ॥
पाद्यादिभिः क्रमाद् द्रव्यैः शन्नोदेवीत्यृचा ततः।
वास्तोष्पतेतिमन्त्राभ्यां पक्वं हुत्वा घृताहुतीः॥ 16.56 ॥
वास्तोष्पतेध्रुवेत्याद्यैः षङ्भिर्जातादिपञ्चभिः।
शन्नवर्गेण जुहुयात् पुनर्व्याहृतिभिस्तथा॥ 16.57 ॥
शमीसमिद्घृतान्नाज्यं तयैवर्चा तु होमयेत्।
दूर्वाभिश्चाथ मूलेन सगव्याभिः समापयेत्॥ 16.58 ॥
हुतशेषं ततो दद्यादग्रेणाग्निं कुशेषु च।
नमोरुद्रेति तोयाज्यैस्त्वं विप्रयजुषोक्षणम्॥ 16.59 ॥
शान्तितोयसमायुक्तं कुर्याच्च स्वस्तिवाचनम्।
पुण्याहं मूर्तिपैः सार्धं शिवं वास्त्विति वाचयेत्॥ 16.60 ॥
ब्राह्मणान् भोजयेत् पश्चात् पायसं द्वादशोत्तमान्।
मण्डपे शोधिते स्थाप्य अन्तस्तम्भेष्वृगादयः॥ 16.61 ॥
द्वारेषु च समालानि तोरणानि यथाक्रमम्।
सुशोभनाख्यमाश्वत्थं सुभद्राख्यमुदुम्बरम्॥ 16.62 ॥
नैयग्रोधं सुकर्माख्यं सुहोत्रं प्लाक्षमेव च।
स्योनापृथिवीमन्त्रेण प्रक्षिपेत् साक्षतांस्तिलान्॥ 16.63 ॥
उच्छ्रयस्वेति संस्थाप्य प्रादक्षिण्येन पूजयेत्।
दिक्षु पीतोऽरुणः श्यामः कृष्णोऽच्छः कृष्णपाण्डरः॥ 16.64 ॥
पद्मवर्णश्च चित्रोऽष्टौ ध्वजाः स्थाप्या यथाक्रमम्।
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः॥ 16.65 ॥
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः।
इत्येते पूजनीयाश्च ध्वजानामधिदेवताः॥ 16.66 ॥
अनेककोटिसंघैश्च भूतैः प्रत्येकशो वृताः।
पूर्णकुम्भान् प्रतिद्वारं द्वौ द्वौ विन्यस्य पूजयेत्॥ 16.67 ॥
पद्मरागप्रवालाप्सु प्राक् पूज्यौ पूर्णपुष्करौ।
वैडूर्यपुष्यतोयस्थौ ततैवानन्दनन्दनौ॥ 16.68 ॥
वीरसेनसुषेणौ च नीले मरतके तथा।
सम्भवप्रभवौ चैव मुक्तास्फटिकतोययोः॥ 16.69 ॥
वास्तुपूजां पुरा कृत्वा तोरणध्वजपूजनम्।
भूमेः परिग्रहोऽग्नेश्च संस्कारोऽनन्तरः स्मृतः॥ 16.70 ॥
त्रातारं यदुलूकोऽथ इमं मे सन्त? इत्यृचः।
दिक्पालकलशार्चायां तन्मन्त्रा इह कीर्तिताः॥ 16.71 ॥
बह्वृचोऽध्वर्यवश्चैव छन्दोगाथर्वणा द्विजाः।
धर्मशास्रार्थतत्त्वज्ञा दिक्षु पारायणे स्मृताः॥ 16.72 ॥
ऐतिहासिकवाक्यार्थतत्त्वज्ञा ब्रह्मावित्तमाः।
कोणेषु मूर्तिपा एवं कल्प्या होमेष्वनुक्रमात्॥ 16.73 ॥
स्वां स्वां विद्यां पठन्तस्ते तच्चित्ता निशि जागृयुः।
स्वस्तिके मूलविन्यस्तधान्येऽष्टककुशान्विते॥ 16.74 ॥
द्वादशाक्षरमन्त्रेण शयनं तत्र कल्पयेत्।
कलशान् स्थापयेदष्टौ पीठस्य परितः क्रमात्॥ 16.75 ॥
अद्भिः सम्पूरितान् सर्वान् धान्यराशिगतान् शुभान्।
सपल्लवमुखान् सूत्रवेष्टितान् वस्त्रवेष्टितान्॥ 16.76 ॥
व्यस्तैरष्टाक्षरैरेतान् गन्धपुष्पैश्च पूजयेत्।
योगपीठं प्रकल्प्यात्र शक्तिपर्यन्तमर्चयेत्॥ 16.77 ॥
सर्वधान्यैश्च पूष्पैश्च निर्वपेत् पीठपर्ययात्।
विद्याधिपतयश्चात्र पूजनीयाः समन्ततः॥ 16.78 ॥
विष्णुमैन्द्रे ततस्तत्र दक्षिणे मधुसूदनम्।
त्रिविक्रमं तु वारुण्यां वामनं तु तथोत्तरे॥ 16.79 ॥
श्रीधरं तु तथाग्न्य्यां हृषीकेशं तु नैर्ऋते।
पद्मनाभं च वायव्यां दामोदरमथापरे॥ 16.80 ॥
ऐशान्यां तस्य पीठस्य स्थापयेज्जलभाजनम्।
सोष्णीषः सोत्तरीयश्च वाग्यतो वारि गालयेत्॥ 16.81 ॥
नवेनारोमवस्त्रेण प्रोक्षितेन च मन्त्रतः।
पूरयेत् प्रणवेनैव पात्रं कुसुमवारिणा॥ 16.82 ॥
पूजयेत् पूरयित्वा तु द्वादशाक्षरविद्यया।
रक्षितव्यं वितानाद्यैः सम्यगाच्छाद्य सर्वतः॥ 16.83 ॥
मङ्गलाङ्कुरपात्राणि मङ्गलानि च विन्यसेत्।
शङ्खं चक्रं पताकां च श्रीवत्सं दर्पणं वृषम्॥ 16.84 ॥
मत्स्ययुग्मं च कुम्भं च मङ्गलानि प्रचक्षते।
कुर्यान्मण्डपमैशान्यां चतुरश्रं समन्ततः॥ 16.85 ॥
चतुर्हस्तं चतुः स्तम्भं मध्ये पीठसमन्वितम्।
स्नानद्रव्यैश्च संयुक्तं क्रमात् कुम्भेषु पूरितैः॥ 16.86 ॥
अष्टोत्तरशतं हुत्वा घृतमष्टाक्षरेण तु।
सम्पाताज्येन संस्पृश्य कलशानभिमन्त्रयेत्॥ 16.87 ॥
हिरण्यवर्णां हरिणीमिति सर्वान् यथाक्रमम्।
तत्रार्चां तु समानीय स्नापयेदेकबेरके॥ 16.88 ॥
रत्नन्यासं पुरा कृत्वा लेप्यार्चा क्रियते यदा।
प्रतिमाऽन्या तु कर्तव्या लोहजा कर्मकारणात्॥ 16.89 ॥
प्रतिष्ठान्यासमुद्रादि मूलार्चायां प्रकल्पयेत्।
स्नानादिशेषकर्माणि कर्मार्चायामिति स्थितिः॥ 16.90 ॥
मूलार्चां वाऽपि कर्मार्चां तथा तोयेऽधिवासिताम्।
उद्धृत्य विधृतां यत्नाच्चतुर्भिर्मूर्त्तिधारकैः॥ 16.91 ॥
दर्भपाणिः स्थितो विद्वानुपातिष्ठेत संस्थिताम्।
नमस्तेऽर्चे! सुरेशानि! प्रतीके विश्वकर्मणः॥ 16.92 ॥
प्रभाविताशेषजगद्धात्रि! तुभ्यं नमो नमः।
त्वयि सम्पूजयामीशं नारायणमनामयम्॥ 16.93 ॥
रहिता योनिदोषैस्त्वमृद्धियुक्ता सदा भव।
विज्ञाप्यैवं दुकूलांशुसिद्धार्थकयुतं शुभम्॥ 16.94 ॥
उर्णासूत्रेण बध्नीयात् कौतुकं दक्षिणे करे।
अङ्गुष्ठानामिकाभ्यां तु सारयित्वा जितादिना॥ 16.95 ॥
अष्टाक्षरेण संजप्तं सप्तधा विघ्नशान्तये।
ततोऽर्चां तु सुवस्त्राढ्यां ब्रह्मयानेन तां नयेत्॥ 16.96 ॥
शाकुनेनैव सूक्तेन वितानाद्युपशोभिताम्।
त्रीणीत्यास्थाप्य पीठे तां भद्रं कर्णेति कीर्तयेत्॥ 16.97 ॥
तेजोऽसीति समालिप्य गव्येनाज्येन साधकः।
चूर्णैस्तोयैश्च संक्षाल्य स्नापयेत् तैर्यथाक्रमम्॥ 16.98 ॥
मृत्कषायौषधीतीर्थैर्गव्यैर्व्यस्तैः समस्तकैः।
नद्यास्तटाभ्यां सङ्गृह्य मृदं वल्मीकजां तथा॥ 16.99 ॥
कुलीरवासतः क्षेत्राद् विषाणाग्राच्च वेदितः।
शमीपलाशखदिरबिल्वाश्वत्थविकङ्कताः॥ 16.100 ॥
उदुम्बराश्च न्यग्रोधाः कषायाङ्गानि चैव हि।
शङ्खपुष्पीं प्रियङ्गुं च विष्णुक्रान्तीं शतावरीम्॥ 16.101 ॥
दूर्वां चैवामृतां चैव गृह्णीयाद् रजनीं वचाम्।
हिरण्यवर्णाः शुचयः समुद्रज्येष्ठेति च क्रमात्॥ 16.102 ॥
इदमाप इमं मे च तीर्थं तं विनियोजयेत्।
गायत्र्त्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम्॥ 16.103 ॥
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि।
तेजोऽसि शुक्रमित्याज्यं देवस्यत्वा कुशोदकम्॥ 16.104 ॥
पञ्चगव्यं पयस्वत्या यासां गन्धोदकं तथा।
आपोहिष्ठेति वै दद्यात् स्वच्छतोयं ततः परम्॥ 16.105 ॥
परमेश्वरमन्त्रेण स्नापयेत् सकलेन च।
मधुवातेति संयोज्य तैजसे मधुसर्पिषी॥ 16.106 ॥
उद्धाट्य नयने चास्य ततो हेमशलाकया।
चित्रं देवत्यृचा चैकाप्यायस्वेत्यृचा परम्॥ 16.107 ॥
यजमानश्च गां दद्याद् गोविन्दः प्रीयतामिति।
स्नापयेत् कलशैः पश्चाच्चतुर्भिः कोणगैरपि॥ 16.108 ॥
ब्रह्मश्रीचम्पकक्षीरनीपाम्रबलुलार्जुनैः।
साशोकैः पल्लवैर्मन्त्री हंसः शुचिषदित्यृचा॥ 16.109 ॥
पद्मकं रोचनां दूर्वां दर्भस्तम्बाच्छसर्षपान्।
चन्दने जातिरावर्त्तं कुन्दं विष्णोरराटया॥ 16.110 ॥
यवव्रीहितिला हेम रजतं कूलमृद्द्वयम्।
गोमयं भूम्यसंस्पृष्टं सोमं राजानमित्यृचा॥ 16.111 ॥
समीवर्यमृताक्रान्तिसहाभृङ्गमहौषधीः।
स्यामाकं विश्वतश्चक्षुरिति तैः स्नानमाचरेत्॥ 16.112 ॥
आवाहयेत्ततो देवं पीताम्बरधरं हरिम्।
एह्येहि भगवन्! विष्णो! लोकानुग्रहकारक!॥ 16.113 ॥
यज्ञभागं गृहाणेमं वासुदेव! नमो नमः।
पाद्यमाचमनं चार्ध्यं दद्यान्मूलेन वै ततः॥ 16.114 ॥
अहते वाससी दद्यात् पवित्रं चाष्टकेन तु।
सौवर्णं दापयेत् सूत्रं विष्णुगायत्रिया पुनः॥ 16.115 ॥
भूषणानि ततो दद्याद् द्वादशाक्षरविद्यया।
नीराजनं ततः कुर्याद् गन्धपुष्पाक्षतादिभिः॥ 16.116 ॥
स्रग्भिश्च धूपदीपैश्च फलगोरोचनाञ्जनैः।
पादुकाव्यजनच्छत्रमधुपर्कैश्च पूजयेत्॥ 16.117 ॥
वारिधारां च मूलेन पातयेद् देवपादयोः।
आचामं च पुनर्धूपं मुखवासं च दर्पणम्॥ 16.118 ॥
अङ्गरागं च मालां च दद्यात् पुष्पाञ्जलिं ततः।
सामभिश्च ततः स्तुत्वा पवित्रं स्तोत्रमीरयेत्॥ 16.119 ॥
पुण्याहं चात्र कुर्वीत वैष्णवैः सह मन्त्रवित्।
तिलाश्च दक्षिणा देया वैष्णवेभ्यो यथाविधि॥ 16.120 ॥
समाहितः स्मरेत् पश्चाद् भक्त्या तु पुरुषोत्तमम्।
एवं कृत्वा तु तामर्चामानयेच्छयनं प्रति॥ 16.121 ॥
पौरुषेण तु सूक्तेन शङ्खभेर्यादिनिस्वनैः।
द्वादशाक्षरमन्त्रेण शयने सन्नवेशयेत्॥ 16.122 ॥
अयं स इति चोक्त्वाऽन्ते सर्वयोगेश्वरोमिति।
जपेदष्टाक्षरं मन्त्रं मङ्गलानि च विन्यसेत्॥ 16.123 ॥
हेमपात्रे घृतं पूर्णं शिरः स्थानेऽस्य विन्यसेत्।
राजतं मधुपूर्णं च पादस्थाने विचक्षणः॥ 16.124 ॥
सक्षीरं ताम्रपात्रं च दक्षिणेन प्रकल्पयेत्।
लोहपात्रगतं वामे शान्तितोयं च विन्यसेत्॥ 16.125 ॥
मृत्पात्रे पञ्चगव्यं च पञ्चमं तु तदग्रतः।
तेषामालभनं कुर्यात् परमेष्ठ्यादिभिः क्रमात्॥ 16.126 ॥
चतुरश्रं धनुर्वृत्तं त्रिकोणं च यथाक्रमम्।
कारयेद् दिक्षु चत्वारि कुण्डानि कुशलो गुरुः॥ 16.127 ॥
अरत्निमात्रे पीठस्य समन्ताद्धस्तमानतः।
त्रिमेखलानि सर्वाणि कार्याण्यर्धावटानि च॥ 16.128 ॥
आचार्यकुण्डादुद्धृत्य पश्चादन्येषु निक्षिपेत्।
कुण्डेषु संस्कृतं वह्निं कृत्वोल्लोखादिकं क्रमात्॥ 16.129 ॥
जननादिविहीनं तु प्रकृतिन्यासपूर्वकम्।
स्वसाखाग्निमुखान्तेऽन्नं गायत्र्या जुहुयुः क्रमात्॥ 16.130 ॥
हृदयं पूर्वकुण्डे तु दक्षिणे तु शिरस्तथा।
पश्चिमे तु शिखां कुर्यादुत्तरे कवचं तथा॥ 16.131 ॥
नेत्रास्त्रयोर्न कार्योऽत्र होमः स्यान्मूर्तिभिस्तु वा।
समिदाज्यचरुन् लाजान् सर्षपांश्च यवास्तिलान्॥ 16.132 ॥
व्रीहीनाज्यं पुनश्चैवं सर्वकुण्डेषु होमयेत्।
मूलेनाष्टसहस्रं तु तदाचार्यस्तु होमयेत्॥ 16.133 ॥
Chapter - 17
अथ वक्ष्यामि संक्षेपादधिवासनमुत्तमम्।
यद्योगाज्जायतेऽर्चायां सदा सन्निहितो हरिः॥ 17.1 ॥
अस्त्रदग्धो करौ जातावन्यौ तत्त्वमयौ स्मरेत्।
प्रणवाङ्गुष्ठकौ कार्यौ तौ स्वराङ्गुलिपर्वकौ॥ 17.2 ॥
सबिन्दुकतलौ सर्गपुष्ठगौ वामदक्षिणौ।
व्यञ्जनानि पृथङ् न्यस्य नादमङ्गुष्ठयोर्न्यसेत्॥ 17.3 ॥
रेचयित्वा ततो वायुं प्रविशेत् तत्र पूरके।
विद्याकोशं ततः पश्चादानुपूर्व्येण मन्त्रवित्॥ 17.4 ॥
महाभूतमयं देहं धर्माधर्मसमन्वितम्।
शुष्कं दग्धं क्रमाद् ध्यात्वा प्लावितं च स्वबीजकैः॥ 17.5 ॥
बिन्दुरूपयुतं ध्यायेदात्मानं व्योम्न्यवस्थितम्।
यथा सिक्ताद् भवेद् बीजादङ्कुरस्तद्वदात्मनः॥ 17.6 ॥
प्रभवं चिन्तयेद् दिव्यं प्रणवत्वमुपागतम्।
त्रिगुणामष्टधीयुक्तं प्रकृतिं तां विदुर्बुधाः॥ 17.7 ॥
आद्यावकारौ बुद्ध्याख्यौ इकारौ चाप्यहङ्कृतिः।
मनो द्वौ तत्परौ व्योमपञ्चतत्त्वं स्वरान्तिकम्॥ 17.8 ॥
आत्मजीवोदरश्रोत्रजिह्वाघ्राक्षित्वचः क्रमात्।
ऊष्मान्तस्थाः शिरःकूटं बाहुजङ्घे च वर्गशः॥ 17.9 ॥
कवर्गोऽङ्गुलयः सर्वाः स्थूलदेहोऽयमीदृशः।
सूर्याम्बुजस्थं वागीशं वागीश्वर्या समन्वितम्॥ 17.10 ॥
सर्वशक्तियुतं मन्त्रमष्टबाहुं हरिं स्मरेत्।
दिवाकरसहस्राभं दुर्निरीक्ष्यं सुरासुरैः॥ 17.11 ॥
ब्रह्मरन्ध्रेण देहान्तः प्रविशन्तं विचिन्तयेत्।
व्यापकं विन्यसेन्मूलमङ्गानि च यथाक्रमम्॥ 17.12 ॥
आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम्।
कुर्याद् भावान्वितो विष्यणोरधिवासनमुत्तमम्॥ 17.13 ॥
बिम्बाबिमानिनं जीवं तारकल्पितमाहृतम्।
ध्यानेनात्मैकतां नीत्वा पृथिव्यादीनि संहरेत्॥ 17.14 ॥
शुष्कदग्धाप्लुतोर्व्यप्सु ता वह्नौ सोऽनिले स खे।
पञ्चतत्त्वमयं विश्वं विलीनं व्योम्नि भावयेत्॥ 17.15 ॥
तन्मनोगर्वधीमायाक्रमात् तारेश्वरं नयेत्।
तां स्वामव्याकृतिं मायामधिष्ठाय सिसृक्षया॥ 17.16 ॥
नादात्मा परमेष्ठ्यादिपञ्चकं सकलं सृजेत्।
प्रणवात्मा स्वयं विष्णुर्नकारादिषु मूर्तयः॥ 17.17 ॥
वासुदेवादयः कान्ताः खादि क्ष्मान्तं च पञ्चकम्।
स्थूलदेहोऽयमाख्यातस्तस्य विष्णोः षडात्मनः॥ 17.18 ॥
सोऽनिरुद्धाब्जसम्भूतः पृथिव्यात्मा प्रजापतिः।
सर्गभिन्नादतो विष्णोर्जात इत्यज उच्यते॥ 17.19 ॥
स सृष्ट्वा पूर्वमप्तत्त्वं ससर्जाण्डं च पार्थिवम्।
एवं सृष्ट्वा जाता चतुर्दशजगन्मयी॥ 17.20 ॥
तदण्डं पञ्चभूतात्मभूतं शुभ्रं हिरण्मयम्।
बिम्बं ध्यात्वा स्वयं विष्णुर्जीवं संक्रामयेद्धृतम्॥ 17.21 ॥
स विष्णुस्तारजीवात्मा नादिभिः पञ्चशक्तिभिः।
लिपिमूलाङ्गविन्यासैः सकलोऽष्टभुजो भवेत्॥ 17.22 ॥
शयने स्थापयित्वाऽर्चां ततो हुत्वा घृतं क्रमात्।
कुर्यात् षोडशकं न्यासं नाहुत्वा न्यास इष्यते॥ 17.23 ॥
तारव्याहृतिलिप्यृक्षकालवर्णज (ला?) लं श्रुतिः।
वैराजदेवतायज्ञगुणास्त्राणि यथाक्रमम्॥ 17.24 ॥
तैः शक्तिमन्त्रजीवान्तैर्न्यासः षोडशदा स्मृतः।
होमयेत् प्रणवं पूर्वं मात्रात्रयविभेदितम्॥ 17.25 ॥
ब्रह्माणं केशवं रुद्रं पादहृन्मस्तके न्यसेत्।
आहुत्यष्टशतं चात्र होतव्यं तैरनुक्रमात्॥ 17.26 ॥
व्याहृतित्रितयं चैव त्रैलोक्यप्रीणनाय वै।
अकारादिक्षकारान्तं मातृकां होमयेत् ततः॥ 17.27 ॥
ताल्वास्यवीक्षणश्रोत्रदन्तोष्ठेषु कजिह्वयोः।
असंवृता नसोर्गण्डद्वितये चैव संवृताः॥ 17.28 ॥
नाभिहृच्छ्रोणिजठरश्रोत्रदन्ताग्रनासिकाः।
दृष्टिस्त्वगिति कूटाद्य दोर्जङ्घाङ्गुलयस्तथा॥ 17.29 ॥
नक्षत्रग्रहताराश्च हुत्वाऽङ्गेषु निवेशयेत्।
दृशोरुरोधीवाग्रेतोललाटङ्घ्रिकचे ग्रहाः॥ 17.30 ॥
रोहिण्यादिक्रमादेवं नक्षत्राणि च होमयेत्।
हृत्ककेशललाटास्यनासिकादशनेष्वथ॥ 17.31 ॥
श्रुत्योर्बाह्वोः करद्वन्द्वे स्तनयोः कुक्षिपार्श्वयोः।
कट्यां चक्षुषि लिङ्गेऽण्डे पायावूर्वोश्च जङ्घयोः॥ 17.32 ॥
पादयोश्च क्रमादेवं कृत्तिकान्तोडुकल्पना।
ध्रुवो नाभ्यां स्थितस्तस्य कण्ठे सप्तर्षयस्तथा॥ 17.33 ॥
कटिदेशे स्थितं तस्य विज्ञेयं मातृमण्डलम्।
पदानि त्रीणि पादेऽस्य वनमाला तु वीथिका॥ 17.34 ॥
रोमाणि तारकासंघा अगस्त्यः कौस्तुभो मणिः।
कालरूपं यजेत् पूर्वं संवत्सरतनुं हरिम्॥ 17.35 ॥
कास्यहृद्द्विस्तनक्रोडकटिद्व्यूरुनलाङ्घ्रिषु।
चैत्रादयः स्थिता मासा द्वादशैवं सफाल्गुनाः॥ 17.36 ॥
उत्पूर्वश्चानुपूर्वश्च परिपूर्वश्च वत्सराः।
सम्पूर्वश्चेति विज्ञेयाः चत्वारस्तस्य बाहवः॥ 17.37 ॥
पर्वाण्यस्याङ्गपर्वाणि ऋतवश्चाङ्गसंज्ञकाः।
अहोरात्राणि चास्थीनि रोमण्यल्पाः क्षणादयः॥ 17.38 ॥
कृतादि मुखहृच्छ्रोणिपादे युगचतुष्टयम्।
मन्वन्तराणि बाह्वोश्च विभागेन प्रकल्पयेत्॥ 17.39 ॥
परार्धद्वितयं जङ्घे महाकल्पं शिरो विदुः।
अयने द्वे पदे चैवमुक्तः संवत्सराकृतिः॥ 17.40 ॥
मुखबाहूरूपादस्था वर्णाश्च ब्राह्मणादयः।
पादाङ्गुलीषु विज्ञेया वर्णाः सङ्करजातयः॥ 17.41 ॥
सर्वाङ्गसन्धिषु तथा उत्कृष्टाः सङ्करास्तु ये।
गावो मुकेऽस्य विज्ञेयाः स्तनयोश्चाप्यजाविकाः॥ 17.42 ॥
पदोरेकशफा ऊर्वोर्ग्राम्यारण्या व्यवस्थिताः।
केशेषु मेघा विज्ञेया रोमाण्यभ्राणि तस्य वै॥ 17.43 ॥
सर्वाङ्गावयवा नद्यः समुद्राः कुक्षिसंस्थिताः।
यज्ञास्तस्य शिरो ज्ञेयमृग्वेदो दक्षिणो भुजः॥ 17.44 ॥
सामवेदः स्मृतो वामः सर्वोपनिषदो हृदि।
इतिहासपुराणानि जङ्घे यजुरुरः स्मृतम्॥ 17.45 ॥
अथर्वाङ्गिरसो नाभिः कल्पसूत्राणि पादयोः।
शीक्षाव्याकरणं वक्त्रं तर्कः कण्ठं समाश्रितः॥ 17.46 ॥
मीमांसा हृन्निरुक्तं च छन्दो ज्योतिश्च चक्षुषी।
गारुडं भूततन्त्रं च श्रोत्रयुग्मे व्यवस्थितम्॥ 17.47 ॥
हस्तयोश्च धनुर्वेद आयुर्वेदश्च कीर्त्तितः।
योगशास्त्राणि हृद्येव नीतिशास्त्राणि पादयोः॥ 17.48 ॥
वाग्गीतं करयोर्नृत्तं कला विद्याश्च रोमसु।
द्यौर्मूर्धेन्द्वर्कनेत्रस्य घ्राणे प्राणात्मकोऽनिलः॥ 17.49 ॥
नाभ्यां व्योमाब्धयो बस्तौ पादे भूः सचलाचला।
हिरण्यगर्भं मूर्ध्न्यस्य सर्पान् केशेषु विन्यसेत्॥ 17.50 ॥
रुद्रं ललाटे भ्रुकुटावन्तकं श्रवणेऽश्विनौ।
मुखे वैश्वानरं न्यस्य जिह्वायां च सरस्वतीम्॥ 17.51 ॥
रुद्रान् दत्सु वसून् कण्ठे दृश्यादित्यान् निवेशयेत्।
बाह्वोरिन्द्रं बलिं चैव प्रह्लादं वामके स्तने॥ 17.52 ॥
दक्षिणे विश्वकर्माणं नारदं कुक्षिसंस्थितम्।
अनन्तं वामकुक्षिस्थं वरुणं बस्तिसंस्थितम्॥ 17.53 ॥
मित्रं पायौ कटौ तार्क्ष्यं विश्वान् देवान् तथोरगान्।
पितॄन् जानुद्वये यक्षान् नले गुल्फे तु राक्षसान्॥ 17.54 ॥
पिशाचान् प्रपदे पार्ष्ण्योर्न्यसेद् विद्याधरांस्तथा।
ग्रहांस्तले नखेष्वेव जम्भकादीन् सपूतनान्॥ 17.55 ॥
अङ्गुल्योऽप्सरसः कट्यां कार्त्तिकेयगणेश्वरौ।
गन्धर्वानोष्ठयोर्न्यस्य सर्वभूतानि पृष्ठतः॥ 17.56 ॥
मत्स्यं के पादयोः कूर्मं वराहं जङ्घयोर्न्यसेत्।
नरसिंहं ललाटे तु वामनं मुखमध्यतः॥ 17.57 ॥
नाभिहृत्कटिगुह्येषु रामान् कृष्णं च विन्यसेत्।
कल्किनं जानुदेशे तु नरनारायणौ पदे॥ 17.58 ॥
न्यसेद् बाहुषु चैवास्य तथा बाहुसहस्रिणम्।
अश्वमेधः शिरस्तस्य नरमेधो ललाटकम्॥ 17.59 ॥
राजसूयो मुखं चैव गौसवः कण्ठसंस्थितः।
द्वादशाहश्च हृदयमहीनो नाभिसंस्थितः॥ 17.60 ॥
विश्वजिद् विश्वमेधं च कटिदेशे व्यवस्थितौ।
अग्निष्टोमोऽस्य लिङ्गस्थो वृषणे चातिरात्रकः॥ 17.61 ॥
अप्तोर्यामस्तथोरुस्थः षोडशी जानुगोचरे।
उक्थ्यश्च वाजपेयश्व नले त्वग्निस्तु पादयोः॥ 17.62 ॥
चातुर्मास्यानि चैवास्य बाहुष्वेव नियोजयेत्।
सौत्रामणिं तले न्यस्य पश्विष्टिं चाङ्गुलीगताम्॥ 17.63 ॥
दर्शश्च पौर्णमासश्च दृशो रोमाणि चेष्टयः।
स्वाहाकारवषट्कारौ स्तनयोः संव्यवस्थितौ॥ 17.64 ॥
बाह्वोरङ्गुलयः पञ्चमहायज्ञाः प्रकीर्तिताः।
हृदयं दक्षिणा तस्य दर्भाः केशास्त्वगम्बरम्॥ 17.65 ॥
मुखमाहवनीयाग्निर्हृन्नाभी दक्षिणापरौ।
प्रवर्ग्यो भूषणं तस्य सवनानि गतित्रयम्॥ 17.66 ॥
पाकयज्ञा हविर्यज्ञाश्चरणाङ्गुलयः स्मृताः।
आज्यभागौ दृशौ ज्ञेयौ वेदी श्रोणी मुखं हविः॥ 17.67 ॥
होमेन प्रीणयेत् पूर्वं तनुं तस्य गुणात्मिकाम्।
धर्मं तु विन्यसेन्मूर्ध्नि दशधा संव्यवस्थितम्॥ 17.68 ॥
ज्ञानं हृद्यष्टधा गुह्ये वैराग्यं नवधा न्यसेत्।
ऐश्वर्यं चाष्टधा पादे सेयं गुणमयी तनुः॥ 17.69 ॥
शङ्खचक्रगदापद्मन्यासः साधारणः स्मृतः।
विशेषा ये च तन्त्रोक्ता मूर्त्तिभेदेन तान्यपि॥ 17.70 ॥
हृदि शान्तिर्ललाटे श्रीर्मुखे चास्य सरस्वती।
रतिर्गुह्ये नले प्रीतिः किर्त्तिस्तु परिता भवेत्॥ 17.71 ॥
कुक्षौ तुष्टिस्तनौ पुष्टिः शक्तिन्यासोऽयमीरितः।
मन्त्रन्यासोऽक्षराङ्गात्मा पूर्वमेव समीरितः॥ 17.72 ॥
श्रीवत्समुरसि न्यस्य कौस्तुभं नाभिमण्डले।
वनमालां गले न्यस्य मुद्रान्यासोऽयमीरितः॥ 17.73 ॥
नाभेरधस्तादुत्थाप्य करणैश्च समन्वितम्।
तन्मात्रदेहप्राणैश्च पञ्चभिर्व्याप्य विग्रहम्॥ 17.74 ॥
ऐश्वर्यधर्मज्ञानैश्च वैराग्येण च संयुतम्।
स्फुरद्रश्मिप्रतानेन व्याप्ताशेषदिगन्तरम्॥ 17.75 ॥
दिवाकरसहस्राभमिडया ब्रह्मरन्ध्रगम्।
स्थित्वा किञ्चित् ललाटेऽन्तः प्रविशन्तं विचिन्तयेत्॥ 17.76 ॥
शीर्षण्यांस्तु दश प्राणान् तत्रस्थोऽपि नियोजयेत्।
कर्णिकाद्वारमार्गेण प्रविश्य हृदयाम्बुजम्॥ 17.77 ॥
वृत्तिपञ्चकभेदेन प्राणादींस्तत्र योजयेत्।
पादनासान्तरे प्राणमपानं पृष्ठतो न्यसेत्॥ 17.78 ॥
पुर्यष्टकं हृदि न्यस्य तन्मध्ये पुरुषोत्तमम्।
अनुग्रहकरं सौम्यं सर्वज्ञं विश्वतोमुखम्॥ 17.80 ॥
ध्यायेदेवं कृते साऽर्चा सजीवा जायते क्षणात्।
अधिवासे न सा कार्या न्यासाः पञ्चदशैव तु॥ 17.81 ॥
सजीवकरणं कुर्यात् स्थापिते मधुसूदने।
जीवन्यासक्रमं यस्तु न जानात्युपदेशतः॥ 17.82 ॥
आचार्यो न स मन्तव्यो निग्राह्यस्तस्करो यथा।
एतस्मिन्नेव काले तु पिण्डिकां चाधिवासयेत्॥ 17.83 ॥
न्यासक्रमस्तु तत्रापि कथ्यमानोऽवधार्यताम्।
शोधयित्वा पुरा दर्भमृत्त्वग्गव्याम्बुभिः क्रमात्॥ 17.84 ॥
तत्राधिवासयेद् विद्वान् प्रकृतिं पिणिडिकात्मिकाम्।
मातृकां विन्यसेत् तत्र शक्तिरूपां प्रकल्पयेत्॥ 17.85 ॥
प्रणवं विन्यसेन्मध्ये तद्बाह्ये षोडश स्वरान्।
व्यञ्जनानि च तद्बाह्यो पर्जन्यादि प्रदक्षिणम्॥ 17.86 ॥
तत्रैव विन्यसेत् पद्मं पद्मे स्थाप्याश्च शक्तयः।
अनुग्रहं यया युक्तो नित्यं स कुरुते प्रभुः॥ 17.87 ॥
स्थितस्तस्यां सदा पूज्यः परात्मा हरिरव्ययः।
पाद्यगन्धादिभिर्देवीं बलिभिश्च प्रपूजयेत्॥ 17.88 ॥
अहतैश्चैव वासोभिर्लक्ष्मीरूपां च कल्पयेत्।
होमं शक्त्यष्टकान्तानां कुर्यादाचार्य एव तु॥ 17.89 ॥
अयनस्य च शक्तेश्च प्रासादस्य ततः क्रमात्।
तत्रोक्तस्तत्वविन्यासः पूर्वमेवाधुना स्मृतः॥ 17.90 ॥
तथा पुरुषरूपं तं कल्पयित्वा यथाक्रमम्।
प्रासादं पूजयेत् पश्चाद् गन्धपुष्पादिभिः शुभैः॥ 17.91 ॥
ततो ब्रह्मशिलां चात्र शोधितामधिवासयेत्।
अनन्तासनविन्यासो नपुंसकशिलोपरि॥ 17.92 ॥
नपुंसकं परं ब्रह्म सर्वाधारं तदुच्यते।
आलिखेन्मण्डलं चात्र तण्डुलैः पञ्चरङ्गिकैः॥ 17.93 ॥
चतुरश्रं चतुर्द्वारं मध्ये पद्मसमन्वितम्।
पूर्वं तु सकलीकृत्य प्रतिमां देशिकोत्तमः॥ 17.94 ॥
अङ्गप्रत्यङ्गभेदेन स्वकल्पोदितवर्त्मना।
साङ्गं प्रपूजयेद्देवं गन्धपुष्पादिभिः क्रमात्॥ 17.95 ॥
अलङ्कारैर्निवेद्यैश्च यथाविभवविस्तरम्।
मण्डलेऽभ्यर्चयेद्विद्वान् साङ्गं देवमधोक्षजम्॥ 17.96 ॥
अर्चायां या तु विन्यस्ता मूर्तिस्तां तत्र कल्पयेत्।
साङ्गं सपरिवारं च तत्रेष्ट्वा विधिनाऽच्युतम्॥ 17.97 ॥
हुत्वाऽग्नि च यथान्यायं पार्षदेभ्यो बलिं हरेत्।
आद्यश्च कर्मजाश्चैव ये भूताः प्रग्दिशि स्थिताः॥ 17.98 ॥
प्रसन्नाः परितुष्टास्ते प्रतिगृह्णन्त्विमं बलिमि।
दक्षिणे पश्चिमे चैव उत्तरे च नियोजयेत्॥ 17.99 ॥
गन्धपुष्पाणि धूपं दीपमन्नं जलं क्रमात्।
विदिक्षु च यथान्यायं दद्याच्चैव ततो बलिम्॥ 17.100 ॥
वृक्षेषु पर्वताग्रेषु ये विदिक्षु च संस्थिताः।
भूमौ व्योम्नि स्थिता ये च तेऽपि गृह्णन्त्विमं बलिम्॥ 17.101 ॥
विनायकाः क्षेत्रपाला ये चान्ये बलिकाङ्क्षिणः।
पूर्वाद्याः पार्षदाश्चैव प्रतिगृह्णन्त्विमं बलिम्॥ 17.102 ॥
परितोऽनेन वै दद्यात् परिभ्रम्य प्रदक्षिणम्।
आचम्यान्तः प्रविश्याथ कृतन्यासः समाहितः॥ 17.103 ॥
शान्तिं व्याहृतिभिर्हुत्वा ततो देवं क्रमात् स्पृशेत्।
घृतं भूरिति हुत्वा द्वौ पादौ देवस्य संस्पृशेत्॥ 17.104 ॥
दध्ना च भुव इत्येवं ततो नाभ्यन्तरं स्पशेत्।
क्षीरं स्वरिति हुत्वाऽथ ततोऽस्य हृदयं स्पृशेत्॥ 17.105 ॥
भूर्भुवः स्वश्च हुत्वैवं मधुना मूर्ध्नि संस्पृशेत्।
सर्वं मूलेन हुत्वान्ते सर्वगात्रं तु संस्पृशेत्॥ 17.106 ॥
अष्टाष्टाहुतयश्चात्र निर्दिष्टाः शान्तिकर्मणि।
स्रुवेण द्रव्ययुक्तेन स्पर्शनं चात्र कीर्तितम्॥ 17.107 ॥
द्रव्ये द्रव्ये तथा स्पृष्टे गन्धपुष्पैः समर्चयेत्।
क्षालयित्वा स्रुवं पश्चात् कार्या द्रव्यान्तराहुतिः॥ 17.108 ॥
चतस्रो धेनवः स्थाप्या दक्षिणद्वारसन्निधौ।
उत्तराभिमुखाः शान्ता रज्जुबद्धाः सवत्सकाः॥ 17.109 ॥
गङ्गा च यमुना चैव तथा गोदा सरस्वती।
नामभिः पूजयित्वा ता गन्धपुष्पैर्यथाक्रमम्॥ 17.110 ॥
दुहेत्ता विष्णुगायत्त्र्या तयैव श्रपयेच्चरुम्।
निवेदयेत् तया चैव तयैवान्ते बलिं हरेत्॥ 17.111 ॥
भोजयेद् ब्राह्मणांस्तत्र भक्तान् द्वादश पायसम्।
मण्डपस्योत्तरे पार्श्वे हिरण्यं दक्षिणा भवेत्॥ 17.112 ॥
सुरभीश्च गुरोर्दद्याद् विष्णुर्मे प्रीयतामिति।
एवं कृत्वा ततः पश्चाद् रात्रौ जागरणं भवेत्॥ 17.113 ॥
शङ्खतूर्यादिसंयुक्तं नृत्तगीतादिसंयुतम्।
सेतिहासपुराणाभिः (णैश्च) कताभिश्च नयेन्निशाम्॥ 17.114 ॥
प्रभाते सुदिने वारे पुण्यराश्युदये तथा।
मौहूर्त्तिकोपदिष्टेन लग्नेन स्थापयेत् सुधीः॥ 17.115 ॥
Chapter - 18
अथ वक्ष्यामि संक्षेपात् प्रतिष्ठाविधिमुत्तमम्।
वास्तुयागं पुरा कृत्वा मुहूर्त्ते स्थापनं भवेत्॥ 18.1 ॥
कृत्वा नान्दीमुखं शक्त्या षडष्टौ द्वादशाथवा।
भोजयेद् ब्राह्मणान् शान्तान् वैष्णवांस्तु विशेषतः॥ 18.2 ॥
दद्याद्वस्त्राङ्गुलीयादि हिरण्यं च स्वशक्तितः।
प्रासादस्य तु सर्वस्य मार्जनं कारयेत्ततः॥ 18.3 ॥
तताचाभ्यन्तरं दर्भैः सशलाकैः प्रयत्नतः।
पञ्चगव्येन गन्धैश्च प्रोक्ष्य मूलाभिमन्त्रितैः॥ 18.4 ॥
होमार्थं वालुकाभिस्तु प्रासादस्य समन्ततः।
कारयेच्चतुरश्राणि स्थण्डिलानि यथाक्रमम्॥ 18.5 ॥
दिक्षु चाष्टासु कृत्वैवमष्टौ च कलशान् न्यसेत्।
कुसुमोदकसम्पूर्णान् सपिधानान् सपल्लवान्॥ 18.6 ॥
सप्तसप्तविभागेन गर्भागारे विभाजिते।
ब्रह्मदेवमनुष्याणां पिशाचानां पदानि तु॥ 18.7 ॥
मध्यादारभ्य यत्नेन क्रमाद् ज्ञेयानि सर्वतः।
ब्राह्मः पञ्चदशांशः स्याद् देवभागास्त्रयोदश॥ 18.8 ॥
एकादश नवांशश्च शिष्टयोः पृष्ठभागतः।
गमनं त्रिविधं प्रोक्तं पृष्ठसौम्येसभेदतः॥ 18.9 ॥
कल्पनीयं यथान्यायं द्रव्यसंस्थानयोगतः।
स्थितासीनशयानानां स्थानानि परिकल्पयेत्॥ 18.10 ॥
ब्रह्मांशे मध्यमं त्यक्त्वा द्वितीयं चापि पृष्ठतः।
स्थितैकबेरबिम्बस्य तृतीयं स्थानमिष्यते॥ 18.11 ॥
त्रिभक्ते द्वारविस्तारत्रिसप्तांशेषु मध्यमे।
मध्यार्धेनोत्तरे सूत्रं गमनार्थं प्रकल्पयेत्॥ 18.12 ॥
पश्चिमोत्तरसंयोगे कर्णसूत्रं प्रकल्प्य तु।
बिम्बाङ्गुलियवेनैशे गमयेद् द्वियवेन वा॥ 18.13 ॥
ब्रह्मभागं परित्यज्य स्थानार्चा स्थाप्यते यदि।
तन्मण्डलाधिपो राजा स्थापकश्च विनश्यति॥ 18.14 ॥
क्रिया च निष्फलैव स्यात् तस्माद्यत्नेन मापयेत्।
किञ्चिन्मानुषमाश्रित्य कुर्यादासनकर्म च॥ 18.15 ॥
देवमानुषभागाभ्यां कुर्याच्च शयनं बुधः।
अर्चनापीठिका ब्राह्मे स्थापना दैविके यदा॥ 18.16 ॥
मानुषेऽस्य परीवाराः पैशाचे त्वायुधानि च।
कृत्वा पादशिलास्थानं वृत्तं वा चतुरश्रकम्॥ 18.17 ॥
पादपीठस्य चाधस्तात् ततो ब्रह्मशीलां न्यसेत्।
त्वमेव परमा शक्तिस्त्वमेवासनधारिका॥ 18.18 ॥
देवाज्ञया त्वया देवि! स्थातव्यमिह सर्वदा।
इति विज्ञाप्य तां पूर्वं गन्धपुष्पैः प्रपूजिताम्॥ 18.19 ॥
ध्यात्वोर्वी स्थापयेद्गर्त्ते मन्त्रेणानेन देशिकः।
स्थितं चराचरं यस्यां रत्नानां निधिरव्ययः॥ 19.20 ॥
सा त्वं ब्रह्मशिलारूपा तिष्ठात्र धरणि! स्थिरा।
एवं संस्थाप्य तां बूयो गन्धपुष्पैः प्रपूज्य च॥ 19.21 ॥
रत्नन्यासं ततः कुर्याद् विधिदृष्टेन वर्त्मना।
गर्त्ताश्च निम्नावरणाश्चत्वारो विहिताः क्रमात्॥ 19.22 ॥
मध्यान्तमष्टदिक्ष्वष्टौ न्यस्तव्यानि यथाक्रमम्।
तेषु बीजानि रत्नानि धातुलोहायुधानि च॥ 19.23 ॥
सर्वद्रव्याणि संयोज्य ब्रह्मस्थाने तु विन्यसेत्।
ये गुणाः प्रथिता विष्णोरैश्वर्याष्टकसंज्ञया॥ 19.24 ॥
तानि रत्नानि दिक्स्थानि न्यासकाले विचिन्तयेत्।
वायुव्योमान्तरस्थानि येषां बीजानि ते गुणाः॥ 19.25 ॥
ईशित्वादिक्रमात् सम्यक् पूर्वाद्याशास्विह स्मृताः।
मध्ये तु प्रणवो ज्ञेयो गुणाष्टकयुतः पुमान्॥ 19.26 ॥
शोधयेत् पञ्चगव्येन गर्त्तमष्टाक्षरेण तु।
प्रोक्षयेत् गन्धतोयैश्च द्वादशाक्षरविद्यया॥ 19.27 ॥
होमकर्म ततः कुर्यात् प्रासादोत्तरपार्श्वतः।
लौकिकं चाग्निमानीय शरावेऽभिनेव ततः॥ 19.28 ॥
वैष्णवीकरणं कुर्यात् संस्कृतं वह्निमानयेत्।
अष्टाक्षरेण जुहुयादाज्याहुतिसहस्रकम्॥ 19.29 ॥
ततः समित्सस्रं च द्वादशाक्षरविद्यया।
हुत्वाऽऽज्यं चाथ गायत्र्या रत्नानि समुपस्पृशेत्॥ 19.30 ॥
आज्याहुतिसंहस्रं वा गायत्त्र्यैवात्र होमयेत्।
अथवाऽष्टशतं मुख्यं मध्यमं चाधमं भवेत्॥ 19.31 ॥
तया संस्पृश्य रत्नानि गर्त्तेषु विनिवेशयेत्।
न गर्त्तादधिकं द्रव्यं न हीनं च प्रकल्पयेत्॥ 19.32 ॥
क्वचिद्द्रव्यसमं गर्तं कारयेत् कुशलो गुरुः।
अष्टाक्षरस्य वर्णैस्तु व्यस्तैरेव यथाक्रमम्॥ 19.33 ॥
यवादीन् दिक्षु विन्यस्य मध्ये सिद्धार्थकं न्यसेत्।
ततो वज्रादिरत्नानि पद्मरागं च मध्यतः॥ 19.34 ॥
मनः शिलादिधातूंश्च पारतं तं तथा न्यसेत्।
सुवर्णादीनि दिक्ष्वष्टौ मध्ये पद्मं हिरण्मयम्॥ 19.35 ॥
संस्पृशेद् विष्णुगायत्रया ततो गर्त्तं सदक्षिणम्।
बीजादीनामलाभेऽपि तत्स्थानेषु यथाक्रमम्॥ 19.36 ॥
शालिमुक्ताहरीतालसुवर्णानि न्यसेद् बुधः।
पुण्याहं वाचयेत् पूर्वं वैष्णवैः सह मन्त्रवित्॥ 19.37 ॥
रत्नन्यासं ततः कृत्वा पिण्डिकां तत्र विन्यसेत्।
प्रणीय वैष्णवं वह्निमैशान्यां मूलविद्यया॥ 19.38 ॥
जुहुयात् समिधो ब्राह्मीः सहस्रं शतमेव वा।
अष्टोत्तरमथाज्येन गायत्त्र्या विष्णुसंज्ञया॥ 19.39 ॥
मूर्तिशक्तिभिरङ्गैश्च घृतमेव यताक्रमम्।
हुत्वा च शक्तितो विद्वान् शान्तितोयं समाहरेत्॥ 19.40 ॥
ततश्चाग्निं समानीय वैष्णवैर्मन्त्रवित्तमैः।
होतव्यमष्टदिक्ष्वेवं समिद्भिर्मूलविद्यया॥ 19.41 ॥
पलाशखदिराश्वत्थप्लक्षन्यग्रोधजास्तथा।
काश्मर्यो रोहिताश्चैव बिल्वोदुम्बरजाः क्रमात्॥ 19.42 ॥
द्वादशाङ्गुलमानास्ताः समिधस्तु प्रकीर्तिताः।
कनिष्ठिकाप्रमाणाश्च पृथगष्टसहस्रिकाः॥ 19.43 ॥
एवं कृत्वा दिशाहोमं शान्तिवारि समाहरेत्।
वैष्णवे ताम्रपात्रे तु सर्वकुम्भोपसंभृतम्॥ 19.44 ॥
शतवारं तु मूलेन मन्त्रयित्वाऽथ देशिकः।
अष्टाक्षरस्य वर्णैस्तु पूरयित्वा प्रदक्षिणम्॥ 19.45 ॥
प्रणवेन तु सम्पूज्य गन्धपुष्पैर्यथाक्रमम्।
करगुप्तं तदादाय सपिधानं सवस्त्रकम्॥ 19.46 ॥
ध्यात्वाऽत्र परमं विष्णुं तेजोरूपमनामयम्।
कर्मार्चायास्ततो मूर्ध्नि सिञ्चेदोमित्युदाहरन्॥ 19.47 ॥
सिक्त्वा तु प्रतिमामूर्ध्नि सर्वतीर्थमयं जलम्।
विसृज्टय वाससी पूर्वे वस्त्राभ्यां छादयेत् पुनः॥ 19.48 ॥
गन्धपुष्पादिभिः सम्यग् यथाविभवमर्चयेत्।
उत्तिष्ठेति समुत्थाप्य शङ्खदुन्दुभिनिःस्वनैः॥ 19.49 ॥
प्रतिमामानयेद् विद्वान् प्रासादस्य प्रदक्षिणम्।
अतो देवेति सूक्तेन मूर्तिपैः सहितो गुरुः॥ 19.50 ॥
द्वारदेशें च दत्त्वाऽर्घ्यं मुहूर्ते शोभने ततः।
प्रवेशयेत् प्रयत्नेन प्रासादं देशिकोत्तमः॥ 19.51 ॥
प्रवेश्यान्तर्यथा किञ्चिदधश्चोर्घ्वं न संस्पृशेत्।
पीठं प्रदक्षिणीकृत्य ततः सर्वेण विन्यसेत्॥ 19.52 ॥
ध्यायेश्च परमं विष्णुं निष्कलं मन्त्रवित्तमः।
सुलग्ने स्थापयेद् ध्यात्वा सर्वतत्त्वमयं सुधीः॥ 19.53 ॥
लोकानुग्रहहेत्वर्थं स्थिरीभव सुखाय नः।
सान्निध्यं हि सदा देव! प्रत्यहं परिवर्धय॥ 19.54 ॥
मा भूत् प्रजाविरोधोऽस्मिन् यजमानः समृद्धयताम्।
सभूपालं तथा राष्ट्रं सर्वोपद्रववर्जितम्॥ 19.55 ॥
क्षेमेण वृद्धिमतुलां सुखमक्षयमश्नुताम्।
इत्युक्त्वाऽग्रे पठेच्चास्य विश्वतश्चक्षुरित्यृचम्॥ 19.56 ॥
सजीवकरणं कृत्वा पञ्चोपनिषदा क्रमात्।
शान्तिं हुत्वा यतान्यायं देवं तमभिषेचयेत्॥ 19.57 ॥
ध्यात्वा तु निष्कलं विष्णुं सकलं भावयेत्ततः।
आकाशं तस्य मूर्तिः स्यात् पृथिवी तस्य पीठिका॥ 19.58 ॥
विग्रहं कल्पयेत् तस्य तेजसः परमाणुभिः।
तेजोमयं ततो ध्यात्वा शङ्खचक्रगदाधरम्॥ 19.59 ॥
मन्त्रन्यासं ततः कुर्यात् सर्गस्थित्यन्तभेदतः।
तेजोमयं ततो ध्यात्वा सकलं सकलेश्वरम्॥ 19.60 ॥
निरुध्य प्रणवेनाथ विभक्तेन्द्रियविग्रहम्।
सर्वशक्तिसमायुक्तं सर्वावयवसुन्दरम्॥ 19.61 ॥
पीताम्बरकिरीटादिप्रोज्ज्वलं प्रोज्ज्वलायुधम्।
अर्चयेत् सकलीकृत्य साङ्गं सावरणं ततः॥ 19.62 ॥
दर्शयित्वाऽथ मुद्रां च प्रणमेद् दण्डवत् क्षितौ।
ब्रह्मादिपरिवारांस्तु स्वनाम्नाऽस्त्राणि विन्यसेत्॥ 19.63 ॥
अर्चयित्वा स्वमुद्राश्च दर्शयेत् पार्षदान् पृथक्।
पूजयित्वा ततो देवं प्रणम्याञ्जलिमुद्रया॥ 19.64 ॥
जपेदष्टशतं मूलमनुज्ञाप्य तमीश्वरम्।
निर्गम्याभिमुखो भूत्वा पुष्पतोयादिसंयुतम्॥ 19.65 ॥
द्वारि चण्डं प्रचण्डं च देवदौवारिकावुभौ।
नमोन्तेन स्वनाम्ना तु स्थापयित्वा बलिं हरेत्॥ 19.66 ॥
वैनतेयमनन्तं च गणेशं दक्षिणेश्वरम्।
लोकपालांश्च संस्थाप्य विष्वक्सेनं च पूजयेत्॥ 19.67 ॥
लेप्येऽधिवास्य कर्मार्चां प्रवेश्य सुरमन्दिरम्।
इयं सा देव ते मूर्तिरोमित्युक्त्वाऽत्र विन्यसेत्॥ 19.68 ॥
जीवन्यासादि सर्वं तु कर्तव्यमिह पूर्ववत्।
स्नानादीनि तु कर्माणि कर्मार्चायां प्रयोजयेत्॥ 19.69 ॥
तत्त्वन्यासादि सर्वं तु मूलार्चायामिति स्थितिः।
विष्णुपारिषदान् सर्वान् बलिपीठे प्रकल्प्य तु॥ 19.70 ॥
उपस्पृश्य कृतन्यासः प्रविस्यान्तर्गृहं सुधीः।
मूलमष्टशतं जप्त्वा देवं तमभिवादयेत्॥ 19.71 ॥
स्तोत्रैर्नानाविधैः स्तुत्वा महापुरुषपूर्वंकैः।
प्रणाममुद्रया पश्चादष्टाङ्गं प्रणिपत्य च॥ 19.72 ॥
नृत्तं गीतं च वाद्यं च विविधं कारयेत् ततः।
तत्रानिवारितं यत्नादन्नाद्यं चापि कारयेत्॥ 19.73 ॥
आचार्यं पूजयेत् पश्चाद् दक्षिणाभिः समूर्तिपम्।
यागोपयोगि यद् द्रव्यं सर्वं चास्मै निवेदयेत्॥ 19.74 ॥
वैष्णवान् पूजयेत् पश्चाद् यथाविभवविस्तरम्।
लाक्षा सर्जरसः शङ्खः सिकता कुरुविन्दकः॥ 19.75 ॥
पुरं हिङ्गुलकं बोला फलक्वाथेन बन्धनम्।
विमलाद्यष्टकं पेष्यं द्रवद्रव्यमनुग्रहाः॥ 19.76 ॥
नवशक्तिमयो बन्धो लक्ष्मीमाधवयोर्भवेत्।
एवं कृत्वाऽष्टबन्धं तु घृताद्यैः पञ्चशक्तिभिः॥ 19.77 ॥
कास्यहृद्गुह्यपादेषु कुर्याद् दूर्वाभिरर्पणम्।
ततः सम्पूज्य संहृत्य दर्भैर्वस्त्रैश्च वेष्टयेत्॥ 19.78 ॥
तिथिहोमस्तु कर्तव्यस्तथा तिथ्यधिपस्य च।
ऋक्षहोमो वारहोमस्तद्देवत्यश्च मन्त्रिणा॥ 19.79 ॥
मुहूर्तदेवताहोमो ग्रहहोमस्तथापरः।
सम्पातं योजयेत् तत्र कलशे तु पुनः पुनः॥ 19.80 ॥
गुरुर्मूत्तिधरैः सार्धं सम्पूज्य कलशं ततः।
गृहीत्वा स्नापयेद् देवं कृत्वा पुण्याहमङ्गलम्॥ 19.81 ॥
वादित्रशङ्खनादैश्च जयशब्दैश्च संयुतम्।
वैष्णवैश्च तदा सूक्तैर्जयशब्दैश्च नादयेत्॥ 19.82 ॥
गन्धपुष्पैश्च वस्वैश्च धूपदीपैश्च पूजयेत्।
चतुर्विधं निवेद्यं च ततो देवाय कल्पयेत्॥ 19.83 ॥
बलिं च विकिरेद् यत्नाद् ब्राह्मणैः स्वस्ति वाचयेत्।
एवं कृतेऽत्र तिथ्यृक्षवारराशिग्रहोद्भवाः॥ 19.84 ॥
नश्यन्ति सकला दोषास्तस्मात् कार्यं तु सर्वथा।
यजमानं ततः पश्चाद् विष्णुकुम्भजलेन तु॥ 19.85 ॥
स्नापयित्वाऽर्चनं कुर्यादाचार्यः स्वयमेव च।
ततः स गुरुणा सार्धं पत्न्या पुत्रैस्तथाऽनुजैः॥ 19.86 ॥
सितवस्त्रधरो भक्त्या देवं तमभिवादयेत्।
त्रिधा कृत्वाऽऽत्मनो वित्तं भागं देवाय कल्पयेत्॥ 19.87 ॥
भागं भार्यासुतादीनां भागमाचार्यदक्षिणाम्।
प्रीतिदानं च दातव्यं पूजोपकरणानि च॥ 19.88 ॥
यो ददाति तदा किञ्चित् सर्वं बुहफलं भवेत्।
धूपदीपादि संस्थाप्य देवागारं तु घट्टयेत्॥ 19.89 ॥
नोद्धाटयेत् ततः पश्चात् त्रीण्यहानि तु कश्चन।
दक्षिणान्नाद्यहोमैस्तु पूजा तत्र विधीयते॥ 19.90 ॥
मन्त्रस्य प्रीणनं कुर्यात् स्थापिते पुरुषोत्तमे।
घृतेन पयसा दध्ना शुद्धतोयेन वा सकृत्॥ 19.91 ॥
Chapter - 19
अथ वक्ष्यामि संक्षेपात् प्रतिष्ठानन्तरक्रियाम्।
पूर्ववत् स्थण्डिलान्यष्टौ होमार्थं दिक्षु कल्पयेत्॥ 19.1 ॥
उल्लेखनादिकं कृत्वा पूर्वोक्तविधिना क्रमात्।
प्रणीत वैष्णवं वह्निं जुहुयुर्दिक्षु दीक्षिताः॥ 19.2 ॥
इन्द्रक्रतुमिति प्राच्यामग्निंदूतं हुताशने।
नोक्तसुपर्णं याम्यायां नैर्ऋत्यां मोषुणः परा॥ 19.3 ॥
यरंक्षन्तीति वारुण्यां वायवायाहि पावने।
सोमंराजानमित्येवं सौम्ये शार्वे त्रियम्बकम्॥ 19.4 ॥
पञ्च तारान् पुरोऽनूच्य प्रत्येकं पूर्वतः क्रमात्।
अमीभिर्हुहुयुर्मन्त्रैः पक्वं विधिवदृत्विजः॥ 19.5 ॥
पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः।
औदुम्बराश्च काश्मर्यः समिधोऽष्यशतं पृथक्॥ 19.6 ॥
तावदाज्यान्नलाजादीन् हुत्वा शेषं समापयेत्।
समिदादि यथालाभमिन्द्राद्यस्त्रैश्च होमयेत्॥ 19.7 ॥
इन्द्रादीन् होमयित्वैवं स्वमन्त्रैरष्टदिक्षु च।
सम्पाताज्ययुतैस्तोयैर्घटस्थैर्मन्त्रसंस्कृतैः॥ 19.8 ॥
संस्नाप्य पीठिकास्वेतान् गन्धाद्यैः पूजयेत् क्रमात्।
स्कन्दमैन्द्यां प्रतिष्ठाप्य षण्मुखायेति विद्यया॥ 19.9 ॥
शास्तारमग्नौ भांबीजं भूताधिपतये नमः।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा॥ 19.10 ॥
वाराह्यैन्द्री च चामुण्डी याम्ये वै सप्त मातरः।
वीरभद्रगणेशाभ्यां सह प्राकारपार्श्वतः॥ 19.11 ॥
वीरभद्रः स्वराः सर्वे सप्तवर्गास्तु मातरः।
कूटो गणपतिश्चेति क्रमाज्ज्ञेया च मातृका॥ 19.12 ॥
प्रणवेन स्वमन्त्रैर्वा नैर्ऋत्यां तु दिवाकरम्।
घषोत्कायेति मन्त्रो वा हुतान्तस्तद्विधौ भवेत्॥ 19.13 ॥
पश्चाद् ब्रह्मा स्वषट्केण तथान्यस्तत्सदित्यपि।
ततो भूरिति बीजेन वराहो वायुगोचरे॥ 19.14 ॥
दुर्गा ह्रीङ्कारपूर्वेण सा नाम्नोत्तरतस्तथा।
सश्रीधरहयास्या वा वागीश्वर्यादिमातरः॥ 19.15 ॥
वागीश्वरी क्रिया कीर्तिर्लक्ष्मीः सृष्टिश्च पञ्चमी।
विद्या कान्तिरिति ज्ञेयाः शङ्खचक्रगदाधराः॥ 19.16 ॥
चतुर्थषष्ठौ बिन्द्वन्तौ द्वादशोऽथ त्रयोदशः।
आद्यश्चैकादशो ज्ञेयो द्वितीयश्चैन्द्रगाः स्वराः॥ 19.17 ॥
विष्वक्सेनोऽदितौ स्थाप्यः शङ्खचक्रगदाधरः।
तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत्॥ 19.18 ॥
गन्धपुष्पैः समभ्यर्च्य शिष्टद्रव्यैस्तु याज्ञिकैः।
देवोपयुक्तं पुष्पादि यत् प्रासादान्तरस्थितम्॥ 19.19 ॥
तत् सर्वमस्मै दत्त्वाऽन्ते वस्त्राभ्यां परिवेष्टयेत्।
ईशानं चेशदिग्भागे स्वमन्त्रैः स्थापयेत् ततः॥ 19.20 ॥
कुमुदाद्याश्च पीठेषु पूर्वादिध्वजदेवताः।
प्राकारात्तु बहिः स्थाप्याः पूज्याश्च बलिभिः क्रमात्॥ 19.21 ॥
बलिपीठे बलश्चाग्रे सगणो भूतनायकः।
स्थापयित्वाऽर्चयित्वा च सर्वान् विज्ञापयेत् ततः॥ 19.22 ॥
यावदत्र जगन्नाथो बिम्बमाश्रित्य तिष्ठति।
तावदत्रैव रक्षार्थं यूयं तिष्ठत सर्वदा॥ 19.23 ॥
अन्तर्मण्डलदण्डार्धदण्डे स्यादन्तहारका।
मध्यहारा द्विदण्डा च चतुर्मर्यादभित्तिका॥ 19.24 ॥
सप्तदण्डायता कार्या मर्यादाभित्तिका ततः।
मुखायामस्त्रिभागेन पादेनार्धेन वा पुनः॥ 19.25 ॥
बलिपीठसमुत्सेधो गर्भागारप्रतेः समः।
पूजापीठसमो वाऽपि षडूनो वा प्रकीर्त्तितः॥ 19.26 ॥
उत्सेधं दशधा कृत्वा सप्तांशस्तस्य विस्तरः।
सप्तविंशतिधा कृत्वा सममेव तदुच्छ्रयम्॥ 19.27 ॥
एकांशं पादुकं विद्यात् चतुर्भिर्जगतीं पुनः।
त्रिभागं कुमुदं चैव तथैकांशेन पट्टिकाम्॥ 19.28 ॥
दशांशं कण्ठमित्याहुरंशाभ्यां कम्बुनिद्रवौ।
त्रिभिः कपोतमित्याहुरेकांशेनाग्रपट्टिकाम्॥ 19.29 ॥
द्व्यंशकं पद्ममन्ते स्यादेतत् पीठस्य लक्षणम्।
उत्तमाधममध्यत्वं बिम्बयोगात् प्रकल्पयेत्॥ 19.30 ॥
उत्तमानां तु बिम्बानां वर्जिते मध्यमाधमे।
वर्जिता पीठिकाश्चाष्टौ मध्यमाधमयोस्तथा॥ 19.31 ॥
पीठिकानां विपर्यासे कुलनाशो भवेद् यतः।
स्वानां स्वानां विपर्यासो न कार्योऽतः सुखार्थिभिः॥ 19.32 ॥
उत्सेधनिर्गमौ तुल्यौ पादुकस्य प्रकीर्त्तितौ।
जगतीकुम्भयोः सन्धौ तावदन्तर्गतं भवेत्॥ 19.33 ॥
भागं कुम्भोत्तरे कृत्वा भागार्धं पट्टिकां ततः।
भागमेकं त्रिभागैकं कुर्याद् वै कण्ठपादुकम्॥ 19.34 ॥
भागार्धान्तर्गतं कण्ठं पादमात्रा तु मेखला।
विस्तारादष्टभागैकं पादविस्तार उच्यते॥ 19.35 ॥
चत्वारो द्वादशैवं वा कर्तव्याः कण्ठपादुकाः।
कण्ठाग्रपट्टिकां कुर्याद् यथावत् कुम्भपट्टिकाम्॥ 19.36 ॥
भागं बाह्यगतं चैव वलभ्यर्धं तु भङ्गुरम्।
अन्तर्भङ्गुरवद् भागं सलिलं सर्वतो भवेत्॥ 19.37 ॥
ऊर्ध्वं तु पट्टिका ज्ञेया पद्माकृतिरथान्तरे।
तत्पीठं मध्यतः कृत्वा मण्डपं लक्षणान्वितम्॥ 19.38 ॥
बीजाङ्कुरध्वजारोहबलिमङ्गलपूर्वकम्।
उत्सवान्नाद्यपुण्याहस्थानशुद्ध्यादिसंयुतम्॥ 19.39 ॥
समन्तात् पीठविस्तारं लिखित्वा भद्रकाष्टकम्।
कलशान् पूरयित्वाऽष्टौ घृतैर्धान्यैस्तु वाऽम्बुभिः॥ 19.40 ॥
सर्वरत्नसमायुक्तं वस्त्रयुग्मैस्तु वेष्टयेत्।
लोहजं मृण्मयं वाऽन्यं पीठस्योपरि कल्पयेत्॥ 19.41 ॥
भूतनाथस्य चारभ्य भूतानां चप्रदक्षिणम्।
गन्धादिनाऽर्चयित्वा तु फलैः पुष्पैश्च सर्वतः॥ 19.42 ॥
भक्ष्यभोज्यादिसंयुक्तं कलशांश्चैव पूर्ववत्।
वस्त्रैः संवेष्टयेत् सर्वान् नवैः केशादिवर्जितैः॥ 19.43 ॥
होमार्थं तु द्विजा ग्राह्या अष्टौ चत्वार एव वा।
स्वयं वैकं प्रकुर्वीत पूर्वोक्तविधिना गुरुः॥ 19.44 ॥
वेदाध्ययनसंयुक्तं तथा जागरणं निशि।
प्रासादाभ्यन्तरे देवमाराध्य विधिपूर्वकम्॥ 19.45 ॥
बलिदानं यथाशक्ति सर्वं कृत्वा तु पूर्ववत्।
सर्वेषां मूर्तिपानां तु होमयेन्मूलविद्यया॥ 19.46 ॥
यथा स्वनाममन्त्रेण समिदाज्यहवींषि च।
लाजांशअच सर्षपांश्चैव तथा सक्तून् यवांस्तिलान्॥ 19.47 ॥
दधि क्षीरं तथा क्षौद्रं पुष्पाणि तु फलानि च।
सर्वं साज्यं तु होतव्यं सर्वशान्तिकरं शुभम्॥ 19.48 ॥
अष्टोत्तरसहस्रं वा शतं वा होमयेत् पृथक्।
दद्यात् पूर्णाहुतिं चात्र प्रतिद्रव्यं विधानतः॥ 19.49 ॥
ओन्नमः प्राच्येभ्यो भूतेभ्यो विश्वभूतेभ्यः।
नमोऽस्तु विश्वरूपेभ्यो विरूपेभ्यश्च वो नमः॥ 19.50 ॥
नमोऽस्तु दक्षिणेभ्यश्च भूतेभ्यः शार्ङ्गधन्वनः।
नमो हाहाभ्यो भूतेभ्यः सर्वेभ्यो वो नमोनमः॥ 19.51 ॥
सुस्नातः स्वस्तिवाच्याथ ब्राह्मणानामनुज्ञया।
देवस्य महतीं पूजां कृत्वा भक्त्या समाहितः॥ 19.52 ॥
वैनतेयं च सम्पूज्य परिवारं च शक्तितः।
भूतनाथमथाराध्य मूर्तिपान् पूजयेत् क्रमात्॥ 19.53 ॥
अपूपसक्तुभिर्धानाफलभक्ष्यसमन्वितैः।
एतत्सर्वं क्रमात् कृत्वा ब्राह्मणानां च तर्पणम्॥ 19.54 ॥
दक्षिणा चात्र दातव्या ब्राह्मणेभ्यः स्वशक्तितः।
गन्धपुष्पैरथाभ्यर्च्य बलिपीठं समाहितः॥ 19.55 ॥
भूतानाथं प्रतिष्ठाप्य कुम्भतोयेन सेचयेत्।
इतरान् सेचयेद् दिक्षु मूर्त्तिपानां यथाक्रमम्॥ 19.56 ॥
आचार्यो यजमानश्च बलिपीठं प्रदक्षिणम्।
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणमेद् भूतनायकम्॥ 19.57 ॥
पायसं कृसरं चैव गुलान्नं घृतसंयुतम्।
दध्ना मधुफलैर्युक्तं पूजयेद् भूतनायकम्॥ 19.58 ॥
आचार्यो मूर्तिपालेभ्यो दक्षिणां दापयेत् ततः।
पूर्ववत् स्नपनं कुर्याद् देवदेवस्य शक्तितः॥ 19.59 ॥
स्नानशेषैस्तु कुम्भस्थैराचार्यो मूर्त्तिपैः सह।
प्रोक्षयेत् परिवारांस्तान् गन्धादिभिरथार्चयेत्॥ 19.60 ॥
Chapter - 20
अथ वक्ष्यामि संक्षेपादुत्सवस्य विधिं परम्।
स्थापितोऽपि विना येन प्रसीदति न केशवः॥ 20.1 ॥
अब्दमर्धं त्रिमासं वा मासं पक्षमसम्भवे।
नवाहं वाऽपि सप्ताहं पञ्चाहं नेष्यते परम्॥ 20.2 ॥
माघे वा मार्गशीर्षे वा चैत्रे वैशाख एव वा।
पौषे वा फाल्गुने कुर्यादुत्सवं बहुविस्तरम्॥ 20.3 ॥
प्रत्यब्दं नियतं कुर्याच्छक्त्या सर्वार्थसाधनम्।
पुण्याहेनोत्सवारम्भे ध्वजस्थापनमाचरेत्॥ 20.4 ॥
सप्ताह्निकचतुष्कादौ मङ्गलङ्कुररोपणम्।
श्रवणान्तं तु संकल्प्य तीर्थस्नानावसानिकम्॥ 20.5 ॥
कारयेदुत्सवं भक्त्या विष्णोर्विष्णुपरायणः।
स्थापयेदुत्सवारम्भे ध्वजं गरुडलक्षणम्॥ 20.6 ॥
दिक्षु चाष्टौ यथान्यायं पताकादीन् समुज्ज्वलान्।
ध्वजोत्थाने कृते किञ्चिन्न विघ्नैरभिभूयते॥ 20.7 ॥
कलशेन समं कार्यं ध्वजस्यारोहणं तदा।
पूर्ववन्मण्डपं कृत्वा वेदिं च सुपरिश्रिताम्॥ 20.8 ॥
अग्नेश्च जननं कुम्भमूर्त्तिपानां च कल्पनम्।
ध्वजदण्डः समः कार्यो दृढो व्रणविवर्जितः॥ 20.9 ॥
कर्मान्तरानियुक्तश्च न शुष्कः पतितः स्वयम्।
पुष्यादियोगे सङ्ग्राह्यः सुलग्ने शकुनैः शुभैः॥ 20.10 ॥
ब्राह्मणैः स्वस्तिवाच्यादौ शुचिः स्नातः स्वलङ्कृतः।
तथाविधैर्द्विजैर्युक्तो जयशब्दादिसंयुतः॥ 20.11 ॥
मध्वाज्याक्तकुठारेण पूर्वोत्तरमुखो गुरुः।
छित्वा वंशमुपानीय कलशैः स्नापयेच्छुभैः॥ 20.12 ॥
मृत्कषायौषधीतीर्थैर्गन्धपुष्पैश्च पूजयेत्।
पताका च शुभा कार्या सिता तदवलम्बिनी॥ 20.13 ॥
स्याद् देवागारशिखरत्रिभागसमलम्बिनी।
दर्भैरावेष्टिता घण्टा चामरादर्शसंयुता॥ 20.14 ॥
सम्मुखं लेखयेत् तत्र विनाताकुलनन्दनम्।
आजानुनाभिकण्ठाग्रं सितपीतारुणासितम्॥ 20.15 ॥
दुर्निरीक्षं सुरैर्दैत्यैर्ज्वालान्वितविलोचनम्।
अनन्ताद्यष्टनागेन्द्रधरं नीलाग्रनासिकम्॥ 20.16 ॥
सहस्रादित्यसंकाशं मनसाऽऽवाह्य विन्यसेत्।
पूजयेद् गन्धपुष्पैश्च मन्त्रेणानेन मन्त्रवित्॥ 20.17 ॥
तारादिः पक्षिराजाय हुतान्तोऽष्टाक्षरस्तु यः।
सम्बुद्धिरूप एव स्यादावाहनविसर्गयोः॥ 20.18 ॥
चन्दनस्रग्बलिध्यानैः शयनेऽभ्यर्च्य वासयेत्।
होमं च विधिवत् कुर्याद् वर्गाद्यैः कादिशान्तगैः॥ 20.19 ॥
हुतान्तैः प्रणवाद्यैश्च तिलान् व्रीहिसमन्वितान्।
चतुर्भिरक्षरैर्दिक्षु चवर्गानन्तरैर्विना॥ 20.20 ॥
अष्टोत्तरसहस्रं तु वैनतेयपदान्वितैः।
आज्याक्तं होमयेत् सर्वं निवेद्यं च चतुर्विधम्॥ 20.21 ॥
बलिं च परितो दद्याद् भूतानां ध्वजवासिनाम्।
अनेककोटिसंख्यानां भूतानां चापि पार्षदाम्॥ 20.22 ॥
प्रभातेऽभ्यर्चयित्वैवं ब्राह्मणांश्चैव तर्पयेत्।
ध्वजवाहनभूतोऽसौ विष्णोर्विष्णुपराक्रमः॥ 20.23 ॥
सुपर्णः प्रीयतां मह्यं विनताकुलनन्दनः।
इत्युच्चार्य ततो गच्छेद् देवतायतनं प्रति॥ 20.24 ॥
ध्वजमादाय तैः सार्धं देवमूर्त्तिधरैर्द्विजैः।
वेदतूर्यादिनिर्घोषैः सुलग्ने स्तापयेद् ध्वजम्॥ 20.25 ॥
ओन्नमोऽष्टकुलानागभूषणाय नागशोणितलिप्ताङ्गाय सप्तपातालवासिजनविक्षोभणकराय महाशैलसञ्चालनायारुणकनीयसे पुरुषोत्तमवाहनाय विनतानन्दकराय त्रैलोक्यविक्षोभणाय देवदानवगन्धर्वोरगमथनायामृतमथनाय मातुरर्थे नागमोहनाय हन हन विघ्नान् नाशय स्वाहा।
अनेन स्तितिमन्त्रेण स्तुत्वा तं विहगेश्वरम्॥ 20.26 ॥
सान्निध्यं कल्पयेत् तस्य पक्षिराजस्य सर्वदा।
ततः प्रभृति तत्स्थानं नोपसर्पन्ति राक्षसाः॥ 20.27 ॥
पिशाचा दन्दशूकाश्च तस्मात् कार्योध्वजोच्छ्रयः।
स्नपनं चात्रकर्तव्यं प्रासादस्य तथैव च॥ 20.28 ॥
कलशं पूरयेच्छुभ्रं फलैर्नानाविधैः शुभैः।
सर्वधान्यैस्तथा शुक्लैः कुसुमैश्च सुगन्धिभिः॥ 20.29 ॥
तत्त्वानां तु यथा न्यासस्तदुक्तं प्रथमं तव।
यजमानोऽनुगैः सार्धं ध्वजमन्दिरयोः पुनः॥ 20.30 ॥
प्रदक्षिणं त्रिधा कृत्वा गच्छेदवभृथं ततः।
शुभं तीर्थं प्रविश्यात्र गङ्गामावाहयेत् पुनः॥ 20.31 ॥
देवि! विष्णुपदे! शुद्धे! सर्वपापव्यपोहिन!।
नन्दिनीत्येव ते नाम नलिनी मालिनीति च॥ 20.32 ॥
दक्षापत्या च विहगी सर्वभूतप्रियेति च।
शरणं त्वां प्रपन्नोऽस्मि पापान्यमोचय मा चिरम्॥ 20.33 ॥
ध्यात्वा जपन्निमं मन्त्रं वारि विक्षोभ्य पाणिना।
मज्जेद् येऽन्येऽत्र मज्जन्ति सर्वे तु स्युरकल्मषाः॥ 20.34 ॥
मूलाङ्गैस्तर्पयेत् तत्र मुनीन् देवान् ऋषींस्तथा।
पार्षदांश्च भवेत् तृप्तिस्तेषां द्वादशवार्षिकी॥ 20.35 ॥
दीक्षान्ते च प्रतिष्ठान्ते कुर्यादवभृथं तथा।
सर्वतीर्थसमं पुण्यं भवत्येव न संशयः॥ 2.36 ॥
ध्वजानन्यांस्तथा स्थाप्य दिशापालाङ्कचिह्नितान्।
स्वमन्त्रैः पूजयेद् दिक्षु सर्वेभ्यश्च बलिं हरेत्॥ 2.37 ॥
ग्रामवीथीश्च सम्मृज्य प्रोक्ष्य गन्धोदकैस्ततः।
समन्ताद् विकिरेत् पुष्पैः शोभनैश्च सुगन्धिभिः॥ 2.38 ॥
ग्रामपर्यन्तदेशे च ग्रामान्तश्चत्वरेषु च।
चैत्यारामेषु गोष्ठेषु देवतायतनेषु च॥ 2.39 ॥
तोरणैश्च पताकाभिर्मण्डलैश्चोपशोभयेत्।
कदलीनालिकेरेक्षुपूगपुष्पफलद्रुमैः॥ 2.40 ॥
दीपप्रासादयन्त्रैश्च कुर्याच्छोभां समन्ततः।
सवनेषु बलिं दद्याद् गन्धपुष्पादिसंयुतम्॥ 20.41 ॥
पूजयित्वा यथान्यायमुत्सवेषु विशेषतः।
संस्नाप्य शुद्धतोयैश्च पयोदध्याज्यगन्धकैः॥ 20.42 ॥
गव्यैश्च नालिकेराद्भिर्लिप्त्वा गन्धैः सुयोजितैः।
हृद्यैः सुधूपितैश्चित्रैः परिधाप्य नवैंशुकैः॥ 20.43 ॥
पुष्पैर्मनोहरैः पुण्यैर्विविधैश्च विशेषतः।
मालास्रग्भिः समन्ताच्च सन्धूप्यायः पुरादिभिः॥ 20.44 ॥
सरत्नहेमभूषाभिर्भक्त्या दीपैश्च पूजयेत्।
स्वादुभिः सोपदंशैश्च प्रभूतैराज्यसंयुतैः॥ 20.45 ॥
चतुर्विधैर्दधिक्षीरगुलाद्यैश्च निवेद्यकैः।
गीतसङ्गीतवादित्रबहुलं भक्तहर्षणम्॥ 20.46 ॥
विविधान्नाद्यभूयिष्ठमुत्सवं कारयेत् ततः।
कृत्वा नित्यबलिं दद्यात् तत्रोत्सवबलिं पुनः॥ 20.47 ॥
विशेषेण च कर्तव्यं सर्वमङ्गलसंयुतम्।
स्त्रियो द्विजाश्च हृष्टाश्च भक्ताश्च जयपाठकाः॥ 20.48 ॥
देवस्य परितो गत्वा मुच्यन्तेऽखिलपातकैः।
नृत्तगीतादिभिश्चात्र विशालं कुर्युरुत्सवम्॥ 20.49 ॥
शनैः प्रदक्षिणं गच्छेद् बलिं दद्याच्च देशिकः।
यावन्त्युत्सवक्लृप्तानि दिनान्येवं समाचरेत्॥ 20.50 ॥
गन्धपुष्पाक्षतैः स्रग्भिः फलैश्च विविधैः शुभैः।
किरेयुः कौतुकं भक्ताः कालचक्रमथापि वा॥ 20.51 ॥
एवं त्रिधा परिभ्रम्य षडहानि यथाविधि।
सप्तमेऽह्वि ततः कुर्यात् पुष्पयागं हरिप्रियम्॥ 20.52 ॥
पूर्वेद्युर्भूशयो भूत्वा नियतात्मा हविष्यभुक्।
उपोष्य निशि देवस्य कुर्यात् कौतुकबन्धनम्॥ 20.53 ॥
कर्मार्चां तु समाराध्य मण्डपे समलङ्कृते।
प्ररोहघटिकाभिस्तु शरावैर्दिग्विदिग्गतैः॥ 20.54 ॥
वैष्णवैः कारयित्वा तु घृतारोपणमादितः।
जयमङ्गलघोषैस्तु प्रदर्श्यादर्शमङ्गलम्॥ 20.55 ॥
जितं त इति बध्नीयात् कौतुकं दक्षिणे करे।
आचार्यस्यापि कर्तव्यं तदा कौतुकबन्धनम्॥ 20.56 ॥
चामरैस्तालवृन्तैश्च वीजयेन्मङ्गलान्वितम्।
शयने सन्निवेश्यार्चामनिर्वाणप्रदीपकैः॥ 20.57 ॥
रात्रिशेषं समासीत सन्धूप्यायः पुरादिभिः।
प्रातः स्नात्वाऽर्चयित्वा च कृत्वा मङ्गलवाचनम्॥ 20.58 ॥
ग्रामप्रदक्षिणं चात्र पिष्टचूर्णानि कारयेत्।
उलूखले नवे शुद्धे दूर्वादिभिरलंकृते॥ 20.59 ॥
वैष्णवीभिस्तु दासीभिर्द्विजैर्वा सुशुभानि तु।
लिप्त्वाऽऽज्येन तु तामर्चां मूलबिम्बमथापि वा॥ 20.60 ॥
हेमचूर्णादिभिः सम्यक् परिमृज्य समन्ततः।
हरिद्रमुद्गसम्मिश्रैर्भक्तानां मूर्ध्नि विन्यसेत्॥ 20.61 ॥
गन्धचूर्णैश्च विमृजेत् प्रतिमां तद्वदेव तु।
स्नापयेद् वेदिकामध्ये पूरितैस्तीर्थवारिभिः॥ 20.62 ॥
गन्धतोयैश्च दातव्यं भक्तानां मूर्ध्नि तज्जलम्।
दत्त्वा सुवर्णचूर्णं च पूजयेद् विधिना पुनः॥ 20.63 ॥
स्नात्वाऽऽचम्य पुनर्वेद्यां शोधितायां समन्ततः।
चतुस्तोरणयुक्तायां विकिरेत् सर्षपाक्षतैः॥ 20.64 ॥
कलशैरङ्कुरैर्दीपैर्दर्पणाद्यैश्च भूषयेत्।
दामानि लम्बयेत् तत्र मुक्तादामानि चाभितः॥ 20.65 ॥
कुम्भेशवर्धनीभ्यां तु कृत्वाऽऽदौ भूपरिग्रहम्।
पूर्ववत् सूत्रयित्वाऽत्र कारयेत् पुष्पमण्डलम्॥ 20.66 ॥
पञ्चवर्णैः शुभैः पुष्पैरम्लानैश्च सुगन्धिभिः।
मन्दारपीतकोरण्डैः पद्मबिल्वदलैरपि॥ 20.67 ॥
जपादिवर्जितैः शुद्धैर्यथावर्मविभागतः।
मध्ये सकर्णिकं पदम्मष्टपत्रं सुशोभनम्॥ 20.68 ॥
षङ्भिर्द्वादशभिर्वाऽपि दलैर्युक्तं प्रकल्पयेत्।
पीतैस्तु कर्णिका कार्या रक्तवर्णैस्तु केसराः॥ 20.69 ॥
हरितैः सन्धयश्चात्र शुक्लैरेव दलानि तु।
भद्रकं वा लिखेत् तत्र चक्राब्जं वा यथारुचि॥ 20.70 ॥
बहिरावरणे चाष्टौ पद्मान्यष्टदलानि तु।
मूर्त्तीनां चाथ देवीनां तथा पुष्पमयान्यथ॥ 20.71 ॥
मुद्राणां लोकपालानां तथैवावरणद्वये।
आदिपद्मार्धमानेन मूर्त्तिपद्मानि कल्पयेत्॥ 20.72 ॥
तदर्धेन तु मुद्राणामिन्द्रादीनां प्रकल्पयेत्।
तावता वैनतेयस्य विष्वक्सेनस्य चैव हि॥ 20.73 ॥
पश्चिमं वाहयेद् द्वारं वीथीश्च परितो भवेत्।
पुष्पदन्तप्रदेशे स्यात् सञ्चारो मूर्त्तिदारिणाम्॥ 20.74 ॥
एवं पुष्पमयान्येव कुर्यात् पद्मानि सर्वशः।
द्वारादिकं बहिः सर्वं यथाशोबं प्रकल्पयेत्॥ 20.75 ॥
योगपीठं तु सम्पूज्य सगात्रं सपरिच्छदम्।
प्रतिमामादिपद्मस्य कर्णिकायां निवेशयेत्॥ 20.76 ॥
पूजयेत् पूर्ववद् देवं न्यासं कृत्वा यथाविधि।
मूर्त्तिशक्त्यस्त्रलोकेशाः पूज्याः पद्मेषु तेषु च॥ 20.77 ॥
गन्धैः पुष्पैश्च धूपैश्च दीपैरन्नैश्च शोभनैः।
पूजयित्वा यथान्यायमग्निकार्यं समारभेत्॥ 20.78 ॥
चतस्रः पालिकाः पूर्वमग्नेः कृत्वा चतुर्दिशम्।
चतुरश्च चरून् कृत्वा यथावित्तानुसारतः॥ 20.79 ॥
पूर्ववत् संस्कृते वह्नौ चतुर्धैकं विभज्य वा।
कृत्वोपस्तरणादीनि प्रथमं तु निवेदयेत्॥ 20.80 ॥
द्वितीयं जुहुयादग्नौ घृताक्तं प्राग्वदेव तु।
तृतीयं परिवारेभ्यो दत्त्वाऽन्ते बलिमेव च॥ 20.81 ॥
चतुर्थं प्राशयेत साज्यं शेषं कृत्वा तु पूर्ववत्।
हिरण्यं दक्षिणां दद्याद् ब्राह्मणांश्चैव भोजयेत्॥ 20.82 ॥
नृत्तगीतादिभिः स्तोत्रैर्वेदनादैश्च पुष्कलैः।
पूजनैर्वैष्णवानां च प्रीणयेदखिलेश्वरम्॥ 20.83 ॥
द्वादश्यां श्रवणेऽप्येवं कुर्याद् यागं विचक्षणः।
सप्तमे सप्तमे कुर्याद् विष्णुयागमतन्द्रितः॥ 20.84 ॥
संवत्सरं तथा कृत्वा विष्णुलोके महीयते।
अयने विषुवे चैव सोमसूर्यग्रहे तथा॥ 20.85 ॥
संक्रमे विष्णुपञ्चम्यां कृत्वेष्टं प्राप्नुयात् फलम्।
प्रथमे दिवसे रात्रौ कुर्याद् ग्रामप्रदक्षिणम्॥ 20.86 ॥
अह्नि प्रदक्षिणं कुर्याच्छेषेषु दिवसेषु च।
बलिं च सर्वतो दद्याद् भूतेभ्योऽन्तर्बहिस्तथा॥ 20.87 ॥
परिभ्रमणकाले च मण्डलेषु बलिं हरेत्।
कौतुकस्य पुरस्तात् तु गन्तव्यं बलिदायिभिः॥ 20.88 ॥
गन्धपुष्पादिसंयुक्तं जलदानसमन्वितम्।
बलिविक्षेपणं कुर्याद् बलिमुद्रां च दर्शयेत्॥ 20.89 ॥
Chapter - 21
अथ वक्ष्यामि संक्षेपाद् यात्रामस्य शुभाशुभाम्।
तीर्थयात्रा शुभा ज्ञेया साऽशुभा या स्वमन्दिरे॥ 21.1 ॥
पूर्वेद्युरुत्सवं कृत्वा निशि दद्यान्महाबलिम्।
विष्णुपारिषदेभ्यश्च प्रमथेभ्यो नमो नमः॥ 21.2 ॥
मातृभ्यस्तद्गणेभ्यश्च सर्वेभ्यो वै नमोनमः।
इत्येवं सर्वतो दत्त्वा प्रविश्य प्रार्थ्य पूर्ववत्॥ 21.3 ॥
पीठे सास्तरणे देवं पुण्याहस्वस्तिवाचनैः।
कृतकौतुकमाराध्य ततः स्तोत्रादि कीर्तयेत्॥ 21.4 ॥
स्नातः स्वलङ्कृतः प्रातः कृत्वा यागं पुरोदितम्।
षड्भिः कनिक्रदत्पूर्वैर्हुत्वा स्वस्त्यादिपञ्चकैः॥ 21.5 ॥
मूलेनाष्टशतं चैव समिदाज्यचरून् क्रमात्।
शकुनानि परीक्ष्याथ स्नानयात्रां प्रयोजयेत्॥ 21.6 ॥
रथं वा कुञ्जरं वाऽस्य यात्रावाहनमानयेत्।
नानावादित्रकुशलान् बहुंश्च परिचारकान्॥ 21.7 ॥
छत्रध्वजपताकाश्च भटान् दासांश्च भक्तकान्।
ब्राह्मणांश्च समानीय मुहूर्ते शोभने गुरुः॥ 21.8 ॥
पुण्याहं वाचयित्वाऽत्र प्राप्तानुज्ञो द्विजोत्तमैः।
देवं प्रदक्षिणीकृत्य प्रणिपत्य पुरः स्थितः॥ 21.9 ॥
पीठे विन्यस्य कर्मार्चां कार्यं विज्ञापयेच्छनैः।
कर्मार्चा तीर्थयात्रार्थं तवेयं कल्पिता हरे!॥ 21.10 ॥
तीर्थयात्रां कुरूष्वास्यां संक्रम्यानुग्रहाय नः।
ततः संहृत्य तामर्चामुत्पाद्य विधिपूर्वकम्॥ 21.11 ॥
तस्यामावाहयेद् देवं पञ्चोपनिषदैः क्रमात्।
आवाहितमनुस्मृत्य दत्त्वाऽर्ध्यं प्रतिपूज्य च॥ 21.12 ॥
सदशेन नवेनैव वस्त्रयुग्मेन वेष्टयेत्।
सोष्णीषः सोत्तरीयश्च कृतन्यासः समाहितः॥ 21.13 ॥
दक्षिणेन तमादाय पाणिना वाग्यतः स्वयम्।
शिष्यैः परिवृतौ गच्छेन्मण्डपं समलंकृतम्॥ 21.14 ॥
तत्र मङ्गलवादं तु सर्वमङ्गलसंयुतम्।
कुर्यादत्र द्विजाः सर्वे वदेयुश्च तथास्त्विति॥ 21.15 ॥
मण्डपद्वारमासाद्य दत्त्वाऽर्ध्वं सह मूर्त्तिपैः।
गेहं प्रदक्षिणीकृत्य ततो गच्छेद् बहिः पुनः॥ 21.16 ॥
उदकुम्भं हविश्छत्रं यागोपकरणानि च।
प्ररोहघटिकाश्चान्ये दारयेयुर्द्विजोत्तमाः॥ 21.17 ॥
बहिर्निर्गम्य घोषेण महता वाग्यतः स्वयम्।
वाहनं गरुडं ध्यात्वा पूजयित्वाऽदिरुह्य तम्॥ 21.18 ॥
गच्छेत् तु योजनादर्वाङ् नदीं वाऽन्यजलाशयम्।
दिङ्मन्त्रेण बहिस्सालं कृत्वा पूर्वं प्रदक्षिणम्॥ 21.19 ॥
गच्छेयुर्वाग्यताः सर्वे सोत्तरीयाः स्वलंकृताः।
पथि घोषं जना वाद्यैर्गीतनृत्तरवैस्तथा॥ 21.20 ॥
वाहनैर्विविधैश्चापि कुर्वीरन् देवतुष्टये।
तोरणाभ्यन्तरे गत्वा मण्डपं तीर्थपार्श्वतः॥ 21.21 ॥
वेदिं परिश्रितां कृत्वा पीठे देवं निवेशयेत्।
दीक्षितैः पाचयित्वाऽत्र पायसं विजने क्वचित्॥ 21.22 ॥
दत्त्वा पाद्यादि सर्वेण तमादाय नदीं व्रजेत्।
वारिणा तीर्थमावाह्य वैष्णवं तत्र पावनम्॥ 21.23 ॥
तीर्थे त्रिधा निमज्ज्यास्मिन् मन्त्रेण परमेष्ठिना।
निवेस्य पीठे दत्त्वाऽर्ध्यं पाद्यमाचमनं तथा॥ 21.24 ॥
आपोहिष्ठादिभिः प्रोक्ष्य पञ्चभिश्च समाहितः।
तमादाय पुनर्मज्जेत् तोये कृत्वाऽघमर्षणम्॥ 21.25 ॥
तत्र स्नानं महापुण्यं सर्वपापहरं विदुः।
पीठे निवेश्य वस्त्रे द्वे परिधाय नवे स्वयम्॥ 21.26 ॥
आचम्य तु कृतन्यासः पूजयेद् विधिना पुनः।
आज्युक्तं निवेद्यं च दत्त्वाऽस्मै विधिपूर्वकम्॥ 21.27 ॥
तीर्थेऽस्मिन् वैष्णवे पुण्ये स्नातोऽसि पुरुषोत्तम!।
अतस्त्वमनुगृह्णीष्व स्वस्थानोपाश्रयेण नः॥ 21.28 ॥
इति प्रार्थ्य तमादाय पूर्ववद् वाहनं नयेत्।
तमारुह्य यथापूर्वं प्रासादमशनैर्नयेत्॥ 21.29 ॥
यात्राह्न्येव गृहं प्राप्य बिम्बे संक्रामयेत् ततः।
दोषोऽन्यथा महानत्र कर्तॄणां भवति ध्रुवम्॥ 21.30 ॥
गत्वा गर्भगृहं पीठे निवेश्य सुसमाहितः।
तोयेन गन्धपुष्पैश्च बुद्ध्याऽऽवाह्य समन्त्रकम्॥ 21.31 ॥
मूलबिम्बे यथान्यायां सर्वेण प्रतिरोपयेत्।
यात्रादावन्ततश्चैवमावाहनविधिः स्मृतः॥ 21.32 ॥
सकलीकृतमाराध्य दत्त्वाऽर्ध्यं प्रणिपत्य च।
निर्गच्छेद् द्वारमावृत्य ब्राह्मणांश्चात्र भोजयेत्॥ 21.33 ॥
निशि दद्याद् बलिं चैवं शुभयात्रा मयोदिता।
अशुभा वास्तुसिद्ध्यर्था कथ्यमानाऽवधार्यताम्॥ 21.34 ॥
प्रासादे शिथिले जीर्णे मृद्बिम्बे चित्र एव वा।
निष्क्रामयेन्नवे गेहे विधिनाऽनेन देवताम्॥ 21.35 ॥
पर्जन्ये वा जयन्ते वा दित्यदित्योश्च सम्भवात्।
प्रागद्वारे पश्चिमद्वारे मृगदौवारिकस्थितम्॥ 21.36 ॥
प्रासादाभिमुखद्वारमल्पगेहं नवं शुभम्।
एकभूमिकमग्रीवं मृद्भिः काष्ठैरथापि वा॥ 21.37 ॥
पीठं काष्ठमयं रम्यं सश्वभ्रं कारयेत् ततः।
कुर्याल्लोहमयं बिम्बं दारवं वाऽस्त्रमापदि॥ 21.38 ॥
कृते कालावधौ सम्यक् संक्रामणमिहेष्यते।
मासादि द्वादशाब्दान्तं कालमत्र प्रचक्षते॥ 21.39 ॥
नवं गेहं तु संशोध्य सर्वं कृत्वाऽथ पूर्ववत्।
राक्षोघ्नमादितः कृत्वा सर्वकर्माण्यतश्चरेत्॥ 21.40 ॥
स्थापनोक्तविधानेन मण्डपं कारयेत् पुनः।
ध्वजतोरणसंयुक्तं मण्डयेदङ्कुरादिभिः॥ 21.41 ॥
गव्यैरस्त्रेण सम्प्रोक्ष्य मध्ये स्वस्तिकमालिखेत्।
व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोभिरास्तरेत्॥ 21.42 ॥
तण्डुलान् निक्षिपेत् तस्मिन् कम्बलादिभिरास्तरेत्।
कुशैर्वस्त्रैश्च पुष्पैश्च गन्धादिभिरथार्चयेत्॥ 21.43 ॥
जलेऽदिवास्य कर्मार्चां प्रक्षाल्य सलिलैः शुभैः।
मृत्तोयैः पत्रतोयैश्च कषायैर्गव्यपञ्चकैः॥ 21.44 ॥
गन्धपुष्पैरलंकृत्य वस्त्रैराच्छाद्य शाययेत्।
शङ्खभेर्यादिनादेन गन्धपुष्पादिसंयुतम्॥ 21.45 ॥
आ सप्तरात्रात् सन्ध्यासु देवताभ्यो बलिं हरेत्।
शृण्वन्तु देवताः सर्वाः प्रासादमिममाश्रिताः॥ 21.46 ॥
यदुच्यमानमस्माभिरनुगृह्णन्तु तेन नः।
पूर्वैः पूर्वं कृतमिदं देवालयमसारवत्॥ 21.47 ॥
प्राप्तं कालवशाद् भूयो वयं तत् कर्तुमुद्यताः।
कालेनैतावता भूयः प्रासादेऽस्मिन् पुनर्नवे॥ 21.48 ॥
प्रापयामो वयं सत्यमित्युक्त्वा घोषयेद् बुधः।
मासादर्वाक् तु कालश्चेत् तत्र संकोच इष्यते॥ 21.49 ॥
प्रासाददेहसंस्थानि सर्वतत्त्वान्यनुक्रमात्।
देवताश्च तथा हृत्वा परिवारसमायुतम्॥ 21.50 ॥
ध्यात्वा संहारमार्गेण यथावद् देशिकोत्तमः।
तेजोरूपं तु तत् सर्वं मूलबिम्बे नियोजयेत्॥ 21.51 ॥
तदूर्ध्वं च तथा कृत्वा संक्रामयितुमारभेत्।
प्रविश्य गर्भगेहं तु मूर्तिपैः सहितो गुरुः॥ 21.52 ॥
पुण्याहं वाचयित्वाऽथ ब्राह्मणैः स्वस्ति वाचयेत्।
देवस्य महतीं पूजां कृत्वा भक्त्या यथाविधि॥ 21.53 ॥
प्रणिपत्य पुरः स्थित्वा कार्यं विज्ञापयेच्छनैः।
भगवन्! वास्त्वभिनवं बिम्बं च (वा) तव शोभनम्॥ 21.54 ॥
कारयिष्यन्ति ते भक्तास्तदनुज्ञातुमर्हसि।
क्लेशवासस्त्वया देव! रोचनीयोऽल्पके गृहे॥ 21.55 ॥
यावन्नवं शुभं कृत्वा पुनः संस्थापयामहे।
ततो लोहमयं कुम्भं शोधीतं सूत्रवेष्टितम्॥ 21.56 ॥
देवस्य पुरतो न्यस्य सपवित्राक्षतादिकम्।
ततो निर्गम्य तैः सार्धं बिम्बसंस्कारमारभेत्॥ 21.57 ॥
संहारसृष्टियोगेन ध्यात्वा तत्त्वान्यनुक्रमात्।
जननादिक्रमाद्धुत्वा तत्त्वान्यग्नौ यथाविधि॥ 21.58 ॥
निर्गत्य पृच्छेदाचार्यः कर्तॄन् कालावधिं पुनः।
कियन्तं कालमत्रेशः प्रवासवसतिं वसेत्॥ 21.59 ॥
मासादूर्ध्वं द्वादशाब्दार्वाक् कालावधिः स्मृतः।
नार्वाङ् नोर्ध्वं क्लेशवासं वासुदेवोऽनुमन्यते॥ 21.60 ॥
इति पृष्टास्तु ते ब्रूयुः कालावधिमसंशयम्।
विश्राव्य कालनियमं देवता नीयते बहिः॥ 21.61 ॥
विज्ञापयेत् ततो देवं प्रविश्य सुसमाहितः।
कालं कर्तृभिरुद्दिष्टं ततः कुर्यादिमं विधिम्॥ 21.62 ॥
यात्राहोमादिसंयुक्तं मुहुर्ते शोभने गुरुः।
हुत्वा वास्तोष्पतिं सद्यो देवं निष्क्रामयेद् बहिः॥ 21.63 ॥
कलशं पूजयित्वाऽग्रे पूरितं वस्त्रवेष्टितम्।
कुम्भे तस्मिन् विधानेन योगपीठं प्रकल्पयेत्॥ 21.64 ॥
सहेमरत्नगन्धाम्भोजाम्बूनदमयाम्बुजम्।
आवाह्य विधिना तस्मिन् देवदेवं सनातनम्॥ 21.65 ॥
पञ्चोपनिषदैर्मन्त्रैर्मन्त्रमूर्तिसमन्वितम्।
दत्त्वाऽर्व्यं पूजयित्वाऽत्र गन्धपूष्पैः प्रणम्य च॥ 21.66 ॥
वस्त्रादिवेष्टितं बिम्बं प्रयत्नात् परिकल्प्य च।
कलशं धारयन् मूर्ध्ना निर्गच्छेद् वाग्यतो गुरूः॥ 21.67 ॥
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः।
गेहं प्रदक्षिणीकृत्य ब्रह्मघोषसमन्वितम्॥ 21.68 ॥
शनैः शनैर्व्रजेद् यत्नाद् वास्त्रालङ्कारभूषितः।
शाकुनस्वस्तिसूक्ताब्यामतोदेवादिन तथा॥ 21.69 ॥
अन्तर्मण्डपमानीय स्थापयेच्छयने हरिम्।
द्वादशाक्षरमन्त्रेण न्यासं मूलेन कल्पयेत्॥ 21.70 ॥
सूक्तेन च स्तुतिं कृत्वा पौरुषेण विचक्षणः।
विष्णुसूक्तेन मूलेन द्विषट्केनाष्टकेन च॥ 21.71 ॥
नामभिःकेशवाद्यैश्च दद्यात् पुष्पाणि भक्तितः।
शालितण्डुलसम्पूर्णाञ् जलपूर्णानथापि वा॥ 21.72 ॥
घटान् प्रागादि विन्यस्य केशवादीन् प्रपूजयेत्।
प्रणवेनैव तान् सर्वान् देवादाहृत्य विन्यसेत्॥ 21.73 ॥
मूर्तिदेव्यो बहिः पूज्या मुद्रा दिक्पाश्च तद्बहिः।
स्तुत्वाऽनुज्ञाप्य तं देवं प्रथमां शान्तिमभ्यसेत्॥ 21.74 ॥
दिक्कुण्डेष्वग्निमाधाय पूर्ववन्मूर्तिधारकाः।
आधिवासनिकान् होमानारभेरन् यथापुरम्॥ 21.75 ॥
हुत्वा देवमनुज्ञाप्य कुर्याच्छान्तिं च देशिकः।
स्पृष्ट्वा मन्त्रैस्ततो जप्त्वा क्षालयेद् गव्यपञ्चकैः॥ 21.76 ॥
व्यस्तैश्चैव समस्तैश्च कषायामलाकाम्बुभिः।
हेममिश्रजलैः पश्चात् स्नापयेच्छुद्धवारिभिः॥ 21.77 ॥
सूक्तैः स्तुत्वाऽर्चयेद् देवं गन्धपुष्पादिभिः क्रमात्।
कलशान् स्थापयेत् पश्चाद् द्वारदेशेषु सर्वतः॥ 21.78 ॥
द्रव्याणि पूजनार्थानि होमार्थानि च संहरेत्।
तूर्यवादित्रहस्तांश्च कल्पयेत् कुशलान् बहून्॥ 21.79 ॥
एतत् सर्वमुपानीय निमित्तान्युपलक्ष्य च।
स्थानानि देवतानां च कल्पयित्वा यथाक्रमम्॥ 21.80 ॥
दुःस्वप्नादिषु जातेषु प्रायश्चित्तानि कारयेत्।
मूलेन जुहुयादाज्यं सहस्रं शतमेव वा॥ 21.81 ॥
पुण्याहजयघोषैश्च मुहूर्ते शोभने गुरुः।
देवं प्रदक्षिणं कृत्वा लब्धानुज्ञः कृताञ्जलिः॥ 21.82 ॥
सम्पूज्य विधिना देवं पुण्याहजयमङ्गलैः।
प्रणवेन तमुत्थाप्य शाकुनेन तु देशिकः॥ 21.83 ॥
स्वस्तिसूक्तेन चानीय प्रविशेत् सप्रदक्षिणम्।
प्रविश्य तैः समादिष्टं कालं विज्ञाप्य विष्णवे॥ 21.84 ॥
स्थापयेत् प्रतिमां तत्र मन्त्रमेतमुदीरयेत्।
भगवन्नल्पगेहेऽस्मिन् वासः क्लेशोऽपि ते हरे!॥ 21.85 ॥
वस्तव्यो भगवंस्तावद् यावद् गेहं समाप्यते।
कारकस्य परामृद्धिमनुजानन् महोदयाम्॥ 21.86 ॥
भक्तानामनुकम्पार्थमिह त्वं स्थातुमर्हसि।
इत्युक्त्वा किञ्चिदानम्य सिञ्चेत् तद्वारि मूर्धनि॥ 21.87 ॥
पञ्चोपनिषदान् मन्त्रान् घ्यात्वा सर्वेण देशिकः।
सृष्टिन्यासं ततः कुर्यात् पौरुषं सूक्तमुच्चरेत्॥ 21.88 ॥
ततो मूर्त्या तु संयोज्य पूजयेत् कल्पवर्त्मना।
कल्पयेत् परिवारांश्च दिशाहोमान् प्रकल्पयेत्॥ 21.89 ॥
दक्षिणां च ततो दद्यादन्नाद्यं चात्र कारयेत्।
यन्नोक्तं तच्च वै कुर्यात् प्रतिष्ठाविधिना सुधीः॥ 21.90 ॥
Chapter - 22
अथ वक्ष्यामि संक्षेपाद् बलिकर्म यथाक्रमम्।
त्रिसन्ध्यमुचितं नित्यमुत्सवादौ विशेषतः॥ 22.1 ॥
आराध्य विधिना देवं गन्धपुष्पादिभिः क्रमात्।
संस्कृतं संस्कृते वह्नौ देवायान्नं निवेदयेत्॥ 22.2 ॥
तच्छेषेणैव कर्मार्चापीठं पात्रे प्रकल्पयेत्।
विना मन्त्रेण लोकाग्नौ बल्यर्थमपि पाचयेत्॥ 22.3 ॥
स्थाल्यां तु तण्डुलाञ् शुद्धान् निरूप्तान् मूलविद्यया।
प्रोक्ष्य त्रिधा परिक्षाल्य प्रज्वाल्याग्निं च तेजसा॥ 22.4 ॥
पचेद् व्यजनवातेन हविर्न स्कन्द्यते यथा।
अभिघार्यावतार्याथ विन्यसेत् पात्रघट्टितम्॥ 22.5 ॥
पात्रेऽन्यस्मिन्नुपस्तीर्य क्षिप्तं प्रत्यभिघार्य च।
साज्यं निवेदयेद् भागं देवायान्यं च होमयेत्॥ 22.6 ॥
गोमयेनोपलिप्यैशे पात्रं दर्भेषु सादयेत्।
हैमं वा राजतं ताम्रं रत्निमात्रं तु मण्डलम्॥ 22.7 ॥
अष्टाक्षरेण सम्प्रोक्ष्य सम्यक् प्रोत्तानितं जलैः।
अभिघार्य हविश्शेषं हृदा तस्मिन् विनिक्षिपेत्॥ 22.8 ॥
पीठं प्रकल्पयेत् तेन कर्मार्चा यत्र नेष्यते।
अन्यदा मसृणीकृत्य दध्याज्यक्लेदितं शुभम्॥ 22.9 ॥
शिवकं कारयेत् तेन चतुरङ्गुलविस्तरम्।
द्वादशाष्टाङ्गुलोत्सेधं षडङ्गुलमथापि वा॥ 22.10 ॥
विन्यस्य काञ्चनं मूर्ध्नि शक्तितमावाह्य पूजयेत्।
परमेष्ठ्यात्मिकीं मध्ये पुरुषादिसमावृताम्॥ 22.11 ॥
तस्मिन् संस्थापयेदर्चां सर्वेणावाह्य पञ्चभिः।
मूलेनावाह्य वा हेम्नि वर्णमूर्तिवृतं हरिम्॥ 22.12 ॥
गन्धपुष्पैस्तमभ्यर्च्य ध्यात्वा सवनभेदितम्।
तत्पात्रं स्थापयेन्मूर्ध्नि दीक्षितस्य द्विजन्मनः॥ 22.13 ॥
उष्णीषादियुतो मौनी गृहित्वा व्याहृतिं जपेत्।
देवस्य पुरतः स्थित्वा प्रणम्य तु बहिर्व्रजेत्॥ 22.14 ॥
शङ्खदुन्दुभिनिर्घोषैर्जयशब्दैश्च पुष्कलैः।
अष्टमङ्गलसंयुक्तं वितानाद्युपशोभितम्॥ 22.15 ॥
देवनागाप्सरोयक्षमुनिगन्धर्वकिन्नराः।
सर्वे चानुगमिष्यन्तो ध्येयाः स्वगुणसंवृताः॥ 22.16 ॥
गन्धं पुष्पं जलं धूपं दीपं छत्रं च चामरम्।
मङ्गलानि हविर्धण्टां गृह्णीयुस्तत्र दीक्षिताः॥ 22.17 ॥
निर्गम्य शमितैर्घौषैर्ब्राह्मणानामनुज्ञया।
मङ्गलानि गुरुर्ब्रूयाद् द्विजाश्चान्ये तथास्त्विति॥ 22.18 ॥
जगन्निर्माणसंहारस्थित्यनुग्रहहेतवः।
देवानामीश्वरा देवा मङ्गलं प्रदिशन्तु नः॥ 22.19 ॥
विष्णुर्ब्रह्मा च रुद्रश्च प्रचण्डश्चण्ड एव च।
गरुत्मान् ऋषभश्चैते मङ्गलं प्रदिशन्तु नः॥ 22.20 ॥
इन्द्रश्चाग्निर्यमश्चैव निर्ऋतिर्वरुणस्तथा।
वायुर्वैश्रवणेशानौ मङ्गलं प्रदिशन्तु नः॥ 22.21 ॥
वराहनरसिंहौ च रामश्रीधरवामनाः।
हयास्यवासुदेवौ च मङ्गलं प्रदिशन्तु नः॥ 22.22 ॥
पूरुश्च निर्ऋतिश्चैव सिंहो नारायणाच्युतौ।
अनिरुद्धो हरिः कृष्णो मङ्गलं प्रदिशन्तु नः॥ 22.23 ॥
कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः॥ 22.24 ॥
देवदौवारिकाश्चैते मङ्गलं प्रदिशन्तु नः।
अष्टोत्तरसहस्रं तु विष्णुपारिषदाश्च ये॥ 22.25 ॥
अनुपारिषदाश्चान्ये मङ्गलं प्रदिशन्तु नः।
भूर्लोकभुवर्लोकाद्याः सप्त लोकाः प्रकीर्तिताः॥ 22.26 ॥
सागराश्च तथा सर्वे मङ्गलं प्रदिशन्तु नः।
तथा पाताललोकाश्च रुद्रलोकाः सुखोषिताः॥ 22.27 ॥
दिक्षु सर्वासु तिष्ठन्तो मङ्गलं प्रदिशन्तु नः।
वेदाश्चाप्युवेदाश्च सेतिहासाः कथा अपि॥ 22.28 ॥
षडङ्गानि च शास्त्राणि मङ्गलं प्रदिशन्तु नः।
गङ्गा च यमुना चैव तथा गोदा सरस्वती॥ 22.29 ॥
नर्मदा चैव कावेरी मङ्गलं प्रदिशन्तु नः।
सूर्यादयो ग्रहाश्चाथ मेषाद्या राशयस्तथा॥ 22.30 ॥
मासाश्चापि सविष्ण्वाद्या मङ्गलं प्रदिशन्तु नः।
सर्वे विद्येश्वराश्चापि ये दिव्या ये च मानवाः॥ 22.31 ॥
दिव्यन्तरिक्षभूमिस्था मङ्गलं प्रदिशन्तु नः।
धरा ध्रुवश्च सोमश्च आपश्चैवानलोऽनिलः॥ 22.32 ॥
प्रत्यूषश्च प्रभासश्च मङ्गलं प्रदिशन्तु नः।
यज्ञाश्च पञ्चयज्ञाश्च पाकयज्ञास्तथैव च॥ 22.33 ॥
सर्वयज्ञमहायज्ञा मङ्गलं प्रदिशन्तु नः।
कुमार्यश्च कुमाराश्च गणेशाश्च विनायकाः॥ 22.34 ॥
सर्पाश्च किन्नराश्चापि मङ्गलं प्रदिशन्तु नः।
मृगव्याधश्च शर्वश्च निर्ऋतिश्चाज एकपात्॥ 22.35 ॥
अहिर्बुध्निः पिनाकी च भवनोऽथेश्वरस्तथा।
स्थाणुर्भवश्च पापारिर्मङ्गलं प्रदिशन्तु नः॥ 22.36 ॥
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा।
इन्द्रो विवस्वान् पूषा च पर्जन्यत्वष्ट्टविष्णवः॥ 22.37 ॥
एते वै द्वादशादित्या मङ्गलं प्रदिशन्तु नः।
यवक्रीतश्च क्रीतश्च अर्वावसुविभावसू॥ 22.38 ॥
कक्षीवान् नारदः कण्वो मङ्गलं प्रदिशन्तु नः।
उन्मुचिः प्रमुचिश्चैव आत्रेयोऽगस्त्य एव च॥ 22.39 ॥
दृढायुश्चेध्मवाहश्च मङ्गलं प्रदिशन्तु नः।
दृषद्गुह्यमहद्गुह्यपरिव्राजास्तथैव च॥ 22.40 ॥
एकद्वित्रिसमाख्याता मङ्गलं प्रदिशन्तु नः।
कश्यपोऽत्रिर्वसिष्ठश्च भारद्वाजोऽङ्गिरास्तथा॥ 22.41 ॥
कौशिको भगवांश्चैते मङ्गलं प्रदिशन्तु नः।
आवहो विवहश्चैव उद्वहः सुवहस्तथा॥ 22.42 ॥
परीवहो विवहश्चैते मङ्गलं प्रदिशन्तु नः।
श्वेतकेतुश्च व्यासश्च वाल्मीकिः सुयशास्तथा॥ 22.43 ॥
और्वशेयश्च शक्तिश्च तथा चैव पराशरः।
सप्तैते दिव्यमुनयो मङ्गलं प्रदिशन्तु नः॥ 22.44 ॥
एवं मङ्गलवादात् ताः सिद्धिं यच्छन्ति देवताः।
सर्वकर्म समारम्भे कर्तव्यं च सुमङ्गलम्॥ 22.45 ॥
मण्डपद्वारमासाद्य शङ्खतूर्यादिनिस्वनैः।
द्वाःस्थादिभ्यो बलिं दद्याद् गन्धपुष्पादिसंयुतम्॥ 22.46 ॥
एभिर्मन्त्रैरुपस्थाय स्वमन्त्रैरभिपूज्य तान्।
तत्र तत्र बलिं दद्याद् देवदृष्ट्याऽवलोकितम्॥ 22.47 ॥
नमस्ते द्वारपालाय चण्डायामिततेजसे।
नरसिंहतनूजाय चक्रेणाङ्कितमौलये॥ 22.48 ॥
नमस्ते द्वारपालाय प्रचण्डायामितौजसे।
नरसिंहतनूजाय शङ्खेनाङ्कितमौलये॥ 22.49 ॥
वाहनाय महाविष्णोस्तार्क्ष्यायामिततेजसे।
गरुडाय नमस्तेऽस्तु सर्वसर्पेन्द्रमृत्यवे॥ 22.50 ॥
दैत्यदर्पविनाशाय सहस्राक्षाय धीमते।
कुलिशव्यग्रहस्ताय नमस्तेऽस्तु शतक्रतो!॥ 22.51 ॥
मुखं यः सर्वदेवानां येन हव्यं च नीयते।
येन प्रवर्तते सर्वं नमस्तस्मै हविर्भुजे॥ 22.52 ॥
येन संह्रियते सर्वं येन धर्मश्च रक्ष्यते।
यस्माद् बिभेति लोकोऽयं प्रेतनाथ! नमोऽस्तुते॥ 22.53 ॥
राक्षसा यातुधानाश्च पिशाचाश्चाश्रयन्ति यम्।
तस्मै निर्ऋतिरूपाय रक्षसां पतये नमः॥ 22.54 ॥
येन संरक्ष्यते सर्वं यस्मिन् सर्वं प्रतिष्ठितम्।
अमोघपाशहस्ताय तस्मैपांपतये नमः॥ 22.55 ॥
पूर्यन्ते च ह्रियन्ते च येन प्राणादयः क्रमात्।
भूतानां पतये नित्यं नमस्तस्मै मरुत्पते!॥ 22.56 ॥
यत्प्रसादाज्जगत् कृत्स्रं धनेन परिपूर्यते।
यक्षगुह्यकनाथाय धननाथ! नमोऽस्तु ते॥ 22.57 ॥
येन कालाग्निना लोको युगान्तेष्ववगृह्यते।
तस्मै ते ब्रह्मणः पुत्र! विरुपाक्ष! नमोऽस्तु ते॥ 22.58 ॥
वीरभद्र! नमस्तेऽस्तु नमो विघ्नेस्वराय च।
ब्राह्म्यादिभ्यश्च सप्तभ्यो मातृभ्यो वै नमो नमः॥ 22.59 ॥
श्रीधराय नमस्तेऽस्तु नमस्तेऽस्वमुखाय च।
वागीश्वर्यादिमातृभ्यः सर्वाभ्यो वै नमो नमः॥ 22.60 ॥
विष्वक्सेन! नमस्तेऽस्तु देवनिर्माल्यधारिणे।
शङ्खचक्रगदापाणे! महापारिषदेश्वर!॥ 22.61 ॥
ये समस्तं जगद् व्याप्य तिष्ठति बलिकाङ्क्षिणः।
विष्णुपारिषदाः सर्वे गृह्णन्तु बलिमुत्तमम्॥ 22.62 ॥
इत्याघोष्य बहिर्दिक्षु गणैरष्टविधैः सह।
कुमुदादिबलिं दत्त्वा बलिपीठे बलिं हरेत्॥ 22.63 ॥
ये भूता इति दिक्षूर्ध्वं भूतनाथाय मध्यतः।
मुष्टिना मुष्टिना सर्वान् प्रीणयेद् विष्णुपार्षदान्॥ 22.64 ॥
गृह्णन्तु बलिमेतं तु बाह्यस्था विहगाननाः।
ये क्रूरो येऽल्पसत्वाश्च भूतप्रेतनिशाचराः॥ 22.65 ॥
वेतालाश्चैव मातङ्गा हीनाहीनाश्च ये गणाः।
सर्वेषामेव तेषां च हरामि बलिमुत्तमम्॥ 22.66 ॥
सर्वेभ्यश्चैव भूतेभ्यः सगणेभ्यो नमो नमः।
त्रिः प्रदक्षिणमावृत्त्य बलिना तोषयेद् गणान्॥ 22.67 ॥
सवने सवने चैव नृत्तगीतादिसंयुतम्।
गन्धपुष्पादि दत्त्वाऽन्ते बलिशेषं जलाप्लुतम्॥ 22.68 ॥
निर्हरेदों नमो विष्णुपार्षदेभ्य इति ब्रुवन्।
आचम्य प्रयतो विष्णुं स्मरन्नेत्य समाहितः॥ 22.69 ॥
सर्वेणारोप्य तामर्चां पुनर्मूले नियोजयेत्।
विष्वक्सेनाय तत् सर्वं समाल्यं दापयेद्धविः॥ 22.70 ॥
पिण्डे तु बलिपात्रे वा पतिते दूषितेऽपि वा।
तत्र प्रक्षाल्य तत् स्नात्वा कृत्वा न्यासं यथाक्रमम्॥ 22.71 ॥
परिश्रित्याशु तां भूमिं गोमयेनोपलेपयेत्।
पायसं श्रपयित्वाऽत्र घृतमिश्रं सुशोभनम्॥ 22.72 ॥
लिखित्वा स्त्रस्तिकं तत्र चूर्णैः शालिनिशामयैः।
व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन्नास्तीर्य चाम्बरम्॥ 22.73 ॥
तण्डुलैश्च कुशैः पुष्पैः प्रोक्ष्यास्त्रेण समाहितः।
मूलेन विन्यसेत् पात्रं प्रवणेन स्पृशेत् ततः॥ 22.74 ॥
पुनश्चास्त्रेण सम्प्रोक्ष्य दक्षिणे शान्तिमर्चयेत्।
उल्लेखनादिकं कृत्वा संस्कृत्याग्निं यथाविधि॥ 22.75 ॥
हुत्वाऽन्नं मूलमन्त्रेण प्रणवेनाज्यमेव च।
अष्टोत्तरशतं वाऽपि संहस्रं वा यथाक्रमम्॥ 22.76 ॥
हविश्शेषं ततः पश्चाद् बलिपात्रे तु निक्षिपेत्।
तत् कृत्वा पूर्ववत् प्रोक्ष्य मूलेनावाहनं भवेत्॥ 22.77 ॥
पाद्ममर्ध्यं ततो दत्त्वा गन्धपुष्पैरथार्चयेत्।
नमस्कृत्य ततः स्तुत्वा स्तोत्रैरेवं निवेदयेत्॥ 22.78 ॥
भगवन्! बलिपातस्य प्रायश्चित्तविधिर्मया।
कृतोऽयं त्वत्प्रसादेन सम्पूर्णः शान्तिदोऽस्तु नः॥ 22.79 ॥
पुण्याहं वाचयित्वा च ब्राह्मणैः स्वस्ति वाचयेत्।
नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः॥ 22.80 ॥
उद्धृत्य व्याहृतीर्जप्त्वा मूर्ध्नि तारेण विन्यसेत्।
शङ्खतूर्यादिसंयुक्तं शनैर्गत्वा प्रदक्षिणम्॥ 22.81 ॥
अन्तः प्रवेशयेत् पश्चादैशान्यां स्थापयेद् बुधः।
उद्वास्यान्नं बहिस्त्यक्त्वा विष्वक्सेनाय कल्पयेत्॥ 22.82 ॥
पात्रं प्रक्षाल्य तोयेन विधिनाऽऽचम्य च स्वयम्।
प्रासादे विन्यसेत् पात्रं ततः कुर्याच्च शान्तिकम्॥ 22.83 ॥
राशिचक्रविधानेन केशवादीन् यथाक्रमम्।
चक्राब्जे पूजयेद् विद्वानग्निकार्यसमन्वितम्॥ 22.84 ॥
बलिपातदिगीशं च तन्मासाधिपमेव च।
तिथ्यृक्षवारराशीनां देवताश्चापि तर्पयेत्॥ 22.85 ॥
Chapter - 23
अथ वक्ष्यामि संक्षेपाद् विश्वार्चां सर्वभूतिदाम्।
दिग्विभागसमायुक्तां सर्वलोकहिताय वै॥ 23.1 ॥
विधिवत् स्थापिते देवे यथान्यायं प्रपूजयेत्।
कर्तव्या विश्वदेवार्चा वृद्ध्यर्थं सर्वदाऽपि वा॥ 23.2 ॥
मध्ये साङ्गं यजेद् विष्णुं दिग्विदिक्षु ततः सुरान्।
पूर्वादौ पुरुषं सत्यमच्युतं चानिरूद्धकम्॥ 23.3 ॥
विश्वरूपं च वैकुण्ठं सर्वं भावनमेव च।
विद्याधिपतयश्चैते शङ्खचक्रगदाधराः॥ 23.4 ॥
विष्णुरूपाः सदा पूज्याः सगणास्तु पृथक् पृथक्।
शक्तयोऽष्टौ भृशादिस्थाः सुरूपाः सर्वकामदाः॥ 23.5 ॥
प्रज्ञा बुद्धिः स्मृतिः कीर्त्तिः श्रुतिर्मेधा धृतिः क्षमा।
शङ्खः सुदर्शनहलौ गदामुसलखड्गकाः॥ 23.6 ॥
धनुः स्रगुत्तमा चाष्टौ दिग्विदिक्षु च तद्बहिः।
वज्रदण्डत्रिशूलानि पाशोऽस्त्राणि तथैव च॥ 23.7 ॥
ततः शक्तिश्च शस्त्राणि वैष्णवास्त्रं भृशदिषु।
अस्त्रावरणमेवं तु शूलं सपरशुं यजेत्॥ 23.8 ॥
इन्द्रो यमश्च वरुणः सोमोऽग्निर्निर्ऋतिस्तथा।
वायुरीशान इत्यष्टौ लोकपालास्तु तद्बहिः॥ 23.9 ॥
आदित्या विश्वदेवाश्च मरुतो विघ्ननायकाः।
स्कन्दो रुद्राश्च वसवश्चाश्विनौ च भृशादिषु॥ 23.10 ॥
बहिर्ग्रहगणाः पूज्याः पितृयक्षगणास्तथा।
गन्धर्वाः सर्वभूतानि चाम्बिका राक्षसास्तथा॥ 23.11 ॥
विद्याधराश्च सिद्धाश्च पूज्याः सर्वे स्वनामभिः।
ततोऽप्सरोलोकमातृकूष्माण्डाश्च पिशाचकाः॥ 23.12 ॥
नागाश्च किन्नराः सर्पा व्याधयश्च भृशादिषु।
नन्दनः कुमुदश्चाथ द्वाःस्थौ दक्षिणवामयोः॥ 23.13 ॥
गृहगोपुरमध्येऽर्च्यो ध्वजोऽश्वस्तद्भृशान्तरे।
रथो गृहेन्द्रमध्ये स्यात् पर्जन्येन्द्रे खगेश्वरः॥ 23.14 ॥
पुंशङ्खमध्यगः पूज्यः सुवर्चाः कलशाधिपः।
पुरप्रासादमध्येऽर्च्यो बलाख्यो मण्डपाधिपः॥ 23.15 ॥
भाण्डागारेऽक्षयः पूज्यो जलस्थाने तथा नरः।
सभास्थानेऽद्भुतो वृद्धिकरश्चाथ महानसे॥ 23.16 ॥
उन्मादः पचनागारे तर्पणो भोजनालये।
कुन्दरः कुसुमागारे निर्गमे विक्षरस्तथा॥ 23.17 ॥
बलश्चातिबलश्चोभौ पीठेऽर्च्यौ बलिरक्षकौ।
विकटश्च विरूपाक्षः पूर्वगोपुरपालकौ॥ 23.18 ॥
द्वाःस्थौ दक्षिणवामस्थौ भीमरूपौ गदाधरौ।
सनातनश्च सनको दक्षिणद्वारपालकौ॥ 23.19 ॥
पूजनीयौ प्रयत्नेन खङ्गमुद्गरधारिणौ।
दण्डपाशधरौ शान्तप्रमोदौ चैव पश्चिमे॥ 23.20 ॥
उत्तरे सर्वदः सर्वदमनश्चापतूणिनौ।
चरको बहिरीशाने विदारोऽग्नौ तु पूतनः॥ 23.21 ॥
नैर्ऋते वायुबाह्ये तु राक्षसः पापचारकः।
बलिपीठाधिपः प्राच्यां देवो नन्दिकरो यमे॥ 23.22 ॥
पश्चाद् विभीषणः सौम्ये सुलभस्थानपालकाः।
येऽनुक्ता मातरोऽनन्तो विष्वक्सेनो ध्वजाधिपाः॥ 23.23 ॥
रेवन्तः क्षेत्रपालाश्च ते पूज्यास्तत्र तत्र वै।
स्थितासीने चतुष्षष्टिः सुप्ते तेऽशीतिरेकिनी॥ 23.24 ॥
सामान्यं तु शतं त्रेधा प्राकारान्तर्विभाजनम्।
अन्तश्चतुष्कं प्रासादं द्विगुणं च प्रकल्पयेत्॥ 23.25 ॥
दक्षिणे नन्दनं द्वाःस्थं चतुर्बाहुं गदाधरम्।
तथैव कुमुदं कुर्याद् वामे पट्टसपाशिनम्॥ 23.26 ॥
अङ्गुल्यर्धार्धयुग् वामे कुर्यादालयमासने।
शते पादप्रविष्टाः स्युः परिवारालयाः पृथक्॥ 23.27 ॥
यथैव तु चतुष्षष्टौ संगमस्थाः सुराः पृथक्।
तथा शतपदे प्रोक्ता गर्भादिपरिकल्पना॥ 23.28 ॥
चतुर्थे सङ्गमेऽर्यम्णो विवस्वन्मित्रभूभृताम्।
पुरुषाद्यालयं कुर्यात् सावित्राद्याद्यसङ्गमे॥ 23.29 ॥
विश्वादीनां क्रमादेवं स्थानानि परिकल्पयेत्।
तृतीये सङ्गमेऽर्यम्णः पञ्चमे तु विवस्वतः॥ 23.30 ॥
तृतीये तस्य मित्रस्य पञ्चमेऽस्य तृतीयके।
भूभृतः पञ्चमे तस्य तृतीयेऽर्यमपञ्मे॥ 23.31 ॥
प्रज्ञादीनां क्रमादेवमालयाः परिकीर्तिताः।
शङ्खादयोऽर्यमादीनां चतुर्णामाद्यसङ्गमे॥ 23.32 ॥
मुसलाद्यालयाश्चैवं सावित्राद्याद्यसङ्गमे।
सङ्गेऽर्यमसवित्रादिद्वादशानां द्वयोर्द्वयोः॥ 23.33 ॥
किञ्चित्सूत्रं विमुच्याथ वज्राद्यस्त्राणि कल्पयेत्।
वज्रदण्डादयोऽस्त्रैः स्वैः स्थाप्या भूतगणैः सह॥ 23.34 ॥
भान्विन्द्रसङ्गमाद्यष्टस्थानेष्विन्द्रादिलोकपाः।
सङ्गे भृशखयोर्गेहक्षतवैतथयोस्तथा॥ 23.35 ॥
गन्धर्वभृङ्गयोश्चैव द्वाः स्थसुग्रीवयोस्तथा।
श्वासशोषणयोर्नागमुख्ययोर्दित्यृकाख्ययोः॥ 23.36 ॥
जयपर्जन्ययोश्चान्ये सम्पूज्या देवतागणाः।
बाह्येऽर्कयमवारीशसोमानां तु ग्रहादयः॥ 23.37 ॥
अग्नेः पितॄणां रोगेशो(शाद्)र्बहिः स्युश्चण्डिकादयः।
खबाह्येऽप्सरसः पूष्णि पितृभद्रविनायकाः॥ 23.38 ॥
कूष्माण्डास्तु मृगे द्वार्स्थे पिशाचाः शोषणेऽहयः।
मुख्ये तु किन्नराः सर्पा व्याधयस्त्वर्गले शिवे॥ 23.39 ॥
सत्ये रङ्गं जलस्थानं पर्जन्ये कारयेद् बुधः।
चरकस्य विदारस्य पूतनस्य च रक्षसः॥ 23.40 ॥
ईशाग्निपितृरोगाणां बाह्ये कोणे स्मृता गृहाः।
तद्वाह्यतस्तु मर्यादाभित्तिरुच्छ्रितगोपुरा॥ 23.41 ॥
बलिपीठं तु कर्तव्यं शास्त्रतो गोपुराद् बहिः।
शक्रगोपुरमध्ये तु ध्वजस्थानं विधीयते॥ 23.42 ॥
तत्राश्वरथतार्क्ष्याणामालयाः परितः क्रमात्।
शङ्खगोपुरमध्यस्थः कर्तव्यः कलशाधिपः॥ 23.43 ॥
तथा पुरप्रसादान्तः स्थितः स्यान्मण्डपाधिपः।
भल्लाटसङ्गमे चैव भाण्डागारं प्रकल्पयेत्॥ 23.44 ॥
महेन्द्र तु सभास्थानं सत्ये स्याद् भोजनालयः।
पूष्णि पाको मृगे पुष्पं पुष्पदन्तेऽम्बुनिर्गमः॥ 23.45 ॥
सत्ये वा स भवेत् कूपः कर्तव्योऽदितिगोचरे।
असुरे तु बलिस्थानं गन्धो रोगे प्रकीर्तितः॥ 23.46 ॥
ईशोऽग्निः पितरो रोग इति देवास्तु कोणगाः।
अर्गले क्षेत्रपालस्य भृङ्गे वै शास्तुरालयः॥ 23.47 ॥
एष पूर्वमुखस्योक्तो विधिर्विश्वार्चने हरेः।
ध्वजादि विपरीतं स्यात् पश्चिमाभिमुखस्य तु॥ 23.48 ॥
असुरे स्यात् तदा रङ्गं सत्ये च बलिमण्डपः।
महेन्द्रे जलमार्गः स्यादयं शतपदे विधिः॥ 23.49 ॥
सङ्गमस्थास्तु चत्वार इतरे सङ्गमेश्वराः।
एतावांस्तु चतुष्षष्टौ विशेषोऽत्र प्रकीर्तितः॥ 23.50 ॥
कुमुदः करवीरश्च द्वारपालौ चतुर्भुजौ।
पुरतः सङ्गमेऽर्यम्णश्चतुर्थे गरुडालयः॥ 23.51 ॥
सुभद्रस्य सुबाहोश्च विजयस्य बलस्य च।
कुमुदस्य मुनेश्चैव विष्वक्सेनस्य चालयाः॥ 23.52 ॥
आग्नेयादिषु कर्तव्या गणेशानां प्रकीर्तिताः।
सर्वे चतुर्भुजाः कार्या गदाचक्रासिधारिणः॥ 23.53 ॥
सुवर्णशङ्खनीलाभ्रकृष्णपिञ्जरगौरकाः।
श्यामश्च तेऽर्यमादिस्था लोकपालाश्च कीर्तिताः॥ 23.54 ॥
प्राकारस्थास्तु कर्तव्याः क्षेत्रपर्यन्तदेवताः।
भानोस्तु पुरतश्चक्रं ततो गोपुरपीठके॥ 23.55 ॥
ततश्चतुर्षु कोणेषु रक्षसां स्थानमुच्यते।
एकाशीतौ च परितः पदं त्रित्रिकसंख्यया॥ 23.56 ॥
गणेश्वरा दिवगीशाश्च कर्तव्याः स्वपदस्थिताः।
शेषं कुर्याद् यथोद्दिष्टं विष्णोरावरणक्रमम्॥ 23.57 ॥
बहिः प्राकारकोणस्थाः कर्तव्या रक्षसां गृहाः।
गोपुरादि च कर्तव्यं बलिपीठान्वितं तथा॥ 23.58 ॥
एवमेव विधानेन कृत्वा विष्णोरिहालयम्।
सर्वकामानवाप्नोति गच्छेद् विष्णुपदं पुनः॥ 23.59 ॥
शङ्खचक्रगदाखड्गमुसलं हलमेव च।
चापोऽङ्कुशं स्रगेतेषामालयाश्चात्र कीर्तिताः॥ 23.60 ॥
पयोहेमखनीलासृक्पद्माभ्राग्नितडित्प्रभाः।
मूर्ध्नि स्वाङ्कसमायुक्ताः कर्तव्या हरिहेतयः॥ 23.61 ॥
पूर्वास्त्वप्रतिचाल्याः स्युरितराश्चास्थिराः शुभाः।
अन्योन्याभिमुखाः कार्यास्तथान्ये दक्षिणोत्तराः॥ 23.62 ॥
स्थानेश्वरस्य देवस्य यत् पूर्वकृतमास्पदम्।
तस्य प्रतिमुखे कार्यं नान्यास्पदमशत्रुभिः॥ 23.63 ॥
अज्ञानादिह यः कुर्यान्नश्येत् स्थानं श्रिया सह।
अन्योन्याभिमुखे चोभे न कार्ये देवतागृहे॥ 23.64 ॥
अन्योन्यपृष्ठसंस्थे च राजराष्ट्रादिनाशने।
नानुपृष्ठं तथा कुर्यात् कृते चान्यो निषिच्यते॥ 23.65 ॥
व्यत्यस्तमेकसूत्रस्थं न कुर्यादेव सर्वथा।
यतोमुखः प्रधानः स्याद् देवाश्चान्ये ततोमुखाः॥ 23.66 ॥
कर्तव्याः परिवारास्तु प्रधानाभिमुखाः सदा।
एकसूत्रं तथाक्रम्य विपरीतं न कारयेत्॥ 23.67 ॥
अन्योन्यं दक्षिणाक्षिभ्यां प्रशस्तं दर्शनं द्वयोः।
अप्रशस्तं च विज्ञेयं तथा वामाक्षिदर्शनम्॥ 23.68 ॥
परिवारविधौ चापि सूत्रमाक्रम्य नाचरेत्।
अङ्गुलं गोलकं वाऽपि परिहृत्यैव कारयेत्॥ 23.69 ॥
आसनं ग्राममध्ये तु पूर्वतोमुखमिष्यते।
ग्रामस्याभिमुखं त्वेवं स्थानं पूर्वे च पश्चिमे॥ 23.70 ॥
शयनं दक्षिणस्यां तु कर्तव्यं पश्चिमामुखम्।
उत्तरस्यां तु शयनं पूर्वतोमुखमेव च॥ 23.71 ॥
क्षेत्रभागवशादेव कर्तव्यं त्वन्यथामुखम्।
देवाग्रे दक्षिणेनाथ सर्वतो वा जलाशयाः॥ 23.72 ॥
न रुद्राभिमुखं कुर्याद् ग्रामं नगरमेव वा।
नोच्चस्थानगतं चैव दुर्गादिस्थानमिष्यते॥ 23.73 ॥
यत्र नीचे स्थितो विष्णुरुच्चैरन्याश्च देवताः।
विनश्येदचिरादेव तत् स्थानं राष्ट्रमेव वा॥ 23.74 ॥
अरण्ये पर्वते तीर्थे नदीतीरे च सङ्गमे।
क्षेत्रे च श्रद्धया कुर्याद् युक्त्या भूम्यादिसङ्ग्रहम्॥ 23.75 ॥
देवभागस्थितं देवं स्वयं तद्भागसंस्थितः।
अर्चयीत प्रयत्नेन पैशाचासुरवर्जितम्॥ 23.76 ॥
ब्रह्मस्थानगतं वाऽपि देवदेवं समर्चयेत्।
देवभागस्थितस्त्वेव द्रव्यैस्तद्भागसंस्थितैः॥ 23.77 ॥
विदिक्सूत्रं परित्यज्य दक्षिणं पार्श्वमाश्रितः।
अर्चयेत् तं प्रयत्नेन यस्तु सिद्धिमभीप्सति॥ 23.78 ॥
जपं सम्पुटविन्यस्तं देवपार्श्वे निधापयेत्।
अथवा जप्तमात्रं तु दद्याद् भगवते सदा॥ 23.79 ॥
ब्रह्मसूत्रं परिहरेत् पूजनाजपकालयोः।
अविघ्नो भवति ह्येष जपार्चनविधिः सदा॥ 23.80 ॥
एवं क्रमेण यो विष्णुमर्चयेद् भक्तिसंयुतः।
स भोगानीप्सितान् भुक्त्वा विष्णोर्याति सलोकताम्॥ 23.81 ॥
एवमिष्टवा यथान्यायं सर्वदेवगणान्वितम्।
ततः स्वशक्तियोगेन विष्णोः स्नानं समाचरेत्॥ 23.82 ॥
सर्वदेवार्चना होमः कर्तव्यश्च स्वनामभिः।
सर्वेषां समिदाज्यान्नैर्हविषाऽऽज्येन वा पृथक्॥ 23.83 ॥
Chapter - 24
अथ वक्ष्यामि संक्षेपाज्जीर्णोद्धारविधिं परम्।
स्थापनात् सर्वथा कार्यो यस्मिन् दशगुणो विधिः॥ 24.1 ॥
सर्वात्मनो हरेर्बिम्बे भग्ने जीर्णे चले स्थिते।
ग्रामराष्ट्रादिनाशः स्यात् तस्मात् कार्या तदुद्धृतिः॥ 24.2 ॥
देहं देही यथा जीर्णं त्यक्त्वा देहान्तरं व्रजेत्।
त्यक्त्वा जीर्णं तथा बिम्बं देवोऽपि भजते नवम्॥ 24.3 ॥
अर्चां त्यजति देवेशो जीर्णं जीर्णामिव स्रजम्।
मा विक्षन् यातुधाना इत्युद्धरेदविलम्बितम्॥ 24.4 ॥
विप्रान् सद्यः समाहूय तन्त्रज्ञान् वेदपारगान्।
शतं सहस्रमयुतमधिकं वा यथाबलम्॥ 24.5 ॥
तानर्चितान् यथाशक्ति भक्त्या कृत्वा प्रदक्षिणम्।
नमोब्रह्मण्यमन्त्रेण प्रणिपत्य समाहितः॥ 24.6 ॥
आशिषो वाचयेद् बह्वीराचार्यस्तु समूर्तिपः।
जितं त इति नत्वा तान् पुनरुत्थाय वाग्यतः॥ 24.7 ॥
देवं च मनसा ध्यात्वा बद्धाञ्जलिरिदं वदेत्।
पूजाबिम्बमिदं विष्णोः स्थापितं पूर्वसूरिभिः॥ 24.8 ॥
अनेन दूषणेनाद्य दूषितं चे वर्तते।
दुष्टबिम्बस्य चोद्धारः कर्त्तव्य इति शासनम्॥ 24.9 ॥
आगमस्य वयं कर्तु व्यवसायमुपास्महे।
तत्रेदं यदि कर्तव्यमागमार्थतया भवेत्॥ 24.10 ॥
भवन्तो नोऽनुजानन्तु भवेमाज्ञाकरा वयम्।
क्रियतामिति निश्शङ्कमनुज्ञातो द्विजोत्तमैः॥ 24.11 ॥
निवेदयेत् पुनश्चेदं तेभ्यो लोकहितेप्सया।
यथैव देवपूजायां विनियुक्तमनिन्दितम्॥ 24.12 ॥
द्रव्यं पुष्पादिकं पश्चान्निर्माल्यमिति निन्द्यते।
एवं बिम्बमदुष्टं यत् पूजायां विनियुज्यते॥ 24.13 ॥
तदेव दूषितं पश्चान्निर्माल्यमिति निन्द्यते।
तस्माद् दुष्टमिदं बिम्बं भवद्भिर्मुक्तसंशयैः॥ 24.14 ॥
निर्माल्यबुद्ध्या त्यक्तव्यमिति शास्त्रस्य शासनम्।
तत आघोषयेयुस्ते ब्राह्मणा मुक्तसंशयाः॥ 24.15 ॥
शान्तये यजमानस्य गुरोर्ऋत्विग्जनस्य च।
राज्ञो जनपदस्यास्य ग्रामस्य नगरस्य च॥ 24.16 ॥
ततो निष्क्राम्य देवेशमात्मसात्कृत्य वा गुरुः।
आवाह्य कलशे वाऽथ बिम्बोद्धारविधिं चरेत्॥ 24.17 ॥
प्रासादस्याग्रतः कुर्याच्छान्तिहोमं यथाविधि।
दूर्वास्त्रिमधुराक्ता वा समिधः क्षीरिणां तु वा॥ 24.18 ॥
सावित्र्या तत्र होतव्याः साज्याश्चष्टसहस्रशः।
बाहृत्युपनिषद्भिश्च शान्तिं पश्चात् तु वाचयेत्॥ 24.19 ॥
शान्तिरस्तु शिवं चास्तु पुष्टिरस्त्वस्तु मङ्गलम्।
स्वस्ति चास्तु समृद्ध्यस्तु सर्वेषां सन्तु सम्पदः॥ 24.20 ॥
गोब्राह्मणेभ्यः क्षत्रेभ्यो विट्छूद्रेभ्यस्तथैव च।
लोकेभ्यः सर्वभूतेभ्यो राज्ञे जनपदाय च॥ 24.21 ॥
राष्ट्रायास्मै विशेषेण ग्रामाय नगराय च।
अस्मै च यजमानाय सभृत्याय सबन्धवे॥ 24.22 ॥
बिम्बोद्धारविधेरस्तु साकल्यमिति घोयेत्।
आचार्यं यजमानोऽत्र प्रणिपत्य प्रसाद्य च॥ 24.23 ॥
हेमरत्नादिदानेन महता परितोषयेत्।
आत्मीयं च धनं सर्वमात्मानं च निवेदयेत्॥ 24.24 ॥
हिरण्यं गां महीमश्वान् रत्नं वासश्च कुञ्जरम्।
भूषाणानि स्त्रियो दासानासनं शयनं तथा॥ 24.25 ॥
यच्चान्यद् दयितं शक्यं तत्तद् दद्यादिति स्थितिः।
मूर्तिपेभ्यश्च दातव्यं तत्पादमधिकं तु वा॥ 24.26 ॥
देहन्यासं ततः कृत्वा प्रलयोदयसंयुतम्।
आचार्यः सगणो बिम्बमलङ्कुर्यात् प्रयत्नतः॥ 24.27 ॥
ततस्ते कृतपुण्याहा बद्धोष्णीषाः समाहिताः।
वाग्यताः कृतरक्षाश्च तिष्ठेयुर्बद्धकौतुकाः॥ 24.28 ॥
आचार्यो यजमानस्य हेमजं कङ्कणं करे।
चक्रमन्त्रेण बध्नीयादलाभे पीतमालिकाम्॥ 24.29 ॥
जप्त्वा सिद्धार्थकान् दद्यादाचार्यः स्थपतेरपि।
ततस्तूर्यरवैर्दिक्षु वेदनादैश्च घोषयेत्॥ 24.30 ॥
ऋषभं कुञ्जरं वाऽग्रे स्थापयेत् समलङ्कृतम्।
बालरज्ज्वादिभिर्बद्ध्वा यन्त्रयोगं च कल्पयेत्॥ 24.31 ॥
उच्छ्वञ्चस्व तथा नासत्सूक्तमा ते पितस्तथा।
अनन्तसूक्तं स्वादिष्ठं तथान्यानि शुभानि च॥ 24.32 ॥
यौधाजयं रौरवं च बृहत्साम रथन्तरम्।
कयाशुभा ज्योष्ठसाम वैराजं यच्च शोभनम्॥ 24.33 ॥
यदुष्पवित्रं सकलं वरिष्ठं विष्णुदैवतम्।
पौरुषं पावमानं च पञ्चोपनिषदस्तथा॥ 24.34 ॥
चक्रशार्ङ्गासिविद्याश्च रूपविद्याश्च मूर्तयः।
गुणत्रयमहंकारो भूतादीन्यपराणि च॥ 24.35 ॥
आवर्तयद्भिर्ऋत्विग्भिराचार्यः सहितः स्वयम्।
विसृज्य पीठिकाबन्धं सौवर्णैर्लाङ्गलैः शुभैः॥ 24.36 ॥
अष्टाक्षरेण निर्माल्यं विष्वक्सेनोऽहमुद्धरे।
इति कृत्वा स्थिरां बुद्धिं भूर्भुवःसुवरोमिति॥ 24.37 ॥
गर्तादुत्थापयेद् बिम्बं यन्त्रयोगेन साधकः।
वेदस्तोत्रजपैस्तूर्यैर्जयशब्दैश्च पुष्कलैः॥ 24.38 ॥
नृत्तगीताट्टहासैश्च ततो बिम्बं नयेद् बहिः।
अहतैर्वसनैः श्लक्ष्णैः समन्तात् परिवेष्ट्य तु॥ 24.39 ॥
कृत्वोपचारं गायत्त्र्या प्रणवाद्यन्तरुद्धया।
दक्षिणे स्थण्डिलं कृत्वा सैकतं चतुरश्रकम्॥ 24.40 ॥
तिलान् विकीर्य दर्भांश्च प्रतिमां तत्र शाययेत्।
क्षालयेत् तत्र तां तोयैर्गन्धपुष्पैश्च पूजयेत्॥ 24.41 ॥
त्रिरप्रदक्षिणं कृत्वा सतिलैस्तण्डुलैः किरेत्।
ततो।़न्यैर्वसनैः श्लक्ष्णैराच्छाद्यारोप्य वाहनम्॥ 24.42 ॥
छत्रध्वजपताकाभिश्चामरैश्चोपशोभितम्।
महाजनरवैर्युक्तं नदीं सागरगां नयेत्॥ 24.43 ॥
तत्रागाधे ततो ध्यात्वा विष्वक्सेनं चतुर्भुजम्।
तन्मन्त्रेण नमोन्तेन बिम्बमप्सु विनिक्षिपेत्॥ 24.44 ॥
पीठं ब्रह्मशिलां चापि निर्माल्यमिति चिन्तयेत्।
तत्र स्रात्वा ततो गत्वा प्रासादं सर्व एव ते॥ 24.45 ॥
शोधयित्वा बहून् विप्रान् भोजयित्वा यथाबलम्।
गा निवास्य चतूरात्रं त्रिरात्रं वाऽपि यत्नतः॥ 24.46 ॥
प्रभूतयवसं तोयं ताभ्यो दद्याच्च रात्रिषु।
त्रिदिनं कारयित्वैवमन्नाद्यं स्वस्तिवाचनम्॥ 24.47 ॥
राक्षोघ्नं वास्तुहोमं म वेदस्तोत्रादिकीर्तनम्।
आदौ कृत्वाऽत्र पुण्याहं ततो मन्त्रैः पृथग्विधैः॥ 24.48 ॥
प्रोक्षयेद् बहिरन्तश्च तोयैर्गव्यैस्तथाक्षतैः।
होमयेत् पञ्चदुर्गाभिर्मूलोपनिषदादिभिः॥ 24.49 ॥
मन्त्रैरपि च राक्षोघ्नैर्वदैस्तूर्यैश्च नादयेत्।
जलेऽधिवासितं बिम्बमाहृत्य सह मूर्तिपैः॥ 24.50 ॥
कृत्वा शुद्धिं यथान्यायं मण्डपे शाययेद् गुरुः।
मूर्तिपा जुहुयुर्दिक्षु जपेयुश्चैव मन्त्रिणः॥ 24.51 ॥
वैदिकांस्तान्त्रिकान् मन्त्रान् नामानि च सहस्रशः।
ओं कारमग्रतः कृत्वा पठेद् वैष्णवमन्त्रकान्॥ 24.52 ॥
प्रणवेन च संस्पृश्य हृदि सञ्चिन्त्य माधवम्।
हृदयं देवदेवस्य विष्णोर्विक्रमणेन च॥ 24.53 ॥
इति मन्त्रेण संस्पृश्य मुखं चक्षुश्च नासिकाम्।
हिरण्यगर्भमन्त्रेण सर्वाङ्गं संस्पृशेत् पुनः॥ 24.54 ॥
पौरुषेण च सूक्तेन तमादायाधिवासितम्।
रत्नन्यासादिसंयुक्तं पूर्ववत् त्रिः प्रदक्षिणम्॥ 24.55 ॥
गत्वा वेदजयस्तोत्रनृत्तगीतपुरस्सरम्।
ध्रुवा द्यौरिति संस्थाप्य वषट् त इति कीर्तयेत्॥ 24.56 ॥
प्रणवेन तु संयुक्तं परमेष्ठ्यादिविद्यया।
एकैकं विन्यसेद् ध्यात्वा पञ्चोपनिषदात्मकम्॥ 24.57 ॥
क्रमान्यमूर्धास्यहृन्नाभिपादेष्वोमिति सर्वतः।
नारायणेन सूक्तेन पौरुषेण च सर्वतः॥ 24.58 ॥
विश्वतश्चक्षुरित्येन सकलं भावयेत् ततः।
कलशस्थं नवे बिम्बे सङ्क्राम्यैवं समाचरेत्॥ 24.59 ॥
प्रतिष्ठाविधिना सर्वमुत्सवान्तं प्रयोजयेत्।
सावित्र्या पञ्चक्षिश्चात्र शान्तिहोमं प्रकल्पयेत्॥ 24.60 ॥
बाहुच्छेदे परित्यागः प्रतिमायाः करे तथा।
यस्मिन्नवयवे भग्ने वैरूप्यं तत्र तां त्यजेत्॥ 24.61 ॥
यद्येककरशाखा तु भग्ना द्वे वाऽत्र न त्यजेत्।
अतः परं परित्यागस्त्रिच्छेदे कैश्चिदिष्यते॥ 24.62 ॥
पादशाखापरिच्छेदेऽप्येवमन्यत्र कल्पयेत्।
स्फुटिते च परित्यागो भिन्ने च परिकीर्तितः॥ 24.63 ॥
सौवर्णी साङ्गुलिः कार्या या भग्ना द्वे च ते तथा।
लोहादौ चेच्छिलाबिम्बे ताम्रेण रजतेन वा॥ 24.64 ॥
हेतिच्छेदे तु सर्वत्र सौवर्णं तत् प्रकल्पयेत्।
मकुटे कुण्डले चैव वस्त्रादिषु च शस्यते॥ 24.65 ॥
प्रतिमायाः परित्यागे चाराहृतिवदिष्यते।
स्थापनं पूजनं चाऽत्र न ग्राह्यं पीठमक्षतम्॥ 24.66 ॥
अनुयागे नवान्येव द्रव्याणि शुभदानि तु।
पिण्डिकापच्छिलादीनि द्वयोः पीठं तु गर्ह्यते॥ 24.67 ॥
गहने निखनेच्छैलं दारवं वह्निना दहेत्।
दद्याद् रत्नं च लोहं च कुर्याद् विद्राव्य वा पुनः॥ 24.68 ॥
पार्थिवं निक्षिपेदप्सु सर्वं पार्थिवमेव वा।
भग्ने बिम्बेऽपि देवस्य प्रासादो (प्रसादो) यत्र लक्ष्यते॥ 24.69 ॥
तत्रापि कारयेत् बिम्बं सौवर्णमपरं पुनः।
लोहजं रत्नजं वाऽग्रे स्थापितं विधिनाऽर्चयेत्॥ 24.70 ॥
तदप्यमन्त्रकं पूज्यमिति चाहुर्मनीषिणः।
पौराणिकेषु बिम्बेषु देवादिस्थापितेष्वपि॥ 24.71 ॥
त्यायोऽयमेव विज्ञेयः स्वयं वा यत्र जायते।
संशये बहुभिः सार्धं वैष्णवैर्वेदपारगैः॥ 24.72 ॥
देवस्य महतीं पूजां कृत्वा भक्तिपुरस्सरम्।
देवतूर्यादिनिर्घोषैर्द्वादश्यां श्रवणेऽपि वा॥ 24.73 ॥
उपोष्य दर्भशय्यायां स्वपेयुर्देवसन्निधौ।
आचक्ष्व देव! देवेश! प्रपन्नोऽस्मि तवान्तिकम्॥ 24.74 ॥
स्वप्ने सर्वाणि कार्याणि हृदयस्थानि यानि नः।
इति विज्ञाप्य सुप्तानां स्वप्नोऽत्रानुगुणो भवेत्॥ 24.75 ॥
द्विस्त्रिर्वाऽपि तथा कृत्वा कृत्यं निश्चिनुयाद् बुधः।
प्रासादं तु नवं कुर्याद् वृत्तं वा चतुरश्रकम्॥ 24.76 ॥
पूर्ववच्चतुरश्रे वा वृत्तं वृत्ते तु नान्यथा।
भूमिहानिर्न कर्तव्या नाङ्गहानिश्च तत्र वै॥ 24.77 ॥
देवतारहितं स्थानमाश्रयन्त्येव नारकाः।
तस्मात् तत्परिहारार्थं रक्षां कुर्याद् विशेषतः॥ 24.78 ॥
गोवासं पुरधूपं च दीपमग्निं च संस्कृतम्।
पञ्चगव्यं द्विजान् दर्भान् सर्षपांश्च न हापयेत्॥ 24.79 ॥
राक्षोघ्नं च जपेत् सूक्तं नारसिंहं सुदर्शनम्।
स्तोत्राणि च प्रदोषेषु कुर्याच्च स्वस्तिवाचनम्॥ 24.80 ॥
स्वस्तयेऽस्तु सदा विष्णुः स्वस्तयेऽस्तु चतुर्मुखः।
स्वस्तयेऽस्तु सदा रुद्रः स्वस्तयेऽस्तु शतक्रतुः॥ 24.81 ॥
स्वस्तयेऽस्तु सदा वह्निः स्वस्तयेऽस्तु यमः सदा।
स्वस्तये निर्ऋतिः ख्यातः स्वस्तेय वरुणः सदा॥ 24.82 ॥
स्वस्तयेऽस्तु सदा वायुः स्वस्तयेऽस्तु धनेश्वरः।
स्वस्तयेऽस्तु सदेशानः स्वस्तयेऽस्तु मरुद्गणः॥ 24.83 ॥
स्वस्तये सन्तु वसवो रुद्राश्च स्वस्तये सदा।
आदित्याः स्वस्तये सन्तु मुनयः स्वस्तये सदा॥ 24.84 ॥
गन्धर्वाः स्वस्तये सन्तु स्वस्तये सन्तु विन्नराः।
स्वस्तये सन्तु नागाश्च स्वस्तये सन्तु पन्नगाः॥ 24.85 ॥
स्वस्तये सन्तु विद्येशाः स्वस्तयेऽप्सरसः सदा।
नद्यश्च स्वस्तये सन्तु सरितः स्वस्तये सदा॥ 24.86 ॥
सागराः स्वस्तये सन्तु शैलाश्च स्वस्तये सदा।
स्वस्तये भ्रातरः सन्तु पितरः स्वस्तये सदा॥ 24.87 ॥
देवपारिषदाः सर्वे स्वस्तये सन्तु नः सदा।
स्वस्ति भागवतानां तु स्वस्ति चास्त्वग्रजन्मनाम्॥ 24.88 ॥
स्वस्त्यस्तु पूजकानां तु स्वस्ति चास्तु गवामपि।
स्वस्त्यस्तु स्थावराणां तु जङ्गमानां तथैव च॥ 24.89 ॥
स्वस्ति चास्तु च मन्त्राणां स्वस्ति वै कर्मणामपि।
बलिदानं हि देवस्य विष्णोरस्मै नमो नमः॥ 24.90 ॥
यद्यद्वा क्रियते कर्म तत्तदुक्त्वा विशेषतः।
स्वस्तिवाचनमाचार्यः कुर्यादेवं शुभं भवेत्॥ 24.91 ॥
बलिं चाष्टविधेभ्योऽथ भूतेभ्यो दिक्षु दापयेत्।
स्थापयित्वा नवं बिम्बं स्नपनं चोत्सवं तथा॥ 24.92 ॥
Chapter - 25
अथ वक्ष्यामि संक्षेपादुत्पातेषु च निष्कृतिम्।
संशोधनक्रमं चैव स्थानप्रतिमयोः क्रमात्॥ 25.1 ॥
उत्पतन्ति पुरस्तादित्युत्पाता भयशंसिनः।
दिव्यान्तरिक्षभौमास्ते ज्ञेयास्तन्त्रेषु कीर्तिताः॥ 25.2 ॥
प्रासादगर्भपीठार्चाः शरीरत्वेन शाङ्गिणः।
कल्पिताः सर्वदा रक्ष्या विप्रैरुत्पातशङ्कया॥ 25.3 ॥
उत्पातेषूपजातेषु न कार्या पूजना हरेः।
अस्पृश्याः प्रतिमापीठप्रासादाः साङ्गदेवताः॥ 25.4 ॥
अकृतायां तु निष्कृत्यां स्पष्टाः कुप्यन्ति देवताः।
पूजिता वा ततो यत्नान्निष्कृतिं कारयेद् द्रुतम्॥ 25.5 ॥
वितानाग्निनिभं विष्णोर्विम्बमुत्पातदूषितम्।
अकृतायां तु निष्कृत्यामपूज्यं सर्वथा बुधैः॥ 25.6 ॥
विलम्बने तु निष्कृत्या विनश्येद् देवसन्निधिः।
तत्स्थाः प्रेता भयं कुर्युर्व्याधिशोकादिभिर्नृणाम्॥ 25.7 ॥
पतनं चलनं स्वेदो हसनं चैव रोदनम्।
उत्पाटनं हृतिश्चोरैर्दाहः प्रध्वंसनं बलात्॥ 25.8 ॥
पीठप्रासादकेत्वस्त्रतोरणानां च पार्षदाम्।
भङ्गश्छत्राकवल्मीककृमिकीटादिसम्भवः॥ 25.9 ॥
श्वचोरव्रात्यपाषण्डिदेवलादिप्रवेशनम्।
अर्चनं चाप्यमन्त्रज्ञैरन्थभक्तैरदीक्षितैः॥ 25.10 ॥
क्षुद्रान्यमन्त्रसंयोगः कालजीर्तिर्दिगाश्रयः।
उषितैर्नीरसैर्दुष्टैः प्रतिषिद्धैश्च पूजनम्॥ 25.11 ॥
अनाराधश्च निर्दोषः कालेपेक्षा प्रमादतः।
कलहो मरणं जन्म रक्तश्लेष्माश्रुपातनम्॥ 25.12 ॥
एते चान्ये च विज्ञेया उत्पाता बहुदोषदाः।
तस्मात् सर्वप्रयत्नेन कर्तव्यमविलम्बितम्॥ 25.13 ॥
प्रायश्चित्तं यथोत्साहमन्यथा सर्वनाशनम्।
महद् बहुषु चोग्रेषु निमित्तेषु विशेषतः॥ 25.14 ॥
निमित्तेष्वल्पमल्पेषु सद्यो वा यत्र निष्कृतिः।
बिम्बपीठगृहालिन्दप्राङ्कणेषु यथातथम्॥ 25.15 ॥
खननादिविधिं कुर्याद् यथादोषबलाबलम्।
खननं हरणं दाहः पूरणं गोनिवासनम्॥ 25.16 ॥
विप्रोच्छिष्टं च गव्यं च सप्तैताः स्थानशुद्धयः।
खादिरस्फ्येन चास्त्रेण खात्वा हस्तादिमानतः॥ 25.17 ॥
सदोषानखिलान् पात्रैर्हृत्वा पांसून् बहिः क्षिपेत्।
कुशदर्भादिभिर्दग्ध्वा तद्भस्मादि पुनर्हरेत्॥ 25.18 ॥
सुमृद्भिः खातमापूर्य हस्तिपादैस्तु याज्ञिकैः।
गोमूत्रसिक्तमाकोट्य विप्रपादोदकैस्तथा॥ 25.19 ॥
गां निवास्याशयेद् विप्रान् पायसं वैष्णवान् बहून्।
तदुच्छिष्टे हृते सिञ्चेद् गव्यैश्च विकिरैः किरेत्॥ 25.20 ॥
स्थानशुद्धिरियं प्रोक्ता बिम्बशोधनमुच्यते।
क्षालनप्लावनस्नामार्जनानि यथाक्रमम्॥ 25.21 ॥
धारावगाहनं पश्चादभिषैकोऽत्र सप्तमः।
क्षालनं दर्भमृत्त्वग्भिस्तूष्णीं तोयैश्च शोधनम्॥ 25.22 ॥
गन्धपुष्पाक्षतोपैतैरमन्त्रैः प्लावनं जलैः।
सकूर्चैर्द्रव्ययुक्तैस्तैर्मन्त्रवत् स्नानमम्बुभिः॥ 25.23 ॥
पात्रे यथोक्तमापूर्य तोयं मन्त्रैः प्रपूज्य च।
कूर्चाग्रैः प्रोक्षयेद् बिम्बं मन्त्रैस्तदिह मार्जनम्॥ 25.24 ॥
संस्थाप्य धान्यकूर्चस्थमैशान्यां लोहसम्भवम्।
वारुणं पात्रमापूर्य सकूर्चं सलिलैः शुभैः॥ 25.25 ॥
मत्स्यौ कूर्मौ च सौवर्णौ राजतौ चात्र निक्षिपेत्।
समृणालां सपुष्पां च पद्मिनीं क्षालितां तथा॥ 25.26 ॥
वरुणं तत्र सम्पूज्य तीर्थं चावाह्य वैष्णवम्।
पालाशादित्रिपादस्थं दारापात्रं तु लोहजम्॥ 25.27 ॥
सहेमच्छिद्रमापूर्य सकूर्चं प्रतिमोपरि।
धाराऽच्छिद्रा च कर्तव्या याममात्रं दिने दिने॥ 25.28 ॥
समन्त्रं वारुणात् पात्रात् तोयं हृत्वाऽत्र पूरयेत्।
पञ्चोपनिषदो जप्या वाग्यतैर्दर्भपाणिभिः॥ 25.29 ॥
स्पृशद्भिः पात्रमव्यग्रैर्ध्यायद्भिर्विष्णुमव्ययम्।
पौरुषं पावमानं च सूक्तमन्यच्च वैष्णवम्॥ 25.30 ॥
संहिता वाऽखिलाऽन्येषां कार्योऽत्राद्यन्तयोर्जपः।
धारान्ते पूजयेद् देवमुद्वास्य वरुणं पुनः॥ 25.31 ॥
न चाल्यं वारुणं पात्रं त्रिरात्रं यत्र जप्यते।
हृत्वाऽम्भः पुनरापूर्य पूर्ववत् सर्वमाचरेत्॥ 25.32 ॥
गन्धतौयैः पयोभिर्वा धाराऽऽज्येनापि चोत्तमा।
कार्याऽत्रापि च कर्तव्यं तथा वरुमपूजनम्॥ 25.33 ॥
सञ्च्छाद्यार्चां सुवासोभिर्दर्भैरथ समन्ततः।
संस्थाप्य याज्ञिकैः काष्ठैः कृतं पात्रं प्रमामतः॥ 25.34 ॥
गव्यैर्व्यस्तैः समस्तैश्च गन्धोदान्तैर्यथाक्रमम्।
दिने दिने यथान्यायं कर्तव्यमवगाहनम्॥ 25.35 ॥
पञ्च कुम्भांस्तु संस्थाप्य सकूर्चान् सूत्रवेष्टितान्।
गन्धपुष्पाक्षताम्भोभिः पूर्णानुपनिषत्क्रमात्॥ 25.36 ॥
सपल्लवमुखान् न्यस्य चक्रिकाश्च सतण्डुलाः।
सम्पूज्य वाससाऽवेष्ट्य तैरेव त्वभिमन्त्रयेत्॥ 25.37 ॥
पञ्चबिः स्नापयेदेवमभिषेकविधिः स्मृतः।
षोडश द्वादशाष्टौ वा दीक्षिता वैष्णवा द्विजाः॥ 25.38 ॥
वैदेस्त्रिभिश्चतुर्भिर्वा नादयेयुर्दिवानिशम्।
नववस्त्रपरीधानाः स्वाचान्ता गुरुमूर्तिपाः॥ 25.39 ॥
पुण्याहं वाचयित्वाऽत्र यथाविधि समाहिताः।
प्रोक्षयेयुश्च राक्षोघ्नैर्मन्त्रैः शान्तिकपौष्टिकैः॥ 25.40 ॥
वैदिकैस्तान्त्रिकैश्चैव सर्वे दर्भाग्रपाणयः।
तच्छिष्टाद्भिर्गृहं प्रोक्ष्य बहिरन्तश्च सर्वतः॥ 25.41 ॥
विकिरेत् पञ्चभिर्मन्त्रैः सगव्यैः सर्षपाक्षतैः।
मण्डपे शोधिते वह्निं संस्कृत्य विधिवत् ततः॥ 25.42 ॥
जुहुयुर्मूर्तिपाः सर्वे कुण्डेष्वाचार्यसंयुताः।
कृत्वा प्रधानहोमान्तं सर्वत्राग्निमुखं क्रमात्॥ 25.43 ॥
ध्यायन्तो विष्णुमव्यग्रा वह्निस्थं साङ्गमव्यम्।
पञ्चभिस्त्रिसहस्राज्यं जुहुयुः सर्ववह्निषु॥ 25.44 ॥
ततः समिद्घृतव्रीहितिललाजसहस्रकम्।
क्रमादष्टाक्षरेणैव जुहुयुः सर्व एव ते॥ 25.45 ॥
पालाशीनां घृताक्तानां समिधां द्वादशोत्तरम्।
शतं व्याहृतिभिः पश्चात् सर्वे ते जुहुयुस्ततः॥ 25.46 ॥
क्षीरेणाष्टशतं दध्ना मधुनाऽऽज्येन च क्रमात्।
सावित्र्यैव तु ते सर्वे जुहुयुः सर्वशान्तये॥ 25.47 ॥
होमावसान एतेभ्यो यजमानः स्वशक्तितः।
हिरण्यं दक्षिणां दद्यात् ततस्तैः स्वस्ति वाचयेत्॥ 25.48 ॥
स्नपनं च यथोत्साहं कुर्यादधमवर्जितम्।
पादौ प्रक्षाल्य सम्पूज्य दद्यादाचार्यदक्षिणाम्॥ 25.49 ॥
शक्त्या हिरण्यं क्षेत्रं च गां च विष्णुं विचिन्तयन्।
शतमष्टोत्तरं विप्रान् वैष्णवान् सम्यगर्चितान्॥ 25.50 ॥
प्रणम्योनातिरिक्तादिशान्त्यर्थं वाचयेच्छिवम्।
चत्वारो मूर्तिपा हीने मध्येऽष्टौ द्वादशोत्तमे॥ 25.51 ॥
सवस्त्राभरणा योज्या यथादोषबलाबलम्।
होमाध्ययनकर्त्तॄंश्च सदस्यान् वैष्णवान् द्विजान्॥ 25.52 ॥
स्वशक्त्या पूजयेत् सर्वानन्नपानादिभिः शुभैः।
अद्भुतेष्वीशकोणेऽग्निं संस्कृत्य विधिवद् गुरुः॥ 25.53 ॥
कृत्वा प्रधानहोमान्तं कुर्यादाज्याहुतीः पुनः।
पञ्चभिर्द्वादशाष्टार्णगायत्रीजितपौरुषैः॥ 25.54 ॥
चतुर्विंशतिशो हुत्वा शतशो वा सहस्रशः।
अपामार्गसमिच्छिन्ना सहैन्द्री भद्रिकाञ्जलिः॥ 25.55 ॥
दूर्वा सिद्धार्थकव्रीहियवास्तिलहविर्घृतम्।
इति हुत्वा ससम्पातं सगव्यं पञ्चमन्त्रितम्॥ 25.56 ॥
तोयशेषं हृदा सिञ्चेद् यत्र मध्वादिसम्भवः।
स्नपनं च ततः कुर्यादष्टोत्तरशतादिकम्॥ 25.57 ॥
स्वस्पृष्टां शोधयित्वाऽर्चां बहुशे गव्यशोधिताम्।
शुद्धाद्भिस्त्वग्रसैर्गन्धैस्तीर्थतोयैश्च शोधयेत्॥ 25.58 ॥
पञ्चरात्रं त्रिरात्रं वा गवां वासं च कल्पयेत्।
ब्राह्मणान् भोजयेत् पश्चात् पुण्याहं चात्र वाचयेत्॥ 25.59 ॥
वेदैश्च नादयेदिष्ट्वा निवेद्यान्नं बलिं हरेत्।
नादयेत् तूर्यघौषैश्च ततो होमादि कारयेत्॥ 25.60 ॥
अश्वत्थैः खदिरैः प्लक्षैः पलाशैः पाटलैर्वटैः।
नारायणेन सूक्तेन श्रीसूक्तेन तथैव च॥ 25.61 ॥
अतो देवेति सूक्तेन नासदंहोमुचा तथा।
संसमिद्भिद्रपादेन तथाऽरायीत्यनेन च॥ 25.62 ॥
गायत्र्या पञ्चभिश्चात्र होतव्यं विधिनैव तु।
समाप्ते स्नपने दद्यात् पूर्ववच्चैव दक्षिणाम्॥ 25.63 ॥
अनिमित्तेन निष्क्रान्तं पुनराशु प्रवेश्य तु।
शान्तिहोमं च कुर्वीत स्नपनं स्वस्तिवाचनम्॥ 25.64 ॥
उत्सवं तीर्थयात्रां च ब्राह्मणानां च भोजनम्।
प्रसूते श्वसृगालाद्यैः शून्यं कृत्वा त्रिरात्रकम्॥ 25.65 ॥
पूर्वोक्तं कारयेच्छान्तिं स्थानशुद्धिं च भूयसीम्।
दाहे पयस्विनीं धेनुं शान्तिनाम्ना समाह्वयेत्॥ 25.66 ॥
दूर्वादिकं निवेद्यास्यै पद्मपत्रे पयो दुहेत्।
आतप्य दधि निर्मथ्य तत् संस्कृत्याज्यमाहरेत्॥ 25.67 ॥
अपरेद्युस्तथा दुग्ध्वा दधि चैवं प्रकल्पयेत्।
तृतीयेऽह्नि शकृन्मूत्रं क्षीरं चैव तथाहरेत्॥ 25.68 ॥
पद्मपत्रेषु सम्पूज्य क्रमान्मूत्रादिपञ्कम्।
पञ्चपत्रेषु संयोज्य मथित्वा प्रणवेन च॥ 25.69 ॥
सम्पूज्याष्टसहस्रं तु पञ्चोपनिषदो जपेत्।
तेन सम्प्रोक्ष्य सर्वत्र स्नापयेत् प्रतिमां ततः॥ 25.70 ॥
हृत्वा भस्मादिकं तोयैः प्लावयित्वा समन्ततः।
गोनिवासादि कर्तव्यं प्रायश्चित्तं यथाक्रमम्॥ 25.71 ॥
चलं वा निश्चलं कुर्यादावाह्य कलशे बुधः।
अधिवास्य यथान्यायं कुर्याद्वाऽथ नवीक्रियाम्॥ 25.72 ॥
भग्नमुद्धृत्य वा बिम्बं तथान्यत् स्थापयेद् बुधः।
सङ्क्रान्तमुद्धृते बिम्बे नवे संयोजयेत् पूनः॥ 25.73 ॥
उद्वास्य सुस्थितं कुर्याद् बिम्बं पच्छिलया सह।
दुर्जनस्पर्शनादौ तु शुद्धिं कृत्वाऽस्य भूयसीम्॥ 25.74 ॥
होमादि सकलं कुर्यादुत्सवान्तं विशेषतः।
चोराहृतिस्तु दोषाणामग्रणीः परिकीर्त्यते॥ 25.75 ॥
तत्र यत्नेन कर्तव्यं विधानमतिविस्तरम्।
चोरैरपहृतं बिम्बं यदि यत्नेन लभ्यते॥ 25.76 ॥
शोधयित्वा विधानेन स्थाप्यं तत्र तदेव तु।
अलब्धेऽपहृते भग्ने जीर्णे वाऽभिनवं पुनः॥ 25.77 ॥
योनिरूपविशेषं तु न्यूनमप्यत्र नेष्यते।
प्रासादे सति तं ध्यात्वा सकलं बिम्बसंयुतम्॥ 25.78 ॥
संहृत्यावाहयेद् विद्वान् कलशे मन्त्रपूर्वकम्।
गर्भगेहेऽस्य पीठे वा सत्यावाह्य तथैव तु॥ 25.79 ॥
पीठं गर्भगृहं वाऽपि यदा तस्य न लभ्यते।
बिम्बस्थानात् तदावाह्य यथोक्तं विधिमाचरेत्॥ 25.80 ॥
संक्रान्तस्य विनाशेऽपि कर्तव्यं मूलनाशवत्।
तदङ्गदेवतानाशे तद्वदेव प्रकीर्त्यते॥ 25.81 ॥
यतस्तु देवताः सर्वा मन्त्रात्मानः प्रकीर्तिताः।
एवमेव विसर्गः स्यान्नाशे तासामिति स्थितिः॥ 25.82 ॥
कर्तव्या पञ्चभिः शान्तिरपूजायां तु भूयसी।
शतहोमोऽष्टकेनाथ वैष्णवानां तु भोजनम्॥ 25.83 ॥
दशानां पायसेनात्र देया शक्त्या च दक्षिणा।
द्वादशान्तमहःसंख्यागुणितः स्यादयं विधिः॥ 25.84 ॥
स्नपनं चाचतुर्मासान्महास्नानमतः परम्।
वत्सरे शान्तिहोमेन युक्तं विप्रार्चनेन च॥ 25.85 ॥
अभिमन्त्र्य हविः स्कन्नं दक्षिणेन तु पाणिना।
अष्टाक्षरेण होतव्यं शतमाज्येन पञ्चभिः॥ 25.86 ॥
दुःशॉताद्यप्सु निक्षिप्य तथा हुत्वा परं पचेत्।
उषितेऽम्बुपयोमिश्रगव्यगन्धादिशोधनम्॥ 25.87 ॥
Chapter - 26
अथ वक्ष्यामि संक्षेपात् स्नपनस्य विधिं परम्।
उत्तमादिविभागेन कर्तव्यं तु विचक्षणैः॥ 26.1 ॥
स्थापितस्य चतुर्थेऽह्नि यात्रान्ते ग्रहणादिषु।
उपसर्गेऽन्त्यसंसर्गे प्रधानपुरुषक्षये॥ 26.2 ॥
दीक्षाभिषेकयागान्ते मङ्गल्ये मन्त्रसाधने।
क्षुद्रान्यमन्त्रविन्यस्ते चिरलुप्ते च पूजने॥ 26.3 ॥
असान्निध्येऽभिषेके च राज्ञां वृद्ध्यर्थमेव च।
अज्ञातदोषशान्त्यर्थं प्रत्यब्दं च यथाविधि॥ 26.4 ॥
कर्तव्यं स्नपनं भक्त्या निमित्तार्थानुसारतः।
द्वादश्यां श्रवणे पुण्ये व्यतीपातेऽयनादिषु॥ 26.5 ॥
जन्मर्क्षे यजमानस्य पौर्णमास्यां च कारयेत्।
मण्डपं पूर्ववत् कृत्वा तोरणध्वजशोभितम्॥ 26.6 ॥
मुक्तादामादिसङ्कीर्णं कुसुमोत्करमण्डितम्।
कर्तव्या वेदिका मध्ये द्वात्रिंशद्यवमुच्छ्रिता॥ 26.7 ॥
यावन्तः कलशा ग्राह्यास्तावान् वै वेदिविस्तरः।
कुण्डानि कारयेद् दिक्षु मङ्गलानि च विन्यसेत्॥ 26.8 ॥
ऐशान्यां स्थापिते पात्रे धान्यस्थे नववाससा।
नदीतीर्थादिजं तोयं दीक्षितोत्पूतमाहरेत्॥ 26.9 ॥
सम्पूज्य विष्णुगायत्र्या सपवित्रेण पाणिना।
शतमष्टोत्तरं विद्वान् सकूर्चमभिमन्त्रयेत्॥ 26.10 ॥
इमा आपः शिवाः सन्तु शुभाः शुद्धाश्च निर्मलाः।
पावनाः शीतलाश्चैव पूताः सूर्यस्य रश्मिभिः॥ 26.11 ॥
इत्युक्त्वा शोधितां वेदिमापोहिष्ठादिभिस्त्रिभिः।
प्रोक्ष्य गन्धाक्षतैर्गव्यैर्विकिरेच्च समन्ततः॥ 26.12 ॥
द्विषट्केनैन्द्रसौम्याग्राण्यथ सूत्राणि पातयेत्।
कोष्ठानि चतुरश्राणि तालमात्राणि कल्पयेत्॥ 26.13 ॥
पूरयेदङ्गुलोत्सेधा रेखाः सर्वाः सिताः समाः।
विकिरेन्मध्यतः किञ्चित् तेनैव रजसा समम्॥ 26.14 ॥
व्यत्ययात् पञ्चवर्णैर्वा कर्तव्यं पदपूरणम्।
चतस्रो वीथयः कार्याः पूर्वाग्रा इतरास्तथा॥ 26.15 ॥
शुद्धोदकान्विते पक्षे द्रव्यस्नाने न वीथयः।
मध्यमं तु पदं ब्राह्मं दैविकं तदनन्तरम्॥ 26.16 ॥
परितो मानुषं वाराः षोडशात्राष्ट दैविके।
ब्राह्मे चाष्टदलं पद्मं कल्पयेत् कर्णिकोज्ज्वलम्॥ 26.17 ॥
सर्वत्र पीठिकाः कार्याश्चतुरङ्गुलमुच्छ्रिताः।
शालिभिः कूर्चसंयुक्तैर्मध्ये सतिलतण्डुलैः॥ 26.18 ॥
गायत्र्याष्टशतं हुत्वा पूर्ववत् संस्कृतेऽनले।
ततोऽधिवासयेच्छद्धान् कलशानुक्तलक्षणान्॥ 26.19 ॥
सूत्रेण विष्टितान् सर्वानङ्गुलाङ्गुलमानतः।
तारेणाधोमुखान् न्यस्य पश्चिमे दर्भसंस्तरे॥ 26.20 ॥
अग्न्यादीशानपर्यन्तं पङ्क्तीकृत्य विचक्षणः।
दर्भानुपरि विन्यस्य दर्भमुद्रां च दर्शयेत्॥ 26.21 ॥
प्रोक्ष्य गन्धोदकैः सर्वान् निकिरेदक्षतैः शुभैः।
उत्तानीकृत्य चोद्धृत्य पञ्चभिः क्रमयोगतः॥ 26.22 ॥
ब्राह्ममानुषदैवेषु पदेषु विनिवेशयेत्।
अष्टाक्षरेण कुम्भेषु ततः कूर्चानि विन्यसेत्॥ 26.23 ॥
शान्तिकेऽधोमुखान्येव पौष्टिके तून्मुखानि च।
मूलेन तान् पुनः प्रोक्ष्य सपवित्रेण पाणिना॥ 26.24 ॥
प्रयतः प्राङ्मुखः पूर्वं ब्राह्मे स्नानोदकं न्यसेत्।
मूलेन सर्वमूर्त्यङ्गपरिवारं हरिं स्मरन्॥ 26.25 ॥
गन्धपूष्पैस्तमाराध्य वस्त्राभ्यां वेष्टयेत् पुनः।
पाद्यादीनि क्रमाद् द्रव्याण्यावाह्यावह्या दीक्षितैः॥ 26.26 ॥
पूरयेद् बहिरन्तश्च दिग्विदिक्षु समाहितः।
पाद्यमैन्द्रे यमे वाऽर्ध्यमाचामं वारुणे न्यसेत्॥ 26.27 ॥
पञ्चगव्यं तथा सौम्ये घृतमाग्नेयगोचरे।
नैर्ऋते दधि विन्यस्य वायव्ये क्षीरमेव च॥ 26.28 ॥
क्षौद्रमीशानदिग्भागे द्वादशाक्षरविद्यया।
उष्णोदकं भृशे चाथ कषायं वितथे तथा॥ 26.29 ॥
मार्जनं भृङ्गराजे तु पुष्पदन्ते फलोदकम्।
शोषे यवोदकं रत्नं मुख्ये लोहं तथाऽदितौ॥ 26.30 ॥
कुशोदकं तु पर्जन्ये यथावद् विनिवेशयेत्।
गायत्र्या शेषकुम्भांस्तु पूरचेच्छुद्धवारिभिः॥ 26.31 ॥
गन्धाम्भोऽर्यमदेशेऽथ पुष्पतोयं विवस्वति।
तथौपमानिकं मित्रे सुगन्धामलकं धरे॥ 26.32 ॥
सावित्रेऽक्षततोयं तु नालिकेरकमिन्द्रके।
ऐक्षवं रुद्रदासे तु तथाऽऽपे तण्डुलोदकम्॥ 26.33 ॥
अष्टाक्षरेण सर्वांस्तान् दैविकान् पूरयेत् क्रमात्।
पूरितान् पूरितान् सद्यः पल्लवैरुपशोभितान्॥ 26.34 ॥
चक्रमन्त्रेण विन्यस्य चक्रिकाश्च सतण्डुलाः।
वासोबिर्वेष्टयेत् सर्वान् नवैः केशादिवर्जितैः॥ 26.35 ॥
दर्भान् न्यस्याक्षतांश्चैव मूलेन विकिरेत् क्रमात्।
अष्टाक्षरेण सम्प्रोक्ष्य स्वमन्त्रैः पूजयेद् गुरुः॥ 26.36 ॥
प्रणवेन पुनः प्रोक्ष्य गन्धतोयेन चैव हि।
दीक्षितैर्दिक्षु होमांश्च कारयित्वाऽधिवासयेत्॥ 26.37 ॥
शान्तिं च पञ्चभिर्हुत्वा कारयेत् स्वस्तिवाचनम्।
देवसन्निधये चात्र मङ्गलायाघशान्तये॥ 26.38 ॥
आशिषो वाचयेद् विद्वान् कर्माविकलमस्त्विति।
शान्तितोयमथानीय सम्पाताज्यसमायुतम्॥ 26.39 ॥
प्रोक्षयेत् कलशान् सर्वान् कूर्चाग्रेण पुनर्गुरुः।
शुद्धा भवन्त्विमे कुम्भाः सकुशाः सपिधानकाः॥ 26.40 ॥
वातातपपरीताश्च शुभलक्षणसंयुताः।
पञ्चविंशतिधा विष्णोस्तत्त्वभेदेन तिष्ठतः॥ 26.41 ॥
द्रव्येयत्ताश्रयाः सर्वाः सङ्गच्छन्तां विभूतयः।
शास्त्रोदितमिदं चास्तु स्नपनं देवनिर्मितम्॥ 26.42 ॥
अनेन स्नपनेनास्तु प्रसन्नो भगवान् हरिः।
इत्युक्त्वाऽन्यैः कृतानुज्ञो मूर्तिपैः सहितो गुरुः॥ 26.43 ॥
सोष्णीषः सोत्तरीयश्च कृतन्यासः स्वलङ्कृतः।
नीराजनादिसंयुक्तो गच्छेद् गर्भगृहं ततः॥ 26.44 ॥
अष्टोत्तरशतं जप्त्वा मूलमन्त्रं पुरःस्थितः।
द्वारं च वायुनोद्धाट्य दत्त्वाऽर्ध्यं वाग्यतः शुचिः॥ 26.45 ॥
विश्वेनाच्छादनं हृत्वा प्रक्षाल्य प्रणवेन च।
सृष्टिक्रमेण तत्त्वैस्तु युक्तं ध्यात्वा सुरेश्वरम्॥ 26.46 ॥
सकलीकृत्य पाद्यार्ध्ये पुनर्दत्त्वा जितादिना।
गायत्र्या कौतुकं छित्त्वा दद्यादाचमनं पुनः॥ 26.47 ॥
मर्ध्न्यक्षतान् सदूर्वाग्रान् पादयोश्चोमिति क्षिपेत्।
नीराजयेत् त्रिरस्त्रेण मङ्गलानि हृदोद्दिशेत्॥ 26.48 ॥
शुभे तु तैजसे पात्रे शालितण्डुलपूरिते।
अस्त्रैरश्वत्थपत्रस्थैर्नवगोमयकल्पितैः॥ 26.49 ॥
वर्णोज्ज्वलैर्यथाशोभं वर्धमानाज्यवर्तिभिः।
उज्ज्वालाभिर्युतं मध्ये कुर्यान्नीराजनं त्विदम्॥ 26.50 ॥
पूजाद्रव्याणि कल्प्यानि शोभनान्यत्र दीक्षितैः।
शालिष्टं निशाचूर्णं हेमरत्नाक्षतानि च॥ 26.51 ॥
स्नानोदकस्य चाङ्गानि संयोज्यानि समासतः।
दूर्वास्यामाकपद्मानि विष्णुपर्णीति पाद्यकम्॥ 26.52 ॥
सिद्धार्थं गन्धपूष्पं च फलं यवतिलाक्षतम्।
कुशाग्रं चार्घ्यमष्टाङ्गं कल्पयेच्च समासतः॥ 26.53 ॥
तक्कोलजातिकर्पूरलवङ्ककुसुमान्वितम्।
चतुरङ्गं तथाचामं कल्पयेत् तत्र साधकः॥ 26.54 ॥
अश्वत्थोदुम्बरब्रह्मवटबिल्वविकङ्कतैः।
शमीभिः खदिरैः कुर्यात् कषायं त्वग्भिरेव च॥ 26.55 ॥
सहा निशा सदाभद्रा शीरीषं सूर्यवर्तिनी।
कुशाग्रं चषडङ्गानि मार्जने कथितानि तु॥ 26.56 ॥
कदलीनालिकेराम्रधात्रीपनसदाडिमैः।
सभव्यबिल्वैरष्टाङ्गं फलतोयं च कल्पयेत्॥ 26.57 ॥
वज्रमौक्तिकवैडूर्यपद्मरागप्रवालकैः।
पञ्चाङ्गं रत्नतोयं स्याल्लोहं हेमादिपञ्चकम्॥ 26.58 ॥
सेव्यार्त्यम्बुजटास्रायोमुरशीतैस्तु गन्धकम्।
जातिस्त्रीमल्लिकाकुन्दनन्द्यावर्ताब्जचम्पकैः॥ 26.59 ॥
यूथिकाबकुलाभ्यां तु कर्तव्यं कुसुमोदकम्।
शङ्खारितार्क्ष्यकूर्मैश्च लोहजैरौपमानिकम्॥ 26.60 ॥
आद्याङ्गमितरालाभे पाद्यादीनां प्रशस्तते।
पितरः श्रीसरस्वत्यौ दक्षविष्णूशनेन्दवः॥ 26.61 ॥
इन्द्रार्कयमविश्वाख्याः कुबेरो वायुरप्यजः।
वसवश्चैव सावित्री पाद्यादिद्रव्यदेवताः॥ 26.62 ॥
गन्धर्वो वरुमस्तार्क्ष्यो भूमिर्निर्ऋतिरेव च।
श्रीधरश्च नृसिंहोऽश्वमुखो मध्ये परः पुमान्॥ 26.63 ॥
इदं विष्णुर्हिरण्यवर्णा आपोहिष्ठा प्रजापते।
तेजोऽसि च दधिक्राव्ण आप्यायस्व तथा मधु॥ 26.64 ॥
अथाकृष्णेन चाश्वत्थे भद्रं कर्णेभिरेव च।
गणानां वायवायाहि ब्रह्मजज्ञानमेव च॥ 26.65 ॥
उपत्वाग्ने देवस्यात्वा बहिर्मन्त्राः प्रकीर्तिताः।
विष्णेरराटं तत्त्वा च सुवर्मं स्योनापृथिव्यपि॥ 26.66 ॥
शन्नो यादिव्या यासां च परोमात्रेति दैविके।
मध्येऽतोदेवसूक्तं च सर्वत्रान्ते स्वपूरणम्॥ 26.67 ॥
पाद्यादिमध्यपर्यन्तं स्नानमत्र प्रकीर्तितम्।
प्रतिद्रव्यं समभ्यर्च्य धूपयित्वा निवेदयेत्॥ 26.68 ॥
सकलीकृत्य मूलाङ्गैर्मुद्राः सम्यक् प्रदर्श्य च।
नीराज्यार्ध्यादिभिः साङ्गं यथान्यायं प्रपूजयेत्॥ 26.69 ॥
एभिरेवाखिलद्रव्यैः स्नापयेदङ्गदेवताः।
चतुर्विधं निवेद्यान्नं सोपदंशं घृताप्लुतम्॥ 26.70 ॥
बलिं च सर्वतो दद्याद् भूतेभ्यः सार्वकामिकम्।
सार्ववर्णिकमन्नाद्यं कुर्याच्चैवानिवारितम्॥ 26.71 ॥
आचार्यं पूजयेत् कर्ता दक्षिणाभिः समूर्तिपम्।
होमाध्ययनकर्तॄंश्च सदस्यान् वैष्णवांस्तथा॥ 26.72 ॥
ब्राह्मणान् वैष्णवाञ् शान्तान् सम्पूज्य द्वादशावरान्।
शक्त्या च दक्षिणां दद्यात् कुर्यात् तैः स्वस्तिवाचनम्॥ 26.73 ॥
व्यत्यस्तोनातिरिक्तादिदोषशान्तिस्ततो भवेत्।
द्रव्यैरूनशतार्धेन सैकाशीत्या शताष्टभिः॥ 26.74 ॥
षडध्यर्धशतैः सप्तदशाढ्यद्विशतेन च।
सद्विपञ्चाशता तेन त्रिभिर्वा पञ्चभिः शतैः॥ 26.75 ॥
कुम्भोत्तरसहस्रान्तं स्नानमेवं प्रकल्पयेत्।
इति सम्यक् समाख्यातं विष्णोः स्नपनमुत्तमम्॥ 26.76 ॥
Chapter - 27
अथ वक्ष्यामि संक्षेपात् प्रोक्षणादिविधिक्रमम्।
नवीकरणमुद्दिश्य कार्यं सर्वं यथाक्रमम॥ 27.1 ॥
सम्मृज्य सर्वतो गेहं कपिलागोमयेन च।
तन्मूत्रेण च तेनात्र प्रोक्षयेच्छमिति ब्रुवन्॥ 27.2 ॥
चतुर्दिक्षु तथा कृत्वा सगर्भगृहमादितः।
तूष्णीं मन्त्रैश्च सम्प्रोक्ष्य शुद्धोदैर्मन्त्रवारिभिः॥ 27.3 ॥
इमा आपः शिवा गव्यैः पञ्चोपनिषदेन च।
सर्वतश्चक्रसज्जप्तैर्विकिरेत् सर्षपाक्षतैः॥ 27.4 ॥
संशोध्य मण्डपं चाग्रे तोरणध्वजमण्डितम्।
शयनं कल्पयेत् यम्यक् कुसुमोत्करसंयुतम्॥ 27.5 ॥
ततः सुरक्षितं कृत्वा पुण्याहं तत्र वाच्येत्।
कर्मार्यां स्थापयित्वाऽद्भिः सरत्नाभिश्च पञ्चभिः॥ 27.6 ॥
तीर्थोदैश्च त्रयीसारसूक्तैः स्नपनमाचरेत्।
नवाभ्यां शुक्लवस्त्राभ्यां वेष्टयित्वाऽक्षरेण तु॥ 27.7 ॥
उपवीतमथाद्येन मकुटं मध्यमेन तु।
उत्तरीयं तृतीयेन पुंबीजेन च भूषणम्॥ 27.8 ॥
सर्वेण गन्धपुष्पाद्यैरिष्ट्वा पुण्याहमाचरेत्।
ओङ्कारं भगवन् सर्वव्यापिन् सर्वपदं पुनः॥ 27.9 ॥
भूताधिपत इत्येवं सर्ववेदपदं पुनः।
सारमयेत्यतः सर्वदेवाधिपत इत्यपि॥ 27.10 ॥
एह्येहि पुरुषेत्येन्महापुरुषशब्दवत्।
अन्तादिमध्यभूतेति परात्परतरेति च॥ 27.11 ॥
व्यक्ताव्यक्तपदं पश्चाद् स्थूलसूक्ष्ममहापदम्।
योगिन् नम इति स्वाहशब्दान्तेन तमाह्वयेत्॥ 27.12 ॥
सकलीकृत्य मूलेन हृदयादिभिरोमिति।
दद्यात् पाद्यं तथाचाममितिगन्धानुलेप्नम्॥ 27.13 ॥
इमाः सुमनसः पुष्पं धूपं चैव वनस्पतेः।
शुभं ज्योतिः प्रदीपं च दद्यादर्ध्यं दशाङ्गवत्॥ 27.14 ॥
आपः सिद्धार्थका दूर्वा अक्षतास्तितलण्डुलाः।
क्षीरं यवाश्च माषाश्च कुशाग्राणीति तद् विदुः॥ 27.15 ॥
ओन्नमः पदमादौ तु ततः पुरुषोत्तमाय च।
ततः समस्तलोकाधिपतयेऽर्घ्यमनन्तरम्॥ 27.16 ॥
निवेदयामिसंयुक्तो नमः स्वाहेत्ययं मनिः।
भूयश्चाचमनं दद्यात् पञ्चभिः स्नापयेत् पुनः॥ 27.17 ॥
पूर्ववद् वस्त्रभूषादि पाद्याचमनमर्चनम्।
बद्ध्वाऽथ कौतुकं धेनुप्रदानं स्वस्तिवाचनम्॥ 27.18 ॥
कृत्वाऽधिवासयेद्धोमान् पूर्ववद् दिक्षु कारयेत्।
ऋग्यजुस्सामाथर्वज्ञा जुहुयुर्दिक्षु दीक्षिताः॥ 27.19 ॥
क्रमाच्छाब्दिकनैरुक्तच्छन्दश्शिक्षाविदोऽन्यतः।
ज्योतिःकल्पेतिहासज्ञाः पुराणज्ञाः सदस्यकाः॥ 27.20 ॥
मीमांसान्यायसाङ्खयज्ञा वेदान्तज्ञाश्च साक्षिणः।
गायत्र्या तु मथित्वाऽग्निमक्षरैः प्रोक्ष्य चाष्टभिः॥ 27.21 ॥
तद्युक्तैस्तैर्निषेकादि कृत्वा पूर्णां प्रदाय च।
विहृत्याग्निमुखं कृत्वा जुहुयुः सर्व एव ते॥ 27.22 ॥
समिधः क्षीरिजा ब्राह्मीरथ पालाश्य एव वा।
पृथगष्टसहस्राणि घृताक्ता मन्त्रसम्मिताः॥ 27.23 ॥
ततः प्रोक्ष्य जलैर्बिम्बं सदस्येभ्यो निवेदयेत्।
सुहुताः समिधः पूर्वमस्माभिः शास्त्रदृष्टिभिः॥ 27.24 ॥
शं भवन्तो वदन्त्वत्र प्रीयतां च जनार्दनः।
तत ओं स्वस्ति भवन्तो ब्रुवन्त्विति विधानतः॥ 27.25 ॥
ओं स्वस्ति शान्तिरित्यष्टौ सदस्या ब्रूयुरादरात्।
ओं स्वस्ति शान्तिः सुहुतं भवत्विति गुरुर्वदेत्॥ 27.26 ॥
सदस्यानुमताः पश्चादाज्येन जुहुयुस्तथा।
आज्यभागा हुतास्तावदित्युक्त्वा शं ब्रुवन्त्विति॥ 27.27 ॥
निवेदयेयुरष्टौ ते वदेयुश्च शमस्त्विति।
आचार्य ओं शं सुहुतं भवत्विति तदा वदेत्॥ 27.28 ॥
चरुं हुत्वा निवेद्यं तु चरुहोमः कृतस्त्विति।
ओं मङ्गलं ब्रुवन्त्वन्ते तेऽपि मङ्गलमस्त्विति॥ 27.29 ॥
ओं मङ्गलं च सुहुतं भवत्विति गुरुर्वदेत्।
पुनराज्यं तथा हुत्वा निवेद्यं प्राग्वदेव तु॥ 27.30 ॥
शमित्यत्र सदस्यैश्च वक्तव्यं गुरुणा तथा।
सर्वव्याहृतिभिर्होमाः कर्तव्यास्तैर्विदानतः॥ 27.31 ॥
आद्यन्तयोः परीषेकः कार्यः पूर्णां तथान्ततः।
एवं हुत्वा तथा सर्वे जुहुयुश्चावसानिकम्॥ 27.32 ॥
इन्द्रविष्णुमरुद्भ्योऽग्निधर्मनेतृभ्य एव च।
साध्येभ्यश्च दिशापालैः सर्वदेवगणैः सह॥ 27.33 ॥
व्याहृत्याग्निवायुशक्रवरुणब्रह्मविष्णुभिः।
अश्विभ्यां गोपतियमाग्निविष्णुवसुबास्करैः॥ 27.34 ॥
विश्वभूतदिशापालनिर्ऋतीरौद्ररूपकैः।
विष्णवे च पुनः शूलपाणये च यमाय च॥ 27.35 ॥
सकालधर्मो दण्डी च त्र्यम्बको वरुणः पुनः।
विष्णुर्मित्रोऽथ परमेष्ठ्यादित्यभूतसमुद्रवान्॥ 27.36 ॥
आपगावायुविष्णुभ्यो मरुद्भ्यो जातवेदसे।
इन्द्राय सर्वलोकेभ्यो ब्रह्मणे विश्वकर्मणे॥ 27.37 ॥
सोमाय सोमपार्षद्भ्यो ग्रहनक्षत्रसंयुतैः।
तारागणैर्भूतभौमदिव्यनागैश्च होमयेत्॥ 27.38 ॥
सर्वाश्च देवता रुद्रविश्वरूपाख्यविष्णवः।
ब्रह्मा रुद्राः सर्वदेवाः सहविघ्नैर्गणाधिपैः॥ 27.39 ॥
आदावन्ते च योक्तव्यास्तथा व्याहृतयः पृथक्।
ससम्पातैस्ततः कुम्भं पूरयेच्छान्तिवारिभिः॥ 27.40 ॥
प्राक्स्रोतसीभ्यो वापीभ्यः प्रत्याहृतैरथाम्बुभिः।
सरत्नकैः सपवित्रैः कलशं पूरयामि च॥ 27.42 ॥
सर्वद्वयं ततो व्यापिन् सर्वलोकाधिसंयुतम्।
पतये नमः स्वाहेति तारादिः पूरणे मनुः॥ 27.43 ॥
अनेन मन्त्ररूपेण पूरियित्वा कमण्डलुम्।
वेष्टयेत् क्षौमपट्टेन सापिधानमलङ्कृतम्॥ 27.44 ॥
शेषैः शान्त्युदकैः पूर्णं पूरयित्वाऽन्यमादितः।
सापिधानमलङ्कृत्य क्षौमाभ्यां परिवेष्ट्य च॥ 27.45 ॥
गन्धादिभिरथाभ्यर्च्य कलशं च कमण्डलुम्।
कलशं सर्वकल्याणं गृहीत्वा प्रोक्षकः शुचिः॥ 27.46 ॥
सर्वमङ्गलसंयुक्तो नवाम्बरधरो हरिः।
स्वयं भूत्वा जपन्मन्त्रं शनैर्गच्छेत् प्रदक्षिणम्॥ 27.47 ॥
आधाय सकुशे हस्ते सव्ये तूपरि दक्षिणम्।
तथा कमण्डलुं चान्यो गृहीत्वा च तदग्रतः॥ 27.48 ॥
सकुशां पातयेद् धारामविच्छिन्नामनुत्कटाम्।
शन्नोदेव्यणोरणीयान्मन्त्रद्वयमुदाहरेत्॥ 27.49 ॥
प्रासादान्तश्च संशोध्य तथा कृत्वा विचक्षणः।
कारयेद् बिम्बशुद्धिं च युक्तितो मूर्तिपैर्गुरुः॥ 27.50 ॥
शान्तिं कृत्वा तदग्रे तु कौतुकस्नानमाचरेत्।
पीठे निवेश्य तच्छय्यामनुगैरपनाययेत्॥ 27.51 ॥
क्षालितं शुद्धतोयेन स्नापयेन्मन्त्रवारिभिः।
शिष्टैः शान्त्युदकैश्चैव स्नापयेत् प्रणवेन तु॥ 27.52 ॥
पाद्याचामाम्बरं भूषामुपवीतं च वेष्टनम्।
पूर्ववत् सम्प्रदातव्यं दीपान्तं पुनरेव च॥ 27.53 ॥
ब्रह्माणमीश्वरं विप्राननुमान्य यथाविधि।
अनुज्ञादक्षिणां दत्त्वा कुर्याच्च स्वस्तिवाचनम्॥ 27.54 ॥
शयने रुद्रसूक्तेन पीठाच्चोत्थापनं भवेत्।
स्थाने पुरुषसूक्तेन ब्राह्मेणासनकर्मणि॥ 27.55 ॥
पुरुषेऽक्षरराजं वा मध्यमं शाङ्करे तथा।
अन्त्यं ब्राह्मे यथायोगं युक्त्या चोत्थापनं चरेत्॥ 27.56 ॥
शान्तिकुम्भं पुरस्कृत्य धारं चैव कमण्डलोः।
कर्मार्चामानयेद् विद्वान् वाग्यतोऽन्तः स्मरन् हरिम्॥ 27.57 ॥
तत्त्वज्ञेन धृतं कुम्भं सम्यगुद्वाहयेत् पुरः।
शाकुनस्वस्तिसूक्ताभ्यां जयशब्दादिसंयुतम्॥ 27.58 ॥
साग्निं प्रदक्षिणीकृत्य प्रासादं प्रविशेत् पुनः।
दत्त्वाऽर्घ्यं कौतुकं पीठे स्थापयेद् ब्राह्ममुच्चरन्॥ 27.59 ॥
शिखासिरोमुखग्रीवाद्विबाहुहृदये तथा।
नाभावुपस्थ ऊर्वोश्च करयोः पादयोर्न्यसेत्॥ 27.60 ॥
ऐन्द्रे तु पृष्ठतः कार्यमेवं न्यासविधिः स्मृतः।
ततस्तु प्रोक्षयेत् विद्वान् तं सम्यग् द्विषडक्षरैः॥ 27.61 ॥
कर्मार्चागतमावाह्य गन्धपुष्पोदकेन तु।
स्नापयेन्मूलबिम्बं तु ततः शान्त्युदकेन च॥ 27.62 ॥
सर्वान्तैः कास्यहृद्गुह्यपादस्थैः कल्पयेत् तनुम्।
हृदयादीनि चाङ्गानि यथास्थानं निवेशयेत्॥ 27.63 ॥
पाद्यादि पूर्ववत् कार्यं पुण्याहं वाचयेत् ततः।
गन्धपूष्पादिभिः सम्यक् पूजयित्वा च भक्तितः॥ 27.64 ॥
पायसं यावकं चान्नं गौलं वाऽत्र निवेदयेत्।
तद् भक्ष्यक्षीरसंयुक्तं साज्यं स्वादूपदंशकम्॥ 27.65 ॥
अनुक्तमन्त्रकार्येऽत्र गायत्रीं वैष्णवीं वदेत्।
तच्छेषेण ततो दद्यात् पार्षदेभ्यो बलिं क्रमात्॥ 27.66 ॥
आचम्याचमनीयं च दत्त्वा चान्नं विसृज्य तत्।
दक्षिणां च ततो दद्यादन्नाद्यं चानिवारितम्॥ 27.67 ॥
चक्रादीनां तु मन्त्राः स्युः स्वनामपदलक्षिताः।
यदुक्तं स्थापने कर्म तत् सर्वं कारयेत् ततः॥ 27.68 ॥
स्थापनोक्तविधानेन स्नपनं कारयेत् ततः।
उत्सवं च तथा यात्रां सप्ताहं भक्तिपूर्वकम्॥ 27.69 ॥
दिनत्रयं तु वा कुर्यादेकाहमथवाऽऽपदि।
तथाऽवश्यं तु कर्तव्या शान्त्यर्थं चोत्सवक्रिया॥ 27.70 ॥
प्रोक्षणं सद्य एवेष्टं प्रायश्चित्ते विशेषतः।
स्वर्शश्च विष्णुसूक्तेन सहस्राष्टाक्षरान्वितः॥ 27.71 ॥
शुद्धौ कृतायामिष्टोऽयं विधिः पञ्चाज्यहोमवान्।
न तिथिर्न च नक्षत्रं न कालस्य परीक्षणम्॥ 27.72 ॥
प्रायश्चित्तेषु कर्तव्या सद्य एव च निष्कृतिः।
चतुस्त्रिद्व्येकवेदाः स्युस्तन्त्रज्ञाश्चाधिकारिणः॥ 27.73 ॥
सद्यश्चेदेकवेदोऽपि बहुवेदो(द)विलम्बने।
आचार्यः सर्वतन्त्रज्ञस्तदा स्याच्चोत्तमो विधिः॥ 27.74 ॥
अधमोऽपि विधिः कार्यः सद्योऽशक्तैरिति स्थितिः।
पदवाक्यप्रमाणज्ञैर्वेदयज्ञव्रतस्थितैः॥ 27.75 ॥
दक्षैर्जितेन्द्रियैः शान्तैर्मूर्तिपैः सहितो गुरुः।
एवं कुर्याद् विधानेन जलसम्प्रोक्षणं हरेः॥ 27.76 ॥
आढकत्रयसम्पूर्णमच्छिद्रं कलशं शुभम्।
सकूर्चं वस्त्रयुग्मन वेष्टितं रत्नसंयुतम्॥ 27.77 ॥
शालिकूर्चस्थितं पूर्णं पुरुषसूक्तेन पूजयेत्।
मूलेनाङ्गचतुर्मूर्तिविधिनाऽर्घ्यादिभिः क्रमात्॥ 27.78 ॥
तत्र विष्णुं महाविष्णुं सदाविष्णुं च विन्यसेत्।
उल्लेखनादिकं कृत्वा संस्कृत्याग्निं च होमयेत्॥ 27.79 ॥
पौरुषं विष्णुसूक्तं च चित्तिस्रुक्सप्तहोतृकम्।
चतुर्होता च षड्ढोता पञ्चोपनिषदो जितम्॥ 27.80 ॥
सावित्री व्याहृतिश्चैव हंसःशुचिषदित्यपि।
मूलत्रयं च गायत्रीं जुहुयात् सुसमाहितः॥ 27.81 ॥
हुत्वा हुत्वा स्पृशेद् बिम्बं कलशं भवनं तथा।
मूलत्रयेण होमान्ते स्पृशेत् प्रसृतिमुद्रया॥ 27.82 ॥
सम्पातहुततोयेन कलशस्थेन सर्वतः।
परिभ्रम्याग्रतो धारां कृत्वा सम्प्रोक्षयेत् कुशैः॥ 27.83 ॥
वास्तुहोमे कृतेऽन्तश्च वास्तोष्पदशपञ्चकैः।
हुनेदष्टसहस्रं तु पालाशं खादिरं तु वा॥ 27.84 ॥
तथा पञ्चशतं वाऽपि कुर्यादष्टशतं तु वा।
तावदाज्यं चरुं लाजांस्तिलाञ् शालींश्च होमयेत्॥ 27.85 ॥
प्रत्येकमेवमेवं तु मन्त्रे मन्त्रे च होमयेत्।
यथालाभं तु होतव्यं शास्त्रदृष्टेन वर्त्मना॥ 27.86 ॥
वैदिकानां हुनेदाज्यं शेषं वै मूलविद्यया।
एवं कृत्वा विधानेन कौतुकं बन्धयेत् ततः॥ 27.87 ॥
द्वादशाक्षरमन्त्रेण पद्मसूत्रेण चैव हि।
रात्रौ महोत्सवं कुर्याच्छङ्खतूर्यरवैः शुभैः॥ 27.88 ॥
रात्रौ महोत्सवं कर्तव्यो जलसम्प्रोक्षणं दिवा।
प्रभाते सुमुहूर्ते च प्रोक्षणं कर्तुमारभेत्॥ 27.89 ॥
आवाह्य पूजयेद् देवं शङ्खचक्रादिलक्षणम्।
साङ्गं द्वादशभिश्चैव दशभिर्मुर्तिभिः सह॥ 27.90 ॥
आदित्यरुद्रवस्वाद्यैः किन्नराद्यैश्च संवृतम्।
वाङ्गयादिं सबिन्दुं च नमस्कारान्तमुत्तमम्॥ 27.91 ॥
प्रणवादिकमन्त्रेण स्नापयेत् सुसमाहितः।
शेषोदकेन मन्त्रज्ञः स्नापयेद् भुवनेश्वरम्॥ 27.92 ॥
Chapter - 28
अथ वक्ष्यामि संक्षेपात् कर्मशेषानहं तव।
यद्योगाज्जायते सर्वं कर्माविकलमुत्तमम्॥ 28.1 ॥
लेपादिदूषिते बिम्बे शुद्धिं कृत्वा यथोदिताम्।
अभिषेकात् पुरा कार्याः शुद्धयोऽन्याश्च युक्तितः॥ 28.2 ॥
वैष्णवानलनिर्दग्धब्रह्मत्वग्भस्ममिश्रितम्।
तीर्थतोयं समालोड्य पञ्चपत्ररसं तथा॥ 28.3 ॥
गोशृङ्गेणाभिषिच्यार्चां तत्पिष्टैर्लेपयेत् पुनः।
सहादूर्वासदाभद्रासिद्धार्थरजनीयुतम्॥ 28.4 ॥
दोषघ्नं क्षीरिणां त्वग्भिर्घर्षणं लेपनं तथा।
दूर्वासिद्धार्थकल्केन सगव्येन च लेपनम्॥ 28.5 ॥
चन्दनागरुकर्पूरक्षोदैर्धूपः पुरेण च।
परितो दीपमाला च कपिलाज्याब्जसूत्रजा॥ 28.6 ॥
स्नानप्रकारमालेपं धूपनं च विशेषतः।
सर्वदोषहरं कुर्याद् स्थानवृद्धिकरं परम्॥ 28.8 ॥
पूरणं त्रिविधं प्रोक्तमन्नपुष्पजलैः शुभैः।
पुष्टिदं जयदं पुण्यमपमृत्युहरं तथा॥ 28.9 ॥
सर्वदोषहरं श्रेष्ठं पायसान्नेन पूरणम्।
कन्दाज्यशर्करापूपकदलीफलसंयुतम्॥ 28.10 ॥
शुद्ध्यर्थं पुष्टिदं प्रोक्तं प्रायश्चित्तार्थमेव च।
उत्सवेष्वपि कर्तव्यमात्माभ्युदयकाङ्क्षिभिः॥ 28.11 ॥
धान्यतण्डुलवस्त्रस्थान् घटान् पञ्चाम्बुपूरितान्।
हेमरत्नादिसंयुक्तान् सकूर्चान् पल्लवाञ्चितान्॥ 28.12 ॥
कमलादिभिराच्छाद्य कुशपुष्पाद्यलङ्कृताम्।
वासोभिरहतैश्छन्नान् गन्धपुष्पैश्च पूजितान्॥ 28.13 ॥
सकलेन समालभ्य पञ्चभिः स्नापयेत् क्रमात्।
तथा च गन्धैर्गव्यैश्च पयोदध्याज्यकादिभिः॥ 28.14 ॥
सम्पूज्य विधिवद् गन्धैरालिप्याच्छाद्य वाससा।
सुगन्धिनाऽहतेनैव सपीठं कवचेन तु॥ 28.15 ॥
शुद्धपायसहारिद्रैस्तिलैः शुद्धविनिर्मितैः।
पेयैर्लेह्यैश्च चोष्यैश्च कन्दमूलफलादिभिः॥ 28.16 ॥
सुरसैर्बहुभिर्दिव्यैः सोपदंशैः समन्ततः।
दधिक्षीरगुलाज्यैश्च कालपक्कैश्च पूरयेत्॥ 28.17 ॥
शीतेनान्नेन पूरः स्यादन्नसूक्तादिभिः शुभैः।
स्थापयेद् घटिकाः सप्त नादयेत् तूर्यनिस्वनैः॥ 28.18 ॥
निवेदयेच्चतुर्दिक्षु पायसादि यथाक्रमम्।
पञ्चभिर्व्रह्मसूक्तेन समिदाज्यचरून् क्रमात्॥ 28.19 ॥
अष्टोत्तरशतं हुत्वा दिक्षु भूतबलिं हरेत्।
ततोऽनुज्ञाप्य तत् सर्वं विसृज्याप्सु विनिक्षिपेत्॥ 28.20 ॥
ततश्चाराधयेत् सम्यगन्नाद्यं चोत्सवं पुनः।
स्नपनं कारयेदेवं सर्वसम्पद् भविष्यति॥ 28.21 ॥
वर्णसङ्करविप्रैस्तु स्पृष्टेऽष्टशतमादिशेत्।
सवर्णगामिभिश्चैवं ब्रह्मघ्नेऽष्टसहस्रकम्॥ 28.22 ॥
जलसंप्रोक्षणं चात्र गुरुतल्पगते तथा।
सुवर्णस्तेयसंसर्गे जलसंप्रोक्षणं तथा॥ 28.23 ॥
द्विजानां भोजनं चात्र स्नपनं चैव कारयेत्।
सुरापैरपि संस्पृष्टे जलसंप्रोक्षणादिकम्॥ 28.24 ॥
गोदानं बहुविप्राणामन्नाद्यं स्नपनं तथा।
ब्रह्महत्यादिसंसृष्टैर्यादि स्पृष्टो जनार्दनः॥ 28.25 ॥
जलसंप्रोक्षणस्नानहोमाध्ययनभोजनैः।
भूहेमकपिलादानपारायणशतं तथा॥ 28.26 ॥
एकसंपर्कविप्रेण प्रमादाद् यदि गम्यते।
गेहं वा देवबिम्बं वा जलसंप्रोक्षणं तथा॥ 28.27 ॥
बहुसंपर्कविप्रैस्तु स्पृष्टे बहुगुणं तथा।
चण्डालश्वपचैः स्पृष्टे प्रासादे बिम्ब एव वा॥ 28.28 ॥
अर्चाद्रव्ये च संस्पृष्टे जलसंप्रोक्षणादिकम्।
पञ्च षट् सप्त वाऽहानि महास्नानं द्विजार्चनम्॥ 28.29 ॥
सप्तकारुजनैः स्पृष्टे बिम्बे प्रासाद एव वा।
जलसंप्रोक्षणस्नानगोदानान्नाद्यविस्तरः॥ 28.30 ॥
चोररूपेण शूद्रास्तु संस्पृष्टा प्रतिमा यदा।
जलसंप्रोक्षणान्नाद्यस्नपनैः सुद्धिरिष्यते॥ 28.31 ॥
चोररूपेण वैश्यैस्तु जलसंप्रोक्षणं क्रमात्।
स्नपनं भोजनं चैव कारयेत् सुसमाहितः॥ 28.32 ॥
मोहादथार्थकामाद् वा चोररूपेण चेन्नृपैः।
जलसंप्रोक्षणेनैव शुद्धिः स्यान्नात्र संशयः॥ 28.33 ॥
वर्णोत्तमेव चेत् स्पष्टश्चोररूपेण केशवः।
स्नपनं कारयेत् तत्र षोडशैव घटाः स्मृताः॥ 28.34 ॥
अस्नात्वा यदि भक्त्या तु मन्त्रसंस्कारवर्जितम्।
द्विजोत्तमेन स्पृश्येत पञ्चगव्येन शोधयेत्॥ 28.35 ॥
नृपेण यदि भक्त्या तु स्पृष्टो देवो जनार्दनः।
यथोक्तैर्नवभिः कुम्भैः स्नपनेनैव शुध्यति॥ 28.36 ॥
वैश्येन यदि संस्पृष्टो भक्त्या मन्त्रविवर्जितम्।
पञ्चाशत्कलशैरेव स्नपेन विशुध्यति॥ 28.37 ॥
स्पृष्टः शूद्रेण भक्त्या तु मन्त्रसंस्कारवर्जितम्।
अष्टोत्तरशतेनैव कर्तव्यं स्नपनं पुनः॥ 28.38 ॥
सप्तकारुजनैश्चापि भक्त्या स्पृष्टे जनार्दने।
जलसंप्रोक्षणेनात्र स्नपनेन च शुध्यति॥ 28.39 ॥
एतेषां चेत् स्त्रिया स्पृष्टो मोहाद् वा यदि कामतः।
पूर्वोक्ता निष्कृतिः कार्या शेषं ब्राह्मणपूजनम्॥ 28.40 ॥
गोदानं च पुनः कुर्याद् गव्यस्नानं च युक्तितः।
ब्राह्मण्या चोरमार्गेण स्पृष्टे तु मधुसूदने॥ 28.41 ॥
स्नपनं कारयेच्छक्त्या ब्राह्मणानां च भोजनम्।
राजन्यवैश्ययोः स्पर्शे मोहाद् वा चौर्यकेण वा॥ 28.42 ॥
जलसंप्रोक्षणं स्नानं विप्रभोजनसंयुतम्।
शूद्रा यदि स्पृशेच्चौर्याद् गर्भगेहं तु वा विशेत्॥ 28.43 ॥
जलसंप्रोक्षणं कुर्यान्महास्नपनसंयुतम्।
अन्त्यजानां शुनां वाऽपि गर्भे कारुस्रियाऽपि वा॥ 28.44 ॥
प्रसूते प्रोक्षणं कुर्याद् द्वादशाहं दशैव वा।
महास्नानं च कर्तव्यमुत्सवान्नाद्यसंयुतम्॥ 28.45 ॥
वर्णजा यदि सूयेत् प्रमादाद् देवमन्दिरे।
जलसंप्रोक्षणं कृत्वा महास्नानेन शुध्यति॥ 28.46 ॥
क्षत्रिया वाऽथ वैश्या वा यद्यज्ञानात् प्रसूयते।
जलसंप्रोक्षणं कुर्यात् त्रिदिनं वा चतुर्दिनम्॥ 28.47 ॥
द्विगुणं सूतशावर्तुसूतिकादाहकैः क्रमात्।
एवं मार्गेण वै कुर्याज्जलसंप्रोक्षणं बुधः॥ 28.48 ॥
पारायणं चाध्ययनं गोदानं भोजनं तथा।
बलिभ्रमण्वेलायां तत्पात्रं यानमेव वा॥ 28.49 ॥
पतेद् यस्मिन् दिशाभागे तन्मन्त्रेणात्र होमयेत्।
घृतेन हविषा चैव पालाशाष्टशतेन च॥ 28.50 ॥
तथा नित्यबलिस्पर्शे कृते श्वानद्विकादिभिः।
मूलमन्त्रद्वयेनैव पञ्चोपनिषदा तथा॥ 28.51 ॥
विष्णुसूक्तेन चैवात्र होमं कुर्यात् समाहितः।
प्रायश्चित्तेषु सर्वेषु जपहोमेषु शस्यते॥ 28.52 ॥
अष्टाक्षरं स्वसंख्यानं द्वादशाक्षरमेव वा।
पात्रं प्रक्षाल्य तु स्नात्वा कृत्वा न्यासं यथाविधि॥ 28.53 ॥
सम्यगावृत्य तां भूमिं गोमयेनोपलिप्य च।
पायसं श्रवयेन्मन्त्री घृतमिश्रं सुशोभनम्॥ 28.54 ॥
व्रिहिभिः स्थण्डिलं कृत्वा तस्मिन् वासोऽथ तण्डुलान्।
कुशपुष्पाणि विन्यस्य प्रोक्ष्यास्त्रेण समाहितः॥ 28.55 ॥
मूलेन विन्यसेत् पात्रं प्रणवेन स्पशेत् पुनः।
ततश्चास्त्रेण संप्रोक्ष्य दक्षिणे शान्तिमर्चयेत्॥ 28.56 ॥
हुत्वाऽन्नं मूलमन्त्रेण प्रणवेनाज्यमेव च।
अष्टोत्तरशतं वाऽपि सहस्रं वा यथाक्रमम्॥ 28.57 ॥
हविःशेषं ततः पश्चाद् बलिपात्रे विनिक्षिपेत्।
तत् कृत्वा लिङ्गवत् प्रोक्ष्य मूलेनावाह्य पूर्ववत्॥ 28.58 ॥
कर्मार्चां शोधयित्वा वा तस्यामावाह्य पूजयेत्।
पाद्यार्घ्याचमनं दत्त्वा गम्धपूष्पैरथर्चयेत्॥ 28.59 ॥
नमस्कृत्य ततः स्तुत्वा सोत्तरीयः समाहितः।
उद्धृत्य व्याहृतीर्जप्त्या मूर्ध्रि तारेण विन्यसेत्॥ 28.60 ॥
उद्वास्य क्षालितं त्यक्त्वा पात्रमन्यत् समाहरेत्।
अनुयागे नवं बिम्बं शोधयित्वाऽधिवासयेत्॥ 26.62 ॥
वैष्णवाग्नौ तु जुहुयात् प्रायश्चित्तं विशेषतः।
पञ्चोपनिषदैर्मन्त्रैराचार्यः सुसमाहितः॥ 28.63 ॥
पूर्णाहुतिं ततो दद्याद् द्वादशाक्षरविद्यया।
अष्टाक्षरेण जुहुयात् समिदाज्यचरून् क्रमात्॥ 28.64 ॥
सहस्रं वा शतं वाऽपि पञ्चविंशतिमेव वा।
लोहकुम्भं तु संगृह्य सुदुढं सूत्रवेष्टितम्॥ 28.65 ॥
पूरयित्वा तु विधना सरत्नं हेमसंयुतम्।
बीजैः सर्वैः समायुक्तं स्थापयेत् तत्र सुस्थितम्॥ 28.66 ॥
तत्रावाह्य हरिं पश्चात् पूजयेच्च विधानतः।
पूर्वोक्तेनैव मार्गेण शेषं कर्म समाचरेत्॥ 28.67 ॥
स्नपनं चोत्सवं कुर्याद् विधिदृष्टेन कर्मणा।
संवत्सरं नरो भक्त्या समभ्यर्च्य जनार्दनम्॥ 28.68 ॥
यत् फलं समवाप्नोति पवित्रारोहणेन तत्।
न करोति विधानेन पवित्रारोहणं तु यः॥ 28.69 ॥
तस्य सांवत्सरी पूजा निष्फला कथिता बुधैः।
तस्मात् कर्तव्यमब्देऽब्दे पवित्रारोहणं हरेः॥ 28.70 ॥
श्रवणस्य सिते पक्षे द्वादश्यां तु यथाविधि।
सिंहस्थे वा रवौ कार्यं कन्यायां तु स्थितेऽथवा॥ 28.71 ॥
कन्यया कर्तितं सूत्रं कार्पासं पद्मजं तु वा।
क्षौमसूत्रं तु वा कुर्यादलाभे दर्भसम्भवम्॥ 28.72 ॥
नोपयुक्तं क्रियायां स्यादन्यभक्तादिदूषितम्।
त्रिगुणेन त कर्तव्यं हीनमद्योत्तमं त्रिधा॥ 28.73 ॥
तत् सप्तविंशकं कुर्याच्चतुष्पञ्चाशकं तथा।
अष्टोत्तरशतं वा स्याद् वनमाला सहस्रिका॥ 28.74 ॥
फलं च मानुषं दिव्यं सालोक्यं मुक्तिरेव च।
नाभ्यूरुजानुमात्रं स्यात् परं बिम्बप्रमाणतः॥ 28.75 ॥
ग्रन्थयो द्वादश प्रोक्ता द्विगुणास्रिगुणास्तथा।
कर्तव्यं वनमालायां शतमष्टोत्तरं सदा॥ 28.76 ॥
अधिवासनसूत्रे तु ग्रन्थयो द्वादशैव तु।
मन्त्रो द्विजोष्विदंविष्णुरन्येषु द्वादशाक्षरम्॥ 28.77 ॥
तावदावर्तयेन्मन्त्रं यावन्तो ग्रन्थयः कृताः।
एकधा च द्विधा चैव त्रिधा चापि पवित्रके॥ 28.78 ॥
कुङ्कुमोशीरकर्पूरचन्दनादिविलेपनैः।
ग्रन्थिमध्ये विलिप्याथ तत्त्वन्यासं तु योजयेत्॥ 28.79 ॥
अधिवास्य पवित्राणि चैकादश्यामुपोषितः।
गन्धपुष्पैः सम्भ्यर्च्य न्यसेद् देवाग्रतो निशि॥ 28.80 ॥
तत्त्वज्ञानपरैः कार्यं पवित्रारोहणं हरेः।
एकादश्यां तदभ्यर्च्य मूलमन्त्रेण भक्तिमान्॥ 28.81 ॥
भूषादामनिवेद्यैश्च संपूज्य गरुडध्वजम्।
नृत्तगीतादिसंयुक्तं जागरं तत्र कारयेत्॥ 28.82 ॥
सोपवासः शुचिर्भूत्वा कृतजप्यो जितेन्द्रियः।
दद्यात् दानं द्विजाग्रेभ्यो भक्त्याऽभ्यर्च्य हरिं स्मरन्॥ 28.83 ॥
तत्राधिवासितं प्रातस्तदादाय पवित्रकम्।
अतोदेवेति सूक्तेन विष्णोर्मूर्ध्नि निवेशयेत्॥ 28.84 ॥
शूद्रस्तु मूलमन्त्रेण येन वा पूजयेद्धरिम्।
वेदघोषैर्जयस्तोत्रगीतमङ्गलनिस्वनैः॥ 28.85 ॥
पवित्रारोहणं कुर्याद् देवं विज्ञापयेत् ततः।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः॥ 28.86 ॥
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज!।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन!॥ 28.87 ॥
यत् पूजितं मया देव! परिपूर्णं तदस्तुते।
वनमालां यथा देव! कौस्तुभं सततं हृदि॥ 28.88 ॥
तद्वत् पवित्रतन्तूंश्च पूजां चेमां हृदा वह।
इति विज्ञाप्य देवेशं भक्त्याऽऽनम्य क्षमापयेत्॥ 28.89 ॥
ततश्च दद्याद् विप्रेभ्यो हरिमुद्दिश्य दक्षिणाम्।
ततोऽनुपूजयेद् भक्त्या गुरुमन्यांश्च भक्तितः॥ 28.90 ॥
मूलमन्त्रेण जुहुयाद् वह्नौ सघृतयावकम्।
ततश्च पूजयेत् भक्त्या विप्रान् दद्याच्च दक्षिणाम्॥ 28.91 ॥
सर्वांश्चैवार्थिनः शक्त्या पूजयेदोदनादिभिः।
यावत्तत्त्वयुता पूजा तावत्योऽङ्गुलयोऽत्र वा॥ 28.92 ॥
Chapter - 29
अथ वक्ष्यामि संक्षेपात् समयाचारलक्षणम्।
दीक्षितानां तु सर्वेषां यद्योगात् सर्वसिद्धयः॥ 29.1 ॥
ब्राह्मणाद्याश्चतुर्वर्णास्त्रयस्त्वेषां च दीक्षिताः।
भक्ता जितेन्द्रियाः शान्ताः सर्वे समयिनः स्मृताः॥ 29.2 ॥
समयी दीक्षितः पश्चाच्चक्रवर्त्यभिषेकवान्।
गुरुश्चैव तथाचार्यो भगवान् सप्तमः स्मृतः॥ 29.3 ॥
यागः स्तोमो महायागश्चाध्वरोऽथ सवः क्रतुः।
हरिस्तोम इति ज्ञेयाः सप्त यागाः समासतः॥ 29.4 ॥
वसन्ते च तथा ग्रीष्मे शरद्वर्षासु च क्रमात्।
वर्णिनां विहिता दीक्षा सर्वेषां वोत्तरायणे॥ 29.5 ॥
सकृद् द्विस्त्रिश्चतुर्दीक्षा सप्तकृत्वश्च वर्णिनाम्।
तथा द्वादशकृत्वश्च कार्या वा प्रतिवत्सरम्॥ 29.6 ॥
पुष्पातवशान्नाम पूर्वमेव तु गृह्यते।
तच्छर्मवर्मगुप्तान्तं दासान्तं चेह वर्णिनाम्॥ 29.7 ॥
केवलं समयीत्यादि द्रष्टव्यं केशावादिवत्।
स्त्रीणां तु केशवाद्याख्या देव्यन्तास्त्रिषु कीर्तिताः॥ 29.8 ॥
शूद्राणां दासदास्यन्ताः सर्वेषां यागभेदतः।
सर्वेऽपि दीक्षिताः सम्यक् सदा गुरुपरायणाः॥ 29.9 ॥
वर्णाश्रमगतान् धर्मान् रक्षेयुः समयांस्तथा।
गुरुदेवद्विजाग्नीनां सर्वदा परिचर्यया॥ 29.10 ॥
व्रतोपवासनियमैर्भक्त्या चेच्छेयुरुन्नतिम्।
नानिष्ट्वा देवमश्नीयान्नचादीक्षितवेश्मनि॥ 29.11 ॥
निर्माल्यं न श्पृशेद् दद्याल्लङ्घयेत् वाऽशनं कुतः।
सर्वेषामेव देवानां निर्माल्यमशुचि स्मृतम्॥ 29.12 ॥
विष्णुभुक्तं तु पुष्पादि शुचीत्याददते परे।
कांस्यपात्रे न भोक्तव्यं न वन्द्या चान्यदेवता॥ 29.13 ॥
अदीक्षिताद्ययोग्येषु सिद्धान्तं न प्रकाशयेत्।
नोदक्ययाऽभिभाषेत न चण्डालैर्नचान्त्यजैः॥ 29.14 ॥
न कुदेशे वसेन्नित्यं न च पाषण्डिभिः सह।
तिर्यक् पुण्ड्रं न कुर्वीत नो द्विट्कारं न सङ्करम्॥ 29.15 ॥
शर्ङ्गाष्ठं लशुनं शिग्रु धान्याम्लं चाविकं पयः।
पिण्याकं कोरदूषं च छत्राकं वर्जयेत् सदा॥ 29.16 ॥
आसनं शयनं यानं नातिष्ठेच्चक्ररूपकम्।
प्रतिमासन्निधौ नान्यप्रतिमास्तुतिमाचरेत्॥ 29.17 ॥
शृणुयान्न परीवादं नच कालं वृथा नयेत्।
चक्राङ्को विष्णुनामाङ्कपुत्रभृत्यपशुर्भवेत्॥ 29.18 ॥
चत्रैव तु शिरः कृत्वा स्वपेद् यत्र रविर्गतः।
नाग्निगोगुरुविप्रार्चाधान्येष्वङ्घ्री प्रसारयेत्॥ 29.19 ॥
मत्स्यकूर्मवराहाणां नच मांसानि भक्षयेत्।
विप्राग्निवैष्णवाश्वत्थान् गाश्च कुर्यात् प्रदक्षिणम्॥ 29.20 ॥
विष्णोर्गृहाणि सर्वाणि दृष्ट्वा भक्त्याऽभिवादयेत्।
न बाहुभ्यां तरेत् सिन्धुं न गवा नान्यवाससा॥ 29.21 ॥
न नग्नो वा विशेत् तोयं न धावेद् वर्षसंभवे।
ऊर्ध्वपुण्ड्रास्तु ये मर्त्यास्तान् सर्वाच्छक्तिऽर्चयेत्॥ 29.22 ॥
अग्रभिक्षां सदा दद्याद् ग्रासमुष्टिं गवां तथा।
नाद्यात् पर्युषितं चान्नं नागतं परगेहतः॥ 29.23 ॥
शिरस्पृष्टेन तैलेन नाङ्गं किञ्चिदुपस्पृशेत्।
नानन्तर्धाय चासीत नान्यभक्तं प्रपूजयेत्॥ 29.24 ॥
प्रत्यक्षलवणं नाद्यान्निर्यासामेध्यजानि वा।
वैष्णवैर्दीक्षितैर्विप्रैर्विवादं न समाचरेत्॥ 29.25 ॥
अन्त्यजं वा श्वपाकं वा नावमन्येत वैष्णवम्।
विष्ण्वर्थान्येव कर्माणि सर्वाणि मनसा स्मरेत्॥ 29.26 ॥
अपि प्राणपरित्यागं कुर्याद् विष्णुनिमित्ततः।
कृतेन कर्मणा येन भगवान् भुवनेश्वरः॥ 29.27 ॥
प्रसीदति हि तत् कार्यं कर्मेदं वैष्णवैः सदा।
सत्पथे मनसि न्यस्ते वाणी तिष्ठति सत्पथे॥ 29.28 ॥
इन्द्रियाणि च सर्वाणि तस्मात् तच्छिक्ष्यमादितः।
उपकारः परो धर्मः सर्वेषामिति निश्चयः॥ 29.29 ॥
तस्मात् सर्वप्रयत्नेन सर्वेषां हितमाचरेत्।
दानानि कीर्तिभूयांसि मध्यमानि फलेष्वतः॥ 29.30 ॥
रहस्यदानं कर्तव्यं पात्रकालादियोगतः।
पात्रे सर्वाणि देयानि दातव्यानि मनस्विना॥ 29.31 ॥
देवमेव समुद्दिश्य यशस्तत्रानुषङ्गिकम्।
जितेन्द्रियस्य भक्तस्य मानसो धर्म उत्तमः॥ 29.32 ॥
कायिकः प्राकृतस्योक्ते मध्यमस्य तु वाचिकः।
क्रियारूपः स्मृतो धर्मो ज्ञानरूपं तु तत्परम्॥ 29.33 ॥
ज्ञानेन मोक्षमाप्नोति ज्ञानार्था चेष्यते क्रिया।
केवलं त्विह विज्ञानं धर्मस्यानुग्रहादृते॥ 29.34 ॥
नालं चेतो भवाविष्टं प्रसादयितुमञ्जसा।
तदिष्ट्वाऽनन्तरायार्थं प्राप्य ज्ञानमनुग्रहात्॥ 29.35 ॥
ततः साध्यो भवेन्मोक्षस्तद्भक्तैरेव नापरैः।
प्रासादे स्थापितं देवं सर्वदा न प्रकाशयेत्॥ 29.36 ॥
अन्यत्रार्चनवेलायां पूजनान्ते प्रकाशयेत्।
अशिचिद्रव्यसंसर्गं जनसम्मर्दमेव च॥ 29.37 ॥
प्रासादे वर्जयेन्नित्यं लोकोपकरणानि च।
वैदिका वैष्णवा मन्त्राः शान्तिकाः पौष्टिकास्तथा॥ 29.38 ॥
यथायोगं प्रयोक्तव्यास्तन्त्रमन्त्रास्तदन्तरे।
ऋक्षु ये पावना मन्त्रा यजुष्वपि च सामसु॥ 29.39 ॥
अथर्वणेषु चादेया देवपूजादिकर्मसु।
ये मन्त्राः परमं देवं साक्षाल्लक्षेण(क्ष्येण) वाऽऽश्रिताः॥ 29.40 ॥
साङ्गाः पृथगुपादेयास्तान् विचार्यात्र योजयेत्।
नहि तेभ्यः परं किञ्चिद् वाङ्मयं भुवि विद्यते॥ 29.41 ॥
कामदं च पवित्रं च ये मन्त्रा वैदिकाः स्मृताः।
तैरेव कृतसंस्कारे वंशे जातः स्वयं पुनः॥ 29.42 ॥
तानुपेक्ष्यापरान् मन्त्रान् नानुवर्तितुमर्हति।
कर्मकाण्डप्रधानास्तु वैदिका विधयः स्थिताः॥ 29.43 ॥
कामकामैर्वियोक्तव्यास्तां तामाश्रित्य देवताम्।
मन्त्रास्ते वैदिकाः सिद्धाः संभूय पृथगेव वा॥ 29.44 ॥
कर्मसिद्धौ प्रवर्तन्ते प्रायो नानाफलाश्रयाः।
तेऽन्वीक्ष्यान्वीक्ष्य संग्राह्या वैष्णवैर्वदवादिभिः॥ 29.45 ॥
तत्पूजायामिदं तन्त्रं भवत्येव निबन्धनम्।
तज्ज्ञात्वा वैदिकान् मन्त्रान्यानुद्धृत्य च स्वयम्॥ 29.46 ॥
इदं च तन्त्रमालम्ब्य पूजयेत् पुरुषोत्तमम्।
यो जपस्तुत्युपस्थानं तैः कृत्वाऽनुस्मरन् हरिम्॥ 29.47 ॥
पठेन्मन्त्रान् यथान्यायं स मुख्यो विष्णुयाजकः।
जपयज्ञं विशेषेण ये तु कुर्वन्ति वैदिकैः॥ 29.48 ॥
काले पूजां च कुर्वन्ति तेषु संप्रीयते हरिः।
ध्यात्वाऽर्कमण्डले विष्णुं वेदमन्त्रैरभिष्टुतम्॥ 29.49 ॥
धार्यमाणे ततैवाग्नौ जुहुयात् कार्यसिद्धये।
तत्र यत् केवलं ध्यानं वेदान्तोक्तमनाश्रयम्॥ 29.50 ॥
न तत्रेन्द्रियदौर्बल्यात् कर्मस्थस्याधिकारिता।
यथा गिरितटाग्रस्थवनस्पतिफलेच्छया॥ 29.51 ॥
उपाये वर्ततेऽश्रान्तस्तथाऽसौ यत्नमाचरेत्।
सर्वत्र क्रमवान् यत्नः कार्यो नेच्छैव केवला॥ 29.52 ॥
तत् कायवाङ्मनोयोगैः क्रमादिच्छेत् परां गतिम्।
निराकारे तु या भक्त्या पूजेष्टा ध्यानमेव वा॥ 29.53 ॥
रमणीयमिवाभाति तदनर्थस्य कारणम्।
स्थूलभावप्रसङ्गीनि जन्मनाऽस्येन्द्रियाणि हि॥ 29.54 ॥
सूक्ष्मार्थं न प्रपद्यन्ते चिराच्च किमुताचिरात्।
नच रूपं विना देवो ध्यातुं केनापि शक्यते॥ 29.55 ॥
सर्वरूपनिवृत्ता हि बुद्धिः कुत्रास्य तिष्ठति।
निवृत्ता ग्लायते बुद्धिर्निद्रया वा परीयते॥ 29.56 ॥
तस्माद् विद्वानुपासीत बुद्ध्या साकारमेव तम्।
अस्ति तस्य परोक्षं तदिति किञ्चिदनुस्मरेत्॥ 29.57 ॥
सर्वथाऽऽकारमुद्दिष्टं न परित्यज्य पण्डितः।
परं देवमुपासीत मुक्तये वा फलाय वा॥ 29.58 ॥
मन्त्रैरावर्त्यमानैस्तु विष्णुपादसमाश्रयैः।
स्वरूपं लक्ष्यते बुद्धौ तत्प्रसादेन नान्यथा॥ 29.59 ॥
भक्त्यर्थाः सर्वमन्त्राः स्युः स्तोत्राणि ध्यानमर्चनम्।
सा यस्य हृदये तीव्रा स भक्तो नान्य इष्यते॥ 29.60 ॥
प्रियाणि देवदत्तानि कर्मजान्यप्रियाणि च।
यः पश्येत् सततं बुद्ध्या स भक्तो नेतरो जनः॥ 29.61 ॥
तस्य योगमयं विद्यादाकारं सार्ववस्तुकम्।
नित्यं भक्तानुकम्पार्थं ध्येयो मन्त्रमयस्तु सः॥ 29.62 ॥
यदा निवृत्तकर्मासौ निर्वाणे रमते बुधः।
तदा सूक्ष्मशरीरं तं पूजयेत् पुरुषोत्तमम्॥ 29.63 ॥
शक्तयोऽस्यायुधाकारा विज्ञेया बाहवो दिशः।
द्यौर्मूर्धा पृथिवी पादौ दृष्टिरर्को मनः शशी॥ 29.64 ॥
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणुः पूज्यो नित्यं मनीषिभिः॥ 29.65 ॥
यदा यदा प्रसन्ना धीर्ध्यायेत् सूक्ष्मं तदा तदा।
सीदन्ति संशयेनैव यतयोऽप्यत्र विक्लवाः॥ 29.66 ॥
आगमार्थं दृढं कुर्यात् सर्वविद्याभिरात्मवान्।
विवेकेन च शुद्धेन नागमस्यैव संप्लवम्॥ 29.67 ॥
स्वगृह्ये धर्मशास्त्रे च यदुक्तं तत् सदाचरेत्।
तन्त्रोक्तमविरुद्धे च कुलवर्णाश्रमानुगम्॥ 29.68 ॥
स्रीशूद्राणां तु सर्वेषां नौपनायनिकक्रिया।
दीक्षोपनयनं तेषां तान्त्रिकश्च मनाग्विधिः॥ 29.69 ॥
तान्त्रिकास्तन्त्रमन्त्राः स्युर्विधयश्च तदाश्रयाः।
मूलमन्त्रैश्च गायत्र्या वैदिकैश्च त्रिधा क्रिया॥ 29.70 ॥
विट्छूद्रयोर्नृपे विप्रे सर्वं वा विप्र इत्यते।
होमादिषु स्वमन्त्राः स्युरनुलोमास्तु वा सदा॥ 29.71 ॥
चतुर्वर्णोद्भवाः सर्वे प्रतिलोमानुलोमजाः।
तत्रानुलोमजाः श्रेष्ठा वर्ज्यास्तु प्रतिलोमजाः॥ 29.72 ॥
प्रतिलोमेषु सर्वेषु सूत एकस्तु गृह्यते।
नार्हन्त्येवेतरे दीक्षां वर्णाश्रमबहिष्कृताः॥ 29.73 ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा।
चतुर्धाऽऽश्रमिणो भिन्नाः पुनश्चारभेदतः॥ 29.74 ॥
तत्राद्यो ब्रह्मचारी च लिङ्गी शिष्य उपासकः।
अक्षारलवणाशी यो भैक्षाहारो मिताशनः॥ 29.75 ॥
स्थण्डिलाजिनशायी च ब्रह्मचारी स उच्यते।
एवं कर्माणि यः कुर्याच्चक्रादिकृतलक्षणः॥ 29.76 ॥
देवताराधने सक्तः स लिङ्गीति प्रकीर्तितः।
भैक्षमात्रेण जीवन् यः पठेच्छुश्रूषुरर्चकः॥ 29.77 ॥
नान्यकार्यपरो नित्यं स शिष्यः परिकीर्तितः।
त्रिसन्ध्यं पूजयन् देवं नान्यकार्यपरश्च यः॥ 29.78 ॥
त्रिः स्नात्वाऽनुचरेन्नित्यं गुरुं स स्यादुपासकः।
व्रती गृहस्थ एवाढ्य आचार्यो गृहिणस्त्विमे॥ 29.79 ॥
चत्वार इह सम्प्रोक्तास्तथैवाचारभेदतः।
व्रतोपवासी नक्ताशी नियतार्चो जितेन्द्रियः॥ 29.80 ॥
ऋतुगामी मिताहारो व्रती मूलपरः सदा।
यज्ञाध्ययनदेवार्चाशिष्यादिभरणोद्यतः॥ 29.81 ॥
गृहस्य इति विज्ञेयः स्वदारव्रतिको नरः।
सर्वातिथ्यपरो नित्यं कामभोजी सुखान्वितः॥ 29.82 ॥
देवोत्सवपरो भक्तः पर्वयाज्याढ्य उच्यते।
याजनाध्यापने युक्तो यागे वैदिकतान्त्रिके॥ 29.83 ॥
नित्ययाजी जितकोध आचार्योऽनुग्रहोन्मुखः।
तथा वैखानसस्तन्त्री गुरुर्निष्कल एव च॥ 29.84 ॥
वानप्रस्थश्चतुर्धैव तन्त्रेऽस्मिन् परिकीर्तितः।
अक्षारलवणाशी यो व्याख्याता पुत्रदारवान्॥ 29.85 ॥
स्थण्डिलाजिनशायी च ध्यायन् वैखानसः सदा।
वन्यवृत्तिस्रिसन्ध्यार्ची जपहोमपरायणः॥ 29.86 ॥
वल्कलाजिनवस्तन्त्री दर्भशायी जपन् सदा।
त्रिः स्नायी नियतावासश्चीरी मूलफलाशनः॥ 29.87 ॥
तीर्थस्नातोऽर्चयन् ध्यायन् द्विषट्कजपवान् गुरुः।
यदृच्छालाभसन्तुष्टो नक्तभोजी दृढव्रतः॥ 29.88 ॥
चीरी विमत्सरो मौनी निष्कलोऽह्नस्त्रिरर्चयन्।
हंसः परमहंसश्च भगवान् प्रभुरित्यपि॥ 29.89 ॥
चतुर्विधः समाख्यातस्तन्त्रेऽस्मिन् दीक्षितो यतिः।
शङ्खचक्रधरो नित्यमेकदण्ड्येकभैक्षभुक्॥ 29.90 ॥
सदार्ची कर्मविद् ध्यानी हंसो जपपरः सदा।
अद्वैतनिरतो दण्डी ज्ञानध्यानपरायणः॥ 29.91 ॥
शान्तोऽशिखोपवीतश्च भैक्षाहारो व्रतस्थितः।
यतिः परमहंसः स्यात् तन्त्रकर्मणि निष्ठितः॥ 29.92 ॥
शङ्खचक्रबृसीशिक्यकमण्डलुपवित्रवान्।
त्रिदण्डी पात्रवान् भिक्षुर्भगवान् योगपट्टभृत्॥ 29.93 ॥
एतान्येव वहन् नित्यं छत्रं प्रतिकृतिं तथा।
चक्रयागेन देवेशमर्चयन् नियतात्मवान्॥ 29.94 ॥
त्रिसन्ध्याराधने युक्तः सत्त्वस्थो जपवान् प्रभुः।
विषुवायनयोर्जन्मद्वादशीश्रवणेषु च॥ 29.95 ॥
अष्टम्यां च नवम्यां च पञ्चम्यां न स्त्रियं व्रजेत्।
मूलेन परिषिच्यान्नं स्पृष्ट्वा पीत्वा जलं तथा॥ 29.96 ॥
ध्यात्वाऽन्तः पुरुषं मौनी दीप्तवैश्वानरं तथा।
प्रणवेनाहुतीः पञ्च कुर्यात् पञ्चात्मने ततः॥ 29.97 ॥
वक्त्रमात्रं ग्रसेत् पिण्डं न हसेन्नोद्विजेत वा।
त्यजेत् सर्वत्र चापल्यं भोक्तव्यं शब्दवर्जितम्॥ 29.98 ॥
श्वोदक्यान्त्यजपाषण्डिकाकदेवलुकुक्कुटान्।
कारुकान् वा तदा पश्यन् स्नायात् त्यक्त्वाऽन्नमज्जसा॥ 29.99 ॥
पञ्चोपनिषदो जप्त्वा प्रोक्षयेत् प्रणवेन च।
विष्णुश्चाथ महाविष्णुः सदाविष्णुरिमे त्रयः॥ 29.100 ॥
सवनेषु क्रमात् पूज्या जपध्यानादिभिः सदा।
प्रातस्तु विष्णुगायत्री मध्याह्ने द्वादशाक्षरम्॥ 29.101 ॥
सायमष्टाक्षरं नित्यं मूलं वा सर्वदा जपेत्।
उत्थायानु गरुं स्नात्वा ध्यात्वा देवं प्रपूजयेत्॥ 29.102 ॥
निर्गच्छेत् सव्यपादेन प्रविशेच्चालयं पुनः।
गुरोरनुज्ञया भैक्षं चरेत् पात्रेण शं वदन्॥ 29.103 ॥
गुरवे दर्शयित्वा तु विन्यसेत् तदनुज्ञया।
आचम्य मूलमन्त्रेण हुत्वाऽग्नौ समिधः शुचिः॥ 29.104 ॥
आसने सुखमासीनः पादौ विन्यस्य भूतले।
पात्रं च वामहस्तेन स्पृशन् प्राणाहुतीश्चरेत्॥ 29.105 ॥
यद्युत्तिष्ठेदनाचान्तो भुक्तवानासनाद् द्विजः।
स्नानं सद्यस्तु कर्तव्यं तस्मात् तत्रैव चाचमेत्॥ 29.106 ॥
सन्ध्यामुपास्य भूयोऽपि हुत्वा च समिधस्तथा।
अर्चयित्वा हरिं भिक्षां चरेत् पूर्ववदेव च॥ 29.107 ॥
एवं प्रातश्च सायं च गुरोर्वचनमास्थितः।
गुरोरनुज्ञया पश्चाद् गृहस्थाश्रममाश्रितः॥ 29.108 ॥
Chapter - 30
अथ वक्ष्यामि संक्षेपाद् योगं भागवतं परम्।
यदन्यैरश्रुतं पूर्वं हितानां परमं हितम्॥ 30.1 ॥
युक्ताहारविहारस्तु युक्तचेष्टः समाहितः।
योगं भागवतं नित्यमभ्यसेन्नियतात्मवान्॥ 30.2 ॥
पञ्चकालविभागज्ञो मितभाषी मिताशनः।
कामक्रोधादिजिद् भक्तः समलोष्टाश्मकाञ्चनः॥ 30.3 ॥
समयाचारसंयुक्तो जपध्यानपरायणः।
एकान्ते विजने स्थाने निवाते शब्दवर्जिते॥ 30.4 ॥
बद्ध्वा योगासनं मौनी योगं युञ्जीत योगवित्।
पूजयित्वा हरिं पूजां तत्रैव प्रतिपादयेत्॥ 30.5 ॥
किङ्करत्वेन चात्मानं कृताञ्जलिरधोमुखः।
न याचेत फलं किञ्चित् प्रसन्नो दास्यति स्वयम्॥ 30.6 ॥
जानात्येव हि कालं स भक्तिपूजागुणागुणान्।
प्रसन्नस्त्वनुगृह्णीयात् त्वरया न कदाचन॥ 30.7 ॥
नत्वेव नानुगृह्णीयाज्जन्मान्तरशतेष्वपि।
कर्मणां पच्यमानानामपरेषां परिक्षये॥ 30.8 ॥
प्रकाशयति भक्तानां हरिः कुर्वन्ननुग्रहम्।
ततस्तु संपदेवास्य पुरस्तादुपलक्ष्यते॥ 30.9 ॥
क्षीयन्तेऽस्यारयो नित्यं वर्धन्ते संपदः स्वयम्।
फलं त्वयत्नाद् भूयः स्यान्नश्यन्ति व्याधयः स्वयम्॥ 30.10 ॥
न क्वचिच्चास्य संक्लेशो वर्धन्ते पशवः प्रजाः।
दीर्घं चास्य भवेदायुर्जायन्ते सुभगाः प्रजाः॥ 30.11 ॥
प्रशंसन्ति जनाश्चैनं चोरयेयुर्न दस्यवः।
अनुपद्रवमैश्वर्यं चिरं तिष्ठत्ययन्त्रितम्॥ 30.12 ॥
धर्माद्यभिमुखी धीः स्यादधर्मादिपराङ्मुखी।
सुखेनैवापरान्तश्च पुण्यकाले भविष्यति॥ 30.13 ॥
जन्मोत्कृष्टकुले भूयो भक्तिश्च पुनरच्युते।
उत्कृष्टतम एव स्यात् तथा जन्मनि जन्मनि॥ 30.14 ॥
अक्लिष्टमष्टधैश्वर्यं तत्प्रसादाद् भविष्यति।
विहरेदिच्छया दीर्घं निर्वाणं वा तथाऽप्नुयात्॥ 30.15 ॥
भक्तेष्वस्य प्रसादेन भवितव्यं तु सर्वथा।
भ्रष्टोऽपि विविधान् कामानाप्नुयान्न विमुच्यते॥ 30.16 ॥
किन्तु कर्मानुबन्धेन संसारे क्लेशसम्भवः।
तस्मात् तद्भक्तिरेवास्य संपदां कारणं भवेत्॥ 30.17 ॥
तज्ज्ञानेन नृणां भक्तिर्वर्धनीया प्रयत्नतः।
वर्धिता तु विशेषेण सैनं नयति सत्पथम्॥ 30.18 ॥
तस्मात् कार्यो विवेकोऽत्र गुणदोषा यथा स्थिताः।
चिन्तयेदखिलान् दोषानेकान्ते शुद्धमानसः॥ 30.19 ॥
कामकोपादिभिर्मुक्तं मनः शुद्धं भविष्यति।
अभ्यासेन भवेच्छुद्धिर्मनसो योगवर्त्मनि॥ 30.20 ॥
शुद्धे मनसि तद्भक्तिर्जायते तस्य निश्चला।
तस्यां समुपजातायां तत्त्वे चेतोऽवतिष्ठते॥ 30.21 ॥
रागद्वेषपरीतस्य विफलं तत्त्वदर्शनम्।
तस्मात् तौ पूर्वमुत्सार्यौ तत्त्वं सम्यग् दिदृक्षुणा॥ 30.22 ॥
पुण्यदेशेषु दृष्टेषु भयेषु मरणेषु च।
तथा रोगावमानेषु वैराग्यमुपजायते॥ 30.23 ॥
मरणादिषु दृष्टेषु स्वयमेव समाहितः।
बुद्ध्या विवेकमातिष्ठेन्नित्यं वैराग्यकारणम्॥ 30.24 ॥
विवेकाज्जायते भक्तिर्वैराग्यं चास्य सर्वदा।
ततस्तत्त्वगता बुद्धिर्भविष्यत्यनपायिनी॥ 30.25 ॥
न भोगेषु प्रसक्तः स्यान्न कुर्याद् दुर्लभे मतिम्।
अल्पेन परितुष्टः स्यान्नित्यं भागवतो बुधः॥ 30.26 ॥
विपाकं कर्मणामेव पश्येत् पश्यन् प्रियाप्रिये।
इदं युक्तमिदं नेति नानुशोचेत् कदाचन॥ 30.27 ॥
प्रभुत्वं नात्मनः किञ्चिदिति पश्येद् विवेकवान्।
घोषयेन्नैव कृत्यानि न कुर्यात् संभ्रमं क्वचित्॥ 30.28 ॥
न चाकाङ्क्षेद् यशः किञ्चिद् देवदेवस्य पूजनात्।
यथा मनः प्रियेष्वेवं सक्तं देवे च भावयेत्॥ 30.29 ॥
नित्यं भक्तौ तु जातायां जायते तत्त्वदर्शनम्।
तत्त्वविद् यत्र तत्रस्थो मुक्तसङ्गः परिव्रजेत्॥ 30.30 ॥
एक एव पुनस्तीर्थं क्षेत्रं चानुव्रजेत् सदा।
भक्त्या देवमनुध्यायेत् तन्निष्ठस्तत्परायणः॥ 30.31 ॥
अन्तकाले च तं स्मृत्वा तत्सायुज्यमवाप्नुयात्।
विरक्तोऽखिलतत्त्वानि विलाप्य परमात्मनि॥ 30.32 ॥
कृत्वा निर्विषयं चित्तमुदासीनो विमुच्यते।
ऐश्वर्येऽपि स्थितो योगी न देवं जातु विस्मरेत्॥ 30.33 ॥
यतः कालक्रमेण स्यादुपघातोऽन्यथा ध्रुवम्।
सायुज्यं प्रतिपन्नास्तु ये भक्ताः शुद्धचेतसः॥ 30.34 ॥
तेविष्णोः किङ्करा नित्यं भवन्ति निरुपद्रवाः।
तेषां भक्त्पराधेन संसारः संभवेत् पुनः॥ 30.35 ॥
अन्यथा स्थितिरेव स्याद् वैराग्यान्मुक्तिरेव वा।
निवृत्तास्तु विशिष्यन्ते सर्वेभ्यस्तत्त्वदर्शिनः॥ 30.36 ॥
नैव तेषां भवो भूयः प्रमादो वेह कश्चन।
मुक्तिरेव तु विज्ञेया गतीनामुत्तमा गतिः॥ 30.37 ॥
अन्यास्तु गतयः सर्वाः सप्रमादाः स्युरध्रुवाः।
तथाऽपि मतिवैचित्र्यादुभयं संमतं नृणाम्॥ 30.38 ॥
ऐश्वर्यमपवर्गो वा कस्यचित् किञ्चिदेव तु।
तद्गता भक्तिरेवैषामुभयस्यापि साधनी॥ 30.39 ॥
समाधेर्वर्धमानस्य विभागाद् भेदकारिणः।
सत्त्वस्थे यत्नतश्चित्ते योगाङ्गानि निषेवते॥ 30.40 ॥
तेषु स्थित्वा स्मरेद् विष्णुमेकाग्रेण तु चेतसा।
तमः क्षरति तेनास्य रजश्च वशिनः क्रमात्॥ 30.41 ॥
ततो जन्मभिरुकृष्टैः सिद्धिमेवाधिगच्छति।
यदा तु सत्त्वमातिष्ठेदस्पृष्टो रजसा क्वचित्॥ 30.42 ॥
ततोऽस्य मुक्तिरेव स्यात् सायुज्यं वा महात्मनः।
तस्माद् भक्तिं सदाऽन्विच्छेद् याऽस्य सर्वस्य कारणम्॥ 30.43 ॥
भक्तावच्यमानायां भवेच्छ्रेयोऽस्य नान्यथा।
अन्तरायास्तु ये नित्यं योगाभ्यासस्य दूषकाः॥ 30.44 ॥
तेषु प्रसज्यमानेषु तत्त्वदर्शनमाश्रयेत्।
नातिवेलं सदाभ्यस्येन्न शरीरं च पीडयेत्॥ 30.45 ॥
विषयेभ्योऽपि यत्नेन निवर्तेत शनैः शनैः।
अपूर्वदर्शने चैव लोकवादाश्रये तथा॥ 30.46 ॥
मोघचिन्ताप्रसङ्गे च योगमिच्छेन्नरो बुधः।
निवृत्तेष्वेषु सर्वेषु भक्तिः पुंसो विवर्धने॥ 30.47 ॥
विषया दुस्त्यजाः सेव्या धर्मशास्त्राविरोधिनः।
बह्वपायत्वयोगेन यत्नाद् वेच्छां निवर्तयेत्॥ 30.48 ॥
येभ्यो निवर्तमानस्य मनः शुद्धं भवेत् सदा।
निवृत्तेरभ्युपायश्च शुद्धिरेव परात्मनः॥ 30.49 ॥
शुद्धावाद्रियमाणायां बीभत्सुर्विषयेष्वयम्।
जायते नाशुचिष्वेव संसर्गोऽस्य भविष्यति॥ 30.50 ॥
अशुचीनामसंसर्गाच्चित्तमस्य प्रसीदति।
प्रसादे निःस्पृहस्यास्य भक्तिर्मुक्तिस्ततो ध्रुवा॥ 30.51 ॥
शब्दादिविषयाञ् जित्वा रुद्धा द्वाराणि सर्वशः।
प्रविलाप्येन्द्रियाण्यन्तश्चिन्तयेत् परमं पदम्॥ 30.52 ॥
संयम्य मारुतान् पञ्च योगाभ्यासेन योगवित्।
स्थिरीकृतमना नित्यं ध्यायेत् तत् परमं पदम्॥ 30.53 ॥
वर्णाश्च पञ्चवायूनामन्तस्थानां विचिन्तयेत्।
मध्ये मध्ये तु पुर्वेषां क्रमाद् ध्येयाः परे परे॥ 30.54 ॥
काशवर्णो भवेत् प्राणो रक्तोऽपानोऽस्य मध्यगः।
विद्युत्स्फुरितभा व्यान उदानः कुन्दसन्निभः॥ 30.55 ॥
समानस्तु ततो ध्येयः शुद्धस्फटिकसन्निभः।
एवं ध्यात्वा निरुध्यान्तः क्रमशः पञ्च मारुतान्॥ 30.56 ॥
षडङ्गानि च विज्ञाय प्रयुञ्जीत यथाविधि।
प्राणायामोऽत्र पूर्वं तु प्रत्याहारोऽथ धारणा॥ 30.57 ॥
ततस्तर्कः समाधिश्च ध्यानं चाङ्गानि षट् क्रमात्।
ये प्रोक्ता योगिभिः पूर्वं पूररेचककुम्भकाः॥ 30.58 ॥
प्राणायामास्तु विज्ञेया मात्राभिस्ते पृथक् क्रमात्।
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम्॥ 30.59 ॥
क्रियते योऽङ्गुलिस्फोटः सा मात्रेह प्रकीर्तिता।
यदा द्वादशमात्राभिः पूरकः क्रियते तदा॥ 30.60 ॥
रेचको द्विगुणाभिः स्यात् त्रिगुणाभिश्च कुम्भकः।
प्राणानां यस्त्विहायामः क्रमादेवं प्रकीर्तितः॥ 30.61 ॥
सर्वशास्त्रेषु शास्त्रज्ञैः प्राणायामः स उच्यते।
धारणा तु भवेद् या सा प्राणायामैस्त्रिभिः स्मृता॥ 30.62 ॥
श्यामा पीताऽरुणा शुक्ला क्रमाज्ज्ञेया च धारणा।
नाभिमध्यगतेनादौ बीजेन पुरुषात्मना॥ 30.63 ॥
वायव्या धारणा कार्या सा श्यामा पूरकात्मिका।
ततो विश्वात्मबीजेन रक्तेन हृदि या कृता॥ 30.64 ॥
आग्नेयी सा समुद्दिष्टा द्वितीया रेचका मता।
कण्ठे निवृत्तिबीजेन पीतेन क्रियते तु या॥ 30.65 ॥
माहेन्द्री सा समुद्दिष्टा धारणा कुम्भकात्मिका।
मूर्ध्नि सर्वात्मबीजेन शुक्लेनैतैस्त्रिभिस्त्रिभिः॥ 30.66 ॥
क्रियते धारणा यान्त्या वारुणी सा प्रकीर्तिता।
स्थितेषु तेषु बीजेषु चैतन्यं धार्यते यदा॥ 30.67 ॥
तद्गुणान्वितमित्येव जगत् सर्वं तदा स्मरेत्।
नाभ्यादिषु यथोद्दिष्टं बीजं भूतगुणात्मकम्॥ 30.68 ॥
क्रियाभिर्धार्यते याभिस्तत्क्रिया धारणा मता।
अन्वयव्यतिरेकाभ्यां यस्माद् यदुपलभ्यते॥ 30.69 ॥
धारणादिषु कालेषु स तर्कः सम्प्रकीर्तितः।
आवप्रयासरूपेण यथाकर्म गुणात्मकम्॥ 30.70 ॥
समाधिश्चेह विज्ञेयो धारणाभिस्त्रिभिस्त्रिभिः।
ध्यातृध्येयस्वरूपं यत् तत्र रुन्ध्यात् प्रदर्शनम्॥ 30.71 ॥
समाधित्रिगुणं यावदेवं ध्यानस्य लक्षणम्।
एवं सर्वात्मना यस्य ज्ञेयैस्तुल्यः कथञ्चन॥ 30.72 ॥
योगोऽसौ योगिभिः प्रोक्तो विज्ञानक्रमयोगतः।
गुणानां यः समाहारः सहायस्य च चेतसः॥ 30.73 ॥
सद्भावभावतो बुद्ध्या स योगश्चेह कीर्तितः।
स च ज्ञानक्रियाभेदाद् ज्ञेयो योगो द्विधा बुधैः॥ 30.74 ॥
अन्तः करणवृत्त्या या तेषामात्मैकता मता।
ज्ञानयोगः स उद्दिष्टः कर्मयोगः क्रियात्मकः॥ 30.75 ॥
इष्ट्वाऽऽदौ कर्मयोगेन ज्ञानयोगेन तं यजेत्।
कायिकैर्वाचिकैश्चैव मानसैश्च पुनः क्रमात्॥ 30.76 ॥
स्थूले निवेशितं चित्तं पुनः सूक्ष्मे निवेशयेत्।
पररूपे यदा युक्तस्तदाऽसौ मुक्त उच्यते॥ 30.77 ॥
परात्परतरं ज्योतिश्चिद्रूपमचलं ध्रुवम्।
यः प्रपश्यति बुद्ध्याऽसौ न पुनर्भुवि जायते॥ 30.78 ॥
तस्मात् सर्वप्रयत्नेन भक्तो योगी भवेत् सदा।
युक्तो देवमुपासीत सिद्धिरेवं भविष्यति॥ 30.79 ॥
एवं ते सकलाऽऽख्याता मयाऽल्पा विष्णुसंहिता।
साक्षाद्विष्णुमुखादेषा मया प्राप्ता युगान्तरे॥ 30.80 ॥
ज्ञानानां परमं ज्ञानं गुह्यानां गुह्यमुत्तमम्।
हितानां च हितं नान्यदतो रक्ष्यमिदं त्वया॥ 30.81 ॥
यथाऽहं श्रुतवान् पूर्वं साक्षाद् भगवतो मुखात्।
तथेदमखिलं तन्त्रं मया तुभ्यं निवेदितम्॥ 30.82॥
नादीक्षिताय दातव्यं नासंवत्सरवासिने।
नाभक्तायाविनीताय नान्यभक्ताय वा क्वचित्॥ 30.83 ॥
कृतज्ञाय विनीताय शुचये ब्रह्मचारिणे।
वक्तव्यं सर्वथाऽऽचार्यैरित्येवं विष्णुशासनम्॥ 30.84 ॥
गुप्तं हि स्थापयेत् सर्वमगुप्तं नाशयेन्नरः।
तस्मात् सर्वप्रयत्नेन गोप्यमेतत् सदा बुधैः॥ 30.85 ॥
यः पठेच्छृणुयान्नित्यं श्रावयेद् वा समाहितः।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥ 30.86 ॥
तस्माद् भक्तैरिदं नित्यमध्येयं श्राव्यमेव च।
पुस्तके लिखितं नित्यं पूजनीयं प्रयत्नतः॥ 30.87 ॥
यत्रेदं प्रयतैर्नित्यं पूज्यते पुस्तकस्थितम्।
न तत्र व्याधिचोरादिभयं किञ्चित् प्रजायते॥ 30.88 ॥
तस्मात् सर्वप्रयत्नेन गृहे सततमर्चयेत्।
स्थापयेद् गोपयेच्चात्र वर्धते श्रीरचञ्चला॥ 30.89 ॥