Śrīkoṣa

Aniruddha Samhita

By Unknown

Composed in Unknown

34 chapters1730 verses

Filter Content

Display Mode

Chapter - 1 शास्त्रावतरणं

०१ शास्त्रावतरणं
हिमाद्रिशिखरे क्षेत्रे सर्वसिद्धनिषेविते ।
सर्वविद्याधरैस्सर्व गन्धर्वैश्चैव सेविते ॥ १ ॥
View Verse
सर्वसिद्धमुनिश्रेष्ठैः सर्वदेवैस्समाकुले ।
नानामृगसमाकीर्णे नानापद्मसमाकुले ॥ २ ॥
View Verse
नानावृक्षसमाकीर्णे नानापुष्पसमाकुले ।
नानापक्षिसमाकीर्णे सुवर्णद्रुममण्डिते ॥ ३ ॥
View Verse
मृगनाभिसमायुक्ते काञ्चनस्थलशोभिते ।
क्रमुकैर्नालिकेरैश्च केतकैरुपशोभिते ॥ ४ ॥
View Verse
अप्सरोभिः समाकीर्णे मातङ्गैरुपशोभिते ।
मुनिमुख्यैस्समाकीर्णैराश्रमैरुपशोभिते ॥ ५ ॥
View Verse
वापीकूपतटाकाद्यैः पद्मगैरुपशोभिते ।
View Verse
चन्दनैर्वकुलैश्चैव पद्मषण्डैस्समाकुले ।
कुमुदोत्पलकह्लारैः निधिरत्नैः समाकुले ॥ ७ ॥
View Verse
मातुलुङ्गसमायुक्ते पनसैरुपशोभिते ।
गोगजैश्च समाकीर्णे ब्राह्मणैश्च समवृते ॥ ८ ॥
View Verse
तस्मिन्मध्ये समासीनमाश्रमे परमात्मने ।
भृगुं वेदविदां श्रेष्ठमात्मध्यानपरायणम् ॥ ९ ॥
View Verse
वेदवेदाङ्गतत्त्वज्ञं सर्वशास्त्रार्थकोविदम् ।
उन्द्यदादित्यसङ्काशं चन्द्रबिम्बनिभाननम् ॥ १० ॥
View Verse
पवित्रपाणिसंयुक्तं कृष्णाजिनधरं परम् ।
प्रशान्तमनसं सौम्यं वीरासनसमन्वितम् ॥ ११ ॥
View Verse
पार्श्वस्था मुनयः सर्वे प्रणिपत्य जगद्गुरुम् ।
ऊचुस्तं मुनयस्सर्वे एतद्वाक्यमतन्द्रिताः ॥ १२ ॥
View Verse
वेदास्सर्वे समासेन साङ्गोपाङ्गाः सविस्तराः ।
त्वत्तः कमलपत्राक्ष श्रुताः पूर्वं दयापर ॥ १३ ॥
View Verse
श्रेयो मार्गे न पश्यामः तद्वदस्व महामुने ।
एतच्छ्रुत्वा महाप्राज्ञः प्रोवाच स महामुनिः ॥ १४ ॥
View Verse
भृगुः -
पुरा तपः प्रभावेन श्वेतद्वीपमुपागमम् ।
View Verse
गोपुरैश्च समायुक्तमनेकावरणैर्युतम् ।
बहुमण्डपसंयुक्तं बहुपादसमन्वितम् ॥ १६ ॥
View Verse
उद्यानादि समायुक्तं पादविप्रैः ? प्रतिष्ठितम् ।
प्रस्तरैश्च समायुक्तमनेकतलसंयुतम् ॥ १७ ॥
View Verse
तोरणैः पञ्जरैर्युक्तं पताकाभिरलङ्कृतम् ।
गरुडैश्च समायुक्तं कोणसिंहसमन्वितम् ॥ १८ ॥
View Verse
प्रासादं सम्प्रविश्याहं हेमाद्रिसदृशाकृतिम् ।
तत्प्रणम्य महाप्राज्ञं अन्तरं सम्प्रविश्य च ॥ १९ ॥
View Verse
प्रदक्षिणं क्रमात्कृत्वा आदिमूर्तिं सम्प्रणम्य च ।
विमानोत्तरपार्श्वे तु अनिरुद्धं प्रणम्य च ॥ २० ॥
View Verse
तस्यान्तिकं समासाद्य पूजयामि जगत्पतिम् ।
पूर्वोक्तक्रमयोगेन चतुःस्थानार्चनैर्युतम् ॥ २१ ॥
View Verse
आसनाद्युपचारैश्च अर्घ्यादिद्रव्यसङ्गतैः ।
निवेदनैरपूपाद्यैर्मधुपर्कपुरस्सरम् ॥ २२ ॥
View Verse
इत्येवं चिरकाले तु याते प्रत्यक्षमादिशत् ।
देवदेवो जगन्नाथोऽनिरुद्धः परमःपुमान् ॥ २३ ॥
View Verse
नीलमेघनिभश्शान्तश्चन्द्रबिम्बनिभाननः ।
हारकेयूरसंयुक्तो मुकुटेन विराजितः ॥ २४ ॥
View Verse
श्रीवत्सकौस्तुभोरस्को वनमालाविराजितः ।
पीताम्बरधरःस्रग्वी शङ्खचक्रगदाधरः ॥ २५ ॥
View Verse
आविरासीज्जगन्नाथः कृपया परया विभुः ।
तं दृष्ट्वा विस्मयाविष्टाः स्तोत्रैः स्तुत्वा जगत्पतिम् ॥ २६ ॥
View Verse
नमस्ते पुण्डरीकाक्ष नमस्ते गरुडध्वज ।
नमस्ते भुवनाधार नमस्ते चतुरात्मक ॥ २७ ॥
View Verse
नमस्ते कमलाकान्त नमस्ते करुणाकर ।
नमस्ते सर्वलोकेश नमस्ते श्रीधराय च ॥ २८ ॥
View Verse
नमस्ते देवदेवेश नमस्ते लोकपावन ।
स्तोत्रेणानेन विप्रेन्द्र प्रसन्नोभूज्जनार्दनः ॥ २९ ॥
View Verse
श्रीभगवान्
वरं वृणीष्व भद्रं ते प्रसन्नोऽहं तवानघ ।
भृगुः -
विदितस्सर्वशास्त्रार्थो वेदवेदाङ्गकं परम् ॥ ३० ॥
View Verse
त्वत्प्रसादेन देवेश श्रुतं पूर्वं मया विभो ।
मुक्तिमार्गं न पश्यामि इदानीं तद्वदस्व मे ॥ ३१ ॥
View Verse
श्रीभगवान् -
पञ्चरात्रोक्तमार्गेण भुक्तिर्मुक्तिश्च जायते ।
पञ्चरात्रादृते विप्र मुक्तिमार्गो न विद्यते ॥ ३२ ॥
View Verse
भृगुः -
पञ्चरात्रं च किं देव केन प्रोक्तं जगत्पते ।
श्रुतं केन हृषीकेश मुक्तिः केन प्रलभ्यते ॥ ३३ ॥
View Verse
पञ्चरात्रस्य शब्दस्य कश्चार्थो ब्रूहि तत्त्वतः ।
श्री भगवान्
पञ्चरात्रं मया प्रोक्तं लोकानां हितकाम्यया ॥ ३४ ॥
View Verse
ब्रह्मेन्द्ररुद्रदेवांश्च श्रावयामास भूतले ।
साङ्ख्ययोगादिशास्त्राणि रात्रीयन्ते महान्त्यपि ॥ ३५ ॥
View Verse
तत्सन्निधौ समाख्यासौ तेन लोके प्रवर्तते ।
चन्द्रतारागणं यद्वच्छोभते नैव वासरे ॥ ३६ ॥
View Verse
तथेतराणि शोभन्ते पञ्च नैवास्य सन्निधौ ।
पञ्चत्वमथा यद्वद्दीप्यमाने दिवाकरे ॥ ३७ ॥
View Verse
ऋच्छन्ति रात्रयस्तद्वदितराणि तदन्तिके ।
तस्मात्पञ्चरात्राख्यं ब्रह्मा लोकपितामहः ॥ ३८ ॥
View Verse
प्रणवं पञ्चसम्भूतं पञ्चरात्रमिति स्मृतम् ।
पञ्चत्वाज्जायते जन्तोः पञ्चरात्रमितिस्मृतम् ॥ ३९ ॥
View Verse
पञ्चरात्रप्रकारेण येऽर्चयिष्यन्ति मानवाः ।
View Verse
पञ्चरात्रमिदं शास्त्रं भुक्तिमुक्तिप्रदायकम् ।
मच्छासनमिदं शास्त्र मिदं गृह्णिष्व सादरम् ॥ ४१ ॥
View Verse
मत्प्रसादाद्विशेषेण शास्त्रपारङ्गतो भव ।
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ॥ ४२ ॥
View Verse
अहं शास्त्रं समादाय गमिष्यामि ममाश्रमम् ।
एतच्छास्त्रमुपाश्रित्य मुक्तिमार्गः प्रसिध्यति ॥ ४३ ॥
View Verse

Chapter - 2 शास्त्रप्रशंसा

०२ शास्त्रप्रशंसा
अथ द्वितीयोऽध्यायः
भृगुः -
पञ्चरात्रं समादाय दीक्षा तेनैव मार्गतः ।
अनिरुद्धप्रशस्तेन पञ्चरात्रेण मीयते ॥ १ ॥
View Verse
ऋषयः -
पञ्चरात्रमिदं कीदृक् तद्वदस्व महामुने ।
भृगुः -
पञ्चरात्रं महाज्ञानं नारायणसमीरितम् ॥ २ ॥
View Verse
पञ्चरात्रात्परं शास्त्रं न भूतं न भविष्यति ।
ब्राह्मणः सर्ववर्णेषु यतिश्चाश्रमिषूतमः ॥ ३ ॥
View Verse
यद्वद्गङ्गा च तीर्थेषु देवतेष्वपि चाच्युतः ।
अश्वत्थः सर्ववृक्षेषु नक्षत्रेषु च चन्द्रमाः ॥ ४ ॥
View Verse
आदित्यानां यथा विष्णू रुद्राणां शङ्करो यथा ।
वेदानां सामवेदस्तु नराणां च नराधिपः ॥ ५ ॥
View Verse
शास्त्रेष्वपि च सर्वेषु पञ्चरात्रं तथा भवेत् ।
यथा हि सर्वदेवानां वरिष्ठो विष्णुरव्ययः ॥ ६ ॥
View Verse
तथा सर्वेषु शास्त्रेषु पञ्चरात्रं वरिष्ठकम् ।
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ॥ ७ ॥
View Verse
पञ्चरात्रं विशेषेण विष्णुना भाषितं यथा ।
अतः प्रमाणं लोकेऽस्मिन् धर्मशास्त्रेषु सर्वशः ॥ ८ ॥
View Verse
धर्मशास्त्रेषु सर्वेषु आगमेषु विशेषतः ।
पुराणेष्वपि सर्वेषु पञ्चरात्रं प्रमाणकं ॥ ९ ॥
View Verse
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
श्रोतारो मूर्तिभेदाश्च ऋषयश्च पितामहाः ॥ १० ॥
View Verse
वैष्णवं शासनं शुभ्रमच्छिद्रं पापनाशनम् ।
हितार्थं सर्वभूतानामादिदेवेन चोदितम् ॥ ११ ॥
View Verse
चतुष्पादसमायुक्तं चतुर्वर्गफलप्रदम् ।
पञ्चमं वेदमाख्यातं पञ्चरात्रं तु पावनम् ॥ १२ ॥
View Verse
पुण्यानां हि महत्पुण्यं पावनानां हि पावनम् ।
पुराणानां पुराणं हि धर्माणामपि धर्मकम् ॥ १३ ॥
View Verse
भगवद्भक्तजैश्चैव भगवच्छास्त्रमुच्यते ।
पुराणपुरुषेणोक्तं पुराणं पञ्चरात्रकम् ॥ १४ ॥
View Verse
पुराणं वैष्णवं प्रोक्तं पञ्चरात्रं च पावनम् ।
नारायणमुखोद्भूतं ब्राह्मणेनैव सेवितम् ॥ १५ ॥
View Verse
ब्राह्मणं पञ्चरात्रं च वेदं विष्णुमुखोद्गतम् ।
पञ्चरात्रविदं विप्रं देववत्प्रतिभावयेत् ॥ १६ ॥
View Verse
प्रणमेद्दण्डवद्भूमौ दृष्टमात्रं तु वैष्णवम् ।
अनादृत्य तु सम्मोहाद्दूरयात्रा भवेद्यदि ॥ १७ ॥
View Verse
नरकाय भवन्त्येते नात्र कार्या विचारणा ।
पञ्चरात्रमिदं विप्र नारायणमुखोद्गतम् ॥ १८ ॥
View Verse
निन्देद्यदि तु सम्मोहान्नरकाय भवेत् ध्रुवम् ।
पञ्चरात्रविदो दानं कोटिगोदानजं फलम् ॥ १९ ॥
View Verse

Chapter - 3 आचार्यलक्षणम्

०३ आचार्यलक्षणम्
अथ तृतीयोऽध्यायः
भगवान् -
आचार्यलक्षणं वक्ष्ये समासान्मुनिपुङ्गव ।
ब्राह्मणं योनिजं शुद्धं नियतब्रह्मवादिनम् ॥ १ ॥
View Verse
पञ्चरात्रविदं दान्तं सदाचारसमन्वितम् ।
युवानं कोमलं शान्तं सर्वावयवशोभितम् ॥ २ ॥
View Verse
वेदवेदाङ्गतत्वज्ञं श्रौतस्मार्तक्रियापरम् ।
मच्चित्तं मद्गतप्राणं मदाराधनतत्परम् ॥ ३ ॥
View Verse
मन्नामकीर्तनपरं मत्कथालोलुपम्मनः ।
गुणवन्तं शुचिं दक्षं सत्यवादिजितेन्द्रियम् ॥ ४ ॥
View Verse
शास्त्रज्ञ कर्मकुशलं पञ्चरात्रार्थवेदिनम् ।
पवित्रपाणिनिरतं प्राणायामपरायणम् ॥ ५ ॥
View Verse
पञ्चकालक्रियायुक्तं पञ्चयज्ञसमन्वितम् ।
मुद्रामण्डलकुण्डज्ञं मण्डलार्चनतत्परम् ॥ ६ ॥
View Verse
व्रतोपवासनिरतं दयाशीलगुणान्वितम् ।
सर्वपापविनिर्मुक्तं सर्वदोषविवर्जितम् ॥ ७ ॥
View Verse
कर्षणादिक्रियादक्षं नित्यस्नानक्रियापरम् ।
पवित्रकर्मकुशलं प्रतिष्ठाकर्मलम्पटम् ॥ ८ ॥
View Verse
उत्सवादिक्रियादक्षं सहस्रकलशे क्षमम् ।
द्वादश्याराधनपरं द्वादशाक्षरचिन्तकम् ॥ ९ ॥
View Verse
स्वतन्त्रकर्मकुशलं योगाग्निनिरतं शुचिम् ।
शङ्कचक्राङ्कितभुजं धृतपञ्चाङ्गभूषणम् ॥ १० ॥
View Verse
चिदचिदीश्वरतत्त्वज्ञं मन्त्रयन्त्रक्रियापरम् ।
शिल्पशास्त्रविचारज्ञं शिल्पनिर्माणकोविदम् ॥ ११ ॥
View Verse
स्मितपूर्वाभिभाषं च गुरुपूजापरान्वितम् ।
स्वदारनिरतं भोगसुखिनं पुत्रसंयुतम् ॥ १२ ॥
View Verse
क्षयकुष्ठादिरहितमनाचारविवर्जितम् ।
समयाचारसंयुक्तं जितक्रोधं जितेन्द्रियम् ॥ १३ ॥
View Verse
सर्वभूतदयायुक्तं कल्याणावयवान्वितम् ।
कल्याणकर्मसंयुक्तं काममोहविवर्जितम् ॥ १४ ॥
View Verse
सालग्रामार्चनपरं गीतनृत्तविशारदम् ।
वाद्यवादनवर्गज्ञं तालवर्गविशारदम् ॥ १५ ॥
View Verse
एभिर्गुणैस्समायुक्तमाचार्यं वरयेत्सुधीः ।
शिष्यस्सर्वगुणोपेतस्सत्यवादी दयापरः ॥ १६ ॥
View Verse
विनयादिगुणैर्युक्तः धर्मश्रुतिपरायणः ।
ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रौ तथापरौ ॥ १७ ॥
View Verse
ब्रह्मचारी गृहस्थश्च वानप्रस्थोऽथ भिक्षुकः ।
एतच्छास्त्रोक्तमार्गेण दीक्षयेत्प्रथमं द्विजः ॥ १८ ॥
View Verse

Chapter - 4 शास्त्रदीक्षाविधिः

०४ शास्त्रदीक्षाविधिः
अथ चतुर्थोऽध्यायः
श्रीभगवान्
दीक्षाविधिमथो वक्ष्ये समासान्मुनिपुङ्गव ।
उत्तरायणकाले तु दीक्षाकर्म समाचरेत् ॥ १ ॥
View Verse
शुभवारे शुभदिने शिष्यस्याथगुणान्विते ।
यदा शिष्यमनः प्रीतं तदा कालमुदाहृतम् ॥ २ ॥
View Verse
शुक्लपक्षे विशेषेण द्वादश्यामपि दीक्षयेत् ।
दीयते ज्ञानमेवेह क्षीयते पापसञ्चयः ॥ ३ ॥
View Verse
दीयते क्षीयते चैव ततो दीक्षाऽभिधीयते ।
दीक्षा च द्विविधा प्रोक्ता शास्त्रं मन्त्रमिति द्विधा ॥ ४ ॥
View Verse
प्रथमं शास्त्रदीक्षां च शृणु ब्रह्मन् महामुने ।
शास्त्रपारङ्गतं विप्रं पूर्वोक्तगुणसंयुतम् ॥ ५ ॥
View Verse
गुरुमभ्यर्चयेच्छिष्यः शास्त्रविन्निरतं मुनिम् ।
आचार्यवरणं पूर्वं द्रव्योपादानमेव च ॥ ६ ॥
View Verse
अङ्कुरार्पणकञ्चैवमधिवासमनन्तरम् ।
नेत्रकौतुकबन्धञ्च शास्त्रपीठाधिवासनम् ॥ ७ ॥
View Verse
कुम्भमण्डलवह्निस्थदेवपूजापुरस्सरम् ।
द्वारार्चनं पुरा कृत्वा प्रातस्नानमनन्तरम् ॥ ८ ॥
View Verse
ऊर्ध्वपुण्ड्रविधानं च ज्ञापयेत् तन्त्रपारगः ।
शङ्खचक्राङ्कितं कृत्वा द्वारादियजनं परम् ॥ ९ ॥
View Verse
त्रिस्थानाभ्यर्चनञ्चैव नेत्रबन्धमनन्तरम् ।
शास्त्रपीठार्चनं कृत्वा शास्त्रं सञ्ज्ञापयेत्सुधीः ॥ १० ॥
View Verse
नेत्रवस्त्रं विमुच्याथ आचार्यवरपूजनम् ।
एतत्कर्म मया प्रोक्तं तन्त्रेऽस्मिन् मुनिपुङ्गव ॥ ११ ॥
View Verse
दीक्षाङ्कुरार्पणं वक्ष्ये अवधारय साम्प्रतम् ।
सप्तमे पञ्चमे वापि तृतीयेऽहनि वापयेत् ॥ १२ ॥
View Verse
कर्मारम्भदिनात्पूर्वं प्रवृत्ते तु निशामुखे ।
मृद्ग्रहं पूर्वतः कृत्वा मण्डपालङ्कृतिं चरेत् ॥ १३ ॥
View Verse
पालिका द्वादशवराः मृदा सम्पूर्य देशिकः ।
व्रीहीनास्तीर्यचैतासु तन्मध्ये पालिकां न्यसेत् ॥ १४ ॥
View Verse
तत्पूर्वे बीजपात्रं तु पश्चिमे कुम्भकं न्यसेत् ।
द्वारपूजां ततः कृत्वा पुण्याहमपि वाचयेत् ॥ १५ ॥
View Verse
कुम्भे सम्पूजयेत्पश्चात् सोममन्त्रेण मन्त्रवित् ।
पात्राण्यभ्यर्चयेत्पश्चात् ब्रह्माविष्णुशिवात्मकान् ॥ १६ ॥
View Verse
बीजपात्रे तथा सोमं होममन्त्रेण होमयेत् ।
तिलं मुद्गं यवं माषं सर्षपं शालिमेव च ॥ १७ ॥
View Verse
निष्पावं च प्रियङ्गुं वा बीजाष्टकमुदाहृतम् ।
बीजपात्रं ततः कुर्यात् तत्तन्मन्त्रेण साधकः ॥ १८ ॥
View Verse
बलिं कृत्वा तु परितो रक्षां कुर्यादतन्द्रितः ।
यावत्कर्मदिनान्तं च पूजनं सम्यगाचरेत् ॥ १९ ॥
View Verse
चतुस्थानमर्चनं कुर्यात् द्वारपूजापुरस्सरम् ।
प्राशयेत्पञ्चगव्यं च विष्णुपादोदकं तथा ॥ २० ॥
View Verse
पुण्याहं वाचयित्वा तु कौतुकं बन्धयेत्सुधीः ।
यन्त्रमण्डलगं वापि नारायणकसञ्ज्ञकम् ॥ २१ ॥
View Verse
वासुदेवाख्य यन्त्रं वा विष्णुयन्त्रमथापि वा ।
केवलं मण्डलं वापि तन्त्रकान्तारशोभितम् ॥ २२ ॥
View Verse
दिव्यमन्त्रोदितं वापि मण्डलं कारयेद्बुधः ।
नेत्रम्बन्धं ततः कृत्वा प्राणायामत्रयं चरेत् ॥ २३ ॥
View Verse
तत्त्वन्यासं ततः कृत्वा मातृकान्यासमाचरेत् ।
मूलमन्त्रान्तरन्यासं मायासूत्रं च बन्धयेत् ॥ २४ ॥
View Verse
शास्त्रपीठं समभ्यर्च्य शयने सन्निवेशयेत् ।
स्थापयेद्वाससा पश्चात् बलिं दत्वा समन्ततः ॥ २५ ॥
View Verse
जागरेण नयेद्रात्रिं प्रातः स्तुत्वा जनार्दनम् ।
मायासूत्रं ततश्छित्वा शरावेषु विनिक्षिपेत् ॥ २६ ॥
View Verse
नेत्रबन्धं विसृज्याथ स्नापयेद्वा सशिष्यकम् ।
अलङ्कृत्य यथा न्यायं मण्डपे सन्निवेशयेत् ॥ २७ ॥
View Verse
स्वस्थाने तु समासीनो द्वारादियजनं चरेत् ।
कुम्भमभ्यर्चयेद्विद्वान् मण्डलं तदनन्तरम् ॥ २८ ॥
View Verse
होमकार्यं ततः कृत्वा शास्त्रपीठार्चन चरेत् ।
प्राणायामादिकं कृत्वा मन्त्रन्यासपुरस्सरम् ॥ २९ ॥
View Verse
शिष्यमानीय पार्श्वे तु समासीनं तदन्तिके ।
शास्त्रपीठं समानीस बोधयामास देशिकः ॥ ३० ॥
View Verse
संहितानामशेषानामाद्यन्तं वापि बोधयेत् ।
एतत्तन्त्रमथोवापि यथाकार्यानुरूपतः ॥ ३१ ॥
View Verse
आचार्यं पूजयेत् पश्चाद्वस्त्रहोमाङ्गुलीयकैः ।
गोभूहिरण्यरत्नाद्यैर्यथा वित्तानुरूपतः ॥ ३२ ॥
View Verse
शास्त्रदीक्षा मया प्रोक्ता तन्त्रदीक्षा तथैव च ।
ब्राह्मणस्य विशेषेण विधिरेषा प्रकीर्तिता ॥ ३३ ॥
View Verse
क्षत्रियस्यादिशूद्रान्तं शास्त्रदीक्षा न विद्यते ।
केवलं यन्त्र मन्त्रेण बोधयेद्देशिकोत्तमः ॥ ३४ ॥
View Verse
मुद्रामात्रमथोवापि मन्त्रयन्त्रमथापि वा ॥
इति श्रीपाञ्चरात्रे महोपनिषादि अनिरुद्धसंहितायां शास्त्रदीक्षाविधिर्नाम चतुर्थोऽध्यायः ॥
View Verse

Chapter - 5 यन्त्रविधानम्

०५ यन्त्रविधानम्
अथ पञ्चमोऽध्यायः
भगवान्-
विष्णुयन्त्रमथो वक्ष्ये शृणुष्व मुनिपुङ्गव ।
पुण्यक्षेत्रे विशेषेण देवतायतनेषु च ॥ १ ॥
View Verse
पर्वताग्रे नदीतीरे गोष्ठे शुद्धगृहेपि वा ।
मण्डपं कारयेद्धीमान् षोडशस्तम्भसंयुतम् ॥ २ ॥
View Verse
ऌप्तमण्डपमध्ये वा वेदिं कृत्वा प्रमाणतः ।
गोमयालेपनं कृत्वा तन्मध्ये यन्त्रमालिखेत् ॥ ३ ॥
View Verse
तालमानप्रमाणेन प्रणवं पूर्वमालिखेत् ।
षट्कोणं तद्बहिःकल्प्य ब्रहिर्वृत्तसमन्वितम् ॥ ४ ॥
View Verse
अर्धाङ्गुलप्रमाणेन वृत्तमालिख्य पूर्ववत् ।
चतुरङ्गुलमानेन वृत्तमुल्लिख्य साधकः ॥ ५ ॥
View Verse
तस्मिन्नेव विशेषेण अष्टपत्रं समालिखेत् ।
तन्मानेन बहिःकुर्यादष्टकोणं समालिखेत् ॥ ६ ॥
View Verse
अन्तःकोणेषु षड्वर्णं बहिःकोणेष्टवर्णकम् ।
तद्वहिः केसरं प्रोक्तं तद्बहिष्षोडशच्छदम् ॥ ७ ॥
View Verse
द्वादशाश्रं बहिःकुर्यात् द्वादशाक्षरमालिखेत् ।
केसरं च तथा कुर्याद्वात्रिंशच्छदमालिखेत् ॥ ८ ॥
View Verse
पत्राच्छतगुणं विप्र केसरं सम्प्रकीर्तितम् ।
चक्रं तु तद्बहिः कुर्यान्नाभ्यरन्नेमि संयुतम् ॥ ९ ॥
View Verse
एकाङ्गुलप्रमाणेन नाभिनेमिं समालिखेत् ।
चतुरङ्गुलमानेन अरक्षेत्रं परिकीर्तितम् ॥ १० ॥
View Verse
चतुर्विंशत्यरं कुर्यात्तदेकाङ्गुलमानतः ।
बहिःपीठादिकान् कल्प्य केवलाश्र मथापि वा ॥ ११ ॥
View Verse
षोडशाब्जे स्वरान् लिख्य वर्णं वक्ष्ये समासतः ।
नृसिंहानुष्ठुभञ्चैव द्वात्रिंशत्पत्रकं लिखेत् ॥ १२ ॥
View Verse
रेखास्सर्वाः सिताः प्रोक्ताः पीतवर्णेनचान्तरम् ।
षट्कोणं रक्तवर्णेन वर्णकं सितकं भवेत् ॥ १३ ॥
View Verse
कोणान्तरालमसितं केसरं पाण्डुरक्तकम् ।
अष्टपत्रं सितं कुर्यात् कृष्णं चैवान्तरालकम् ॥ १४ ॥
View Verse
बहिःकोणाष्टकं पीतं मध्यमं श्यामलं भवेत् ।
तद्बहिः केसरं विद्यात् रक्तवर्णेन पूरितम् ॥ १५ ॥
View Verse
पाण्डुरक्तनिभेनैव षोडशाब्जं प्रपूरयेत् ।
अन्तरं नीलवर्णेन बहिःकोणं तु पीतकम् ॥ १६ ॥
View Verse
अन्तरं श्यामवर्णेन बहिःकेसरकं सितम् ।
असितं चान्तरं कुर्यात् तत्पत्रं रक्तसन्निभम् ॥ १७ ॥
View Verse
हेमाभं नाभिभूभागमरं वै कृष्णवर्णकम् ।
अन्तरालं तु पीतं स्यात् तन्नेमित्वसितं भवेत् ॥ १८ ॥
View Verse
पीठान्तरन्तु रक्तं स्यात्पीठादित्युत्तरं शृणु ।
यन्त्रबाह्ये विशेषेण त्रिंशद्विंशतिरेव वा ॥ १९ ॥
View Verse
सप्तकं पञ्चकं वापि विस्तारं सम्प्रकीर्तितम् ।
पीठं वीथीं च द्वारञ्च क्रमाद्बुध्या विलेपयेत् ॥ २० ॥
View Verse
सितरक्तादिपीतेन निक्षिपे द्व्यत्ययेन तु ।
परभागविभागेन यथाशोभानुरूपतः ॥ २१ ॥
View Verse
पीठादिरहितं वापि पञ्चरेखां बहिर्लिखेत् ।
पञ्चवर्णक्रमाद्विप्र रेखायाः त्रित्रिवर्णकम् ॥ २२ ॥
View Verse
प्रणवाद्धि विशेषेण विष्णुमभ्यर्चयेत्सुधीः ।
अक्षराणि च सर्वाणि स्वस्थाने तु समर्चयेत् ॥ २३ ॥
View Verse
पाशाङ्कुशेन संयुक्तं नेमिमभ्यर्चयेत्सुधीः ।
पीठगात्रककोणे तु धर्मादीन् परिपूजयेत् ॥ २४ ॥
View Verse
अनन्तं वीथिभागे तु द्वारे चण्डादिकान् न्यसेत् ।
इति सम्यक् समाख्यातं विष्णुयन्त्रं महामुने ॥ २५ ॥
View Verse
नारायणाख्ययन्त्रस्य विधिं ब्रूहि जगत्प्रभो ॥
श्रीभगवान् -
प्रणवं पूर्ववत्कृत्वा लिख्यमष्टदलान्तरम् ।
पूर्वादि सर्वकोणेषु अष्टाक्षरकमालिखेत् ॥ २६ ॥
View Verse
तद्बहिः केसरं वृत्तं बहिर्वृत्तं तु पङ्कजम् ।
अष्टपत्रं लिखेत्सम्यक् बहिश्चक्रं प्रकल्पयेत् ॥ २७ ॥
View Verse
अष्टपत्रस्य मध्ये तु नृसिंहाष्टाक्षरं लिखेत् ।
नाभि नेमिसमायुक्तं पूर्ववच्चक्रमालिखेत् ॥ २८ ॥
View Verse
अष्टाक्षरं पूर्ववच्चक्रं बहिर्द्वादशकोणकम् ।
द्वादशाश्रं च तत्कोणे बहिःकेसरपङ्कजम् ॥ २९ ॥
View Verse
तत्पत्रं द्वादशं प्रोक्तं द्वादशाक्षरकं न्यसेत् ।
तद्बहिष्षोडशाश्रं स्याद्बहिश्चक्रं प्रकल्पयेत् ॥ ३० ॥
View Verse
अरैष्षोडशभिर्युक्तं नेमिनाभिसमन्वितम् ।
पूर्ववत्पङ्कजं कुर्यात् चतुर्विंशद्दलैर्युतम् ॥ ३१ ॥
View Verse
चतुर्विंशदरैर्युक्तं बहिश्चक्रं समालिखेत् ।
द्वात्रिंशज्ज्वालया युक्तं चतुरश्रं बहिर्भवेत् ॥ ३२ ॥
View Verse
पीठादि पूर्ववत्कल्प्य मरक्षेत्रं समाचरेत् ।
सर्वान्तरालमसितं सर्वारेखासिता भवेत् ॥ ३३ ॥
View Verse
कर्णिकापीतवर्णेन अन्तरालं सितप्रभम् ।
केसरं पीतवर्णेन पद्मं वै पाण्डरारुणम् ॥ ३४ ॥
View Verse
नाभिनेमिद्वयं पीतमरक्षेत्रं तु रक्तकम् ।
पद्मपत्रसमाकारं कृष्णवर्णेन शोभितम् ॥ ३५ ॥
View Verse
केसरं क्षेत्रमखिलं पाण्डुरक्तेन पूरितम् ।
पाण्डुरक्तेन तत्पत्रं बहिःकोणं तु पीतलम् ॥ ३६ ॥
View Verse
बहिश्च मातुलङ्गाभं पीत कुङ्कुमसन्निभम् ।
तद्बहिःपत्रसङ्घन्तु पीतरक्तेन मिश्रितम् ॥ ३७ ॥
View Verse
पत्रान्तरालं श्यामं च बहिश्चक्रं तु पूर्ववत् ।
इन्दीवरदलाकारं नीलवर्णेन रञ्जितम् ॥ ३८ ॥
View Verse
अन्तरालं तु रक्तं स्याच्चक्रं पूर्ववदालिखेत् ।
ज्वालामालां विशेषेण रक्तवर्णेन भूषयेत् ॥ ३९ ॥
View Verse
बहिःपीठादिकाः सर्वाः पूर्वमण्डलवद्भवेत् ।
नारायणं यजेन्मध्ये स्वस्थाने मण्डलं न्यसेत् ॥ ४० ॥
View Verse
अरैके तु विशेषेण मूर्तिनभ्यर्चयेत् बुधः ।
नारायणाख्यकं यन्त्रं दीक्षाकाले विनिक्षिपेत् ॥ ४१ ॥
View Verse
व्याधीनामुद्भवे विप्र प्रायश्चित्तादिके पुनः ।
परचक्रप्रवेशे च कुहूदोषसमुद्भवे ॥ ४२ ॥
View Verse
ग्रहदोषे च सम्पन्ने रक्षाकार्ये विशेषतः ।
अनावृष्टिविधौ विप्र तथा स्नपनकर्मणि ॥ ४४ ॥
View Verse
श्रीभगवान् -
वासुदेवाख्यकं यन्त्रं प्रवक्ष्यामि महामुने ।
प्रणवं पूर्ववत् कृत्वा द्वादशाश्रं बहिःक्षिपेत् ॥ ४५ ॥
View Verse
केसराब्जं तथालिख्य कोणे मन्त्राक्षरं लिखेत् ।
पत्रे द्वादशमूर्तिं च बहिश्चक्रं समालिखेत् ॥ ४६ ॥
View Verse
नाभ्यरानेमिसंयुक्तं चतुर्वारं समालिखेत् ।
चतुर्विंशाश्रकं बाह्ये गायत्रीं च समालिखेत् ॥ ४७ ॥
View Verse
पूर्ववत्पङ्कजं कुर्याच्चतुर्विंशद्दलं लिखेत् ।
चक्रन्तु पूर्ववत्कुर्यात् चतुर्विंशारकैर्युतम् ॥ ४८ ॥
View Verse
द्वात्रिंशत्कोणकं बाह्ये नृसिंहानुष्ठुभं लिखेत् ।
तद्बाह्ये पङ्कजं कुर्यात् द्वात्रिंशत्पत्रसंयुतम् ॥ ४९ ॥
View Verse
बहिश्चक्रं तथा कुर्याद्व्यात्रिंशदरकैर्युतम् ।
पाशाङ्कुशौ नेमिभागे बहिर्ज्वालां समालिखेत् ॥ ५० ॥
View Verse
चतुष्षष्टिक्रमेणैव तदर्धं वापि कल्पयेत् ।
चतुरश्रं तु तद्बाह्ये पीठादीन् पूर्ववल्लिखेत् ॥ ५१ ॥
View Verse
पद्मपत्रारकं पूर्वे मध्यमे मातुलुङ्गवत् ।
अपरे तु विशेषेण परश्चारश्चसम्परम् ? ॥ ५२ ॥
View Verse
रेखागणं तथा पूर्वमन्तरालं तथा भवेत् ।
कर्णिका पीतवर्णेन कोणं वै शुक्रवर्णकम् ॥ ५३ ॥
View Verse
नाभिनेमिद्वयं श्याममरक्षेत्रं सितं भवेत् ।
अरं वै पीतवर्णेन बहिः कोणं तु रक्तकम् ॥ ५४ ॥
View Verse
केसरक्षेत्रकं सर्वं रक्तपीतेन पूरितम् ।
पत्रन्तु पाण्डुरक्तेन नेमि नाभि सितं भवेत् ॥ ५५ ॥
View Verse
अरन्तु कृष्णवर्णं स्यादन्तरालं तु पीतकम् ।
बहिःकोणं तु पीतं स्यादन्तरालं तु कृष्णकम् ॥ ५६ ॥
View Verse
बहिःपत्रं तथारक्तं नाभि नेमि सितं भवेत् ।
अरन्तु कर्बुरं विद्यात् ज्वालासङ्घन्तु रक्तकम् ॥ ५७ ॥
View Verse
पीठादि पूर्ववत्प्रोक्तमक्षरन्तु सितं भवेत् ।
इति सम्यक् समाख्यातं महायन्त्रं महामुने ॥ ५८ ॥
View Verse
यः पूजयेन्महायन्त्रं स याति परमं पदम् ।
सोऽतुलां श्रियमाप्नोति कोटियज्ञफलं भवेत् ॥ ५९ ॥
View Verse
सर्वपापविनिर्मुक्तः सर्वदानफलं लभेत् ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां यन्त्रविधानं नाम पञ्चमोऽध्यायः ॥
View Verse

Chapter - 6 मण्डलानां विधिः

०६ मण्डलानां विधिः
अथ षष्ठोऽध्यायः
श्रीभगवान् -
मण्डलानां विधिं वक्ष्ये समासादवधारय ।
चतुरश्रीकृतं क्षेत्रं त्रिंशधा विभजेच्च तत् ॥ १ ॥
View Verse
अंशकानां भवेदत्र नवानां शतकम्भवेत् ।
तन्मध्ये दशपङ्क्त्यातु पद्मक्षेत्रं प्रजायते ॥ २ ॥
View Verse
क्षेत्रद्वादशभागैकं व्यवधानं प्रकल्पयेत् ।
व्यवधानं त्रिधा कृत्वा व्योमवृत्तं तथाभवेत् ॥ ३ ॥
View Verse
चतुर्धा विभजेत् शेषं प्रथमं कर्णिकापदम् ।
द्वितीयं केसरं प्रोक्तं तृतीयञ्च चतुर्थकम् ॥ ४ ॥
View Verse
चतुर्थैकांऽसमानेन दलाग्रं सम्प्रकल्पयेत् ।
शिष्टेनांशगणेनैव पत्रमेकं प्रकल्पयेत् ॥ ५ ॥
View Verse
पत्रान्तरालकं सर्वं कनिष्ठाङ्गुलिमानकम् ।
पत्रमध्ये त्रिरेखाञ्च पञ्चरेखां तथैव च ॥ ६ ॥
View Verse
यवमात्रोन्नतं कुर्यात् पत्रमूलं तदानयेत् ।
पत्राग्रं पृथुतां याति अथवा केसरांशकम् ॥ ७ ॥
View Verse
कर्णिकाग्रांशमानं वा इच्छया परिकल्पयेत् ।
यन्त्रकोच्चं पत्रमानं केसरं पत्रकांशकम् ॥ ८ ॥
View Verse
एवन्तु पङ्कजं कृत्वा व्योमवृत्तं बहिर्भ्रमेत् ।
व्योमवृत्ताद्बहिर्वृत्तं चतुरश्रं प्रकल्पयेत् ॥ ९ ॥
View Verse
शेषं पङ्क्तिपदेनैव पीठादि परिशोधयेत् ।
एवं पङ्क्त्या भवेत्पीठं चतुर्दिक्षु द्विकं व्रजेत् ॥ १० ॥
View Verse
विदिक्षुचैव त्रिपदं द्विपदं त्वन्तरन्नयेत् ।
उपपीठं चतुःपङ्क्त्या कल्पयेत्पीठमुत्तमम् ॥ ११ ॥
View Verse
मध्ये द्वादशकेनैव गात्रकं परिकल्पयेत् ।
तत्पूर्वापरवृत्तिभ्यां द्वितयं द्वितयं भवेत् ॥ १२ ॥
View Verse
मध्यपङ्क्तिद्वयेनैव अष्टकं परिमार्जयेत् ।
एकीकृत्य ततस्सर्वानष्टकं तस्य पार्श्वयोः ॥ १३ ॥
View Verse
त्रीणि त्रीणि तथाद्यन्ते मध्ये पङ्क्तिद्वये द्वयम् ।
तत्पदेचाष्टकं मृज्य मध्येचैव त्रयन्त्रयम् ॥ १४ ॥
View Verse
एवमाद्यन्तपङ्क्तिभ्या मेकीकृत्य परामृजेत् ।
पद्मक्षेत्रस्य बाह्ये तु पञ्चकं परिमार्जयेत् ॥ १५ ॥
View Verse
शेषन्तु कोष्ठकं प्रोक्तं द्विपदेनैव वीथिकाम् ।
गात्रकाख्यप्रदेशेतु शङ्खादीन् परिकल्पयेत् ॥ १६ ॥
View Verse
शङ्खं चक्रं गदां पद्मं दिक्क्रमेण समालिखेत् ।
मुसलं नदकञ्चैव शार्ङ्गं च वनमालिकाम् ॥ १७ ॥
View Verse
आग्नेयादीशकोणान्तं विन्यसेत्परितःक्रमात् ।
शिष्टं पङ्क्तिक्रमेणैव द्वारादि परिकल्पयेत् ॥ १८ ॥
View Verse
द्विचतुष्कक्रमेणैव द्वारन्तु परिशोधयेत् ।
शोभं नवपदेनैव उपद्वारन्तु द्वारवत् ॥ १९ ॥
View Verse
षट्पदैः सूक्ष्मशोभञ्च शिष्टकोणकम् ? ।
बहिः पङ्क्त्यंशमानेन रेखात्रयमथाचरेत् ॥ २० ॥
View Verse
उपद्वारे विशेषेण मङ्गलाष्टकमालिखेत् ।
रजसा पूरयेत्पश्चात् शुद्धेन विविधेन च ॥ २१ ॥
View Verse
कर्णिकां कनकाभेन केसरं शोणितप्रभम् ।
दलजालं सितं प्रोक्तं कृष्णं चैवान्तरं परम् ॥ २२ ॥
View Verse
व्योअमवृत्तं तथा कुर्यात् बाह्यं चारुणप्रभम् ।
पीठकोणं सितं कुर्यात् गात्रं श्यामनिभं भवेत् ॥ २३ ॥
View Verse
गात्रकोणान्तरं रक्तं बहिर्गात्रं तु शोणितम् ।
सितं कृष्णं च पीतं च क्रमाच्छेषत्रयं भवेत् ॥ २४ ॥
View Verse
शङ्खादीन् शुक्लवर्णेन विलिखेत्तस्य मध्यमे ।
वीथीं मरकताभेन द्वारं शुक्लेन पूरयेत् ॥ २५ ॥
View Verse
पीतं रक्तं च कृष्णं च श्यामं शोभादिकान् क्रमात् ।
सितं रक्तं तथा कृष्णं रेखात्रयमनुत्तमम् ॥ २६ ॥
View Verse
श्रीभगवान् -
इष्टसिद्धिप्रदन्नाम मण्डलञ्चावधारय ।
इष्टसिद्ध्यर्चनाच्चैव इष्टसिद्धिमवाप्नुयात् ॥ २७ ॥
View Verse
चतुरश्रं पुरा कृत्वा बाहुहस्तप्रमाणतः ।
चत्वारिंशत्पदं कृत्वा क्षेत्रमध्यं विशेषतः ॥ २८ ॥
View Verse
अंशकानां भवेद्यत्र सहस्रं षट्शताधिकम् ।
इष्टसिद्ध्यर्चनाच्चैव सहस्रं षट्शताधिकम् ॥ २९ ॥
View Verse
मध्ये दशपदं विप्र पङ्कजं पूर्ववल्लिखेत् ।
पीठन्तु पूर्ववत्कृत्वा बहिःपङ्क्त्या तु वीधिकां ॥ ३० ॥
View Verse
तद्बहिः पञ्च पङ्क्त्या तु गात्रागारं तु शोधयेत् ।
मध्यपङ्क्तित्रयेणैव मध्ये कोणाष्टकं सृजेत् ॥ ३१ ॥
View Verse
पूर्वापरे चतुर्थं स्यात् मध्ये चैव चतुष्पदम् ।
एवमष्टकसंयुक्तमेकीकृत्य विलेपयेत् ॥ ३२ ॥
View Verse
अष्टादशपदेनैव प्रादक्षिण्यं परामृजेत् ।
कोणमध्यप्रदेशे तु पञ्चकोष्ठं परामृजेत् ॥ ३३ ॥
View Verse
बहिष्षोडशकोष्ठेन प्रादक्षिण्येन लेपयेत् ।
शेषकोष्ठगणं सर्वमेकीकृत्य विलेपयेत् ॥ ३४ ॥
View Verse
एकपङ्क्त्या भवेद्वीथी शिष्टपङ्क्ति क्रमं शृणु ।
पङ्क्तित्रयेण विप्रेन्द्र अन्तर्द्वारादिकान् मृजेत् ॥ ३५ ॥
View Verse
पूर्वपङ्क्ति द्वयेनैव नयेत् शोभोपशोभितम् ।
सूक्ष्मशोभकञ्च चतुःकोणपार्श्वे परामृजेत् ॥ ३६ ॥
View Verse
कोणसार्धद्वितीये तु एकमेव पदं मृजेत् ।
एकपङ्क्त्या भवेद्वीथी प्रादक्षिण्येन शोधयेत् ॥ ३७ ॥
View Verse
तद्बहिःपदपङ्क्त्या तु विधीकां परिकल्पयेत् ।
शिष्टं पङ्क्तित्रयेणैव पूर्ववत् द्वारवीथिकां ॥ ३८ ॥
View Verse
द्वारशोभमुपद्वारमुपशोभं च सूक्ष्मकम् ।
पूर्ववत्कल्पयित्वा तु कोणदेशेषु पूर्ववत् ॥ ३९ ॥
View Verse
शिष्टपङ्क्त्या बहिर्वीथीं पूर्ववत्परितो मृजेत् ।
बहीरेखात्रयं कुर्यात् पञ्चकं वापि केवलम् ॥ ४० ॥
View Verse
एवङ्कृत्वा विधानेन रजःपात्रविधिं शृणु ।
सपीठपङ्कजं विप्र पूर्ववत्परियोजयेत् ॥ ४१ ॥
View Verse
वीधिकां षट्पदाभेन गात्रमध्यं तु पीतलम् ।
बहिः प्रदक्षिणं श्यामं कोणभूमिं तथैव च ॥ ४२ ॥
View Verse
कोणगात्रान्तरालं तु रक्तवर्णेन पूरयेत् ।
बहिर्वीथीं सितेनैव अन्तर्वीथीं तु श्यामलाम् ॥ ४३ ॥
View Verse
सितादिवर्णभेदेन क्रमात्कुर्याच्चतुष्टयम् ।
कोणान्तस्थ पदद्वन्द्वं रक्तं कृष्ण सितं क्रमात् ॥ ४४ ॥
View Verse
बहिर्वीथीं तु पीतेन तद्बाह्यं रक्तमेव च ।
सितादिपञ्चवर्णेन पञ्चकं परिपूरयेत् ॥ ४५ ॥
View Verse
तथा कोणद्वयं विप्र सितं श्यामं प्रकीर्तितम् ।
रेखात्रयं तथा कुर्यात् पञ्चकं पञ्चवर्णकम् ॥ ४६ ॥
View Verse
देवतानामथो वक्ष्ये स्थानं तु मुनिपुङ्गव ।
कर्णिकाग्रे तु सम्पूज्य अङ्गोपाङ्गं च पत्रके ॥ ४७ ॥
View Verse
गुणत्रयं केसरेषु मण्डलं तु त्रयं तथा ।
पीठदिक्ष्वष्टके विप्र दिक्पतीन् परिपूजयेत् ॥ ४८ ॥
View Verse
गात्रमध्ये विशेषेण शङ्खादीन् परिपूजयेत् ।
अन्तराले ऋगादींश्च वेदादीन् कोणमध्यमे ॥ ४९ ॥
View Verse
वीथिकासु च सर्वासु अनन्तादीन प्रपूजयेत् ।
अनन्तो वासुकिश्चैव शङ्खपालस्तथैव च ॥ ५० ॥
View Verse
उर्ध्वद्वारादिके सर्वे आदित्यादीन् प्रपूजयेत् ।
त्वष्टा विष्णुश्च पूषा च गरुडश्च तथैव च ॥ ५१ ॥
View Verse
कोणेषु वैघ्नं सम्पूज्य कुमुदादीन् तथान्तरे ।
बहिर्द्वारेषु विप्रेन्द्र सत्यादीन् परिपूजयेत् ॥ ५२ ॥
View Verse
सत्यः सुपर्णस्तार्क्ष्यश्च गरुडश्च तथैव च ।
शोभोपशोभद्वारेषु पद्मचक्रगदादिकान् ॥ ५३ ॥
View Verse
कोणेष्वपि च सर्वेषु अग्न्यादि परिपूजयेत् ।
अग्निश्च पावकाश्चैव चित्रभानुर्विभावसुः ॥ ५४ ॥
View Verse
रेखात्रयेषु विप्रेन्द्र सुदर्शनादिपूजितम् ।
परिस्तरेषु दर्भेषु चण्डादीन् परिपूजयेत् ॥ ५५ ॥
View Verse
भृगुः -
मण्डलार्चनकालं किं वदस्व वदतां वर ।
श्रीभगवान् -
दीक्षायामुत्सवे चैव स्नपने च फलोत्सवे ॥ ५६ ॥
View Verse
दमनारोपणे चैव तथा पुष्पमहोत्सवे ॥
पवित्रोत्सवे विशेषे जयन्त्यां च तथैव च ।
कृत्तिकोत्सवकाले तु ग्रहणे सोमसूर्ययोः ॥ ५७ ॥
View Verse
विषुवे चायने चैव द्वादश्यां तु विशेषतः ।
प्रायश्चित्तेषु सर्वेषु वसन्तोत्सव एव च ॥ ५८ ॥
View Verse
मण्डलाराधनं कुर्यादन्यथा दोषकृद्भवेत् ।
मण्डलाराधनं श्रेष्ठं जघन्यं बिम्बपूजनम् ॥ ५९ ॥
View Verse
कुम्भमण्डलबिम्बाग्नौ पूजनं चोत्तमं भवेत् ।
उत्तमाराधनेनैव सर्वदोषक्षयं गतम् ॥ ६० ॥
View Verse
सर्वपापहरं पुंसां राजराष्ट्रविवर्धनम् ।
चतुःस्थानार्चनाहीनं कर्म निष्फलतां नयेत् ॥ ६१ ॥
View Verse
तस्मात्सर्वप्रयत्नेन चतुःस्थानार्चनं यजेत् ।
चतुःस्थानमुत्तमं च त्रिस्थानं मध्यमं भवेत् ॥ ६२ ॥
View Verse
द्विस्थानमधमं चैव एकमाभासकं परम् ।
एकं तु बिम्बकं प्रोक्तं द्विस्थानं बिम्बपावकम् ॥ ६३ ॥
View Verse
त्रिस्थानं कुम्भसंयुक्तं चतुःस्थानं तु मण्डलम् ।
कुम्भमण्डलवह्निस्थं पश्चिमाभिमुखं यजेत् ॥ ६४ ॥
View Verse
देवं नारायणं विप्र अन्यथादोषकृद्भवेत् ।
तत्रस्था देवताः सर्वाः पश्चिमाभिमुखं यजेत् ॥ ६५ ॥
View Verse
वरुणादिनि-ऋत्यन्तं पूजयेत् सर्वदेवतान् ।
देवतान्विना विप्र द्वार्स्थदेवान्विना भवेत् ॥ ६६ ॥
View Verse

Chapter - 7 चक्राब्जमण्डलम्

०७ चक्राब्जमण्डलम्
अथ सप्तमोऽध्यायः
भृगुः -
चक्राब्जमण्डल कीदृक् वदस्व परमेश्वर ।
भगवान् -
चक्राब्जमण्डलं वक्ष्ये विस्तरेणावधारय ॥ १ ॥
View Verse
सूत्रपातविधिं चैव मानवृद्धिं तथैव च ।
रजसा पूरणं चैव चक्रपूजाफलं तथा ॥ २ ॥
View Verse
मण्डपं पूर्ववत्कृत्वा अलङ्कृत्य विधानतः ।
तन्मध्ये वेदिकं कृत्वा पञ्चहस्तप्रमाणतः ॥ ३ ॥
View Verse
दृढासमन्तथाकारं प्रागुत्तरत * * * । ४ ॥
View Verse
चतुरङ्गुलकां कृत्वा आधारद्व्यङ्गुलं भवेत् ।
कुभवेदिं विशेषेण हस्तमानसमुच्छ्रिताम् ॥ ५ ॥
View Verse
विस्तारं तु विशेषेण चतुर्हस्तं त्रिहस्तकम् ।
पञ्चहस्तमथैवापि आधारं तु त्रियङ्गुलं ॥ ६ ॥
View Verse
विस्तारायामसदृशा होमवेदिस्तथा भवेत् ।
अथवा तालविस्तार मुन्नतं तु त्रियङ्गुलम् ॥ ७ ॥
View Verse
वेदिमध्ये लिखेद्विद्वान् मण्डलं चक्रसञ्ज्ञकम् ।
चक्रं त्रिविधमुद्दिष्टमुत्तमाधममध्यमम् ॥ ८ ॥
View Verse
वक्ष्यामि चोत्तमं प्रोक्तं समासादवधारय ।
अक्षक्षेत्रे लिखेत् पद्मं पूर्ववत्तालमानतः ॥ ९ ॥
View Verse
वृत्तात्सञ्जायते सर्वं वृत्तमध्यात्प्रजायते ।
पद्मबाह्ये नाभिनेमि एकधा वा द्विधा त्रिधा ॥ १० ॥
View Verse
अरक्षेत्रं तु तद्वाह्ये बहिर्नेमिस्तु पूर्ववत् ।
चतुरङ्गुलमानेन नाभिनेमिः प्रकीर्तितः ॥ ११ ॥
View Verse
षडङ्गुलप्रमाणेन अरक्षेत्रं प्रकीर्तितम् ।
अरत्रिभागकं सूत्रं स्थापयेत् द्वयपार्श्वयोः ॥ १२ ॥
View Verse
द्व्यंशमानेन सूत्रेण भ्रामयेन्मन्त्रवित्तमः ।
अपरे तु तथाधः कुर्यान्मातुलुङ्गाकृतिर्भवेत् ॥ १३ ॥
View Verse
नेमिक्षेत्राद्बहिर्वीथ्यां पत्रवल्लीं लिखेद्बुधः ।
त्र्यङ्गुलं वल्लिमानं स्यात् बाह्यनेमि त्रियङ्गुलम् ॥ १४ ॥
View Verse
अरक्षेत्रं बहिःकार्यं षोडशाङ्गुलमानतः ।
अरस्थाने लिखेत् चक्रं द्वादशं षोडशं तु वा ॥ १५ ॥
View Verse
चतुर्दशाङ्गुलं चक्रं चतुरङ्गेन भूषितम् ।
अक्षं नाभिररं नेमिश्चतुरङ्गमिति स्मृतम् ॥ १६ ॥
View Verse
अक्षमङ्गुलकं प्रोक्तं नाभिनेमी तथैव च ।
चतुरङ्गुलमानं तु अरक्षेत्रं प्रजायते ॥ १७ ॥
View Verse
तदरं वृत्तसङ्काशमश्राकारमथापि वा ।
अब्जपत्रसमाकारमिन्दीवरदलच्छदम् ॥ १८ ॥
View Verse
अर्धचन्द्रसमाकारं द्विजाण्डसदृशं तु वा ।
एवं द्वादशचक्रस्य अरक्षेत्रे विशेषतः ॥ १९ ॥
View Verse
तद्बहिर्नेमिभूभागं वल्लिक्षेत्रन्तु पूर्ववत् ।
बहिर्नाभि तथा कुर्यात् अरक्षेत्रं तथा भवेत् ॥ २० ॥
View Verse
तदरं पूर्ववत्कुर्यान्मानं पूर्ववदिष्यते ।
नेमिक्षेत्रं बहिः कुर्यात् प्रधयश्चबहिस्तथा ॥ २१ ॥
View Verse
द्विधावृत्तं वीथिसङ्घं व्योमवृत्तं बहिर्भवेत् ।
चतुरश्रं ततः कुर्यात् पीठादीन् पूर्ववल्लिखेत् ॥ २२ ॥
View Verse
रजसा पूरयेत् पश्चात् द्विविधेनोज्वलेन च ।
पद्मं तु पूर्ववद्विप्र नाभि नेमि तु पीतलम् ॥ २३ ॥
View Verse
अरक्षेत्रं तु रक्तं स्यादरं वै कृष्णसन्निभम् ।
पत्रवल्लीन्तु शुक्लेन नाभिनेमि तु श्यामलम् ॥ २४ ॥
View Verse
एकद्वारकृतञ्चैव अरान्ते च प्रकल्पयेत् ।
इन्दीवरमातुलुङ्ग पद्मपत्र यवोदरम् ॥ २५ ॥
View Verse
पिप्पलोदरकञ्चैव परशुं वज्रसन्निभम् ।
चतुरश्रं च वृत्तं च अर्धचन्द्रं च कूर्परम् ॥ २६ ॥
View Verse
शङ्ख चक्रं द्वादशैते पूर्वादीनन्तु देशिकः ।
अक्षन्तु पीतलं प्रोक्तं सर्वचक्रेषु सम्मतम् ॥ २७ ॥
View Verse
नाभिनेमिररक्षेत्रं वर्णभेदैः प्रपूरयेत् ।
यथाशोभानुरूपेण पूरयेच्च यथारुचि ॥ २८ ॥
View Verse
पूर्ववत्पत्रवल्लीन्तु नाभिनेमिसितं भवेत् ।
अरसङ्घं तु कृष्णेन अन्तरालं तु पीतलम् ॥ २९ ॥
View Verse
प्रधिसङ्घं विशेषेण नानावर्णैः प्रपूरयेत् ।
व्योमवृत्तं तथा कृष्णं पीठादीन् पूर्ववच्चरेत् ॥ ३० ॥
View Verse
रेखात्रयं विशेषेण सितं रक्तं च कृष्णकम् ।
अन्तःपीठं विशेषेण पाण्डुरक्तेन पूरयेत् ॥ ३१ ॥
View Verse
चक्रत्रयसमायुक्त मुत्तमं परिकीर्तितम् ।
चक्रद्वयसमायुक्तं मध्यमं परिचक्षते ॥ ३२ ॥
View Verse
एकमप्यधमं प्रोक्तमित्येतत् त्रिविधं भवेत् ।
चक्रमध्ये यजेद्देवं नारायणमनामयम् ॥ ३३ ॥
View Verse
दलेषु वासुदेवादीन् सोमं व्योम्नि प्रपूजयेत् ।
नाभिक्षेत्रे यजेच्छ्रीञ्च नेमिक्षेत्रे सरस्वतीम् ॥ ३४ ॥
View Verse
अरक्षेत्रे जयाञ्चैव अरे मूर्तिं समायजेत् ।
अरक्षेत्रे तथाङ्गेषु द्वादशादित्यकान् यजेत् ॥ ३५ ॥
View Verse
बाह्यारे तु विशेषेण केशवादीन्प्रपूजयेत् ।
प्रधिक्षेत्रे विशेषेण समुद्रादींश्च पूजयेत् ॥ ३६ ॥
View Verse
पीठादिके यथापूर्वं पूजयेदिन्द्रपावकौ ।
अनेकोपचारकैर्वापि द्वात्रिंशद्भिरथापि वा ॥ ३७ ॥
View Verse
षोडशैर्वा विशेषेण प्रोक्षणं स्नानमाचरेत् ।
यश्चक्रे पूजयेद्विद्वान् सोऽपि तत्पदमाप्नुयात् ॥ ३८ ॥
View Verse
अर्थार्थी चार्थमाप्नोति जयार्थी जयमाप्नुयात् ।
कामार्थी काममाप्नोति पुत्रार्थी पुत्रमाप्नुयात् ॥ ३९ ॥
View Verse
अश्वमेधाष्टकं पुण्यं प्राप्नुयाच्चक्रपूजनात् ।
प्राजापत्यशतं चैव गोसहस्रफलं तथा ॥ ४० ॥
View Verse
पवित्रारोपणे चैव तथा स्नपन कर्मणि ।
प्रायश्चित्तेषु सर्वेषु दुर्निमित्तादिकेषु च ॥ ४१ ॥
View Verse
नृपरोगादिगे प्राप्ते शत्रुभिः परिपीडने ।
अनावृष्ट्यादिके प्राप्ते चक्राब्जे संयजेद्विभुम् ॥ ५० ॥
View Verse

Chapter - 8 कुण्डविधिः

०८ कुण्डविधिः
अथ अष्टमोऽध्यायः
भगवान् -
कुण्डानां लक्षणं वक्ष्ये शृणु गुह्यं महामुने ।
वृत्तात्सञ्जायते सर्वं वृत्तं मध्यात्प्रजायते ॥ १ ॥
View Verse
मण्डलस्येशकोणे तु कुम्भवेदिं प्रकल्पयेत् ।
तस्य पावकदिग्भागे कुण्डवेदिं प्रकल्पयेत् ॥ २ ॥
View Verse
दण्डके तु विशेषेण कुम्भवेदिं तु पूर्वके ।
मण्डलं मध्यमे भागे पश्चिमे कुम्भसञ्ज्ञकम् ॥ ३ ॥
View Verse
सौम्यालाभे तदा विप्र दक्षिणादि प्रकल्पयेत् ।
बिम्बन्तु पश्चिमे भागे सर्वत्रैव निवेशयेत् ॥ ४ ॥
View Verse
दक्षिणायान्तके विप्र उत्तरे बिम्बसंस्थितं ।
योनिनाभिसमायुक्तमब्जमेखलकैर्युतम् ॥ ५ ॥
View Verse
षण्णवत्यङ्गुलं मानं सर्वकुण्डमकण्टकम् ।
अश्रं चापं तथा वृत्तं शङ्कं चक्रं च पङ्कजम् ॥ ६ ॥
View Verse
त्र्यश्रं पञ्चाश्रमुदितं षडश्रं सप्तकोणकम् ।
अष्टाश्रं च नवाश्रं च गदा योनिमतःपरम् ॥ ७ ॥
View Verse
एवं चतुर्दशं कुण्डं तन्त्रेऽस्मिन् परमेष्ठिना ।
कुण्डमण्डलवेद्यार्धमानं मुष्ठ्यङ्गलं भवेत् ॥ ८ ॥
View Verse
त्रिमुष्टिमात्रं तालं वा तद्वयं हस्तमिष्यते ।
तद्वयं दण्डमित्युक्तं तद्वयं धनुरुच्यते ॥ ९ ॥
View Verse
युग गोचर्मकञ्चैव तन्मानं सम्प्रकीर्तितम् ।
चतुरश्रस्य वृत्तस्य मानं मध्येन जायते ॥ १० ॥
View Verse
तालमानेन सूत्रेण भ्रामयेन्मध्यसूत्रतः ।
तद्वृत्तपरिधेः पार्श्वे सूत्रमास्फालयेच्च तत् ॥ ११ ॥
View Verse
चतुःसूत्रप्रयोगेण चतुरश्रं प्रजायते ।
अर्धमानेन सूत्रेण मध्यकण्ठेन पातयेत् ॥ १२ ॥
View Verse
चतुर्दिक्क्रमयोगेन चतुरश्रं प्रजायते ।
चतुरश्रवशेनैव यद्वा वृत्तबशेन तु ॥ १३ ॥
View Verse
अन्यानि सर्वकुण्डानि तन्मानेन तु कारयेत् ।
चतुरश्रं खनेद्भूमौ हस्तमानप्रमाणतः ॥ १४ ॥
View Verse
तालमानमथैवापि द्व्यङ्गुलं नाभिमानकम् ।
तद्बहिस्तालमानेन मेखलात्रितयं भवेत् ॥ १५ ॥
View Verse
चतुरङ्गुलविस्तारमुन्नतं तावदेव तु ।
योनिं प्रकल्पयेदूर्ध्वे पश्चिमे कुण्डमध्यमे ॥ १६ ॥
View Verse
चरतुश्रवशेनैव यद्वा वृत्तवशेन तु ।
दशाङ्गुलप्रमाणेन आयतं परिकीर्तितम् ॥ १७ ॥
View Verse
विस्तारन्तु विशेषेण दशभिः खण्डचन्द्रकम् ।
पृष्ठपार्श्वे लिखेद्विप्र षट्चतुर्द्वङ्गुलैर्युतम् ॥ १८ ॥
View Verse
अश्वत्थपत्रवत्कुर्यात् तन्नालं चतुरङ्गुलम् ।
त्रियङ्गुलं तु नहनं मुखे चैव षडङ्गुलम् ॥ १९ ॥
View Verse
मध्यमेखलमानं स्यात् सुषिरं परिधेर्द्विज ।
कुण्डमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ २० ॥
View Verse
मेखलस्योर्ध्वकोणेषु चक्र शङ्खादिकान् लिखेत् ।
अङ्गुलोन्नतमानेन मृद्भिरेव प्रकल्पयेत् ॥ २१ ॥
View Verse
मृदा संलेपयेत्पश्चात् गोमयेन विचक्षणः ।
सुधाचूर्णैरलङ्कृत्य तालमानेन पीठकम् ॥ २२ ॥
View Verse
चतुरश्रमिदं प्रोक्तं चापकुण्डमथोच्यते ।
पूर्ववृत्तप्रमाणेन तदर्धं देशिकोत्तमः ॥ २३ ॥
View Verse
तन्मानं भ्रामयेच्चापं सज्यं तद्वयमानकम् ।
यादृग्विधं भवेत् कुण्डं तादृगेव तु मेखला ॥ २४ ॥
View Verse
योनिं कुण्डेषु सर्वेषु कल्पयेच्च द्विजोत्तम ।
योनिकुण्डेन योनिः स्यात् पद्मकुण्डेन पङ्कजम् ॥ २५ ॥
View Verse
चापं षडङ्गुलं प्रोक्तं सज्यं षट्त्रिंशकं मुने ।
यद्वाङ्गुलवशेनैव सर्वकुण्डं प्रकल्पयेत् ॥ २६ ॥
View Verse
चतुर्विंशात्यङ्गुलञ्चाग्रं चापं षष्ट्यङ्गुलं भवेत् ।
सज्यं षट्त्रिंशकं प्रोक्तं वृत्तार्धं षोडशाङ्गुलम् ॥ २७ ॥
View Verse
पद्मकुण्डं तदेव स्यात् चक्रकुण्डं तथैव च ।
त्र्यश्रकुण्डं विशेषेण द्वात्रिंशदङ्गुलं मुने ॥ २८ ॥
View Verse
द्वात्रिंशदङ्गुलं मानं पट्टायामं प्रकीर्तितम् ।
दक्षिणोत्तरपार्श्वे तु सूत्रमास्फालयेच्च तत् ॥ २९ ॥
View Verse
योनिकुण्डमथो वक्ष्ये चतुरश्र प्रजायते ।
दशाङ्गुलप्रमाणेन वायुनै-ऋतकोणयोः ॥ ३० ॥
View Verse
कोणाग्रे स्थापयेत्सूत्रं भ्रामयेदर्धचन्द्रकम् ।
अर्धचन्द्रशशिशृङ्गात् पूर्वमध्याच्च पातयेत् ॥ ३१ ॥
View Verse
दक्षिणोत्तरपार्श्वे तु अग्रमश्वत्थपत्रवत् ।
योनिवत् सन्निवेशस्स्यान्न योनिं परिकल्पयेत् ॥ ३२ ॥
View Verse
अब्जकुण्डमथो वक्ष्ये पूर्वद्वृत्तमालिखेत् ।
ऊर्ध्वमेखलयामध्यमर्धाञ्चाप्यथमेखलां ? ॥ ३३ ॥
View Verse
एवमष्टाङ्गुलेनैव पद्मपत्रं प्रकल्पयेत् ।
क्रमेण प्रणवं कुर्यात् बलिपीठाब्जपत्रवत् ॥ ३४ ॥
View Verse
अष्टपत्रमथो वापि द्वादशं वापि कारयेत् ।
शङ्खकुण्डमथो वक्ष्ये पूर्वपश्चिमदीर्घकम् ॥ ३५ ॥
View Verse
पूर्ववद्वृत्तमालिख्य द्वादशाङ्गुलमानतः ।
तद्वृत्तपरिधेःपूर्वं अर्धचन्द्रं समालिखेत् ॥ ३६ ॥
View Verse
चतुरङ्गुलमानेन भ्रूपद्मं परिकल्पयेत् ।
अथ पश्चिमभागे तु शङ्खस्याग्रं प्रकल्पयेत् ॥ ३७ ॥
View Verse
अग्रं तु योनिवत्कुर्यात् तत् षडङ्गुलमानतः ।
उत्तरे मेखलापार्श्वे किञ्चिन्नाभि प्रकल्पयेत् ॥ ३८ ॥
View Verse
मेखलात्रितयं कुर्यात् तद्वदेव च दक्षिणम् ।
चतुर्दिक्षु विशेषेण ज्वालां काञ्चित्प्रकल्पयेत् ॥ ३९ ॥
View Verse
चक्रकुण्डमथो वक्ष्ये वृत्तं पूर्ववदालिखेत् ।
नीचोर्ध्वमेखलां सम्यक् द्व्यङ्गुलेन प्रकल्पयेत् ॥ ४० ॥
View Verse
अष्टाङ्गुलेन तन्मध्ये अरक्षेत्रं प्रकल्पयेत् ।
द्वादशाष्टादशं वापि द्विजाण्डसदृशं भवेत् ॥ ४१ ॥
View Verse
अक्षन्तु कुण्डमध्यं स्यान्नाभिर्नेमिर्द्विमेखला ।
चतुर्ज्वालां प्रकल्प्यैव शिखावन्मुनिसत्तम ॥ ४२ ॥
View Verse
पञ्चाश्रकमथो वक्ष्ये अवधारय साम्प्रतम् ।
वृत्तं तु पूर्ववत्कृत्वा पञ्चधा परिरञ्जयेत् ॥ ४३ ॥
View Verse
कर्णसूत्रं बहिःकृत्वा वह्नेर्वह्नेर्विशेषतः ।
पट्टसूत्रं बहिः कुर्यात् सूत्रैरष्टादशार्धकैः ॥ ४४ ॥
View Verse
पट्टसूत्रस्य मध्यं स्यात् किञ्चित् प्रह्वं समाचरेत् ।
तद्वशान्मेखलां कुर्यात् षडश्रमधुनोच्यते ॥ ४५ ॥
View Verse
वृत्तञ्च पूर्ववत्कुर्यात् त्रिःपञ्चाङ्गुलमानतः ।
त्रिःपञ्चाङ्गुलमानेन सूत्रस्योपरि कल्पयेत् ॥ ४६ ॥
View Verse
वृत्तन्तु पूर्ववत्कुर्यादर्धमानेन चाङ्कयेत् ।
षट्चिह्नं जायते विप्र षट्सूत्रं पट्टयेद्बहिः ॥ ४७ ॥
View Verse
पट्टायामं ततः कृत्वा चिह्नसूत्रं बहिः क्षिपेत् ।
तद्वच्च मेखलां कुर्यात् सप्ताश्रञ्चावधारय ॥ ४८ ॥
View Verse
सप्तधा चाङ्कयेत्वृत्तं कोणसूत्रं बहिःक्षिपेत् ।
कोणात्कोणान्तरं कुर्यात् पट्टायामं प्रकीर्तितम् ॥ ४९ ॥
View Verse
अष्टकोणविधिस्तद्वत् नावकोणविधिस्तथा ।
गदाकारमथो वक्ष्ये पूर्वपश्चिमदीर्घकम् ॥ ५० ॥
View Verse
पूर्ववद्वृत्तसंयुक्तं द्व्यङ्गुलं तु विहीनकम् ।
भूतात् भूते तु कर्तव्यं षट्चतुर्द्व्यङ्गुलैककम् ॥ ५१ ॥
View Verse
तत्कुण्डपश्चिमे भागे अष्टाङ्गुलसमायुतम् ।
किञ्चित्प्रणवसंयुक्तं दण्डाकारं विशेषतः ॥ ५२ ॥
View Verse
एवं चतुर्दशं कुण्डं तन्त्रेऽस्मिन् मुनिपुङ्गव ।
उत्सवे तु नवाश्रं स्यादष्टाश्रं वापि कारयेत् ॥ ५३ ॥
View Verse
चतुरश्रमथैवापि एकाश्रं वापि कारयेत् ।
पवित्रारोहणे विप्र अष्टकुण्डं प्रकल्पयेत् ॥ ५४ ॥
View Verse
चतुष्कुण्डमथैवापि एककुण्डं तु कल्पयेत् ।
प्रतिष्ठायां विशेषेण तथैव परिकल्पयेत् ॥ ५५ ॥
View Verse
पत्रपुष्पोत्सवे चैव तथान्तकलशे द्विज ।
कुण्डकर्मविधिः प्रोक्तः कुम्भसंस्थापनं शृणु ॥ ५६ ॥
View Verse
खारिद्वयेन सम्पूर्णं महाकुम्भं प्रकीर्तितम् ।
तदर्धमुपकुम्भं च परिकुम्भं तदर्धकम् ॥ ५७ ॥
View Verse
तन्मानं वर्धनीचैव वस्त्रेण परिवेष्टयेत् ।
अङ्गुलान्तरकं वापि अक्षमात्रा तु वा भवेत् ॥ ५८ ॥
View Verse
व्रीहिकोपरिसंस्थाप्य सौवर्णं राजतं तु वा ।
ताम्रं वा मृण्मयं वापि यथा वित्तानुसारतः ॥ ५९ ॥
View Verse
वस्त्रे संवेष्टयेत्पश्चात् शरावैरपिधाय च ।
स्तम्बकैर्नालिकेरैश्च क्रमुकैः फलवृत्तकैः ॥ ६० ॥
View Verse
फलैर्नानाविधैश्चैव नारिकेलफलैरपि ।
रत्नहेमसमायुक्तमष्टमङ्गुलसंयुतम् ॥ ६१ ॥
View Verse
पालिकैश्च समायुक्तं दीपकुम्भसमन्वितम् ।
स्वर्णपट्टसमायुक्तं क्षौमवस्त्रसमायुतम् ॥ ६२ ॥
View Verse
कुम्भमण्डलकुण्डेषु परिकुम्भं तु विन्यसेत् ।
ध्वजैश्चतोरणैर्युक्तं द्वारकुम्भोपशोभितम् ॥ ६३ ॥
View Verse
एवं दीक्षाविधाने तु प्रतिष्ठाद्युत्सवेषु च ।
अन्यथा दोषमाप्नोति नात्र कार्या विचारणा ॥ ६४ ॥
View Verse

Chapter - 9 अभिषेकविधिः

०९ अभिषेकविधिः
अथ नवमोऽध्यायः
श्रीभगवान् -
अभिषेकमथो वक्ष्ये आचार्याणां विशेषतः ।
क्षत्रियाणां विशेषेण साधकानां विशेषतः ॥ १ ॥
View Verse
विष्ण्वालये विशेषेण मण्डपं कारयेद्बुधः ।
मण्डपं समलङ्कृत्य तोरणाद्यैरलङ्कृतम् ॥ २ ॥
View Verse
वितानाद्यैरलङ्कृत्य दर्भमाल्यैश्च शोभयेत् ।
अङ्कुरानर्पयित्वा तु पूर्वेद्युः कर्मवासरे ॥ ३ ॥
View Verse
सप्तमे पञ्चमे वापि तृतीयेऽहनि वा भवेत् ।
पूर्वे द्वारान्विते पश्चात् सद्यो वा सकलं चरेत् ॥ ४ ॥
View Verse
कौतुकं बन्धयेद्धीमान् पूर्वेद्युश्च निशामुखे ।
चतुःस्थानार्चनं विप्र कारयेद्विधिचोदितम् ॥ ५ ॥
View Verse
अभिषेकविधिं ब्रह्मन् इष्टसिद्धिप्रदं यजेत् ।
चक्राब्जमण्डलं वापि कारयेच्छास्त्रवित्तमः ॥ ६ ॥
View Verse
कुम्भाधिवासनं रात्रौ शयने सन्निवासयेत् ।
पञ्जरस्थस्य देवस्य पश्चिमे शयनं चरेत् ॥ ७ ॥
View Verse
पञ्चभारप्रमाणेन धान्येन परिपूजयेत् ।
तदर्धन्तण्डुलञ्चैव तदर्धं तिलमेव च ॥ ८ ॥
View Verse
नववस्त्रे विनिक्षिप्य व्याघ्रचर्म तथोपरि ।
तदूर्ध्वे कम्बलं न्यस्य पीठस्योपरि साधकः ॥ ९ ॥
View Verse
तदूर्ध्वेऽङ्गुलिकां न्यस्य चित्रवस्त्रं तथैव च ।
पञ्चोपधानसंयुक्तं प्रच्छादनपटं तथा ॥ १० ॥
View Verse
मृद्वास्तरणसंयुक्तं शयनं परिकल्पयेत् ।
क्षीरोदार्णवसंस्थितं अनन्तं परिपूजयेत् ॥ ११ ॥
View Verse
कुम्भमण्डलवह्नौ तु पूजनं पूर्ववच्चरेत् ।
बलिं च सर्वतो दद्यात् पुराणं श्रावयेत्सुधीः ॥ १२ ॥
View Verse
प्रभातकाले चोत्थाय स्नानं पूर्ववदाचरेत् ।
द्वारादीनि समभ्यर्च्य कुम्भादीन् परिपूजयेत् ॥ १३ ॥
View Verse
कुम्भानुद्धृत्य तान् सर्वान् द्वादशान् चतुरोऽपि वा ।
चतुष्कुम्भं तु तन्मध्ये अष्टदिक्ष्वष्टकं न्यसेत् ॥ १४ ॥
View Verse
व्रीहिकोपरि संस्थाप्य सूत्रवस्त्रादिवेष्टितम् ।
शरावं कूर्चसंयुक्तं शुद्धद्रव्यसमन्वितम् ॥ १५ ॥
View Verse
पूर्वे पुष्पं प्रदद्यात्तु आग्नेये पत्रसञ्चयम् ।
याम्ये फलोदकञ्चैव नै-ऋते पञ्चगव्यकम् ॥ १६ ॥
View Verse
वारुणे तीर्थतोयञ्च वायव्ये गन्धतोयकम् ।
सौम्ये चाक्षततोयं तु ईशान्ये भूतिसञ्ज्ञकम् ॥ १७ ॥
View Verse
मध्ये चतुष्टये विप्र आग्नेये रत्नतोयकम् ।
नै-ऋते लोहतोयं च वायव्ये व्रीहितोयकम् ॥ १८ ॥
View Verse
ईशान्ये सर्ववस्तूनि क्रमाद्द्रव्यं निवेशयेत् ।
उत्पलत्रितयञ्चैव केतकीद्वितयं तथा ॥ १९ ॥
View Verse
शतपत्रं जातियुग्मं नन्द्यावर्तद्वयं तथा ।
एतानि दश पुष्पाणि निक्षिपेत् कुम्भमध्यतः ॥ २० ॥
View Verse
पुष्पालाभे तु जातिस्यात्पत्रपूरमथोच्यते ।
तुलसीद्वितयञ्चैव दमनिद्वितयं तथा ॥ २१ ॥
View Verse
सटाभद्रा च दूर्वा च सहदेवी तथैव च ।
बिल्वपत्रञ्च इत्येते निक्षिपेत् पावकोदके ॥ २२ ॥
View Verse
पत्राणामप्यभावे तु तुलसीदलमुत्तमम् ।
कदली पनसञ्चाम्रं बिल्वमामलकं तथा ॥ २३ ॥
View Verse
नालिकेरञ्च हव्यञ्च लिकुचं दाडिमं भवेत् ।
एतानि निक्षिपेद्याम्ये फलाभावे तु दाडिमम् ॥ २४ ॥
View Verse
गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च पञ्चमम् ।
गव्यानामप्यलाभे तु घृतमेकं प्रशस्यते ॥ २५ ॥
View Verse
नादेयं नैर्झरं ह्रादं सामुद्रं पौष्करं तथा ।
हैमञ्च वार्षिकञ्चैव कर्पूरागरुकं तथा ॥ २६ ॥
View Verse
एलालवङ्गतक्कोलवचाकर्पूरमेव च ।
एतानि गन्धतोये तु निक्षिपेत्तन्त्रपारगः ॥ २७ ॥
View Verse
एलादीनामलाभेतु कर्पूरं सम्प्रचक्षते ।
व्रीहितण्डुलकञ्चैव प्रियङ्गुं कम्बुसञ्ज्ञकम् ॥ २८ ॥
View Verse
कलमां रक्तशालिञ्च वेणुं चैव यवं तथा ।
अक्षतानामभावे तु कलमापरिचक्षते ॥ २९ ॥
View Verse
त्रेताग्निभूतिकं चैव नित्यहोमाग्निभूतिकम् ।
यागाग्निभूतिकं चैव उत्सवाग्नि विभूतिकम् ॥ ३० ॥
View Verse
भूतीनामप्यलाभे तु नित्यकुण्डविभूतिकम् ।
मणिं मरकतञ्चैव वैडूर्यं पुष्परागकम् ॥ ३१ ॥
View Verse
गोमेधञ्चेन्द्रनीलञ्च वज्रं मौक्तिकमेव च ।
प्रवालं स्फटिकञ्चैव पुष्पगं ब्रह्मरागकम् ॥ ३२ ॥
View Verse
रत्नानामप्यलाभे तु मौक्तमेकं प्रशस्यते ।
सुवर्णं रजतं ताम्रमायसं त्रपुकं तथा ॥ ३३ ॥
View Verse
रजीन्द्र ? मारकूटञ्च लोहान्येतानि निक्षिपेत् ।
शालिं व्रीहिं तथाचैव षष्टिकं यववेणुकम् ॥ ३४ ॥
View Verse
गोधूमतिलमुद्गं च शिम्बमाषकुलत्थकम् ।
एतानि मारुते कुम्भे निक्षिपेन्मुनिसत्तम ॥ ३५ ॥
View Verse
ईशाने सर्ववस्तूनि निक्षिपेत्तन्त्रपारगः ।
यन्त्रन्यासक्रमेणैव उद्धारक्रम इष्यते ॥ ३६ ॥
View Verse
केशवाद्यैश्च मन्त्रैश्च स्थापयेद्विधिपूर्वकम् ।
स्नानं पुरुषसूक्तेन विष्णुसूक्तेन वा भवेत् ॥ ३७ ॥
View Verse
अन्तरान्तरयोगेन स्नानानां च महामते ।
अर्घ्यं गन्धं च पुष्पं च धूपं चैव निवेदयेत् ॥ ३८ ॥
View Verse
आसने तु समारोप्य अभिषेकं समाचरेत् ।
शुद्धस्नानं ततः कृत्वा नीराजनमथाचरेत् ॥ ३९ ॥
View Verse
अलङ्कृत्य यथा न्यायं यागभूमिं समाविशेत् ।
आसने सन्निवेश्याथ पट्टबन्धमथाचरेत् ॥ ४० ॥
View Verse
भट्टमाचार्यभूयञ्च तदग्रेण जगद्गुरुम् ।
आचार्यं दृष्टमात्रेण देववत्प्रतिभावयेत् ॥ ४१ ॥
View Verse
आसनं पादुकेचैव छत्रं चामरमेव च ।
वाहनं केतुदण्डञ्च चिह्नं काहलमेव च ॥ ४२ ॥
View Verse
शङ्खभेरीनिनादञ्च द्वारपालञ्च भूषणम् ।
कांस्यतालं च चिह्नं च प्रदद्याद्विष्णुसन्निधौ ॥ ४३ ॥
View Verse
कालचिह्नं कलञ्चैव प्रदद्यात् विष्णुसन्निधौ ।
राजा चात्र विशेषेण अभिषेकं समाचरेत् ॥ ४४ ॥
View Verse
अष्टोत्तरशते निष्के अभिषेकं प्रकल्पयेत् ।
नवरत्नसमायुक्तं त्रपुकाञ्चन संयुतम् ॥ ४५ ॥
View Verse
इतिपूर्वक्रियासर्वं द्विजवत्सर्वमाचरेत् ।
मुहूर्ते शोभने प्राप्ते अभिषेकं समाचरेत् ॥ ४६ ॥
View Verse
ब्राह्मणः क्षत्रियश्चैव वैश्यशूद्रैवमादिकैः ? ।
नृत्तगीतसमायुक्तं जयशब्दसमन्वितम् ॥ ४७ ॥
View Verse
वेदघोषसमायुक्तं शङ्खनादसमन्वितम् ।
अभिषेकं ततः कृत्वा दद्यादाचमनं तथा ॥ ४८ ॥
View Verse
नेत्रबन्धं ततः कृत्वा आयुधानि च संस्पृशेत् ।
उदस्थानानि भाण्डानि मङ्गलानि च दर्शयेत् ॥ ४९ ॥
View Verse
राजचिह्नानि सर्वाणि उत्तमासनपूर्वकम् ।
प्रणमेद्दण्डवद्भूमौ जनैस्सर्वैरतन्द्रितः ॥ ५० ॥
View Verse
वैश्यश्चेत्तु विशेषेण अभिषेकादिकं विना ।
पालशब्दं वदेद्विप्र शूद्रश्चेत् दास्यकं वदेत् ॥ ५१ ॥
View Verse
ब्राह्मणः सर्ववर्णानां राजा राष्ट्रस्य कारणम् ॥
View Verse
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां अभिषेकविधिर्नाम
नवमोऽध्यायः ॥
View Verse

Chapter - 10 राजलक्षणम्

१० राजलक्षणम्
अथ दशमोऽध्यायः
श्रीभगवान् -
राजकार्यमथो वक्ष्ये समासादवधारय ।
राज्ञश्शरीरं राष्टं हि राजा तज्जिव उच्यते ॥ १ ॥
View Verse
राजानञ्चैव राष्ट्रञ्च तस्माद्रक्ष्यं द्वयं बुधैः ।
तद्राष्ट्रस्य विशेषेण राज्ञः प्राधान्यमुच्यते ॥ २ ॥
View Verse
राजा गुरुर्जनानाञ्च वर्णानां ब्राह्मणो गुरुः ।
क्षतात्सन्त्रायते जन्तोः क्षत्रियस्स उदाहृतः ॥ ३ ॥
View Verse
अनुरागात् प्रजानां च राजा इत्यभिधीयते ।
भूरक्षणपरश्चैव भूमिपाल इति स्मृतः ॥ ४ ॥
View Verse
नारान्नियमनाच्चैव नरेशस्समुदाहृतः ।
View Verse
अन्येषां प्राणिसर्वेभ्यः पट्टबन्धं प्रकाशयेत् ।
वर्णानाञ्च द्विजादीनां जन्मकर्म प्रकीर्त्यते ॥ ६ ॥
View Verse
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणस्समुदाहतः ।
क्षत्रियायां विशेषेण क्षत्रियेण च भूभुजः ॥ ७ ॥
View Verse
तथापि वैश्यशूद्राणां जन्मसम्पत्तिरुच्यते ।
अध्यापनं चाध्ययनं याजनं यजनं तथा ॥ ८ ॥
View Verse
दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः ।
अध्ययनञ्च यजनं दानं वृत्तिश्च भूभुजाम् ॥ ९ ॥
View Verse
शौर्यं तेजो धृतिर्दाक्ष्यं युद्ध चाप्यपलायनम् ।
यज्ञदानपःकर्मण्यूहापोहविचक्षणः ॥ १० ॥
View Verse
शक्तित्रयसमोपेतो बलवान् कोशवर्धकः ।
स्वाम्यमात्यसुहृत्कोश राष्ट्रदुर्गबलान्वितः ॥ ११ ॥
View Verse
चारेणचिरयुक्तश्च धर्मशास्त्रार्थकोविदः ।
नीतिशास्त्रपरश्चैव गुणवान् ब्राह्मणप्रियः ॥ १२ ॥
View Verse
सर्वावयवसंयुक्तस्सर्वकल्याणकारणः ।
स्वराष्ट्ररक्षणपरः परराष्ट्रस्य पीडनः ॥ १३ ॥
View Verse
वाहनारोहणे दक्षः अर्थशास्त्रार्थकोविदः ।
वेदवेदाङ्गतत्त्वज्ञो देवतासमदर्शनः ॥ १४ ॥
View Verse
देवताराधनपरो विष्णुचिन्तापरस्सदा ।
बन्धुभृत्यसमायुक्तो गुरुभक्तिरतः सदा ॥ १५ ॥
View Verse
अर्थार्जनपरश्चैव बालरक्षणतत्परः ।
अश्वारोहणदक्षश्च द्वन्द्वयुद्धविशारदः ॥ १६ ॥
View Verse
मल्लयुद्धपरश्चैव वश्यशास्त्रपरिश्रमः ।
सर्वमन्त्रपरश्चैव गुरुवाक्यप्रमाणतः ॥ १७ ॥
View Verse
गीतनृत्तपरश्चैव पुराणश्रुतितत्परः ।
स्वदारनिरतश्चैव परदारविवर्जितः ॥ १८ ॥
View Verse
अनेकदानसंयुक्त स्तन्त्रीवादनसंस्कृतः ।
गीतश्रीगीतनिपुणः वाद्यनृत्यविशारदः ॥ १९ ॥
View Verse
एभिरेव गुणैयुक्तं राजानमभिषेचयेत् ।
सदाचारमथो वक्ष्ये क्षत्रियाणां विशेषतः ॥ २० ॥
View Verse
प्रभाते बोधकैर्युक्तश्शयनादपिचोत्थितः ।
मुखदानं ततः कुर्यात् ब्राह्मणेभ्यो विशेषतः ॥ २१ ॥
View Verse
घृतप्रस्थं च चषकं स्वर्णवस्त्रधृतं तथा ।
मलमूत्रपुरीषादीन् संविसृज्य रहस्यतः ॥ २२ ॥
View Verse
प्रातः स्नानं ततः कुर्यादुष्णतोयेन नित्यशः ।
स्नानीय द्रव्यसंयुक्तमभ्यङ्गादि समन्वितम् ॥ २३ ॥
View Verse
दिवाकरोदयात्पूर्वं सन्ध्यावन्दनमाचरेत् ।
गायत्रिया जपं कृत्वा उपस्थानं समाचरेत् ॥ २४ ॥
View Verse
आत्मार्थं यजनं कुर्यात् यन्त्रं विष्णुमथोऽपि वा ।
उभयं वा सदा कुर्यात् तर्पणादिपुरस्सरम् ॥ २५ ॥
View Verse
ताम्बूलदानं विप्राणां गोदानं सम्यगाचरेत् ।
कन्यादानं तिलञ्चैव रक्तवस्त्रं सुवर्णकम् ॥ २६ ॥
View Verse
आशीर्वादं गृहीत्वा तु मन्त्रपूताक्षतं द्विजैः ।
देवालयगतांस्तीर्थान् प्रसादं परिगृह्य च ॥ २७ ॥
View Verse
दैवब्राह्मणकार्यं च श्रुत्वा सर्वं समाचरेत् ।
अलङ्कृत्य यथान्यायं भूषणाद्यनुलेपनैः ॥ २८ ॥
View Verse
सभामण्डपमासाद्य आसने चाधिवासयेत् ।
व्यवहारान्नृपः पश्येद्ब्राह्मणैः सह नित्यशः ॥ २९ ॥
View Verse
शङ्खभेरीनिनादेन जयशब्दसमाकुलैः ।
चामरैस्तालवृन्तैश्च व्यजनैः परिवीजितः ॥ ३० ॥
View Verse
स्त्रीरत्नगणसंयुक्तं भेरीशब्दसमन्वितम् ।
बहुदीपसमायुक्तं वितानाद्यैरलङ्कृतम् ॥ ३१ ॥
View Verse
परराष्ट्रगतान् शत्रून् वधूः संवीक्ष्य भूभुजः ? ।
परराजागतान्पत्रान् श्रावयेद्भूभुजोत्तमः ॥ ३२ ॥
View Verse
ग्राह्याग्राह्य इतिज्ञात्वा सचिवैस्सह भूभुजः ।
ग्राह्यं गृहीत्वा राजेन्द्रः अग्राह्यं परिवर्जयेत् ॥ ३३ ॥
View Verse
मित्रामित्रे विदित्वा तु तत्तत्कार्यं समाचरेत् ।
जनान् सर्वान् विसृज्याथ गृहवाटं प्रवेशयेत् ॥ ३४ ॥
View Verse
मातापित्रोर्गृहं गत्वा प्रणमेत् दण्डवद्भुवि ।
श्रुत्वा तद्वाक्यमादाय तत्तत्कार्यं समाचरेत् ॥ ३५ ॥
View Verse
स्वगृहेषु स्वयं प्राप्य तत्तत्कार्यं समाचरेत् ।
आत्मानं यजनं कुर्याद्यन्त्रं विष्णुमथापि वा ॥ ३६ ॥
View Verse
उदयेवाससाकुर्यात् तत्तत्कार्यं समाचरेत् ।
आहार्यादीन् विसृज्याथ सूक्ष्मवस्त्राणि धारयेत् ॥ ३७ ॥
View Verse
श्रमालयं समासाद्य श्रमकार्यं समाचरेत् ।
उत्ताननं ततः कृत्वा मण्डनं च विसर्जयेत् ॥ ३८ ॥
View Verse
अथ स्नानं ततः कृत्वा देवागारं प्रवेशयेत् ।
पूजयित्वा च देवेशं हविष्यं च निवेद्य च ॥ ३९ ॥
View Verse
भोज्यासने समासीनो भोजनं सम्यगाचरेत् ।
भिषजस्सह राजेन्द्र भोजयेत्स्वबलैस्सह ॥ ४० ॥
View Verse
सुतैश्च बन्धुवर्गैश्च भृत्यवर्गैस्तथैव च ।
भोजनासनवेलायां शङ्खभेरीं निनादयेत् ॥ ४१ ॥
View Verse
भोजनेधृत्यकाले ? तु तथैव परिघोषयेत् ।
भोजनं शोधयेत्पूर्वं भुक्तद्रव्यमशेषतः ॥ ४२ ॥
View Verse
शनिवारे बुधे चैव तैलाभ्यङ्गं समाचरेत् ।
जन्म-ऋक्षे विशेषेण स्वर्णदानं समाचरेत् ॥ ४३ ॥
View Verse
गन्धालेपं ततः कुर्यात् भोगकाले विशेषतः ।
शुक्रवारदिने काले विष्णुदर्शनमाचरेत् ॥ ४४ ॥
View Verse
क्रोशद्वयं बहिर्ग्रामात् विचरेत्परिकरैस्सह ।
दिने दिने विशेषेण गजाश्वांश्चावलोकयेत् ॥ ४५ ॥
View Verse
परिक्रामन्परिकरे राज्यकार्यं विचिन्तयेत् ।
अयने विषुवे चैव ग्रहणे सोमसूर्ययोः ॥ ४६ ॥
View Verse
जन्म-ऋक्षे विशेषेण स्वर्णदानं समाचरेत् ।
दानेन दह्यते सर्वं तस्माद्दानं विशिष्यते ॥ ४७ ॥
View Verse
धर्मेण कारयेद्राज्यमन्यथा दोषकृद्भवेत् ।
सायाह्ने समनुप्राप्ते नीराजनमथाचरेत् ॥ ४८ ॥
View Verse
देववत्कारयेद्राज्ञां पुरोहितजनैस्सह ।
स्त्रीसभामण्डपे प्राप्ते नीराजनमलोकयेत् ॥ ४९ ॥
View Verse
भोजनं कारयेदन्ते शयने सन्निवेशयेत् ।
रक्षापरिकरैस्सार्धं राजकार्यं विचिन्तयेत् ॥ ५० ॥
View Verse
एवं दिने दिने कुर्यात् राजा नित्यमतन्द्रितः ।
राजा राष्ट्रविवृद्धर्थं विष्णुपूजां समाचरेत् ॥ ५१ ॥
View Verse
तत्पूजार्थं विशेषेण नगरग्रामपत्तनम् ।
कारयेच्छुद्धदेशे तु कर्षणादीन् प्रकारयेत् ॥ ५२ ॥
View Verse
ब्राह्मणानां निवासः स्याद्भ्रामञ्चाग्रहारकम् ।
राजावासं पुरं प्रोक्तं वैश्यानां पत्तनं भवेत् ॥ ५३ ॥
View Verse
जनत्रयसमायुक्त नगरग्रामपत्तनम् ।
दुर्गावाससमायुक्तं नगरं सम्प्रकारयेत् ॥ ५४ ॥
View Verse
नदीतीरे विशेषेण ग्रामं कुर्याद्विचक्षणः ।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ॥ ५५ ॥
View Verse
चतुस्सहस्रकं वापि उत्तमाधममध्यमम् ।
तदर्धं वा तदर्धं वा यथावित्तानुसारतः ॥ ५६ ॥
View Verse
ब्राह्मणान् वेदविदुषः श्रोत्रियान् ग्राहयेत्सुधीः ।
ब्राह्मणान्नपरीक्षेत कदाचिद्राजवर्त्मनः ॥ ५७ ॥
View Verse
ग्रामादि कारयेद्विद्वान् शुद्धदेशे मनोरमे ॥
View Verse
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां राजलक्षणं नाम
दशमोऽध्यायः ॥
View Verse

Chapter - 11 ग्रामादिनिर्माणम्

११ ग्रामादिनिर्माणम्
अथ एकादशोऽध्यायः
श्रीभगवान् -
ग्रामविन्यासकं वक्ष्ये अवधारय साम्प्रतम् ।
पुण्यक्षेत्रे नदीतीरे पर्वताग्रे त्रिकेपि वा ॥ १ ॥
View Verse
देवालयार्थं वा कुर्यात् ग्रामार्थं देवतालयम् ।
ग्रामात्पूर्वं स्वतन्त्रं स्यात् परतन्त्रं तु पश्चिमम् ॥ २ ॥
View Verse
एकविंशायनां वीथीं क्रोशमात्रं तु विस्तृतम् ।
ओतं प्रोतं तथा कुर्यात् ग्रामश्चैवोत्तमो भवेत् ॥ ३ ॥
View Verse
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं भवेत् ।
अयुग्मवीथिकायुक्तं वीथिद्वयमथापि वा ॥ ४ ॥
View Verse
सप्तपञ्चत्रयं वापि ओतप्लोत क्रमेण तु ।
कृत्वा एतत्क्रमेणैव कारयेद्ग्रामवर्धनम् ॥ ५ ॥
View Verse
ब्राह्मन्तु मध्यमं भागं दैविकं तदनन्तरम् ।
मानुषं तु तृतीयं स्यात् पैशाचं वै चतुर्थकम् ॥ ६ ॥
View Verse
पैशाचे देवतावासं ब्राह्मे वै विष्णुमन्दिरम् ।
बहिः प्रदक्षिणे विप्र वीथिकां सम्प्रकारयेत् ॥ ७ ॥
View Verse
एकपीठमथो वापि द्वितयं त्रितयन्तु वा ।
ग्रामपूर्वापरे विप्र विष्णुमन्दिरमाचरेत् ॥ ८ ॥
View Verse
आसनं शयनं वापि यानारूढमथापि वा ।
वाराहं पूर्वदिग्भागे आग्नेय्यां वै नृसिंहकम् ॥ ९ ॥
View Verse
याम्ये हयाननं प्रोक्तं नै-ऋते श्रीधरं भवेत् ।
वारुणे वासुदेवं तु मारुते वामनं तथा ॥ १० ॥
View Verse
सौम्ये तु राघवं प्रोक्तं माधवमीशके बुधः ।
तद्वहिर्वीथिकां प्राप्य रविसोमं च पूर्वके ॥ ११ ॥
View Verse
आग्नेये भैरवं स्थानं याम्ये वै मकरध्वजम् ।
षण्मुखं नै-ऋते प्रोक्तं वारुणे चैव कन्यकाम् ॥ १२ ॥
View Verse
वायव्ये मदनं प्रोक्तं मातृस्थानं तथोत्तरे ।
ईशाने शङ्करं न्यस्य केवले विष्णुमन्दिरम् ? ॥ १३ ॥
View Verse
तटाकं सर्वदिग्देशे गर्तं कूपं तथैव च ।
नगरे मध्यदेशे तु राजप्रासादमाचरेत् ॥ १४ ॥
View Verse
प्रासादस्य तु बाह्ये तु गृहिणीवासमाचरेत् ।
प्राकारं परितःकुर्यात् द्वारगोपुरशोभितम् ॥ १५ ॥
View Verse
तद्बहिर्वा न स्यादश्वावासं प्रकल्पयेत् ।
गजावासं च कूर्पं स्यात् भोजनागारमेव च ॥ १६ ॥
View Verse
बही रक्षाजनावासं स्ववाहकजनैर्युतम् ।
रथकारजनैश्चैव गन्धपाकजनैस्तथा ॥ १७ ॥
View Verse
आपणान्वीथिकां चैव वहिर्वीथीं प्रकल्पयेत् ।
दानदेशनिवासं ? च यथाभिमतिदेशिकः ॥ १८ ॥
View Verse
पुरदुर्गं बहिःकुर्यात् जलागारं बहिस्ततः ।
शिलासालं भूमिसालं यन्त्रतालसमन्वितम् ॥ १९ ॥
View Verse
उद्यानं सर्वतः कुर्यात् कूपं सर्वत्र कारयेत् ।
प्रासादग्रामनिर्माणं निमित्तात् परिकल्पयेत् ॥ २० ॥
View Verse
उपश्रुतिमुपश्रुत्य मङ्गलावाक्यगृह्यताम् ? ।
अमङ्गलं परित्यज्य गौलिर्दक्षिणतश्शुभम् ? ॥ २१ ॥
View Verse
वामे वाजि विनाशं स्याद्दोषस्याभिप्रकल्पयेत् ? ।
उद्योगगमने काले नारीपूर्णघटं शुभम् ॥ २२ ॥
View Verse
भेरीशङ्खनिनादं च तालघोषं तथैव च ।
क्षीरकुम्भं सुराकुम्भं दर्शयेत्शुभसंसदि ॥ २३ ॥
View Verse
दुर्न्निमित्ते सति ब्राह्ममष्टोत्तरशतं हुवेत् ।
प्राणायामदशं वापि बिलादग्रेथवाप्यलम् ? ॥ २४ ॥
View Verse
भूपईक्षाविधिं कुर्याच्छास्त्रदृष्टेन वर्त्मना ।
अधिकेचोत्तमाभूमिस्समञ्चेन्मध्यमा भवेत् ॥ २५ ॥
View Verse
न्यूनं चेदधमाभूमिरधमं परिवर्जयेत् ।
ततः प्रवेशबलिं कुर्यात् व्रीहिबीजेन देशिकः ॥ २६ ॥
View Verse
शङ्खवाद्यसमायुक्तं स्वस्तिसूक्तेन संयुतम् ।
इन्द्रादि ब्रह्मपर्यन्तं पञ्चरात्रेण वर्त्मना ॥ २७ ॥
View Verse
शङ्खोपस्थापनं कुर्यात् दिक्षुवाथ विदिक्षु च ।
वीथीं प्रकल्पयेद्विद्वान् देवागारं तथैव च ॥ २८ ॥
View Verse
शङ्खस्थापनकाले तु रत्नलोहादिकान् न्यसेत् ।
देवागारे विशेषेण कर्षणं सम्यगाचरेत् ॥ २९ ॥
View Verse
सप्तधा कर्षयेद्भूमिमालवाल प्रकल्पयेत् ।
बीजावापं ततः कृत्वा जलसेचनमाचरेत् ॥ ३० ॥
View Verse
फलपाकावसानञ्च रक्षां कुर्यात्समन्ततः ।
फलपाकावसाने तु गवान्तृप्तिञ्च कारयेत् ॥ ३१ ॥
View Verse
चतुरशं ततः कृत्वा खननं सम्यगाचरेत् ।
वसुधां पूरयेत्पश्चात् गण्डशैलैः प्रपूरयेत् ॥ ३२ ॥
View Verse
सिकतैः पूरयेत्पश्चात् जलपूरणमाचरेत् ।
हस्तपादैर्द्रढीकृत्य मादुकोपलकं न्यसेत् ॥ ३३ ॥
View Verse
आधारोपरि विन्यस्य प्रासादं परिकल्पयेत् ।
उपपीठोपरि वापि केवलं वापि कारयेत् ॥ ३४ ॥
View Verse
नगरं द्राविडं वापि केसरं च प्रकारयेत् ।
वृत्तं वृत्तायतं वापि चतुरश्रायतन्तु वा ॥ ३५ ॥
View Verse
कूटद्वारमथोवापि शालागारमथापि वा ।
उपानदादि संयुक्तं पादप्रस्तरशोभितम् ॥ ३६ ॥
View Verse
विमानैर्विविधैर्युक्तं शालापञ्जरभूषितम् ।
तोरणैश्च समायुक्तं मण्डपैश्च समायुतम् ॥ ३७ ॥
View Verse
प्राकारगोपुरैर्युक्त मन्तर्वीथिकया युतम् ।
आग्नेये मानसस्थानं याम्ये गन्धालयं परम् ॥ ३८ ॥
View Verse
श्रीस्थानं नैर्-ऋते प्रोक्तं पानीयं वारुणे परम् ।
वायव्ये नागराजानां भक्तानां सौम्यगे परम् ॥ ३९ ॥
View Verse
सौम्येशानकयोर्मध्ये विष्वक्सेनं प्रकल्पयेत् ।
भगवत्प्रमुखं पश्चात् गरुत्मन्तं नियोजयेत् ॥ ४० ॥
View Verse
चण्डञ्चैव प्रचण्डञ्च द्वारपार्श्वे निवेशयेत् ।
दुर्गां गणपतिं चैव ईशाने पावके न्यसेत् ॥ ४१ ॥
View Verse
गोपुरस्य पुरो विप्र बलिपीठं प्रकल्पयेत् ।
पचनालयपूर्वे तु कूपं कुर्याद्विचक्षणः ॥ ४२ ॥
View Verse
दक्षिणे चक्रराजन्तु ईशान्ये कोशसङ्ग्रहम् ।
विमानपार्श्वे विप्रेन्द्र दिङ्मूर्तिं परिकल्पयेत् ॥ ४३ ॥
View Verse
वासुदेवादिकं वापि वाराहादिकमेव वा ।
स्तूपिकात्रितयं वापि पञ्चकं सप्तकन्तु वा ॥ ४४ ॥
View Verse
एकं वापि द्विजश्रेष्ठ धामायामवशेन तु ? ।
एवं कृत्वा विधानेन प्रतिष्ठां सम्यगाचरेत् ॥ ४५ ॥
View Verse
गर्भन्यासं ततः कृत्वा इष्टकाद्वितयं चरेत् ।
विमानस्थापनं कुर्यात् पञ्चरात्रेण वर्त्मना ॥ ४६ ॥
View Verse
तरुणालयपूर्वन्तु वेश्म कुर्याद्विचक्षणः ।
तरुणालयं विना मूलेनाचरेत्तन्त्रवित्तमः ॥ ४७ ॥
View Verse

Chapter - 12 बेरलक्षणम्

१२ बेरलक्षणम्
अथ द्वादशोऽध्यायः
श्रीभगवान् -
बिम्बमानमथो वक्ष्ये शृणु गुह्यं महामुने ।
आसनं शयनं वापि यानारूढं स्थितन्तु वा ॥ १ ॥
View Verse
वासुदेवादिकṁ वापि केशवादीनथापि वा ।
मत्स्यादीन् वा विशेषेण यजमानो गुरुस्तथा ॥ २ ॥
View Verse
यजमानोदयाद्वापि भर्गद्वारवशात्तु वा ।
पाताधिष्ठानमानं वा हस्तमानमथापि वा ॥ ३ ॥
View Verse
तालमानमथो वापि यद्वाऽङ्गुलवशात्तु वा ।
अङ्गुलन्त्रितयं प्रोक्तं मात्रं मध्यं च मुष्टिकम् ॥ ४ ॥
View Verse
मानप्रमाणमुन्मानपरिमाणोपमानकम् ।
लम्बमानं षडेतानि मानानि कथयाम्यहम् ॥ ५ ॥
View Verse
उत्तुङ्गं मानमित्युक्तमुन्मानं विस्तृतं भवेत् ।
नाभिमानं प्रमाणं स्यादन्तरञ्चोपमानकं ? ॥ ६ ॥
View Verse
सूत्रं च लम्बमानं स्यादेतैर्मानैस्समायुतम् ।
षण्मानं च तथैवोक्तमन्यथा दोषकृद्भवेत् ॥ ७ ॥
View Verse
चित्रं वाप्यर्धचित्रं वा चित्राभासमथापि वा ।
चित्रं सर्वाङ्गदृष्टं स्यादर्धचित्रन्तु सार्धकम् ॥ ८ ॥
View Verse
आभासं पटभित्तिस्थं त्रिविधं परिकीर्तितम् ।
रत्नं लोहञ्च पाषाणं दारु वा मृन्मयन्तु वा ॥ ९ ॥
View Verse
एकबेरं बहुबेरं स्वतन्त्रं परतन्त्रकम् ।
आश्रितं योगकञ्चैव भोगं योगं तथापरम् ॥ १० ॥
View Verse
ब्रह्मस्थाने स्थितं बेरमेकबेरमुदाहृतम् ।
दिव्यभागे स्थितं बेरं बहुबेरमिति स्मृतम् ॥ ११ ॥
View Verse
स्वतन्त्रं ग्रामतःपूर्वं परतन्त्रं तु पश्चिमम् ।
आलये भित्तिपार्श्वे तु स्थापितं चाश्रितं भवेत् ॥ १२ ॥
View Verse
श्रीभूमिसहितं वापि रहितं योगकं स्मृतम् ? ।
श्रीकरं भोगमित्युक्तं योगं वश्यकरं भवेत् ॥ १३ ॥
View Verse
अयादिभिस्स्समोपेतं दशतालेन कारयेत् ।
तालं शताङ्गुलीकृत्य चतुर्विंशोत्तरं भवेत् ॥ १४ ॥
View Verse
नवतालप्रमाणेन देवीकर्मार्चनादिकम् ।
षट्कौतुकसमोपेतं बहुवेरमुदाहृतम् ॥ १५ ॥
View Verse
एवबेरं तथा प्रोक्तं शिलार्चेति द्वयं विना ।
कर्मार्चास्नपनञ्चैव स्थापने कर्मकौतुकम् ॥ १६ ॥
View Verse
आत्मार्थं च परार्थं च द्विविधं स्थापनं भवेत् ।
गृहेषु स्थापितं पूर्वमालये चापरं भवेत् ॥ १७ ॥
View Verse
आत्मार्थं गृहरक्षंस्यादालयं ग्रामरक्षकम् ।
मुख्यस्थाने स्थितो देवो राजराष्ट्रस्य रक्षकः ॥ १८ ॥
View Verse
अन्योन्यसङ्गतौस्यात्तु राष्ट्रक्षोभो यथारुचि ।
कर्मार्चाचोत्सवार्चा च बल्यर्चा च तथैव च ॥ १९ ॥
View Verse
स्नानतीर्थोभयार्चा च स्वापोत्थानार्चया सह ।
प्रतिमा षड्विधा प्रोक्ता उत्तमा समुदाहृता ॥ २० ॥
View Verse
त्रिभिश्च मध्यमा प्रोक्ता एका च चरमा भवेत् ।
कृष्णराघवसंयुक्तं सिंहवाराहकेन च ॥ २१ ॥
View Verse
सौदर्शन समायुक्तं लक्ष्मीबेरसमन्वितं ।
View Verse
यद्वाष्टभुजकं वापि यथारुचि समाचरेत् ।
शयने द्विभुजं मुख्यं कृष्णो रामो भवेत्तदा ॥ २३ ॥
View Verse
वाराहवामनौ चैव तथा त्रैविक्रमो भवेत् ।
लक्ष्मीनृसिंहं वाराहं लक्ष्मीनारायणं तु वा ॥ २४ ॥
View Verse
श्रीकरं विजयं प्रोक्तं नगरग्रामपत्तने ।
एवं बिम्बगणान्कुर्यात् प्रतिष्ठां सम्यगाचरेत् ॥ २५ ॥
View Verse

Chapter - 13 अङ्कुरार्पणम्

१३ अङ्कुरार्पणम्
अथ त्रयोदशोऽध्यायः
श्रीभगवान् -
स्थापनं सम्प्रवक्ष्यामि बिम्बानां मुनिसत्तम ।
स्थावरं जङ्गमञ्चैव द्विविधं बेरमुच्यते ॥ १ ॥
View Verse
अयने चोत्तरं मुख्यं जघन्यं दक्षिणायनम् ।
जङ्गमन्तु जघन्ये वा मुख्ये वापि समाचरेत् ॥ २ ॥
View Verse
माघे भाद्रपदे मासि प्रतिष्ठां परिवर्जयेत् ।
गुरुशुक्रास्तमे चैव ग्रहणस्यान्तिके तथा ॥ ३ ॥
View Verse
दुष्टवारे विलग्ने च अशुभर्क्षे तथा तिथौ ।
वर्जयेद्देवदेवेशस्थापनं देशिकोत्तमः ॥ ४ ॥
View Verse
दैवज्ञेनसमायुक्तं स्थापनं सम्यगाचरेत् ।
शिल्पशास्त्रानुसारेण शिल्पिना देशिकोत्तमः ॥ ५ ॥
View Verse
यजमानेन सहितः सर्वैः परिकरैः सह ।
सर्वद्रव्यं समासाद्य पश्चात्कर्म समाचरेत् ॥ ६ ॥
View Verse
कर्मारम्भदिनात्पूर्वं सप्तमे पञ्चमेऽहनि ।
तृतीयेऽहनि वा कुर्यात् अङ्कुरानर्पयेद्बुधः ॥ ७ ॥
View Verse
ततः प्रदोषे सम्प्राप्ते मृत्सङ्ग्रहणमाचरेत् ।
दिशं प्राचीमुदीचीं वा व्रजेत् परिकरैस्सह ॥ ८ ॥
View Verse
उद्यानं वा नदीतीरं प्राकारं तन्मयन्तु वा ? ।
तद्देशं प्रोक्षयेद्विप्र मन्त्रपूतेन वारिणा ॥ ९ ॥
View Verse
आसने तु समाविश्य प्राणायामं समाचरेत् ।
न्यासं कृत्वा विशेषेण पुण्याहं वाचयेद्बुधः ॥ १० ॥
View Verse
महीमभ्यर्च्य मन्त्रेण बलिं दद्यात्समन्ततः ।
खनित्रं क्षालयेत्तत्र अस्त्रमन्त्रेण देशिकः ॥ ११ ॥
View Verse
वस्त्रदर्भैस्समाच्छाद्य भूसूक्तेन महीं स्पृशेत् ।
खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडविद्यया ॥ १२ ॥
View Verse
वेदैर्विहितमन्त्रेण वास्तुपूर्षं विलिख्य च ।
पुनरभ्यर्चयेद्धीमान् प्रात्राण्यादय देशिकः ॥ १३ ॥
View Verse
गच्छेत्परिकरैस्सार्धं शङ्खकाहलनिस्वनैः ।
मण्डपं कारयेद्धीमान् प्रपामात्रमथापि वा ॥ १४ ॥
View Verse
वितानाद्यैरलङ्कृत्य ध्वजतोरणकुम्भकैः ।
पूर्वपश्चिमदीर्घञ्च दक्षिणोत्तरदीर्घकम् ॥ १५ ॥
View Verse
चतुरश्रं समं वापि तन्मध्ये मण्डलं लिखेत् ।
इष्टसिद्धिप्रदं वापि चक्राब्जं वापि कारयेत् ॥ १६ ॥
View Verse
पूर्ववत्स्थापयेत्कुम्भं मण्डलस्य तु पश्चिमे ।
मण्डलेशस्य पूर्वे तु पालिकाक्षेत्रमुच्यते ॥ १७ ॥
View Verse
पश्चिमेचोत्तरे वापि अग्न्यागारं प्रकल्पयेत् ।
दक्षिणोत्तरे तथा कुर्यात् पालिकां ग्राह्य देशिकः ॥ १८ ॥
View Verse
पालिकां घटिकां चैव शरावान्द्वादशान्प्रति ? ।
बिलान् सम्पूरयेत्पश्चात् पालाशैः कुशदर्भकैः ॥ १९ ॥
View Verse
चतुर्विंशाङ्गुलोत्सेधं क्षालयेद्देशिकोत्तमः ।
बन्धयेत्कण्ठदेशे तु दूर्वां बिल्वं च देशिकः ॥ २० ॥
View Verse
मृदा सम्पूरयेत्पश्चात् सूत्रपातं समाचरेत् ।
पालिकास्यानुरूपेण कोष्ठे व्रीहीन्प्रपूरयेत् ॥ २१ ॥
View Verse
तस्योपरि न्यसेत्पत्रं तत्पूर्वे बीजभाजनम् ।
सोमकुभन्तु वा पश्चात् न्यसेत्तन्त्रविचक्षणः ॥ २२ ॥
View Verse
द्वारं कृत्वा विधानेन द्वारपूजां समाचरेत् ।
कुम्भे च मण्डले चैव अग्नौ सम्पूजयेत्क्रमात् ॥ २३ ॥
View Verse
पालिकादक्षिणे पार्श्वे उत्तराभिमुखः स्थितः ।
पुण्याहं वाचयेत्पश्चात् ब्राह्मणैः सह देशिकः ॥ २४ ॥
View Verse
पालिका स्वर्चयेद्देवान् ब्रह्माविष्णुशिवात्मकान् ।
सोमकुम्भं समभ्यर्च्य सोममन्त्रेण होमयेत् ॥ २५ ॥
View Verse
तिलमुद्गयवान्चैव व्रीहिमाषप्रियङ्गुकान् ।
शिम्बसर्षपगोधूम कुलत्थान् कङ्गुश्यामकान् ॥ २६ ॥
View Verse
बीजानामप्यभावे तु मुद्गमेकं प्रशस्यते ।
एतत्सङ्गृह्य निक्षिप्य पात्रे क्षीरं विनिक्षिपेत् ॥ २७ ॥
View Verse
स्थापयेदम्बरेणैव पालिकाः परिवेष्टयेत् ।
सोमकुम्भगतां शाक्तिं बीजपात्रे विनिक्षिपेत् ॥ २८ ॥
View Verse
पश्चादोषधिमन्त्रेण अभिमन्त्रणमाचरेत् ।
पुनस्सम्पूरयेत्पश्चात् घृतारोपणमाचरेत् ॥ २९ ॥
View Verse
पुनस्सम्पूजयेत् बीजं बीजावापनमाचरेत् ।
शङ्खदुन्दुमिनादैश्च गीतमङ्गलवाद्यकैः ॥ ३० ॥
View Verse
पुनः पूजां प्रकुर्वीत पूर्णाहुत्यवसानकम् ।
बलि दद्याद्विशेषेण मण्डपस्य समन्ततः ॥ ३१ ॥
View Verse
सदस्सम्भावयेद्विद्वान् दक्षिणां दापयेद्बुधः ।
कुम्भमण्डलमभ्यर्च्य पूर्णाहुतिमथाचरेत् ॥ ३२ ॥
View Verse
रक्षां कृत्वा विशेषेण सुगुप्ते स्थापयेद्बुधः ।
दिने दिने मुनिश्रेष्ठ बलिपूजां समाचरेत् ॥ ३३ ॥
View Verse

Chapter - 14 जलाधिवासः

१४ जलाधिवासः
अथ चतुर्दशोऽध्यायः
श्रीभगवान् -
जलवासमथो वक्ष्ये समासान्मुनिपुङ्गव ।
कर्मारम्भदिनात्पूर्वे तृतीये पञ्चमेऽपि वा ॥ १ ॥
View Verse
एकाहमथवा कुर्यात् एकरात्रमथापि वा ।
यामं यामार्धकं वापि जलावासं समाचरेत् ॥ २ ॥
View Verse
कौतुकं पूर्वतः कुर्यात् बेरस्य सकलस्य च ।
आचार्यस्य विशेषेण ऋत्विजानां तथैव च ॥ ३ ॥
View Verse
चित्रयोगे विशेषेण महाबेरैस्तथैव च ।
छायाधिवासनं कुर्यात् बिम्बाभावे तु दर्पणम् ॥ ४ ॥
View Verse
तदभावे तु कूर्चं स्यात् अलङ्कृत्य यथाविधि ।
गमयेत्परिकरैस्सार्धं तीरदेशे विशेषतः ॥ ५ ॥
View Verse
नद्यां वापितटाके वा निर्झरोपान्त एव च ।
तदभावे विशेषेण कटाहे मणिकेऽपि वा ॥ ६ ॥
View Verse
जलमध्ये प्रपां कृत्वा तीरदेशे तु मण्डपम् ।
अलङ्कृत्य वितानाद्यैः कुम्भमण्डलकुण्डकैः ॥ ७ ॥
View Verse
मण्डलं स्वस्तिकं प्रोक्तं कुण्डं पङ्कजमेव च ।
द्वारादियजनं कृत्वा कुम्भमण्डलकं यजेत् ॥ ८ ॥
View Verse
कुम्भैराराधनं प्रोक्तं मण्डले वासुदेवकम् ।
अग्नौ वै विष्णुमन्त्रेण पद्मभूवर्तयेत्ततः ॥ ९ ॥
View Verse
एवमभ्यर्चनं कृत्वा जलमध्ये निवेशयेत् ।
शयनं कल्पयित्वैवं ब्रह्मकुम्भादिकान् न्यसेत् ॥ १० ॥
View Verse
न्यासपूर्वं ततः कृत्वा मालान्नेन बलिं क्षिपेत् ।
पुण्याहवाचनं पूर्वं रक्षां कुर्यात्समन्ततः ॥ ११ ॥
View Verse
नृत्तगीतादिवाद्यैश्च वेदघोषैः प्रणादयेत् ।
पुराणैःशान्तिमन्त्रैश्च जागरेण नयेन्निशाम् ॥ १२ ॥
View Verse
गृहार्चास्थापने काले सद्योवासं समाचरेत् ।
ततः प्रभाते विमले तीरमण्डपमानयेत् ॥ १३ ॥
View Verse
स्वस्थाने सन्निवेश्याथ चतुःस्थानं क्रमाद्यजेत् ।
ब्रह्मकुम्भादिकान् सर्वान् ब्रह्ममूर्धनि सेचयेत् ॥ १४ ॥
View Verse
कलशैः स्नपनं कुर्यात् पञ्चविंशतिभिः क्रमात् ।
तत मन्त्रेण मन्त्रज्ञो मूर्तिमन्त्रेण वाहयेत् ॥ १५ ॥
View Verse
शुद्धस्नानं ततः कृत्वा पुरुषेनाभिषेचयेत् ।
नीराजनं ततः कृत्वा निवेद्यान्नबलिं क्षिपेत् ॥ १६ ॥
View Verse
गमयेदालये देवं पूर्ववत्परिकल्पयेत् ।
मण्डपं समलङ्कृत्य पश्चिमाभिमुखं न्यसेत् ॥ १७ ॥
View Verse
चक्राब्जमण्डलं कृत्वा दर्शनार्थं सकुम्भकम् ।
नयनोन्मीलनार्थाय सर्वमापादयेद्बुधः ॥ १८ ॥
View Verse
देवस्य पुरतःस्थाने व्रीहितण्डुलपीठके ।
घृतपात्रं मधु न्यस्य अष्टधान्यं च निक्षिपेत् ॥ १९ ॥
View Verse
गाञ्चैव कन्यकाञ्चैव विनिवेश्य तदन्तिके ।
स्वर्णसूचीञ्चतट्टिञ्च ? रजतेन तथैव च ॥ २० ॥
View Verse
परिस्तीर्य चतुर्दिक्षु वासुदेवादिकान् यजेत् ।
कुम्भमण्डलकं पूज्य पुण्याहमपि वाचयेत् ॥ २१ ॥
View Verse
अर्घ्यादैर्देवमभ्यर्च्य घृतपात्रादिकान् न्यसेत् ।
उन्मील्य दक्षिणं नेत्रं घृतसिक्तशलाकया ॥ २२ ॥
View Verse
चित्रन्देवेति मन्त्रेण तच्चक्षुरिति मन्त्रतः ।
दर्शयेन्मण्डलं कुम्भं गां च कन्यां तथैव च ॥ २३ ॥
View Verse
अष्टधान्यानि सर्वाणि सुवर्णपलमेव च ।
नानाविधानि पुष्पाणि फलानि विविधानि च ॥ २४ ॥
View Verse
एतद्द्रव्याणि सर्वाणि आचार्याय प्रदापयेत् ।
आच्छादनपटञ्चैव क्षौमवस्त्रं तथैव च ॥ २५ ॥
View Verse
पुनरभ्यर्चयेद्देवं श्रावयेद्वेदघोषणम् ।
गीतं नृत्तं च वाद्यं च पुराणं द्राविडं तथा ॥ २६ ॥
View Verse
पुष्पवृष्टिमुषस्सर्वे तुष्टिस्तु पुरुषोत्तमः ? ।
स्नानपीठे विशेषेण मोदयेद्देशिकोत्तमः ॥ २७ ॥
View Verse
कलशस्थापनं कृत्वा अष्टोत्तरशतं परम् ।
एकाशीतिघटं वापि चत्वारिंशन्नवोत्तरम् ॥ २८ ॥
View Verse
घृतमुष्णोदकञ्चैव रत्नं चैव फलोदकम् ।
लोहजम्मार्जनञ्चैव गन्धञ्चैवाक्षतोदकम् ॥ २९ ॥
View Verse
यवोदकं तथाचार्घ्यं पाद्यमाचमनीयकम् ।
पञ्चगव्यं दधिक्षीरं मधु चैव कषायकम् ॥ ३० ॥
View Verse
त्रिविधे कलशे ब्रह्मन् एतद्द्रव्यं विधीयते ।
पूर्वादिब्रह्मपर्यन्तमुद्धारक्रम इष्यते ॥ ३१ ॥
View Verse
सूत्रवस्त्रादिभिर्वेष्ट्य कूर्चच * * षान्वितम् ।
ततश्चूर्णपटैरक्तं मृदालेपं समाचरेत् ॥ ३२ ॥
View Verse
पञ्चभूतार्चने चैव सन्निधत्ते हरिःस्वयम् ।
प्रतिष्ठायां विशेषेण पञ्चभूतार्चनं चरेत् ॥ ३३ ॥
View Verse
मृदालेपं जले स्नानं दीपं नीराजनं तथा ।
गन्धालेपञ्च सेचादि वाद्यवादनमेव च ॥ ३४ ॥
View Verse
मृदालेपक्रमं वक्ष्ये समासादवधारय ।
नदीतटाकवल्मीकपर्वतक्षेत्रमृत्तिकाः ॥ ३५ ॥
View Verse
गजसूकरगण्डस्थं गोवृषशृङ्गसंस्थितम् ।
तीर्थसिन्धुमृदं चैव एतद्द्वादशकं स्मृतम् ॥ ३६ ॥
View Verse
ताम्रपात्रे तथाग्राह्यं प्ठक्पात्रे विनिक्षिपेत् ।
शरावं कलशं वापि किञ्चिदुक्तमृदाश्रितम् ॥ ३७ ॥ ?
View Verse
धान्यराशौ प्रतिष्ठाप्य कोष्ठद्वादशकं भवेत् ।
पुण्याहं वाचयित्वा तु मृदानभ्यर्च्य साधकः ॥ ३८ ॥
View Verse
द्वादशाक्षरमन्त्रेण मृदालेपं समाचरेत् ।
पूजयेत्सम्पुटीकृत्य उपस्नानसमन्वितम् ॥ ३९ ॥
View Verse
कलशस्नपन कुर्यात् द्वादशाक्षरमन्त्रतः ।
विष्णुसूक्तेन वा विप्र पुरुषसूक्तमथापि वा ॥ ४० ॥
View Verse
अन्तरान्तरयोगेन उपस्नानादिनार्चयेत् ।
चूर्णस्नानं ततः कुर्यात् शुद्धस्नानं तथैव च ॥ ४१ ॥
View Verse
सहस्रधारया स्नानं कुर्यान्नीराजनं तथा ।
घटदीपद्वादशकैः प्रतिष्ठाप्य पुरःस्थले ॥ ४२ ॥
View Verse
सूत्रमल्लकसंयुक्तं वन्दिवादसमन्वितम् ।
नीराजयेद्घटं विप्र पूजयेत्पूजयान्वितम् ॥ ४३ ॥
View Verse
नीराजनविधानेन अग्निपूजनमिष्यते ।
अग्निपूजाविहीने तु प्रतिष्ठा निष्फला भवेत् ॥ ४४ ॥
View Verse
मारुतप्रीणनार्थाय गन्धस्नानं समाचरेत् ।
चन्दनं कुङ्कुमञ्चैव कर्पूरमगरुं तथा ॥ ४५ ॥
View Verse
उशीरं कोष्ठकञ्चैव कचोरं रजनी तथा ।
एलालवङ्गकञ्चैव तक्कोलं मुरमेव च ॥ ४६ ॥
View Verse
एतानि द्वादशोक्तानि मन्त्रेऽस्मिन् परमेष्ठिना ।
पृथक् पात्रे निवेश्यार्च्य स्नापयेद्द्वादशार्णकैः ॥ ४७ ॥
View Verse
पूजया सम्पुटं कुर्यात् साधकस्तन्त्रपारगः ।
आकाशप्रीणनार्थाय वेदवाद्यादिना चरेत् ॥ ४८ ॥
View Verse
चतुर्वेदादिघोषञ्च पुराणं गीतमङ्गलम् ।
गाथापद्यं तथा मिश्रं प्रत्यङ्गागमनं तथा ॥ ४९ ॥
View Verse
श्रावयेत्सन्निधौ विप्र देवदेवस्याशार्ङ्गिणः ।
अर्घ्याद्यैः पूजयेद्देवं प्रीतिशब्दमनन्तरम् ॥ ५० ॥
View Verse

Chapter - 15 प्रतिष्ठाविधिः

१५ प्रतिष्ठाविधिः
अथ पञ्चदशोऽध्यायः
श्रीभगवान् -
शयनं सम्प्रवक्ष्यामि स्थापनं तदनन्तरम् ।
कल्पयेन्मण्डपं पूर्वं ध्वजतोरणकुम्भकैः ॥ १ ॥
View Verse
वितानैः पूर्वोक्तकुम्भैश्चिरं भागैर्मनोरमैः ।
फलैर्नानाविधैश्चैव पुष्पमाल्यैश्च शोभितम् ॥ २ ॥
View Verse
दर्भमाल्यैः परिक्षिप्तं मुक्तादामैरलङ्कृतम् ।
तस्मिन्मण्डपमध्ये तु वेदिं कुर्याद्विचक्षणः ॥ ३ ॥
View Verse
वेदिकातालभूमौ तु शयनं परिकल्पयेत् ।
पञ्चभारप्रमाणेन व्रीहिणा परिपूरयेत् ॥ ४ ॥
View Verse
तदर्धं तण्डुलञ्चैव तदर्धं तिलमेव च ।
प्रतिवस्त्रं तथास्तीर्य तदूर्ध्वे कम्बलं न्यसेत् ॥ ५ ॥
View Verse
तदूर्ध्वे तूलिकां न्यस्य व्याघ्रचर्म तथोपरि ।
चित्रवस्त्रं तदूर्ध्वे तु प्रच्छादनपटं तथा ॥ ६ ॥
View Verse
मृद्वास्तरणसंयुक्तमुपधानत्रयान्वितम् ।
एवं शयनकं कृत्वा शास्त्रदृष्टेन वर्त्मना ॥ ७ ॥
View Verse
तस्य दक्षिणपार्श्वे तु मण्डलं परिकल्पयेत् ।
चक्राब्जं बहुपद्मं वा इष्टसिद्धिमथापि वा ॥ ८ ॥
View Verse
शयनस्योत्तरे पार्श्वे कुम्भवेदिं प्रकल्पयेत् ।
कुम्भन्तु पूर्ववत्कृत्वा कुण्डाष्टौ सम्प्रकल्पयेत् ॥ ९ ॥
View Verse
शङ्खं चक्रं गदां चैव पद्मवेदिं चतुष्टये ।
अश्रङ्कोणं षडश्रं वा पञ्चाश्रं विदिशःक्रमात् ॥ १० ॥
View Verse
मूलबेरप्रतिष्ठायामेष एव विधिर्भवेत् ।
नारसिंहप्रतिष्ठायां वाराहस्य विशेषतः ॥ ११ ॥
View Verse
अष्टवह्नौ विना विप्र अन्यथा दोषकृद्भवेत् ।
चतुर्दिक्षु विशेषेण वेदान् संस्थापयेन्मुखम् ॥ १२ ॥
View Verse
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणे ।
पश्चिमे सामवेदन्तु अथर्वञ्चोत्तरे तथा ॥ १३ ॥
View Verse
एवं गुरुविधानेन पुण्याहं वाचयेद्बुधः ।
शयनन्तु समभ्यर्च्य शयने सन्निवेशयेत् ॥ १४ ॥
View Verse
द्वारादि यजनं कुर्यात् कुम्भे सम्पूजयेद्धरिम् ।
मण्डले वासुदेवन्तु बिम्बे तन्मूर्तिमर्चयेत् ॥ १५ ॥
View Verse
शयने शाययेद्देवं क्षौमैराच्छादयेत्परम् ।
होमकर्म ततः कुर्यात् प्रत्येकमृत्विजैर्भवेत् ॥ १६ ॥
View Verse
द्व्ययमेवह्यलङ्कुर्यात् चतुर्भिर्वापि कारयेत् ।
ऋत्विजानामप्यभावे तु आचार्याद्युपकारयेत् ॥ १७ ॥
View Verse
अष्टोत्तरशतं होमं तदर्धं मध्यमं भवेत् ।
अश्वत्थोदुम्बरश्चैव न्यग्रोधः प्लक्ष एव च ॥ १८ ॥
View Verse
पलाशः खदिरश्चैव शम्यपामार्ग एव च ।
एतेषामप्यलाभे यु पालाशसमिधं हुवेत् ॥ १९ ॥
View Verse
समिदाज्येन चरुणा तिलैराज्यैश्च होमयेत् ।
होमान्ते तु विशेषेण चतुरन्नं निवेदयेत् ॥ २० ॥
View Verse
पायसं चैव मुद्गान्नं कृसरं गुलमेव च ।
शुद्धान्नञ्चैव माषान्नं हरिद्रान्नं तथैव च ॥ २१ ॥
View Verse
शिम्बान्नञ्च विशेषेण होमं स्यादष्टकुण्डके ।
न्यासहोमं ततः कृत्वा संहृतिन्यासमाचरेत् ॥ २२ ॥
View Verse
शोषणादित्रयं कृत्वा सृष्टिन्यासं समाचरेत् ।
पञ्चोपनिषदैर्मन्त्रैः सृष्टिसंहारकं चरेत् ॥ २३ ॥
View Verse
मन्त्रन्यासं ततः कृत्वा तत्त्वन्यासं समाचरेत् ।
तन्त्रन्यासं ततः कृत्वा होमं कुर्यात्पृथक् पृथक् ॥ २४ ॥
View Verse
एवं कृत्वा विधानेन कवाटं चापि बन्धयेत् ।
त्रिरात्रं बन्धयित्वैवं बहुवेरेन बन्धयेत् ॥ ४३ ॥
View Verse
चतुर्थेऽहनि सम्प्राप्ते चतुःस्थानार्चनं चरेत् ।
आचार्यं पूजयेत्पश्चात् रत्नहेमाङ्गुलीयकैः ॥ ४४ ॥
View Verse
गोभूहिरण्यवस्त्राद्यैः कन्यादानैर्विशेषतः ।
ततः प्रभृति विप्रेन्द्र नित्यपूजां समाचरेत् ॥ ४५ ॥
View Verse

Chapter - 16 सदाचारविधिः

१६ सदाचारविधिः
अथ षोडशोऽध्यायः
श्रीभगवान् -
सदाचारमथो वक्ष्ये सावधानेन तच्छृणु ।
तस्य विशेषेण सदाचारं ब्रवीमिते ॥ १ ॥
View Verse
ब्राह्मे मुहूर्ते चोत्थाय भगवन्नामकीर्तनम् ।
स्तोत्रेण तोषयेद्विद्वान् गुरुं संस्मृर्त्य साधकः ॥ २ ॥
View Verse
वासुदेवाय देवाय समग्रगुणमूर्तये ।
सङ्कर्षण नमस्तेऽस्तु विश्वपावनमूर्तये ॥ ३ ॥
View Verse
अनिरुद्ध नमस्तेऽस्तु जगत्कारणमूर्तये ।
केशवाय नमस्तेऽस्तु ततो नारायणाय ते ॥ ४ ॥
View Verse
माधवाय नमस्तुभ्यं गोविन्दाय नमो नमः ।
विश्वात्मने नमस्तुभ्यं नमोस्तु मधुसूदन ॥ ५ ॥
View Verse
त्रिविक्रम नमस्तेऽस्तु वामनाय नमो नमः ।
श्रीधराय नमस्तेऽस्तु हृषिकेशाय ते नमः ॥ ६ ॥
View Verse
नमस्ते पद्मनाभाय नमो दामोदराय च ।
नमस्ते मत्स्यरूपाय नमस्ते कूर्ममूर्तये ॥ ७ ॥
View Verse
वाराहाय नमस्तेऽस्तु नारसिंहाय ते नमः ॥ ८ ॥
View Verse
वामनाय नमस्तेऽस्तु नमो रामत्रयाय च ।
गोविन्दाय नमस्तेऽस्तु हयग्रीवाय ते नमः ॥ ९ ॥
View Verse
एवं स्तुत्वा विधानेन तीरदेशं समाश्रयेत् ।
दर्भवस्त्रं निधायाथ जलाद्दूराद्बहिश्चरेत् ॥ १० ॥
View Verse
कर्णस्थब्रह्मसूत्रं च दिवा चोदङ्मुखश्चरेत् ।
रात्रौ चेद्दक्षिणावक्त्रं तृणं भूमौ विनिक्षिपेत् ॥ ११ ॥
View Verse
लेपयेद्दक्षिणं हस्तं काष्ठपर्णतृणादिभिः ।
गृहीत्वा वामहस्तेन शेफाग्रं बाह्यतश्चरेत् ॥ १२ ॥
View Verse
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः ।
उद्धृताभिर्विशेषेण मृद्भिः प्रक्षालनं चरेत् ॥ १२ ॥
View Verse
सप्तभिर्गुददेशञ्च शिश्नञ्च त्रिभिराचरेत् ।
अन्तरान्तरयोगेन हस्तप्रक्षालनं चरेत् ॥ १३ ॥
View Verse
पञ्चभिः पादशुद्धिं च आचामं तु समाचरेत् ।
त्रिःपिबेत् द्विर्मृजेच्चैवं दशाङ्गानि च संस्पृशेत् ॥ १४ ॥
View Verse
अङ्गुलिभिर्विशेषेण चक्षुराद्यैस्तु संस्पृशेत् ।
मृदालेपं ततः कृत्वा मृदा दिग्बन्धमाचरेत् ॥ १५ ॥
View Verse
विष्णुगायत्रिया चैव अवगाहनमाचरेत् ।
आचामं तु ततः कृत्वा तीरदेशं समाविशेत् ॥ १६ ॥
View Verse
आपोहिष्ठादिभिर्मन्त्रैः प्रोक्षयेत्स्वशिरोपरि ।
उदकाञ्जलिं ततः कृत्वा प्रादक्षिण्यं समाचरेत् ॥ १७ ॥
View Verse
तर्पयित्वा विशेषेण आचामं तु समाचरेत् ।
वस्त्रन्निष्पीडयेत्पश्चात् सावित्रीन्तु ततो जपेत् ॥ १८ ॥
View Verse
उपस्थानं ततः कृत्वास्वगृहं सम्प्रवेशयेत् ।
पादप्रक्षालनं कृत्वा आचामेत्पूर्ववद्बुधः ॥ १९ ॥
View Verse
अग्निं समिन्धयेत्पश्चात् नित्यहोममथाचरेत् ।
दिवाकरोदयात्पूर्वं नित्यकर्म समाप्य च ॥ २० ॥
View Verse
देवालयं प्रविश्याथ प्रादक्षिण्यद्वयं चरेत् ।
पूर्ववच्छुद्धिराचामं कृत्वा पूजां समाचरेत् ॥ २१ ॥
View Verse
द्वारदेशे तु सम्प्राप्ते षडङ्गन्यासमाचरेत् ।
तालत्रयं ततः कृत्वा प्रविशेद्दक्षिणाङ्घ्रिणा ॥ २२ ॥
View Verse
देवस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ।
उदक्पूर्ववलने दक्षिणाभिमुखश्चरेत् ॥ २३ ॥
View Verse
पश्चिमद्वारके विप्र तथा कुर्याद्विचक्षणः ।
अङ्गन्यासं ततः कृत्वा छोटिकादर्शनं चरेत् ॥ २४ ॥
View Verse
प्राणायामत्रयं कृत्वा रेचकादित्रयेण च ।
पञ्चोपनिषदैर्मन्त्रै संहृतिन्यासमाचरेत् ॥ २५ ॥
View Verse
जीवात्मानं समारोप्य परस्मिन् ब्रह्मणि ध्रुवे ।
शोषणादित्रयं कृत्वा अन्तरस्थो विचक्षणः ॥ २६ ॥
View Verse
दिव्यस्थानं यथा स्थाप्य सृष्टिन्यासं समाचरेत् ।
मातृकान्यसनं कृत्वा तत्त्वन्यासं समाचरेत् ॥ २७ ॥
View Verse
महाभूतादीनां पञ्चतन्मात्राणां तथैव च ।
न्यासक्रमे विजानीयात् मनोबुद्ध्यादिपञ्चकम् ॥ २८ ॥
View Verse
मूलमन्त्राक्षरन्यासं षडङ्गं द्वादशन्तु वा ।
मूर्धादिपादपर्यन्तं सृष्टिन्यासं प्रकीर्तितम् ॥ २९ ॥
View Verse
नाभ्यादि हृदयान्तन्तु स्थितिन्यासं प्रकीर्तितम् ।
पादादि च शिरोन्तन्तु संहृतिन्यासमुच्यते ॥ ३० ॥
View Verse
ब्रह्मचारी गृहस्थश्च यतिश्चैव यथाक्रमम् ? ।
मूर्धा चक्षुर्मुखञ्चैव नाभि गुह्यं च पादुकम् ॥ ३१ ॥
View Verse
पृथिव्यादीनां भूतानां स्थानं पादं शिरोऽपि वा ।
पद्मस्थानन्तु चान्येषां स्थानमेतदुदाहृतम् ॥ ३२ ॥
View Verse
करन्यासं ततः कृत्वा सृष्टिसंहारपालनैः ।
दक्षिणादि तु वामान्तं सृष्टिन्यासं प्रकीर्तितम् ॥ ३३ ॥
View Verse
विपरीतेन योगेन विपरीतमुदाहृतम् ।
तर्जन्यादि कनिष्ठान्तं सृष्टिन्यासं प्रकीर्तितम् ॥ ३४ ॥
View Verse
करन्यासं तु पूर्वं स्यात् देहन्यासं तु पश्चिमम् ।
एवं न्यासं क्रमात्कृत्वा मानसाराधनं चरेत् ॥ ३५ ॥
View Verse
ध्यानार्घ्यगन्धपुष्पाद्यै रुपचारैस्समर्चयेत् ।
मानसाराधनं श्रेष्ठं बाह्यपूजाऽवरा विदुः ॥ ३६ ॥
View Verse
बाह्यन्तु नाशमायाति तस्मान्मानसिकं परम् ।
आत्मार्थे तु तथा कुर्यात् परार्थे सम्प्रपूजयेत् ॥ ३७ ॥
View Verse
साधकः सर्वशास्त्रज्ञः नाविष्णुर्विष्णुमर्चयेत् ।
देवोऽहं भावयेद्विद्वान् पञ्चरात्रविशारदः ॥ ३८ ॥
View Verse

Chapter - 17 समाराधनविधिः

१७ समाराधनविधिः
अथ सप्तदशोऽध्यायः
आराधनविधिं वक्ष्ये अवधारय साम्प्रतम् ।
भृगुः -
कैर्द्रव्यैः पूजयेद्देवमुपचारैश्च कैः प्रभो ॥ १ ॥
View Verse
श्रीभगवान् -
दीक्षितैस्साधकैश्चैव तथैव परिचारकैः ।
स्वादूदकैश्च पुष्पैश्च गन्धैर्नानाविधैरपि ॥ २ ॥
View Verse
धूपैर्गुग्गुलुमिश्रैश्च दीपैर्वर्तिसमन्वितैः ।
वस्त्रैश्चैवोपवीतैश्च माल्यैर्नानाविधैरपि ॥ ३ ॥
View Verse
गीतनृत्तैश्च वाद्यैश्च स्तोत्रैश्चैव प्रदक्षिणैः ।
वाहनैश्चामरैश्चैव शङ्खकाहलनादकैः ॥ ४ ॥
View Verse
मात्राभिश्तालवृन्तैश्च स्नानैश्च कलशोदकैः ।
नीराजनैर्दीपयुक्तैरर्घ्यपाद्यादिकैस्तथा ॥ ५ ॥
View Verse
कर्पूरैश्चैव ताम्बूलैः गोदानैश्शान्तिकुम्भकैः ।
भक्ष्यैर्भोज्यैस्तथा पेयैर्लेह्यैश्चोष्यैर्महादिकैः ॥ ६ ॥
View Verse
जपैः प्रणामैर्दानैश्च होमैश्चैव विशेषतः ।
बलिदानैरुत्सवैश्च बिम्बैर्नानाविधैरपि ॥ ७ ॥
View Verse
प्रासादमण्डपैश्चैव परिवारसमन्वितैः ।
अनन्तगरुडाद्यैश्च उत्सवाद्यैर्विशेषतः ॥ ८ ॥
View Verse
मण्डलाराधनैश्चैव तथा वै कुम्भपूजनैः ।
वह्निसम्पूजनैश्चैव मासपूजासमन्वितैः ॥ ९ ॥
View Verse
पवित्रारोहणेनाथ पत्रपुष्पोत्सवेन च ।
दमनारोहणैश्चैव तथा चैव फलोत्सवैः ॥ १० ॥
View Verse
प्रायश्चित्तविधानैश्च तथा विष्ण्वादिपूजनैः ।
श्रावण्यामर्चनैश्चैव पौर्णमास्यद्वयार्चनैः ॥ ११ ॥
View Verse
श्रीजयन्त्युत्सवैश्चैव तथा कृत्तिकपूजनैः ।
आग्रायणैर्विशेषेण तथाचाध्ययनोत्सवैः ॥ १२ ॥
View Verse
वसन्तोत्सवैर्विशेषैस्तथा चैव ज त्सवैः ? ।
तुलस्याराधनैश्चैव तथा पवैश्च चम्पकैः ॥ १३ ॥
View Verse
एतैस्सम्पूजयेद्देवमन्यथा दोषकृद्भवेत् ।
तस्मात्सर्वप्रयत्नेन एतैर्द्रव्यैः सुपूजयेत् ॥ १४ ॥
View Verse
नित्यैर्नैमित्तिकैश्चैव तथा कम्यैर्महोत्सवैः ।
एतत्कर्म विना चेत्तु राजराष्ट्रभयं भवेत् ॥ १५ ॥
View Verse
महद्दोषमवप्नोति सर्वसंहारकारणम् ।
उपचारानथो वक्ष्ये समासादवधारय ॥ १६ ॥
View Verse
ज्ञानयोगं कर्मयोगं द्विविधं तदुपायकम् ।
कर्मयोगाच्च भगवन् ज्ञानयोगं प्रजायते ॥ १७ ॥
View Verse
कर्मयोगविशेषेण केशवाराधनं परम् ।
केशवाराधनं चैव राजराष्ट्रसुखावहम् ॥ १८ ॥
View Verse
सर्वदुःखोपशमनं सर्वज्ञानफलप्रदम् ।
भगवद्ज्ञानफलदं विष्णुप्रीतिकरं शुभम् ॥ १९ ॥
View Verse
देवदेवप्रसादेन सर्वदुःखक्षयावहम् ।
तस्मात्सर्वप्रयत्नेन केशवाराधनं चरेत् ॥ २० ॥
View Verse
पञ्चशुद्धिविधिं कुर्यात् प्रथमं मुनिसत्तम ।
भूतशुद्धिर्द्रव्यशुद्धिः स्थानशुद्धिस्तथैव च ॥ २१ ॥
View Verse
पात्रशुद्धिस्तथा पश्चात् बिम्बशुद्धिस्तु पञ्चमम् ।
स्नानमाचमनं चैव देहशुद्धिर्विशिष्यते ॥ २२ ॥
View Verse
सत्येन ध्यानयोगेन मनश्शुद्धिरिहोच्यते ।
सत्यं भूतहितं प्रोक्तं ध्यानं वै विष्णुचिन्तनम् ॥ २३ ॥
View Verse
मार्जनालेपने चैव स्थानशुद्धिर्विधीयते ।
दहनाप्यायने चैव क्षालनात् प्रोक्षणादपि ॥ २४ ॥
View Verse
द्रव्यशुद्धिं विजानीयात् साधकः परमार्थवित् ।
पात्राणि पूततोयेन शुद्धं प्रक्षालयेत्तु वै ॥ २५ ॥
View Verse
तिन्त्रिणी सिकताम्भोभिः बिम्बशुद्धिः प्रजायते ।
एवं शुद्धिं क्रमात्कृत्वा भद्रपीठं तु विन्यसेत् ॥ २६ ॥
View Verse
वस्त्रे तु फलकेवापि न्यसेदर्घ्यादि पात्रकान् ।
अर्घ्यं पाद्यं तथाचामं स्नानीयं शुद्धपात्रकम् ॥ २७ ॥
View Verse
अग्न्यादिब्रह्मपर्यन्तमाधारोपरि विन्यसेत् ।
अर्घ्ये गन्धं फलं चैव पाद्ये दूर्वां तिलं तथा ॥ २८ ॥
View Verse
एलालवङ्गमाचामे स्नानीये चन्दनं परम् ।
शुद्धतोये विशेषेण तथैव परिपूजनम् ॥ २९ ॥
View Verse
श्रीरर्घ्यस्य भवेद्देवी वागीशीत्वाचमस्य च ।
पाद्ये च पितरं देवं स्नानीये वरुणं तथा ॥ ३० ॥
View Verse
शुद्धोदके च शान्तिं च पञ्च पात्रस्यदेवताः ।
दहनाप्यायनेचैव सौरभेयीप्रदर्शनम् ॥ ३१ ॥
View Verse
छोटिकादर्शनं कुर्यात् गन्धपुष्पादिधूपकैः ।
पूजयेत् सर्वपात्राणि पञ्चोपनिषदैः क्रमात् ॥ ३२ ॥
View Verse
उदभाण्डं समभ्यर्च्य गन्धपुष्पैस्तथैव च ।
द्वारपूजां ततः कुर्यात् द्वारस्थाने विशेषतः ॥ ३३ ॥
View Verse
आत्मानमर्चयित्वा तु गुरुपङ्क्ति प्रपूजयेत् ।
गुरुं परं गुरुं चैव तथा सिद्धगण यजेत् ॥ ३४ ॥
View Verse
द्वारपूजां पुरा विप्र प्रासादपुरुषं यजेत् ।
पीठस्थदेवतान् सर्वान् गन्धपुष्पादिभिर्यजेत् ॥ ३५ ॥
View Verse
धर्मादिचतुरश्चैव अधर्मादींस्तथैव च ।
वेददींश्चतुरश्चैव युगादींश्चतुरस्तथा ॥ ३६ ॥
View Verse
गुणत्रयं तदूर्ध्वे तु तदूर्ध्वे मण्डलत्रयम् ।
आधारं प्रथमं कूर्मं कालाग्निं तदनन्तरम् ॥ ३७ ॥
View Verse
अनन्तं मणिकं चैव भद्रपीठं च पङ्कजम् ।
स्थानमापूजयेत् सर्वान् परिवारांस्तथैव च ॥ ३८ ॥
View Verse
वासुदेवादिकांश्चैव तथा शङ्खादिकान् परम् ।
कुमुदादि गणान् सर्वान् तथा इन्द्रादिपालकान् ॥ ३९ ॥
View Verse
विष्वक्सेनगणान् सर्वांश्चण्डादिकपुरस्सरम् ।
एतान् सम्पूजयेदर्घ्यगन्धपुष्पादिधूपकैः ॥ ४० ॥
View Verse
आवाहनं ततः कुर्यात् मूलाद्वै कर्मकौतुकम् ।
अनेकैरुपचारैर्वा अष्टोत्तरशतैस्तु वा ॥ ४१ ॥
View Verse
चतुष्षष्टिक्रमं वापि द्वाविंशक्रममेव च ।
परार्थयजने विप्र एतन्न्यूनं न कारयेत् ॥ ४२ ॥
View Verse
आत्मार्थे षोडशं प्रोक्तं द्वात्रिंशत्क्रममेव वा ।
आवाहनं नमस्कारः प्रत्यत्थानमनन्तरम् ॥ ४३ ॥
View Verse
पुष्पाञ्जलिः स्वागतोक्तिरासनं पादपीठिका ।
अर्घ्यं पाद्यं तथाचामं तत्क्रमो वक्ष्यतेऽधुना ॥ ४४ ॥
View Verse
अर्घ्यदाने विशेषेण घण्टां शङ्खं निनादयेत् ।
आवाहने तु विप्रेन्द्र निगमं वाद्यमाचरेत् ॥ ४५ ॥
View Verse
शङ्खद्वयं काहलञ्च शृङ्गनादं तथैव च ।
पाद्यदाने तु विप्रेन्द्र द्विर्दद्याच्च पदाम्बुजे ॥ ४६ ॥
View Verse
वस्त्रेण मार्जनं कृत्वा चन्दनालेपनं चरेत् ।
पुष्पं पृथक् पृथक् दद्यात् सुगन्धं पाद्यमेव वा ॥ ४७ ॥
View Verse
पाद्यदाने तु शङ्खंस्यादाचामं हीनशङ्खकम् ।
आचामं तु त्रिर्दद्यात्तु द्विरुन्मृज्य च संस्पृशेत् ॥ ४८ ॥
View Verse
नेत्रं नासां तथा श्रोत्रमंसयोर्द्वितयं स्पृशेत् ।
अर्घ्यं शिरसि विन्यस्य पाद्यं पादाम्बुजद्वये ॥ ४९ ॥
View Verse
आचामं हस्तके दद्याच्चक्षुरादेस्तु तत्र तु ।
उन्मृजाकरणे विप्र तिर्यङ्मूर्ध्नि परामृशेत् ॥ ५० ॥
View Verse
गन्धानुलेपनं देयं पुष्पं शिरसि अंसयोः ।
मुक्तपुष्पञ्च पत्रं च त्रिर्दद्याद्द्वे पदाम्बुजे ॥ ५१ ॥
View Verse
धूपदानं मधुपर्कं ताम्बूलं गन्धभावितम् ।
मुद्गमात्रप्रदानं च पादुकं स्नानविष्टरम् ॥ २२ ॥
View Verse
मधुपर्कप्रदाने तु आचामं केवलं ददेत् ।
आसनेषु च सर्वेषु वस्त्रताम्बूलदानके ॥ ५३ ॥
View Verse
पादप्रक्षालने चैव भोजनान्ते विशेषतः ।
आचामं कारयेन्नित्यं वस्त्रमञ्जनलेपनम् ॥ ५४ ॥
View Verse
स्नानासनं निवेद्याथ पादप्रक्षालनं चरेत् ।
आचामं स्नानशाटीं च पुनराचाममेव च ॥ ५५ ॥
View Verse
दन्तधावनकं चैव जिह्वानिर्लेखनं तथा ।
गण्डूषाचमनं चैव वस्त्रमाल्यानुलेपनम् ॥ ५६ ॥
View Verse
मुखवासं च ताम्बूलं तथा दर्पणपूर्वकम् ।
स्कन्धशाटीं तथा तैलं सुगन्धं कुसुमावृतम् ॥ ५७ ॥
View Verse
नेत्रवस्त्रावबद्धं च अपूपानि निवेदयेत् ।
वीजयेत्तालवृन्तेन अभ्यङ्गं सम्यगाचरेत् ॥ ५८ ॥
View Verse
अपूपादिनिवेद्यान्ते आचामं नागवल्लिकां ।
कदलीमुष्णोकं चैव मुखालेपं समाचरेत् ॥ ५९ ॥
View Verse
चन्दनं मुखलेपार्थं मुष्टिकर्पूरभावितम् ।
तैलं बहुसुगन्धं च उदकं स्वादु शीतलम् ॥ ६० ॥
View Verse
शुद्धस्नानं ततः कृत्वा धौतवस्त्रं प्रदापयेत् ।
अर्घ्यं च रजनीस्नानं पुनः स्नानं तथैव च ॥ ६१ ॥
View Verse
धौतवस्त्रप्रदानं च पात्राणां च प्रकल्पनम् ।
पूजनं पूर्ववत् कुर्यादर्घ्यदानं समाचरेत् ॥ ६२ ॥
View Verse
पाद्यमाचमनीयं च गन्धालेपनमाचरेत् ।
पवित्रं चोपवीतं च उत्तरासङ्गमेव च ॥ ६३ ॥
View Verse
पुष्पमाला धूपदानं दीपं वेदैश्च पाठनम् ।
नानाविधानि स्तोत्राणि गद्यपद्यगतानि च ॥ ६४ ॥
View Verse
प्राक्र्टं मङ्गलञ्चैव पैशाचं मङ्गलं तथा ।
गीतमङ्गलकं चैव नृत्तं वाद्यं तथैव च ॥ ६५ ॥
View Verse
सहस्रधारया स्नानं कलशस्नानपूर्वकम् ।
द्वादशं नवकं वापि यथा वित्तानुसारतः ॥ ६६ ॥
View Verse
घृतं पाद्यं दधि चैव अर्घ्यं क्षीरमतः परम् ।
आचामं गन्धतोयं च पञ्चगव्यं कषायकम् ॥ ६७ ॥
View Verse
यथा नवघटे प्रोक्तं द्वादशे वाधिकं शृणु ।
रत्नं लोहं फलं पुष्पं मध्ये च चतुरःक्रमात् ॥ ६८ ॥
View Verse
द्रव्याणामप्यलाभे तु तद्वर्गैकं प्रशस्यते ।
नित्ये च स्नपने चैव कौतुकेनाङ्कुरार्पणम् ॥ ६९ ॥
View Verse
निशाचूर्णैः स्नपनं नेष्यते मण्टपस्थले ।
अन्तरान्तरयोगेन अर्घ्यदानं समाचरेत् ॥ ७० ॥
View Verse
सहस्रधारया स्नान मनुवाकत्रयं भवेत् ।
विस्ṁउसूक्ताभिषेकं च श्रीसूक्तेन श्रियं तथा ॥ ७१ ॥
View Verse
भूसूक्तेन भुअं प्रोक्तं स्नपने प्रत्यृचं भवेत् ।
अष्टाक्षरेण वा सर्वं द्वादशाक्षरेण भवेत् ॥ ७२ ॥
View Verse
स्नानान्ते भोजनान्ते च अलङ्कारासनान्तके ।
सायाह्ने तु विशेषेण नीराजनमथाचरेत् ॥ ७३ ॥
View Verse
भ्रामयेद्घटदीपेन एकधा वा द्विधा त्रिधा ।
बहुदीपसमायुक्तं नीराजनपरिस्थितम् ॥ ७४ ॥
View Verse
द्वयं चतुर्थं षट्कं वा अष्टकं दशकं तु वा ।
द्वादशं षोडशं वापि विंशं त्रिंशमथापि वा ॥ ७५ ॥
View Verse
घटदीपं विशेषेण दीक्षितेन परिष्कृतम् ।
अर्चयेदर्घ्यपुष्पाद्यैर्देवं तुष्ट्वा यथाक्रमम् ॥ ७६ ॥
View Verse
भ्रामयेद्देवदेवेश आपादतलमस्तकम् ।
धौतवस्त्रद्वयेनैव शिरोगात्रं प्रमार्जयेत् ॥ ७७ ॥
View Verse
अधरोत्तरवस्त्रं च शिरोवेष्टनमाचरेत् ।
गीतवाद्यादिसंयुक्तमलङ्कारासनं नयेत् ॥ ७८ ॥
View Verse
अलङ्कारैरलङ्कृत्य आसने च विशेषतः ।
समाविशेत् ? ॥ ७९ ॥
View Verse
अर्घ्यादिकल्पनं कुर्यात् पूर्ववन्मन्त्रवित्तम ।
द्वारार्चनं ततः कुर्यात् परिवारार्चनं तथा ॥ ८० ॥
View Verse
विष्वक्सेनार्चनं चैव पीठदेवार्चनं तथा ।
अर्घ्यादिकं तथा कुर्यात् पाद्यमाचमनं तथा ॥ ८१ ॥
View Verse
प्रतिग्रहत्रयं प्रोक्तं समाराधनकर्मणि ।
कर्पूररजसायुक्तं शरीरस्नानमाचरेत् ॥ ८२ ॥
View Verse
मृगमदं शिरस्नानं प्रोक्तं वै विष्णुना पुरा ।
गात्रानुलेपनं कुर्यात् तथावै मिश्रचन्दनैः ॥ ८३ ॥
View Verse
बाहुमूलद्वये विप्र कृत्रिमालेपनं भवेत् ।
गन्धैर्नानाविधैः पुष्पैश्शिरोवेष्तनमाचरेत् ॥ ८४ ॥
View Verse
मल्लदण्डसमाकारं कर्णिकाकारमेव च ।
शिरोमाल्यैरलङ्कृत्य बाहुमूले प्रलम्बयेत् ॥ ८५ ॥
View Verse
उपवीतं प्रदद्यात्तु भूषणानि तथैव च ।
ललाटे तिलकं कृत्वा तथा चोर्ध्वं च पुण्ड्रकम् ॥ ८६ ॥
View Verse
ताम्बूलं दर्पणं चैव धूपं दीपं तथैव च ।
वाहनं चामरं छत्रं ध्वजं मङ्गलकीर्तनम् ॥ ८७ ॥
View Verse
वेदघोषं पुराणञ्च शङ्खकाहलनादनम् ।
गीतं नृत्तं तथा वाद्यं मात्रादानपुरस्सरम् ॥ ८८ ॥
View Verse
प्रदक्षिणं नमस्कारस्तथा नीराजनं भवेत् ।
भोज्यासने तु देवेशं त्रिभिर्भागवतैस्सह ॥ ८९ ॥
View Verse
पाद्यमर्घ्यं तथाचामं मधुपर्कमनन्तरम् ।
आचामं चैव ताम्बूलं तिलगोदानमेव च ॥ ९० ॥
View Verse
अङ्गशाटीं तथा दद्यादर्हणं भोजनं तथा ।
पायसं चैव मुद्गान्नं शुद्धान्नं पायसैर्युतं ॥ ९१ ॥
View Verse
पानकं चैव पानीयं गण्डूषाचमनं तथा ।
वस्त्रेण मार्जनं कृत्वा गन्धालेपनमाचरेत् ॥ ९२ ॥
View Verse
पाञ्चरात्रान् समाहूय अर्घ्याद्यैस्सम्प्रपूजयेत् ।
तन्त्रदानं ततः कुर्यान्मधुपर्कपुरस्सरम् ॥ ९३ ॥
View Verse
मात्रादानं ततःकृत्वा ताम्बूलं च निवेदयेत् ।
अक्षमालां समभ्यर्च्य जपकर्म समाचरेत् ॥ ९४ ॥
View Verse
महानसं प्रविश्याथ होमकर्म समाचरेत् ।
इति सङ्क्षेपतः प्रोक्तं समाराधनमुत्तमम् ॥ ९५ ॥
View Verse

Chapter - 18 अग्निकार्यबलिप्रदानविधिः

१८ अग्निकार्यबलिप्रदानविधिः
अथ अष्टादशोऽध्यायः
श्रीभगवान् -
अग्निकार्यमथो वक्ष्ये सङ्ग्रहान्मुनिसत्तम ।
पचनालयमासाद्य द्वारमभ्यर्च्य साधकः ॥ १ ॥
View Verse
चुल्ल्यां दक्षिणतो विप्र होमकुण्डं समाचरेत् ।
चतुरशं समञ्चैव योनिनाभिसमन्वितम् ॥ २ ॥
View Verse
मेखलात्रयसंयुक्तं पीठकादिसमन्वितम् ।
कुण्डस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ॥ ३ ॥
View Verse
श्रीकरं विस्तरे पार्श्वे उल्लेखनमथाचरेत् ।
पूर्वाग्रे त्रिभिरैखैश्च उत्तराग्रे तथैव च ॥ ४ ॥
View Verse
पूर्वाग्रं याम्यसौम्यं स्यादुत्तराग्रं तु पश्चिमम् ।
अग्निं समिन्धयेत्पश्चात् प्राणायाममथाचरेत् ॥ ५ ॥
View Verse
दर्भैः परिस्तरेत्तत्र वासुदेवादिमन्त्रतः ।
कुण्डस्योत्तरपार्श्वे तु दर्भैस्तत्र परिस्तरेत् ॥ ६ ॥
View Verse
पात्राणां सादनं कुर्याद्वितयुग्मेन साधकः ।
आज्यपात्रं तहा दर्वीं प्रोक्षणीं प्रणीतामपि ॥ ७ ॥
View Verse
इध्मं दर्वीं विशेषेण साधयेन्मन्त्रवित्तमः ।
प्रोक्षणीं पुरतो न्यस्य पवित्रं तत्र निक्षिपेत् ॥ ८ ॥
View Verse
पूरयेज्जलपात्रेण तत्रोत्प्लावनमाचरेत् ।
तज्जलैः प्रोक्षयेत्पात्राण्युत्तानं सम्यगाचरेत् ॥ ९ ॥
View Verse
पुनश्च प्रोक्षणं कुर्यात् प्रणीतां पुरतो न्यसेत् ।
उत्प्लावनं पूर्ववत्कृत्वा दर्भेण च विधानतः ॥ १० ॥
View Verse
ललाटसममुद्धृत्य स्थापयेन्मेखलोपरि ।
अग्नेरुत्तरपार्श्वे तु ब्रह्मकूर्चं विनिक्षिपेत् ॥ ११ ॥
View Verse
ब्रह्माणमर्चयेद्विद्वान् अर्घ्यगन्धादिभिः क्रमात् ।
आज्यपात्रं समादाय आज्यं निक्षिप्य साधकः ॥ १३ ॥
View Verse
अग्नेरुत्तरपार्श्वे तु अङ्गारान्विभजेत्ततः ।
विभज्योर्ध्वे प्रतिष्ठाप्य दर्भानादीपयेत्ततः ॥ १३ ॥
View Verse
दर्भाग्रौ तत्र निक्षिप्य पुनरादीप्य दर्शयेत् ।
आज्यपात्रं समुद्धृत्य अङ्गारान् सहयोजयेत् ॥ १४ ॥
View Verse
आदाय पुरतो न्यस्य उत्प्लावनं सम्यगाचरेत् ।
कूर्चमग्रे विनिक्षिप्य सौरभेयीं प्रदर्शयेत् ॥ १५ ॥
View Verse
दर्वीमादाय सव्येन अपसव्येन दर्भकम् ।
त्रिधा सन्तापयेद्विद्वान् दर्भानग्नौ विनिक्षिपेत् ॥ १६ ॥
View Verse
परिधिं विन्यसेद्विप्र आज्यं दक्षिणमुत्तरे ।
View Verse
अनुयाजन्न्यसेद्विद्वान् प्रणीतां मुखमध्यमे ।
इध्महोमं ततः कृत्वा आधारं जुहुयात्ततः ॥ १८ ॥
View Verse
अनिलाद्यग्निपर्यन्तमाधारं प्रथमं हुनेत् ।
नैर्-ऋतादीश पर्यन्तमाधारं तु द्वितीयकम् ॥ १९ ॥
View Verse
अग्नेस्सव्यापसव्ये तु अग्नेस्सोमेन हूयते ।
देवीं देवं ततो दद्यादृतुसङ्गमनं परम् ॥ २० ॥
View Verse
उभाभ्यामपि सञ्जातमग्निं च परिचिन्तयेत् ।
होमान्तादिक्रियाम्? कृत्वा आज्येन द्विजसत्तम ॥ २१ ॥
View Verse
समिदाज्येन चरुणा प्रत्येकं षोडशाहुतीः ।
जिह्वाहोमं ततः कृत्वा ज्ञात्वा शक्तिं च होमयेत् ॥ २२ ॥
View Verse
नित्यहोमं विशेषेण क्रमाद्वक्ष्ये विशेषतः ।
अग्निं समिन्धयेत्पश्चात् प्राणायामं च कारयेत् ॥ २३ ॥
View Verse
परिषेचनं क्र्मात्कृत्वा अग्निं ध्यात्वा समर्चयेत् ।
समिदाज्येन चरुणा यद्वा आज्येन वा भवेत् ॥ २४ ॥
View Verse
मूलमन्त्रत्रयेणैव त्रिर्द्रव्यैः परिहोमयेत् ।
द्वादशाष्टाहुतीर्वापि बलिं दद्यात्समन्ततः ॥ २५ ॥
View Verse
आत्मनः पुरतश्चैव पितॄणां पिण्डमाचरेत् ।
दर्भैः परिस्तरेत्पश्चात् कबलत्रयमाचरेत् ॥ २६ ॥
View Verse
पितृमातृगणाभ्यां वै विश्वेदेवा अनन्तरम् ।
कबलत्रितयं दद्याद्वामहस्तेन देशिकः ॥ २७ ॥
View Verse
जलपूर्वं प्रदद्यात्तु पश्चाद्वै परिषेचनम् ।
पितॄणां संविभागेन देवदेवः प्रसीदति ॥ २८ ॥
View Verse
देवदेवप्रसादेन सर्वसिद्धिकरं भवेत् ।
बलिकार्यं प्रवक्ष्यामि समासादवधारय ॥ २९ ॥
View Verse
बलिञ्च पूर्वतः कृत्वा पश्चादुत्सवमाचरेत् ।
चरुपात्रं च पुष्पञ्च घण्टां वै धूपपात्रकम् ॥ ३० ॥
View Verse
बलिदाने विशेषेण शङ्खभेरीरवाकुलैः ।
गर्भद्वारादि पीठान्तं बलिं दद्याद्विचक्षणः ॥ ३१ ॥
View Verse
कुमुदादि गणानां च इन्द्रादीनां पृथक् पृथक् ।
मुष्ट्या परिमितैर्द्रव्यैः त्रिर्दद्यात् बलिकर्मणि ॥ ३२ ॥
View Verse
पूर्वमभ्यर्च्य चार्घ्याद्यैर्जलपूर्वं विनिक्षिपेत् ।
घण्टाशब्देन संयुक्तं बलिवाद्येन संयुतम् ॥ ३३ ॥
View Verse
चण्डं चैव प्रचण्डं च शङ्खपद्मनिधींस्तथा ।
भद्रं चैव सुभद्रं च तथा धातृविधातृकौ ॥ ३४ ॥
View Verse
जयं च विजयं चैव तत्तद्द्वारेषु पूजयेत् ।
शङ्खं चक्रं गदां पद्मं मुसलं खड्गमेव च ॥ ३५ ॥
View Verse
शार्ङ्गं च वनमालां च अन्तरावरणे स्थितान् ।
कुमुदं कुमुदाक्षञ्च पुण्डरीकं च वामनम् ॥ ३६ ॥
View Verse
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम् ।
इन्द्रमग्निं यमं चैव निर्-ऋतिं वरुणं तथा ॥ ३७ ॥
View Verse
वायुं सोमं तथैशानं तृतीयावरणे स्थितम् ।
विश्वेश्वरं च दिग्भागे क्षेत्रपालबलिं ददेत् ॥ ३८ ॥
View Verse
पीठोपरि विशेषेण सर्वभूतबलिं क्षिपेत् ।
एवं दत्वा विधानेन नित्योत्सवमथाचरेत् ॥ ३९ ॥
View Verse
बलिबिम्बं समादाय यानमारोप्य देशिकः ।
छत्रचामरसंयुक्तं बहूदीपसमन्वितम् ॥ ४० ॥
View Verse
अनेकैः परिकरैर्युक्तं गीतवाद्यसमन्वितम् ।
आनयेद्देवदेवेशं प्रादक्षिण्येन मन्दिरम् ॥ ४१ ॥
View Verse
एकधा वा द्विधा वापि त्रिधा वापि परिभ्रमेत् ।
बलिपीठं परिभ्राम्य पूर्वपार्श्वे स्थितिं चरेत् ॥ ४२ ॥
View Verse
गीतं नृत्तं च वाद्यं च श्रावयेद्देवदेवकम् ।
गमयेन्मन्दिरं प्राज्ञो मण्डपे सन्निवेशयेत् ॥ ४३ ॥
View Verse
पूजयेच्च निवेद्यान्तमर्घ्यगन्धादिना तथा ।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ॥ ४४ ॥
View Verse
दीपं निवेदनञ्चैव ताम्बूलं गीतवाद्यकम् ।
स्वस्थाने सन्निवेश्याथ विष्वक्सेनं प्रसादयेत् ॥ ४५ ॥
View Verse
अर्घ्यादिदीपपर्यन्तं पूजयित्वा विचक्षणः ।
निवेद्यस्यैकपात्रं तु विष्वक्सेनाय दापयेत् ॥ ४६ ॥
View Verse
तच्छेषं देवतावृन्दैर्मुक्तमन्यो न संस्पृशेत् ।
प्रदक्षिणं ततः कृत्वा प्रणिपत्य जनार्दनम् ॥ ४७ ॥
View Verse
स्वगृहे सम्प्रविश्याथ अनुयागं समाचरेत् ।
आचार्ये भोजनाद्धीने देवपूजा च निष्फला ॥ ४८ ॥
View Verse
यथाचाग्निमुखे भुङ्क्ते देवकारिमुखे हरिः ।
आचार्ये सुप्रसन्ने तु देवदेवः प्रसीदति ॥ ४९ ॥
View Verse

Chapter - 19 स्नपनविधिः

१९ स्नपनविधिः
अथ एकोनविंशोऽध्यायः
भृगुः -
स्नपनं श्रोतुमिच्छामि देवदेवस्य शार्ङ्गिणः ।
कालं ब्रूहि मम ब्रह्मन् द्रव्याणां विस्तृतिं क्रमात् ॥ १ ॥
View Verse
श्रीभगवान् -
स्नपनं ते प्रवक्ष्यामि विस्तरेण तवानघ ।
स्नपनं द्विविधं प्रोक्तं परापरविभेदतः ॥ २ ॥
View Verse
परं तु त्रिविधं प्रोक्तमपरं द्वादशं भवेत् ।
सहस्रं तदर्धकञ्च तदर्धन्तु तदर्धकम् ॥ ३ ॥
View Verse
त्रिप्रकारं मया प्रोक्तं परञ्चैव विशेषतः ।
एकं त्रयं तथा पञ्च नवकं द्वादशं तथा ॥ ४ ॥
View Verse
सप्तदशं पञ्चविंशं षट्त्रिंशच्च नवोत्तरम् ।
चत्वारिंशद्विशेषेण अशीत्येकादशं क्रमात् ॥ ५ ॥
View Verse
अष्टोत्तरशतं चैव एवं द्वादशकं भवेत् ।
अयने विषुवे चैव पौर्णमास्यद्वयेऽपि च ॥ ६ ॥
View Verse
द्वादश्यां तु विशेषेण श्रवणे जन्म-ऋक्षके ।
अभिषेकदिनेवापि दमनारोहणादिके ॥ ७ ॥
View Verse
उत्सवाद्यन्तकाले तु पुष्पयागे विशेषतः ।
पवित्रारोहणे चैव तावत् पुष्पफलोत्सवे ॥ ८ ॥
View Verse
चतुःस्थानार्चने चैव अनावृष्टिविधौ तथा ।
दुर्निमित्ते च सञ्जाते दुर्भिक्षे व्याधिपीडने ॥ ९ ॥
View Verse
विशेषयजने चैव द्रव्याणां पूरणेऽपि च ।
स्नपनं कारयेद्विद्वानन्यथा दोषकृद्भवेत् ॥ १० ॥
View Verse
सुवर्णं रजतं वापि ताम्रं मृण्मयमेव वा ।
पक्वबिम्बफलाकारं मृण्मयं दोषवर्जितम् ॥ ११ ॥
View Verse
आढकञ्चोत्तमं प्रोक्तं तदर्धं मध्यमं भवेत् ।
तदर्धमधमं प्रोक्तं विविधं कारयेद्बुधः ॥ १२ ॥
View Verse
तद्व्यं करकं प्रोक्तं तद्वयं कुम्भमुच्यते ।
तद्वयं तु महाकुम्भमेतन्मानं प्रकीर्तितम् ॥ १३ ॥
View Verse
मानेन निश्चितं सर्वं तस्मान्मानं हि पूरकम् ।
मृत्कुम्भे सूत्रवेष्टं स्याल्लोहे तु परिवर्जयेत् ॥ १४ ॥
View Verse
वस्त्रं कूर्चं शरावं च द्रव्यं सामान्यकं भवेत् ।
स्नपनं द्विविधं प्रोक्तं कर्माङ्गं केवलं भवेत् ॥ १५ ॥
View Verse
कर्माङ्गे तु विशेषेण नाङ्कुरं कौतुकं भवेत् ।
केवले तु विशेषेण अङ्कुरं कौतुकं भवेत् ॥ १६ ॥
View Verse
कर्माङ्गमुत्सवाद्येषु विषुवाद्येषु केवलम् ।
मण्डपालङ्कृतिं कुर्यात् प्रतिष्ठाकर्मवद्द्विजः ॥ १७ ॥
View Verse
केवले तु हि विप्रेन्द्र चतुस्थानार्चनं चरेत् ।
मण्डलं कारयेद्धीमान् यजमानेच्छया ततः ॥ १८ ॥
View Verse
मण्डपस्योत्तरे पङ्क्तौ कुम्भमण्डलकुण्डलम् ।
पूर्वादि पश्चिमान्ते तु क्रमेणैव प्रकल्पयेत् ॥ १९ ॥
View Verse
मण्डपस्य तु मध्ये तु कलशस्थापनं चरेत् ।
बिम्बसंस्थापनं पूर्वं सूत्रपातं समाचरेत् ॥ २० ॥
View Verse
कलशस्यानुरूपेण एकद्वित्रितयेऽपि वा ।
नवकादिषु विप्रेन्द्र सूत्रपातं समाचरेत् ॥ २१ ॥
View Verse
कोष्ठकोणे विशेषेण व्रीहिप्रस्थं प्रपूरयेत् ।
कलशाधिवासनं कुर्यात् पश्चिमे कलशास्पदे ॥ २२ ॥
View Verse
मार्गत्रयं तथा कृत्वा व्रीहीनास्तीर्य तण्डुलैः ।
दर्भैः परिस्तरेत्तत्र प्राङ्मुखः परमेष्ठिना ॥ २३ ॥
View Verse
तस्योपरि न्यसेत्कुभान् पुरुषेणैव देशिकः ।
शोषणादिक्रियां कृत्वा अर्घ्याद्यैः परिपूजयेत् ॥ २४ ॥
View Verse
अधोमुखान् न्यसेत्कुम्भान् विश्वेनैव तु देशिकः ।
अक्षतान्विकिरेत्पश्चात् निवृत्तिमन्त्रेण ? मन्त्रवित् ॥ २५ ॥
View Verse
दर्भानुपरि संस्तीर्य सर्पमन्त्रेण मन्त्रवित् ।
वाससाच्छादयेत्पश्चात् बलिं दद्यात् समन्ततः ॥ २६ ॥
View Verse
द्रव्याधिवासनं कुर्यात् तत्काले देशिकोत्तमः ।
द्रव्याधिवासने विप्र सम्पाताज्येन सेचयेत् ॥ २७ ॥
View Verse
एतत्कर्म विशेषेण सर्वसामान्यकं भवेत् ।
अङ्कुरं कौतुकं चैव तथा कुम्भाधिवासनम् ॥ २८ ॥
View Verse
कर्मारम्भदिनात्पूर्वं सद्यो वा सकलं चरेत् ।
द्वारपूजाविधिं चैव पुण्याहं चैव कारयेत् ॥ २९ ॥
View Verse
कुम्भमण्डलबिम्बाग्निपूजनं तदनन्तरम् ।
कलशस्नपनं चैव चूर्णस्नान मनन्तरम् ॥ ३० ॥
View Verse
शुद्धस्नानं ततः कुर्यात् रजनीस्नानमेव च ।
सहस्रधारया स्नानं नीराजनमनन्तरम् ॥ ३१ ॥
View Verse
मण्डपासनकार्यञ्च भोज्यासनमतःपरम् ।
पूर्णाहुतिं ततः कुर्यात् बलिं दद्यात् समन्ततः ॥ ३२ ॥
View Verse
एतत्कर्म क्रमात्प्रोक्तमस्मिन् भद्रमये प्रभो ! ।
एकबेरविधानेतु तत्रैव स्नपनं भवेत् ॥ ३३ ॥
View Verse
बहुबेरविधाने तु स्नपने स्नपनं भवेत् ।
उत्सवे तु तथाभावे तथाभावे तु कौतुके ॥ ३४ ॥
View Verse
लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत् ।
दर्पणे तदभावे तु तदभावे तु कूर्चके ॥ ३५ ॥
View Verse
कर्माङ्गस्नपने विप्र उत्सवे सर्वमाचरेत् ।
अथ द्रव्यनाम-
द्रव्यन्यासमथो वक्ष्ये समासादवधारय ॥ ३६ ॥
View Verse
उदक्कुम्भे घृतं प्रोक्तं पञ्चगव्यमथापि वा ।
केवलं गन्धपुष्पं वा निक्षिपेत्तन्त्रवित्तमः ॥ ३७ ॥
View Verse
तृतीये तु विशेषेण पत्रं पुष्पं फलं भवेत् ।
पञ्चकुम्भे तु विप्रेन्द्र पञ्चगव्यमथो भवेत् ॥ ३८ ॥
View Verse
गन्धपुष्पफलं चैव पत्रं धान्यं तथैव च ।
पञ्चगव्यमथोवापि नवके वक्ष्यतेऽधुना ॥ ३९ ॥
View Verse
घृतादिकमथो वापि नवरत्नोदकं तु वा ।
नवगन्धादिकं वापि द्वादशे वक्ष्यतेऽधुना ॥ ४० ॥
View Verse
द्विधा वाथ त्रिधावापि चतुरादिघृतादिकम् ।
धात्रीफलोदकञ्चैव लोध्रतोयमनन्तरम् ॥ ४१ ॥
View Verse
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थीफलवचाश्वत्थ तोयं ततः तृणोदकम् ॥ ४२ ॥
View Verse
प्रियङ्गुवारि तदनु मौञ्जीजलमतःपरम् ।
सिद्धार्थं यवतोयं च सर्वौषधिजलं तथा ॥ ४३ ॥
View Verse
पत्रपुष्पोदकं चैव द्वादशैते प्रकीर्तिताः ।
अथ सप्तदशे कुम्भे द्रव्यं वक्ष्ये यथाक्रमम् ॥ ४४ ॥
View Verse
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ।
लोहम्मार्जनगन्धं च अक्षतं च यवोदकम् ॥ ४५ ॥
View Verse
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं तथा दधि ।
पयो मधु कषायं च क्रमात्सप्तदशं भवेत् ॥ ४६ ॥
View Verse
पञ्चविंशति कुम्भेषु द्रव्यन्यासमथोच्यते ।
तन्मध्ये नवके विप्र घृतादीन् परिनिक्षिपेत् ॥ ४७ ॥
View Verse
घृतं पाद्यं दधि चैव अर्घ्यं क्षीर मतः परम् ।
आचामं गन्धतोयं च पञ्चगव्यं कषायकम् ॥ ४८ ॥
View Verse
धात्रीफलोदकञ्चैव क्रमाद्द्रव्यं विनिक्षिपेत् ।
षट्त्रिंशत्कलशे ब्रह्मन् द्रव्यन्यासं प्रचक्षते ॥ ४९ ॥
View Verse
द्रव्याणां नवकं प्रोक्तं षट्त्रिंशत्कलशे परम् ।
घृतादि नवकं वापि गन्धादि नवकं तु वा ॥ ५० ॥
View Verse
चन्दनं कुङ्कुमञ्चैव कर्पूरमगरुं तथा ।
एलालवङ्गतक्कोलमुशीरं कोष्ठमेव च ॥ ५१ ॥
View Verse
एकोनपञ्चाशत्कलशे द्रव्यन्यासं ब्रवीमि ते ।
प्रधानसप्तदशकं द्रव्ययोगं क्रमेण च ॥ ५२ ॥
View Verse
मध्यकुम्भे नवं चैव केवलं क्षीरमेव वा ।
महादि कुम्भषट्के च घृतमेकं प्रपूरयेत् ॥ ५३ ॥
View Verse
विदिक्कोणचतुष्केषु दधि चैव प्रपूरयेत् ।
एकाशीतिघटे ब्रह्मन् द्रव्यन्यासक्रमं शृणु ॥ ५४ ॥
View Verse
अत्रसप्तदशं श्रेष्ठं द्रव्यन्यासं क्रमेण तु ।
घृतादिद्रव्यसङ्घं वा केवलं क्षीरमेव वा ॥ ५५ ॥
View Verse
घृतं वा केवलं विप्र अष्टोत्तरशतं शृणु ।
द्वात्रिंशकद्रव्यं तेषु मध्ये चैव चतुष्टये ॥ ५६ ॥
View Verse
गन्धं पुष्पं फलं चैव मूलं पत्रं तथाङ्कुरम् ।
ह्रस्वमण्डलकञ्चैव दीर्घस्तम्बकमेव च ॥ ५७ ॥
View Verse
अथ दीर्घं च तच्चक्रनवकं परिकीर्तितम् ।
चन्दनं कुङ्कुमं चैव कर्पूरं हिमतोयकम् ॥ ५८ ॥
View Verse
चतुर्मध्यमकुम्भेषु आग्नेयादिषु विन्यसेत् ।
शतपत्रं तथा जातिर्मल्लिकाबकुलं भवेत् ॥ ५९ ॥
View Verse
पूर्वद्वादशके विप्र मध्ये वै दर्पणे न्यसेत् ।
कदलीपनसं चैव लिकुचं चैव दाडिमम् ॥ ६० ॥
View Verse
आग्नेयद्वादशे कुम्भे न्यसेन्मध्ये तु पूर्ववत् ।
कर्पूरं चैव ह्रीबेरमुशीरं च हरिद्रका ॥ ६१ ॥
View Verse
याम्ये द्वादशके विप्र मध्ये कुम्भचतुष्टये ।
तुलसीबिल्वपत्रञ्च तथावै दन्तिकाद्वयम् ॥ ६२ ॥
View Verse
नैर्-ऋते विन्यसेत्पात्रे वारुणे चाङ्कुरं भवेत् ।
दूर्वाङ्कुरं सटा भद्रा विष्णुक्रान्तिर्मही गजम् ॥ ६३ ॥
View Verse
मारुते स्तबकं वक्ष्ये शैवालमगरुं तथा ।
पूर्वमाथर्विकञ्चैव सौम्ये चैव प्रचक्षते ॥ ६४ ॥
View Verse
पुन्नागं पाटलं चैव चूतमारग्वधं तथा ।
ईशान्ये वक्ष्यते ब्रह्मन् क्रमुकं नालिकेरकम् ॥ ६५ ॥
View Verse
तालं वै रोलक्रमुकम्मध्यमेषु पदेषु च ।
अपरैकादशं प्रोक्तं परे त्रिविधमुच्यते ॥ ६६ ॥
View Verse
सहस्रञ्च् अ तदर्धं च तदर्धं च त्रयं भवेत् ।
एकादशघटे ? वक्ष्ये विस्तरेण तवानघ ॥ ६७ ॥
View Verse
एकञ्च मध्यमे स्थाप्य यमे च तु चतुष्टयम् ।
पञ्चमं दिक्चतुष्के च मध्ये चैकं प्रशस्यते ॥ ६८ ॥
View Verse
नवके दिगष्टके प्रोक्तं मध्यमे द्वादशं शृणु ।
अष्टदिगष्टकं प्रोक्तं मध्ये चैव चतुष्टयम् ॥ ६९ ॥
View Verse
सप्तदशक्रमे विप्र मध्यमं नवकं भवेत् ।
तद्बहिश्चाष्टदेशेषु अष्टकुम्भञ्च विन्यसेत् ॥ ७० ॥
View Verse
पञ्चविंशघटे विप्र मध्यमे नवके न्यसेत् ।
बहिष्षोडशकुम्भं स्यात् षट्त्रिंशत्कलशं शृणु ॥ ७१ ॥
View Verse
चतुष्टयं चतुर्दिक्षु नवकोष्ठेषु विन्यसेत् ।
शृणु गुह्यमना विप्र चत्वारिंशन्नवोत्तरम् ॥ ७२ ॥
View Verse
नवकं मध्यमे स्थाप्य अष्टदिक्पञ्चकं भवेत् ।
एकाशीतिघटे विप्र तत्क्रमं सम्प्रचक्षते ॥ ७३ ॥
View Verse
नवकं नवकं ब्रह्मन् नवपङ्क्तिषु विन्यसेत् ।
अष्टोत्तरशते ब्रह्मन् स्थापनक्रम उच्यते ॥ ७४ ॥
View Verse
द्वादश द्वादश ब्रह्मन् नव पङ्क्तिषु विन्यसेत् ।
सहस्रकलशे ब्रह्मन् स्थापनक्रम उच्यते ॥ ७५ ॥
View Verse
क्षेत्रमध्यमदेशेषु अष्टादश घटान् न्यसेत् ।
नवकोष्ठेषु विप्रेन्द्र द्वितयं द्वितयं न्यसेत् ॥ ७६ ॥
View Verse
तद्बहिस्त्वष्टदेशेषु पञ्चकं पञ्चकं न्यसेत् ।
अष्टोत्तरशते कुम्भे तद्बहिश्च दिगन्तरे ॥ ७७ ॥
View Verse
द्वादश द्वादश ब्रह्मन् नवपङ्क्तिषु विन्यसेत् ।
अष्टोत्तरशतेनैव परितोदिक्षु विन्यसेत् ॥ ७८ ॥
View Verse
एवमष्टादशैःकुम्भैः चतुष्षष्ठ्याधिके द्विज ।
अष्टोत्तरशते कुम्भे प्रत्येकं नवपङ्क्तिषु ॥ ७९ ॥
View Verse
ब्रह्मादीशानपर्यन्तं पङ्क्तौ पङ्क्तौ च विन्यसेत् ।
शेषं षट्त्रिंशकं कुम्भं निशाचूर्णैश्च पूरयेत् ॥ ८० ॥
View Verse
द्विप्रकारं मया प्रोक्तं सहस्रघटवेशने ।
पञ्चाशच्च घटे विप्र स्थापनं कथ्यतेऽधुना ॥ ८१ ॥
View Verse
अष्टोत्तरशत मध्ये परितश्चाष्टदिक्षु च ।
एकोनपञ्चाशद्विप्र तत्तद्दिक्षु च विन्यसेत् ॥ ८२ ॥
View Verse
पञ्चाशद्विशतानां च कुम्भानां स्थापनं शृणु ॥ ८३ ॥
View Verse
क्षेत्रेषु च चतुर्मध्ये चत्वारिंशन्नवओत्तरम् ।
तद्बहिश्चाष्टकुम्भेषु पञ्चविंशतिकं न्यसेत् ॥ ८४ ॥
View Verse
शतद्वयञ्च परितश्चैकचूर्णघटं ? भवेत् ।
द्रव्यन्यास मथो वक्ष्ये सहस्रकलशेषु च ॥ ८५ ॥
View Verse
मध्य अष्टादशे कुम्भे नवरत्नं विनिक्षिपेत् ।
द्वन्द्वद्वन्द्वप्रयोगेन विन्यसेच्च घटद्वये ॥ ८६ ॥
View Verse
चत्वारिंशद्घटे बाह्ये चैकैकं मौक्तिकं न्यसेत् ।
अष्टोत्तरशते चैन्द्रे मूलेन परिपूरयेत् ॥ ८७ ॥
View Verse
ह्रीबेरञ्चैव कर्चूरमुशीरं रजनीं तथा ।
मध्ये कुम्भचतुष्केषु विन्यसेत्पावकान्वितम् ? ॥ ८८ ॥
View Verse
बहिरष्टघटे विप्र ह्रीबेरं परितो न्यसेत् ।
तद्बहिश्चाष्टदेशेषु द्रव्यन्यासं वदामि ते ॥ ८९ ॥
View Verse
रजनीद्वितयञ्चैव शृङ्गिवेरमुशीरकम् ।
उत्पलत्रितयङ्कान्तं कर्चूरं चाष्टकं भवेत् ॥ ९० ॥
View Verse
अष्टद्वादश कुम्भे तु प्रीतिद्रव्यन्तु विन्यसेत् ।
पात्रकेष्टशते(?) मध्ये चतुष्कं पत्रके न्यसेत् ॥ ९१ ॥
View Verse
तुलसीद्वितयञ्चैव तथा दमनिकाद्वयम् ।
पावकादि विनिक्षिप्य शेषं वै तुलसीदलम् ॥ ९२ ॥
View Verse
बहिरष्टपदे विप्र पत्रवृन्दं वदामि ते ? ।
अश्वत्थोदुम्बरवटप्लक्षन्यग्रोधमेव च ॥ ९३ ॥
View Verse
चूतं बिल्वञ्च वकुलं क्रमात्तत्रैव निक्षिपेत् ।
याम्याष्टके शते विप्र द्रव्यन्यासं प्रचक्ष्यते ॥ ९४ ॥
View Verse
मध्यमे तु चतुष्कुम्भे चम्पकं वकुलं तथा ।
मालती शतपत्रञ्च आग्नेयादिषु विन्यसेत् ॥ ९५ ॥
View Verse
बहिरष्टघटे विप्र विन्यसेच्छतपत्रिकाम् ।
तद्बहिश्चाष्टदेशेषु पुष्पपूरं विधीयते ॥ ९६ ॥
View Verse
नन्द्यावर्तञ्च पुन्नागं मालती माधवं तथा ।
उत्पलत्रितयञ्चैव केतकीचारकं भवेत् ॥ ९७ ॥
View Verse
एकैकं पूरयेत् सर्वान् कुम्भे कुम्भे पृथक् पृथक् ।
नैर्-ऋते चाष्टके ब्रह्मन् फलवृन्दं वदामि ते ॥ ९८ ॥
View Verse
कदलीपनसञ्चैव मातृचूतं ? तथैव च ।
मध्यमे तु चतुष्कुम्भे पूर्वकं विन्यसेत् क्रमात् ॥ ९९ ॥
View Verse
तद्बहिश्चाष्टकुम्भेषु विन्यसेत् कदलीफलम् ।
बहिरैन्द्रादियोगेन फलपूरं वदामि ते ॥ १०० ॥
View Verse
लिकुचं वकुलं चैव दाडिमं मातुलुङ्गकम् ।
पारावतं चामलकं नवाङ्गं विश्वमेव च ॥ १०१ ॥
View Verse
एतद्द्रव्यं क्रमेणैव पूरयेत् पूर्ववत् क्रमात् ।
वारुणे केवलं क्षीरं केवलं घृतमेव च ॥ १०२ ॥
View Verse
वायव्ये सम्प्रवक्ष्यामि चन्दनं कुङ्कुमं तथा ।
कर्पूरमगरुञ्चैव चतुष्कं विन्यसेत्क्रमात् ॥ १०३ ॥
View Verse
परितश्शिष्टकुम्भेषु केवलं चन्दनोदकम् ।
बहिःपूर्वादिके विप्र क्रमाद्द्रव्यमथोच्यते ॥ १०४ ॥
View Verse
मुरमाञ्जिष्ठकर्चूरं कोष्ठं वा चम्पकं तथा ? ।
एलालवङ्गतक्कोलं क्रमाद्द्रव्यं प्रकीर्तितम् ॥ १०५ ॥
View Verse
सौम्ये द्वादशकुम्भेषु क्षीरमेकं प्रपूरयेत् ।
तद्वच्चाष्ठमदशेषु क्रमाद्द्रव्यं प्रचक्ष्यते ॥ १०६ ॥
View Verse
गोमूत्रं गोमयञ्चैव दधि तक्रं तथैव च ।
तैलं सर्षपतैलं च नालिकेरं घृतं गुलम् ॥ १०७ ॥
View Verse
ईशानकस्थ कुम्भेषु क्रमाद्द्रव्यं निबोध मे ।
गुलतोयं चेक्षुतोयं शर्करोदकमेव च ॥ १०८ ॥
View Verse
पुण्येषु साधकं चैव चतुष्कुम्भेषु विन्यसेत् ।
तद्बीजाष्टककुम्भेषु इक्षुसारं प्रपूरयेत् ॥ १०९ ॥
View Verse
बहिः पूर्वादिकुम्भेषु क्रमाद्द्रव्यं निबोध मे ।
तिलं लाजं च मुद्गं च व्रीहिमाषवचान्तथा ॥ ११० ॥
View Verse
गोधूमं च प्रियङ्गुं च क्रमात्कुम्भेषु निक्षिपेत् ।
सहस्रमूर्तिमन्त्रेण स्नापयेत्पुरुषोत्तमम् ॥ १११ ॥
View Verse
ऋग्यजुस्सामाथर्वाद्यैः स्नापयेत्कलशं परम् ।
अष्टाक्षरेण वा सर्वं द्वादशाक्ष्रतोपि वा ॥ ११२ ॥
View Verse
पूर्वादिसोमपर्यन्तमुद्धारक्रम इष्यते ।
आग्नेयादीशपर्यन्तमुद्धारन्तु द्वितीयकम् ॥ ११३ ॥
View Verse
पूर्वादिमध्यपर्यन्तं सर्वस्योद्ग्रहणं भवेत् ।
केवलं क्षीरमेकाङ्गं घृतं वा सम्भवम्भवेत् ॥ ११४ ॥
View Verse
नालिकेरजलैर्वापि केवलन्तु सहस्रकम् ।
सहस्रार्धघटे वक्ष्ये द्रव्यन्यासं क्रमेण तु ॥ ११५ ॥
View Verse
घृतं गन्धं तथा पुष्पं पत्रं मूलं फलं तथा ।
पञ्चगव्यं तथा क्षीरं ब्रह्माद्यैशानपश्चिमम् ? ॥ ११६ ॥
View Verse
ईशाने दधि विन्यस्य स्नापयेत्पुरुषोत्तमम् ।
अधमं स्नपनं वक्ष्ये द्रव्यन्यासक्रमेण तु ॥ ११७ ॥
View Verse
मध्यकुम्भेषु सर्वेषु क्षीरमेकं प्रपूरयेत् ।
बहिश्चाष्टपदे विप्र पञ्चविंशतिसङ्ख्यके ॥ ११८ ॥
View Verse
अर्घ्यं पाद्यं तथाचामं तक्रं दधि घृतं मधु ।
कषायञ्च क्रमात्प्रोक्तं मृद्धनं पूर्ववद्भवेत् ॥ ११९ ॥
View Verse
द्रव्याणामप्यलाभे तु तद्भागैकं प्रशस्यते ।
द्रव्याणां विष्णुदैवत्यं चक्रिकाणां तु गारुडम् ॥ १२० ॥
View Verse
सूत्राणां शेषदैवत्यं पात्राणां फणिराजकम् ? ।
कूर्चेषु ब्रह्मदैवत्यमाधारे धर्मदैवतम् ॥ १२१ ॥
View Verse
वाससां वासवो दैवं सर्वेषां विष्णुदैवतम् ।
यस्स्नापयति देवेशं द्रव्ययुक्तघटैर्नर ॥ १२२ ॥
View Verse
सर्वपापविनिर्मुक्तस्स याति ब्रह्मणः पदम् ।
सोऽतुलां श्रिय माप्नोति सर्वतीर्थफलं लभेत् ॥ १२३ ॥
View Verse
सर्वयज्ञफलञ्चैव सर्वदानफलं भवेत् ।
संसारेण प्रतीयाति नात्रकार्या विचारणा ॥ १२४ ॥
View Verse

Chapter - 20 ध्वजारोहणविधिः

२० ध्वजारोहणविधिः
अथ विंशोऽध्यायः
श्रीभगवान् -
उत्सवं सम्प्रवक्ष्यामि विस्तरेण तवानघ ।
सवस्त्वमङ्गलं विद्धि उत्सवः स्तन्निवर्तकः ।
View Verse
नित्यो नैमित्तिकः काम्य उत्सव स्त्रिविधो भवेत् ।
प्रतिसंवत्सरे मासि क्रियते सति नित्यकः ॥ २ ॥
View Verse
निमित्ते सति सञ्जाते सतु नैमित्तिको भवेत् ।
भृगुः -
भूतादिदर्शने चैव दुर्भिक्षे व्याधिपीडने ॥ ३ ॥
View Verse
परचक्रप्रवेशे च व्योम्नि नेमिस्वने तथा ।
दिव्यदुन्दुभिनिर्ह्रादे वालमीनस्य दर्शने ॥ ४ ॥
View Verse
दर्शने सुरचापस्य पूर्वभागे तथा निशि ।
अपरे मध्यमे वापि उल्कापाते विशेषतः ॥ ५ ॥
View Verse
आलयस्य चाग्निना दाहे प्रासादपतने तथा ।
प्राकारगोपुरादीनां चैत्यवृक्षादिपातने ॥ ६ ॥
View Verse
वल्मीकादि समुत्पन्ने मधुप्राप्ते तु मण्डले ।
भूभुजानां विशेषेण रोगादीनामुपस्थितौ ॥ ७ ॥
View Verse
ग्रहदोषे तु सम्प्राप्ते कुहूदोषसमुद्भवे ।
पुत्रदारादितो विप्र रोगादीनां समुद्भवे ॥ ८ ॥
View Verse
अनावृष्टौ चातिवृष्टौ देवब्राह्मणघातुके ।
पितृमातृवधे विप्र प्रायश्चित्तार्थमाचरेत् ॥ ९ ॥
View Verse
उत्सवः परमो ब्रह्मन् नित्यो नैमित्तकः स्मृतः ।
कामार्थमाचरेद्यस्तु काम्य इत्यभिधीयते ॥ १० ॥
View Verse
उत्सव स्त्रिविधः प्रोक्त उत्तमादि विभेदतः ।
उत्तमो मास इत्युक्तः मध्यमः पक्ष उच्यते ॥ ११ ॥
View Verse
नवाहस्त्वधमः प्रोक्त इति शास्त्रस्य निश्चयः ।
एकाहे च त्र्यहे चैव पञ्चसप्तनवाहके ॥ १२ ॥
View Verse
द्वादशाहे तथा पक्षे मासदूर्ध्वं च कारयेत् ।
एकाहे च त्र्यहे चैव ध्वजकर्म न कारयेत् ॥ १३ ॥
View Verse
तीर्थकालमथो वक्ष्ये श्रूयतां मुनिसत्तम ।
अयने विषुवे चैव ग्रहणे सोमसूर्ययोः ॥ १४ ॥
View Verse
राजजन्मदिने वापि अभिषेकदिनेऽपि वा ।
पौर्नमास्यद्वये वापि श्रवणे सार्वमासिके ॥ १५ ॥
View Verse
प्रतिष्ठादिवसे वापि ग्रामजन्मदिनेऽपि वा ।
विषुवैकदिने ? विप्र तीर्थस्नानं समाचरेत् ॥ १६ ॥
View Verse
तीर्थस्नानदिनात्पूर्वं ध्वजारोहणमाचरेत् ।
एकविंशदिने कुर्यान्नवाहोत्सवकर्मणि ॥ १७ ॥
View Verse
कर्मारम्भदिनात् पूर्वमष्टादशदिनेऽपि वा ।
पक्षे मासे तथा कुर्यान्मासे मासद्वये तथा ॥ १८ ॥
View Verse
अथ वारदिने वापि ? तत्प्रकारस्तथोच्यते ।
ध्वजारोहणपूर्वं वा भेरीताडनपूर्वकम् ॥ १९ ॥
View Verse
अङ्कुरार्पणपूर्वं तु त्रिविधो भेद उच्यते ।
ध्वजारोहविधिं वक्ष्ये शृणु गुह्यं महामुने ॥ २० ॥
View Verse
ध्वजारोहदिनात्पूर्वं पञ्चसप्तदिनेऽपि च ।
नवाहे वा मुनिश्रेष्ठ एकादशदिनेऽपि वा ॥ २१ ॥
View Verse
अङ्कुरानर्पयेद्विद्वान् पूर्वोक्तेन क्रमेण तु ।
अङ्कुरं त्रिविधं प्रोक्तं बीजप्रारोहतण्डुलम् ॥ २२ ॥
View Verse
बहुवारे तु बीजं स्यादल्पवारे प्ररोअहकम् ।
सद्यःकाले विशेषेण तण्डुलं सम्प्रचक्षते ॥ २३ ॥
View Verse
पालिका घटिकाचैव शरावं विविधं भवेत् ।
पवित्रारोपणेचैव कलशस्योत्सवे ? तथा ॥ २४ ॥
View Verse
महाबेरप्रतिष्ठायां पत्रपुष्पफलोत्सवे ।
देवदेवस्य विप्रेन्द्र त्रिविधञ्चाङ्कुरार्पणम् ॥ २५ ॥
View Verse
अन्येषु सर्वकार्येषु पालिकायां समाचरेत् ।
त्रिवर्गकरणे विप्र एकैकं षोडशं भवेत् ॥ २६ ॥
View Verse
द्वादशं चाऽष्टकं वाऽपि षट्कं वाऽपि चतुष्टयम् ।
केवलं पालिका चेति द्वादशाष्टमथापि ? वा ॥ २७ ॥
View Verse
त्रिवर्गपालिकोच्छ्रायं षोडशाङ्गुलमुत्तमम् ।
द्वादशाङ्गुल विस्तारमुन्मत्तकुसुमाकृतिः ॥ २८ ॥
View Verse
बिलद्वयसमायुक्ता पालिका सम्प्रचक्षते ।
वलयैक समायुक्तं शरावं सम्प्रचक्षते ॥ २९ ॥
View Verse
घटिका पञ्चवक्त्रा स्यात् चतुर्दिङ्मध्यतोन्मुखा ।
प्रक्षाल्य शुद्धतोयेन बलिं सम्पूरयेत्तृणैः ॥ ३० ॥
View Verse
रजनीपत्रदूर्वैश्च बन्धयेत्कण्ठदेशतः ।
तथा मृद्ग्राहकाले तु आनयेद्विनतासुतम् ॥ ३१ ॥
View Verse
विष्वक्सेनं तथावापि हनूमन्तमथापि वा ।
नैकैःपरिजनैर्युक्तं खनित्रेण समुद्धरेत् ॥ ३२ ॥
View Verse
पूर्वंवद्ग्रहणं कुर्यात् मण्डपालङ्कृतिं तथा ।
चतुःस्थानार्चनं चैव तथा द्वारादि पूजनम् ॥ ३३ ॥
View Verse
पुण्याहोक्तिं ततः कुर्यात् कलशं पूर्ववच्चरेत् ।
मण्डलं स्वस्तिकं वापि चक्राब्जमथवा द्विज ॥ ३४ ॥
View Verse
पटं वक्ष्ये विशेषेण चित्रकर्म विशेषतः ।
दशहस्ताष्टहस्तं वा सप्तहस्तमथापि वा ॥ ३५ ॥
View Verse
आयामार्धेन विस्तीर्ण शिखरं पुच्छसंयुतम् ।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥ ३६ ॥
View Verse
शिल्पशास्त्रानुसारेण चित्रयेच्चित्रवित्तमः ।
अर्धमर्धेन विस्तीर्णं पादेन कृतशेखरम् ॥ ३७ ॥
View Verse
मानोन्मानसमायुक्तं नवतालेन कल्पयेत् ।
पटमध्ये लिखेद्देवं पञ्चवर्णेन शिल्पवित् ॥ ३८ ॥
View Verse
द्विभुजं कनकाकारं करण्डमकुटोज्यलम् ।
गगने गमनारम्भ पक्षविक्षेपशोभितम् ॥ ३९ ॥
View Verse
धृताञ्जलिपुतं नीलनासाग्रं प्रियदर्शनम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥ ४० ॥
View Verse
उत्कुञ्चितं वामपादं दक्षिणं पृष्ठतःस्थितम् ।
अनन्तो वामकटको यज्ञसूत्रन्तु वासुकिः ॥ ४१ ॥
View Verse
तक्षकः कटिसूत्रन्तु हारः कार्कोटकस्तथा ।
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ॥ ४२ ॥
View Verse
शङ्खश्शिरःप्रदेशे उ गुलिकस्तु भुजान्तरे ।
एतैरष्टोरगैरम्यैर्भूषितं भुजगोत्तमैः ॥ ४३ ॥
View Verse
छत्रञ्चोपरिचिन्यस्य पार्श्वयोः श्वेतचामरे ।
दीपदण्डद्वयं पार्श्वे शङ्खं चक्रन्तु पार्श्वतः ॥ ४४ ॥
View Verse
अधस्तादम्बुजं पूर्ण कुम्भपात्रञ्च पालिकाः ।
अन्तरालपदं कालकृष्णेनैव समालिखेत् ॥ ४५ ॥
View Verse
एवं पटं लिखित्वा तु प्रतिष्ठां सम्यगाचरेत् ।
रज्जुं तन्तुगणेनैव कारयेदङ्गुष्ठनाहतः ॥ ४६ ॥
View Verse
कर्मारम्भदिनात्पूर्वं रात्रौ च रजनीमुखे ।
देवाग्रे मण्डपे ब्रह्मन् पटमानीय देशिकः ॥ ४७ ॥
View Verse
मूलबेरं दर्शयित्वा विस्तरेद्देवसम्मुखम् ।
मण्डपस्योत्तरे भागे कुम्भं संस्थाप्य पूर्ववत् ॥ ४८ ॥
View Verse
कुण्डमाग्नेयके कुर्यात् मण्डलं पटपूर्वतः ।
मण्डलं स्वस्तिकं वापि भूतावास मथापि वा ॥ ४९ ॥
View Verse
तस्य पश्चिमदेशे तु बिम्बसंस्थापनं परम् ।
द्वारादियजनं कुर्यात् चतुस्स्थानार्चनं चरेत् ॥ ५० ॥
View Verse
पुण्याहं वाचयेत्पश्चात् कौतुकं बन्धयेत्पटे ।
छायाधिवासनं कुर्यात् कटाहे मणिकेऽपि वा ॥ ५१ ॥
View Verse
दर्पणे सकलं कुर्यात् तदभावे तु कूर्चके ।
परिकुम्भं तु संस्थाप्य ब्रह्मकुम्भं तु विन्यसेत् ॥ ५२ ॥
View Verse
याममात्रं जले स्थाप्य यामार्धमथवा भवेत् ।
कुम्भे सम्पूजयेद्विप्र ब्रह्मबीजेन साधकः ॥ ५३ ॥
View Verse
रक्षां सर्वेषु कुम्भेषु इन्द्रादीन् परिपूजयेत् ।
माषान्नेन बलिं कुर्यात् अष्टदिक्षु समन्ततः ॥ ५४ ॥
View Verse
मृद्गतं ? सर्वदेवेशं पटे संयोजयेद्बुधः ।
नयनोन्मीलनं कुर्यात् पूर्ववद्द्विजसत्तम ॥ ५५ ॥
View Verse
मृदालेपं ततः कुर्यात् पर्वताग्रस्थमृत्स्नया ।
दर्पणे तु समावाह्य स्नानवेद्यां निवेशयेत् ॥ ५६ ॥
View Verse
स्नपनं पूर्ववत्कुर्यात् चूर्णस्नानमनन्तरम् ।
शुद्धस्नानं मन्त्रस्नानं नीराजनमनन्तरम् ॥ ५७ ॥
View Verse
पटे संयोजनञ्चैव शयनस्य च कल्पनम् ।
पटस्य दक्षिणे पार्श्वे कुम्भं संस्थापयेद्बुधः ॥ ५८ ॥
View Verse
वर्धनि परिकुम्भांश्च अष्टमङ्गलकानपि ।
पालिका परितस्स्थाप्य कुम्भे सम्पूजयेत् प्रभुम् ॥ ५९ ॥
View Verse
पटस्थं गरुडं विप्र पूजयेत्स्वीयविद्यया ।
होमकर्म ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ ६० ॥
View Verse
पायसादि निवेद्याथ बलिं दद्यात्समन्ततः ।
कुम्भस्थं गरुडं चैव पटमध्ये नियोजयेत् ॥ ६१ ॥
View Verse
देवतावाहनं वक्ष्ये भेरीताडनसंयुतम् ।
सध्वजे ? तु विशेषेण तद्रात्रौ सकलं भवेत् ॥ ६२ ॥
View Verse
भिन्नध्वजे तथा ब्रह्मन् ध्वजास्यारोहणं ? भवेत् ।
पटमध्ये तु गरुडं मार्गत्रयमथाचरेत् ॥ ६३ ॥
View Verse
शयनं कल्पयित्वैवं बलिबेरं निवेशयेत् ।
बलिबेरस्य पूर्वे तु कुम्भं संस्थापयेद्बुधः ॥ ६४ ॥
View Verse
कुम्भस्य पूर्वभागे तु भेरीञ्चैव तु विन्यसेत् ।
दर्भैः परिस्तरैस्तत्र वासुदेवादिकान् न्यसेत् ॥ ६५ ॥
View Verse
पुण्याहं वाचयेद्विद्वान् तद्बलिं परिपूजयेत् ।
भेरीमभ्यर्चयेद्विद्वान् कांस्यघण्टादिसंयुतम् ॥ ६६ ॥
View Verse
शङ्खञ्च काहलञ्चैव झल्लिका मद्दलं तथा ।
पटहं चैव तिमिलं ह्रस्वमद्दलकं भवेत् ॥ ६७ ॥
View Verse
कांस्यतालगणञ्चैव परितश्च निवेशयेत् ।
कुम्भे सम्यग्विशेषेण देवान् सर्वान् समाह्वयेत् ॥ ६८ ॥
View Verse
इन्द्रमग्निं यमञ्चैव नैर्-ऋतं वरुणं तथा ।
वायुं सोमं तथेशानं इन्द्रादित्यमरुद्गणान् ॥ ६९ ॥
View Verse
(वसवोष्टौ द्वादशादित्या रुद्रा एकादश क्रमात्)
बलिभुजः कुमुदादि पुरोदितान्
हरिमहोत्सवकर्मणि वास्तुषु
वद ममाखिलदेवगुरोर्गुरोः
प्रतिदिशं हरिपारिषदान् क्रमात् ॥ ७० ॥
View Verse
अहं खल्वखिलाण्डयोनेश्शेषधिषणादीशचतुराप्रमेयस्य अनवरतसुखिनो
हरेर्महोत्सवादिषु ग्रामादिवास्तुषु इन्द्रादिदिक्स्थितानां कुमुदादीनां
वर्णरूपवाहनायुधपरिवारमन्त्रार्चनादीन् यथामति कथयिष्ये ।
स्कन्धासनस्थकमलासखवासुदेवं
वेगावधूतपवमानसवेगयानम् ।
नागाधिपग्रहणलोलुपवक्रतुण्ड-
मावाहयामि विहगाधिपमुत्सवादौ ॥ ७१ ॥
View Verse
एवं संस्मृत्यार्घ्यपाद्याचमनगन्धपुष्पधूपदीपैरभ्यर्च्यानन्तरं
तद्वत् बलिं द्रव्यं नैवेद्यं दत्वाऽचमानाञ्चलिं दर्शयित्वा
हरेर्मुखवासं विधाय तद्दिग्द्देवतृप्त्यर्थं शङ्खदुन्दुभिनृत्तगीतादि
कारयेत् ।
दम्भोलिभीषणभुजाय सुराधिपाय
श्यामाय दानवकुलक्षयकारणाय
पूर्वाधिपाय सुरवारणवाहनाय ।
तुभ्यं पुलोमतनयापतये नमोऽस्तु ॥ ७२ ॥
View Verse
एवं-अग्ने तु हव्यमनिशं वहते सुराणां
कव्यं समीपमथवा नयते पितॄणाम्
धूमध्वजाय दहनाय जुहूदराय
शोणाय कोणपतये भवते नमोऽस्तु ॥ ७३ ॥
View Verse
एवं-कालाय लोकसमदण्डविधायकाय
नीलप्रभाय महिषाधिपवाहनाय
दण्डायुधाय तनयाय विकर्तनस्य
श्यामाय भीषणमृगाधिपवाहनाय
कोणाधिपाय लसदुग्रकृपाणकाय
तुभ्यं पिशाचकुलराक्षसयातुधान
सेनाबनप्रियकृते निर्-ऋते नमोऽस्तु ॥ ७५ ॥
View Verse
श्यामलाय मकराधिरोहिणे
तुभ्यमुल्लसितपाशपाणये
जीवनाय वरुणाय कुर्महे
देहिनामपरदिक्पतये नमः ॥ ७६ ॥
View Verse
प्राणादि भेदकजुषे धृतकेतनाय
धूम्राय तुङ्गमृगपुङ्गववाहनाय
कोणाधिपाय जगतामधिपावनाय
वाताय तीव्रगतये भवते नमोऽस्तु ॥ ७७ ॥
View Verse
सुवर्णवर्णाय शिवप्रियाय
धनाधिनाथाय गदायुधाय
उदग्दिङ्गीशाय हराद्रिवासिने
नमोऽस्तु तस्मै हरवाहनाय ॥ ७८ ॥
View Verse
वृषाधिरूढाय जटाय मौलिने
कपालबालेन्दुकलावतंसिने
त्रिशूलिने कोणदिशाधिवासिने
View Verse
एवं-प्रतप्तकल्याणनिभाय ब्रिभ्रते
करेऽक्षमालावलयं कमण्डलुम्
स्वयम्भुवे हंसवराधिरोहिणे
नमोऽस्तु तुभ्यं जगातां सिसृक्षवे ॥ ८० ॥
View Verse
घोषयेत् सर्ववाद्यानि वाद्यकर्मविशारदैः ।
ग्रामे वा नगरे वापि पत्तने वा महामते ॥ ८१ ॥
View Verse
वीथीमुखमलङ्कुर्यात् रम्भापूगध्वजाङ्कुरैः ।
दीपैः पूर्णघटैश्चैव दर्भमाल्यैश्च तोरणैः ॥ ८२ ॥
View Verse
इन्द्रादीशानपर्यन्तं बलिं दद्याद्विचक्षणः ।
उत्सवं बलिबेरञ्च घटं वै देवसम्मुखम् ॥ ८३ ॥
View Verse
आरोप्य परिकरैः सार्धं तालवृन्तगणैर्युतम् ।
अनेकध्वजसंयुक्तं वाद्यवादनसंयुतम् ॥ ८४ ॥
View Verse
ग्रामस्येन्द्रादि दिग्भागे तिष्ठन्वै देवतामुखम् ।
गोमयालेपनं कुर्याद्धस्तमात्रप्रमाणतः ॥ ८५ ॥
View Verse
दर्भासनं ततः कृत्वा देवमुद्दिश्य साधकः ।
आवाहयेत्ततो देवमिन्द्रं कुमुदमेव च ॥ ८६ ॥
View Verse
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ।
बलिं ताम्बूलकञ्चैव श्लोकपूर्वं तथा यजेत् ॥ ८७ ॥
View Verse
भेरीताडनकञ्चैव तालवादनपूर्वकम् ।
गीतं नृत्तं च वाद्यं च सर्वदेशेषु च क्रमात् ॥ ८८ ॥
View Verse
कान्तारं पूर्वदिग्भागे कौशिकं दक्षिणे तथा ।
पश्चिमे कामदं प्रोक्तं तर्करागं तथोत्तरे ॥ ८९ ॥
View Verse
आग्नेय्यान्तु कौलीस्यान्नैर्-ऋते नटभाषणम् ।
तक्केशी वायुदिग्भागे चालापाणी तु शाङ्करे ॥ ९० ॥
View Verse
मध्यमे पञ्चमं प्रोक्तं पीठस्थाने तु मालवी ।
ऐन्द्रे तु देशीनृत्तं स्यादाग्नेये मल्लकं भवेत् ॥ ९१ ॥
View Verse
दक्षिणे तु घटक्रीडा युद्धक्रीडा च नैर्-ऋते ।
पश्चिमे कन्दुकक्रीडा गणक्रीडा च मारुते ॥ ९२ ॥
View Verse
मार्गमुत्तरतो विद्याद्भुजङ्गश्चैशके परम् ।
ब्राह्मे गणभुवं प्रोक्तं पीठपार्श्वे तु मङ्गलम् ॥ ९३ ॥
View Verse
खेटकं याम्यभागे तु नैर्-ऋते चक्रमण्डलम् ।
क्रमस्थः पूर्वदिग्भागे शब्दमाग्नेयके भवेत् ॥ ९४ ॥
View Verse
गारुडं वारुणे भागे हास्यनृत्तं तु मारुते ।
मङ्गलं सोमदिग्भागे महानृत्तं तु शाङ्करे ॥ ९५ ॥
View Verse
ब्राह्मे तु सर्ववाद्यं स्यात् पीठदेशे यथारुचि ।
एवमेव प्रकारेण बलिं कुर्यात्समन्ततः ॥ ९६ ॥
View Verse
पीठस्य दक्षिणे स्थित्वा ध्वजारोहणमाचरेत् ।
ध्वजदण्डं प्रतिष्ठाप्य स्तम्भं चन्दनकं तथा ॥ ९७ ॥
View Verse
तेकवृक्षं च खदिरं पनसं पाटलं तु वा ।
क्रमुकं नालिकेरं च तालं वेणुं तथैव च ॥ ९८ ॥
View Verse
स्वयंशुष्कं च पतितं कोटरं वक्रकं त्यजेत् ।
शततालं तदर्धं वा तस्यार्धमथापि वा ॥ ९९ ॥
View Verse
अशीतितालमिच्छन्ति केचित्तस्यार्धमेवा वा ।
प्रासादोच्छ्रायमानं वा गोपुरोच्छ्रायकं भवेत् ॥ १०० ॥
View Verse
द्वात्रिंशदङ्गुलं मूलं मध्याग्रे बिलकं विना ।
View Verse
पीठकत्रितयं कुर्यात् यन्त्राकारन्तु पीठकम् ।
निर्गमस्सममानतु ? यष्टिं तत्रैव योजयेत् ॥ १०२ ॥
View Verse
पीठमौदुम्बरं वापि अश्वत्थं वापि कारयेत् ।
यष्टिं वेणुं खादिरं वा यष्ट्यग्रं सममानकं ॥ १०३ ॥
View Verse
दर्भमाल्यैश्च संवेष्ट्य प्रादक्षिण्यक्रमेण तु ।
अन्तर्दर्भसमायुक्तं दर्भखण्डन्तु वाग्रतः ॥ १०४ ॥
View Verse
अवटस्योत्तरे भागे उदग्दण्डन्तु शाययेत् ।
सङ्कटे सति विप्रेन्द्र यथादेशानुरूपतः ॥ १०५ ॥
View Verse
प्रागग्रमुदगग्रं च कारयेद्देव कर्मणि ।
प्रक्षाल्य शुद्धतोयेन पुण्याहं प्रोक्षणं चरेत् ॥ १०६ ॥
View Verse
गन्धपुष्पैस्समभ्यर्च्य यन्त्रेणैव समुद्धरेत् ।
बद्धध्वजपटं वापि केवलं वापि कारयेत् ॥ १०७ ॥
View Verse
स्तम्भमूलं द्रढीकुर्यात् पीठं सम्यक् प्रकल्पयेत् ।
त्रिहस्तं वा द्विहस्तं वा पञ्चहस्तमथापि वा ॥ १०८ ॥
View Verse
हस्तोच्छ्रायं तथा कुर्यात् तदूर्ध्वे मेखलात्रयम् ।
तदूर्ध्वे पद्मकं कुर्यात् द्वादशाष्टदलैर्युतम् ॥ १०९ ॥
View Verse
स्तम्भस्य परितः कुर्यात् मण्डपं सप्रपं तु वा ।
अरोहयेद्ध्वजं पश्चात् रज्जुना देशिकोत्तमः ॥ ११० ॥
View Verse
पुण्याहं पूर्वतः कुर्यात् समभ्यर्च्य यथाविधि ।
हविर्निवेदयेत् पश्चात् कुम्भप्रोक्षणपूर्वकम् ॥ १११ ॥
View Verse
सन्निधौ देवदेवस्य नृत्तगीतादिकं चरेत् ।
वीथीं प्रदक्षिणीकृत्य उत्सवं सम्प्रवेशयेत् ॥ ११२ ॥
View Verse
ध्वजारोहणकाले तु भेरीं शृण्वन्ति ये जनाः ।
तैर्नदीतरणं नैव न यानं योजनात्परम् ॥ ११३ ॥
View Verse
गमने सति सम्मोहाद्व्याधिमाप्नोति नित्यशः ।
तस्मात् सर्वप्रयत्नेन बहिर्यानं विवर्जयेत् ॥ ११४ ॥
View Verse

Chapter - 21 महोत्सवविधिः

२१ महोत्सवविधिः
अथ एकविंशोऽध्यायः
श्रीभगवान्-
महोत्सवं प्रवक्ष्यामि विस्तरेण तवानघ ।
अङ्कुरावापनं पूर्वं पताकारोपणं तथा ॥ १ ॥
View Verse
कौतुकस्योत्सवं पश्चात् उत्सवारम्भणं भवेत् ।
स्नपनं देवदेवस्य यागदीक्षाह्यनन्तरम् ॥ २ ॥
View Verse
चतुस्स्थानार्चनञ्चैव होमकर्माण्यनन्तरम् ।
तीर्थाङ्कुरार्पणञ्चैव ग्रामस्य च बलिं तथा ॥ ३ ॥
View Verse
यात्राचोत्सवबिम्बस्य तथा तीर्थाधिवासनम् ।
तीर्थस्नानं ततः कुर्यात्पुष्पयागमनन्तरम् ॥ ४ ॥
View Verse
ध्वजावरोहणकञ्चैव उद्वासनबलिं तथा ।
विषक्सेनार्चनञ्चैव कर्मक्रममिमं विदुः ॥ ५ ॥
View Verse
उत्सवारम्भदिवसात् सप्तमे पञ्चमेऽहनि ।
अङ्कुरस्यार्पणं कुर्यात्पूर्ववच्चोक्तवर्त्मना ॥ ६ ॥
View Verse
उत्सवारम्भदिवसात् पूर्वेद्युश्च निशामुखे ।
कौतुकं बन्धयेद्धीमान् तत्क्रमस्ते प्रवक्ष्यते ॥ ७ ॥
View Verse
मण्डपं समलङ्कृत्य ध्वजतोरणकुम्भकैः ।
क्रमुकैः कदलीकाण्डैर्दर्भमाल्यादिकैस्तथा ॥ ८ ॥
View Verse
तन्मध्ये वेदिकां कुर्यात् विष्णुयन्त्रं प्रकल्पयेत् ।
मण्टपस्येशदिग्भागे कुम्भं संस्थापयेत्सुधीः ॥ ९ ॥
View Verse
पूर्ववदग्निपार्श्वे तु कुण्डं कुर्याद्विचक्षणः ।
मण्डलात्पश्चिमे बिम्बं स्थापयेत्तु यथाविधि ॥ १० ॥
View Verse
द्वारादियजनं कृत्वा चतुःस्थानार्चनं यजेत् ।
कौतुकं कारयेद्विद्वान् सौवर्णेनैव देशिकः ॥ ११ ॥
View Verse
तन्तुसूत्रयुतञ्चैव उत्सवस्य विशेषतः ।
देवीभ्यान्तु विशेषेण बलिस्नपनबेरयोः ॥ १२ ॥
View Verse
आचार्यस्य विशेषेण ऋत्विजानां तथैव च ।
पृथक् तण्डुलपात्रेषु ताम्बूलसहितं न्यसेत् ॥ १३ ॥
View Verse
शिष्यस्य शिरसि स्थाप्य प्रादक्षिण्येन मन्दिरम् ।
वेदघोषसमायुक्तं गीतवाद्यसमन्वितम् ॥ १४ ॥
View Verse
धान्यराशिं विनिक्षिप्य आधारोपरि विन्यसेत् ।
पुण्याहं वाचयेत् पश्चात् ब्राह्मणैस्सह देशिकः ॥ १५ ॥
View Verse
बिम्बं सम्पूजयेत् पश्चात् पूजयेत् प्रतिसरीयकम् ।
सूत्रमादाय हस्ताभ्यां धारयित्वा विचक्षणः ॥ १६ ॥
View Verse
बन्धयेद्दक्षिणे हस्ते देवदेवस्य शार्ङ्गिणः ।
श्रियोर्वामकरे कुर्यात् आचार्यस्य स्वहस्तके ॥ १७ ॥
View Verse
पूजयित्वा यथापुर्वमपूपादि निवेदयेत् ।
मुद्गान्नं तु निवेद्याथ बलिं दद्यात् समन्ततः ॥ १८ ॥
View Verse
शयनं कल्पयित्वा च शयने सन्निवेशयेत् ।
उषःकालोत्सवं कुर्यात् सर्वैः परिकरैस्सह ॥ १९ ॥
View Verse
अनेकदीपसंयुक्तं गीतवाद्यादिसंयुतम् ।
स्वस्तिवाचनसंयुक्तं सर्वमङ्गलसंयुतम् ॥ २० ॥
View Verse
वीथ्यावरणपूर्वं तु अन्तरावरणपश्चिमम् ।
एवं सम्भ्रामयित्वा तु मण्टपे सन्निवेशयेत् ॥ २१ ॥
View Verse
नृत्तगीतादिसकलं दर्शयित्वा विचक्षणः ।
उत्सवारम्भणे स्नानमारभेन्मन्त्रवित्तमः ॥ २२ ॥
View Verse
अष्टोत्तरशतैर्वापि एकाशीतिघटैस्तु वा ।
कलशैः स्नापयेत्पश्चात् चूर्णस्नानं समाचरेत् ॥ २३ ॥
View Verse
अलकारासने नीत्वा अलङ्कृत्य यथाविधि ।
यागमण्डपभूमौ तु पश्चिए सन्निवेशयेत् ॥ २४ ॥
View Verse
श्रीभूमिसहितं विप्र बलिबिम्बसमन्वितम् ।
यागदीक्षाविधिं वक्ष्ये समासादवधारय ॥ २५ ॥
View Verse
मण्डपं चाग्रतः कुर्यात् अग्रालाभे यथारुचि ।
मण्टपं समलङ्कृत्य वितानाद्यैरलङ्कृतम् ॥ २६ ॥
View Verse
ध्वजतोरणकुम्भाद्यैरम्भापूगसमन्वितः ।
भित्तिचित्रविचित्रंस्यान्मण्डलं कारयेद्बुधः ॥ २७ ॥
View Verse
मण्डलस्योत्तरे पार्श्वे कुम्भं संस्थापयेद्बुधः ।
कुम्भमण्डलयोर्बाह्ये परितः कुण्डमाचरेत् ॥ २८ ॥
View Verse
पूर्वादीशानपर्यन्तं कुण्डकॢप्तिमथ शृणु ।
त्र्यश्रं वृत्तं षडश्रं वा वस्वश्रं विदिशःक्रमात् ॥ २९ ॥
View Verse
अष्टकुण्डविधौ विप्र चतुष्कुण्डविधिं शृणु ।
अश्रं चाप मथो वृत्तं पद्मं पूर्वादितःक्रमात् ॥ ३० ॥
View Verse
मुख्यकल्पे तु विप्रेन्द्र अष्टकुण्डं प्रकल्पयेत् ।
ऋत्विजो वरयेत्पूर्वं कुण्डे कुण्डे पृथक् पृथक् ॥ ३१ ॥
View Verse
मण्डलस्य तु पूर्वे तु गरुडं सन्निवेशयेत् ।
दक्षिणे चक्रराजं च पश्चिमे बलिबेरकम् ॥ ४० ॥
View Verse
सेनेशमुत्तरे पार्श्वे अलङ्कृत्य निवेशयेत् ।
मण्डलं चक्रपद्मं वा इष्टसिद्धिप्रदं तु वा ॥ ३३ ॥
View Verse
वासुदेवाख्य यन्त्रं वा कारयेत्तु यथारुचि ।
कुम्भमण्डलकुण्डन्तु परिकुम्भसमन्वितम् ॥ ३४ ॥
View Verse
महाकुम्भस्य पार्श्वे तु वर्धनीं सन्निवेशयेत् ।
उपकुम्भसमायुक्तमष्टमङ्गलकैर्युतम् ॥ ३५ ॥
View Verse
पालिकाभिः समायुक्तं फलैर्नानाविधैर्युतम् ।
दीर्घस्तबकसंयुक्तं क्रमुकैर्नालिकेरकैः ॥ ३६ ॥
View Verse
वस्त्रयुग्मं महाकुम्भे एकमन्यत्र योजयेत् ।
कूर्चपल्लवसंयुक्तं शरावे सूत्रसंयुतम् ॥ ३७ ॥
View Verse
शरावे तु शरावे तु नालिकेरफलं न्यसेत् ।
एवङ्कृत्वा विशेषेण द्वारपूजां समाचरेत् ॥ ३८ ॥
View Verse
कुम्भे सम्पूजयेद्देवं वासुदेवमनामयम् ।
उपकुम्भे यजेद्देवान्वासुदेवादिकान् क्रमात् ॥ ३९ ॥
View Verse
अनेकैरुपचारिअश्च चतुष्षष्टिगणैस्तु वा ।
कुम्भे च मण्डले चैव प्रोक्षणस्नानमाचरेत् ॥ ४० ॥
View Verse
अग्नौ चैव विशेषेण उपचारैः पृथग्घुवेत् ।
मण्डले पूजयेत्पश्चात् बिम्बं सम्पूजयेत्परम् ॥ ४१ ॥
View Verse
होमकार्यं ततः कृत्वा वासुदेवादि मन्त्रतः ।
प्रभवाव्यययोगेन अष्टकुण्डेषु होमयेत् ॥ ४२ ॥
View Verse
तीर्थाङ्कुरार्पणं कुर्यात् पूर्वोक्तक्रमयोगतः ।
बलिं कृत्वा तथा वीथ्यां बलिबेरसमन्वितम् ॥ ४३ ॥
View Verse
कुमुदादिगणैर्युक्तं गीतवाद्यसमन्वितम् ।
उत्सवं यानमारोप्य कुञ्जरं वा रथं तु वा ॥ ४४ ॥
View Verse
शिबिकांवा विशेषेण यथालब्धाउरूपतः ।
नैकैः परिकरैर्युक्तं बहुदीपसमन्वितम् ॥ ४५ ॥
View Verse
अन्तरावरणपूर्वं वीथ्यावरणपश्चिमम् ।
बलिस्थाने तु सम्प्राप्ते ताम्बूलं चन्दनं ददेत् ॥ ४६ ॥
View Verse
मध्यदेशे तु सम्प्राप्ते गणक्रीडां समाचरेत् ।
एवं कृत्वा विशेषेण महामण्डपमानयेत् ॥ ४७ ॥
View Verse
सिंहासने निवेश्याथ अर्घ्याद्यैः परिपूजयेत् ।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पञ्च धूपकम् ॥ ४८ ॥
View Verse
दीपं नीराजनं चैव बहुनृत्तं प्रदर्शयेत् ।
वस्त्रमाल्यान्यपोह्याथ स्नानकर्म समाचरेत् ॥ ४९ ॥
View Verse
स्नानान्ते देवदेवेशं मण्डपे सन्निवेशयेत् ।
पूजनन्त्वथ विप्रेन्द्र निवेद्यान्तं समाचरेत् ॥ ५० ॥
View Verse
प्रथमे स्यन्दनं प्रोक्तं द्वितीये शिबिका भवेत् ।
तृतीये गरुडं प्रोक्तं चतुर्थे रथमेव च ॥ ५१ ॥
View Verse
पञ्चमे दोलिकायानं षष्ठे वै कुञ्जरं तथा ।
सप्तमे पुष्पयानं स्यादष्टमे चाश्ववाहनम् ॥ ५२ ॥
View Verse
नवमे कुञ्जरप्राभा दशमे कुञ्जरं भवेत् ? ।
तीर्थाधिवासनात्पूर्वं मृतयादिवसं भवेत् ॥ ५३ ॥
View Verse
मृगयादिवसात्पूर्वं जलक्रीडावगाहनम् ।
जलक्रीडादिनात्पूर्वमुद्यानगमनं भवेत् ॥ ५४ ॥
View Verse
उद्यनगमनात्पूर्वं नदीयात्रां समाचरेत् ।
नदीयात्रादिनात्पूर्वं व्रीहिमानमथोच्यते ॥ ५५ ॥
View Verse
व्रीहिमानदिनात्पूर्वं वनवासमथाचरेत् ।
यात्राचोत्वबिम्बस्य द्विकाले चोत्तमा भवेत् ॥ ५६ ॥
View Verse
एककालमथोवापि कर्तुरिच्छानुरूपतः ।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा ॥ ५७ ॥
View Verse
अपूर्वोद्यानयानाद्यैर्यथाकौतूहलं भवेत् ।
तथा विशिष्य कर्तव्यं यावत्तिर्थदिनावधि ॥ ५८ ॥
View Verse
तीर्थस्नानदिनात्पूर्वं रात्रौ तीर्थाधिवासनम् ।
मण्डपं समलङ्कृत्य तीर्थबेरं समानयेत् ॥ ५९ ॥
View Verse
धान्यपीठं प्रतिष्ठाप्य तीर्थबेरं समानयेत् ।
अर्घ्याद्यैरर्चयित्वाथ कुम्भं संस्थापयेत्सुधीः ॥ ६० ॥
View Verse
कुम्भे तीर्थं समावाह्य पूजयित्वा विचक्षणः ।
हविर्निवेदयेत्पश्चात् बलिं दद्यात् समन्ततः ॥ ६१ ॥
View Verse
रजनीचूर्णमादायोलखले तु विनिक्षिपेत् ।
उलूखलं मुसलं चैव प्रक्षाल्याभ्यर्च्य देशिकः ॥ ६२ ॥
View Verse
आचार्यावगाहनं पूर्वं गणिकाभिरनन्तरम् ।
चूर्णेन घट्टनं वापि पञ्चकं त्रितयन्तु वा ॥ ६३ ॥
View Verse
स्थण्डिले सम्प्रतिष्ठाप्य कूर्चञ्चैव विनिक्षिपेत् ।
अभ्यर्च्य पुंसिमन्त्रेण ? पुण्याहं चैव कारयेत् ॥ ६४ ॥
View Verse
पुनरभ्यर्च्य देवेशं चूर्णस्नानं समाचरेत् ।
वासुदेवतनुस्पृष्टं चूर्णं परमपावनम् ॥ ६५ ॥
View Verse
पादस्पृष्टजलं विप्र गङ्गातोयसमं भवेत् ।
तुलसी चन्दनं पुष्पं सर्वपापहरं नृणाम् ॥ ६६ ॥
View Verse
तस्मात्सर्वप्रयत्नेन भक्तानां च प्रदापयेत् ।
ये वहन्ति पिबन्त्यैतत् ते च यान्ति पराङ्गतिम् ॥ ६७ ॥
View Verse
अवभृथस्नानम् -
ततः प्रभाते विमले वासरोत्सवमाचरेत् ।
पुरशोधनपूर्वन्तु यथापूर्वं बलिं क्षिपेत् ॥ ६८ ॥
View Verse
यात्रावसाने देवेशं मूलबेरपुरस्सरम् ।
महाकुम्भस्थकूर्चेन प्रोक्षयेन्मूलमन्त्रतः ॥ ६९ ॥
View Verse
पूजया सम्पुटीकुर्यान्मण्डले तु नियोजयेत् ।
वह्निस्थं तु विशेषेण पूर्णाहुतिपुरस्सरम् ॥ ७० ॥
View Verse
प्रायश्चित्ताहुतिञ्चैव कुम्भमण्डलपूजनम् ।
यथापूर्वं पुरा कृत्वा पश्चात्प्रोक्षणमाचरेत् ॥ ७१ ॥
View Verse
तीर्थबेरं समारोप्य यानं विप्रवरैर्द्विज ।
उत्सवान्ते समादाय केवलं तीर्थबेरकम् ॥ ७२ ॥
View Verse
आनयेत्तीर्थदेशे तु प्रभां तत्रैव कारयेत् ।
तीर्थदेशं समासाद्य प्रभामध्ये निवेशयेत् ॥ ७३ ॥
View Verse
तीर्थकुम्भं समादाय योजयेत्तज्जलैः पुनः ।
तत्तिर्थन्तु समभ्यर्च्य कलशैःस्नापयेत्प्रभुम् ॥ ७४ ॥
View Verse
पश्चात्तिर्थं तु सम्प्राप्य निमज्य च त्रिधा पुनः ।
ये स्नापयन्ति सम्प्राप्य गङ्गास्नानफलं लभेत् ॥ ७५ ॥
View Verse
सर्वदानफलञ्चैव सर्वतीर्थफलं लभेत् ।
स्वस्थाने सन्निवेश्याथ शुद्धस्नानं समाचरेत् ॥ ७६ ॥
View Verse
मन्त्रस्नानं ततः कृत्वा नीराजनमथाचरेत् ।
अलङ्कारासनं नीत्वा हविरन्तं समर्चयेत् ॥ ७७ ॥
View Verse
मन्दिरं प्रापयेद्देवं सर्वैः परिकरैः सह ।
ब्राह्मणैर्वेदघोषैश्चालयावरणपश्चिमम् ॥ ७८ ॥
View Verse
उत्सवेन सह वीथ्यां तीर्थबेरं समानयेत् ।
स्वस्थाने सन्निवेश्याथ द्वारे शङ्खं निनादयेत् ॥ ७९ ॥
View Verse
उत्सवं मण्डपे स्थाप्य स्नपनं कारयेद्बुधः ।
अलङ्कारासने नीत्वा प्रभूतान्नं निवेदयेत् ॥ ८० ॥
View Verse
दशमेऽहनि सम्प्राप्ते पुष्पयागं समाचरेत् ।
सन्निधौ देवदेवस्य वेदपारायणं चरेत् ॥ ८१ ॥
View Verse
संहिताञ्चैव शाखाञ्च आरणं तदनन्तरम् ।
ऋग्यजुस्सामवेदांश्च तथाथर्वणमेव च ॥ ८२ ॥
View Verse
सम्भावयेत्ततो देवान् वस्त्रताम्बूलभोजनैः ।
स्नपनं पुष्पयागार्थं कारयेदुक्तवर्त्मना ॥ ८३ ॥
View Verse
कौतुकं बन्धयेत्पूर्वं देवदेवस्य शार्ङ्गिणः ।
अग्निमण्डलमासाद्य पुष्पमण्डलमाचरेत् ॥ ८४ ॥
View Verse
चक्राब्जयन्त्रकं वापि आचार्यस्य वशात्तु वा ।
मण्डलस्य तु पाश्चात्ये बिम्बं सिंहासने न्यसेत् ॥ ८५ ॥
View Verse
मण्डलस्योत्तरे पार्श्वे कुम्भं संस्थापयेद्बुधः ।
देवस्येशानभागे तु विष्वक्सेनं निवेशयेत् ॥ ८६ ॥
View Verse
दक्षिणे हेतिराजानं ब्राह्मणान्परितो न्यसेत् ।
द्वारार्चनं ततः कुर्यात् कुम्भमण्डलपूजनम् ॥ ८७ ॥
View Verse
बिम्बे सम्पूजयेत्पश्चात् अष्टौ द्वादशधापि वा ।
षट्कं चतुष्टयं कालं प्रत्येकन्तु विशेषतः ॥ ८८ ॥
View Verse
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च दीपकम् ।
धूपञ्चैव नैवेद्यं ताम्बूलं तिलदानकम् ॥ ८९ ॥
View Verse
वेदं श्लोकं तथा गीतं नृत्तं वाद्यं पुनः पुनः ।
गीतन्तु मङ्गलं प्रोक्तं नृत्तं वै मार्गनृत्तकम् ॥ ९० ॥
View Verse
पूष्पपूरं समाहृत्य पृथक् पात्रे निवेशयेत् ।
सन्निधौ स्थापयित्वा च पुष्पपत्रैस्समर्चयेत् ॥ ९१ ॥
View Verse
शोषणादि क्रियां कृत्वा अर्घ्याद्यैः सम्प्रपूजयेत् ।
अर्घ्यं गन्धं तथा पुष्पं धूपञ्चैव चतुष्टयम् ॥ ९२ ॥
View Verse
स्थापयेदम्बरेणैव विकिरेद्देवपादयोः ।
शिल्पदासगणान् सर्वान् सम्भावनमथाचरेत् ॥ ९३ ॥
View Verse
चन्दनैश्चैव ताम्बूलैः देववस्त्रं प्रदापयेत् ।
आचार्यैस्साधकैश्चैव बिभवेद्देव मूर्धनि ॥ ९४ ॥
View Verse
यात्रां च कारयेद्धीमान् प्रादक्षिण्येन मन्दिरम् ।
एकधा वा द्विधा वापि स्थित्वा द्वारप्रदेशतः ॥ ९४ ॥
View Verse
स्तोत्रेण तोषयेद्देवं जनानाहूय देशिकः ।
सेवार्थमागतान् सर्वान् देवानृषिगणानपि ॥ ९६ ॥
View Verse
विलोक्य देवदेवेशं स्वस्थाने तु विसर्जयेत् ।
देवं गर्भगृहे नीत्वा स्वस्थाने सन्निवेशयेत् ॥ ९७ ॥
View Verse
तत्कुम्भन्तु समादाय आधारोपरि विन्यसेत् ।
मूलबेरं समभ्यर्च्य प्रोक्षयेन्मूलमन्त्रतः ॥ ९८ ॥
View Verse
पुनःपूजां ततः कुर्यान्मङ्गलादि प्रदर्शयेत् ।
पायसन्तु निवेद्याथ यजमानं प्रपूजयेत् ॥ ९९ ॥
View Verse
देशिकं यानमारोप्य स्वगृहं सम्प्रवेशयेत् ।
देववद्दासदासीभिर्वाद्यशङ्खरवाकुलैः ॥ १०० ॥
View Verse
जनान् सम्पूजयेत्सर्वान् ताम्बूलाद्यैरकृत्रिमैः ।
देवालयं प्रविश्याथ स्नापयेदौत्सवं पुनः ॥ १०१ ॥
View Verse
एकाशीतिघटे ब्रह्मन् अथवा पञ्चविंशके ।
स्नपनान्ते विशेषेण यागमण्डपमाविशेत् ॥ १०२ ॥
View Verse
कर्मशेषं समासाद्य प्रायश्चित्ताहुतिं हुनेत् ।
तिलेनैव विशेषेण पूर्णाहुतिमथाचरेत् ॥ १०३ ॥
View Verse
तत्रस्थदेवतास्सर्वा गमयेत्स्वस्वमालयम् ।
गर्भगेहे यथापूर्वं सन्निवेश्य महोत्सवम् ॥ १०४ ॥
View Verse
उद्वासनबलिं कृत्वा ध्वजं चैवावरोहयेत् ।
समभ्यर्च्य यथापूर्वं मुद्गान्नं तु निवेदयेत् ॥ १०५ ॥
View Verse
कुम्भे गरुडमावाह्य अवरोहण माचरेत् ।
तद्यष्टिं तत्पटञ्चैव तद्दण्डं तत्प्रभां तथा ॥ १०६ ॥
View Verse
आचार्यस्स्वयमाहृत्य अन्यथा दोषकृद्भवेत् ।
दक्षिणां दापयेद्विद्वान् वस्त्रहेमादिरत्नकैः ॥ १०७ ॥
View Verse
पञ्चाङ्गभूषणं चैव कन्यागोभूमिसद्धनैः ।
ऋत्विजां तु तदर्धं स्यात् गायकानां यथाबलम् ॥ १०८ ॥
View Verse
देशान्तरागतानां तु मानाद्यैस्तुष्टिमावहेत् ।
एवं यः कुरुते भक्त्या उत्सवं शास्त्रचोदितम् ॥ १०९ ॥
View Verse
सोऽतुलां श्रियमाप्नोति कोटिधर्मफलं लभेत् ।
अश्वमेधसहस्रं च वाजपेयशतं तथा ॥ ११० ॥
View Verse
सर्वतीर्थफलञ्चैव बहुगोदानजं फलम् ।
बहुधर्मफलं चैव लभते नात्रसंशयः ॥ १११ ॥
View Verse
सर्वपापक्षयं यति नात्र कार्या विचारणा ।
द्विकालस्नपनं कुर्यात्स्नानविद्धे विशेषतः ॥ ११२ ॥
View Verse

Chapter - 22 दमनारोपणविधिः

२२ दमनारोपणविधिः
अथ द्वाविंशोऽध्यायः
श्रीभगवान् -
मासोत्सवविधिं वक्ष्ये समासाच्छृणु साम्प्रतम् ।
मासि मासि विशेषेण द्वादश्यां विषुवद्वये ॥ १ ॥
View Verse
नक्षत्रेषु च सर्वेषु श्रवणं चोत्तमं भवेत् ।
तिथीनां द्वादशी श्रेष्ठा वाराणां शुक्रवासरम् ॥ २ ॥
View Verse
योगानान्तु व्यतीपातं करणानान्तु विष्टिकम् ।
मासि मासि विशेषेण द्वादश्यान्तु समर्चयेत् ॥ ३ ॥
View Verse
अमावास्यां पौर्णमास्यां मासार्धे वा समर्चयेत् ।
द्वादश्यान्तु विशेषेण मण्डलाराधनं चरेत् ॥ ४ ॥
View Verse
अमावास्यां विशेषेण कलशैस्स्नपनं चरेत् ।
घृतं वा क्षीरमेव स्यान्नालिकेरजलं तु वा ॥ ५ ॥
View Verse
उक्तद्रव्यमथो वापि यजमानेच्छया गुरुः ।
श्रवणे तु विशेषेण चतुस्स्थानार्चनं चरेत् ॥ ६ ॥
View Verse
मानसक्षेत्रके ब्रह्मन् पत्रपुष्पादिकं न्यसेत् ।
माघमासे तु माघर्क्षे दमनारोपणं चरेत् ॥ ७ ॥
View Verse
फल्गुने मासि ऋक्षे च तुलस्यारोपणं चरेत् ।
चैत्रे तु मासे ऋक्षे तु चम्पकाराधनं चरेत् ॥ ८ ॥
View Verse
वैशाखमासे ऋक्षे च शतपत्रेण पूजयेत् ।
ज्येष्ठमासे विशेषेण फलोत्सवविधिं चरेत् ॥ ९ ॥
View Verse
अनूराधे तु विप्रेन्द्रामावास्यां श्रवणेऽपि वा ।
स्नापयेत्सहस्रकलशैः तदर्धैर्वा तदर्धकैः ॥ १० ॥
View Verse
अष्टोत्तरशतैर्वापि तन्न्यूनं न समाचरेत् ।
उक्तद्रव्ययुतैर्वापि केवलं क्षीरमेव वा ॥ ११ ॥
View Verse
घृतं वा केवलं विप्र नालिकेरजलं तु वा ।
आषाढे मासि मासर्क्षे सहकारफलैर्यजेत् ॥ १२ ॥
View Verse
शयनं कारयेद्विप्र चातुर्मास्ये तु पूर्वतः ।
श्रवणे मासि मासर्क्षे पूजयेत्कदलीफलैः ॥ १३ ॥
View Verse
तन्मासे तु द्वादश्यां पवित्रारोहणं चरेत् ।
जयन्त्युत्सवमष्टम्यां श्रावणे कृष्णपक्षके ॥ १४ ॥
View Verse
भादपदे मासि ऋक्षे पङ्कजाराधनं चरेत् ।
आश्वयुजे मासि ऋक्षे श्वेतपद्मैस्समर्चयेत् ॥ १५ ॥
View Verse
तन्मासे तु विशेषेण शयनोत्थापनं चरेत् ।
कार्तिके मासि मासर्क्षे दीपारोहणमाचरेत् ॥ १६ ॥
View Verse
तन्मासे सकले विप्र वृश्चिकाराधनं चरेत् ।
मार्गशीर्षे मासि ऋक्षे गन्धालेपनमाचरेत् ॥ १७ ॥
View Verse
तन्मासे पूर्वपक्षे तु वेदाध्ययन माचरेत् ।
अध्ययनोत्सवं कुर्याद्दश वा सप्तकं भवेत् ॥ १८ ॥
View Verse
यद्वा पञ्च दिनं विप्र त्र्यहं वाथ समाचरेत् ।
विंशद्दिनमथोवापि देवान् सर्वांश्च श्रावयेत् ॥ १९ ॥
View Verse
ब्राह्मणैर्मूर्तिमन्त्रैश्च वेदपारगतैरपि ।
उत्सवं कारयेन्नित्यं वाहनं निजपूर्वकम् ॥ २० ॥
View Verse
कुम्भमण्डलहोमं च वर्जयेत्तत्र कर्मणि ।
पुष्ये मासि च मासर्क्षे हरिद्रालेपनं चरेत् ॥ २१ ॥
View Verse
तन्मासे तु विशेषेण वनभोजन माचरेत् ।
तिलदानं माघमासे पितॄणां पिण्डमाचरेत् ॥ २२ ॥
View Verse
मासकर्म इति प्रोक्तं तद्विधानं प्रचक्षते ।
पत्रपुष्पविधौ ब्रह्मन् पवित्रारोपणं चरेत् ॥ २३ ॥
View Verse
फलपूजादिकं विप्र पूरणं सम्यगाचरेत् ।
गन्धपूजाविधौ ब्रह्मन् लेपनं सम्यगाचरेत् ॥ २४ ॥
View Verse
प्रथमञ्चाङ्कुरं वापि मण्डपालङ्कृतिं तथा ।
शुद्धस्नानं तृतीयञ्च चतुर्थे द्वारपूजनम् ॥ २५ ॥
View Verse
चतुस्स्थानार्चनञ्चैव पञ्चमं समुदाहतम् ।
षष्ठं कौतुकबिम्बं स्यात्ततश्शयनकल्पनम् ॥ २६ ॥
View Verse
शयनाधिवासने चैव रक्षा कार्या ततः परम् ।
प्रातस्स्नानं ततः कुर्यात् कलशैस्स्नपनं भवेत् ॥ २७ ॥
View Verse
द्वारपूजाविधानञ्च चतुस्स्थानार्चनं तथा ।
निवेदनं बलिञ्चैव भूषणारोपणं तथा ॥
View Verse
भूषणारोपणं विप्र पूजायास्सम्पुटं भवेत् ।
वेदघोषं ततः श्लोकदानं नीराजनं तथा ॥ २८ ॥
View Verse
गीतं वाद्यं तथा नृत्तं होमद्रव्यबलिर्भवेत् ।
यात्रोत्सवं ततः कुर्यात् तत्प्रसादप्रदापनम् ॥ २९ ॥
View Verse
पूजावरोहणं चैव पुनः पूजां समाचरेत् ।
शुद्धस्नानं ततः कृत्वा तथास्थाननिवेशनम् ॥ ३० ॥
View Verse
दक्षिणां सुप्रदानञ्च इति कर्मक्रमं विदुः ।
एतत्कर्मक्रमेणैव सर्वकर्माणि कारयेत् ॥ ३१ ॥
View Verse
प्रथमं नाभिमानञ्च द्वितीयञ्चोरुमध्यगम् ।
तृतीयं जानुमानन्तु चतुर्थं पादमानकम् ॥ ३२ ॥
View Verse
पुष्पपत्रपवित्रेषु प्रमाणं परिकीर्तितम् ।
कुम्भमण्डलकुण्डेषु एतान्मानमुदाहृतम् ॥ ३३ ॥
View Verse
स्थूलमानं तथाप्रोक्तं देवीभ्यां नाभिमानकम् ।
स्थूलया सङ्गबिम्बानां नाभिमानं प्रशस्यते ॥ ३४ ॥
View Verse
भूषणायुधशक्तीनां तालमानं प्रशस्यते ।
पूरणेन विशेषेण मानं वक्ष्यामि सुव्रत ॥ ३५ ॥
View Verse
प्रथमं पीठमानन्तु द्वितीयं जानुमानकम् ।
तृतीयमूरुमध्यस्थं चतुर्थं कटिमानकम् ॥ ३६ ॥
View Verse
कुम्भमण्डलकुण्डेषु शिवमानेन कल्पयेत् ।
शिवं शिवद्वयञ्चैव बिशिवञ्च चतुश्शिवम् ॥ ३७ ॥
View Verse
केवलं प्रस्थमानेन उपकुम्भे प्रपूरयेत् ।
मूलबिम्बे विशेषेण पूर्ववन्मानमीरितम् ॥ ३८ ॥
View Verse
वासुदेवादिभिर्मन्त्रैः पूजयेद्देशिकः स्वयम् ।
बलिकर्मणि विप्रेन्द्र मुष्टिमानं प्रचक्षते ॥ ३९ ॥
View Verse
लेपने तु विशेषेण मानं वक्ष्यामि सुव्रत ।
आकण्ठस्थानपर्यन्तं प्रथमं परिलेपयेत् ॥ ४० ॥
View Verse
स्थानान्नाभ्यवधि ब्रह्मन् द्वितीयं परिलेपयेत् ।
नाभ्या कट्यवधि ब्रह्मन् तृतीयं परिचक्षते ॥ ४१ ॥
View Verse
अक्षात्पादावधि यावत् चतुर्थं परिलेपयेत् ।
आकण्ठान्नाभिपर्यन्तं देवीभ्यां मानमीरितम् ॥ ४२ ॥
View Verse
पूरणे पादमानं स्यात् अन्येषां पादमानकम् ? ।
दमनारोपणात्पूर्वमङ्कुरानर्पयेत् सुधीः ॥ ४३ ॥
View Verse
मण्डपं समलङ्कृत्य पूर्वेद्युश्च निशामुखे ।
कुम्भमण्डलकुण्डञ्च कारयेद्विधिचोदितम् ॥ ४४ ॥
View Verse
चक्राब्जमण्डलं कृत्वा भद्रकाख्यमथापि वा ।
यन्त्रमण्डलकं वापि यजमानेच्छया गुरुः ॥ ४५ ॥
View Verse
द्वारादियजनं कुर्यात् पुण्याहं वाचयेत्सुधीः ।
स्नपनं कारयेद्धीमान् क्षीरादिद्वादशे घटे ॥ ४६ ॥
View Verse
तद्बेरं समलङ्कृत्य विष्टरे सन्निवेशयेत् ।
मण्डपस्य तु पाश्चात्ये कुम्भे सम्पूजयेद्धरिम् ॥ ४७ ॥
View Verse
मण्डले पूजयेद्देवं नारायणमनामयम् ।
बिम्बमभ्यर्चयेद्धीमान् होमकर्म समाचरेत् ॥ ४८ ॥
View Verse
निवेदनं ततः कृत्वा तत्तत्स्थाने बलिं क्षिपेत् ।
कौतुकं तण्डुले न्यस्य नीत्वा धामप्रदक्षिणम् ॥ ४९ ॥
View Verse
भेरीनाद समायुक्तमाधाओपरि विन्यसेत् ।
देवमभ्यर्च्य चार्घ्याद्यैः बन्धयेद्दक्षिणे करे ॥ ५० ॥
View Verse
पुनः पूजां ततः कृत्वा अपूपादि निवेदयेत् ।
दमनाङ्कुरमाहृत्य क्षालयेच्छुद्धतोयकैः ॥ ५१ ॥
View Verse
कदलीत्वविशेषेण दीर्घपत्रे पुरन्ध्रगैः ।
वरङ्कारयेद्धीमान् पूर्वोक्तेनैव वर्त्मना ॥ ५२ ॥
View Verse
पृथक् पात्रे निवेश्याथ अधिवासनमाचरेत् ।
देवमण्डपयोर्मध्ये व्रीहिपीठं समाचरेत् ॥ ५३ ॥
View Verse
तस्योपरि न्यसेत्पात्रं दहनाप्यायनं चरेत् ।
सौरभेयीं प्रदर्श्याथ पूजयेद्गन्धपुष्पकैः ॥ ५४ ॥
View Verse
किराटाद्यैश्च? मन्त्रैश्च पातयेदपरेण तु ।
अधिवासजमादाय योजयेत्कुम्भमूर्धनि ॥ ५५ ॥
View Verse
पूजया सम्पुटीकुर्यात् गीतवाद्यादिकं चरेत् ।
अधिवासस्रजं ? विप्र नाभिमानं प्रचक्षते ॥ ५६ ॥
View Verse
शयने सन्निवेश्याथ रक्षां कुर्यात्समन्ततः ।
ततः प्रभाते विमले स्नपनं सम्यगाचरेत् ॥ ५७ ॥
View Verse
अष्टोत्तरशतैर्वापि एकाशीतिघटैस्तु वा ।
स्नपनार्थे तु देवेशमानयेत्सिंहविष्टरे ॥ ५८ ॥
View Verse
अलङ्कृत्य यथान्यायं चतुस्स्थानार्चनं चरेत् ।
कुम्भेन सम्पूजयेत्पश्चात् किरीटादि चतुष्टयम् ॥ ५९ ॥
View Verse
वर्धन्याञ्च ततो दद्यात् पूजया सम्पुटीकृतः ।
गीतनृत्तादिकान् सर्वान् दर्शयेद्देवसन्निधौ ॥ ६० ॥
View Verse
नमस्कृत्य यथान्यायं स्तुत्वा देवं प्रणम्य च ।
मण्डले योजयेत् पश्चात् कुम्भवद्देशिकोत्तमः ॥ ६१ ॥
View Verse
मण्डलस्थं विशेषेण तत्काले सम्प्रवेशयेत् ।
अङ्गानामप्युपाङ्गानां लाजान्तानामपि द्विज ॥ ६२ ॥
View Verse
भूषणानां च शक्तीनां तथा च विहगेशितुः ।
अर्व्यादीनान्तु पात्राणां धूपदीपप्रकाण्डकैः ॥ ६३ ॥
View Verse
मूलबेरे यथा कुर्यात् होमकुण्डे तथा भवेत् ।
एवं कृत्वा विधानेन द्वारस्थानादीनां चरेत् ॥ ६४ ॥
View Verse
आलयाङ्गस्थबिम्बानां चण्डादीनां विशेषतः ।
एवंविधानसंयुक्तं तत्तद्द्रव्यैर्बलिं क्षिपेत् ॥ ६५ ॥
View Verse
अपराह्णे तु सम्प्राप्ते यानमारोप्य देशिकः ।
धामप्रदक्षिणं कृत्वा वीथ्यावरणपश्चिमम् ॥ ६६ ॥
View Verse
मण्डपे सन्निवेश्याथ सन्न्यासं चैव कारयेत् ।
शुद्धस्नानं ततः कृत्वा दक्षिणां सम्प्रदापयेत् ॥ ६७ ॥
View Verse
यतीनां ब्राह्मणादीनां प्रसादं परिदापयेत् ।
यः करोति नरो भक्त्या स याति ब्रह्मणः पदम् ॥ ६८ ॥
View Verse
अश्वमेधाष्टकं पुण्यं वाजपेयत्रयं तथा ।
सर्वपापक्षयं चैव सर्वोपद्रवनाशनम् ॥ ६९ ॥
View Verse

Chapter - 23 मासोत्सवविधिः

२३ मासोत्सवविधिः
अथ त्रयोविंशोऽध्यायः
भगवान्-
तुलस्यारोपणे चैव दमनारोपणं भवेत् ।
चम्पकाराधने विप्र तथा कर्म समाचरेत् ॥ १ ॥
View Verse
अङ्कुरार्पणं ततः कुर्यात् तथा वै कौतुकत्रयम् ।
निशि पूजाविधानञ्च अधिवासञ्च भूषणम् ॥ २ ॥
View Verse
त्रिस्थानयजनं चैव होमकर्मविधिस्तथा ।
स्नपनं तु विशेषेण नालिकेरजलैर्भवेत् ॥ ३ ॥
View Verse
केवलं गन्धतोये वा तदभावे विशेषतः ।
अधिवासविधौ ब्रह्मन् सद्यो द्रव्याधिवासनम् ॥ ४ ॥
View Verse
यात्राकाले तु विप्रेन्द्र पुष्पदाम प्रशस्यते ।
विकिरेत् सर्वतो विप्र पुष्पैर्ग * * नैर्यथा ॥ ५ ॥
View Verse
अन्यानि सर्वकर्माणि पूर्ववत्कारयेद्द्विज ।
चम्पकानामभावे तु पाटलं परिकीर्तितम् ॥ ६ ॥
View Verse
वैशाखे तु विशेषेण सन्न्यासं सम्यगाचरेत् ।
ब्राह्मणादीनां वर्णानां तत्प्रसादं प्रदापयेत् ॥ ७ ॥
View Verse
स्नपने तु विशेषेण केवलं पुष्पतोयकम् ।
गन्धोदकमथो वापि नालिकेररसन्तु वा ॥ ८ ॥
View Verse
पत्रपुष्पोत्सवे विप्र भूषणैः परिभूषयेत् ।
फलोत्सवेषु सर्वेषु पूरणं सम्प्रकीर्तितम् ॥ ९ ॥
View Verse
गन्धोत्सवेषु सर्वेषु लेपनं सम्यगाचरेत् ।
अनूराधे विशेषेण फलोत्सवमथाचरेत् ॥ १० ॥
View Verse
फलोत्सवविधिं वक्ष्ये समासादवधारय ।
कदलीपनसञ्चाम्रं फलानां सम्प्रकीर्तितम् ॥ ११ ॥
View Verse
त्वजार्क्षसंयुतं न्यूनं बीजपूरन्तु चाक्षतम् ।
पनसं विविधं प्रोक्तं पनसं क्षुद्रसञ्ज्ञकम् ॥ १२ ॥
View Verse
क्षुद्रन्तु वर्जयेद्विप्र सर्वदा पूरकर्मणि ।
कदली त्रिविधं प्रोक्तं त्रिविधं योग्यमेव च ॥ १३ ॥
View Verse
सहकारे तथाप्रोक्तं हारीतं रक्तपीतकम् ।
त्रिविधं पूरणे योग्यं क्रमुके चन्द्रपूरकम् ॥ १४ ॥
View Verse
हारीतं पीतकं रक्तं पूरणे सर्वकम्? भवेत् ।
अङ्कुरावाहनञ्चैव चतुःस्थानार्चनं तथा ॥ १५ ॥
View Verse
कौतुकन्तु यथा चैव प्रातःस्नपनमेव च ।
द्वारपूजाविधिश्चैव चतुःस्थानार्चनक्रिया ॥ १६ ॥
View Verse
मूलबिम्बार्चनं चैव नैवेद्यं बलिरेव च ।
अधिवासदिने विप्र शिवमानेन पूरयेत् ॥ १७ ॥
View Verse
तद्द्रव्येणबलिं कुर्याद्धोमकर्म तथाभवेत् ।
द्विगुणं त्रिगुणं चैव चातुर्गुण्यन्तदन्तिके ॥ १८ ॥
View Verse
वासुदेवादिभिर्मन्त्रैश्चतुर्वेदाद्यकैस्तु वा ।
शाखाद्यत्रितयं वापि विष्णुसूक्ततृतीयकम् ॥ १९ ॥
View Verse
अङ्गादीनां विशेषेण मुष्टिमानेन पूरयेत् ।
श्रियादीनां विशेषेण जानुमानेन पूरयेत् ॥ २० ॥
View Verse
कर्मार्चादिबिम्बानं पादमानेन पूरयेत् ।
एकैकं होमकार्ये तु बलिकर्मणि मुष्टिकम् ॥ २१ ॥
View Verse
उत्सवं कारयेदन्ते विकिरेत्फलपूरकैः ।
मण्डपे सन्निवेश्याथ ततस्सन्न्यासमाचरेत् ॥ २२ ॥
View Verse
पूजापूर्वं ततः कुर्यात् पूर्ववत्परिवापयेत् ।
शुद्धस्नानं ततः कृत्वा गर्भगेहे निवेशयेत् ॥ २३ ॥
View Verse
पनसानामभावे तु सहकारैः प्रपूरयेत् ।
सहकारफलाभावे मोचकैः परिपूरयेत् ॥ २४ ॥
View Verse
त्रयं त्रिमाने वा विप्र मासमृक्षे समर्चयेत् ।
श्रावणे मासि विप्रेन्द्र बीजपूराष्टकैर्यजेत् ॥ २५ ॥
View Verse
तदभावे तु विप्रेन्द्र आर्द्रपूगीफलैर्यजेत् ।
मासेचाश्वयुजे विप्र जलजैः परितो यजेत् ॥ २६ ॥
View Verse
स्नपने तु विशेषेण रजनीनीरमुत्तमम् ।
चूर्णस्नानयुतं वापि उक्तद्रव्यघटैस्तु वा ॥ ४५ ॥
View Verse
लेपनं पूर्ववत्कुर्यात् अङ्कुरादिक्रियां तथा ।
इति सङ्क्षेपतः प्रोक्तो मासोत्सवविशेषकः ॥ ४६ ॥
View Verse

Chapter - 24 पवित्रारोहणम्

२४ पवित्रारोहणम्
अथ चतुर्विंशोऽध्यायः
श्रीभगवान् -
पवित्रारोपणं वक्ष्ये विस्तरेण तवानघ ।
चातुर्मासस्य मध्ये वा आदावन्ते च वा भवेत् ॥ १ ॥
View Verse
चातुर्मास्यं त्रिधा प्रोक्तं सौरञ्चान्द्रमासं तथा ।
वैष्णवं च विशेषेण त्रिविधं सम्प्रकीर्तितम् ॥ २ ॥
View Verse
सङ्क्रान्त्यादिकं सौरं स्यात् चाद्रञ्च प्रथमादिकम् ।
द्वादश्यादि त्रिकं चैव वैष्णवं परिकीर्तितम् ॥ ३ ॥
View Verse
वैष्णवं चोत्तमं प्रोक्तं मध्यमं सौरमुच्यते ।
चान्द्रमप्यधमं प्रोक्तं उत्तमे तु समाचरेत् ॥ ४ ॥
View Verse
तस्मात्सर्वप्रयत्नेन द्वादश्यान्तु समाचरेत् ।
पवित्रकर्महीने तु नित्यपूजा विनश्यति ॥ ५ ॥
View Verse
नित्यपूजाविनाशे तु राष्ट्रं क्षयमवाप्नुयात् ।
तद्ग्रामोनिधनं ? याति तत्स्थानं नाशनं भवेत् ॥ ६ ॥
View Verse
तस्मात्सर्वप्रयत्नेन पवित्रारोपणं चरेत् ।
पतनात्त्रायते तस्मात्पवित्रं परिकीर्तितम् ॥ ७ ॥
View Verse
आत्मार्थे वा परार्थे वा पवित्रारोपणं भवेत् ।
एकबेरे तु वा विप्र बहुबेरे तु वा भवेत् ॥ ८ ॥
View Verse
लेपभित्तिपटस्थे तु कर्मार्चायां समाचरेत् ।
मण्डपं कारयेद्धीमान् अग्रतः परितोऽपि वा ॥ ९ ॥
View Verse
बहुस्तम्भसमायुक्तं शिलयेष्टकयापि वा ।
केवलं दारुमात्रं वा प्रपामात्रमथापि वा ॥ १० ॥
View Verse
भित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ।
अधिष्ठानान्वितं वापि उपपीठान्वितं तु वा ॥ ११ ॥
View Verse
पादबन्धयुतं वापि प्रस्तरादियुतं तु वा ।
ज्वालातोरणसंयुक्तं पताकाभिरलङ्कृतम् ॥ १२ ॥
View Verse
कूटाकारयुतं वापि गरुडेनापिशोभितम् ।
सिंहयुक्तमयुक्तं वा बहुद्वारयुतं तु वा ॥ १३ ॥
View Verse
भित्तित्रययुतं वापि पञ्च सप्त नवात्मकम् ।
एवं कृत्वा विधानेन सुधया परिलेपयेत् ॥ १४ ॥
View Verse
चित्रं कुर्याद्विशेषेण अवतरैरनेकशः ।
तोरणानि चतुर्दिक्षु कारयेद्विजसत्तमः ॥ १५ ॥
View Verse
अश्वत्थं व वटं वापि प्लक्षं वा बिल्व मेववा ।
तालं वेणुं तथैवापि कारयेद्विधिचोदितम् ॥ १६ ॥
View Verse
द्वारायामसमं वापि स्तम्भायामसमन्तु वा ।
आयामर्धेन विस्तीर्णं हस्तमानमथापि वा ॥ १७ ॥
View Verse
क्षुद्रप्रासादकं विप्र हस्तमानेन कारयेत् ।
शूलत्रयसमायुक्तं गरुडेन समन्वितम् ॥ १८ ॥
View Verse
तोरणे तोरणे कुर्यात् गरुडञ्चोर्ध्वसंस्थितम् ।
गोमयालेपनं कुर्यात् मण्डपाभ्यन्तरस्थलम् ॥ १९ ॥
View Verse
तन्मध्ये वेदिकां कुर्यात् विधिरेवं प्रकीर्तितः ।
मण्डलं मध्यभागे तु दक्षिणे कुम्भसंस्थितम् ॥ २० ॥
View Verse
उत्तरे चाग्निकुण्डं स्यात्सौम्येशानान्तरेपि वा ।
एकैकं पञ्चहस्तं वा चतुर्हस्तं त्रिहस्तकम् ॥ २१ ॥
View Verse
तत्पीठ हस्तमानं वा तालमानमथापि वा ।
वेदिकोच्छ्रायमानं वा चतुरङ्गुलकं भवेत् ॥ २२ ॥
View Verse
मण्डपस्य तु वेदी तु दर्पणोदरवद्भवेत् ।
कुम्भवेदीं समां कृत्वा कुण्डं वा पङ्कजाकृति ॥ २३ ॥
View Verse
चतुरश्रमथोवापि चक्राकारमथापि वा ।
मेखलात्रयसंयुक्तं योनिनाभिसमन्वितम् ॥ २४ ॥
View Verse
तद्बहिश्चाष्टदेशे तु कुण्डं कुर्याद्विचक्षणः ।
अश्रं योनिं तथा चापं त्र्यश्रं वृत्तं षडश्रकम् ॥ २५ ॥
View Verse
पद्मं वस्वश्रकञ्चैव पूर्वादीनां दिशां क्रमात् ।
यद्वा चक्रादिकं वापि अष्टकुण्डं प्रकल्पयेत् ॥ २६ ॥
View Verse
चतुष्कुण्डमथो वापि एतन्न्यूनन्नकारयेत् ।
अश्रं चापं तथा वृत्तं पद्मं पूर्वादितःक्रमात् ॥ २७ ॥
View Verse
वेद्याःपश्चिम भूभागे उत्सवं सन्निवेशयेत् ।
सिंहासने तु विप्रेन्द्र कल्पद्रुमसुमण्डिते ॥ २८ ॥
View Verse
निश्चलप्रभया युक्तं पुष्पमाल्यैः परिष्कृतम् ।
श्रीभूमिसहितं देव मासने सन्निवेशयेत् ॥ २९ ॥
View Verse
गरुडं पूर्वदिग्भागे दक्षिणे चक्रमेव च ।
पश्चिमे वायुपुत्रन्तु विष्वक्सेनं तथोत्तरे ॥ ३० ॥
View Verse
ध्वजतोरणकुम्भाद्यैर्द्वारेऽपि च निवेशयेत् ।
वितानाद्यैरलङ्कृत्य क्षौमैः कार्पासकैस्तथा ॥ ३१ ॥
View Verse
स्तम्भानां वेष्टनं कुर्यात् रम्भापूगैरलङ्कृतम् ।
फलैर्नानाविधैश्चैव दीपकुम्भैरलङ्कृतम् ॥ ३२ ॥
View Verse
दर्पणैश्चामरैश्चैव आतपत्रैर्मनोहरैः ।
घण्ठाभिरर्धचन्द्राद्यैर्दर्भमाल्यैरलङ्कृतम् ॥ ३३ ॥
View Verse
एवङ्कृत्वा विधानेन पवित्रं वाथ कारयेत् ।
क्षौमं कार्पासकं वापि स्वर्णसूत्रमथापि वा ॥ ३४ ॥
View Verse
ब्राह्मण्या निर्मितं वाथ क्रीतं चैवापणस्थले ।
अयुग्मं युग्मं वापि अयुग्मे नवकं भवेत् ॥ ३५ ॥
View Verse
युग्मेर्द्वादशकं प्रोक्तमष्टौ वापि चतुष्टयम् ।
प्रक्षाल्य शुद्धतोयेन शोषयेत्प्रणवेन तु ॥ ३६ ॥
View Verse
निर्माणमण्डपे विप्र गोमयालेपनं भवेत् ।
शङ्खञ्च निखनेद्भूमौ आचार्यो वायुसूत्रकैः ॥ ३७ ॥
View Verse
प्रथमं मुखमानं तु द्वितीयं द्विगुणं भवेत् ।
तृतीयं त्रिगुणं प्रोक्तं चतुर्थन्तु चतुर्गुणम् ॥ ३८ ॥
View Verse
अष्टोत्तरशतञ्चाद्यं द्वितयं द्विगुणन्तु वा ।
तृतीयं त्रिगुणं प्रोक्तं चतुर्थन्तु चतुर्गुणं ॥ ३९ ॥
View Verse
यद्वा सहस्रमरकं तदर्धञ्च तदर्धकम् ।
तदर्धञ्चाद्यकं चैव ग्रन्थयेद्विधिना ततः ॥ ४० ॥
View Verse
अन्तरान्तरकञ्चैव द्विजाण्डसदृशं भवेत् ।
धात्रीफल समाकारं स्थूलमुक्तासमं भवेत् ॥ ४१ ॥
View Verse
अन्तरान्तरयोगेन ग्रन्थनीयञ्च दूरतः ।
कुभमण्डलकुण्डेषु द्वन्द्वमानं प्रकीर्तितम् ॥ ४२ ॥
View Verse
पञ्चकं वेदिमानं स्यात् उपकुम्भेषु चेष्यते ।
त्रितयं द्वितयं वापि समासं वा समाचरेत् ॥ ४३ ॥
View Verse
प्रथमं नालमानन्तु द्वितीयं द्विगुणं भवेत् ।
तृतीयं त्रिगुणं ज्ञेयं परिकुम्भे तथैव च ॥ ४४ ॥
View Verse
परिकुम्भेषु विप्रेन्द्र एकमेवाप्यलं भवेत् ।
करके चास्त्रके विप्र एकं वापि त्रयं भवेत् ॥ ४५ ॥
View Verse
अधिवासे पवित्रं हि आद्यमानं प्रशस्यते ।
मण्डले कर्णिकामानं केसरेषु तथैव च ॥ ४६ ॥
View Verse
दले दले विशेषेण दलमानं प्रशस्यते ।
अक्षरेष्वरमानं स्यादरक्षेत्रे तु तत्समम् ॥ ४७ ॥
View Verse
नाभिक्षेत्रे तथा प्रोक्त मरक्षेत्रे तु तत्समम् ।
नेमिक्षेत्रे समं प्रोक्तं तृतीये त्रितयं भवेत् ॥ ४८ ॥
View Verse
द्वितीये त्रितयं विद्यात् एके चैव परं भवेत् ।
चक्राब्जमण्डले स्थित्वा पवित्रारोपणं भवेत् ॥ ४९ ॥
View Verse
बहुचक्रेषु विप्रेन्द्र एकैकं वा त्रयं त्रयम् ।
कुण्डेषु मेखलामानं एकैकं च पृथक् पृथक् ॥ ५० ॥
View Verse
एतत्पवित्रकं विप्र यथेच्छाग्रन्थितन्तुभिः ।
अन्येषु सर्वकार्येषु तालमानं प्रशस्यते ॥ ५१ ॥
View Verse
बिम्बप्रतिसराणां तु मानं तस्य प्रचक्षते ।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥ ५२ ॥
View Verse
द्वितीयं जानुमानं तु तृतीयं पादमानकम् ।
चतुर्थं पीठमानन्तु मूलबेरं तदेव हि ॥ ५३ ॥
View Verse
देवीभ्यान्तु विशेषेण त्रितयं द्वितयन्तु वा ।
नाभिजानुपदं विप्र तृतीये परिकीर्तितम् ॥ ५४ ॥
View Verse
द्वितीयं पादन्तु एकं वा जानुपादकम् ।
भूषणानामायुधानां तालमानं प्रशस्यते ॥ ५५ ॥
View Verse
चण्डादि परिवाराणां मुखमानं प्रकीर्तितम् ।
बिम्बप्रमाणकं पीठे प्रभामानं तु तद्भवेत् ॥ ५६ ॥
View Verse
बहिःकुण्डेषु विप्रेन्द्र तृतीयं त्रितयं भवेत् ।
द्वितयं वा मुनिश्रेष्ठ एकैकं वापि कारयेत् ॥ ५७ ॥
View Verse
आचार्या बहवः प्रोक्ता ऋत्विजश्च तथैव च ।
परिचारकाश्च बहवः पवित्रारोपणे वरम् ॥ ५८ ॥
View Verse
ऋत्विजो दीक्षिताश्चैव सर्वे च गुणवत्तराः ।
उपरिष्टात्सुवर्णाद्यैः क्षौमसूत्रैश्च सन्यसेत् ॥ ५९ ॥
View Verse
पूरितं मृद्विलेपेन कुङ्कुमेनानुरञ्जयेत् ।
पृथक् पात्रे विनिक्षिप्य पुष्पगन्धैश्च साधयेत् ॥ ६० ॥
View Verse
कुम्भयोग्यानि चैकस्मिन् मण्डले चाग्निनापरे ? ।
कुण्डयोग्यानि चैकस्मिन् बिम्बयोग्यानि चापरे ॥ ६१ ॥
View Verse
अन्यानि सर्वयोग्यानि एकपात्रे विनिक्षिपेत् ।
विविधेन सुगन्धेन वासितं गन्धपुष्पकैः ॥ ६२ ॥
View Verse
तत्क्रमं ते प्रवक्ष्यामि अवधारय साम्प्रतम् ।
कर्मारम्भदिनात्पूर्वं सप्तमे पञ्चमेऽहनि ॥ ६३ ॥
View Verse
ततोऽङ्कुरार्पणं कुर्यादुत्सवोक्तविधानतः ।
त्रिवर्गपालिकायां वै अङ्कुरानर्पयेत्सुधीः ॥ ६४ ॥
View Verse
मण्डपं समलङ्कृत्य तोरणाद्यैरशेषतः ।
मृद्ग्रहं पूर्ववत्कृत्वा पालिकाः परिपूरयेत् ॥ ६५ ॥
View Verse
अष्टोत्तरशतं चैव उत्तमं परिकीर्तितम् ।
तदर्धं मध्यमं चैव तदर्धमधमं भवेत् ॥ ६६ ॥
View Verse
षोडशं द्वादशं वापि अष्टकं वा समाचरेत् ।
पालिकास्यानुरूपेण सूत्रपातं समाचरेत् ॥ ६७ ॥
View Verse
व्रीहिपीठे प्रतिष्ठाप्य सोमकुम्भन्तु विन्यसेत् ।
बीजपात्रं तथा पूर्वं द्वारपूजां समाचरेत् ॥ ६८ ॥
View Verse
चतुःस्थानार्चनं कुर्यात्पुण्याहमपि वाचयेत् ।
पवित्राणामर्चनं स्यात्सोमकुम्भस्य पूजनम् ॥ ६९ ॥
View Verse
सम्पाताज्येन विप्रेन्द्र घृतारोपणमाचरेत् ।
बीजावापं ततःकुर्यात् बलिं दद्याद्विचक्षणः ॥ ७० ॥
View Verse
गुह्यस्थाने निवेश्याथ अपरे वासरे यजेत् ।
एकादश्यान्तु प्राप्तायां धामप्रक्षालनं चरेत् ॥ ७१ ॥
View Verse
उद्धृतोदककुम्भैश्च क्षालयेद्धूपवर्जनम् ? ।
लेपयेच्चन्दनाद्यैश्च बहिरन्तश्च साधकः ॥ ७२ ॥
View Verse
चित्रवेश्मनि विप्रेन्द्र मण्डपं चानुलेपयेत् ।
अलङ्कृत्य यथापूर्वं ध्वजतोरणकुम्भकैः ॥ ७३ ॥
View Verse
विचित्रपुष्पमाल्यैश्च मुक्तादामैश्च दर्पणैः ।
फलैर्नानाविधैश्चैव रम्भापुगगणैस्तु वा ॥ ७४ ॥
View Verse
बहुदीपगणैर्युक्तं फलपुष्पादिभिस्तथा ।
मध्ये वेदिं विशेषेण मण्डलं कारयेद्बुधः ॥ ७५ ॥
View Verse
पौष्करोक्तप्रकारेण यन्त्रं विष्णुमथापि वा ।
वासुदेवाख्ययन्त्रं वा सात्वतोक्तमथापि वा ॥ ७६ ॥
View Verse
चक्राब्जं स्वस्तिकं वापि इष्टसिद्धिमथापि वा ।
वासुदेवाख्ययन्त्रं वा विष्णुयन्त्रं मथापि वा ॥ ७७ ॥
View Verse
तस्य दक्षिणपार्श्वे तु कुम्भं संस्थापयेद्बुधः ।
महाकुम्भं चोपकुम्भं परिकुम्भञ्च वर्धनीम् ॥ ७८ ॥
View Verse
पालिकां परितः स्थाप्य अष्टमङ्गलकं न्यसेत् ।
सूत्रवस्त्रसमायुक्तं विधानं कूर्चसंयुतम् ॥ ७९ ॥
View Verse
कुम्भे कुम्भे विशेषेण नारिकेलफलं न्यसेत् ।
क्रमुकं स्तम्बकं वापि नारिकेलस्य मन्चरीम् ॥ ८० ॥
View Verse
नानाविधफलैश्चैव वेदिकोर्ध्वन्तु विन्यसेत् ।
मण्डपस्योत्तरे पार्श्वे कुण्डं वै वेदिकोपरि ॥ ८१ ॥
View Verse
परिकुम्भं न्यसेद्धीमान् अष्टधान्यानि निक्षेपेत् ।
कदलीफलवृन्दैश्च नालिकेरकदम्बकैः ॥ ८२ ॥
View Verse
क्रमुकैस्तम्बकैश्चैव पनसाम्रफलैस्तथा ।
कुम्भे कुण्डे विशेषेण तथैव परिपूजयेत् ॥ ८३ ॥
View Verse
वेदिपश्चिमभागे तु उत्सवं सन्निवेशयेत् ।
सिंहासने समारोप्य परिष्कारे परिष्कृते ॥ ८४ ॥
View Verse
एवं कृत्वा विधानेन द्वारपूजां समाचरेत् ।
पुण्याहं कारयेद्धीमान् स्नपनं सम्यगाचरेत् ॥ ८५ ॥
View Verse
एकाशीतिघटैर्वापि षट्त्रिंशत्कलशैस्तु वा ।
गोक्षीरं केवलं वापि नारिकेलरसं तु वा ॥ ८६ ॥
View Verse
स्नपनान्ते विशेषेण चूर्णस्नानं स्माचरेत् ।
शुद्धस्नानं ततः कृत्वा नृसूक्तेनाभिषेचयेत् ॥ ८७ ॥
View Verse
नीराजनं ततः कृत्वा अलङ्कारासने न्यसेत् ।
कुम्भेषु मण्डले चैव कुम्भपूजां समाचरेत् ॥ ८८ ॥
View Verse
अनैकैरुपचारैश्च पूजयेद्देवबिम्बवत् ।
उपकुम्भेषु सर्वेषु षोडशैः परिपूजयेत् ॥ ८९ ॥
View Verse
अस्त्रकुम्भे तथा प्रोक्तं परिकुम्भेत्विदम्? भवेत् ।
कुम्भमण्डलकुण्डेषु प्रोक्षणस्नानमाचरेत् ॥ ९० ॥
View Verse
अष्टाक्षरेण मन्त्रेण महाकुम्भे तु पूजयेत् ।
द्वादशाक्षरमन्त्रेण मण्डले तु समर्चयेत् ॥ ९१ ॥
View Verse
विष्णुमन्त्रेण विप्रेन्द्र अग्निस्थं हरिमर्चयेत् ।
उत्सवे तु विशेषेण गायत्र्या सम्प्रपूजयेत् ॥ ९२ ॥
View Verse
उपकुम्भे वासुदेवमिन्द्रादीन् परिकुम्भके ।
मण्डलाराधनं कुर्यात् उपचारैरनेकशः ॥ ९२ ॥
View Verse
पञ्चवर्णसमायोगात् पञ्चतत्वमयं स्मृतम् ।
पञ्चतत्वमयो विष्णुः पञ्चतत्वमयश्शिवः ॥ ९४ ॥
View Verse
पञ्चतत्वमयो ब्रह्मा पञ्चतत्वमयं जगत् ।
पञ्चतत्वमयं सर्वं जगद्दृष्टं चराचरम् ॥ ९५ ॥
View Verse
तस्मात्सर्वप्रयत्नेन मण्डलारादनं परम् ।
मण्डले पूजयेद्देवं वासुदेवमनामयम् ॥ ९६ ॥
View Verse
पात्रार्चनं पुरा कृत्वा आत्मार्चनमनन्तरम् ।
पीठार्चनं ततः पश्चात् परिवारार्चनं ततः ॥ ९७ ॥
View Verse
आसनादिनिवेद्यान्तं मण्डलाराधनं परम् ।
बिम्बे सम्पूजयेद्देवं उपचारैरनेकशः ॥ ९८ ॥
View Verse
मूलबेरे तथा कुर्यात् प्रधानकुण्डे होमयेत् ? ।
विष्णुमन्त्रेण मन्त्रज्ञः समिदाज्यचरून् क्रमात् ॥ ९९ ॥
View Verse
दिक्कुण्डे तु विशेषेण ऋत्विजैर्होममाचरेत् ।
ऋत्विजामप्यभावे तु आचार्यस्स्वयमाचरेत् ॥ १०० ॥
View Verse
पालाशं खादिरञ्चैव बिल्वमौदुम्बरन्तथा ।
प्लक्षन्यग्रोधापामार्गमश्वत्थंसमिदष्टकम् ॥ १०१ ॥
View Verse
पूर्वादीशानपर्यन्तं समिधः परिकीर्तिताः ।
पायसं कृसरञ्चैव हरिद्रान्नञ्च मौद्गिकम् ॥ १०२ ॥
View Verse
माषान्नं तिलशुद्धानं दध्यन्नमथचाष्टकम् ।
लाजनीवारकौ चैव तिलस्सर्षप एव च ॥ १०३ ॥
View Verse
व्रीहिमाषयवाश्चैव गोधूमश्चाष्टमं भवेत् ।
अष्टकुण्डेषु होतव्यं तद्द्रव्यैस्तु पृथक् पृथक् ॥ १०४ ॥
View Verse
पवित्राधिवासनं कुर्यात् देवस्य पुरतः स्थले ।
मार्गत्रयं ततः कृत्वा धान्यराशिं विनिक्षिपेत् ॥ १०५ ॥
View Verse
तदर्धं तण्डुलञ्चैव तदर्धं तिलमेव च ।
तस्योपरि न्यसेत्पात्रं पीठवत्परिपूजयेत् ॥ १०६ ॥
View Verse
ततो भूषणपात्राणि विन्यसेन्मन्त्रवित्तमः ।
प्रोक्षणादिक्रियास्सर्वाः कारयेन्मन्त्रवित्तमः ॥ १०७ ॥
View Verse
प्रोक्षणं ताडनं दाहमुत्पाटापूरणं तथा ? ।
लोहकारमृत्तिकाभिर्भोगिकालञ्च पूजनम् ? ॥ १०८ ॥
View Verse
सांस्पर्शञ्चेति दशधा सर्वभोगेषु संस्कृतिः ? ।
सम्पाताज्येन मन्त्रज्ञः सेचयेच्छास्त्रवित्तमः ॥ १०९ ॥
View Verse
गन्धानुलेपनं कुर्यात् धूपद्रव्यश्च धूपयेत् ।
गन्धपुष्पेषु निक्षिप्य स्थापयेदम्बरेण तु ॥ ११० ॥
View Verse
पुनः पूजां ततः कृत्वा कौतुकं बन्धयेत्सुधीः ।
मूलबिम्बे तथा बध्वा आचार्यस्य च बन्धयेत् ॥ १११ ॥
View Verse
पूर्वोक्तेन तु मार्गेण शयने सन्निवेशयेत् ।
गीतनृत्तपुराणाद्यैः रात्रिशेषं नयेद्द्विजः ॥ ११२ ॥
View Verse
ततः प्रभाते विमले नित्यकर्म समाचरेत् ।
स्नानवेद्यां समारोप्य स्नपनं सम्यगाचरेत् ॥ ११३ ॥
View Verse
अष्टोत्तरशतैः कुम्भैरेकाशीतिघटैस्तु वा ।
युक्तद्रव्ययुतैर्वापि केवलं क्षीरमेव वा ॥ ११४ ॥
View Verse
सर्वं घृतमयं वापि नालिकेरजलं तु वा ।
पूर्ववत्स्नपनं कृत्वा नीराजनावसानकम् ॥ ११५ ॥
View Verse
अलङ्कारासने नीत्वा अलङ्कारैरलङ्कृतैः ।
सिंहासने निवेश्याथ श्रीभूमिसहितं विभुम् ॥ ११६ ॥
View Verse
द्वारादियजनं कृत्वा कुम्भमण्डलपूजनम् ।
होमकर्म ततः कृत्वा मूर्तिहोमं समाचरेत् ॥ ११७ ॥
View Verse
निवेदनबलिं दद्याद्भूषणानि समर्चयेत् ।
भूषणं पात्रमादाय कुम्भपार्श्वे समानयेत् ॥ ११८ ॥
View Verse
पवित्र योजनकाले प्रोक्षणादिदिशं चरेत् ।
पवित्रं नीत्वा पाणिभ्यां गन्धालेपनमाचरेत् ॥ ११९ ॥
View Verse
धूपयित्वा विशेषेण अग्निसन्धानमाचरेत् ।
अव्यक्तं सात्विकं चैव मन्त्रं विग्रहमेव च ॥ १२० ॥
View Verse
योगचिन्त्यमनव्यक्तम्? तात्विकं तत्वचिन्तनम् ।
किरीटादीन् समावाह्य भूषणे भूषणे प्रति ॥ १२१ ॥
View Verse
अर्घ्यपाद्यैस्समभ्यर्च्य योजयेत्कुम्भमूर्धनि ।
संहिताद्यैश्चतुर्भिस्तु कुम्भे सम्पूजयेद्धरिम् ॥ १२२ ॥
View Verse
शाखाद्यैर्मण्डलैः प्रोक्तमारणाद्यैस्तु बिम्बकैः ।
अनुवाकत्रयेणैव विष्णुसूक्तेन कुण्डकैः ॥ १२३ ॥
View Verse
कुम्भे चाष्टाक्षरेणैव मण्डयेद् द्वादशाक्षरम् ।
बिम्बे च विष्णुगायत्र्या कुण्डे चैव षडक्षरम् ॥ १२४ ॥
View Verse
भूषणैर्भूषणैश्चैव अर्घ्याद्यैस्सम्प्रपूजयेत् ।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ॥ १२५ ॥
View Verse
ताम्बूलं तत्क्रमाद्दद्यात् भोजनान्तैस्तु तैः क्रमात् ? ।
दीपं नीराजनञ्चैव वेदं श्लोकं तथैव च ॥ १२६ ॥
View Verse
गीतं नृत्तं च वाद्यं च दानं वै स्वर्णवस्त्रगैः ।
स्तोत्रञ्चैव नमस्कारं बिम्बमण्डलके तथा ॥ १२७ ॥
View Verse
उपकुम्भेषु सर्वेषु वासुदेवादिमन्त्रतः ।
वारूऽनदिनिर्-ऋत्यन्तं योजयेन्मन्त्रवित्तमः ॥ १२८ ॥
View Verse
त्रितयं द्वितयं वापि एकैकं वा यथेच्छया ।
रक्षां कुम्भेषु सर्वेषु पूर्वादिक्रमयोगतः ॥ १२९ ॥
View Verse
एकमेवाप्यलं प्रोक्तं वस्त्रकुम्भे त्रयं द्वयम् ।
अष्टमण्डलके पश्चात्पालिकायामनन्तरम् ॥ १३० ॥
View Verse
पायसान्नं निवेद्याथ सूक्तेनैव बलिं क्षिपेत् ।
मण्डले च तथा कुर्यात् विशेषमधुनोच्यते ॥ १३१ ॥
View Verse
पद्मक्षेत्रे अरे विप्र पश्चिमादि समायजेत् ।
पश्चिमे द्वारदेशे तु योजयेद्भूषणादि वै ॥ १३२ ॥
View Verse
अन्यानि सर्वकर्माणि पूर्ववत्तु समाचरेत् ।
बिम्बे सम्पूजयेत् पश्चात् कमलं पूर्ववद्भवेत् ॥ १३३ ॥
View Verse
चतुष्टयं प्रदद्यात्तु अङ्गादीनाञ्च योजयेत् ।
अङ्गानामप्युपाङ्गानां लाञ्छनानामपि द्विज ॥ १३४ ॥
View Verse
भूषणानां च शक्तीनां तथैव विहगेशितुः ।
पीठपादुकपात्राणां धूपदीपादिकं ततः ॥ १३५ ॥
View Verse
आचार्यसाधकानां च वाहनानां तथैव च ।
गीतवादित्रपात्राणां शङ्खादीनां तथैव च ॥ १३६ ॥
View Verse
वेदं गीतं च वाद्यञ्च दीपं नीराजनं परम् ।
पायसादिनिवेद्यान्तं ताम्बूलञ्च निवेदयेत् ॥ १३७ ॥
View Verse
मूर्तिबिम्बे तथा कुर्याद्धोमकुण्डे तथैव च ।
उपचारादि सर्वेषामाज्येनाहुतिं हुनेत् ॥ १३८ ॥
View Verse
ऊर्ध्वादिमेखलानां च तत्पात्राणां तथैव च ।
परिकुण्डेषु सर्वेषु पूर्वादिक्रमयोगतः ॥ १३९ ॥
View Verse
त्रितयं द्वितयं वापि एकं वापि नियोजयेत् ।
पूर्वोक्तद्रव्यनिचये होमं कुर्याद्विचक्षणः ॥ १४० ॥
View Verse
देवीनां कर्मबिम्बानां तत्तत्पात्रे नियोजयेत् ।
स्तोत्रैः स्तुत्वा मुनिश्रेष्ठ विकिरेत्पुष्पजालकैः ॥ १४१ ॥
View Verse
यात्रोत्सवं तथा कुर्यात् अपराह्णे तु देशिकः ।
नैकैः परिकरैर्युक्तं बहुदीपसमन्वितम् ॥ १४२ ॥
View Verse
नवाहञ्चैव सप्ताहं पञ्चाहं त्रितयं तथा ।
एकाहं वापि विप्रेन्द्र पूर्वं सङ्कल्पमाचरेत् ॥ १४३ ॥
View Verse
यथाचोत्सववत्कुर्यात् वाहनारोहणं विभोः ।
समाप्तिदिवसे रात्रौ ततस्सन्न्यासमाचरेत् ॥ १४४ ॥
View Verse
पूजनं पूर्ववत्कुर्यात् प्रायश्चित्ताहुतिं हुनेत् ।
शुद्धस्नानं ततः कृत्वा आलयं सम्प्रवेशयेत् ॥ १४५ ॥
View Verse
आरोपितपवित्राणि आचार्यस्स्वयमाचरेत् ।
द्विजादि सर्ववर्णानां भक्तानां भावितात्मनाम् ॥ १४६ ॥
View Verse
पवित्रकगणं तद्वत् दापयेच्च पृथक् पृथक् ।
पवित्रधारणाद्विप्र सर्वपापहरं भवेत् ॥ १४७ ॥
View Verse
सर्वयज्ञफलं चैव सर्वतीर्थफलं भवेत् ।
अपरेऽहनि सम्प्राप्ते तीर्थपार्श्वं समानयेत् ॥ १४८ ॥
View Verse
तीर्थदेशं समासाद्य तीर्थस्नानं समाचरेत् ।
यथा अवभृतं कुर्यादुत्सवेन सहैव हि ॥ १४९ ॥
View Verse
गोभूहिरण्यवस्त्राद्यैराचार्यस्सम्प्रदापयेत् ।
आलयं सम्प्रविश्याथ मण्डपे सन्निवेशयेत् ॥ १५० ॥
View Verse
विष्वक्सेनं समभ्यर्च्य गर्भगेहे निवेशयेत् ।
आचार्यं पूजयेत्पश्चात् रत्नहेमाङ्गुलीयकैः ॥ १५१ ॥
View Verse
गोभूहिरण्यवस्त्राद्यैराचार्यं सम्प्रपूजयेत् ।
तदर्धमृत्विजाञ्चैव यथाचोत्सववद्भवेत् ॥ १५२ ॥
View Verse
सर्वशक्तिकरं सर्वं मुख्यं साधनमुत्तमम् ।
राज्ञो राष्ट्रस्य सुखदमायुरारोग्यवर्धनम् ॥ १५३ ॥
View Verse
प्रजानां वासुदेवस्य पवित्राराधनं परम् ।
पवित्राराधनं विष्णोः श्रद्धया च करोति यः ॥ १५४ ॥
View Verse
स याति ब्रह्मणः स्थानं विष्णुसायुज्यमुत्तमम् ।
सर्वपापविनिर्मुक्तस्सर्वदुःखविवर्जितः ॥ १५५ ॥
View Verse
विशेषवचनं वक्ष्ये शृणु गुह्यं महामुने ।
यथाश्वमेधं विप्राणां राजसूयञ्च भूभुजाम् ॥ १५६ ॥
View Verse
यथास्वधा पितॄणां च सुराणाममृतं यथा ।
नराणां जाह्नवीतोयं देवानामच्युतो यथा ॥ १५७ ॥
View Verse
तथा हि देवदेवस्य पवित्राराधनं परम् ।
अधिवासनकाले तु प्रासादपरिवेष्टनम् ॥ १५८ ॥
View Verse
पञ्चरङ्गेण सूत्रेण उक्तसूत्रेण ? वा भवेत् ।
मण्डपञ्च तथावेष्ट्य तथा भूषणपात्रकम् ॥ १५९ ॥
View Verse

Chapter - 25 जयन्तीकृत्तिकोत्सवविधिः

२५ जयन्तीकृत्तिकोत्सवविधिः
अथ पञ्चविंशोऽध्यायः
श्रीभगवान् -
संवत्सरोत्सवं वक्ष्ये श्रोतुमिच्छसि चेच्छृणु ।
विषुवद्वितयञ्चैव तथा चैवायनद्वयम् ॥ १ ॥
View Verse
जयन्तीकृत्तिका चैव आग्रायणविधिस्तथा ।
अध्ययनोत्सवञ्चैव पवित्रारोहणं तथा ॥ २ ॥
View Verse
अब्दपूजाविनाशे तु मासपूजा विनश्यति ।
मासपूजाविनाशे तु नित्यपूजा विनश्यति ॥ ३ ॥
View Verse
नित्यपूजाविनाशे तु राजा राष्ट्रं विनश्यति ।
तस्मात्सर्वप्रयत्नेन उक्तं कर्म समाचरेत् ॥ ४ ॥
View Verse
श्रावण्यां कृष्णपक्षे तु अष्टम्यां रोहिणीयुते ।
जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ ॥ ५ ॥
View Verse
बुधवारसमायुक्तं सर्वदोषविवर्जितम् ।
तिथिनक्षत्रयोगे वा केवलं ऋक्षकेऽपि वा ॥ ६ ॥
View Verse
पूर्वेद्युरङ्कुरं कृत्वा कौतुकं बन्धयेद्बुधः ।
तद्रात्रौ स्नपनं कुर्यात् कलशैः पञ्चविंशकैः ॥ ७ ॥
View Verse
उक्तद्रव्ययुतं वापि केवलं क्षीरमेव वा ।
घृतं वा केवलं विप्र नालिकेरजलं तु वा ॥ ८ ॥
View Verse
द्वारादियजनं कृत्वा कुम्भमण्डलकं यजेत् ।
केवलं कृष्णमन्त्रेण जयाख्यं मण्डलं भवेत् ॥ ९ ॥
View Verse
परमान्नं तथावापि भूतावास मथापि वा ।
होमकार्यं ततः कृत्वा शयने सन्निवेशयेत् ॥ १० ॥
View Verse
शयनं बालवत्कृत्वा मृद्वास्तरणभूषितम् ।
यद्वा पूर्वं प्रपूज्याथ चूर्णस्नानं तथैव च ॥ ११ ॥
View Verse
पायसं चैव मुद्गान्नं फलं नानाविधं तथा ।
जम्बुकाख्य फलञ्चैव विशेषेण निवेदयेत् ॥ १२ ॥
View Verse
कृष्णबिम्बस्याभावे तु लब्धबिम्बे समाचरेत् ।
तदभावे तु मूले स्याच्चतुःस्थानसमन्वितम् ॥ १३ ॥
View Verse
तद्दिने समुपोष्याथ तत्पूजान्ते तु पारणम् ।
निवेदनस्य पूर्वे तु चन्द्रपूजां समाचरेत् ॥ १४ ॥
View Verse
चन्द्रभूमौ विशेषेण गोमयालेपनं भवेत् ।
सुधाचूर्णैरलङ्कृत्य चन्द्रमण्डल मालिखेत् ॥ १५ ॥
View Verse
पाद्मतन्त्रोकमार्गेण पौष्करोक्त मथापि वा ।
अर्धचन्द्र मथोवापि मा लिखेत्साधकोत्तमः ॥ १६ ॥
View Verse
सङ्कल्पं पूर्ववत्कृत्वा प्राणायाम मथाचरेत् ।
न्यासं कृत्वा विधानेन पात्रार्चनमथाचरेत् ॥ १७ ॥
View Verse
आसनावाहनञ्चैव अर्घ्यं पाद्य मनन्तरम् ।
आचामं गन्धपुष्पं च धूपं दीपं तथैव च ॥ १८ ॥
View Verse
स्तोत्रं नीराजनञ्चैव पायसान्नं निवेदयेत् ।
फलं नानाविधं चैव सोममन्त्रेण देशिकः ॥ १९ ॥
View Verse
रात्रौ जागरणं कृत्वा प्रातःकाले महोत्सवम् ।
वीथीञ्च समलङ्कुर्यात्तोरणानां बहु न्यसेत् ॥ २० ॥
View Verse
शिक्ये शिक्ये विशेषेण दधिक्षीरघटान् न्यसेत् ।
तोरणे तोरणे बध्वा प्रहरेद्देवसन्निधौ ॥ २१ ॥
View Verse
कृष्णबिम्बं समारोप्य शिबिके पुष्पनिर्मिते ।
प्रथमावरणमारभ्य वीथ्यावरणपश्चिमम् ॥ २२ ॥
View Verse
आनयेत्सर्ववाद्यैश्च वेदघोषैश्च देशिकः ।
नैकैः परिकरैश्चैव छत्रचामरसङ्कुलैः ॥ २३ ॥
View Verse
क्रीडायन्त्रगणैश्चैव तैलचूर्णप्रदायकैः ।
एवं नीत्वा विधानेन मण्डपे सन्निवेशयेत् ॥ २४ ॥
View Verse
शुद्धस्नानं ततः कृत्वा स्वस्थाने सन्निवेशयेत् ।
एकाहं च त्र्यहं चैव पञ्चसप्तनवाहकम् ॥ २५ ॥
View Verse
उत्सवं कारयेन्नित्यं मध्याह्ने वापराह्णके ।
एवं यः कारयेद्भक्त्या भुक्तिमुक्ती भजेन्नरः ॥ २६ ॥
View Verse
बहुकन्याफलञ्चैव बहुगोदानजं फलम् ।
बहुधर्मफलं चैव लभते नात्रसंशयः ॥ २७ ॥
View Verse
कृत्तिकादीपोत्सवः -
कृत्तिकोत्सवविधिं वक्ष्ये समासान्मुनिपुङ्गव ।
कृत्तिकापर्वयुग्मेन दीपारोपणमाचरेत् ॥ २८ ॥
View Verse
ऋक्षयुक्तमयुक्तं वा केवलं पर्वमेव वा ।
मध्याह्ने समनुप्राप्ते स्नपनं सम्यगाचरेत् ॥ २९ ॥
View Verse
अङ्कुरं पूर्ववत् कृत्वा कर्मारम्भे तु कौतुकम् ।
षट्विंशत्कलशैर्वापि पञ्चविंशतिभिस्तु वा ॥ ३० ॥
View Verse
यद्वा सप्तदशैर्वापि युक्तद्रव्ययुतैस्तु वा ।
क्षीरं वा गोघृतं वापि गन्धतोयमथापि वा ॥ ३० ॥
View Verse
चूर्णस्नानं ततः कृत्वा अलङ्कारासने नयेत् ।
कञ्चुकाद्यैरलङ्कृत्य लिप्तं मृगमदेन च ॥ ३२ ॥
View Verse
मूलमूर्तिं विशेषेण अलङ्कारैरलङ्कृतम् ।
मण्डपे सन्निवेश्याथ चतुःस्थानार्चनं चरेत् ॥ ३३ ॥
View Verse
महाहविर्निवेद्याथ अपराह्णे विशेषतः ।
दीपाधिवासनं कृत्वा देवमण्डपमध्यमे ॥ ३४ ॥
View Verse
मार्गत्रयं ततः कृत्वा धान्यराशिं विनिक्षिपेत् ।
नवानिपात्राण्यादाय गोघृतेनैव पूरयेत् ॥ ३५ ॥
View Verse
सूत्रवर्तिं विनिक्षिप्य मध्ये संस्थाप्य देशिकः ।
तद्बाह्ये परितश्चाष्टौ शरावान् विन्यसेत् क्रमात् ॥ ३६ ॥
View Verse
इन्द्रादीशानपर्यन्त माज्यवर्तिसुसंयुतम् ।
दीपपात्रञ्ज्वलित्वाथ पात्रवर्तिषु योजयेत् ॥ ३७ ॥
View Verse
अर्घ्यगन्धादिभिश्चैव अरयेदग्निमन्त्रतः ।
पूर्वाद्यष्टशरावेषु इन्द्रमन्त्रादिकैर्यजेत् ॥ ३८ ॥
View Verse
सर्ववाद्यादिसंयुक्तं क्ष्वेलनाभिरलङ्कृतम् ।
देशिकः पात्रमादाय विष्णुहस्ते प्रदर्शयेत् ॥ ३९ ॥
View Verse
सायाह्ने समनुप्राप्ते दीपारोपण माचरेत् ।
द्वारे द्वारे प्रतिष्ठाप्य दीपदण्डान् विशेषतः ॥ ४० ॥
View Verse
क्रमुकं नालिकेरञ्च तालं वेणुं तथैव च ।
चम्पकन्देववृक्षञ्च वक्रकोटरवर्जितम् ॥ ४१ ॥
View Verse
तक्षयित्वा ऋजुं विप्र स्तूपिमानप्रमाणतः ।
तदर्धं द्वारमानं वा शततालायतन्तु वा ॥ ४२ ॥
View Verse
अशीति तालमिच्छन्ति केचित्तस्यार्धमेव वा ।
प्राकारस्य बहिर्विप्र अष्टदिक्षु समन्ततः ॥ ४३ ॥
View Verse
दीपदण्डान् प्रतिष्ठाप्य तत्तद्दीपं प्ररोपयेत् ।
पात्रस्थं पूर्वदिग्दण्डे योजयेद्वाद्यसंयुतम् ॥ ४४ ॥
View Verse
पुण्याहं वाचयेत्पूर्वे तांस्तान्दण्डान् प्रपूजयेत् ।
प्रासादे गोपुरे चैव प्राकारे मण्डपे तथा ॥ ४५ ॥
View Verse
तीर्थदेशे नवोद्याने कूपदेशे विशेषतः ।
श्रीयादिमन्दिराद्येषु परिवारालयेषु च ॥ ४६ ॥
View Verse
दीपारोपं ततः कुर्याद्देवदेवस्य सन्निधौ ।
गृहे गृहे तथा कुर्यात् गमयेत्सर्ववीथिकाः ॥ ४७ ॥
View Verse
मण्डपं सम्प्रविश्याथ समारोप्य च विष्टरे ।
नृत्तगीतादिकं सर्वं दर्शयित्वा विशेषतः ॥ ४८ ॥
View Verse
पुनः पूजां तथा कृत्वा पृथुकादि निवेदयेत् ।
अपूपादि विशेषेण दापयेत्सर्वजन्तुषु ॥ ४९ ॥
View Verse

Chapter - 26 (नीराजनम्) अध्ययनोत्सवविधिः

२६ (नीराजनम्) अध्ययनोत्सवविधिः
अथ षड्विंशोऽध्यायः
श्रीभगवान् -
नीराजनविधिं वक्ष्ये देवदेवस्य शार्ङ्गिणः ।
कृत्तिकादिवसाद्ब्रह्मन् न परेद्युर्निशामुखे ॥ १ ॥
View Verse
देवदासीगणान् सर्वान् सर्वालङ्कारशोभितान् ।
महानसद्वारमासाद्य दीपान्प्रज्वालयेद्बहून् ॥ २ ॥
View Verse
सर्वे पात्रकरा विप्र गच्छेयुर्देवसन्निधौ ।
श्रेणिबद्धास्तथा सर्वे गीतवाद्यपुरस्सरम् ॥ ३ ॥
View Verse
मण्डपं समलङ्कृत्य आनयेन्मण्डपान्तरे ।
औत्सवं बिम्ब मादाय विष्टरे सन्निवेशयेत् ॥ ४ ॥
View Verse
श्रीभूमिसहितं देव मलङ्कारैरलङ्कृतम् ।
महानृत्तं दर्शयित्वा देवं नीराजनं चरेत् ॥ ५ ॥
View Verse
सहस्रं वा तदर्धं वा तदर्धं वापि देशिकः ।
शतं वापि तदर्धं वा तदर्धं वापि कारयेत् ॥ ६ ॥
View Verse
सर्वपात्रकराश्चैव तिष्ठेयुर्देवसन्निधौ ।
आचार्यस्समलङ्कृत्य उत्तरीयोष्णीपभूषणैः ॥ ७ ॥
View Verse
देवस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ।
अर्घ्यादि पात्राण्यभ्यर्च्य प्राणायामपुरस्सरम् ॥ ८ ॥
View Verse
आत्मार्चनं ततः कृत्वा देवदेवं समर्चयेत् ।
दीपार्चनं ततः कृत्वा वेदान् संश्रावयेद्बुधः ॥ ९ ॥
View Verse
दीपकुम्भं समादाय आधारोपरि विन्यसेत् ।
दीपकुम्भं समभ्यर्च्य देवमिष्ट्वा विशेषतः ॥ १० ॥
View Verse
षडङ्गन्यासं कृत्वा तु भ्रामयेद्देवमूर्धनि ।
दक्षिणं पादमारभ्य वामपादं तु पश्चिमम् ॥ ११ ॥
View Verse
वाद्यमङ्गलसंयुक्तं गीतमङ्गलसंयुतम् ।
योषित्करात्समादाय पात्रमादाय देशिकः ॥ १२ ॥
View Verse
भ्रामयेद्देवदेवस्य मुखमध्ये विसर्जयेत् ।
पात्रे पात्रे विशेषेण अर्घ्यपुष्पैस्समर्चयेत् ॥ १३ ॥
View Verse
पुनः पात्रं समादाय प्रादक्षिण्येन मन्दिरम् ।
गीतवाद्यादिसंयुक्तं बलिपीठाद्बहिः क्षिपेत् ॥ १४ ॥
View Verse
नृत्तादि दर्शयन् दास्यः देवस्य पुरतःस्थितः ।
पूजयित्वा च देवेश मपूपादि निवेदयेत् ॥ १५ ॥
View Verse
उत्सवं बिम्बमारोप्य याने नीत्वा प्रदक्षिणम् ।
अन्तरावरणमारभ्य वीथ्यावरणपश्चिमम् ॥ १६ ॥
View Verse
शुद्धस्नानं ततः कृत्वा गर्भगेहे निवेशयेत् ।
नीराजनविहीने तु सर्वकर्मासुरं भवेत् ॥ १७ ॥
View Verse
अध्ययनोत्सवः -
अध्ययनोत्सवं वक्षे सङ्क्षेपेण मया श्रुतम् ।
पूजनं त्रिविधं प्रोक्तं तन्त्रेऽस्मिन् परमेष्ठिना ॥ १८ ॥
View Verse
मानसं कायिकञ्चैव वाचिकं त्रिविधं भवेत् ।
मानसं ध्यानमित्युक्तं कायिकं कर्म उच्यते ॥ १९ ॥
View Verse
वाचिकं स्तोत्रमित्युक्तं तन्त्रेऽस्मिन् विष्णुना पुरा ।
वेदान्नास्त्यपरं स्तोत्रं तस्माद्वेदांस्तु श्रावयेत् ॥ २० ॥
View Verse
अङ्कुरं पूर्वात्कृत्वा पश्चात्प्रतिसरं बुधः ।
मार्गशीर्षमासे तु एकादश्या मुपक्रमेत् ॥ २१ ॥
View Verse
दशम्यां कौतुकं कुर्यात् तत्पूर्वे चाङ्कुरार्पणम् ।
सङ्कल्पं पूर्वतः कृत्वा पञ्चाहं दशाहं तु वा ॥ २२ ॥
View Verse
मण्डपे देवमारोप्य भक्तिबिम्बं निवेशयेत् ।
तथा भक्तजनैर्युक्तं वेदान् संश्रावयेत्सुधीः ॥ २३ ॥
View Verse
महाहविर्निवेद्याथ अपूपादि निवेदयेत् ।
यात्रापूर्वं ततः कुर्यात् वाहनानि तु पूर्ववत् ॥ २४ ॥
View Verse
समाप्तिदिवसे प्राप्ते विष्वक्सेनं समर्चयेत् ॥
View Verse
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां (नीराजन)
अध्ययनोत्सवविधानं नाम षड्विंशोध्यायः ॥
View Verse

Chapter - 27 संवत्सरोत्सव-(स्नान)-विधिः

२७ संवत्सरोत्सव-(स्नान)-विधिः
अथ सप्तविंशोऽध्यायः
भगवान् -
आग्रयणविधिं वक्ष्ये अवधारय साम्प्रतम् ।
पुष्यमासे सिते पक्षे पुण्यवारदिने मुने ॥ १ ॥
View Verse
पुण्य नक्षत्रके वापि पूर्वं चैवाङ्कुरार्पणम् ।
तृतीये पञ्चमे वापि दिने लवन माचरेत् ॥ २ ॥
View Verse
सर्वैः परिकरैस्सार्धं क्षेत्रदेशं समाचरेत् ।
मारुतिं वा वैनतेयं विष्वक्सेन मथापि वा ॥ ३ ॥
View Verse
आरोप्य शिबिकां ब्रह्मन् यजमानेन देशिकः ।
क्षेत्रदेशं समासाद्य पुण्याहं वाचयेत्सुधीः ॥ ४ ॥
View Verse
क्षेत्रं धरणिमन्त्रेण गन्धाद्यैः परिपूजयेत् ।
शङ्कुलां प्रोक्षयित्वा तु बलिं दद्यात्समन्ततः ॥ ५ ॥
View Verse
पायासान्नेन विप्रेन्द्र लवनं सम्यगाचरेत् ।
खलं पुरातनं कृत्वा प्रहरेत्तु कृषीवलैः ॥ ६ ॥
View Verse
कौतुकं बन्धयेत् धीमान् कर्षकैस्सह देशिकः ।
कर्षिणीं शिरसि स्थाप्य गच्छेयुर्देवतालयम् ॥ ७ ॥
View Verse
फलैर्नानाविधैर्युक्तं शङ्खवाद्यादिसंयुतम् ।
देवस्य सन्निधौ स्थाप्य पुनः पूजां समाचरेत् ॥ ८ ॥
View Verse
देवस्य दक्षिणे हस्ते धान्यं किञ्चित् प्रदर्शयेत् ।
वृक्षपादेन विप्रेन्द्र मानयित्वा विचक्षणः ॥ ९ ॥
View Verse
दापयेत् सर्ववर्णानां देवदेवस्य सन्निधौ ।
शोधयेत्तु विशेषेण धान्यराशिं विनिक्षिपेत् ॥ १० ॥
View Verse
आतपे शोषयेत् सर्वानवघातं समाचरेत् ।
तत्स्थानं लेपनं कृत्वा सूधाचूर्णैश्च मण्डयेत् ॥ ११ ॥
View Verse
उलूखलं मुसलञ्चैव क्षालयित्वा तु देशिकः ।
अभ्यर्च्य गन्धपुष्पैरुलूखले धान्यकं क्षिपेत् ॥ १२ ॥
View Verse
अवघातन्द्विजवरैस्तथा मङ्गलगायकैः ।
देवदासीगणैर्वापि विविधैर्ब्राह्मणैस्तु वा ॥ १३ ॥
View Verse
तुषानपोह्य शूर्पेण क्षालयेत् शुद्धवारिणा ।
शोधयित्वा पुनः सर्वान् गुलपाकेन मिश्रितान् ॥ १४ ॥
View Verse
मरीचिजीरकैर्युक्तान् पूरयेत् देवसन्निधौ ।
मण्डपे देवमारोप्य श्रीभूमिसहितं द्विज ॥ १५ ॥
View Verse
चतुस्स्थानयुतं वापि केवलं बिम्बमेव वा ।
निवेदयित्वा देवेशं मूलबिम्बे तु पूजयेत् ॥ १६ ॥
View Verse
बलिहोमं ततः कृत्वा विष्वक्सेनं निवेदयेत् ।
दापयेत् सर्ववर्णानां विप्रादीनां विशेषतः ॥ १७ ॥
View Verse
मुहूर्ते शोभने प्राप्ते परमान्नं निवेदयेत् ।
आग्रयणविशेषेण अश्वमेधफलं भवेत् ॥ १८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन तस्मिन्कर्मणि योजयेत् ।
लोपयेद्यदि सम्मोहात् धान्यनाशो भवेद्ध्रुवम् ॥ १९ ॥
View Verse
विषुवद्वितये विप्र तथा चैवायनद्वये ।
स्नपनं कारयेद्धीमान् अङ्कुरार्पणपूर्वकम् ॥ २० ॥
View Verse
पूर्वेद्युः कौतुकं कुर्यात् चतुस्स्थानार्चनं तथा ।
शयनाधिवासनं कृत्वा प्रातःकाले समुद्धरेत् ॥ २१ ॥
View Verse
नित्यकर्म ततः कृत्वा द्वारादियजनं चरेत् ।
कुम्भमण्डले सम्पूज्य बिम्बे स्नपनमाचरेत् ॥ २२ ॥
View Verse
एकबेरशिलाचेत्तु तत्रैव स्नपनं चरेत् ।
बहुबेरे विशेषेण स्नपनं कौतुकं चरेत् ॥ २३ ॥
View Verse
तदभावे तु विप्रेन्द्र उत्सवे स्नपनं चरेत् ।
अष्टोत्तरशतिअर्वापि एकाशीतिघटैस्तु वा ॥ २४ ॥
View Verse
एकोनार्धशतैर्वापि षट्त्रिंशत्कलशैस्तु वा ।
पञ्चविंशघटैर्वापि यद्वा सप्तदशरिघटैः ॥ २५ ॥
View Verse
एकद्रव्ययुतं वापि बहुद्रव्ययुतं तु वा ।
कलशाधिवासनं चैव पूर्वरात्रे तु वा भवेत् ॥ २६ ॥
View Verse
रात्रौ चेत्स्नपनं विप्र तत्काले वाऽधिवासयेत् ।
पूर्वोक्तेन बहुद्रव्यमेकद्रव्यं घृतं भवेत् ॥ २७ ॥
View Verse
क्षीरं वा केवलं विप्र नालिकेरजलं तु वा ।
पञ्चद्रव्ययुतं वापि पञ्चगव्ययुतं तु वा ॥ २८ ॥
View Verse
पत्रं पुष्पं फलञ्चैव द्रव्यत्रयमुदाहृतम् ।
पञ्चद्रव्यैर्विशेषेण पञ्चगव्यं प्रशस्यते ॥ २९ ॥
View Verse
चूर्णस्नानं ततः कृत्वा शुद्धवारिष्वनन्तरम् ।
नीराजनं ततः कुर्यात् मण्डनासनमानयेत् ॥ ३० ॥
View Verse
अलङ्कृत्य यथान्यायं निवेद्यान्तं समर्चयेत् ।
पूर्णाहुतिं ततः कृत्वा गर्भगेहे निवेशयेत् ॥ ३१ ॥
View Verse
उत्सवम्बिम्बमादाय यात्रां सम्यक् समाचरेत् ।
गजे वा स्यन्दने वापि शिबिकायां समाचरेत् ॥ ३२ ॥
View Verse
यात्रान्ते देवमादाय मण्डपे सन्निवेशयेत् ।
दर्शयित्वा च नृत्तादीन् हविरन्तं प्रपूजयेत् ॥ ३३ ॥
View Verse
गर्भगेहे निवेश्याथ दक्षिणां दापयेद्बुधः ।
वर्णानां ब्राह्मणादीनां कलशं प्रतिदापयेत् ॥ ३४ ॥
View Verse
ये पिबन्ति हरेस्तीर्थं गङ्गातोयसमं पिबेत् ।
ये व्रहन्ति शिरोभिस्स्वर्गङ्गास्नानसमं भवेत् ॥ ३५ ॥
View Verse

Chapter - 28 तिलदानविधिः

२८ तिलदानविधिः
अथ अष्टाविंशोऽध्यायः
श्रीभगवान् -
पुष्ये मासि च मासर्क्षे रजनीस्नानमाचरेत् ।
अङ्कुरं कौतुकं कृत्वा मण्डपालङ्कृतिं तथा ॥ १ ॥
View Verse
द्वारपूजाविधिं चैव चतुस्स्थानार्चनं तथा ।
स्नपनं शयनं चैव अधिवासं तथा भवेत् ॥ २ ॥
View Verse
सकलं पूर्ववत्कृत्वा पूर्वकर्मवदाचरेत् ।
रजनीसारमादाय पेषयेद्गन्धसंयुतम् ॥ ३ ॥
View Verse
पात्रे पात्रे विनिक्षिप्य पूर्ववच्चाधिवासयेत् ।
अधिवासनवेलायामाकण्ठाच्चरणावधि ॥ ४ ॥
View Verse
कुम्भमण्डलकुण्डेषु मुष्टिमात्रेण लेपयेत् ।
ततः प्रभाते विमले गन्धवत् परिलेपयेत् ॥ ५ ॥
View Verse
पूजया सम्पुटीकुर्यात् लेपनं सम्यगाचरेत् ।
प्रथमं नाभिमानं तु द्वितीयं कटिमानकम् ॥ ६ ॥
View Verse
तृतीयं जानुमानं तु चतुर्थं पादमानकम् ।
देवीभ्यां नाभिमानं तु प्रभापीठं विलेपयेत् ॥ ७ ॥
View Verse
कुम्भमण्डलकुण्डेषु प्रथमं मुष्टिमानकम् ।
द्वितीयं द्विगुणं चैव तृतीयं त्रिगुणं भवेत् ॥ ८ ॥
View Verse
तुर्यं चतुर्गुणं प्रोक्तं मूलबिम्बे तु पूर्ववत् ।
अन्येषु सर्वकार्येषु तथा शेषेषु पूर्ववत् ॥ ९ ॥
View Verse
अन्ते महोत्सवं कुर्यात् संस्थाने सन्निवेशयेत् ।
मासार्धे न तु पश्चार्धे तिलदानं समाचरेत् ॥ १० ॥
View Verse
अङ्कुरादिक्रियास्सर्वाः पूर्ववत् सकलं भवेत् ।
तिलदानं ततःकृत्वा ब्राह्मणेभ्यो विशेषतः ॥ ११ ॥
View Verse
तिलमिश्रितपिण्डेन पितृदानं समाचरेत् ।
माघमासे तु मासर्क्षे पितृपूजां समाचरेत् ॥ १२ ॥
View Verse
पात्रालाभे विशेषेण पाटलैः परिपूजयेत् ।
पत्रं पुष्पं फलं तोयं गन्धालेपं तु पूर्ववत् ॥ १३ ॥
View Verse

Chapter - 29 सम्प्रोक्षणविधिः

२९ सम्प्रोक्षणविधिः
अथ ऊनत्रिंशोऽध्यायः
श्रीभगवान् -
विशेषयजनं वक्ष्ये समासादवधारय ।
दुर्निमित्ते तु सञ्जाते तथा दुःस्वप्नदर्शने ॥ १ ॥
View Verse
अनावृष्टिभवे चैव अतिवृष्टिभवे तथा ।
ग्रहयुद्धे च सञ्जाते कुहूदोषसमायुते ॥ २ ॥
View Verse
ग्रहदोषे समुत्पन्ने तथा राजभये बुधः ।
परचक्रप्रवेशे तु व्याधीनां पीडने तथा ॥ ३ ॥
View Verse
एवं दोषस्य शान्त्यर्थं केशवाराधनं चरेत् ।
सङ्कल्पं पूर्ववत्कृत्वा कौतुकं बन्धयेद्बुधः ॥ ४ ॥
View Verse
शुक्रवारे शुभदिने स्नपनं सम्यगाचरेत् ।
घटैस्सप्तदशैर्वापि द्वादशैर्वा तथा नवैः ॥ ५ ॥
View Verse
एकाङ्गं वा त्र्यङ्गं वाथ पञ्चाङ्गं वापि कारयेत् ।
एकाङ्गञ्चैव क्षीरं स्याद्धृतं वा गन्धमेव वा ॥ ६ ॥
View Verse
पत्रं पुष्पं फलञ्चैव त्र्यङ्गं तत्परिकीर्तितम् ।
पञ्चाङ्गं पञ्चगव्यं च पञ्चामृत मथापि वा ॥ ७ ॥
View Verse
दधिक्षीरं मधुचैव शर्करासर्पिरेव च ? ।
पञ्चामृतमिति प्रोक्तं तन्त्रेऽस्मिन् परमेष्ठिना ॥ ८ ॥
View Verse
एतैस्स्नानं ततः कुर्यात् पूजायां सम्पुटीभवेत् ।
चूर्णस्नानं ततः कृत्वा मन्त्रस्नानं समाचरेत् ॥ ९ ॥
View Verse
अनुवाकत्रयञ्चैव भूसूक्त्या सुक्तमेव च ।
द्वादशं वारमावृत्य स्नपनं सम्यगाचरेत् ॥ १० ॥
View Verse
एकं त्रयं तथावापि पञ्चसप्तनवाथवा ।
यथाविधि समभ्यर्च्य महाहविर्निवेदयेत् ॥ ११ ॥
View Verse
श्रीभगवान् -
सम्प्रोक्षणविधिं वक्ष्ये तथाचैवावधारय ।
अदीक्षितस्पर्शने च अस्पृश्यस्पर्शने तथा ॥ १२ ॥
View Verse
जनने मरणे चैव उदक्या चैव दूषिते ।
चण्डालाद्यैश्च विप्रेन्द्र श्वसृगालखरादिभिः ॥ १३ ॥
View Verse
स्पर्शने मन्दिरे चैव देवबिम्बे तथा भवेत् ।
पूजने चिरलुप्ते च खननेचाग्निदाहने ॥ १४ ॥
View Verse
अन्तस्स्रवे विशेषेण गर्भगेहे समन्ततः ।
दूषिते चैव जनिते युद्धे च जनसङ्कुले ? ॥ १५ ॥
View Verse
चोरादिभिस्समायुक्ते चलने पतनेऽपि वा ।
तन्त्राणां सङ्करे चैव तथा शास्त्रस्य सङ्करे ॥ १६ ॥
View Verse
अमन्त्रपूजने चैव तथा त्वस्थानपूजने ।
अनाचारार्चने चैव तथा विधुरपूजने ॥ १७ ॥
View Verse
काणार्चने विशेषेण कुष्ठापस्मारगर्हितैः ।
स्पर्शने देवबिम्बे तु मन्दिरे दूषिते तथा ॥ १८ ॥
View Verse
सम्प्रोक्षणनिमित्ते तु प्रोक्षणं सम्यगाचरेत् ।
अङ्कुरं कौतुकं चैव स्नपनं कुम्भपूजनम् ॥ १९ ॥
View Verse
चतुस्स्थानार्चनञ्चैव तथावै शयनक्रिया ।
निवेदनं बलिञ्चैव कुम्भप्रोक्षणमेव च ॥ २० ॥
View Verse
सद्यश्च सकलं कुर्यात् शास्त्रदृष्टेन वर्त्मना ।
दिने बहुविशेषेण पूर्वेद्युश्चाङ्कुरं भवेत् ॥ २१ ॥
View Verse
कौतुकं च तथा प्रोक्तं तथा वै शयनक्रिया ।
दक्षिणासम्प्रदानं च उत्सवं तदनन्तरम् ॥ २२ ॥
View Verse
द्विजानां भोजनं चैव धान्यदानं तथैव च ।
इति सङ्क्षेपतः प्रोक्तः सम्प्रोक्षणविधिः परम् ॥ २३ ॥
View Verse

Chapter - 30 प्रायश्चित्तविधिः

३० प्रायश्चित्तविधिः
अथ विंशोऽध्यायः
श्रीभगवान् -
प्रायश्चित्तमथो वक्ष्ये अवधारय साम्प्रतम् ।
शुद्धं त्रिविधमाख्यातं वा"मनःकायकर्मणाम् ॥ १ ॥
View Verse
वाक्च्छुद्धिश्च ऋतं प्रोक्तं मानसं विष्णुचिन्तनम् ।
कायिकं कर्म देवस्य त्रिविधं शुद्धमुच्यते ॥ २ ॥
View Verse
साधके स्नानहीने तु सर्वं निष्फलतां भवेत् ।
मन्त्रस्नानमशक्तश्चेत् तीर्थतोयं तु वा पिबेत् ॥ ३ ॥
View Verse
सन्ध्योपासनहीने तु प्राणायामशतं जपेत् ।
नित्यपावकहीने तु द्विजभोजनमाचरेत् ॥ ४ ॥
View Verse
शास्त्रमन्त्रक्रियाहीने सर्वकार्यमनर्थकम् ।
तस्मात् सर्वप्रयत्नेन कारयेत् शास्त्रवर्त्मना ॥ ५ ॥
View Verse
मन्त्रहीने तु विप्रेन्द्र साधकस्तु विनश्यति ।
द्रव्यहीने विशेषेण तत्कर्ता नाशयेद्ध्रुवम् ॥ ६ ॥
View Verse
क्रियाहीने द्विजश्रेष्ठ तद्ग्रामो निधनो भवेत् ।
द्रव्यमन्त्रक्रियायुक्तं तत्कार्यं सफलं भवेत् ॥ ७ ॥
View Verse
द्रव्याणामप्यलाभे तु मन्त्रैरेव समर्चयेत् ।
द्रव्यालाभे तु पुष्पं स्यात् पूष्पालाभे तु चेतसा ॥ ८ ॥
View Verse
श्रद्धाभक्तिविहीने तु सर्वं वै निष्फलं भवेत् ।
मन्डपे गर्भगेहे तु वल्मीकादिसमुद्भवे ॥ ९ ॥
View Verse
तद्देशं खातयित्वा तु मृद्भिरन्यैः प्रपूरयेत् ।
शान्तिहोमं ततः कृत्वा तिलैराज्यैर्विशेषतः ॥ १० ॥
View Verse
अग्निदाहे विशेषेण पुनस्सन्धानमेव च ।
बिम्बे दोषसमायुक्ते पुनरुत्पादयेत् सुधीः ॥ ११ ॥
View Verse
प्रतिष्ठां पूर्ववत् कृत्वा ततः पूजां समाचरेत् ।
चोराद्युपहते तत्र तथैव सम्यगाचरेत् ॥ १२ ॥
View Verse
नद्यादिजलवेगेन चलनं सम्भवेद्यदि ।
स्थापयेद्देवदेवेशं बिम्बञ्चान्यत्र देशिकः ॥ १३ ॥
View Verse
वत्सरत्रितयादूर्ध्वं ग्रामादी * * चालयेत् ? ।
चालयेद्यदि सम्मोहात् राजराष्ट्रधनक्षयः ॥ १४ ॥
View Verse
तस्मात् सर्वप्रयत्नेन चलनं न तु कारयेत् ।
आवरणाच्चलनाच्च राजा चैव विनश्यति ॥ १५ ॥
View Verse
प्रासादगोपुरादीनां पतने चलने सति ।
स्नपनं शान्तिहोमं च चतुःस्थानार्चनं तथा ॥ १६ ॥
View Verse
एकाहञ्च त्र्यहञ्चैव पञ्चसप्तनवाहकम् ।
गुरुलाघवयोगेत्वा सर्वे चैव समाचरेत् ? ॥ १७ ॥
View Verse
आदित्यस्पर्शने वापि प्रोक्षणेन विनश्यति ।
उदक्या स्पर्शने चापि स्नपनं सम्यगाचरेत् ॥ १८ ॥
View Verse
दूषिते श्वसृगालाद्यैश्शान्तिहोमं समाचरेत् ।
क्षयकुष्ठाद्यपस्मारस्पर्शिते देवबिम्बके ॥ १९ ॥
View Verse
एकाशीतिक्रमेणैव स्नपनं द्विजमोजनम् ।
दीपपूजाविहीने तु रात्रौ द्विगुणमर्चनम् ॥ २० ॥
View Verse
एकरात्रविहीने तु परे द्विगुणमाचरेत् ।
द्वितीयदिवसान्ते तु प्रायश्चित्तं विधीयते ॥ २१ ॥
View Verse
स्नपनं द्वादशघटैश्शान्तिहोमं समाचरेत् ।
वत्सरादूर्ध्वतो विप्र प्रतिष्ठां सम्यगाचरेत् ॥ २२ ॥
View Verse
चतुर्थाहात्समारभ्य यावन्मासावधि द्विज ।
पूजाहीने तु विप्रेन्द एवमादिक्रमात् चरेत् ॥ २३ ॥
View Verse
पुण्याहं शान्तिहोमं च स्नपनं द्विजभोजनम् ।
पुनःपूजाविधिं चैव ततः प्रभृति नित्यशः ॥ २४ ॥
View Verse
मासद्वयविहीने तु सम्प्रोक्षणविधिं चरेत् ।
तदूर्ध्वं तु च विप्रेन्द्र चतुःस्थानार्चनं चरेत् ॥ २५ ॥
View Verse
सप्ताष्टमासादूर्ध्वे तु तिलहोमं समाचरेत् ।
वत्सरादूर्ध्वतो विप्र प्रतिष्ठां सम्यगाचरेत् ॥ २६ ॥
View Verse
एवमादिक्रियाहीने सर्वकर्मासुरं भवेत् ।
जलवासाक्षिमोक्षं च वर्जयित्वा समाचरेत् ॥ २७ ॥
View Verse
कर्षणादि क्रियाहीने सर्वकर्मासुरं भवेत् ।
प्रवेशबलिहीने तु तत्कर्म विफलं भवेत् ॥ २८ ॥
View Verse
शङ्कुस्थापनहीने तु स्थाननाशो भवेद्ध्रुवम् ।
बीजावापनहीने तु बीजनाशो भवेद्भुवि ॥ २९ ॥
View Verse
गर्भन्यासविहीने तु तत्क्षेत्रं शून्यतां वहेत् ।
अङ्कुरार्पणहीने तु अनर्थमाशुभावहम् ॥ ३० ॥
View Verse
जलवासविहीने तु कर्तृनाशो भवेद्ध्रुवम् ।
अक्षिमोक्षविहीने तु अक्षिनाशो भवेद्ध्रुवम् ॥ ३१ ॥
View Verse
स्नपनस्य विहीने तु वास्तुहानिर्भविष्यति ।
होमकर्मविहीने तु सर्वकार्यं विनश्यति ॥ ३३ ॥
View Verse
मण्डलाराधने हीने तत्कर्म विफलं भवेत् ।
स्थापनस्य विहीने तु पुनःस्थापनमाचरेत् ॥ ३४ ॥
View Verse
कर्माण्यादौ प्रतिष्ठार्थं यः कुर्यात् देशिकोत्तमः ।
स एव सकलं कर्म कुर्यात् प्राज्ञोऽपि नेतरः ॥ ३४ ॥
View Verse
आचार्यस्य च साङ्कर्ये राजा राष्ट्रं विनश्यति ।
नद्यादिजलवेगेन चालनं यदि सम्भवेत् ॥ ३५ ॥
View Verse
नगरग्रामधामादि निर्बाधेऽन्यत्र कल्पयेत् ।
कल्पनं पूर्ववत्कुर्यात् मानादि द्विजसत्तम ॥ ३६ ॥
View Verse
बिम्बं च तादृशं कुर्यात् ग्रामादीनपि तादृशः ।
निमित्तं पूर्वमालोक्य सुनिमित्ते तु कारयेत् ॥ ३७ ॥
View Verse
दुर्निमित्ते तु सम्प्राप्ते शान्तिहोमं समाचरेत् ।
सौदर्शनेन मन्त्रेण नारसिंहेन वा भवेत् ॥ ३८ ॥
View Verse
वास्तुपूजां ततः कृत्वा पायसान्नबलिं क्षिपेत् ।
द्विजानां भोजनं कुर्यात् शङ्कुस्थापन माचरेत् ॥ ३९ ॥
View Verse
शङ्को पूर्वापराभागे छायया बिन्दुमालिखेत् ।
छायाग्रवशेनैव दिक्परिच्छेदमाचरेत् ॥ ४० ॥
View Verse
खननञ्च ततः कृत्वा सिकतैः परिपूरयेत् ।
हस्तपादैर्दृढीकृत्य तोयैस्सिञ्चेच्छिलोपरि ॥ ४१ ॥
View Verse
मानाङ्गुलि प्रमाणेन धामादि परिकल्पयेत् ।
उपपीठयुतं वापि अधिष्ठाअं तु कल्पयेत् ॥ ४२ ॥
View Verse
पट्टिकोर्ध्वे विशेषेण गर्भन्यास मथाचरेत् ।
ग्रामस्य ग्राममध्ये ? वा नगरे च तथैव च ॥ ४३ ॥
View Verse
एतत्कर्मविहीने तु तत्कर्म विफलं भवेत् ।
तस्मात् सर्वप्रयत्नेन तत्तत्कर्म समाचरेत् ॥ ४४ ॥
View Verse
द्विजानां भोजनेनैव सर्वं सम्पूर्णतां नयेत् ।
पाञ्चरात्रोक्तमार्गेण ग्रामादि परिकल्पयेत् ॥ ४५ ॥
View Verse
पाञ्चरात्रप्रभावेण सर्वदोषो विनश्यति ।
कर्षणादिक्रियास्सर्वाः पाञ्चरात्रेण कारयेत् ॥ ४६ ॥
View Verse
नित्यक्रियाविहीने तु पवित्रारोपणं चरेत् ।
पवित्रारोपणे हीने मासपूजा विनश्यति ॥ ४७ ॥
View Verse
मासपूजाविहीने तु नित्यपूजा विनश्यति ।
नित्यपूजाविहीने तु ग्रामनाशो भविष्यति ॥ ४८ ॥
View Verse
नित्यपूजाविहीने तु सर्वशान्तिं समाचरेत् ।
पञ्चाहञ्चत्र्यहञ्चैव सप्ताहञ्च नवाहकम् ॥ ४९ ॥
View Verse
आदौ सङ्कल्प्य विप्रेन्द्र चतुःस्थानार्चनं चरेत् ।
स्नपनं प्रत्यहं कुर्यात् द्विजभोजनमेव च ॥ ५० ॥
View Verse
दक्षिणा सम्प्रदाने तु सर्वदोषो विनश्यति ।
दानेन दह्यते सर्वं तस्माद्दानं विशिष्यते ॥ ५१ ॥
View Verse
धर्मेण लभ्यते सर्वं तस्माद्धर्मं विशिष्यते ।
दानधर्मद्वयाच्चैव विष्णोराराधनेन च ॥ ५२ ॥
View Verse
लभ्यते हि विशे।एण नात्र कार्या विचारणा ॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां प्रायश्चित्तविधिर्नाम
त्रिंशोऽध्यायः ॥
View Verse

Chapter - 31 गर्भन्यासविधिः

३१ गर्भन्यासविधिः
अथ एकत्रिंशोऽध्यायः
श्रीभगवान् -
गर्भन्यासविधिं वक्ष्ये समासादवधारय ।
देवानां ब्राह्मणादीनां गर्भन्यासो विधीयते ॥ १ ॥
View Verse
ग्राममध्ये विशेषेण देवानामालये तथा ।
पाञ्चरात्रपरेणैव गर्भन्यासं समाचरेत् ॥ २ ॥
View Verse
अन्यथा दोषमाप्नोति शिल्पिना सह देशिकः ।
तालमानप्रमाणेन गर्भभाजन माचरेत् ॥ ३ ॥
View Verse
तन्मानेन च लोकेन विधानं परिकल्पयेत् ।
शिलयेष्टकया वापि नवगर्तं प्रकल्पयेत् ॥ ४ ॥
View Verse
मुहूर्ते शोभने प्राप्ते रात्रौ गर्भं विधीयते ।
अधिवासं ततःकुर्यात् तत्क्रमस्ते प्रवक्ष्यते ॥ ५ ॥
View Verse
स्नानकार्यं ततह् कृत्वा अलङ्कृत्य यथाविधि ।
अङ्कुरानर्पयित्वा तु कौतुकं बन्धयेत् पृथक् ॥ ६ ॥
View Verse
स्नपनं कारयेद्धीमान् घटैस्सप्तदशैः क्रमात् ।
पुण्याहं कारयेद्धीमान् वाससा परिवेष्टयेत् ॥ ७ ॥
View Verse
धान्यराशिं विनिक्षिप्य तदर्धं तण्डुलं न्यसेत् ।
तिलं तदर्धं निक्षिप्य नववस्त्रैः परिस्तरेत् ॥ ८ ॥
View Verse
अभ्यर्च्य गन्धपुष्पाद्यैर्मन्त्रेणैव तु देशिकः ।
गर्भपात्रं समादाय शाययेच्छयनोपरि ॥ ९ ॥
View Verse
तस्य दक्षिणपार्श्वे तु कुम्भं संस्थापयेद्बुधः ।
देवं देवीं समावाह्य पूजयेत् शास्त्रवर्त्मना ॥ १० ॥
View Verse
गर्भद्रव्यं समादाय विन्यसेद्भक्तमध्यतः ।
रत्नंलोहन्तथाधातु ? बीजमूलगणांस्तथा ॥ ११ ॥
View Verse
अष्टमृद्भिर्विशेषेण ब्रह्मादीशानके न्यसेत् ।
सम्पाताज्यं समासिच्य पूजयेत् पूर्ववर्त्मना ॥ १२ ॥
View Verse
सम्भवेत्तु विधानेन तत्रैव परिवेष्टयेत् ।
होमं कुर्याद्यथान्यायं बलिं दद्यात् समन्ततः ॥ १३ ॥
View Verse
मुहूर्ते शोभने प्राप्ते विन्यसेद्गर्भभाजनम् ।
समुद्रपरिधानीये पर्वतस्तनमण्डिते ॥ १४ ॥
View Verse
समस्तभुवनाधारे देवीगर्भसमाश्रयः ।
सचिह्नैर्लोहजैश्चैव माल्यादिगणसंयुतम् ॥ १५ ॥
View Verse
तद्गर्तं पूरयेत्पश्चान्नृत्तवाद्यसमन्वितम् ।
सिकतैस्तोयपूरैश्च तथागुणिशिलागणैः ॥ १६ ॥
View Verse
गर्भवियासकाले तु स्वस्तिकैस्सम्प्रपूजयेत् ।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥ १८ ॥
View Verse
शिल्पिनं पूजयेत् पश्चात् धनधान्यगवादिभिः ।
गर्भविन्यासहीने तु तद्ग्रामो निधनो भवेत् ॥ १९ ॥
View Verse
तस्मात् सर्वप्रयत्नेन गर्भन्यासं समाचरेत् ।
सर्वमष्टाक्षरेणैव द्वादशाक्षरेणैव वा ॥ २० ॥
View Verse
पुंसूक्तेनैव मन्त्रेण स्नपनं कारयेद्बुधः ।
श्रीसूक्तेनैव मन्त्रेण गर्भभाजनमाचरेत् ॥ २१ ॥
View Verse
षडक्षरेण मन्त्रेण होमं कुर्याद्विचक्षणः ।
मन्त्रतन्त्रविहीने तु सर्वं कर्मासुरं भवेत् ॥ २२ ॥
View Verse
सुदर्शनेन मन्त्रेण रक्षां कुर्यात् समन्ततः ।
हेतीशं स्वर्णमन्त्रेण गर्भस्थाने विनिक्षिपेत् ॥ २३ ॥
View Verse
इन्द्रादीशानदेवांश्च स्वस्थाने सम्प्रपूजयेत् ।
इति सम्यक् समाख्यातो गर्भन्यासविधिः परम् ॥ २४ ॥
View Verse

Chapter - 32 बलिपीठप्रतिष्ठापनविधिः

३२ बलिपीठप्रतिष्ठापनविधिः
अथ द्वात्रिंशोऽध्यायः
श्रीभगवान् -
बलिपीठप्रतिष्ठा च वक्ष्यतेऽद्य महामुने ।
प्रासादं गर्भगेहं च प्रतिमापीठमेव च ॥ १ ॥
View Verse
शरीरमेव देवस्य स्थितमेव चतुष्टयम् ।
द्वारावरणदेवानां बलिपीठान्तमेव हि ॥ २ ॥
View Verse
शिलालोहादिभिः कॢप्तैः छायामूर्तिः प्रतिष्ठिता ।
तत्तन्मन्त्रेण मन्त्रज्ञः प्रतिष्ठायां विशेषतः ॥ ३ ॥
View Verse
देवस्याङ्गानुरूपस्य परिवारगणस्य च ।
शयनासनयानानि स्थानादीनि विशेषतः ॥ ४ ॥
View Verse
सर्वसामान्यसंयुक्तं प्रतिष्ठायां विधीयते ।
प्रासादेष्वनुरूपेण अग्रतश्च विभोस्तथा ॥ ५ ॥
View Verse
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ।
मण्डपं कल्पयित्वा तु षोडशस्तम्भसंयुतम् ॥ ६ ॥
View Verse
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
द्वारकुम्भोपसंयुक्तं दर्भमालापरिष्कृतम् ॥ ७ ॥
View Verse
मध्ये नवपदं वेदि मेकहस्तोच्छ्रिताननम् ।
परितश्च चतुर्दिक्षु चतुष्कुण्डं प्रकल्पयेत् ॥ ८ ॥
View Verse
अश्रं चापं तथा वृत्तं पद्मं पूर्वादितः क्रमात् ।
एककुण्डमथो वापि चतुरश्रं तु पूर्वके ॥ ९ ॥
View Verse
मण्डपं कारयित्वा तु प्रतिष्ठोक्तविधानतः ।
प्रतिष्ठादिवसात्पूर्वं अङ्कुरार्पण माचरेत् ॥ १० ॥
View Verse
तृतीयेऽहनि वा कुर्यात् कर्मारम्भदिनं प्रति ।
सद्यश्चेत्तण्डुलैः पुष्पैः बीजैर्वा साङ्कुरैस्तथा ॥ १९ ॥
View Verse
प्रतिष्ठादिवसात्पूर्वं जलवासं प्रकल्पयेत् ।
दर्पणे कूर्चसंयुक्तं कुम्भेष्ववाह्य आचरेत् ॥ १२ ॥
View Verse
जलद्रोण्यां कटाहे वा समुद्धृत्य माहाजलम् ।
एकरात्रमथो वापि अहोरात्र मथापि वा ॥ १३ ॥
View Verse
घटिकात्रयसंयुक्तं जलमध्येऽधिवासयेत् ।
जलवासविधिञ्चैव प्रतिष्ठाशास्त्रचोदितम् ॥ १४ ॥
View Verse
स्नपनं कल्पयित्वा तु एकाशीतिक्रमेण तु ।
नयनोन्मीलनं कृत्वा मृदालेपं ततः क्रमात् ॥ १५ ॥
View Verse
शयनं कल्पयित्वा तु कूर्चे देवेन संस्मरेत् ।
वेदिमध्ये विनिक्षिप्य शालिं तत्र विनिक्षिपेत् ॥ १६ ॥
View Verse
भारद्वयसमायुक्तं तदर्धं तण्डुलं तिलम् ।
तन्मध्ये स्थापयेत् कुम्भं करकं परिकुम्भकम् ॥ १७ ॥
View Verse
अष्टमङ्गलसंयुक्तं पालिकाभिरलङ्कृतम् ।
बलिपीठं समासाद्य प्रपां चैव प्रकल्पयेत् ॥ १८ ॥
View Verse
शिल्पिभिर्निर्मितं पीठं शास्त्रदृष्टेन वर्त्मना ।
शोधिते बलिपीठे तु क्षालयेत् शुद्धवारिणा ॥ १९ ॥
View Verse
प्रज्वालितेर्दर्भपुञ्जैः पर्यग्निकरणे कृते ।
पञ्चगव्येन सम्प्रोक्ष्य स्नापयेन्नवकेन तु ॥ २० ॥
View Verse
वाससा परिवेष्ट्याथ अर्चयेत्तु यथाक्रमम् ।
द्वारयागं ततःकुर्यात् मण्डलं परितःक्रमात् ॥ २१ ॥
View Verse
वेदिकापश्चिमे भागे आसने तु समाविशेत् ।
प्राणायामं ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥ २२ ॥
View Verse
अर्घ्यादिकल्पनं कुर्यात् प्रोक्षयेद्वेदिकां तथा ।
मूलबेरे समावाह्य विष्णुपार्षददेवतान् ॥ २३ ॥
View Verse
कुम्भमध्ये समावाह्य सकलीकृत्य भावयेत् ।
विष्णुपार्षदमन्त्रस्य न्यासं कृत्वा विशेषतः ॥ २४ ॥
View Verse
अर्चयित्वा यथान्यायं इन्द्रादीन् परितो न्यसेत् ।
कुण्डपार्श्व समासाद्य होमकर्म समाचरेत् ॥ २५ ॥
View Verse
उल्लेखनादि संस्कारं पूर्ववत्क्रमयोगतः ।
समिदाज्यचरूणां तु विष्णुपार्षदमन्त्रतः ॥ २६ ॥
View Verse
प्रत्येकं शतमष्टौ च प्रायश्चित्ताहुतिं चरेत् ।
घृतेन मधुना दध्ना पायसेन यथाक्रमम् ॥ २७ ॥
View Verse
चतुर्दिक्षु ततो हुत्वा समिदादि यथाक्रमम् ।
अश्वत्थोदुम्बरप्लक्षन्यग्रोधांश्च यथाक्रमम् ॥ २८ ॥
View Verse
उक्ताभावे च सर्वत्र पालाशसमिधस्तथा ।
विष्णुपार्षदमन्त्रेण चतुष्कुण्डे यथाक्रमम् ॥ २९ ॥
View Verse
प्राच्यां कुण्डे तु जुहुयात् तत्वहोमं समाचरेत् ।
हविर्निवेदयेत् पश्चात् बलिदानं समाचरेत् ॥ ३० ॥
View Verse
मण्डपादिबहिर्वासात् बलिपीठान्तमेव च ।
भोजयेत् ब्राह्मणानां च द्वादशाष्टौ यथाबलम् ॥ ३१ ॥
View Verse
मण्डपे शाययित्वा तु नृत्तवाद्यसमन्वितम् ।
प्रभाते सम्यगुत्थाय स्नात्वा जप्त्वा यथाविधि ॥ ३२ ॥
View Verse
नित्यपूजां समारभ्य मण्डपे कुम्भमर्चयेत् ।
हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ॥ ३३ ॥
View Verse
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ।
View Verse
बलिं च सर्वतो दद्यात् तोरणोद्वासनं चरेत् ।
द्वारकुम्भं समादाय परिकुम्भे नियोजयेत् ॥ ३५ ॥
View Verse
मुहूर्ते शोभने प्राप्ते आचार्यो ब्राह्मणैस्सह ।
स्थापितं कुम्भमादाय प्रादक्षिण्येन मन्दिरम् ॥ ३६ ॥
View Verse
नृत्तगीतादिसकलवाद्यघोषेण घोषयेत् ।
पीठपार्श्वं समासाद्य पुण्याहं तत्र कारयेत् ॥ ३७ ॥
View Verse
अर्चयेत् गन्धपुष्पाद्यैः बलिपीठे यथाक्रमम् ।
कूर्चेन तोयमादाय प्रोक्षयेत् पीठमूर्धनि ॥ ३८ ॥
View Verse
विष्णुपारिषदीशस्य भावयेद्बलिपीठके ।
परिकुम्भेन सम्प्रोक्ष्य अष्टमङ्गलदर्शनम् ? ॥ ३९ ॥
View Verse
हविर्निवेदयेत् पश्चात् षडङ्गन्यासमाचरेत् ।
बलिं च सर्वतो दद्यात् बलिपीठे निवेशयेत् ॥ ४० ॥
View Verse
विष्णुपारिषदीशस्य बलिपीठे विभावयेत् ।
देवेशस्येशभूतस्य विष्णुपारिषदीशकम् ॥ ४१ ॥
View Verse
आचार्यं पूजयेत् पश्चात् ऋत्विजामपि दक्षिणाम् ? ।
इति सङ्क्षेपतः प्रोक्ता प्रतिष्ठा बलिपीठके ॥ ४२ ॥
View Verse

Chapter - 33 विष्वक्सेनप्रतिष्ठाविधिः

३३ विष्वक्सेनप्रतिष्ठाविधिः
अथ त्रयस्त्रिंशोध्यायः
भृगुः -
विष्वक्सेनस्य देवस्य प्रतिष्ठा विहिता पुरा ।
तद्विधानं विशेषेण वदानुग्रहकाम्यया ॥ १ ॥
View Verse
श्रीभगवान् -
विष्वक्सेनप्रतिष्ठायाः लक्षणं वक्ष्यतेऽधुना ।
देवाग्रे मण्डपं कृत्वा यथापूर्वमशेषतः ॥ २ ॥
View Verse
दिग्विदिग्गर्भिते वापि देशे मण्डपकल्पनम् ।
तृतीयेऽहनि वा कुर्यात् अङ्कुरार्पणपूर्वकम् ॥ ३ ॥
View Verse
प्रतिष्ठादिवसात् पूर्वं जलवासं प्रकल्पयेत् ।
जलवासक्रियास्सर्वाः प्रतिष्ठाशास्त्रचोदिताः ॥ ४ ॥
View Verse
नयनोन्मीलनं कृत्वा स्नपनादि समाचरेत् ।
शयनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥ ५ ॥
View Verse
वेदिमध्ये तु संस्थाप्य महाकुम्भं तु विन्यसेत् ।
विष्वक्सेनं समासाद्य कुम्भमध्ये विशेषतः ॥ ६ ॥
View Verse
परिकुम्भैस्तथा दिक्षु इन्द्रादीनि यथाक्रमम् ।
अष्टमङ्गलसंयुक्तं पालिकाभिस्समर्चयेत् ॥ ७ ॥
View Verse
इन्द्रादीनि चतुर्दिक्षु अग्निकुण्डं यथाक्रमम् ।
एककुण्डमथो वापि चतुरश्रं तु कल्पयेत् ॥ ८ ॥
View Verse
उल्लेखनादि संस्कार मग्निबीजं समर्चयेत् ।
अष्टोत्तरशतं हुत्वा समिदाज्यचरू क्रमात् ॥ ९ ॥
View Verse
विष्वक्सेनस्य मन्त्रेण आज्याहुतिं यथाक्रमम् ।
शान्तिहोमं ततः कृत्वा पूर्वोक्तेन विधानतः ॥ १० ॥
View Verse
प्रायश्चित्ताहुतिं चैव पञ्चोपनिषदैश्शतम् ।
तिलशालियवोन्मिश्र माज्यमिश्रं च होमयेत् ॥ ११ ॥
View Verse
विष्वक्सेनस्य मन्त्रेण अष्टोत्तरशताहुतीः ।
तत्र होमं प्रकुर्वीत तत्वन्यासं समाचरेत् ॥ १२ ॥
View Verse
हविर्निवेदयेत् पश्चात् बलिदानपुरस्सरम् ।
मण्डपेशानभागे तु दर्भेषु परिशाययेत् ॥ १३ ॥
View Verse
प्रभाते विमले शुद्धे नित्यपूजां समाचरेत् ।
कुम्भे सम्पूजयेद्देवान् निवेदनपुरस्सरम् ॥ १४ ॥
View Verse
कुण्डपार्श्वे समासाद्य होमकर्म समाचरेत् ।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहूतीः ॥ १५ ॥
View Verse
प्रायश्चित्ताहुतीश्चैव तिलं शालिं शताष्टकम् ।
पूर्णाहुतिं ततो हुत्वा शास्त्रदृष्टेन वर्त्मना ॥ १६ ॥
View Verse
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ।
स्थापितं कुम्भमादाय प्रोक्षयेद्देवमूर्धनि ॥ १७ ॥
View Verse
विष्वक्सेनस्य मन्त्रस्य प्रणवादि नमोन्तकम् ।
न्यासं कृत्वा यथान्यायं षडङ्गन्यासमाचरेत् ॥ १८ ॥
View Verse
हविर्निवेदयेत् पश्चात् देवभोज्यं निवेदयेत् ।
आचार्यं पूजयेत् पश्चात् यथावित्तानुसारतः ॥ १९ ॥
View Verse

Chapter - 34 भक्तप्रतिष्ठाविधिः

३४ भक्तप्रतिष्ठाविधिः
अथ चतुस्त्रिंशोऽध्यायः
श्रीभगवान् -
भक्तप्रतिष्ठां वक्ष्येऽहं विस्तरेण महामुने ।
दारुलोहशिलादीनि निर्मितानि यथाक्रमम् ॥ १ ॥
View Verse
प्रतिष्ठायां विशेषेण भक्तानां च यथाक्रमम् ।
मण्डपं कल्पयित्वा तु देवाग्रे तु विशेषतः ॥ २ ॥
View Verse
यथाभिमतदेशेषु मण्डपं कल्पयेत्पुरा ।
अङ्कुरार्पणपूर्वं तु तृतीयेऽहनि वा भवेत् ॥ ३ ॥
View Verse
जलवासं तु सङ्कल्प्य प्रतिष्ठाशास्त्रचोदितम् ।
प्रदोषे अधिवास्यैव मलङ्कृत्य विशेषतः ॥ ४ ॥
View Verse
लेपमृण्मयभित्तिस्तु * पटस्येवा च दर्पणे ? ।
स्नपनं कल्पयित्वा तु द्वारयागं समाचरेत् ॥ ५ ॥
View Verse
कुम्भपूजासमायुक्तं प्रतिष्ठाशास्त्रचोदितम् ।
भक्तबिम्बस्य नामानि प्रणवादि नमोन्तकैः ॥ ६ ॥
View Verse
मन्त्रमेतत्प्रकुर्वीत तत्तद्भावं च भावयेत् ।
अर्चयित्वा यथान्यायं प्रतिष्ठाशास्त्रचोदितम् ॥ ७ ॥
View Verse
हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ।
चतुष्कुण्डेषु वै कुर्यात् एककुण्डे तु पूर्ववत् ॥ ८ ॥
View Verse
समिदाज्यचरूणां तु प्रत्येकं शतसङ्ख्यया ।
भक्तनाम्ना च मन्त्रेण स्वाहान्तेन च होमयेत् ॥ ९ ॥
View Verse
तत्वहोमं प्रकुर्वीत तत्वन्यासं समाचरेत् ।
शान्तिहोमं ततः कृत्वा मधुरादि यथाक्रमम् ॥ १० ॥
View Verse
हविर्निवेदयेत् पश्चात् कुम्भादीनि यथाक्रमम् ।
बलिं च सर्वतो दद्यात् चरुशेषं तु भक्षयेत् ॥ ११ ॥
View Verse
मण्डपे शाययित्वा तु जठरं तु विशेषतः ।
प्रभाते विमले शुद्धे नित्यपूजां समाचरेत् ॥ १२ ॥
View Verse
हविर्निवेदयेत् पश्चात् होमकर्म समाचरेत् ।
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ॥ १३ ॥
View Verse
पूर्णाहुतिं च जुहुयाच्छास्त्रदृष्टेन वर्त्मना ।
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥ १४ ॥
View Verse
स्थापितं कुम्भमादाय प्रोक्षयेत् स्वस्वविद्यया ।
भक्तनामानि मन्त्राणि प्रणवादिनमोन्तकैः ॥ १५ ॥
View Verse
स्थापयित्वा यथान्यायं षडङ्गन्यासमाचरेत् ।
शठकोपादिभक्तानां स्थापनं समुदाहृतम् ॥ १६ ॥
View Verse
आचार्यं पूजयेत् पश्चात् यथावित्तानुसारतः ।
इति सम्यक् समाख्यातं भक्तमूर्तिप्रतिष्ठितम् ॥ १७ ॥
View Verse
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां भक्तप्रतिष्ठानाम्
चतुस्त्रिंशोऽध्यायः ॥
अनिरुद्धसंहिता समाप्ता ॥
View Verse