Śrīkoṣa

Lakṣmi Tantram

By Unknown

Composed in Unknown

56 chapters3520 verses

Filter Content

Display Mode

Chapter - 1

प्रथमोऽध्यायः - 1
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने ॥ 1 ॥
(B and C add the following verses in the beginning:)
View Verse
खगासनं (All Mss. read wrongly ऋणाधारं.)घृणाधारमीदृशं सोमभूषितम्।
अकलङ्केन्दुसूर्याग्निं लक्ष्मीरूपमुपास्महे ॥ 2 ॥
View Verse
वेदवेदान्त(वेदाङ्ग D. E. I.)तत्त्वज्ञं सर्वशास्त्रविशारदम्।
सर्वसिद्धान्ततत्त्वज्ञं धर्माणामागतागमम् ॥ 3 ॥
View Verse
जितेन्द्रियं जिताधारं रागद्वेषावशीकृतम्।
चतुर्दशाङ्गयोगस्थं प्रसंख्यानपरायणम् ॥ 4 ॥
View Verse
टिप्पणी
नमस्यामः श्रियं देवीं देवो दीव्यति यत्सखः।
त्रैगुण्यफलके चित्रे क्षिप्तैर्ब्रह्मादिपाशकैः॥
View Verse
लक्ष्मीतन्त्रमहाम्भोधौ तत्त्वरत्नानि चिन्वताम्।
तत्त्वप्रकाशनी टीका साहाय्यं कर्तुमीहते॥
View Verse
विद्धे स्वर्भानुना भानौ पुरा तपनतां गतम्।
निदानं तपसामाद्यं तेजोराशिमनामयम् ॥ 5 ॥
View Verse
अत्रिमत्रिगुणोपेतमत्रिवर्गस्थमव्ययम्।
प्रातः संध्यामुपासीनमृषिं हुतहुताशनम् ॥ 6 ॥
View Verse
पतिव्रतानां परमा धर्मपत्नी यशस्विनी।
ब्रह्मविष्णुमहेशानां जननी कारणान्तरे ॥ 7 ॥
View Verse
देवैरभिष्टुता शश्वच्छान्तिनित्या तपस्विनी।
विदुषी सर्वधर्मज्ञा नित्यं पतिमनुव्रता ॥ 8 ॥
View Verse
पत्युः श्रुतवती तास्ता विविधा धर्मसंहिताः।
प्रणिपातपुरस्कारमनसूया वचोऽब्रवीत् ॥ 9 ॥
View Verse
अनसूया---
भगवन् सर्वधर्मज्ञ मम नाथ जगत्पते।
त्वत्त एव श्रुता धर्मास्ते ते बहुविधात्मकाः ॥ 10 ॥
View Verse
ज्ञानानि च विचित्राणि फलरूपादिभेदतः।
एतेभ्यो भगवद्धर्मो विशिष्टो विधृतो मया ॥ 11 ॥
View Verse
त्वया कथयता तास्ता (भगवन् B. C.)भगवद्धर्मसंहिताः।
सूचितं तत्र तत्रैव लक्ष्मीमाहात्म्यमुत्तमम् ॥ 12 ॥
View Verse
रहस्यत्वादपृष्टत्वान्न त्वया प्रकटीकृतम्।
तदहं श्रोतुमिच्छामि लक्ष्मीमाहात्म्यमुत्तमम् ॥ 13 ॥
View Verse
यत्स्वभावा हि सा देवी यत्स्वरूपा यदुद्भवा।
यत्प्रमाणा यदाधारा यदुपायाथ(च C. E.) यत्फला ॥ 14 ॥
View Verse
तदहं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर।
भवेयं कृतकृत्याहं यस्य विज्ञानयोगतः ॥ 15 ॥
View Verse
(तन्मे B. G.)तं मे दर्शय पन्थानमुपसन्नास्म्यधीहि(स्म्यहं विभो C. E.) भो।
(B. C. E. omit this line.)इति तस्या वचः श्रुत्वा भगवानत्रिरब्रवीत् ॥ 16 ॥
View Verse
(सम्यक् C. D. E. G.)साधु संबोधितोऽस्म्यद्य धर्मज्ञे धर्मचारिणि।
मया प्टष्टेन वक्तव्यमिति नोद्धाटितं पुरा ॥ 17 ॥
View Verse
अर्हा त्वमसि कल्याणि लक्ष्मीमाहात्म्यमुत्तमम्।
श्रोतुं श्रुतिशिरःश्रेणिहृदयस्थं सनातनम् ॥ 18 ॥
View Verse
पुरा मलयशैलस्था मुनयो धर्मतत्पराः।
श्रुतसात्त्वतविज्ञाना नारदाद्देवदर्शनात् ॥ 19 ॥
View Verse
अप्टच्छन्नेतमेवार्थं भगवन्तं सनातनम्।
नारदं ब्रह्मसंकाशं भगवद्धर्मवेदिनम् ॥ 20 ॥
View Verse
(भगवत्तः A. B. C.)भगवंस्त्वच्छ्रुतोऽस्माभिः सात्त्वतः सत्त्वसंश्रयः।
शुद्धो (भगवतो A. B. C. G.)भागवतो धर्मो मोक्षैकफललक्षणः ॥ 21 ॥
View Verse
तत्र तत्त्वार्थकथने लक्ष्मीमाहात्म्यमुत्तमम्।
सूचितं तत्र तत्रैव नाप्टष्टत्वात्प्रकाशितम् ॥ 22 ॥
View Verse
इच्छामस्तदिदं श्रोतुं भवसागरतारकम्।
पद्मिनीवैभवं सर्वं प्रज्ञापयुत नो भवान् ॥ 23 ॥
View Verse
नताः स्म शिरसा पादौ तव संसारतारकौ।
अधीहि भो मुने दिव्यं प्रपन्नास्त्वां चिरं वयम् ॥ 24 ॥
View Verse
नारदः---
साधु संबोधितोऽस्म्यद्य मुनयः संशितव्रताः।
प्रसन्नः कथयाम्यद्य लक्ष्मीतन्त्रं सनातनम् ॥ 25 ॥
View Verse
यत्र सा दृश्यते देवी स्वरूपगुणवैभवैः।
पद्मिनी पद्मनाभस्य महिषी पद्मसंभवा ॥ 26 ॥
View Verse
पुरा दुर्वाससः शापादभिभूते पुरंदरे।
निःस्वाध्यायवषट्‌कारे भ्रष्टश्रीके जगत्त्रये ॥ 27 ॥
View Verse
दरिद्रे देववर्गे च कृशे धर्मे निसंतते।
पितामहे सुरैः सार्धं क्षीरोदार्णवमेयुषि(मीयुषि G; क्षीरार्णवमुपेयुषि I.) ॥ 28 ॥
View Verse
(बहुवर्ष E. I.)बहून वर्षगणान् दिव्यांस्तप्त्वा तीव्रं महत्तपः।
संबोधिते जगन्नाथे देवदेवे जनार्धने ॥ 29 ॥
View Verse
पितामहेन देवाय कार्ये च विनिवेदिते।
क्षीरोदे मथिते देवैस्तदादिष्टेन वर्त्मना ॥ 30 ॥
View Verse
पारिजाते हयश्रेष्ठे गजेन्द्रेऽप्सरसां गणे।
कालकूटे समुद्‌भूते वारुण्याममृते तथा ॥ 31 ॥
View Verse
सह चन्द्रमसा देव्यामुत्थितायां (सुधा D. E. F. I.)महार्णवात्।
पद्मिन्यां पद्मनाभस्य वक्षःस्थायामनन्तरम् ॥ 32 ॥
View Verse
तयावलोकिते देववर्गे श्रियमुपेयुषि।
तयानवेक्षिते दैत्यवर्गे चैव (पुरा G.)पराजिते ॥ 33 ॥
View Verse
स्वाराज्यमखिलं प्राप्य मोदमाने पुरंदरे।
बृहस्पतिरुपागम्य रहसीदं वचोऽब्रवीत् ॥ 34 ॥
View Verse
बृहस्पतिः---
काले संबोधयाम्येतच्छृणु वाक्यं पुरंदर।
अन्वयव्यतिरेकाभ्यां लक्ष्म्यास्ते [^16]कथिता पुरा ॥ 35 ॥
View Verse
महत्ता महतां नाथ तस्यामायतते(मायाति ते A. B. C.) स्थितिः।
(A. B. C. G. omit this line.)न भ्रश्येत यथैवैषा तव राज्यस्थितेः परा ॥ 36 ॥
View Verse
(परां यजस्व A. B. C. G.)तथा यतस्व देवेश शरणं गच्छ पद्मिनीम्।
एषा हि श्रेयसो मूलमेषा हि परमा गतिः ॥ 37 ॥
View Verse
श्रुतीनामभिसंधिश्च सैव देवी सनातनी।
एषैव जगतां प्राणा एषैव जगतां क्रिया(प्रिया C.) ॥ 38 ॥
View Verse
(एषा हि A. B. C. G.)एषैव जगतामिच्छा ज्ञानमेषा परावरा।
एषैव सृजते काले सैषा पाति जगत्त्रयम् ॥ 39 ॥
View Verse
जगत्संहरते चान्ते तत्तत्कारणसंस्थिता।
मातरं जगतामेनामनाराध्य महत् कुतः ॥ 40 ॥
View Verse
(एतत्तद्वै E. I.)एतत्तु वैष्णवं धाम यते नावर्तते यतिः(पुनः E.)।
एषा सा परमा निष्ठा सांख्यानां विदितात्मनाम् ॥ 41 ॥
View Verse
एषा सा योगिनां निष्ठा यत्र गत्वा न शोचति।
एषा पाशुपती निष्ठा सैषा वेदविदां गतिः ॥ 42 ॥
View Verse
(पाञ्च E. G.)पञ्चरात्रस्य कृत्स्नस्य सैषा निष्ठा सनातनी।
सैषा नारायणी देवी स्थिता नारायणात्मना ॥ 43 ॥
View Verse
पृथग्भूतापृथग्भूता ज्योत्स्नेव हिमदीधितेः।
तैस्तैर्ज्ञानैः पृथग्भूतैरागमैश्च पृथग्विधैः ॥ 44 ॥
View Verse
एकैवैषा परा देवी बहुधा (तदु D. F.)समुपास्यते।
तामुपेहि महाभागां शरणं पद्मसंभवाम् ॥ 45 ॥
View Verse
तपोविशेषै(नियमैस्तैस्तैश्च विविधैः E. F. I.) र्विविधैस्तैस्तैश्च नियमैः शुभैः।
आराध्य महिषीं विष्णोः स्थिरीकुरु निजश्रियम् ॥ 46 ॥
View Verse
एषा प्रसादसुमुखी स्वं पदं प्रापयिष्यति।
अभीप्सितार्थदा देवी कामिनामपि कामदा ॥ 47 ॥
View Verse
नारदः---
इति संबोधितः शक्रो गुरुणा गुरुणा स्वयम्।
आराधयितुकामस्तां क्षीरोदस्योत्तरं ययौ ॥ 48 ॥
View Verse
तत्र दिव्यं तपस्तेपे बिल्वमूलनिकेतनः।
(E. omits 8 lines from here.)एकपादस्थितो (भूमौ F.)मौनी काष्ठभूतोऽनिलाशनः ॥ 49 ॥
View Verse
ऊर्ध्वदृग्बाहुवक्त्रश्च नियतो नियतात्मवान्।
दिव्यं वर्षसहस्रं वै तपस्तेपे सुदुश्चरम् ॥ 50 ॥
View Verse
तपसोऽवभृथे तस्य सा देवी पद्मसंभवा।
प्रसन्नवदना विष्णोर्महिषी दर्शनं ययौ ॥ 51 ॥
View Verse
अग्रतः संस्थितां देवीं जगतां मातरं पराम्।
तां शक्रश्चक्षुषा वीक्ष्य विस्मयं परमं ययौ ॥ 52 ॥
View Verse
एकान्तभावमापन्नमव्याजां भक्तिमास्थितम्।
तं वीक्ष्य जगतां माता वाक्यमेतदुवाच ह ॥ 54 ॥
View Verse
श्रीः---
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते ॥ 55 ॥
View Verse
शक्रः---
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया ॥ 56 ॥
View Verse
यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि(मे देवि E. I.) यासि त्वं यत्प्रकारिका ॥ 57 ॥
View Verse
यत्प्रमाणा यदाधारा यदुपाया सनातनी।
यस्य त्वं तेन(केन E. I.) वा देवि संबन्धस्तव यद्विधः ॥ 58 ॥
View Verse
यच्चान्यद्वेदितव्यं ते नानाशास्त्रोपबृंहितम्।
कथयेश्वरि तत्सर्वमुपसन्नोऽस्म्यधीहि भो ॥ 59 ॥
View Verse
इति (संबोधिता E.)प्रसादिता तेन वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 60 ॥
View Verse
श्रीः---
शृणु शक्र महाभाग या (स्म्यहं D. F. G. I.)ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् ॥ 61 ॥
View Verse

Chapter - 2

द्वितीयोऽध्यायः - 2
श्रीरुवाच---
अस्ति निर्दुःखनिःसीमसुखानुभवलक्षणः।
परमात्मा परं यस्य पदं पश्यन्ति सूरयः ॥ 1 ॥
View Verse
कश्चित्केषांचिदात्मा स्यात्तस्यान्येषां च कश्चन।
तस्याप्यन्य(एवम् A.) इतीत्थं तु यत्रैषा(एषः E. I.) व्यवतिष्ठते ॥ 2 ॥
View Verse
(अध्वानम् A. B. C.)अध्वनामध्वनः पारं परमात्मानमूचिरे।
अहं नाम स्मृतो योऽर्थः स आत्मा समुदीर्यते ॥ 3 ॥
View Verse
अनवच्छिन्नरूपोऽहं परमात्मेति शब्द्यते(शस्यते B. C.)।
क्रोडीकृतमिदं सर्वं चेतनाचेतनात्मकम् ॥ 4 ॥
View Verse
येन सोऽहंस्मृतो भावः परमात्मा सनातनः।
स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः ॥ 5 ॥
View Verse
विष्णुर्नारायणो विश्वो विश्वरूप इतीर्यते।
अहंतया समाक्रान्तं यस्य (सर्वं B. E.)विश्वमिदं जगत् ॥ 6 ॥
View Verse
(वस्तुतस्तु A. B. C.)वस्त्ववस्तु च तन्नास्ति यन्नाक्रान्तमहंतया।
(A. B. C. D. omit this line.)इदंतया यदालीढमाक्रान्तं तदहंतया ॥ 7 ॥
View Verse
(सर्वः शान्तः स B.)सर्वतः शान्त एवासौ निर्विकारः सनातनः।
अनन्तो देशकालादिपरिच्छेदविवर्जितः ॥ 8 ॥
View Verse
महाविभूतिरित्युक्तो व्याप्तिः सा महती यतः।
तद्‌ ब्रह्म परमं धाम निरालम्बनभावनम्(निरालम्बमभावनम् I.) ॥ 9 ॥
View Verse
निस्तरङ्गामृताम्भोधिकल्पं षाड्‌गुण्यमुज्ज्वलम्।
एकं तच्चिद्घनं शान्तमुदयास्तमयोज्झितम् ॥ 10 ॥
View Verse
अपृथग्भूतशक्तित्वाद् ब्रह्माद्वैतं तदुच्यते।
तस्य या परमा शक्तिर्ज्योत्स्नेव हिमदीधितेः ॥ 11 ॥
View Verse
सर्वावस्थागता देवी स्वात्मभूतानपायिनी।
अहंता ब्रह्मणस्तस्य साहमस्मि सनातनी ॥ 12 ॥
View Verse
आत्मा स सर्वभूतानामहंभूतो हरिः स्मृतः।
अहंता सर्वभूतानामहमस्मि सनातनी ॥ 13 ॥
View Verse
येन भावेन भवति वासुदेवः सनातनः।
भवतस्तस्य देवस्य (सहायो B. C.)स भावोऽहमितीरिता ॥ 14 ॥
View Verse
भवद्भावात्मकं ब्रह्म ततस्तच्छाश्वतं पदम्।
भवन्नारायणो देवो भावो लक्ष्मीरहं परा ॥ 15 ॥
View Verse
लक्ष्मीनारायणाख्यातमतो(णाख्यं तत् E. I.) ब्रह्म सनातनम्।
अहं तया समाक्रान्तो ह्यहमर्थः प्रसिध्यति ॥ 16 ॥
View Verse
अहमर्थसमुत्था च साहंता परिकीर्तिता।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 17 ॥
View Verse
तादात्म्यं विद्धि संबन्धं मम नाथस्य चोभयोः।
अहंतया विनाहं हि निरुपाख्यो न सिध्यति ॥ 18 ॥
View Verse
अहमर्थं विनाहंता निराधारा न सिध्यति।
भवद्भावात्मकं रूपं समस्तव्यस्तगोचरम् ॥ 19 ॥
View Verse
परोक्षमपरोक्षं च जगति प्रविचिन्त्यते(विभाव्यते E; विभज्यते I.)।
निरुन्मेषे निरुन्मेषा साहंता परमेश्वरी ॥ 20 ॥
View Verse
क्रोडीकृत्याखिलं (विश्वं B.)सर्वं ब्रह्मणि व्यवतिष्ठते।
उन्मेषस्तस्य यो नाम यथा चन्द्रोदयेऽम्बुधेः ॥ 21 ॥
View Verse
अहं नारायणी शक्तिः सिसृक्षालक्षणा तदा।
निमेषस्तस्य यो नाम संहृतौ परमात्मनः ॥ 22 ॥
View Verse
अहं नारायणी शक्तिः सुषुप्सालक्षणा हि सा।
(सिसृक्षायां ममोद्यन्त्यां E.)सिसृक्षाया ममोद्यन्त्या देवाल्लक्ष्मीपतेः स्वयम् ॥ 23 ॥
View Verse
अव्याहतमसंकोचमैश्वर्यं प्रविजृम्भते।
ज्ञानं तत्परमं ब्रह्म (सर्वादेशि B.)सर्वदर्शि निरामयम् ॥ 24 ॥
View Verse
ज्ञानात्मिका तथाहंता सर्वज्ञा सर्वदर्शिनी।
ज्ञानात्मकं परं रूपं ब्रह्मणो मम चोभयोः ॥ 25 ॥
View Verse
शेषमैश्वर्यवीर्यादि ज्ञानधर्मः सनातनः।
अहमित्यान्तरं रूपं ज्ञानरूपमुदीर्यते(मितीर्यते E.) ॥ 26 ॥
View Verse
प्रकाशकादिकं रूपं स्फटिकादिसलक्षणम्।
(अतस्तत् I.)अतस्तु ज्ञानरूपत्वं मम नारायणस्य च ॥ 27 ॥
View Verse
अव्याहतिर्यदुद्यत्यास्तदैश्वर्यं परं मम।
इच्छेति सोच्यते तत्तत्तत्त्वशास्त्रेषु पण्डितैः ॥ 28 ॥
View Verse
जगत्प्रकृतिभावो मे यः सा शक्तिरितीर्यते।
सृजन्त्या यच्छ्रमाभावो मम तद्बलमिष्यते ॥ 29 ॥
View Verse
भरणं यच्च कार्यस्य बलं तच्च प्रचक्षते।
(शक्यं शक्तेन च A. C. G.)शक्त्यंशकेन तत्प्राहुर्भरणं तत्त्वकोविदाः ॥ 30 ॥
View Verse
विकारविरहो वीर्यं प्रकृतित्वेऽपि मे सदा।
स्वभावं हि जहात्याशु पयो दधिसमुद्भवे ॥ 31 ॥
View Verse
जगद्भावेऽपि सा नास्ति (प्रकृतिः I.)विकृतिर्मम नित्यदा।
विकारविरहो वीर्यमतस्तत्त्वविदां मतम् ॥ 32 ॥
View Verse
विक्रमः कथितो वीर्यमैश्वर्यांशः स तु स्मृतः।
सहकार्यनपेक्षा मे सर्वकार्यविधौ हि या ॥ 33 ॥
View Verse
तेजः षष्ठं गुणं प्राहुस्तमिमं तत्त्ववेदिनः।
पराभिभवसामर्थ्यं तेजः केचित्प्रचक्षते ॥ 34 ॥
View Verse
ऐश्वर्ये योजयन्त्येके तत्तेजस्तत्त्वकोविदाः।
इति पञ्च गुणा एते ज्ञानस्य (स्फूर्तयः E. I.)स्रुतयोऽमहाः ॥ 35 ॥
View Verse
ज्ञानाद्याः षड्‌गुणा एते षाड्‌गुण्यं मम तद्वपुः।
उद्यतीत्थं सिसृक्षाया ममायुततमी कला ॥ 36 ॥
View Verse
शुद्धाशुद्धात्मको वर्गस्तया क्रोडीकृतोऽखिलः।
तत्र शुद्धमयं मार्गं व्याख्यास्यामि सुरेश्वर ॥ 37 ॥
View Verse
अभिव्यक्तानभिव्यक्तषाड्‌गुण्यक्रममुज्ज्वलम्।
आलम्बितचतूरूपं रूपं तत्पारमेश्वरम् ॥ 38 ॥
View Verse
(गुणानां कल्पनावस्थो I.)गुणकल्पनयाध्यस्तो गुणोन्मेषकृतक्रमः।
मूर्तीकृतगुणश्चेति त्रिधा मार्गोऽयमद्भुतः ॥ 39 ॥
View Verse
युगानि त्रीणि षण्णं यान्याहुर्ज्ञानादिकानि वै(वेदिनः E.)
समासव्यासतस्तेषां चातुरात्म्यं विविच्यते(अमूर्तिमत् A. B. C. D.) ॥ 40 ॥
View Verse
(A. B. C. D. omit verses 41 and 42.)समस्तव्यस्तभेदेन गुणानां तद्युगत्रयम्।
विवक्ष्यते यदा सा मे शान्तायाश्चातुरात्म्यता(चतुरात्मता I.) ॥ 41 ॥
View Verse
आकृतीरनवेक्ष्यापि (गुणकल्पनया I.)गुणानां कल्पनाकृतम्।
चातुरात्म्यमिदं प्राहुः शान्तायास्तत्त्वचिन्तकाः ॥ 42 ॥
View Verse
(A. B. C. D. F. omit this verse.)शान्तातिशान्तादुन्मेषो मम रूपाद्युगत्रये।
क्रमव्यक्तं तदाद्यं मे चातुरात्म्यममूर्तिमत् ॥ 43 ॥
View Verse
अतरङ्गमनिर्देश्यं निःसत्तं सत्त्वमव्ययम्।
सच्चिन्मात्राख्य उन्मेषः साद्या मे शान्तताच्युतिः ॥ 44 ॥
View Verse
व्यक्तज्ञानबलाक्यायां पूर्वं संकर्षणात्मनि।
(तिलकालिक E. I.)तिलकालकवत्सर्वो विकारो मयि तिष्ठति ॥ 45 ॥
View Verse
तन्मां संकर्षणात्मानं विदुर्ज्ञानबले बुधाः।
स्वयं गृह्णामि कर्तृत्वमुन्मिषन्ती ततः परम्(परा A. B. C. G. I.) ॥ 46 ॥
View Verse
प्रद्युम्न इति मामाहुः सर्वार्थद्योतनीं तदा।
युगं प्रस्फुरितं रूपं(रूपे B. C. D. I.) तस्मिन्नैश्वर्यवीर्ययोः ॥ 47 ॥
View Verse
ततस्तया क्रियाशक्त्या (लब्धावस्था A. B. C. D.)लब्धावेशा चिकीर्षया।
युज्यमानानिरुद्धाख्यां लम्भिता तत्त्वकोविदैः ॥ 48 ॥
View Verse
अवस्थाः क्रमशो मे ताः सुषुप्तिस्वप्नजागराः।
तिस्रो मम स्वभावाख्या विज्ञानैश्वर्यशक्तयः ॥ 49 ॥
View Verse
उन्मिषन्त्यः पृथक्तत्त्वत्रयेण परिकीर्तिताः।
बलं वीर्यं तथा तेज (इति तत्तु E. I.)इत्येतत्तु गुणत्रयम् ॥ 50 ॥
View Verse
(श्रमाद्यविद्या A. B. C. G.)श्रमाद्यवद्याभावाख्यं ज्ञानादेरुपसर्जनम्।
इत्थं शान्तोदितावस्थाद्वयभेदजुषो मम ॥ 51 ॥
View Verse
स्वधर्मोर्मिसमुल्लासो न भेदायाम्बुधेरिव।
प्रायो यद्‌गुणकर्तव्ये वर्ते कृत्या यया ह्यहम् ॥ 52 ॥
View Verse
तत्र तद्‌गुणयुग्मं तु मम रूपतयोच्यते।
अतो ज्ञानबले देवः संकर्षण (इतीर्यते B.)उदीर्यते ॥ 53 ॥
View Verse
ऐश्वर्यवीर्ये प्रद्युम्नोऽनिरुद्धः शक्तितेजसी।
(आद्यं D.)आद्यस्त्वभिन्नषाड्‌गुण्यो ब्रह्मतत्त्वापृथक्‌स्थितौ ॥ 54 ॥
View Verse
एकोऽप्यनुनयौदार्यक्रौर्यशौर्यादिभिर्गुणैः।
नटः प्रवर्तते यद्वद्वेषचेष्टादिभेदवान् ॥ 55 ॥
View Verse
तद्वदेकापि सैवाहं (ज्ञानैश्वर्या E. I.)ज्ञानशक्त्यादिभिर्गुणैः।
संकर्षणादिसद्भावं भजे लोकहितेप्सया ॥ 56 ॥
View Verse
(क्रमेण I.)क्रमशः प्रलयोत्पत्तिस्थितिभिः प्राण्यनुग्रहः।
प्रयोजनमथान्यच्च शास्त्रशास्त्रार्थतत्फलैः ॥ 57 ॥
View Verse
दशास्तुर्यसुषुप्त्याद्याश्चतुर्व्यूहेऽपि लक्षयेत्।
विभवोऽनन्तरूपस्तु पद्मनाभमुखो विभोः ॥ 58 ॥
View Verse
अनिरुद्धस्य विस्तारो दर्शितस्तस्य सात्त्वते।
अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् ॥ 59 ॥
View Verse
मन्त्रमन्त्रेश्वरन्यासात्सापि षाड्‌गुण्यविग्रहा।
(पराद्यर्चावतारे A. B. C. D.)पराद्यर्चावसानेऽस्मिन्मम रूपचतुष्टये ॥ 60 ॥
View Verse
तुर्याद्यवस्था विज्ञेया इतीयं शुद्धपद्धतिः।
ईषद्भेदेन विज्ञेयं तद्वयूहविभवान्तरम्॥
View Verse

Chapter - 3

तृतीयोऽध्यायः - 3
श्रीरुवाच---
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनी।
अहं नारायणी नाम सा सत्ता वैष्णवी परा ॥ 1 ॥
View Verse
देशात्कालात्तथा रूपात्परिच्छेदो न मे स्मृतः।
संवित्तिरेव मे रूपं (सैवै D.)सर्वैश्वर्यादिको गुणः ॥ 2 ॥
View Verse
स्वस्वातन्त्र्यवशेनैव विभागस्तत्र वर्तते।
विज्ञानैश्वर्यशक्त्यात्मा(शक्त्यात्म E. I.) विभागो यः स ईरितः ॥ 3 ॥
View Verse
विज्ञानैश्वर्यशक्तीनामुन्मेषस्त्वपरोऽधुना।
अतर्क्याया ममोद्यत्या (नुयोगा E. I.)नियोगानर्हया सदा ॥ 4 ॥
View Verse
इच्छयान्यत्कृतं रूपमासीज्ज्ञानादिके त्रिके।
यथैवेक्षुरसः स्वच्छो गुडत्वं प्रतिपद्यते ॥ 5 ॥
View Verse
तद्वत्स्वच्छमयं ज्ञानं सत्त्वतां प्रतिपद्यते।
रजस्त्वं च ममैश्वर्यं तमस्त्वं शक्तिरप्युत ॥ 6 ॥
View Verse
एते त्रयो गुणाः शक्र त्रैगुण्यमिति शब्द्यते।
रजःप्रधानं तत्सृष्टौ त्रैगुण्यं परिवर्तते ॥ 7 ॥
View Verse
स्थितौ सत्त्वप्रधानं तत् संहृतौ तु तमोमुखम्।
अहं संविन्मयी पूर्वा व्यापिन्यपि पुरंदर ॥ 8 ॥
View Verse
अधिष्ठाय गुणान् सृष्टिस्थितिसंहृतिकारिणी।
निर्गुणापि गुणानेतानधिष्ठायात्मवाञ्छया ॥ 9 ॥
View Verse
चक्रं प्रवर्तयाम्येका सृष्टिस्थित्यन्तरूपकम्।
शक्रः---
विधाद्वयं समास्थाय ज्ञानाद्ये तु (गुणत्रये A. G. I.)युगत्रये ॥ 10 ॥
View Verse
शुद्धेतरविभागेन किमर्थं त्वं प्रवर्तसे।
विधयोरनयोः पद्मे संबन्धः कः परस्परम् ॥ 11 ॥
View Verse
एतत्पृष्टा मया ब्रूहि नमस्ते पद्मसंभवे।
श्रीः---
अनियोज्यं ममैश्वर्यमिच्छैव मम कारणम् ॥ 12 ॥
View Verse
मुह्यन्त्यत्र महान्तोऽपि तत्त्वं श्रृणु तथापि मे।
ईशेशितव्यभावेन परिवर्ते (सदाप्यहम् A. B. C. I.)सदा ह्यहम् ॥ 13 ॥
View Verse
ईशो नारायणो ज्ञेय ईशता तस्य चाप्यहम्।
ईशितव्यं तु विज्ञेयं चिदचिच्च पुरंदर ॥ 14 ॥
View Verse
चिच्छक्तिस्तु परा तत्र भोक्तृतां प्रतिपद्यते।
भोग्योपकरणस्थानरूपं तस्या अचित्पदम् ॥ 15 ॥
View Verse
अनाद्यया समाविद्धा सा चिच्छक्तिरविद्यया।
मत्प्रवर्तितया नित्यं चिच्छक्तिर्भोक्तृतां गता ॥ 16 ॥
View Verse
अहंममत्वसंबन्धाद्ध्यचित्स्वेनाभिमन्यते।
अविद्या सा तिरोभावं विद्यया याति वै यदा ॥ 17 ॥
View Verse
चिच्छक्तिर्निरभीमाना तदा मद्भावमेष्यति।
तां विद्यां शुद्धमार्गस्थां परव्यूहादिरूपिणी ॥ 18 ॥
View Verse
प्रवर्तयामि कारुण्याज्ज्ञानसद्भावदर्शिनी।
रक्ष्यरक्षकभावोऽयं संबन्धो विधयोर्द्वयोः ॥ 19 ॥
View Verse
विधा रक्षति शुद्धाद्या रक्ष्यते च (तथा F.)विधापरा।
एतत्ते कथितं शक्र किं भूयः श्रोतुमिच्छसि ॥ 20 ॥
View Verse
शक्रः---
ईशेशितव्यभावेन किमर्थं त्वं(च F.) प्रवर्तसे।
ईशितव्यं कियद्भेदं किंरूपं तत्र मे वद ॥ 21 ॥
View Verse
स्वभावो (अननु A. B. C.)नानुयोज्योऽयं मम नारायणस्य च।
(ईशो हि ई A. B. C. G.)ईशोऽहमीशितव्यो न स च देवः सनातनः ॥ 22 ॥
View Verse
ईशितव्यं द्विधा प्रोक्तं चिदचिव्द्यतिरेकतः।
चिच्छक्तिर्भोक्तृरूपात्र सा च (मद्रूप E.)चिद्रूपधारिणी ॥ 23 ॥
View Verse
भोग्योपकरणस्थानैरचिच्छक्तिस्त्रिधा स्थिता(मता D; स्मृता I.)।
प्रसरन्त्यास्तृतीयं मे सा च पर्व स्मृतं बुधैः ॥ 24 ॥
View Verse
विभक्ते अपि ते एते शक्ती चिदचिदात्मिके।
मत्स्वाच्छन्द्यवशेनैव मम रूपे सनातने ॥ 25 ॥
View Verse
चिच्छक्तिर्विमला शुद्धा चिन्मय्यानन्दरूपिणी।
अनाद्यविद्याविद्धेयमित्थं संसरति ध्रुवम् ॥ 26 ॥
View Verse
अचिच्छक्तिर्जडाप्येवमशुद्धा परिणामिनी।
त्रिगुणआपि ममैवेदं स्वाच्छन्द्यात् प्रविजृम्भितम् ॥ 27 ॥
View Verse
धूमकेतुर्यथा धूमं(धूमात् A. B. C. D. G.) दीप्यमानो भजेत् स्वयम्।
शुद्धसंवित्स्वरूपापि भजे साहमचिद्गतिम् ॥ 28 ॥
View Verse
अनाक्रान्ता विकल्पेन (शब्देनाप्य E. I.)शब्दैरप्यकदर्थिता।
आद्यानोपधिनाप्येवं वर्तेऽहमचिदात्मना ॥ 29 ॥
View Verse
बहिरन्तःपदार्थे हि चित्स्वरूपमखण्डितम्।
विशिनष्टि तथाप्येतच्चित्रयोपाधिसंपदा ॥ 30 ॥
View Verse
स्वातन्त्र्यमेव मे हेतुर्नानुयोज्यास्मि किंचन।
(इदंप्रभावाम् A. B. C. G.)इत्थंप्रभावामेवं मां विदन्‌ भुद्धो भविष्यसि ॥ 31 ॥
View Verse
शक्रः---
कथं सृजसि वै लोकान् सुखदुःखसमन्वितान्।
असृष्टिर्हि वरं यद्वा सृष्टिरस्तु सुखात्मिका ॥ 32 ॥
View Verse
श्रीः---
अनाद्यविद्याविद्धानां जीवानां सदसन्मयम्।
संचितं कर्म संप्रेक्ष्य मिश्रां सृष्टिं करोम्यहम् ॥ 33 ॥
View Verse
शक्रः---
क्षीरोदसंभवे देवि स्वाच्छन्द्यं ते कथं भवेत्।
कर्म चेत्समवेक्ष्य त्वं विदधासि सुखासुखे ॥ 34 ॥
View Verse
श्रीः---
कुर्वत्या मम कार्याणि कर्म तत्करणं स्मृतम्।
कर्तुश्च करणापेक्षा न स्वातन्त्र्यविघातिनी ॥ 35 ॥
View Verse
निरवद्या स्वतन्त्राहं नानुयोगपदे स्थिता।
विभजे बहुधात्मानं कर्तृकर्मक्रियादिना ॥ 36 ॥
View Verse
शक्रः---
यद्वा तद्वास्तु तद्देवि स्वातन्त्र्यं ते यदीदृशम्।
सृष्टिप्रकारमाख्याहि नमस्ते पद्मसंभवे ॥ 37 ॥
View Verse

Chapter - 4

चतुर्थोऽध्यायः - 4
श्रीः(श्रीरुवाच B.)---
निर्मलाकाशकल्पाहं निःसमानन्दचिन्मयी।
अहं नारायणी नाम भावोऽहं तादृशो(तादृशी B.) हरेः ॥ 1 ॥
View Verse
न शान्ता नोदिता नापि मध्यमाहं चिदात्मिका।
तादृशस्य हरेर्विष्णोः स्वरूपमशिलात्मनः ॥ 2 ॥
View Verse
(तस्य चित्रैक E. I.)तस्याचित्रैकरूपस्य विकल्पपदवीजुषः।
अचित्राहं तदाकारा सर्वतः समतां गता ॥ 3 ॥
View Verse
तयोर्नौ संविदात्मैव क्वचिदुन्मेष उत्थितः।
कोटिकोटिसहस्रौघकोटिकोटितमी कला ॥ 4 ॥
View Verse
सिसृक्षा नाम तद्रूपा सृष्टिमिष्टां करोम्यहम्।
एकांशेन विशुद्धाध्वरूपा वर्तेऽहमञ्जसा ॥ 5 ॥
View Verse
वज्ररत्नप्रभा यद्वत्परिस्फुरति सर्वतः।
एवं शुद्धमयो मार्गो मम स्फुरति सर्वतः(रूपतः A. B. C. G. I.) ॥ 6 ॥
View Verse
(अमेया A. B.)अमेघाकाशसंकाशान्निष्पन्दोदधिरूपतः।
मम ज्ञानघनाद्रूपाच्छुद्धा(शुद्ध A. G.) सृष्टिः प्रवर्तते ॥ 7 ॥
View Verse
(निर्वासनं E. I.)निर्व्यापारं सदानन्दं शुद्धं सर्वात्मकं परम्।
व्यज्यते प्रथमं ज्ञानं स संकर्षण उच्यते ॥ 8 ॥
View Verse
हेत्वन्तरानपेक्षं यत् स्वातन्त्र्यं विश्वनिर्मितौ।
तदैश्वर्यं तदासीन्मे प्रद्युम्रः पुरुषोत्तमः ॥ 9 ॥
View Verse
निलीनचित्ररूपा या सर्वत्र समवस्थिता।
अव्याहतासीच्छक्तिर्मे सोऽनिरुद्धः प्रकीर्तितः ॥ 10 ॥
View Verse
सृष्टिस्थित्यन्तकर्तारो विज्ञानैश्वर्यशक्तयः।
मम रूपममी देवाः पुरुषाः पुष्करेक्षणाः ॥ 11 ॥
View Verse
अतरह्गार्णवाभासमस्ताम्भोदाम्बरोपमम्(अनम्भोदाम्बरोपमम् E. I.)।
रूपं सिसृक्षमाणाया वासुदेवो ममादिमम्(ममात्मकः A. G.) ॥ 12 ॥
View Verse
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः।
उन्मिषन्ति यदा तुल्यं वासुदेवस्तदोच्यते ॥ 13 ॥
View Verse
तेषां ज्ञानबलोन्मेषे(बलोन्मेषः E.) संकर्षण उदीर्यते।
बिभर्ति सकलं विश्वं तिलकालकवत्स्वतः ॥ 14 ॥
View Verse
बलमित्येव तन्नाम ततो वेदान्तशब्दितम्।
वीर्यैश्वर्यसमुन्मेषे(समुन्मेषः E. I.) प्रद्युम्नः परिकीर्तितः ॥ 15 ॥
View Verse
विकारविरहो वीर्यमविकारी ततश्च सः।
शक्तितेजःसमुन्मेषे ह्यनिरुद्धः स ईरितः(समीरितः E. I.) ॥ 16 ॥
View Verse
तेजस्त्वन्यानपेक्षत्वमनिरुद्धत्वमप्युत(अतः E. I.)।
शास्त्रं (संकर्षणाद्देवात् E. I.)संकर्षणादेव भाति निर्घातशब्दवत् ॥ 17 ॥
View Verse
तत्क्रिया सकला देवात्प्रद्युम्नात् संभवेद्यतः(संभवत्युत E. I.)।
क्रियाफलमशेषं तदनिरुद्धात्प्रचक्षते ॥ 18 ॥
View Verse
सृजते ह्यनिरुद्धोऽत्र प्रद्युम्नः पाति तत्कृतम्।
सृष्टं तद्रक्षितं चात्ति स च संकर्षणः प्रभुः ॥ 19 ॥
View Verse
सृष्टिस्थित्यन्तकार्येण शास्त्रधर्मफलेन च।
अनुग्रहमिमे देवाः सदा विदधते स्वयम् ॥ 20 ॥
View Verse
यद्यप्येकगुणोन्मेषस्तथाप्येते(तदाप्येते E.) हि षड्‌गुणाः।
अन्यूनानधिकाः सर्वे वासुदेवात्सनातनात्(सनातनाः A. B. D.) ॥ 21 ॥
View Verse
अङ्गप्रत्यङ्गबुद्ध्यादिर्नैषां भूतमयः स्मृतः।
षाड्‌गुण्यमय एवैषां दिव्यो देहः सनातनः ॥ 22 ॥
View Verse
नैवैषां वास्तवो भेदश्चिन्तनीयो दिवस्पते(विपश्चिता E. I.)।
तत्तत्कार्यप्रसिद्ध्यर्थं कृतोऽसौ कल्पनावशात् ॥ 23 ॥
View Verse
ज्ञानान्नान्यत्तथैश्वर्यं तस्मान्नान्या च शक्तिका।
मयैताः कल्पिताः शक्र (ध्येयाः A. B. C. D.)ध्यानविश्रामभूमयः ॥ 24 ॥
View Verse
वस्तु पूर्वं ततो भावः पश्चादर्थस्ततः क्रिया।
चातूरूप्यमिदं ज्ञेयं सर्वभावेषु सर्वदा ॥ 25 ॥
View Verse
वासुदेवादिरूपेण चतुर्धात्मानमात्मना।
संविभज्यावतिष्ठेऽहं (सर्वदा A. C. D; सर्वदा सत्य B.)सर्वमावृत्य संविदा ॥ 26 ॥
View Verse
वासुदेवादयो देवाः प्रत्येकं तु त्रिधा त्रिधा।
केशवादिस्वरूपेण विभजन्ति स्वकं वपुः ॥ 27 ॥
View Verse
एतद्व्यूहान्तरं नाम पञ्चरात्राभिशब्दितम्।
(कालस्य E.)कार्यस्य नयने देवा द्वादशैते व्यवस्थिताः ॥ 28 ॥
View Verse
विभोरप्यनिरुद्धस्य हिताय जगतां हरेः।
प्रसरो विभवो नाम पद्मनाभादयः स्मृताः ॥ 29 ॥
View Verse
आविश्याविश्य कुरुते यत्र देवनरादिकम्।
जगद्धितं जगन्नाथस्तज्ज्ञेयं विभवान्तरम् ॥ 30 ॥
View Verse
देवर्षिपितृसिद्धाद्यैः स्वयं वा जगतां हिते।
निर्मितं भगवद्रूपमर्चा सा शुद्धचिन्मयी ॥ 31 ॥
View Verse
इत्येष लेशतो मार्गः शुद्धस्ते संप्रदर्शितः।
त्रैगुण्यमपरं मार्गं गदन्त्या मे निशामय ॥ 32 ॥
View Verse
यत्ते ज्ञानं पुरा प्रोक्तं तत्सत्त्वेन विवर्तते।
रजस्तया तदैश्वर्यं शक्तिश्चापि तमस्तया ॥ 33 ॥
View Verse
प्राधान्येन रजस्तत्र सृष्टौ संपरिवर्तते।
अभितः सत्त्वतमसी गुणौ द्वौ तस्य तिष्ठतः ॥ 34 ॥
View Verse
या सा पूर्वं मया प्रोक्ता कोटिकोटितमी कला।
तस्याः कोटितमेनाहमंशेन विसृजे जगत् ॥ 35 ॥
View Verse
सर्वस्याद्या महालक्ष्मीस्रिगुणाहं महेश्वरी।
रजोरूपमधिष्ठाय सृष्टिमिष्टां करोम्यहम् ॥ 36 ॥
View Verse
अग्नीषोममयौ भावौ दिव्यौ स्रीपुंसलक्षणौ।
बिभ्रती चारुसर्वाङ्गी लोकानां हितकाम्यया ॥ 37 ॥
View Verse
चतुर्भुजा विशालाक्षी तप्तकाञ्चनसंनिभा।
मातुलङ्गं गदां खेटं सुधापात्रं च बिभ्रती ॥ 38 ॥
View Verse
महालक्ष्मीः समाख्याता साहं सर्वाङ्गसुन्दरी।
महाश्रीः सा महालक्ष्मीश्चण्डा चण्डी च चण्डिका ॥ 39 ॥
View Verse
भद्रकाली तथा भद्रा काली दुर्गा महेश्वरी।
त्रिगुणा भगवत्पत्नी तथा भगवती परा ॥ 40 ॥
View Verse
एताः संज्ञास्तथा चान्यास्तत्र मे बहुधा स्मृताः।
विकारयोगादन्याश्च तास्ता वक्ष्याम्यशेषतः ॥ 41 ॥
View Verse
लक्षयामि जगत्सर्वं पुण्यापुण्ये कृताकृते।
(महती या B.)महनीया च सर्वत्र महालक्ष्मीः प्रकीर्तिता ॥ 42 ॥
View Verse
महद्भिः श्रयणीयत्वान्महाश्रीरिति (गीयते E.)गद्यते।
चण्डस्य दयिता चण्डी चण्डत्वाच्चण्डिका मता ॥ 43 ॥
View Verse
कल्याणरूपा भद्रास्मि काली च कलनात्सताम्।
द्विषतां कालरूपत्वादपि काली प्रकीर्तिता ॥ 44 ॥
View Verse
सुहृदां द्विषतां चैव युगपत्सदसद्विधेः।
भद्रकाली समाख्याता मायास्चर्यगुणात्मिका ॥ 45 ॥
View Verse
महत्त्वाच्च महामाया मोहनान्मोहिनी मता।
दुर्गा च दुर्गमत्वेन भक्तरक्षाविधेरपि ॥ 46 ॥
View Verse
योजनाच्चैव योगाहं योगमाया च कीर्तिता।
मायायोगेति विज्ञेया ज्ञानयोजनतो नृणाम् ॥ 47 ॥
View Verse
पूर्णषाड्‌गुण्यरूपत्वात्साहं भगवती स्मृता।
भगवद्यज्ञसंयोगात्पत्नी भगवतोऽस्म्यहम् ॥ 48 ॥
View Verse
विशालत्वात्स्मृता व्योम पूरणाच्च पुरी स्मृता(पुरः स्थिता A. B. C. G.)।
परावरस्वरूपत्वात् स्मृता चाहं परावरा ॥ 49 ॥
View Verse
शकनाच्छक्तिरुक्ताहं राज्ञ्यहं (राजनात् B.)रञ्जनात् सदा।
सदा शान्तविकारत्वाच्छान्ताहं परिकीर्तिता ॥ 50 ॥
View Verse
मत्तः प्रक्रियते विश्वं प्रकृतिः सास्मि कीर्तिता।
श्रयन्ती श्रयणीयास्मि श्रृणामि दुरितं सताम् ॥ 51 ॥
View Verse
शृणोमि करुणां वाचं शृणामि च गुणैर्जगत्।
(All the Mss. and the printed book read wrongly श्रयते.)(शयेऽन्तः) सर्वभूतानां रमेऽहं पुण्यकर्मणाम् ॥ 52 ॥
View Verse
ईडिता च सदा देवैः शरीरं चास्मि वैष्णवम्।
एतान्मयि गुणान् दृष्ट्वा वेदवेदान्तपारगाः ॥ 53 ॥
View Verse
गुणयोगविधानज्ञाः श्रियं मां संप्रचक्षते।
साहमेवंविधा नित्या सर्वाकारा सनातनी ॥ 54 ॥
View Verse
गुणत्रयमधिष्ठात्री त्रिगुणा परिकीर्तिता।
(गुणैर्वैषम्य A. B. C. D.)गुणवैषम्यसर्गाय प्रवृत्ताहं सिसृक्षया ॥ 55 ॥
View Verse
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा।
निरालोकमिमं लोकं पूरयामि स्वतेजसा ॥ 56 ॥
View Verse
शून्यं तदखिलं लोकं स्वेन पूरयितुं पुरा।
भरामि त्वपरं रूपं तमसा केवलेन तु ॥ 57 ॥
View Verse
सा भिन्नाञ्जनसंकाशा (दंष्टान्वित A. B. C. D.)दंष्ट्राञ्चितवरानना।
विशाललोचना नारी बभूव तनुमध्यमा ॥ 58 ॥
View Verse
खड्‌गपात्रशिरःखेटैरलंकृतमहाभुजा।
कबन्धहारा शिरसि बिभ्राणाहिशिरःस्रजम् ॥ 59 ॥
View Verse
सा मां प्रोवाच संभूता तामसी प्रमदोत्तमा।
(शान्तिः added before नाम I.)नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः ॥ 60 ॥
View Verse
श्रीः(A. B. C. F. omit श्रीः)---
तामब्रवं वरारोहां तामसीं प्रमदोत्तमाम्।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ 61 ॥
View Verse
महाकाली महामाया महामारी क्षुधा तृषा(क्रिया A. B. C. F.)।
निद्रा कृष्णा(तृष्णा A. B. C. F.) चैकवीरा कालरात्रिर्दुरत्यया ॥ 62 ॥
View Verse
एतानि तव नामानि प्रतिपाद्यानि नामभिः।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् ॥ 63 ॥
View Verse
अपर्याप्तमिमं सर्गं मन्यमानाहमादिमम्।
सत्त्वोन्मेषमयं रूपं भरामि स्मेन्दुसंनिभम् ॥ 64 ॥
View Verse
अक्षमालाङ्‌कुशधरा वीणापुस्तकधारिणी।
सा बभूव वरा नारी नाम कर्म तदा ह्यदाम् ॥ 65 ॥
View Verse
महाविद्या महावाणी भारती वाक् सरस्वती।
आर्या ब्राह्नी महाधेनुर्वेदगर्भा च धीश्च गीः(A. B. C. read wrongly वेदभागाश्चगश्व धीः; गीश्च धीः I.) ॥ 66 ॥
View Verse
नामानुरूपं (कर्मास्याः E. G.)कर्म स्यात् (सात्वत्याः A. B. C. D.)सात्त्विक्याः कार्यमद्भुतम्।
वयं तिस्रो जगद्धात्र्यो मातरश्च प्रकीर्तिताः ॥ 67 ॥
View Verse

Chapter - 5

प़ञ्चमोऽध्यायः - 5
श्रीः(श्रीरुवाच B.)---
या साहंता हरेराद्या सर्वाकारा सनातनी।
शुद्धानन्दचिदाकारा सर्वतः समतां गता ॥ 1 ॥
View Verse
साहं सिसृक्षया युक्ता स्वल्पाल्पेनात्मबिन्दुना।
सृष्टिं कृतवती शुद्धां(शुद्धा I.) पूर्णषाड्‌गुण्यविग्रहाम्(विग्रहा I.) ॥ 2 ॥
View Verse
अनुज्झितस्वरूपाहं (मदीयेनात्म A. B. D.)मदीयेनाल्पबिन्दुना।
महालक्ष्मीः समाक्याता त्रैगुण्यपरिवर्तिनी ॥ 3 ॥
View Verse
रजःप्रदाना तत्राहं महाश्रीः परमेश्वरी।
मदीयं (तत्तमो A. E.)यत्तमोरूपं महामायेति सा स्मृता ॥ 4 ॥
View Verse
मदीयं सत्त्वरूपं यन्महाविद्येति सा स्मृता।
अहं च ते च कामिन्यौ ता वयं तिस्र ऊर्जिताः ॥ 5 ॥
View Verse
सृष्टवत्यस्तु मिथुनान्यनुरूपाणि च त्रिधा।
मदीयं मिथुनं यत्तन्मानसं रुचिराकृति ॥ 6 ॥
View Verse
हिरणय्गर्भं पद्माक्षं सुन्दरं कमलासनम्।
प्रद्युम्नांशादिदं विद्धि संभूतं मयि मानसम् ॥ 7 ॥
View Verse
धाता विधिर्विरिञ्चिश्च ब्रह्मा च पुरुषः स्मृतः।
श्रीः पद्मा कमला लक्ष्मीस्तत्र नारी प्रकीतिता ॥ 8 ॥
View Verse
संकर्षणांशतो द्वन्द्वं महामायासमुद्भवम्।
त्रिनेत्रं चारुसर्वाङ्गं मानसं तत्र यः पुमान् ॥ 9 ॥
View Verse
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः।
तत्र त्रयीश्वरा भाषा विद्या चैवाक्षरा तथा ॥ 10 ॥
View Verse
कामधेनुश्च विज्ञेया सा स्त्री गौश्च(गौरी E. I.) सरस्वती।
अनिरुद्धांशसंभूतं महाविद्यासमुद्भवम् ॥ 11 ॥
View Verse
मिथुनं मानसं यत्तत्पुरुषस्तत्र केशवः।
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ॥ 12 ॥
View Verse
उमा(महा A. B. C. D.) गौरी सती चण्डा तत्र स्त्री सुभगा सती।
ब्रह्मणस्तु त्रयी पत्नी सा बभूव ममाज्ञया ॥ 13 ॥
View Verse
रुद्रस्य दीयिता गौरी वासुदेवस्य चाम्बुजा।
रजसस्तमसश्चैव सत्त्वस्य च विवर्तनम् ॥ 14 ॥
View Verse
आद्यं पर्व तदेतत्ते कथितं मिथुनत्रयम्।
मद्यमं पर्व वक्ष्यामि गुणानां तदिदं शृणु ॥ 15 ॥
View Verse
भाषया सह संभूय विरिञ्चोऽण्डमजीजनत्।
मदाज्ञया(ममाज्ञया B. C. G.) बिभेदैतत्स गौर्या सह शंकरः ॥ 16 ॥
View Verse
अण्डमध्ये प्रदानं यत्कार्यमासीत्तु वेधसः।
तदेतत्पालयामास पद्मया सह केशवः ॥ 17 ॥
View Verse
तदेतन्मध्यमं पर्व गुणानां परिकीर्तितम्।
तृतीयं पर्व वक्ष्यामि तदिहैकमनाः शृणु ॥ 18 ॥
View Verse
अण्डमध्ये प्रधानं हि यत्तत्सदसदात्मकम्।
त्रैगुण्यं प्रकृतिर्व्योम स्वभावो योनिरक्षरम् ॥ 19 ॥
View Verse
तदेतत्सलिलीकृत्य तत्त्वमव्यक्तसंज्ञकम्।
हृषीकेशः स भगवान् पद्मया सह विद्यया ॥ 20 ॥
View Verse
अप्सु(अब्धि C.) संशयनं चक्रे निद्रायोगमुपागतः।
या सा प्रोक्ता महाकाली सा निद्रा तामसी ह्यभूत् ॥ 21 ॥
View Verse
शयानस्य तदा पद्ममभून्नाभ्यां पुरंदर।
तत्कालमयमाख्यातं पङ्कजं यदपङ्कजम् ॥ 22 ॥
View Verse
(काला E. I.)जलाधिकरणं पद्ममाधारः पुष्करं तथा॥
चक्रं च पुण्डरीकं चेत्येवं नामानि तस्य तु ॥ 23 ॥
View Verse
शक्रः---
चिदचित्तत्त्वमाख्यातं चेतनश्चित्प्रकीतितः।
अचित् त्रैगुण्यमित्युक्तं कीदृक् कालोऽपरः स्मृतः ॥ 24 ॥
View Verse
श्रीः---
अचिदंशोऽपरः कालस्रैगुण्यमपरं स्मृतम्।
बलादिकं तु यत्पूर्वं षाड्‌गुण्ये त्रिकमीरितम् ॥ 25 ॥
View Verse
तदेतत्कालरूपेण सृष्टौ संपरिवर्तते।
स्वतश्चापरिणामीदं(अपरिणामोऽयं E. I.) त्रैगुण्यं परिणामि तत् ॥ 26 ॥
View Verse
कालकाल्यात्मकं(कल्यात्मक A. B.) द्वन्द्वमचिदेतत्प्रकीर्तितम्।
सृजन्त्या विविधान् भावान्मम देव्या महाश्रियः ॥ 27 ॥
View Verse
कालोऽयं करणत्वेन वर्तते मन्मयः सदा।
तस्मात्कालमयात्पद्माद्विष्णुनाभिसमुद्भवात् ॥ 28 ॥
View Verse
ब्रह्मा वेदमयो जज्ञे (त्रय्या सह स C.)स त्रय्या सह वीर्यवान्।
हिरण्यगर्भ उक्तो यः(अयं A.) पूर्वं लक्ष्मीसमुद्भवः ॥ 29 ॥
View Verse
महाकालीसमुद्भता या सा नारी त्रयी स्मृता।
तदेतन्मिथुनं जज्ञे(चक्रे E. I.) विष्णोर्नाभिसरोरुहात्(नाभीसरोरुहात् A. B.) ॥ 30 ॥
View Verse
पद्मं (धर्मादिकं चैव F. G.)पद्मोद्भवद्वन्द्वं तदेतत् त्रितयं सह।
महांस्तामस आक्यातो विकारः (पूर्वजो I.)पूर्वकैर्बुधैः ॥ 31 ॥
View Verse
प्राणो हिरण्यगर्भश्च बुद्धिश्चेति त्रिधा भिदा।
पद्मपुंस्रीसमालम्बान्महत्त्वं तस्य शब्द्यते ॥ 32 ॥
View Verse
गुणः प्राणस्य तु स्पन्दो बुद्धेरद्यवसायता।
धर्मादिकमधर्माद्यं द्वयं पुंसो (गुणोत्तमः A. B. C.)गुणो मतः ॥ 33 ॥
View Verse
धर्मो ज्ञानं च वैराग्यमैश्वर्यं चेति वर्णितः(वर्णितम् E. F.)।
धर्मादिको गुणो यस्मादधर्माद्याः प्रकीर्तिताः ॥ 34 ॥
View Verse
महान्तमाविशन्त्येनं प्रेरयामि स्वसृष्टये(सिसृक्षया G.)।
प्रेर्यमाणात्ततस्तस्मादहंकारश्च जज्ञिवान् ॥ 35 ॥
View Verse
(यः पूर्वं E.)पूर्वं यः शंकरः प्रोक्तो महामायासमुद्भवः।
या पत्नी तस्य गौरी सा जज्ञेऽभिमतिरत्र तु ॥ 36 ॥
View Verse
आविश्यामुमहंकारं सृष्टये प्रेरयाम्यहम्।
स बभूव त्रिधा पूर्वं गुणव्यतिकरात्तदा ॥ 37 ॥
View Verse
तामसस्तत्र भूतादिस्तस्य सर्वमिदं श्रृणु।
भूतादेः शब्दतन्मात्रं तन्मात्राच्छब्दसंभवः ॥ 38 ॥
View Verse
मत्प्रेरिताच्छब्दमात्रात्स्पर्शमात्रं बभूव ह।
स्पर्शस्तु स्पर्शतन्मात्रात्तन्मात्रात्प्रेरितान्मया ॥ 39 ॥
View Verse
तदासीद्रूपतन्मात्रं तस्माच्च प्रेरितान्मया।
रूपमाविर्बभूवाद्यं रसमात्रं ततः परम् ॥ 40 ॥
View Verse
रसमात्रान्मया (क्षुब्धात् E. I.)क्षिप्तात्तस्माज्जज्ञे रसस्ततः।
गन्धतन्मात्रमप्यासीत्तस्माच्च प्रेरितान्मया ॥ 41 ॥
View Verse
शुद्धो गन्धः समुद्भूत इतीयं भौतिकी भिदा।
मात्राणि सूक्ष्मभूतानि स्थूलभूतानि चापरे ॥ 42 ॥
View Verse
शब्दादयः समाख्याता गुणाः शब्दादयस्तु ये।
स्थूलभूतविसर्गास्ते नान्ये शब्दादयो गुणाः ॥ 43 ॥
View Verse
शान्तत्वं चैव घोरत्वं मूढत्वं चेति तत् त्रिधा।
सत्त्वाद्युन्मेषरूपाणि तानि सूक्ष्मेषु सन्ति न ॥ 44 ॥
View Verse
तेन तन्मात्रता तेषां सूक्ष्माणां परिकीर्तिता।
सुखदुःखादिदायित्वात् स्थूलत्वमितरत्र तु ॥ 45 ॥
View Verse
स्थूलानामेव भूतानां त्रिधावस्था(अवस्थाः F.) प्रकीर्तिता(प्रकीर्तिताः A. F.)।
सूक्ष्मास्च पितृजाश्चैव प्रभूता इति भेदतः ॥ 46 ॥
View Verse
घटाद्या (विषयाः E. I.)विविधा बाह्याः प्रभूता इति शब्द्यते।
शुक्लशोणितसंभूता विशेषाः पितृजाः स्मृताः ॥ 47 ॥
View Verse
सूक्ष्मास्तु पञ्चभूताः स्युः सूक्ष्मदेहव्यपाश्रयाः।
सर्गो भूतादिजो ह्येवं क्रमशः परिकीर्तितः ॥ 48 ॥
View Verse
अहंकारस्य यावंशौ रजःसत्त्वसमाश्रयौ।
वैकारिक इति प्रोक्तः सात्त्विकोंऽशस्तयोः परः(अंशस्तु योऽपरः E.) ॥ 49 ॥
View Verse
तैजसः कथितः सद्भिस्तयोः सृष्टिमिमां श्रृणु।
वैकारिकादहंकारादासीच्छ्रोत्रादिधीन्द्रियम् ॥ 50 ॥
View Verse
कर्मेन्द्रियं च वागादि तैजसात्संप्रवर्तते।
(A. B. D. F. G. omit 9 lines from here.)उभयस्मात्ततश्चासीद् बुद्धिकर्मेन्द्रियं मनः ॥ 51 ॥
View Verse
श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम्।
बुद्धीन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ॥ 52 ॥
View Verse
वाक् च हस्तौ च पादौ च तथोपस्थं च पायु च।
कर्मेन्द्रियाणि पञ्चाहुः शक्तिरेषा मदात्मिका ॥ 53 ॥
View Verse
या सा विज्ञानशक्तिर्मे पारंपर्यक्रमागता।
बुद्धीन्द्रियाण्यधिष्ठाय विषयेषु प्रवर्तते ॥ 54 ॥
View Verse
क्रियाशक्तिस्च या सा मे पारंपर्यक्रमागता।
कर्मेन्द्रियाण्यधिष्ठाय कर्तव्येषु प्रवर्तते ॥ 55 ॥
View Verse
श्रोत्रस्य विषयः शब्दः श्रवणं च क्रिया मता।
त्वचश्च विष्यः स्पर्शः स्पर्शनं च क्रिया मता ॥ 56 ॥
View Verse
चक्षुषो विषयो रूपं दर्शनं च क्रिया मता।
जिह्वाया विषयो रस्यो रसनं च क्रिया मता ॥ 57 ॥
View Verse
घ्राणस्य विषयो गन्ध आघ्राणं च क्रिया मता।
वृत्तयो विषयेष्वस्य श्रोत्रादेः श्रवणादयः ॥ 58 ॥
View Verse
(आलोचनादि A. B. C. G.)आलोचनानि कथ्यन्ते धर्मिमात्रग्रहश्च सः।
दिक् च विद्युत्तथा सूर्यः सोमो वसुमती तथा ॥ 59 ॥
View Verse
अदिदैवमिति प्रोक्तं क्रमाच्छ्रोत्रादिपञ्चके।
(C. omits this and the next line.)अधिभूतमिति प्रोक्तः शब्दाद्यो विषयः क्रमात् ॥ 60 ॥
View Verse
श्रोत्रादिपञ्चकं त्वेतदध्यात्मं परिकीर्तितम्।
(श्रोत्रादिसात्विकी G.)श्रोत्रादेः सात्त्विकात्सृष्टिर्वियदादिव्यपेक्षया ॥ 61 ॥
View Verse
तेन भौतिकमित्युक्तं क्रमाच्छ्रोत्रादिपञ्चकम्।
वाचस्तु विषयः शब्दो वचनं च क्रिया मता ॥ 62 ॥
View Verse
(F. G. omit this line.)हस्तेन्द्रियस्य चादेयमादानं च क्रिया मता।
पादेन्द्रियस्य गन्तव्यं गमनं च क्रिया मता ॥ 63 ॥
View Verse
उपस्थस्य तदानन्द्यमानन्दश्च क्रिया मता।
विसृज्यं विषयः पायोर्विसर्गश्च क्रिया मता ॥ 64 ॥
View Verse
हस्तादिकं चतुष्कं यत्तत्पञ्चविषयात्मकम्।
अग्निरिन्द्रश्च विष्णुश्च (तथैव द्यौः A. G.)तथैवाद्यः प्रजापतिः ॥ 65 ॥
View Verse
मित्रश्चेति क्रमाज्ज्ञेया अदिदेवा विचक्षणैः।
शब्दः पञ्चात्मकं चैव वागादेर्विषयो हि यः ॥ 66 ॥
View Verse
सोऽधिभूत इति प्रोक्तो वागाद्यध्यात्ममुच्यते।
मनस्तु सहकार्यस्मिन्नुभयत्रापि पञ्चके ॥ 67 ॥
View Verse
(ज्ञानेन्द्रियगणे चैतत् A. B.)ज्ञानेन्द्रियगणैश्चैतद्विकल्पं तनुते मनः।
विकल्पो विविधा क्लृप्तिस्तच्च प्रोक्तं विशेषणम् ॥ 68 ॥
View Verse
धर्मेण सह संबन्धो धर्मिणश्च स उच्यते।
विकल्पः पञ्चधा ज्ञेयो द्रव्यकर्मगुणादिभिः ॥ 69 ॥
View Verse
दण्डीति द्रव्यसंयोगाच्छुक्लो गुणसमन्वयात्।
गच्छतीति क्रियायोगात्पुमान् सामान्यसंस्थितेः(संगमात् E.) ॥ 70 ॥
View Verse
(A. B. D. F. G. omit four lines from here.)डित्थः शब्दसमायोगादितीयं पञ्चधा स्थितिः।
कर्मेन्द्रियगणैश्चैतत्संकल्पं तनुते मनः ॥ 71 ॥
View Verse
औदासीन्यच्युतिर्या सा संकल्पोद्योगनामिका।
अहंकारेण चैतस्मिन्रुभयत्र गणे स्थितिः ॥ 72 ॥
View Verse
ज्ञानेन्द्रियगणे सोऽयमभिमानेन वर्तते।
देशकालान्वयो ज्ञातुरभिमानः प्रकीर्तितः ॥ 73 ॥
View Verse
ममाद्य पुरतो भातीत्येवं वस्तु प्रतीयते।
कर्मेन्द्रियगणे त्वेष संरम्भेण प्रवर्तते ॥ 74 ॥
View Verse
संकल्पपूर्वरूपस्तु(रूपं तु E.) संरम्भः(संभ्रमः I.) परिकीर्तितः।
बुद्धिरध्यवसायेन ज्ञानेन्द्रियगणे स्थिता ॥ 75 ॥
View Verse
बुद्धिरध्यवसायार्थावधारणमुदीर्यते।
अवधारणमर्थानां निश्चयः परिकीर्तितः ॥ 76 ॥
View Verse
कर्मेन्द्रियगणे बुद्धिः प्रयत्नेन प्रवर्तते।
त्रयोदशविधं ज्ञेयं(तत्र E. I.) तदेतत्करणं बुधैः ॥ 77 ॥
View Verse
बाह्यं दशविधं ज्ञेयं त्रिधान्तःकरणं स्मृतम्।
त्रयोविंशतिरेते तु (विराजः B.)विकाराः परिकीर्तिताः ॥ 78 ॥
View Verse
करणानि दश त्रीणि सूक्ष्मांशाः स्थूलसंभवाः।
एतत्सृक्ष्मशरीरं तु विराजः परिकीर्तितम् ॥ 79 ॥
View Verse
(सृष्टयः E. I.)व्यष्टयः सूक्ष्मदेहाश्च(भेदाश्च A. B.) प्रतिजीवं व्यवस्थिताः॥
अपवर्गे निवर्तन्ते जीवेभ्यस्ते स्वयोनिजाः ॥ 80 ॥
View Verse
अन्योन्यानुग्रहेणैते त्रयोविंशतिरुत्थिताः(ऊर्जिताः A. B. D.)।
महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ॥ 81 ॥
View Verse
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्(सहस्रभम् G.)।
तस्मिन् प्रजापतिर्जज्ञे विराड्‌ देवश्चतुर्मुखः ॥ 82 ॥
View Verse
विराजश्च मनुर्जज्ञे मनोस्ते मानवाः स्मृताः।
मरीचिप्रमुखास्तेभ्यो जगदेतच्चराचरम् ॥ 83 ॥
View Verse
प्रकारोऽयं ममोद्यत्या लेशतस्ते प्रदर्शितः।
(स्वच्छा F.)स्वतः शुद्धापि चिच्छक्तिः संविद्धानाद्यविद्यया ॥ 84 ॥
View Verse
दुःखं जन्मजराद्युत्थं तत्रस्था प्रतिपद्यते।
शुद्धविज्ञानसंबन्धाच्छुद्धकर्मसमन्वयात्।
यदा धुनोत्यविद्यां तां तदा (सानन्त्य E.)सानन्दमश्नुते ॥ 85 ॥
View Verse

Chapter - 6

षष्ठोऽध्यायः - 6
श्रीः(श्रीरुवाच B.)---
पूर्णस्तिमितषाड्‌गुण्यचिदानन्दमहोदधेः।
अहंताहं हरेराद्या निस्तरङ्गार्णवाकृतेः ॥ 1 ॥
View Verse
साहमेवंविधा शुद्धा क्वचिदुच्छूनतां गता।
सिसृक्षालक्षणा देवी स्वतन्त्रा सच्चिदात्मिका ॥ 2 ॥
View Verse
षट्‌कोशतां समापद्ये सत्ताहं वैष्णवी परा।
शक्तिर्माया प्रसूतिश्च प्रकृतिस्रिगुणात्मिका ॥ 3 ॥
View Verse
ब्रह्माण्डं (जीवदेहाश्च B.)जीवलदेहश्चेत्येते षट्‌कोशसंज्ञिताः।
सिसृक्षा या परा विष्णोरहंतायाः समुद्गता ॥ 4 ॥
View Verse
शक्तिः सा प्रथमः कोशः शुद्धमार्गप्रवर्तनी।
कोशः कुलायपर्यायः शरीरापरनामवान् ॥ 5 ॥
View Verse
शुद्धेऽस्मिन् प्रथमे कोशे प्रथमोन्मेषलक्षणे।
अहंमानी परो ह्यासीद्देवः संकर्षणः प्रभुः ॥ 6 ॥
View Verse
तिलकालकवत्तत्र विकारो मसृणः स्थितः।
तस्याहंता तु (देवी या E. I.)या देवी साहं (संकर्षणी B.)सांकर्षणी परा ॥ 7 ॥
View Verse
श्रीरित्येव(एवं B.) समाख्याता विज्ञानबलशालिनी।
यस्तस्या मे समुन्मेषः प्रद्युम्नः स तु कीर्त्यते ॥ 8 ॥
View Verse
संकर्षणस्य देवस्य शक्तिकोशाभिमानिनः।
(बुद्धिवत् A. B.)बुद्धित्वे वर्तते देवः प्रद्युम्नः पुरुषोत्तमः ॥ 9 ॥
View Verse
भोक्तृभोग्यसमष्टिस्तु निलीना(निलीनं B.) तत्र तिष्ठति।
मनोभूतस्य देवस्य तस्याहंता तु या स्मृता ॥ 10 ॥
View Verse
साहं सरस्वती नाम (वीर्यशौर्य A. I.)वीर्यैश्वर्यविवर्तिनी।
यो मे तस्याः समुन्मेषः सोऽनिरुद्धः प्रकीर्तितः ॥ 11 ॥
View Verse
तस्य संकर्षणस्याहमहंकारविधौ स्थिता।
संकर्षणादयो देवास्त्रय एते पुरातनाः ॥ 12 ॥
View Verse
जीवो बुद्धिरहंकार इति नाम्ना प्रकीर्तिताः।
नैवैते प्राकृता देवाः किंतु शुद्धचिदात्मकाः ॥ 13 ॥
View Verse
आदिव्यूहस्य(व्यूढस्य F.) देवस्य वासुदेवस्य दीव्यतः।
तत्तत्कार्यकरत्वेन तत्तन्नाम्ना निरूपिताः ॥ 14 ॥
View Verse
सर्वे ते षड्‌गुणाः प्रोक्ताः सर्वे ते पुरुषोत्तमाः।
पूर्णस्तिमितषाड्‌गुण्यसदानन्दमहोदधेः ॥ 15 ॥
View Verse
षण्णां युगपदुन्मेषो गुणानां(उन्मेषात् षाड्‌गुण्यं B.) कार्यवत्तया।
योऽभूत्स वासुदेवस्तु व्यूहः प्रथमकल्पितः ॥ 16 ॥
View Verse
तस्य शान्तिरहंता तु साहं शक्तिः प्रकीर्तिता।
शक्तिकोशस्थिता देवाः (त्रयस्ते E. I.)सूयन्ते यत्र चिन्तिताः ॥ 17 ॥
View Verse
अनिरुद्धस्य याहंता रतिरित्येव संज्ञिता।
सैव देवी महालक्ष्मीर्मायाकोशः स उच्यते ॥ 18 ॥
View Verse
महालक्ष्म्या य उन्मेषो मायाया गुणसंज्ञितः।
महाकालीमहाविद्याद्वयं संपरिकीर्त्यते ॥ 19 ॥
View Verse
महालक्ष्मीमहामायामहाविद्यामयो महान्।
प्रसूतिर्नाम कोशो मे तृतीयः परिपठ्यते ॥ 20 ॥
View Verse
त्रीण्यत्र मिथुनान्यासन् यानि पूर्वोदितानि ते।
प्रधानं सलिलीकृत्य यच्छेते पुरुषोत्तमः ॥ 21 ॥
View Verse
सा प्रोक्ता प्रकृतिर्योनिर्गुणसाम्यस्वरूपिणी।
विरिञ्चोऽजनयद्यद्वै पूर्वमण्डं स्वमात्मनि ॥ 22 ॥
View Verse
तदेके प्रकृतिं प्राहुस्तत्त्वशास्त्रविशारदाः।
महदाद्यैः पृथिव्यन्तैरण्डं यन्निर्मितं सह ॥ 23 ॥
View Verse
तद्ब्रह्माण्डमिति(ब्रह्माण्डमिदं E.) प्रोक्तं यत्र ब्रह्मा विराडभूत्।
अङ्गप्रत्यङ्गयुक्तं यच्छरीरं (जीवतामिह E.)जीविनामिह ॥ 24 ॥
View Verse
एषा कोशविधा षष्ठी क्रमशस्तनुतां गता।
अवरोहाः षडेते मे पूर्णायाः परिकीर्तिताः ॥ 25 ॥
View Verse
आद्ये कोशे स्वयं देवस्रिधैवाहंतया स्थितः।
पञ्चस्वन्येषु कोशेषु जीवा नानाविधाः स्थिताः ॥ 26 ॥
View Verse
शुभाशुभविभागोत्थां भजन्ते विविधां दशाम्।
दिव्यास्तिस्रस्रयस्तासां(त्रयस्त्वासां E. I.) मिथुनानि च यानि तु ॥ 27 ॥
View Verse
अण्डमध्येऽवताराश्च तासां तेषां च ये स्मृताः।
स्वातन्त्र्यनिर्मितास्त्वेते(निर्मितास्ते ते E. I.) नैव कर्मवशानुगाः ॥ 28 ॥
View Verse
अप्राकृताश्च ते देहा उभयेषां प्रकीर्तिताः।
अन्ये पञ्चसु कोशेषु देवाद्याः स्थावरान्तिमाः ॥ 29 ॥
View Verse
नानास्थानजुषो जीवाः कर्मभिः संसरन्ति ये।
(अधिकारं E.)अधिकारक्षयं नीत्वा शुभपाकवशादिमे ॥ 30 ॥
View Verse
संप्राप्य ज्ञानभूयस्त्वं योगक्षपितकल्मषाः।
आरोहन्ति शनैः कोशानारूढा न पतन्ति ते ॥ 31 ॥
View Verse
सत्यलोकात्प्रभृत्येते यां भूमिमधिरोहिताः।
पुनस्ते न निवर्तन्ते तिष्ठन्त्यूर्ध्वं व्रजन्ति ते ॥ 32 ॥
View Verse
शक्रः(शक्र उवाच F.)---
क्षीरोदसंभवे देवि पद्मनाभकुटुम्बिनि।
जीवः को नाम (तं E.)तद्‌ ब्रूहि नमस्ते पद्मसंभवे ॥ 33 ॥
View Verse
पूर्णाहंता हरेराद्या साहं सर्वेश्वरी परा।
(सत्याः E.)तस्याः स्मृताश्चतस्रो मे दशास्त्रिदशपुंगव ॥ 34 ॥
View Verse
प्रमातेति विधा त्वेका तदन्तःकरणं परा।
बहिः करणमन्या च चतुर्थी भावभूमिका ॥ 35 ॥
View Verse
प्रमाता चेतनः प्रोक्तो मत्संकोचः स उच्यते।
अहं हि देशकालाद्यैरपरिच्छेदमीयुषी ॥ 36 ॥
View Verse
स्वातन्त्र्यादेव संकोचं भजाम्यजहती स्वताम्।
प्रथमस्तत्र संकोचः प्रमातेति प्रकीर्त्यते ॥ 37 ॥
View Verse
चिदात्मनि यथा विश्वं मयि लीनमवस्थितम्।
प्रमातरि तथैवैतद्दर्पणोदरशैलवत् ॥ 38 ॥
View Verse
ऐकरूप्यं द्विरूपत्वं त्रिरूपत्वं चतुर्भिदाम्।
(षट्‌सप्तपञ्च A. B. C.)सप्तपञ्चकरूपत्वं प्रमाता यत्प्रपद्यते ॥ 39 ॥
View Verse
प्रकाशेनात्मनो(आत्मना E.) ह्येको ग्राह्यग्राहकतावशात्।
द्वैरूप्यं तत्त्रिरूपत्वं ज्ञानाकारक्रियात्मना ॥ 40 ॥
View Verse
(तानि F.)कानि तत्त्वानि पद्माक्षि कति कीदृग्विधानि च ॥ 41 ॥
एतत्पृष्टा मया ब्रूहि नमस्ते (पद्म B.)सिन्धुसंभवे।
View Verse
ज्ञानकर्मविभेदेन त्रीण्यन्तःकरणानि च।
प्रकृतिश्च प्रसूतिश्च माया सत्त्वं रजस्तमः ॥ 43 ॥
View Verse
कालश्च नियतिः शक्तिः पुरुषः परमं नभः।
भगवानिति तत्त्वानि सात्त्वताः समधीयते ॥ 44 ॥
View Verse
शक्रः---
मया श्रुतानि तत्त्वानि त्वद्वक्त्रसरसीरुहात्।
व्याचक्ष्वैतानि मे देवि नमस्ते सरसीरुहे ॥ 45 ॥
View Verse

Chapter - 7

सप्तमोऽध्यायः - 7
श्रीः(श्रीरुवाच B.)---
व्याचक्षेऽहं (तु ते E. I.)ततः शक्र क्रमशस्तत्त्वपद्धतिम्।
शुद्धाशुद्धविमिश्रेयं तत्त्वपद्धतिरुच्यते ॥ 1 ॥
View Verse
(निर्नीरदा E. I.)निरम्भोदाम्बराभासो निष्पन्दोदधिसंनिभः।
स्वच्छस्वच्छन्दचैतन्यसदानन्दमहोदधिः ॥ 2 ॥
View Verse
आकारदेशकालादिपरिच्छेदविवर्जितः(विशेषणविवर्जितः A. B. C. F.)।
भगवानिति विज्ञेयः परमात्मा सनातनः ॥ 3 ॥
View Verse
तस्याहंता परा तादृग्भगवत्ता सनातनी।
नारायणी परा सूक्ष्मा निर्विकल्पा निरञ्जन ॥ 4 ॥
View Verse
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः।
षण्णां युगपदुन्मेषो गुणानां प्रथमो हि यः ॥ 5 ॥
View Verse
भवद्भावात्मकत्वेन द्विधा स व्यपदिश्यते।
भवंस्तु वासुदेवोऽत्र भावोऽस्मिन् वासुदेवता ॥ 6 ॥
View Verse
शान्तिर्नाम्ना समाख्याता साहं देवी सनातनी।
संकर्षणादयो व्यूहाः साहंताः प्राङ्‌ निरूपिताः ॥ 7 ॥
View Verse
त्रयश्च चातुरात्म्यं तच्चत्वारोऽमी सुरेश्वर।
एतावद्भगवद्वाच्यं (तत्त्वतः D. E. I.)निस्तत्त्वं तत्त्वमुत्तमम् ॥ 8 ॥
View Verse
नभस्तु परमं व्योम परमाकाशशब्दितम्।
यत्र (देशे B. F.)देवो मया सार्धं विभज्यात्मानमात्मना ॥ 9 ॥
View Verse
क्रीडते रमया विष्णुः परमात्मा सनातनः।
षाड्‌गुण्यस्य समुन्मेषः स देशः परमाम्बरम् ॥ 10 ॥
View Verse
पुरुषो भोक्तृकूटस्थः सर्वज्ञः सर्वतोमुखः।
अंशतः प्रसरन्त्यस्मात्सर्वे जीवाः सनातनाः ॥ 11 ॥
View Verse
(प्रल्ये त्वपि यान्त्येनं A.; प्रलयेऽपि विशन्त्येनं E. F. I.)प्रलये त्वपियन्त्येनं कर्मात्मानो नरं परम्।
इयं मातृदशा सा मे (पूर्वमेव B. F.)या ते पूर्वं मयोदिता ॥ 12 ॥
View Verse
महालक्ष्मीः समाख्याता शक्तितत्त्वं मनीषिभिः।
नियतिस्तु महाविद्या कालः काली प्रकीर्तिता ॥ 13 ॥
View Verse
सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम्।
सुखरूपं स्मृतं सत्त्वं स्वच्छं ज्ञानकरं (सुर B.)लघु ॥ 14 ॥
View Verse
दुःखरूपं रजो ज्ञेयं चलं रक्तं प्रवर्तकम्।
(E. omits three lines from here.)मोहरूपं तमो ज्ञेयं गुरु कृष्णं नियामकम् ॥ 15 ॥
View Verse
माया चैव प्रसूतिश्च प्रकृतिश्चेति(प्रकृतिश्चैव B.) वासव।
पुरस्ताद्व्याकृतं तुभ्यं तदेतत्प्रकृतित्रिकम् ॥ 16 ॥
View Verse
(A. B. C. I. omit this line.)भूतानि दशसंख्यानि तथा खानि त्रयोदश।
त्रयोविंशतिरप्येते सुस्पष्टं व्याकृता पुरा(व्याकृतं मया B.) ॥ 17 ॥
View Verse
तदयं मम संकोचः प्रमाता शुद्धचिन्मयः।
स्वान्तःस्फुरिततत्त्वौघः स्थितो दर्पणवत्सदा ॥ 18 ॥
View Verse
चातूरूप्यं तु यत्तस्य तदिहैकमनाः शृणु।
आद्यं शून्यमयो माता मूर्छादौ परिकीतितः ॥ 19 ॥
View Verse
(B. omits this line.)ततः प्राणमयो माता सुषुप्तौ परिकीर्तितः।
प्राणा एव प्रतायन्ते सुषुप्तौ पुरुषस्य तु ॥ 20 ॥
View Verse
मूर्छाविषोपघातादौ प्राणोऽपि विनिवर्तते।
केवलं स्वात्मसत्तैव(संज्ञैव G.) ततः शून्यस्तदा पुमान् ॥ 21 ॥
View Verse
तृतीयोऽष्टपुरीमात्रः स्वप्ने माता प्रकीर्तितः।
प्राणा भूतानि कर्माणि करणानि त्रयो गुणाः ॥ 22 ॥
View Verse
प्राग्वासना अविद्या च लिङ्गं पुर्यष्टकं स्मृतम्।
स्वप्नेऽन्तःकरणेनैव स्वैरं हि परिवर्तते ॥ 23 ॥
View Verse
चेष्टमानः स्वदेहेन देही जाग्रद्दशां गतः।
चातूरूप्यमिदं (पुंसां B.)पुंसस्रैरूप्यमपि मे शृणु ॥ 24 ॥
View Verse
ज्ञानक्रियास्वरूपाणां संकोचस्रिविधस्तु यः(विधः स्मृतः B.)।
तस्य तद्धि त्रिरूपत्वं तस्य व्याख्यामिमां शृणु ॥ 25 ॥
View Verse
मायया ज्ञानसंकोच (ज्ञानै I.)आनैश्वर्यात्क्रियाव्ययः।
अशक्तेरणुता रूपे त्रिधैव व्यपदिश्यते ॥ 26 ॥
View Verse
अणुः किंचित्करश्चैव किंचिज्ज्ञश्चायमित्युत(उच्यते B. D.)।
द्वैरूप्यमैकरूप्यं च पूर्वमेव निरूपितम् ॥ 27 ॥
View Verse
एवं (मातृदशामेत्य सविशेषाः प्रकीर्तिताः A. B.)मातृदशा मेऽद्य सविशेषा प्रकीर्तिता।
आन्तः करणिकीं चैव दशां शक्राद्य मे शृणु ॥ 28 ॥
View Verse
स्वच्छन्दा संविदेवाहं स्वतश्चेतनतां गता।
हित्वा चेतनतां तां चाप्यवरूढा ततः (पदात् E. I.)क्रमात् ॥ 29 ॥
View Verse
चैत्यसंकोचनी चित्तमन्तः करणमीरितम्।
मनोबुद्धिरहंकार इत्येतत् त्रितयं च(तु B. I.) तत् ॥ 30 ॥
View Verse
(विकल्पो व्यवसायः A. I.)विकल्पोऽध्यवसायश्चाप्यभिमानश्च वृत्तयः।
मनो विकल्पयत्यर्थमहंकारोऽभिमन्यते ॥ 31 ॥
View Verse
अध्यवस्यति बुद्धिश्च चेतनाधिष्ठिता सदा।
बुद्धिरध्यात्ममित्युक्ता निर्णयोऽप्यधिभूतकम्(अधिभौतिकम् A. B.) ॥ 32 ॥
View Verse
बुद्धिदर्पणसंलीनः क्षेत्रज्ञश्चाधिदैवतम्।
अहंकृतिस्तथाध्यात्ममभिमानोऽधिभूतकम् ॥ 33 ॥
View Verse
अधिदैवमथो रुद्रो मनोऽध्यात्मं प्रकीर्तितम्।
विकल्पोऽप्यधिभूतस्तु चन्द्रमा अधिदैवतम् ॥ 34 ॥
View Verse
प्राणसंरम्भसंकल्पा गुणा एषां क्रियाविधौ।
(F. omits this line.)प्राणः प्रयत्न इत्युक्तः संरम्भो गर्व उच्यते ॥ 35 ॥
View Verse
(E. I. omit this line; फलस्वत्वस्वरूपश्च संरम्भो गर्व उच्यते B.)फलस्वाम्यस्वरूपश्च गर्वः संरम्भ उच्यते।
औदासीन्यच्युतिः प्रोक्तः संकल्पो मानसो बुधैः ॥ 36 ॥
View Verse
व्याख्यातेयं द्वितीया मे ह्यान्तःकरणिकी दशा।
प्रच्यवन्ती ततो रूपादान्तः करणिकादहम् ॥ 37 ॥
View Verse
स्त्यानतां क्रमशः प्राप्ता बहिष्करणसंज्ञिता(संज्ञिका E.)।
करणानि तु बाह्यानि व्याख्यातानि मया पुरा ॥ 38 ॥
View Verse
ज्ञानेन्द्रियप्रवृत्तौ तु मनआदि प्रवर्तते।
चक्षुरालोकयत्यर्थं विकल्पयति (कर्मणः E. I.)तन्मनः ॥ 39 ॥
View Verse
(आलोचन I.)आलोकनविकल्पस्थमहंकारोऽभिमन्यते।
अध्यवस्य ततो बुद्धिः क्षेत्रज्ञाय प्रयच्छति ॥ 40 ॥
View Verse
कर्मेन्द्रियप्रवृत्तौ तु विपर्यस्तः क्रमः स्मृतः।
संकल्पादेः पराचीना वचनादिक्रिया यतः ॥ 41 ॥
View Verse
अध्यात्मादिविशेषोऽत्र सर्वः पूर्वमुदीरितः।
तृतीयेयं विधाख्याता बहिष्करणवर्तिनी ॥ 42 ॥
View Verse
चतुर्थीं त्वमिमां कोटिं मेयरूपां तु मे शृणु।
मेयं (तद्‌ E.)तु द्विविधं तावद्बहिरन्तर्व्यवस्थया ॥ 43 ॥
View Verse
बाह्यं तु नीलपीतादि सुखदुःखाद्यथान्तरम्।
आभिश्चतसृभिश्चाहं विधाभिः स्त्यानतां गता ॥ 44 ॥
View Verse
स्वचित्तोत्थविकल्पार्थैः प्रत्यक्षाप्यस्मि विस्मृता।
सदाचार्योपदेशेन सत्तर्कमनुरुन्धता ॥ 45 ॥
View Verse
निरूप्ये निपूणैर्यत्र (मेयेवास्मि A. B. D. I.)मेयेऽप्यस्मि तदा स्फुटम्।
विलाप्य सकलं भावं चेत्यरूपमिमं तथा ॥ 46 ॥
View Verse
स्वच्छन्दा पूर्णचिद्रूपा प्रकाशेऽहं तदा स्वयम्।
स्वच्छा स्वच्छतरा साहं ततः करणसंज्ञिता ॥ 47 ॥
View Verse
ततो मातर्यतिस्वच्छा स्फुरामि स्वच्छचिन्मयी।
आरोहमवरोहं च भावयन्मामकावुभौ।
मच्चित्तो मद्गतप्राणो मद्भावायोपपद्यते ॥ 48 ॥
View Verse

Chapter - 8

अष्टमोऽध्यायः - 8
शक्रः---
नमस्ते सिन्धुसंभूते नमस्ते पद्मसंभवे।
नमः सरोरुहावासे नारायणकुटुम्बिनि ॥ 1 ॥
View Verse
अवतारास्तु ये प्रोक्तास्त्वदीयाः कोशपञ्चके।
(तन्मे A.) तान्मे विस्तरतः पद्मे पृच्छते वक्तुमर्हसि ॥ 2 ॥
View Verse
किमर्थाः किंप्रकारास्ते कियन्तः किंस्वरूपकाः।
तत्त्वं कथय मे देवि सर्वज्ञा ह्यसि शाश्वती ॥ 3 ॥
View Verse
अतरङ्गमनिर्देश्यमप्रकम्प्यमनूपमम्(अरूपकम् E. I.)।
(अप्रकाश C.) अप्रकारमसंभेद्यमविकल्पमनाकुलम्(अविकारमनाकुलम् B.) ॥ 4 ॥
View Verse
एकं नारायणं ब्रह्म शून्यं शुद्धं निरामयम्।
(B. omits 8 lines from here.) यदिदं दृश्यते किंचिच्छ्रूयते वानुमीयते ॥ 5 ॥
View Verse
प्रमाणत्रयसंबोध्यं(संभेद्यं A. C. I.) भावाबावस्वलक्षणम्।
चराचरणमु स्थूलं चेतनाचेतनं जगत् ॥ 6 ॥
View Verse
तदिदं सकलं ब्रह्म नारायणमनुत्तरम्(अहं भवत् A. F.; अनुत्तमम् E. I.)।
(F. omits 4 lines from here.) अविद्याविधुरानन्दस्वच्छस्वच्छन्दिचद्धनम् ॥ 7 ॥
View Verse
भवद्भावात्मकं दिव्यमध्वनः पारमुत्तमम्।
शक्तिमच्छक्तिभावेन तद्‌ द्विधा व्यवतिष्ठते ॥ 8 ॥
View Verse
शक्तिमत्तत् परं ब्र्हन नारायणमहं भवत्।
शक्तिर्नारायणी साहमहंता भावरूपिणी ॥ 9 ॥
View Verse
स प्रदेशो न तस्यास्ति येन भूतं मया विना।
स प्रदेशो न मे कश्चिद्विना तद्येन भूयते ॥ 10 ॥
View Verse
एकधा (तत् B.)च द्विधा चैव तैस्तैस्तत्त्वाब्धिपारगैः।
व्यपदिश्यावहे शास्त्रैस्तावावां सर्वकारणम् ॥ 11 ॥
View Verse
भावोत्तरा क्वचित्सृष्टिः क्वचित्सा भवदुत्तरा।
भवद्भावोत्तरा क्वापि विद्वास्तत्र न मुह्यति ॥ 12 ॥
View Verse
एक एवावतीर्णो हि देवानां कार्यवत्तया।
नारायणो यदा साहं तत्र तद्भावभाविनी ॥ 13 ॥
View Verse
एकैव चावतीर्णाहं यदा देवहितेप्सया।
अहंतायां मयि व्यक्तः स देवोऽहंपदार्थवान् ॥ 14 ॥
View Verse
अवतीर्णौ यदा तुल्यं देवकार्यचिकीर्षया।
अन्योन्ययोः स्थितावावां भवद्भावात्मकौ (दूयौ A. B. C. D.)द्वयोः ॥ 15 ॥
View Verse
इत्थं व्यवस्थिते तत्त्वे ह्यवतारगतिं शृणु।
अनिरुद्धो (अभवद्देवः A. B. G.)विभुर्देवो देवदेवः सनातनः ॥ 16 ॥
View Verse
महाविद्यासमुद्भूतस्तदाहमपि वासव।
मत्त एव महालक्ष्म्या अभूवं कमलाख्यया ॥ 17 ॥
View Verse
ताविमौ दम्पती दिव्यौ पितरौ जगतां मतौ।
पद्मनाभावतारे तु तावेतौ द्वावयोनिजौ ॥ 18 ॥
View Verse
नारायणावतारो यः शक्तीशो नाम नामतः।
प्रकारा बहवस्तस्य सर्वत्राहमनुव्रता ॥ 19 ॥
View Verse
एकधा (च चतुर्धा B. E. I.)द्विचतुर्धा च षोढा चैव तथाष्टधा।
पुनर्द्वादशधा (चेति E.)चैव तत्र नामानि मे शृणु ॥ 20 ॥
View Verse
श्रीर्नाम (द्विभुजा साहं A.; द्विभुजास्याहं D.)द्विभुजस्याहमङ्कस्था वरवर्णिनी।
तस्यैवोभयतोरूपे श्रीश्च पुष्टिश्च वासव ॥ 21 ॥
View Verse
चतुर्दिशं तु तस्यैव श्रीः कीर्तिश्च जया तथा।
मायेति कृत्वा रूपाणि (भुञ्जेऽहं E.)भुज्येऽहं तेन विष्णुना ॥ 22 ॥
View Verse
तस्यैव कोणषट्‌कस्था षोढाहं शृणु नाम च।
शुद्धिर्निरञ्जना नित्या ज्ञानशक्तिश्च वासव ॥ 23 ॥
View Verse
तथापराजिता चैव षष्ठी तु प्रकृतिः परा।
तस्यैव चाष्टधा दिक्षु साहं रूपैर्व्यवस्थिता ॥ 24 ॥
View Verse
लक्ष्मीः सरस्वती सर्वकामदा प्रीतिवर्धनी।
यशस्करी शान्तिदा च तुष्टिदा पुष्टिरष्टमी ॥ 25 ॥
View Verse
(कोणषट्‌के तु B.; कोणषट्‌के तु तस्यैव षड्‌भुजस्याहमष्टधा F.)कोणद्विषट्‌के तस्यैव स्थिता द्वादशधारम्यहम्(ह्यहम् B.)।
श्रीश्च कामेश्वरी (शान्तिः A.; कीर्तिः F.)कान्तिः क्रियाशक्तिविभूतयः ॥ 26 ॥
View Verse
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च।
एवं चतुर्भुजस्यापि षोढाहं क्रमशः स्थिता(तथा E.) ॥ 27 ॥
View Verse
तस्यैव (षड्‌भुजस्यैवं B. E.)षड्‌भुजस्याहमष्टबाहोश्च वासव।
द्विषड्‌बाहोस्तथा साहं द्विसप्तकभुजस्य च ॥ 28 ॥
View Verse
तथा षोडशहस्तस्य भुजद्विनवकस्य च।
विभज्य बहुधात्मानमियद्भेदा व्यवस्थिता ॥ 29 ॥
View Verse
अवतारो हि यो विष्णोः सिन्धुशायीति संज्ञितः।
स्थिताहं परितस्तस्य चतुर्धा रूपमेयुषी ॥ 30 ॥
View Verse
लक्ष्मीर्निद्रा तथा प्रीतिर्विद्या चेति विभेदिनी।
अवतारो हि यो विष्णोः (शक्तीशो A.)श्रीपतिर्नाम नामतः ॥ 31 ॥
View Verse
श्रीरित्येवाख्यया तत्र तस्याहं वामतः स्थिता।
अवतारो हि यो विष्णोर्नामतः पारिजातजित् ॥ 32 ॥
View Verse
(तदानन्दकरा A. G.)तदंसस्थकरा तस्य वामोत्सङ्गे हरेः स्थिता।
अवतारो हि यो विष्णोर्नाम्ना मीनधरः शुभः ॥ 33 ॥
View Verse
(अनुग्रहक्रमात्तत्र A. B. D.)अनुभ्रमामि तं तत्र साहं नौरूपधारिणी।
त्रैविक्रमोदयो विष्णोरवतारः परः स्मृतः ॥ 34 ॥
View Verse
आह्लादजननी गङ्गा तत्पादात्प्रभवाम्यहम्।
अनन्तशयनो नाम योऽवतारो हरेरहम् । 35 ॥
View Verse
स्थिता चतुर्दिशं तस्य चातुरात्म्यमुपेयुषी।
लक्ष्मीश्चिन्ता तथा निद्रा पुष्टिश्चेत्याख्यया युता ॥ 36 ॥
View Verse
इत्येषु सह सिद्धाहमवतीर्णाण्डमध्यतः।
(A. B. C. D. F. omit six lines from here.)अवताराः पृथग्भूता यदा ब्रह्माण्डमध्यतः ॥ 37 ॥
View Verse
अनुव्रता तथैवाहमवतीर्णा पृथक् पृथक्।
अवतारो हि यो नाम वराहो वेदविश्रुतः ॥ 38 ॥
View Verse
तदाहमपि भूर्नाम पृथग्भूता भजाम्यहम्।
अवतारो हि यो नाम धर्मो विष्णुः पुरातनः ॥ 39 ॥
View Verse
तदाहं भार्गवी नाम ख्यातिजा श्रीः प्रकीर्तिता।
अवतारो हि यो नाम दत्तात्रेयोऽत्रिनन्दनः ॥ 40 ॥
View Verse
तदा हि तस्य भोगाय (सरसाहं F.)सरसोऽहं समुत्थिता(सरःस्थिता B.)।
अवतारो हि यो नाम वामनो वैष्णवः शुभः ॥ 41 ॥
View Verse
पद्मादहं समुत्पन्ना तदा पद्मेति विश्रुता।
अवतारो यदा विष्णोर्भार्गवो रामसंज्ञितः ॥ 42 ॥
View Verse
तदाहं धरणी नाम शक्तिरासमयोनिजा।
अवतारो हि यो नाम रामो दाशरथिः शुभः ॥ 43 ॥
View Verse
जाता जनकयज्ञेऽहं क्षेत्राद्धलमुखक्षतात्।
नाम्ना सीतेति विख्याता दशाननविनाशनी ॥ 44 ॥
View Verse
अवतारो हि यो विष्णोश्चतुर्धा संभविष्यति।
मधुरायामहं व्यक्तिं चतुर्धैष्यामि वै तथा ॥ 45 ॥
View Verse
रेवती रुक्मिणी चैव रतिर्नाम्ना तथा ह्युषा।
अवतारान्तरं यत्तु मोहनं बुद्धसंज्ञकम् ॥ 46 ॥
View Verse
ताराहं तत्र नाम्ना वै (धरा B. E.; दारा G.)धारा चैव प्रकीतिता।
ध्रुवादयोऽवतारा ये केवला वैष्णवाः स्मृताः ॥ 47 ॥
View Verse
तत्तच्छरीरभूताहं तेषां भोग्या व्यवस्थिता।
यत्तु (तन्मोहनं D. E.; तन्मोहिनी F.)मे मोहनं रूपं श्रूयतेऽमृतधारकम् ॥ 48 ॥
View Verse
भवद्भावौ तदा तत्र रूपे तुल्योपलक्षितौ।
देवैः पुरुषरूपेण स्रीरूपेण तथेतरैः ॥ 49 ॥
View Verse
सह सिद्धं (मयीत्येतज्जन्म मे महदद्भुतम् A. G.)पृथक्सिद्धमित्येतज्जन्म मेऽद्भुतम्।
कीर्तितं तव देवेश केवलं जन्म मे श्रृणु ॥ 50 ॥
View Verse

Chapter - 9

नवमोऽध्यायः - 9
श्रीः(श्रीरुवाच B.)---
अहं नारायणी देवी नारायणमनुव्रता।
ज्ञानानन्दक्रियात्मानं ज्ञानानन्दक्रियामयी ॥ 1 ॥
View Verse
(तस्य A. B. D.)तस्या मे न विनाभावस्तेन वा तस्य वा मया।
(कर्तुं हि E. F.)प्रकर्तुं शक्यते काले कस्मिंश्चिद्देश एव वा ॥ 2 ॥
View Verse
तत्तत्कार्यवशाच्चैवान्यद्भूताद्भुतरूपकौ।
आत्मयोगबलात्तौ स्वः(तु I.) सहैव च विनैव च ॥ 3 ॥
View Verse
ब्रह्मादिर्दत्तवान् यादृक्तपोयोगबलात्कृतः।
दैत्यादिभ्यो (वरानाशु जगद्‌ध्वंसिजिघांसया A. F.)जगद्‌ध्वंसकरेब्यो वरमुत्तमम् ॥ 4 ॥
View Verse
तादृशं तादृशं रूपमास्थायावां सनातनौ।
तत्तत्प्रीतिचिकीर्षायै चरावौ देवकार्यतः ॥ 5 ॥
View Verse
मायया भावमाच्छाद्य परमार्थं स्वतेजसा।
अहमेवावतीर्णा हि तत्तद्ध्वंसिजिघांसया ॥ 6 ॥
View Verse
आदौ देवी महालक्ष्मीः स्मृताहं परमेश्वरी।
अभूवं च पुनर्द्वेधा कृष्णा ब्राह्नीति रूपतः ॥ 7 ॥
View Verse
गुणत्रयविभागेन रूपमेतत्परं मम।
महालक्ष्मीरहं शक्र पुनः स्वायंभुवेऽन्तरे ॥ 8 ॥
View Verse
हिताय सर्वलोकानां(देवानां A. B. D. F. G.) जाता महिषमर्दनी।
मदीया शक्तिलेशा ये तत्तद्देवशरीरगाः ॥ 9 ॥
View Verse
संभूय ते ममाभूवन् रूपं परमशोभनम्।
आयुधानि च देवानां यानि यानि सुरेश्वर ॥ 10 ॥
View Verse
तच्छक्तयस्तदाकारा आयुधानि ममाभवन्।
अभिष्टुता सुरैः साहं महिषं जघ्नुषी क्षणात् ॥ 11 ॥
View Verse
महिषान्तकरीसूक्तं सर्वसिद्धिप्रदं तदा(तथा A. B. I.)।
`देव्या यया' दिकं दृष्टं सेन्द्रैर्देवैः (महर्षिभिः B.)सहर्षिभिः ॥ 12 ॥
View Verse
(उत्पत्तिः E. I.)उत्पत्तिं युद्धविक्रान्तिं(विक्रान्तिः E. I.) स्तोत्रं चेति सुरेश्वर।
कथयन्ति सुविस्तीर्णं ब्राह्नणा वेदपारगाः ॥ 13 ॥
View Verse
(A. B. C. D. omit this line.)एवंप्रभावां देवीं तां स्तुवन् ध्यायन्नमन्नपि।
लभते च फलं शश्वदाधिपत्यमनश्वरम् ॥ 14 ॥
View Verse
योगनिद्रा हरेरुक्ता या सा देवी दुरत्यया।
(महाकाल्यास्तनुं B. C. E. I.)महाकालीतनुं विद्धि तां मां देवीं सनातनीम् ॥ 15 ॥
View Verse
मधुकैटभनाशे हि मोहितौ तौ(च A. B. D.) तया तदा।
जघ्नाते वरलाभेन देवदेवेन विष्णुना ॥ 16 ॥
View Verse
विश्वेस्वर्यादिकं सूक्तं दृष्टं तद्‌ ब्रह्मणा सदा(पुरा G.)।
स्तुतये योगनिद्राया मम देव्याः पुरंदर ॥ 17 ॥
View Verse
एषा सा वैष्णवी माया महाकाली दुरत्यया।
स्तुत्या वशीकृता कुर्याद्वशे स्तोतुश्चराचरम् ॥ 18 ॥
View Verse
अस्या देव्याः समुत्पत्तिश्चरितं स्तोत्रमित्यपि।
हिताय सर्वभूतानां (ध्यायन्ते D. E.)धार्यन्ते ब्रह्मवादिभिः ॥ 19 ॥
View Verse
(तापसे A. B. C.)तामसे त्वन्तरे शक्र महाविद्या (मिधा B. I.)हि या परा।
गौरीदेहात्समुद्भूता कौशिकीति (तदाप्यहम् C.)तदा ह्यहम् ॥ 20 ॥
View Verse
वधाय दुष्टदैत्यानां तथा(तदा A. B. C.) सुम्भनिसुम्भयोः।
रक्षणाय च लोकानां देवानामुपकारिणी ॥ 21 ॥
View Verse
मदीयाः शक्तयो यास्ता देवश्रेष्ठशरीरगाः।
तास्तास्तद्रूपधारिण्यः (सहायं A. D.)साहाय्यं विदधुर्हि मे ॥ 22 ॥
View Verse
ताभिर्निहत्य दैत्येन्द्रान् हन्तव्या ये तथा तथा।
संहृत्यात्मनि ताः सर्वा मदीया विप्रुषोऽखिलाः ॥ 23 ॥
View Verse
अहं निजघ्नुषी पश्चात्तयोः सुम्भनिसुम्भयोः।
`देवि प्रपन्नादिहरे प्रसीदे' त्यादिकं तथा ॥ 24 ॥
View Verse
नारायणीस्तुतिर्नाम सूक्तं परमशोभनम्।
स्तुतयो मे (सदा E.)तदा दृष्टा देवैर्वह्निपुरोगमैः ॥ 25 ॥
View Verse
एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति।
कौशिकी सर्वदेवेश(देवेशा A. B. G.) बहुकामप्रदा ह्यहम् ॥ 26 ॥
View Verse
उत्पत्तिर्युद्धविक्रान्तिः स्तुतिश्चेति पुरातनैः।
(पाठ्यते F.)पठ्यते त्रितयं विप्रैर्वेदवेदाङ्गपारगैः(बेदान्तपारगैः E.) ॥ 27 ॥
View Verse
वैवस्वतेऽन्तरे चैतौ(शक्र B.) पुनः सुम्भनिसुम्भकौ।
उत्पत्स्येते वरोन्मत्तौ देवोपद्रवकारिणौ ॥ 28 ॥
View Verse
नन्दगोपकुले जाता यशोदागर्भसंभवा।
तावहं नाशयिष्यामि सुनन्दा(सुनन्द्या E.) विन्ध्यवासिनी ॥ 29 ॥
View Verse
पुनश्चाप्यतिरौद्रेण रूपेण पृथिवीतले।
अवतीर्य हनिष्यामि वै प्रचित्तान् महासुरान् ॥ 30 ॥
View Verse
(B. omits this line; भक्षयन्त्यागतानुग्रान् F.)भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् महासुरान्।
रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ 31 ॥
View Verse
ततो मां देवताः सर्वे मर्त्यलोके च मानवाः।
स्तुवन्तो व्याहरिष्यन्ति सततं (रत्न A. C.)रक्तदन्तिकाम् ॥ 32 ॥
View Verse
तस्मिन्नेवान्तरे शक्र चत्वारिंशत्तमे युगे।
सर्वतः शतवार्षिक्यामनावृष्ट्यामनम्भसि ॥ 33 ॥
View Verse
मुनिभिः संस्मृता भूमौ संभविष्याम्ययोनिजा।
ततः शतेन नेत्राणां निरीक्षिष्याम्यहं मुनीन्(निरीक्षिष्यामि यन्मुनीन् E.) ॥ 34 ॥
View Verse
कीर्तयिष्यन्ति मां शक्र शताक्षीमिति मानवाः।
तदाहमखिलं लोकमात्मदेहसमुद्भवैः ॥ 35 ॥
View Verse
भरिष्यामि शुभैः शाकैराविष्टैः प्राणधारकैः(धारणैः D.)।
शाकंभरीति मां देवास्तदा स्तोष्यन्ति वासव ॥ 36 ॥
View Verse
तत्रैव च हनिष्यामि दुर्गमाख्यं महासुरम्।
दुर्गादेवीति विख्यातिं ततो यास्याम्यहं भुवि ॥ 37 ॥
View Verse
शाकंभरीं स्तुवन् ध्यायन्(तु संध्यायां B.) शक्र संपूजयन्नमन्।
(अक्षया A. B. C.)अक्षय्यामश्नुते शीघ्रमन्नपानोद्भवां रतिम् ॥ 38 ॥
View Verse
चतुर्युगे च पञ्चाशत्तमे मुनिभिरर्थिता।
सुन्दरं चातिभीमं च रूपं कृत्वा हिमाचरे ॥ 39 ॥
View Verse
रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात्।
ततो मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः ॥ 40 ॥
View Verse
`भीमे देवि प्रसीदे' ति भीमामभयदायिनीम्।
युगे षष्टितमे कश्चिदरुणो नाम दानवः ॥ 41 ॥
View Verse
मनुजानां मुनीनां च महाबाधां करिष्यति।
तत्राहं (भ्रमरं E. F.)भ्रामरं रूपं कृत्वासंख्येयषट्‌पदा ॥ 42 ॥
View Verse
त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम्।
भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति (संयताः A.)सर्वदा ॥ 43 ॥
View Verse
28-43. सुनन्दा-रक्तदन्तिका-शताक्षी-शाकंभरी-दुर्गा-भीमा-भ्रामरीणामुपाख्यानानि मार्कण्डेयपुराणे देवी माहात्म्ये एकादशाध्याये द्रष्टव्यानि।
इत्थं यदा यदा बाधा दानवोत्था भविष्यति।
तदा तदावतीर्याहं हनिष्यामि महासुरान् ॥ 44 ॥
View Verse
अमी ते लेशतः शक्र दर्शिताः परमाद्भुताः।
अवतारा निरातङ्का मदीयाः केवलाह्वयाः ॥ 45 ॥
View Verse
एतेषां परमा प्रोक्ता कूटस्था सा महीयसी।
महालक्ष्मीर्महाभागा प्रकृतिः परमेश्वरी ॥ 46 ॥
View Verse
अमुष्याः स्तुतये दृष्टं ब्रह्माद्यैः सकलैः सुरैः।
`नमो देव्या'दिकं सूक्तं सर्वकामप्रदं (परम् B.)वरम् ॥ 47 ॥
View Verse
इमां देवीं स्तुवन्नित्यं स्तोत्रेणानेन मामिह।
(B. F. omit this line.)क्लेशानतीत्य सकलानैश्वर्यं महदश्नुते ॥ 48 ॥
View Verse
अमुष्याः सावताराया महालक्ष्म्या ममानघ।
जन्मानि चरितैः सार्धं स्तोत्रैर्वैभववादिभिः(कारिभिः E.) ॥ 49 ॥
View Verse
कथितानि पुरा शक्र वसिष्ठेन महात्मना।
स्वारोचिषेऽन्तरे राज्ञे सुरथाय महात्मने ॥ 50 ॥
View Verse
समाधये च (वश्याय B.)वैश्याय प्रणतायावसीदते।
भक्तिश्रद्धावता नित्यं वसिष्ठेन कृतेति मे ॥ 51 ॥
View Verse
हृदि स्थिता सदा सेयं जन्मकर्मावलिस्तुतिः।
एतां द्विजमुखाच्छ्रुत्वा ह्यधीयानो नरः सदा ॥ 52 ॥
View Verse
(C. omits this line.)विधूय निखिलां मायां सम्यग्ज्ञानं समश्नुते।
(सर्व E. I.)सर्वां संपदमाप्रोति धुनोति सकलापदः ॥ 53 ॥
View Verse
मम प्रभावात् सौभाग्यं कीर्ति चैव समश्नुते।
(केवलाः कथयन्त्येते A. B. C.)केवला अपि यद्येते मदीया विष्णुना विना ॥ 54 ॥
View Verse
न मेऽस्ति संभवः सोऽयमहंभूतः स्थितोऽत्र तु।
अन्योन्येनाविनाभावादन्योन्येन समन्वयात् ॥ 55 ॥
View Verse
(मय्येवं वर्तते देवः E.)मय्ययं देवदेवेशस्तत्राहं च सनातनी।
इत्येते लेशतः शक्र दर्शिताः सप्रकारकाः ॥ 56 ॥
View Verse
अवतारा मदीयास्ते संभूताः कोशपञ्चके।
शुद्धे कोशे समुद्भूता भवद्भावात्मकाः परे(भावात्मकात्मके A. B. C.) ॥ 57 ॥
View Verse
तत्राप्येषा स्थितिर्ज्ञेया विष्णोर्मम सह स्थितिः।
एवंप्रकारां(प्रकारं E. F.) मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 58 ॥
View Verse
उपायैर्विविधैः शश्वदुपास्य (विविधा B.)बहुधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 59 ॥
View Verse

Chapter - 10

दशमोऽध्यायः - 10
शक्रः---
क्षीरोदमथनायासफलरूपे मधुद्विषः।
नमश्चन्द्रसहोदर्यै नमस्तेऽमृतयोनये ॥ 1 ॥
View Verse
भावोत्तराः प्रकारास्ते श्रुतास्त्वद्वक्त्रपङ्कजात्।
इदानीं श्रोतुमिच्छामि प्रकारान् भवदुत्तरान् ॥ 2 ॥
View Verse
वैष्णवा अवतारास्ते किंरूपाः (कथिता बुधैः E.)कति वाम्बुजे।
एतत्पृष्टा मया ब्रूहि नमस्ते पङ्कजासने ॥ 3 ॥
View Verse
(अहं ते B. C.)हन्त ते शक्र वक्ष्यामि प्रकारान् भवदुत्तरान्।
वैष्णवा अवतारास्ते यावन्तो यद्विधाश्च ते ॥ 4 ॥
View Verse
षाड्‌गुण्यममलं ब्रह्म निर्दोषमजरं ध्रुवम्।
सर्वशक्ति निरातङ्कं निरालम्बनभावनम् ॥ 5 ॥
View Verse
तदुन्मिषति वैपूर्वं शक्तिमच्छक्तिभावतः।
नारायणः परो देवः संस्थितः शक्तिमत्तया ॥ 6 ॥
View Verse
स्थिरा शक्तिरहं तस्य सर्वकार्यकरी विभोः।
तावावां जगतोऽर्थाय बहुधा विक्रियावहे ॥ 7 ॥
View Verse
यथाहमास्थिता भेदैस्तथा ते कथितं पुरा।
विकारानविकारस्य विष्णोः श्रृणु मयोदितान् ॥ 8 ॥
View Verse
अप्राकृताननौपम्यानचिन्तयमहिमोज्ज्वलान्।
स्वां शक्तिं मामधिष्ठाय प्रकृतिं परमाद्भुताम् ॥ 9 ॥
View Verse
त्रैरूप्येण जगन्नाथः समुदेति जगद्धिते।
आद्येन पररूपेण व्यूहरूपेण चाप्यथ ॥ 10 ॥
View Verse
तथा विभवरूपेण नानाभावमुपेयुषा।
व्यापको भगवान् देवो भक्तानुग्रहकाम्यया ॥ 11 ॥
View Verse
अनौपम्यमनिर्दश्यं (पुनः A. B. G. I.)वपुः स भजते परम्।
विश्वाप्यायनकं(करं E.I.) कान्त्या पूर्णेन्द्वयुततुल्यया ॥ 12 ॥
View Verse
वरदाभयहस्तं च द्विभुजं पद्मलोचनम्।
रेखामयेन चक्रेण शङ्खेन च करद्वये ॥ 13 ॥
View Verse
अङ्कितं निर्विकाराङ्‌घ्रिस्थितं परमशोभनम्।
अन्यूनानतिरिक्तैः स्वैर्गुणैः षड्‌भिरलंकृतम् ॥ 14 ॥
View Verse
समं समविभक्ताङ्नं सर्वावयवसुन्दरम्।
पूर्णमाभरणैः शुभ्रैः सुधाकल्लोलसंकुलैः ॥ 15 ॥
View Verse
रश्मिभूतैरमूर्तैः स्वैरच्युताद्यैरविच्युतम्।
एका मूर्तिरियं दिव्या पराख्या वैष्णवी परा ॥ 16 ॥
View Verse
योगसिद्धा भजन्त्येनां हृदि तुर्यपदाश्रिताम्(श्रयाम् E. F.)।
अथ व्यूहस्बरूपं ते द्वितीयं वर्णयाम्यहम् ॥ 17 ॥
View Verse
व्यूह्यात्मानं चतुर्धा स्वं देवः प्रागादिभेदतः(भेदिनः A.)।
वासुदेवादिभेदेन (सुषुप्त्यध्वनि B.; सुषुप्तात्मनि E.)सौषुप्ताध्वनि तिष्ठति ॥ 18 ॥
View Verse
(सृष्ट्यादिसंस्था मूर्तिर्वै A. B. C.)संस्थानमादिमूर्तेर्वै सर्वेषां तु समं स्मृतम्।
षड्‌गुणं प्रथमं रूपं द्वन्द्वैर्ज्ञानादिसंभवैः ॥ 19 ॥
View Verse
इतराणि स्वरूपाणि कथितानि मया पुरा(पुनः E.)।
वह्न्यर्केन्दुसहस्राभमानन्दास्पन्दलक्षणम्(आनन्दस्पन्दलक्षणम् E. F.) ॥ 20 ॥
View Verse
बीजं सर्वक्रियाणां तद्विकल्पानां तदास्पदम्।
सौषुप्तं चातुरात्म्यं तत्प्रथमं विद्धि वासव ॥ 21 ॥
View Verse
अथ स्वाप्रे पदेऽप्येवं विभज्यात्मानमात्मना।
देवः प्रागादिभेदेन वासुदेवादिरूपतः ॥ 22 ॥
View Verse
समासव्यासभेदेन गुणआनां पुरुषोत्तमः।
सितरक्तसुवर्णाभ्रसदृशैः परमाद्भुतैः ॥ 23 ॥
View Verse
आदिमूतिसमै(समो B.) रूपैश्चतुर्धा (ह्यव A. B. C. F.)व्यवतिष्ठते।
कैवल्यभोगफलदं भवबीजक्षयंकरम् ॥ 24 ॥
View Verse
चातुरात्म्यं द्वितीयं तत् सुधासंदोहसुन्दरम्।
अथ जाग्रत्पदे देवः सितरक्तादिभेदतः(भेदितैः G.) ॥ 25 ॥
View Verse
चतुर्भुजैरुदाराङ्गैः शङ्खचक्रादिचिह्नितैः।
नानाध्वजविचित्राङ्गैर्वासुदेवादिसंज्ञितैः ॥ 26 ॥
View Verse
व्यूहैः (स्वयं विभज्य E. I.)स्वं प्रविभज्यास्ते विभुर्नाम स्वलीलया।
तत्राद्यं भगवद्रूपं हिमकुन्देन्दुकान्तिमत् ॥ 27 ॥
View Verse
चतुर्भुजं सौम्यवक्त्रं पुण्डरीकनिभेक्षणम्।
पीतकौशेयवसनं सुपर्णध्वजभूषितम् ॥ 28 ॥
View Verse
मुक्यदक्षिणहस्तेन भीतानामभयप्रदम्।
तथाविधेन वामेन दधानं शङ्खमुत्तमम् ॥ 29 ॥
View Verse
अपरेण दधानं च दक्षिणेन सुदर्शनम्।
वामेन च गदां गुर्वीं निषण्णां वसुधातले ॥ 30 ॥
View Verse
संचिन्तयेत् पुरो भागे वासुदेवमितीदृशम्।
सिन्दूरशिखराकारं सौम्यवक्त्रं चतुर्भुजम् ॥ 31 ॥
View Verse
अतसीपुष्पसंकाशवसनं ताललाञ्छितम्(लाञ्छनम् F.)।
मुख्येन पाणियुग्मेन तुल्यमाद्यस्य वै विभोः ॥ 32 ॥
View Verse
सीरं तच्चक्रहस्तेऽस्य मुसलं तु (गदां E.)गदाकरे।
दक्षिणे चिन्दयेद्भागे संकर्षणमितीदृशम् ॥ 33 ॥
View Verse
प्रावृण्निशासमुदितखद्योतनिचयप्रभम्।
रक्तकौशेयवसनं मकरध्वजशोभितम् ॥ 34 ॥
View Verse
सौम्यवक्त्रं चतुर्बाहुं तृतीयं परमेश्वरम्।
मुख्यहस्तद्वयं चास्य प्राग्वत्तुल्यं महामते ॥ 35 ॥
View Verse
वामेऽपरस्मिन् शार्ङ्गं च दक्षिणे बाणपञ्चकम्।
अपरे चिन्तयेद्भागे प्रद्युम्नमिति कीर्तितम् ॥ 36 ॥
View Verse
अञ्जनाद्रिप्रतीकाशं (सुसिताम्बर B. E. I.)सुपीताम्बरवेष्टितम्।
चतुर्भुजं विशालाक्षं मृगलाञ्छनभूषितम् ॥ 37 ॥
View Verse
आदिवत् पाणियुगलमाद्यमस्य(आद्यं तस्य F.) विचिन्तयेत्।
दक्षिणादिक्रमेणाथ द्वाभ्यां वै खड्‌गखेटकौ ॥ 38 ॥
View Verse
दधानमनिरुद्धं तु सौम्यभागे विचिन्तयेत्।
वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः(लाञ्छनाः E.) ॥ 39 ॥
View Verse
शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि।
जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् ॥ 40 ॥
View Verse
स्थित्युत्पत्तिप्रलयकृत्सर्वोपकरणान्वितम्।
दिव्यं तच्चिन्तयेद्यस्य(चिन्तयेत्तस्य A. B.) विश्वं तिष्ठति शासने ॥ 41 ॥
View Verse
त्रिविधं चातुरात्म्यं तु सुषुप्त्यादिपदत्रिके।
सुव्यक्तं तत्पदे तुर्ये गुणलक्ष्यं परं स्थितम् ॥ 42 ॥
View Verse
ज्ञानक्रियादिभिर्विष्णोर्लोकाननुसिसृक्षतः।
व्यूहसंज्ञमिदं रूपं द्वितीयं कथितं मया ॥ 43 ॥
View Verse
तृतीयं विभवाख्यं तु(तं F.) विश्वमन्दिरमध्यगम्।
नानाकारक्रियाकर्तृ रूपं विष्णोर्निशामय ॥ 44 ॥
View Verse

Chapter - 11

एकादशोऽध्याः - 11
श्रीः(श्रीरुवाच B.)---
निर्दोषो (नि निष्टो यो E. I.)निरधिष्ठेयो निरवद्यः सनातनः।
विष्णुर्नारायणः (श्रीशः E. I.)श्रीमान् परमात्मा सनातनः ॥ 1 ॥
View Verse
षाड्‌गुण्यविग्रहो (नित्यः E.)नित्यं परं ब्रह्माक्षरं परम्।
तस्य मां परमां शक्तिं नित्यं तद्धर्मधर्मिणीम् ॥ 2 ॥
View Verse
सर्वभावानुगां विद्धि निर्दोषामनपायिनीम्।
सर्वकार्यकरी साहं विष्णोरव्ययरूपिणः ॥ 3 ॥
View Verse
शुद्धाशुद्धमयैर्भावैर्वितत्यात्मानमात्मना।
परव्यूहादिसंभेदं व्यूहयन्ती हरेः सदा ॥ 4 ॥
View Verse
शुद्धषाड्‌गुण्यमादाय कलपयन्ती तथा तथा।
(तेनापि विविधं E.)तेन नानाविधं रूपं(व्यूहाद्यञ्चित E.)व्यूहाद्युचितमञ्जसा ॥ 5 ॥
View Verse
उन्मेषयामि देवस्य प्रकारं भवदुत्तरम्।
व्यापारस्तस्य देवस्य साहमस्मि न संशयः ॥ 6 ॥
View Verse
मया कृतं हि यत् कर्म तेन तत् कृतमुच्यते।
अहं हि तस्य देवस्य स्मृता (व्याक्रिय A. I.)व्याप्रियमाणता ॥ 7 ॥
View Verse
इति (कृत्वा A. I.)शक्र परं रूपं व्यूहरूपं च दर्शितम्।
तृतीयं विभवाख्यं तु रूपमद्य निशामय ॥ 8 ॥
View Verse
तुर्यादिजाग्रदन्तं यत् प्रोक्तं पदचतुष्टयम्।
वासुदेवादिना व्याप्तमनिरुद्धान्तिमेन तु ॥ 9 ॥
View Verse
तत्र तत्र पदे चैव चातुरात्म्यं तथा तथा।
अव्यक्तव्यक्तरूपैः स्वैरुदितं ते यथोदितम् ॥ 10 ॥
View Verse
व्यूहाद् व्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम्।
(आनन्दं G.)अन्तरं सकलं देशं संपूरयति तेजसा ॥ 11 ॥
View Verse
(पूरितः G.)पूजितस्तेजसां राशिरव्यक्तो मूर्तिवर्जितः।
विशाखयूप इत्युक्तस्तत्तज्ज्ञानादिबृंहितः ॥ 12 ॥
View Verse
तस्मिंस्तस्मिन् पदे तस्मान्मूर्तिशाखाचतुष्टयम्।
वासुदेवादिकं शक्र प्रादुर्भवति वै क्रमात् ॥ 13 ॥
View Verse
एवं स्वप्नपदाज्जाग्रत्पदव्यूहविभावने।
स्वप्रात्पदाज्जाग्रदन्ते तैजसः पूज्यते महान् ॥ 14 ॥
View Verse
विशाखयूपो भगवान् स देवस्तेजसां निधिः।
तुर्याद्ये स्वप्नपर्यन्ते (चातुरात्म्यादिके A. B. C. D. F.)चातुरात्म्यत्रिके हि यत् ॥ 15 ॥
View Verse
तत्तदैश्वर्यसंपन्ने षाड्‌गुण्यं सुव्यवस्थितम्।
तदादायाखिलं दिव्यं (शुद्धं B.)शुद्धसंवित्पुरःसरम् ॥ 16 ॥
View Verse
विभजन्नात्मनात्मानं वासुदेवादिरूपतः(रूपकम् A. B. C.)।
(पुनर्विशाख E.)पुनविभववेलायां विना मूर्तिचतुष्टयम् ॥ 17 ॥
View Verse
विशाखयूप एवैष विभवान् भावयत्युत।
ते देवा विभवात्मानः पद्मनाभादयो मताः ॥ 18 ॥
View Verse
पद्मनाभो ध्रुवोऽनन्तः शक्रीशो मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः ॥ 19 ॥
View Verse
(क्रोधात्मा A. C. D. F. I.)क्रोडात्मा बडवावक्त्रो धर्मो वागीश्वरस्तथा।
एकार्णवान्तःशायी च तथैव कमठाकृतिः ॥ 20 ॥
View Verse
वराहो नरसिंहश्चाप्यमृताहरणस्तथा।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः ॥ 21 ॥
View Verse
राहुजित् कालनेमिघ्नः पारिजातहरस्तथा।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ 22 ॥
View Verse
न्यग्रोधशायी भगवानेकशृङ्गतनुस्तथा।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ 23 ॥
View Verse
नरो नारायणश्चैव हरिः कृष्णस्तथैव च।
ज्वलत्परशुभृद्रामो(धृग्रामो A. B. C. D.) रामश्चान्यो धनुर्धरः ॥ 24 ॥
View Verse
वेदविद्भगवान् कल्की पातालशयनः प्रभुः।
(त्रिंशदष्टाविमे A. B. C. D.)त्रिंशच्चाष्टाविमे देवाः पद्मनाभादयो मताः ॥ 25 ॥
View Verse
विभोर्विशाखयूपस्य तत्तत्कार्यवशादिमे।
(मूर्तयो A. B. C. D.)स्फूर्तयो विभवाः ख्याताः कार्यं चैषामसंकरम्(असंकरः B.) ॥ 26 ॥
View Verse
शुद्धाशुद्धाध्वनोर्मध्ये पद्मनाभो व्यवस्थितः।
ध्रुवादयोऽपरे (देवाः प्रवृत्ताः E.)देवा विवृता विश्वमन्दिरे ॥ 27 ॥
View Verse
रूपाण्यस्त्राणि चैतेषां शक्तयश्चापरा विधाः।
सर्वं तत् सात्त्वते सिद्धं संज्ञामात्रं प्रदर्शितम् ॥ 28 ॥
View Verse
शाखास्तु वासुदेवाद्या विभोर्देवस्य कीर्तिताः।
विशाखयूपो भगवान् वितताभिः करोति तत् ॥ 29 ॥
View Verse
चतसृभ्योऽथ शाखाभ्यः केशवाद्यं त्रयं त्रयम्।
दामोदरान्तमुद्भूतं तद्‌ व्यूहान्तरमुच्यते ॥ 30 ॥
View Verse
ताभ्य (एवाथ B. E.)एव हि शाखाभ्यः श्रियादीनां त्रयं त्रयम्।
पूर्वत्रयानुरूपेण शक्तीनां च (समुद्भवम् A. B. E.)समुद्गतम् ॥ 31 ॥
View Verse
परादिविभवान्तानां सर्वेषां देवतात्मनाम्।
शुद्धषाड्‌गुण्यरूपाणि वपूंषि त्रिदशेश्वर ॥ 32 ॥
View Verse
यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै।
भूषणानि विचित्राणि वासांसि विविधानि च ॥ 33 ॥
View Verse
ध्वजाश्च विविधाकाराः कान्तयश्च सितादिकाः।
वाहनानि विचित्राणि सत्याद्यानि सुरेश्वर ॥ 34 ॥
View Verse
शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः।
आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखइलाः ॥ 35 ॥
View Verse
यच्च यच्चोपकरणं सामान्यं पुरुषान्तरैः।
षाड्‌गुण्यनिर्मितं विद्धि तत्सर्वं बलसूदन ॥ 36 ॥
View Verse
शुद्धसंविन्मयी साहं षाड्‌गुण्यपरिपूरिता।
तथा तथा भवाम्येषामिष्टं यद्धि यथा यथा ॥ 37 ॥
View Verse
न विना देवेदेवेन स्थितिर्मम हि विद्यते।
(C. omits this line.)मया विना न देवस्य स्थितिर्विष्णोर्हि(विष्णोश्च E. I.) विद्यते ॥ 38 ॥
View Verse
तावावामेकतां प्राप्तौ द्विधा भूतौ च संस्थितौ।
विधां भजावहे तां तां यद्दद्यत्र (व्यपेक्षितम् E. I.)ह्यपेक्षितम् ॥ 39 ॥
View Verse
शक्रः---
सिन्धुकन्ये नमस्तुभ्यं नमस्ते सरसीरुहे।
परव्यूहादिभेदेन किं प्रयोजनमीशितुः ॥ 40 ॥
View Verse
(B. omits verses 41 and 42.)अनुग्रहाय (देवानां D.)जीवानां भक्तानामनुकम्पया।
परव्यूहादिभेदेन देवदेवप्रवृत्तयः ॥ 41 ॥
View Verse
शक्रः---
देवदेवप्रिये देवि नमस्ते कमलोद्भवे।
अनुग्रहाय भक्तानामेकैवास्तु विधा हरेः ॥ 42 ॥
View Verse
(जीविनां B.)जीवानां विविधाः शक्र संचिताः पुण्यसंचयाः।
संचिन्वन्ति न ते जीवास्तुल्यकालं कथंचन ॥ 43 ॥
View Verse
कश्चिद्धि सुकृतोन्मेषात् कदाचित् पुरुषो नृषु।
श्रीमता कमलाक्षेण जायमानो निरीक्ष्यते ॥ 44 ॥
View Verse
अन्यदा पुरुषोऽन्यश्चेत्येवं भिन्नाः शुभाशयाः।
भेदोऽधिकारिणां पुण्यतारतम्येन जायते ॥ 45 ॥
View Verse
विवेकः कस्यचिन्मन्दो भगवत्तत्ववेदने।
मद्यमस्तु परस्याथ दिव्योऽन्यस्य तु जायते ॥ 46 ॥
View Verse
ईशानुग्रहवैषम्यादेवं भेदे व्यवस्थिते।
तत्तत्कार्यानुरोधेन परव्यूहादिभावना ॥ 47 ॥
View Verse
क्रियते देवदेवेन शक्तिं मामधितिष्ठता।
(सुसिद्ध A. C. D. E. G.)संसिद्धयोगतत्त्वानामधिकारः परात्मनि ॥ 48 ॥
View Verse
व्यामिश्रयोगयुक्तानां मध्यानां व्यूहभावने।
वैभवीयादिरूपेषु विवेकविधुरात्मनाम् ॥ 49 ॥
View Verse
अहंताममातार्तानां(ममताज्ञनां B.) भक्तानां परमेश्वरे।
अधिकारस्य वैषम्यं भक्तानामनुदृश्य(अधिगम्य F.) सः ॥ 50 ॥
View Verse
भजते विविधं भावं परव्यूहादिशब्दितम्।
इति ते लेशतः शक्र दर्शिता उभयात्मकाः ॥ 51 ॥
View Verse
भवद्भावोत्तरा व्यूहा मम नारायणस्य च।
शुद्धे शुद्धेतरस्मिंश्च कोशवर्गे मदुद्भवे ॥ 52 ॥
View Verse
स्थितिर्नौ दर्शिता तेऽद्य पृथक् सह च केवला।
एवंप्रकारां(प्रकारं B. D. E. I.) मां ज्ञात्वा प्रत्यक्षां सर्वसंमताम् ॥ 53 ॥
View Verse
उपायैर्विविधैः शश्वदुपास्य विविधात्मिकाम्।
क्लेशकर्माशयातीतो मद्भावं प्रतिपद्यते ॥ 54 ॥
View Verse

Chapter - 12

द्वादशोऽध्यायः - 12
शक्रः---
चिच्छक्तिरेव ते शुद्धा यदि जीवः सनातनः।
क्लेशकर्माशयस्पर्शः कथमस्य सरोरुहे ॥ 1 ॥
View Verse
क्लेशाः के कति ते प्रोक्ताः कर्म कीदृक्‌ च किंविधम्।
आशयो(आशया E. I.) नाम को(के E. I.) देवि (तदेवं F.)तदेतत् किंफलं स्मृतम् ॥ 2 ॥
View Verse
सिन्धुकन्ये तदेतन्मे ब्रूहि तुभ्यं नमो नमः।
सर्वज्ञे न त्वदन्येन वक्तुमेतद्धि शक्यते ॥ 3 ॥
View Verse
श्रीः---
अहं नारायणी (स्वच्छा A. B. G.)देवी स्वच्छस्वच्छन्दचिन्मयी।
स्वतन्त्रा निरवद्याहं विष्णोः श्रीरनपायिनी ॥ 4 ॥
View Verse
ईशेशितव्यभेदेन द्विधा रूपं मया कृतम्।
ईशितव्यं च तद्भिन्नं (स्वच्छन्दा A. B. C.)स्वाच्छन्द्यादेव मे द्विधा(स्थिता I.) ॥ 5 ॥
View Verse
चिच्छक्तिरेका भोक्त्राख्या परा भोग्यादिरूपिणी।
कालकाल्यविभेदेन सा द्विधा भेदिता मया ॥ 6 ॥
View Verse
तत्र काल्यात्मिका शक्तिर्मोहिनी बन्धनी तथा।
प्रकृतिः सविकारैषा चिच्छक्तिर्बध्यतेऽनया ॥ 7 ॥
View Verse
क्लिश्यते येन रूपेण चिच्छक्तिर्भोक्तृतां गता।
स क्लेशः पञ्चधा ज्ञेयो नामान्यस्य च मे शृणु ॥ 8 ॥
View Verse
तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः।
अविद्या पञ्चपर्वैषा तमसो गतिरुत्तमा ॥ 9 ॥
View Verse
असङ्गिन्यपि चिच्छक्तिः (शुद्धात्म A. B. G.)शुद्धाप्यपरिणामिनी।
आविद्धमात्मनो रूपं नैर्मल्येन(संक्लेशेन C. D.) विभर्ति सा ॥ 10 ॥
View Verse
शक्रः---
व्याहतामिव पश्यामि चिच्छक्तेः(चिच्छक्तिं D.) क्लेशसङ्गिताम्।
मुह्यतीव मनो मेऽद्य तं मोहं छिन्धि पद्मजे ॥ 11 ॥
View Verse
श्रीः---
स्वतन्त्रा (विश्वसिद्धानां A. B. C. D. I.; विश्वसिद्धीनां G.)सर्वसिद्धीनां हेतुश्चात्र(चित्रा E. I.) महाद्भुता।
शक्तिर्नारायणस्याहं नित्या देवी सदोदिता ॥ 12 ॥
View Verse
तस्या मे पञ्च कर्माणि नित्यानि त्रिदशेश्वर।
तिरोभावस्तथा सृष्टिः स्थितिः संहृतिरेव च ॥ 13 ॥
View Verse
अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम्।
एतेषां क्रमशो व्याख्यां कर्मणां शक्र मे श्रृणु ॥ 14 ॥
View Verse
तत्र नाम तिरोभावोऽन्यद्भावः परिकीर्त्यते।
स्वच्छापि सा मदीया हि चिच्छक्तिर्भोक्तृसंज्ञिता ॥ 15 ॥
View Verse
मदीयया यया शक्त्या वर्तते प्रकृतेर्वशे।
तिरोभावाभिधाना मे साविद्याशक्तिरुच्यते ॥ 16 ॥
View Verse
मदीयं भेदितं रूपं सत्यसंकल्पया मया।
योऽवरोहो मदीयस्ते वर्णितः प्रथमः पुरा ॥ 17 ॥
View Verse
चिच्छक्तिर्जीव इत्येवं विबुधैः परिकीर्त्यते।
मत्स्वाच्छन्द्यवशादेव तस्य भेदः प्रकीर्तितः ॥ 18 ॥
View Verse
मदीयं चैत्यरूपं यत् सत्यसंकल्पया कृतम्।
मया तदेकीकरणं चिच्छक्तेः क्रियते हि यत् ॥ 19 ॥
View Verse
अविद्या सा परा शक्तिस्तिरोभाव इति स्मृतः।
पञ्च पर्वाणि तस्यास्तु (संततानि A. B. C. F.)सन्ति तानि निबोध मे ॥ 20 ॥
View Verse
तमस्तु प्रथमं पर्व नामाविद्येति तस्य तु।
अनात्मन्यस्वभूते च चैत्ये जीवस्य या मतिः ॥ 21 ॥
View Verse
स्वतयाहंतया चैव तमोऽविद्या च सा स्मृता।
स्वीकृतेऽहंतया चैत्ये मानो यस्तत्र जायते ॥ 22 ॥
View Verse
अस्मिताख्यो महामोहो द्वितीयं क्लेशपर्व तत्।
चैत्यचेतनयोरेकभावापत्तिरविद्यया ॥ 23 ॥
View Verse
(रागो A. E. I.)मोहोऽस्मिता महामोह इति शब्दैर्निगद्यते।
सुखानुस्तृतिहेतुर्या वासनास्मितयाहिता ॥ 24 ॥
View Verse
स रागो (रम्य A. B. C. D. I.)रञ्ज्यविषयस्तृतीयं क्लेशपर्व तत्।
दुःखानुस्मृतिहेतुर्या वासनास्मितयाहिता ॥ 25 ॥
View Verse
स द्वेषो द्वेष्यविषयश्चतुर्थं क्लेशपर्व तत्।
(F. omits 3 lines from here.)दुःखं जिहासतो योगैः प्रेप्सतश्च सुखं तथा ॥ 26 ॥
View Verse
तदन्तरायैर्वित्रासो मध्ये यो नाम जायते।
अन्धाख्योऽभिनिवेशः स पञ्चमं क्लेशपर्व तत् ॥ 27 ॥
View Verse
(देहं चात्म A. B. C.)देहमात्मतया बुद्ध्वा ततस्तादात्म्यमागतः।
रञ्जनीयमभिप्रेप्सुर्जिहासुश्च तथेतरत् ॥ 28 ॥
View Verse
तदन्तरायवित्रस्तस्तत्प्रतीकारमाचरन्।
इष्टस्य प्राप्तयेऽनिष्टविघाताय च (देहिनः E.)चेतनः ॥ 29 ॥
View Verse
यदयं कुरुते कर्म त्रिविधं त्रिविधात्मकम्।
तत्कर्म गदितं सद्भिः सांख्ययोगविचक्षणैः ॥ 30 ॥
View Verse
तत्प्रसूतं सुखं दुःखं तथा दुःखसुखात्मकम्।
विपाकस्त्रिविधः प्रोक्तस्तत्त्वशास्त्रविशारदैः ॥ 31 ॥
View Verse
वासना आशयाः प्रोक्ताः क्लेशकर्मविपाकजाः।
अन्तःकरणवर्तिन्यः समन्ताच्छेरते हि ताः ॥ 32 ॥
View Verse
जन्यन्ते वासना नित्यं पञ्चभिः क्लेशपर्वभिः।
सदृशारम्भहेतुश्च वासना कर्मणां(कर्मणः E.) तथा ॥ 33 ॥
View Verse
सुखादिवासना चैव विपाकैर्जन्यते त्रिधा।
चतुर्भिर्लक्षणैरित्थंभूता क्लेशादिनामकैः ॥ 34 ॥
View Verse
बन्धनी जीवकोशस्य तिरोभावाभिधा विधा(अभिधानया A. B. C. D. F.)।
शक्त्यानयैव बद्धानां जीवानां मम नित्यदा ॥ 35 ॥
View Verse
(सातत्येन E. I.)सांतत्येन प्रवर्तन्ते मम सृष्ट्यादिशक्तयः।
सृष्टिशक्तिर्द्विधा सा मे शुद्ध्यशुद्धिवशान्मया ॥ 36 ॥
View Verse
विविच्य दर्शिता सा ते सा पुनः सप्तधा स्थिता।
(अनीशं D. F.)अनिशं क्रियते त्वेका प्राजापत्येन कर्मणआ ॥ 37 ॥
View Verse
षट्‌कोशसंभवास्त्वन्यास्तत्तत्कालसमुद्भवाः।
सर्गक्रमे प्रकृत्युत्थे सृष्टिर्ज्ञेया त्रिधा पुनः ॥ 38 ॥
View Verse
भाविकी लैङ्गिकी चैव भौतिकी चेति भेदतः।
यथा न्यग्रोधधानायां त्रैगुण्ये प्रकृतौ तथा ॥ 39 ॥
View Verse
या स्थितिर्महदादेः सा भावसृष्टिर्निगद्यते।
समष्टिव्यष्टिभेदेन लिङ्गं यत्सृज्यते मया ॥ 40 ॥
View Verse
विराजश्च तथान्येषां भूतानां लिङ्गजा तु सा।
महदाद्या विशेषान्ता विंशतिश्च त्रयश्च ये ॥ 41 ॥
View Verse
पदार्था लिङ्गदेहस्था(देहास्ते E.) विराजः परिकीर्तिताः।
खानां समष्टिभूतानां तथान्तःकरणस्य च ॥ 42 ॥
View Verse
त्रिधा स्थितस्य ये येंऽशाः प्रतिजीवं व्यवस्थिताः।
स्थूलानां चैव भूतानां ये सूक्ष्माः कीर्तिताः पुरा ॥ 43 ॥
View Verse
व्यष्टयोऽष्टादशेमाश्च क्लेशाः कर्माणि वासनाः।
प्राणाश्चेति तदुद्दिष्टं लिङ्गं जीवगणाश्रयम् ॥ 44 ॥
View Verse
चिच्छक्तयो हि लिङ्गस्थाः संसरन्ति यथा तथा।
शुद्धे हि भगवज्ज्ञाने जाते सत्कर्मजीविनाप्त् ॥ 45 ॥
View Verse
जीवानां विनिवर्तन्ते लिङ्गान्येतानि नान्यदा(नान्यथा B.)।
विराजः स्थूलदेहो यो ब्रह्माण्डापरनामवान् ॥ 46 ॥
View Verse
चतुर्विधानि चान्यानि शरीराणि शरीरिणाम्।
एषा मे भौतिकी सृष्टिरितीदं सृष्टिचिन्तनम् ॥ 47 ॥
View Verse
स्थितिर्नाम तृतीया मे (सा शक्तिर्या D. E. I.)शक्तिर्या ते पुरोदिता।
तस्याः स्वरूपं वक्ष्यामि तन्मे शक्र निशामय ॥ 48 ।
View Verse
आद्यसृष्टिक्षणो यस्तु संजिहीर्षाक्षणश्च यः।
यत्स्थैर्यकरणं नाम तयोरन्तरवर्तिनाम्(वर्तिना B.) ॥ 49 ॥
View Verse
नानारूपैर्मदीयैः सा स्थितिशक्तिः परा मम।
विष्णुना देवदेवेन मया चैव तथा तथा ॥ 50 ॥
View Verse
या स्थितिः कथिता (साधु E. I.)सा तु प्रथमा तत्त्वचिन्तकैः।
मन्वन्तराधिपैश्चैव द्वितीया परिकीर्तिता ॥ 51 ॥
View Verse
मनुपुत्रैस्तृतीयान्या क्षुद्रैरिति चतुर्विधा।
चतुर्थी संहृतीशक्तिस्तस्या भेदमिमं शृणु ॥ 52 ॥
View Verse
नाशो जरायुजादीनां भूतानां नित्यदा तु या।
सा नित्या संहृतिस्त्वन्या शक्र नैमित्तिकी स्मृता ॥ 53 ॥
View Verse
त्रैलोक्यविषया सा तु ब्रह्मप्रस्वापहेतुका।
तृतीया (प्रकृतेः A. B. C. G.)प्राकृती प्रोक्ता महदादिव्यपाश्रया ॥ 54 ॥
View Verse
प्रासूती तु चतुर्थी स्यादव्यक्तविषया तु सा।
मायी या पञ्चमी प्रोक्ता प्रसूतिविषया तु या ॥ 55 ॥
View Verse
(E. omits this line.)शाक्ती षष्ठी तु विज्ञेया मायासविषया तु सा।
सप्तम्यात्यन्तिकी प्रोक्ता विलयो योगिना मयि ॥ 56 ॥
View Verse
सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम्।
एषा सप्तविधा शक्र संहृतिस्ते मयोदिता।
पञ्चम्यनुग्रहाख्या(ग्रहाख्यां A. C. D. G. F.) मे (शक्तिं मुख्यां A. C. G.)शक्तिर्व्याख्यामिमां शृणु ॥ 57 ॥
View Verse

Chapter - 13

त्रयोदशोऽध्यायः - 13
श्रीः---
अनुग्रहात्मिका शक्र शक्तिर्मे पञ्चमी स्मृता।
तामिमां तत्त्वतो वत्स वदामि तव सांप्रतम् ॥ 1 ॥
View Verse
अविद्यया समाविद्धा
अस्मितादि-वशी-कृताः।
मच्-छक्त्यैव तिरोभूतास्
तिरोधानाभिधानया ॥ 2 ॥
View Verse
उच्चान्नीचे पतन्तस्ते नीचादुत्पतयालवः।
निबद्धास्त्रिविधैर्बन्धैः स्थानत्रयविवर्तिनः ॥ 3 ॥
View Verse
संसाराङ्गारमध्यस्थाः पच्यमानाः स्वकर्मणा।
सुखाभिमानिनो दुःखे नित्यमज्ञानधर्षिताः ॥ 4 ॥
View Verse
(तयोर्निरनु A. B. C.)ता योनीरनुधावन्तश्चराचरविभेदिनीः(भेदिनः A. B. C. F. G.)।
अपूर्वापूर्वभूताभिश्चित्रिताभिः स्वहेतुभिः ॥ 5 ॥
View Verse
देहेन्द्रियमनोबुद्धिवेदनाभिरहर्निशम्।
जननानि प्रबध्नन्तो मरणानि तथा तथा ॥ 6 ॥
View Verse
क्लिश्यमाना इति क्लेशैस्तैस्तैर्योगवियोगजैः।
उद्यत्कारुण्यसंताननिर्वापिततदागसा ॥ 7 ॥
View Verse
मया जीवाः समीक्ष्यन्ते श्रिया दुःखविवर्जिताः।
सोऽनुग्रह इति प्रोक्तः शक्तिपातापराह्वयः(पातपराह्वयः E. I.) ॥ 8 ॥
View Verse
कर्मसाम्यं भजन्त्येते प्रेक्ष्यमाणा मया तदा।
अपश्चिमा तनुः सा स्याज्जीवानां प्रेक्षिता मया ॥ 9 ॥
View Verse
अहमेव हि जानामि(जानानि E.) शक्तिपातक्षणं च तम्(क्षणाञ्चितम् E.)।
नासौ पुरुषकारेण न चाप्यन्येन हेतुना ॥ 10 ॥
View Verse
केवलं स्वेच्छयैवाहं(एका E.) प्रेक्षे कंचित् कदाप्यहम्।
ततः प्रभृति स स्वच्छस्वच्छान्तःकरणः पुमान् ॥ 11 ॥
View Verse
कर्मसाम्यं समासाद्य शुक्लकर्मव्यपाश्रयः।
वेदान्तज्ञानसंपन्नः सांख्ययोगपरायणः ॥ 12 ॥
View Verse
सम्यक्सात्त्वतविज्ञानाद्विष्णौ सद्भक्तिमुद्वहन्।
कालेन महता योगी निर्धूतक्लेशसंचयः । 13 ॥
View Verse
विधूय विविधं बन्धं द्योतमानस्ततस्ततः।
प्राप्नोति परमं ब्रह्म लक्ष्मीनारायणात्मकम् ॥ 14 ॥
View Verse
एषा तु पञ्चमी शक्तिर्मदीयानुग्रहात्मिका।
स्वाच्छन्द्यमेव मे हेतुस्तिरोभावादिकर्मणि ॥ 15 ॥
View Verse
इत्थं शक्र विजानीहि नानुयोज्यमतः(इतः E.; योज्यास्म्यतः I.) परम्।
शक्रः---
नमः सरोरुहावासे नमो नारायणाश्रये ॥ 16 ॥
View Verse
नमो नित्यानवद्यायै कल्याणगुणसिन्धवे।
त्वद्वागमृतसंदोहक्षालितं मे महत्तमः ॥ 17 ॥
View Verse
श्रीः---
एको नारायणो देवः परमात्मा सनातनः ॥ 18 ॥
View Verse
सदा ज्ञानबलैश्वर्यवीर्यशक्त्योजसां निधिः॥
अनादिरपरिच्छेद्यो देशकालस्वरूपतः ॥ 19 ॥
View Verse
तस्याहं परमा देवी षाड्‌गुण्यमहिमोज्ज्वला।
सर्वकार्यकरी शक्तिरहंता नाम शाश्वती ॥ 20 ॥
View Verse
संविदेका स्वरूपं मे स्वच्छस्वच्छन्दनिर्भरा(निर्भया B. D. F.)।
सिद्धयो विश्वजीवानामायतन्तेऽखिला मयि ॥ 21 ॥
View Verse
आत्मभित्तौ जगत्सर्वं स्वेच्छयोन्मीलयाम्यहम्।
मयि लोकाः स्फुरन्त्येते जले शकुनयो यथा ॥ 22 ॥
View Verse
स्वाच्छन्द्यादवरोहामि पञ्चकृत्यविधायिनी।
साहं यदवरोहामि (जीवः A. B. F.)सा हि चिच्छक्तिरुच्यते ॥ 23 ॥
View Verse
संकोचो मामकः सोऽयं स्वच्छस्वच्छन्दचिद्धनः।
अस्मिन्नपि जगद्भाति दर्पणोदरशैलवत् ॥ 24 ॥
View Verse
वज्ररत्नवदेवैष (सदा स्फुरति छन्दतः C. I.)स्वच्छः स्फुरति सर्वदा।
चैतन्यमस्य धर्मो यः प्रभा भानोरिवामला ॥ 25 ॥
View Verse
(तथा E.)तया स्फुरति जीवोऽसौ स्वत एवानुरूपया(रूपवान् E.)।
विधत्ते पञ्च कृत्यानि जीवोऽयमपि नित्यदा ॥ 26 ॥
View Verse
या (भित्तौ नीलपीतादि E. I.)वृत्तिर्नीलपीतादौ सृष्टिः सा कथिता बुधैः।
(सत्ति D.)सक्तिर्या विषये तत्र(यत्र B. F.; योऽत्र E.) सा स्थितिः परिकीर्त्यते ॥ 27 ॥
View Verse
गृहीताद्विषयाद्योऽस्य विरामोऽन्यजिघृक्षया।
सा संहृतिः समाख्याता तत्त्वशास्त्रविशारदैः ॥ 28 ॥
View Verse
तद्वासना तिरोभावोऽनुग्रहस्तद्विलापनम्।
(ग्राह्याशनीय A. B. C.)ग्राह्यग्रसनशीलोऽयं वह्निवद्ग्रसनः(छेदनः A. B. C.) सदा ॥ 29 ॥
View Verse
पुष्यत्येष सदा जीवो मात्रया मे समिन्धनम्।
आविद्यं मत्स्वरूपं तु व्याक्यातं ते पुरा मया ॥ 30 ॥
View Verse
शुद्धविद्यासमायोगात् संकोचं यज्जहात्यसौ।
तदा प्रद्योतमानोऽयं सर्वतो मुक्तबन्धनः ॥ 31 ॥
View Verse
ज्ञानक्रियासमायोगात् सर्ववित्सर्वकृत्सदा(तदा B.)।
अनणुश्चाप्यसंकोचान्मद्भावायोपपद्यते ॥ 32 ॥
View Verse
यावन्निरीक्ष्यते नायं मया कारुण्यवत्तया।
तावत्संकुचितज्ञानः करणैर्विश्वमीक्षते ॥ 33 ॥
View Verse
चक्षुषालोक्य वस्तूनि विकल्प्य मनसा तथा।
अभिमत्याप्यहंकाराद् बुद्धयैव ह्यध्यवस्यति ॥ 34 ॥
View Verse
(जागरान्तं यथा A. G.)जागराजामथ स्वप्ने करणैरान्तरैश्चरन्।
विहाय तत् सुषुप्तौ तु स्वरूपेणावतिष्ठते ॥ 35 ॥
View Verse
अवस्थास्ता इमास्तिस्रः (प्रकृत्या A. B. C. D.)प्राकृत्यो नैव जीवगा।
तुर्यापि या दशा जीवे समाधिस्थे प्रजायते ॥ 36 ॥
View Verse
सापि नैवास्य किं त्वेषा शुद्धसत्त्वव्यवस्थितिः।
अनवस्थमनाघ्रातमखिलैः प्राकृतैर्गुणैः ॥ 37 ॥
View Verse
अनौपाधिकमच्छेद्यं जीवरूपं तु चिन्मयप्त्।
एवंरूपमपि त्वेतच्छाद्यतेऽनाद्यविद्यया ॥ 38 ॥
View Verse
सुदृश्यामात्मभूतां मां नैव पश्यत्यसौ ततः।
शक्रः---
सुदृश्यासि कथं देवि त्वं प्रमाणातिगा सती ॥ 39 ॥
View Verse
वेदान्ता अपि नैवत्वां विदुरित्थंतयाम्बुजे।
श्रीः---
मां तु शक्र विजानीहिप्रत्यक्षां सर्वदेहिनाम्।
समाहितमना भूत्वा श्रृणुष्वेदं मतं मम ॥ 40 ॥
View Verse

Chapter - 14

ज्ञानस्वरूपो भगवान् देशकालाद्यभेदितः(भेदतः E. F. I.)।
वासुदेवः परं ब्रह्म गुणशून्यं निरञ्जनम् ॥ 1 ॥
View Verse
सुखं सदैकरूपं तु षाड्‌गुण्यमजरामरम्(षाड्‌गुण्यं सचराचरम् C.)।
तस्याहं परमा शक्तिरहंता शाश्वती ध्रुवा ॥ 2 ॥
View Verse
व्यापारशक्तिरेषा मे सिसृक्षालक्षणा भवेत्(भवत् F. G. I.)।
(अयुतायुतकोट्याश्च A. B.)अयुतायुतकोट्योघकोटिकोट्ययुतांशतः(अर्बुदांशतः E. I.) ॥ 3 ॥
View Verse
साहं सृजामि स्वाच्छन्द्याद् द्विधा भेदमुपेयुषी।
चेत्यचेतनभावेन चिच्छक्तिश्चेतनोऽनयोः ॥ 4 ॥
View Verse
चेत्यचेतनतां प्राप्ता संविदेव मदात्मिका।
संविदेव हि मे रूपं(रूपं मे E. I.)स्वच्छस्वच्छन्दनिर्भरा ॥ 5 ॥
View Verse
सा त्विक्षुरसवद्योगात् स्त्यानतां प्रतिपद्यते।
अतो (निवेद्यमानं A. B. C. D.)निरूप्यमाणं तच्चेत्यं (चित्त्वं न मुञ्चति C.)चित्त्वमुपेष्यति ॥ 6 ॥
View Verse
यथा हि वह्निना लीढमिन्धनं तन्मयं भवेत्।
एवं (चेत्यं समालीढमेवं A.; च तामसा E.)चिता समालीढं चेत्यं चिन्मयतां व्रजेत् ॥ 7 ॥
View Verse
नीले पीते सुखे दुःखे चित्स्वरूपमखण्डितम्।
विशिनष्टि (विकल्पस्थश्चित्रया E. I.)विकल्पस्तच्चित्रयोपाधिसंपदा ॥ 8 ॥
View Verse
(अल्पयैव महद्रूपं A. B. C.)विकल्पोऽपि हि मद्रूपं स्वाच्छन्द्यादेव निर्मितम्।
चेत्यं (विकल्पभेदेन E.)विकल्प्यते येन बहिरन्तर्व्यवस्थया ॥ 9 ॥
View Verse
न बहिर्नैव चान्तस्तच्चिद्रूपं मम तत् परम्(अमलं परम् A. B. C. D.)।
वेद्यवेदकरूपेण भेद्यते मे स्वयंतया ॥ 10 ॥
View Verse
यद्विकल्पैरनाक्रान्तं(अनाग्रातं E.) यच्छब्दैरकदर्थितम्।
यदुपाधिभिरम्लानं(अस्त्यानं A. E. I.) रूपं तच्चेत्यतां गतम् ॥ 11 ॥
View Verse
दूरापास्तविकल्पेन चेतसा (येन A. D. E. F. G.)यत्र भूयते।
मध्यमां वृत्तिमास्थाय चेत्यं संवित्तया तदा ॥ 12 ॥
View Verse
यथा चक्षुस्थितं रूपं बाह्ये स्वं रूपमीक्ष्यते(ईक्षते B.)।
(B. C. D. E. omit this line.)तथा ज्ञानस्थितं रूपं ज्ञेये स्वं रूपमीक्ष्यते ॥ 13 ॥
View Verse
(E. omits this line.)यथा वह्निसमाविष्टं काष्ठं तद्रूपमीक्ष्यते।
तथा संवित्समाविष्टं चेत्यं संवित्तयेक्ष्यते ॥ 14 ॥
View Verse
वेद्यं वेदनतां नीत्वा (यत्र A. B. D.)यदा वेत्त्रा निरूप्यते।
तदावित्तिमयी साहं प्रत्यक्षा स्फुटभासिनी ॥ 15 ॥
View Verse
अहंतैव हि चित्तत्वं वेद्याद्भिन्नं स्वलक्षणम्।
सा चाहमेव तेनाहं (सर्वशुद्धात्र चिन्मयी C.)सर्वतः शुद्धचिन्मयी ॥ 16 ॥
View Verse
संप्लुतेदंपदद्वीपे प्राप्तैकध्ये चिदम्बुधौ।
मज्जतां चैव चेत्यानामस्मि हस्तावलम्बनम् ॥ 17 ॥
View Verse
मद्ध्यानामृतनिष्यन्दक्षालिताशेषवासनाः।
मामेवात्मनि पस्यन्ति चेत्यौघग्रसनीं चितम् ॥ 18 ॥
View Verse
मम (चित्रैक A. D. E. G.)चित्तैकरूपाया वेद्यवेदकतां जनाः।
अविद्ययैव मन्यन्ते मत्संकल्पितया (तथा A. B. D. F.)पुरा ॥ 19 ॥
View Verse
न शान्ता नोदिता नापि मद्यमाहं स्वरूपतः।
मद्विवेकजुषामेवं प्रकाशे जागरास्वपि ॥ 20 ॥
View Verse
परित्यक्तविभागेन निस्तरङ्गेण चेतसा।
(B. omits 4 lines from here.)ज्ञाये विकल्प्यमाना तु प्रत्यक्षाप्यस्मि विस्मृता ॥ 21 ॥
View Verse
पुरः स्थितो यथा भावश्चेतसोऽन्याभिलाषिणः।
न भासते तथैवाहं न भासे वासनाजुषाम् ॥ 22 ॥
View Verse
बुभुत्सावान् यथा (वृत्तिं E.)वृत्तीर्निरुध्यान्यत्र चेतसा।
प्रत्यक्षमीक्षते वस्तु तथा मां शुद्धसंविदम् ॥ 23 ॥
View Verse
सदैवाप्रतिबद्धाया भान्त्या एव (पुनः E. G.)वपुर्मम।
प्रत्यक्षं चेत्यसंचारकालेऽपि विमलात्मनाम्(विदितात्मनाम् A. B. C. D. G.) ॥ 24 ॥
View Verse
यथा जात्या सितं (वस्तु E.)वस्त्रं रक्तं रागेण केनचित्।
पुनः स्ववर्णमप्राप्य नैव रागान्तरं श्रयेत् ॥ 25 ॥
View Verse
नीलाद्येवं विदन् पीतं मध्ये शुद्धचिदात्मनि।
मयि चेन्नैव विश्रान्तः पीतं विद्यात्कथं न्वयम् ॥ 26 ॥
View Verse
तथैवोच्चारयन् वाक्यं वर्णाद्वर्णं कथं व्रजेत्।
यदि मध्ये न विश्रान्तो मयि शुद्धचिदात्मनि ॥ 27 ॥
View Verse
एवं शुद्धा स्वतन्त्रापि यदाकारोपरागिणी।
तत्त्यागापरसंचारा मध्ये शुद्धैव भाम्यहम् ॥ 28 ॥
View Verse
दक्षिणेतरसंचारनिरोधान्मध्यमाश्रितः।
अग्नीषोमेन्धनो भावः प्रकाशयति मे पदम् ॥ 29 ॥
View Verse
धिया ध्येयमनालम्ब्य विषयं चास्पृशन् बहिः।
यदन्तरा वेदयते तन्मे रूपमनाकुलम् ॥ 30 ॥
View Verse
अनुवृत्ता तु या सम्यक् तेजस्यपि तमस्यपि।
भाति भावेऽप्यभावेऽपि सा मे तनुरकर्बुरा ॥ 31 ॥
View Verse
निवृत्तविषयेच्छस्य मद्भक्त्युल्लसितात्मनः।
आन्तरं यदनालम्बमहंत्वं तद्वपुर्मम ॥ 32 ॥
View Verse
तदेवाभ्यस्यमानानां देहप्राणाद्यगोचरम्।
विवेकिनामहंरूपं मद्भावेनावतिष्ठते ॥ 33 ॥
View Verse
ततस्तेजो यथैवार्कं व्यज्यते न तु जन्यते।
भावैश्चिद्रूपमप्येवं व्यक्तं नैव च जन्यते ॥ 34 ॥
View Verse
भावैर्विना यथा भानुः समुदेति नभःस्थले।
वेद्यैर्विनैव मे रूपमेवं प्रद्योतते स्वयम् ॥ 35 ॥
View Verse
अत्यन्ताच्छस्वभावत्वात् स्फटिकादिर्यथा मणिः।
उपरक्तो जपाद्यैस्तु स्वेन रूपेण नेक्ष्यते ॥ 36 ॥
View Verse
मत्संकल्पसमुद्रिक्तैश्चेत्यैः(समुद्वृत्तेश्चैत्यैः E.) स्वच्छाहमप्यथ(उत I.)।
पृथग्जनैर्न लक्ष्यास्मि नैवाहं नास्मि तावता ॥ 37 ॥
View Verse
कुण्डलादेर्यथा भिन्ना न लक्ष्या कनकस्थितिः।
(F. omits 3 lines from here; न च शक्यैव निर्देष्टुं I.)न च शक्या विनिर्देष्टुं तथाप्यस्त्येव सा ध्रुवम् ॥ 38 ॥
View Verse
एवं नित्या विशुद्धा च सुखदुःखाद्यभेदिता।
स्वसंवेदनसंवेद्या मम संविन्मयी स्थितिः ॥ 39 ॥
View Verse
विज्ञातरि तथा ज्ञाने ज्ञेये जानातिनान्वयः।
योऽयं मदन्वयः सोऽयं प्रत्ययार्थाविशेषितः ॥ 40 ॥
View Verse
देशकालक्रियाकाराः प्रसिद्धा भेदहेतवः।
तान् भेदयति या संवित्तस्या भेदः कुतो भवेत् ॥ 41 ॥
View Verse
चेत्यभेदो हि यः कालो भूतादित्रितयात्मकः।
संविन्महोदधौ सोऽपि विलीनस्तन्मयो भवेत् ॥ 42 ॥
View Verse
यदा हि वर्तमानायां मयि भूतभविष्यती।
प्रतिक्षिप्ते तदा चेयं नैव स्याद्वर्तमानता ॥ 43 ॥
View Verse
आधारोऽहमशेषाणां नैवाधेयास्मि केनचित्।
देशोऽप्याधारतः क्लप्तस्ततो मे नैव विद्यते ॥ 44 ॥
View Verse
काप्यवस्था (तु मे नास्ति A. B. C.)न मे सास्ति यस्यां संविन्न वर्तते।
तेन मां चिद्धनामेकां सर्वाकारामुपासते ॥ 45 ॥
View Verse
कालो देशस्तथाकारः क्रिया कर्ता च कर्म च।
करणं संप्रदानं च भवेद्यच्च ततः फलम् ॥ 46 ॥
View Verse
भोगो भोक्ता च तत्सर्वं विलीनं (सर्वदा A. G.)संविदात्मनि।
देवा दैत्यास्तथा नागा गन्ध्रवा रक्षसां गणाः ॥ 47 ॥
View Verse
विद्याधराः पिशाचाश्च भूताश्चेति गणाष्टकम्।
मनुजा बहुधात्मानो वर्णकर्मादिभेदिताः ॥ 48 ॥
View Verse
पशवोऽथ मृगाश्चैब पक्षिणश्च सरीसृपाः(ससरीसृपाः E. I.)।
स्थावराश्च तथैवान्ये कपूयचरणात्मकाः ॥ 49 ॥
View Verse
स्वर्गस्था नरकस्थाश्च लोकाश्चैव चतुर्दश।
सरिद्‌द्वीपसमुद्राश्च विविधा ह्यण्डपद्धतिः ॥ 50 ॥
View Verse
उच्चावचानि तत्त्वानि विविधाः शब्दराशयः।
भोग्यं भोगोपकरणं भोगस्थानं च यत् स्मृतम् ॥ 51 ॥
View Verse
कोशाः षट्‌ कोशजाश्चैव(एते A. B. C. F.) चेतनाचेतनात्मकाः।
शुद्धाशुद्धमयौ भावौ पुरुषार्थश्चतुर्विधः ॥ 52 ॥
View Verse
सर्वं प्रकृतिभिर्नद्धं कालेन कलितं तथा।
इत्येतत्सकलं वस्तु भावाभावस्वरूपकम् ॥ 53 ॥
View Verse
अमन्मयं मन्मयं च मयि लीनमवस्थितम्।
सर्वात्मना सदैवाहं स्वच्छस्वच्छन्दचिन्मयी ॥ 54 ॥
View Verse
लक्ष्या सुखमयी शान्ता भावे भावे विपश्चिता।
एवं व्यवस्थिताया मे तिरोभावाभिधानया ॥ 55 ॥
View Verse
बद्धा शक्त्या तु चिच्छक्तिः स्वतो मां नैव विन्दति।
यदा निर्विद्यते (वासौ B.)सासौ मदनुग्रहबिन्दुना ॥ 56 ॥
View Verse
उपायैर्मां तदाराध्य(मान्तराराध्य B.) जीवश्चिच्छक्तिसंज्ञकः।
संक्षिण्वन् (सकलान् कोशान् E.; निखिलान् कोशान् G. I.)निखिलान्क्लेशान्विधून्वन्वासनारजः ॥ 57 ॥
View Verse
संप्राप्य ज्ञानसद्भावं योगक्षपितबन्धनः(कल्मषः E. I.)।
मामेव परमानन्दमयीं लक्ष्मीं स विन्दति ॥ 58 ॥
View Verse

Chapter - 15

पञ्चदशोऽध्यायः - 15
शक्रः---
नमस्ते पद्मसंभूते नमः कमलमालिनि।
नमः कमलवासिन्यै(मालिन्यै F.) गोविन्दगृहमेधिनि ॥ 1 ॥
View Verse
नमस्ते कंजकिञ्जल्ककल्पितालकविभ्रमे।
सर्वज्ञे सर्वभूतानामन्तःस्थे सर्वसाक्षिणि ॥ 2 ॥
View Verse
त्वद्वक्त्रकमलोद्भूतं सर्वं तदवधारितम्।
तत्त्वत्सृष्टं त्वया त्रातं त्वय्येव लयमेष्यति ॥ 3 ॥
View Verse
माता मानं मितिमेयं विधा एतास्त्वदात्मिकाः।
त्वामेवाराध्य जीवास्ते तरन्ति भवसागरम् ॥ 4 ॥
View Verse
एवमादि मया देवि तत्त्वतस्त्ववधारितम्।
कौतूहलमिदं मेऽद्य वर्तते पद्मसंभवे ॥ 5 ॥
View Verse
तोषणीयासि केन त्वमुपायेनाम्बुजासने।
परमः पुरुषार्थो यस्त्वत्प्रीतिस्तस्य साधनम् ॥ 6 ॥
View Verse
त्वत्प्रीतौ क उपायः स्यात्कीदृशः किंविधः स्मृतः(तथा B. D. I.)।
एतन्मे सकलं ब्रूहि नमस्ते पद्मसंभवे ॥ 7 ॥
View Verse
श्रीः---
चातुरात्म्यं परं ब्रह्म (संविदा E. I.)सच्चिदानन्दलक्षणम्।
सर्वं सर्वोत्तरं सर्वभूतान्तःस्थमनामयम् ॥ 8 ॥
View Verse
वासुदेवः परं ब्रह्म (नराणामयनं E. I.)नारायणमयं महत्।
तस्याहं परमा शक्तिरहंतानन्दचिन्मयी ॥ 9 ॥
View Verse
भिन्नाऽभिन्ना च वर्तेऽहं ज्योत्स्नेव हिमदीधितेः।
तावावां तत्त्वमेकं तु द्विधा भूतौ(भूत्वा G.) व्यवस्थितौ ॥ 10 ॥
View Verse
ब्रह्म नारायणं मां (वा ज्ञानेन E. I.)यज्ज्ञानेनैवाप्रुयाद्यतिः।
पन्था नान्योऽस्ति विज्ञानादयनाय विपश्चिताम् ॥ 11 ॥
View Verse
ज्ञानं तच्च विवेकोत्थं सर्वतः शुद्धमव्रणम्।
वासुदेवैकविषयमपुनर्भवकारणम् ॥ 12 ॥
View Verse
ज्ञाने तस्मिन् समुत्पन्ने विशते मामनन्तरम्।
तैस्तैरुपायैः प्रीताहं जीवानाममलात्मनाम् ॥ 13 ॥
View Verse
उद्भावयामि तज्ज्ञानमात्मज्योतिः प्रदर्शकम्।
उपायास्ते च चत्वारो मम प्रीतिविवर्धनाः ॥ 14 ॥
View Verse
भगवत्यरविन्दस्थे पङ्कजेक्षणकामिनि।
(के तेऽप्युपायाः E. I.)उपायाः के च चत्वारस्तान्मे दर्शय पङ्कजे ॥ 15 ॥
View Verse
श्रीः---
उपायांश्चतुरः शक्र शृणु मत्प्रीतिवर्धनान्।
यैरहं परमां प्रीतिं यास्याम्यनपगामिनीम् ॥ 16 ॥
View Verse
स्वजातिविहितं कर्म सांख्यं योगस्तथैव च।
सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे ॥ 17 ॥
View Verse
चतुर्भिर्लक्षणैर्युक्तं त्रिविधं कर्म वैदिकम्।
स्ववर्णाश्रमसंबन्धि नित्यनैमित्तिकात्मकम् ॥ 18 ॥
View Verse
अकामहतसंसिद्धं कर्म तत् पूर्वसाधनम्।
चतुर्विधस्तु संन्यासस्तत्र कार्यो विपश्चिता ॥ 19 ॥
View Verse
मन्त्रोक्तदेवतायां वा प्रकृताविन्द्रियेषु वा।
परस्मिन् देवदेवे वा वासुदेवे जनार्दने ॥ 20 ॥
View Verse
(सर्व E. I.)पूर्वं कर्तृत्वसंन्यासः फलसंन्यास एव च।
कर्मणामपि संन्यासो देवदेवे जनार्दने ॥ 21 ॥
View Verse
शास्त्रीयमाचरन्नेवं नित्यनैमित्तिकात्मकम्।
मदाराधनकामः सञ्शश्वत् प्रीणाति मां नरः ॥ 22 ॥
View Verse
इति ते लेशतः प्रोक्तं श्रुतिस्मृतिनिदर्शितम्(निदर्शनम् A. B. C.)।
द्वितीयं सांख्यविज्ञानमुपायं श्रृणु सांप्रतम् ॥ 23 ॥
View Verse
संख्यास्तिस्रो हि मन्तव्याः सांख्यशास्त्रनिदर्शिताः।
प्रथमा लौकिकी संख्या द्वितीया (चर्चिका E. I.)चर्चनात्मिका ॥ 24 ॥
View Verse
समीचीना तु या धीः सा तृतीया परिपठ्यते।
संख्यात्रयसमूहो यः सांख्यं तत्परिपठ्यते ॥ 25 ॥
View Verse
पृथिव्यापस्तथा तेजो वायुराकाशमेव च।
अहंकारो महांश्चैव प्रकृतिः परमा तथा ॥ 26 ॥
View Verse
एताः प्रकृतयस्त्त्वष्टौ तासां व्याख्यामिमां शृणु।
प्रकृतिस्रिविधा प्रोक्ता माया सूतिर्गुणात्मिका ॥ 27 ॥
View Verse
निःसक्तासक्तमद्वैतमतरङ्गमनश्वरम्।
अचेतनानां परमं सौक्ष्म्यं मायेति गीयते ॥ 28 ॥
View Verse
ईषदुच्छूनता तस्याः प्रसूतिरिति गीयते।
गुणत्रयसमुन्मेषः साम्येन प्रकृतिः परा ॥ 29 ॥
View Verse
अव्यक्तमक्षरं योनिरविद्या त्रिगुणा स्थितिः।
माया स्वभाव इत्याद्याः शब्दाः पर्यायवाचकाः ॥ 30 ॥
View Verse
सत्त्वं रजस्तमश्चेति गुणा एते त्रयो मताः।
तत्र सत्त्वं लघु ज्ञेयं सुखरूपमचञ्चलम् ॥ 31 ॥
View Verse
प्रकाशो नाम तद्वृत्तिश्चैतन्योद्ग्रहणात्मकः।
रजोऽपि च लघु ज्ञेयं दुःखरूपं च चञ्चलम् ॥ 32 ॥
View Verse
प्रवृत्तिर्नाम तद्वृत्तिः स्पन्दहेतुरनश्वरः।
तमो नाम गुरु ज्ञेयं मोहरूपमचञ्चलम् ॥ 33 ॥
View Verse
नियमो नाम तद्वृतिः क्वचित् स्वापनलक्षणम्।
न तदस्ति पृथिव्यां वा दिवि व्योम्नि च वासव ॥ 34 ॥
View Verse
भूतं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः।
एते चित्तमधिष्ठाय गुणा इन्द्रियगास्तथा ॥ 35 ॥
View Verse
सुखं दुःखं तथा मोहं विषयस्थाश्च कुर्वते।
(F. omits this line.)शरीरेन्द्रियतां याता(इन्द्रियतायां च E.) गुणाः कर्माणि कुर्वते।
इति यस्य मतिर्नित्या स गुणात्ययमश्नुते ॥ 36 ॥
View Verse

Chapter - 16

षोडशोऽध्यायः - 16
श्रीः---
व्याख्यानं महतः शक्र शृणुष्वावहितो मम।
वैषम्यस्य समुन्मेषो गुणानां प्रथमो हि यः ॥ 1 ॥
View Verse
स महान्नाम तस्यापि विधास्तिस्रः प्रकीर्तिताः।
सात्त्विको बुद्धिरित्युक्तो राजसः प्राण एव हि(उच्यते E.) ॥ 2 ॥
View Verse
तामसः काल इत्युक्तस्तेषां व्याख्यामिमां शृणु।
बुद्धिरध्यवसायस्य प्राणः प्रयतनस्य च ॥ 3 ॥
View Verse
कालः (कालन D.)कलनरूपस्य परिणामस्य कारणम्।
महतोऽपि विकुर्वाणादहंकारो व्यजायत(अस्य जायते A. B. C. D.) ॥ 4 ॥
View Verse
स चापि त्रिविधो ज्ञेयो गुणवैषम्यसंभवात्।
तामसाद्वियदादिस्तु तन्मात्रगण उज्ज्वलः ॥ 5 ॥
View Verse
जातः सत्त्वसमुद्रिक्ताद्बुद्धीन्द्रियगणो महान्।
कर्मेन्द्रियगणश्चापि (राजसात्तूभयाo A. B.)राजसादुभयात्मकम् ॥ 6 ॥
View Verse
उभयस्मात् समुद्भूतमितीयं तत्त्वपद्धतिः।
अत्र प्रकृतिरेकैव मूलभूता सनातनी ॥ 7 ॥
View Verse
महदाद्यास्तु सप्तान्ये कार्यकारणरूपिणः।
तन्मात्रेभ्यः समुद्भूता विशेषा वियदादयः ॥ 8 ॥
View Verse
बुद्धिकर्मेन्द्रियगणौ पञ्चकौ मन एव च।
विकारा एव विज्ञेया एते षोडश चिन्तकैः ॥ 9 ॥
View Verse
चतुर्विंशतिरेतानि तत्त्वानि कथितानि ते।
यावान्यश्चात्र वक्तव्यो विशेषो यादृशस्त्विह ॥ 10 ॥
View Verse
स सर्वः कथितः पूर्वं तव वृत्रनिषूदन।
विंशत्या च त्रिभिश्चैव विकारैः स्वैः समन्विता ॥ 11 ॥
View Verse
इयं प्रकृतिरव्यक्ता कथिता ते सुराधिप।
व्यक्ताव्यक्तमयी सैषा नित्यं प्रसवधर्मिणी ॥ 12 ॥
View Verse
विलक्षणा सा विज्ञेया चिच्छक्तिरविनश्वरा(अविनश्वरी B.)।
स जीवः कथितः सद्भिस्तत्त्वशास्त्रविशारदैः ॥ 13 ॥
View Verse
अयं स्वरसतः शुद्ध- परिणामविवर्जितः।
कूटस्थश्चिद्धनो (नित्यमन्तःस्थो A. D. F.)नित्यो ह्यनन्तोऽप्रतिसंक्रमः ॥ 14 ॥
View Verse
इमौ स्वरसतोऽसक्तौ सक्तात्मानाविव स्थितौ(सत्तात्मानौ व्यवस्थितौ B.)।
प्रकृतिः पुरुषश्चैव महद्भ्यश्च महत्तरौ ॥ 15 ॥
View Verse
लिङ्गग्राह्यावुभौ नित्यावलिङ्गौ चाप्युभावपि।
साधर्म्यमेवमाद्येवमनयोरुन्नयेद्बुधः ॥ 16 ॥
View Verse
वैधर्म्यमनयोः शक्र कथ्यमानं निबोध मे।
प्रकृतिस्त्रिगुणा नित्यं सततं परिणामिनी ॥ 17 ॥
View Verse
अविवेकाप्यशुद्धा च सर्वजीवसमा सदा।
विषयोऽचेतना(अवेदना G.) चैव सुखदुःखविमोहिनी ॥ 18 ॥
View Verse
मध्यस्थः पुरुषो नित्यः क्रियावानप्यविह्वलः।
साक्षी दृशिस्तथा द्रष्टा शुद्धोऽनन्तो गुणात्मकः ॥ 19 ॥
View Verse
वैधर्म्यमनयोरेतत् प्रकृतिं चानयोः शृणु।
या सा सदसदाख्यादिविकल्पविकला(विपुला C. D.) ध्रुवा ॥ 20 ॥
View Verse
नित्योदिता सदानन्दा पूर्णषाड्‌गुण्यविग्रहा।
अहं नारायणी शक्तिर्विष्णोः श्रीरपायिनी ॥ 21 ॥
View Verse
मत्तः प्रभवतो ह्येतौ मय्येव लयमेष्यतः।
साहमेतावती (भावैर्विषयैः A. B. C. D.)भावैर्विविधैर्विस्तृतिं गता ॥ 22 ॥
View Verse
नारायणे प्रतिष्ठाय पुनस्तस्मादुदेम्यहम्।
एको नारायणो विष्णुर्वासुदेवः सनातनः ॥ 23 ॥
View Verse
अपृथग्भूतशक्तित्वादद्वैतं ब्रह्म निष्कलम्।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजोमहोदधिः ॥ 24 ॥
View Verse
निस्तरङ्गः सदैवासौ जगदेतच्चराचरम्।
इति ते सांख्यविज्ञानं लेशतः शक्र दर्शितम् ॥ 25 ॥
View Verse
या तत्त्वगणना संख्या तां पुरा शीलयेद्बुधः।
ततः साधर्म्यवैधर्म्यस्वरूपप्रभवादिकाम् ॥ 26 ॥
View Verse
कुर्याच्चर्चात्मिकां संख्यां शास्त्रतत्त्वोपदेशजाम्।
चर्चायामिह संख्यायां (F. omits all portions from here up to एवं हि परिसंख्याय in the 29th verse.)सिद्धायाममलात्मनि ॥ 27 ॥
View Verse
उदेति या समीचीना संख्या सत्तत्त्वगोचरा।
एषा सा परमा संख्या मत्प्रसादसमुद्भवा ॥ 28 ॥
View Verse
सांख्यदर्शनमेतत्ते परिसंख्यानमीरितम्।
एवं हि परिसंख्याय सांख्या (सद्भाव A. B. C.)मद्भावमागताः ॥ 29 ॥
View Verse
उपायो (अयं A. B.)यस्तृतीयस्ते वक्ष्यते योगसंज्ञकः।
योगस्तु द्विविधो ज्ञेयः समाधिः संयमस्तथा ॥ 30 ॥
View Verse
यमाद्यङ्गसमुद्भूता समाधिः संस्थितिः परे।
ब्रह्मणि श्रीनिवासाख्ये ह्युत्थानपरिवर्जिता(वर्जितः A. B. C. D.) ॥ 31 ॥
View Verse
साक्षात्कारमयी सा हि स्थितिः सद्ब्रह्मवेदिनाम्।
ध्यातृध्येयाविभागस्था मत्प्रसादसमुद्भवा ॥ 32 ॥
View Verse
संयमो नाम सत्कर्म परमात्मैकगोचरम्।
तत्पुनर्द्विविधं प्रोक्तं शारीरं मानसं तथा ॥ 33 ॥
View Verse
विस्तरेणाभिधास्येते समाधिः संयमस्तथा।
प्रथमो य उपायस्ते कर्मात्मा कथितः पुरा ॥ 34 ॥
View Verse
संज्ञानं जनयेच्छुद्धमन्तःकरणशोधनात्।
तेन हि प्रीणिता साहं सदाचारनिषेवणात् ॥ 35 ॥
View Verse
ददामि बुद्धियोगं तमन्तःकरणशोधनम्।
सांख्यं नाम द्वितीयो य उपायः कथितस्तव ॥ 36 ॥
View Verse
परोक्षः शास्त्रजन्योऽसौ निर्णयो दृढतां गतः।
प्रत्यक्षतामिवापन्नो मत्प्रीतिं जनयेत्पराम् ॥ 37 ॥
View Verse
अहं संख्यायमाना हि स्वरूपगुणवैभवैः ।
उद्भावयामि तज्ज्ञानं प्रत्यक्षं यद्विवेकजम् ॥ 38 ॥
View Verse
तृतीयस्तु समाध्यात्मा (प्रत्यक्षाविप्लवो A.)प्रत्यक्षोऽविप्लवो दृढः।
प्रकृष्टसत्त्वसंभूतः प्रसादातिशयो हि सः ॥ 39 ॥
View Verse
तृतीयस्य विधा योऽसौ संयमो नाम वर्णितः।
भोगैः शुद्धैस्रिधोद्भूतैरत्यन्तप्रीतये मम ॥ 40 ॥
View Verse
अहं हि तत्र विश्वात्मा विष्णुशक्तिः परावरा।
साक्षादेव समाराध्या देवो वा पुरुषोत्तमः ॥ 41 ॥
View Verse
इति ते कथिताः सम्यगुपायास्त्रय ऊर्जिताः।
शृणूपायं चतुर्थं मे सर्वत्यागसमाह्वयम् ॥ 42 ॥
View Verse
(सर्व C.)तत्र धर्मान् परित्यज्य सर्वानुच्चावचाङ्गकान्।
संसारानलसंतप्तो मामेकां शरणं व्रजेत् ॥ 43 ॥
View Verse
अहं हि शरणं प्राप्ता नरेणआनन्यचेतसा।
प्रापयाम्यात्मनात्मानं निर्धूताखिलकल्मषम् ॥ 44 ॥
View Verse

Chapter - 17

सप्तदशोऽध्यायः - 17
शक्रः---
नमस्ते कमलावासे जनन्यै सर्वदेहिनाम्।
गृहिण्यै पद्मनाभस्य नमस्ते सरसीरुहे ॥ 1 ॥
View Verse
उपायास्ते त्रयः पूर्वे कथिता अवधारिताः।
व्याचक्ष्वाम्ब चतुर्थं (त्वम् E. I.)तमुपायं परमम्बुजे ॥ 2 ॥
View Verse
श्रीः---
एको नारायणो देवो वासुदेवः सनातनः।
चातुरात्म्यं परं ब्रह्म सच्चिदानन्दमव्रणम् ॥ 3 ॥
View Verse
एकाहं परमा शक्तिस्तस्य देवी सनातनी।
करोमि सकलं कृत्यं सर्वभावानुगामिनी ॥ 4 ॥
View Verse
(शान्तानन्द A. B. G.)शान्तानन्तचिदानन्दं यद् ब्रह्म परमं ध्रुवम्।
महाविभूतिसंस्थानं सर्वतः समतां गतम् ॥ 5 ॥
View Verse
तस्य शक्तिरहं ब्राह्नी शान्तानन्दचिदात्मिका।
महाविभूतिरनघा सर्वतः समतां गता ॥ 6 ॥
View Verse
आश्वासनाय जीवानां यत्तन्मूर्तीकृतं महः।
नारायणः परं ब्रह्म दिव्यं नयननन्दनम् ॥ 7 ॥
View Verse
तदा मूर्तिमती साहं शक्तिर्नारायणी परा।
समा समविभक्ताङ्गा सर्वावयवसुन्दरी ॥ 8 ॥
View Verse
तयोर्नौ परमं व्योम निर्दुःखं (सुखं I.)पदमुत्तमम्।
षाड्‌गुण्यप्रसरो दिवियः स्वाच्छन्द्याद्देशतां गतः ॥ 9 ॥
View Verse
स्वकर्मनिरतैः सिद्धैर्वेदवेदान्तपारगैः।
अनेकजन्मसंताननिःशेषितकषायकैः ॥ 10 ॥
View Verse
क्लेशेन महता सिद्धैरन्तरायातिगैः क्रमात्।
संख्याविधिविधानज्ञैः सांख्यैः संख्यानपारगैः ॥ 11 ॥
View Verse
प्रत्याहृतेन्द्रियग्रामैर्धारणाध्यानशालिभिः।
यौगैः(योगैः A. B. I.) समाहितैः शश्वत्क्लेशेन यदवाप्यते ॥ 12 ॥
View Verse
अच्छिद्राः पञ्चकालज्ञाः पञ्चयज्ञविचक्षणाः।
पूर्णे वर्षशते धीराः प्राप्नुवन्ति यदञ्जसा ॥ 13 ॥
View Verse
यत्तत्पुराणमाकाशं सर्वस्मात् परमं ध्रुवम्।
यत्पदं प्राप्य तत्त्वज्ञा मुचन्ते सर्वबन्धनैः ॥ 14 ॥
View Verse
सूर्यकोटिप्रतीकाशाः पूर्णेन्द्वयुतसंनिभाः।
यस्मिन् पदे विराजन्ते मुक्ताः संसारबन्धनैः ॥ 15 ॥
View Verse
इन्द्रियच्छिद्रविधुरा द्योतमानाश्च सर्वतः।
अनिष्यन्दा अनाहाराः षाड्‌गुण्यतनवोऽमलाः(सहितामलाः A. B. C.) ॥ 16 ॥
View Verse
एकान्तिनो महाभागा यत्र पश्यन्ति नौ सदा।
क्षपयित्वाधिकारान् स्वान् शश्वत्कालेन भूयसा ॥ 17 ॥
View Verse
(वसवो A. B. F.)वेधसो यत्र मोदन्ते शंकराः सपुरंदराः।
सूरयो नित्यसंसिद्धाः(संबन्धाः D.) सर्वदा(सर्वज्ञाः A. B. C. F.) सर्वदर्शिनः ॥ 18 ॥
View Verse
वैष्णवं परमं रूपं साक्षात्कुर्वन्ति यत्र ते।
अष्टाक्षरैकसक्तानां द्विषट्‌कार्णरतात्मनाम् ॥ 19 ॥
View Verse
षडक्षरप्रसक्तानां प्रणवासक्तचेतसाम्।
जितंतासक्तचित्तानां तारिकानिरतात्मनाम् ॥ 20 ॥
View Verse
अनुताराप्रसक्तानां यत् पदं विमलात्मनाम्।
अनन्तविहगेशानविष्वक्सेनादयोऽमलाः ॥ 21 ॥
View Verse
मदाज्ञाकारिणो यत्र मोदन्ते सकलेश्वराः।
तत्र दिव्यवपुः श्रीमान् देवदेवो जनार्दनः ॥ 22 ॥
View Verse
अनन्तभोगपर्यङ्के निषण्णः (ससुखो B.)सुसुखोज्ज्वले।
विज्ञानैश्वर्यवीर्यस्थैः शक्तितेजोबलोल्बणैः ॥ 23 ॥
View Verse
आयुधैर्भूषणैर्दिव्यैरद्भुतैः समलंकृतः।
पञ्चात्मना सुपर्णेन पक्षिराजेन सेवितः ॥ 24 ॥
View Verse
सारूप्यमेयुषा(ईयुषा A. C. D. F.) साक्षाच्छ्रीवत्सकृतलक्ष्मणा।
सेनान्या सेवितः सम्यग्विष्वक्सेनेन दीप्यता(दीव्यता E. F.) ॥ 25 ॥
View Verse
क्षेमाय सर्वलोकानामाध्यानाय मनीषिणाम्।
मुक्तयेऽखिलबन्धानां रूपदानाय योगिनाम् ॥ 26 ॥
View Verse
आस्ते नारायणः श्रीमान् वासुदेवः सनातनः।
सुकुमारो युवा देवः श्रीवत्सकृतलक्षणः ॥ 27 ॥
View Verse
चतुर्भुजो विशालाक्षः किरीटी कौस्तुभं वहन्।
हारनूपुरकेयूरकाञ्चीपीताम्बरोज्ज्वलः ॥ 28 ॥
View Verse
वनमालां दधद्दिव्यां पञ्चशक्तिमयीं पराम्।
सर्वावयवसंपन्नः(संपूर्णः E.) सर्वावयवसुन्दरः ॥ 29 ॥
View Verse
(रामो राजा B. G.)राजराजोऽखिलस्यास्य विश्वस्य परमेश्वरः।
कान्तस्य तस्य देवस्य विष्णोः सद्गुणशालिनः ॥ 30 ॥
View Verse
दयिताहं सदा देवी ज्ञानानन्दमयी परा।
अनवद्यानवद्याङ्गी नित्यं तद्धर्मधर्मिणी ॥ 31 ॥
View Verse
ईश्वरी सर्वभूतानां पद्माक्षी पद्ममालिनी।
शक्तिभिः सेविता नित्यं सृष्टिस्थित्यादिभिः परा ॥ 32 ॥
View Verse
द्वात्रिंशता सहस्रेण सृष्टिशक्तिभिरावृता।
(B. omits this line.)वृता तद्‌द्विगुणाभिश्च दिव्याभिः स्थितिशक्तिभिः ॥ 33 ॥
View Verse
ततश्च द्विगुणाभिश्च पूर्णा संहृतिशक्तिभिः।
नायिका सर्वशक्तीनां सर्वलोकमहेश्वरी ॥ 34 ॥
View Verse
महिषी देवदेवस्य सर्वकामदुघा विभोः।
तुल्या गुणवयोरूपैर्मनःप्रमथनी(प्रमथने A. B. F.) हरेः ॥ 35 ॥
View Verse
तैस्तैरनुगुणैर्भावैरहं देवस्य शार्ङ्गिणः।
करोमि सकलं कृत्यं नित्यं तद्धर्मधर्मिणी ॥ 36 ॥
View Verse
साहमङ्के स्थिता(अङ्कस्थिता A. C. D. F. G.) विष्णोर्देवदेवस्य शार्ङ्गिणः।
लालिता तेन चात्यन्तं सामरस्यमुपेयुषी ॥ 37 ॥
View Verse
कदाचित् सर्वदर्शिन्याः कृपा मे स्वयमुद्गता।
क्लिश्यतः प्राणिनो दृष्ट्वा संसारज्वलनोदरे ॥ 38 ॥
View Verse
कथं न्विमे(त्विमे A. B. C. F.) भविष्यन्ति (दुःखात् E.)दुःखोत्तीर्णाः सुखोत्तराः।
(B. omits 4 lines from here.)संसारपरसीमानमाप्रुयुर्मां कथं न्विति(त्विति A.) ॥ 39 ॥
View Verse
साहमन्तः कृपाविष्टा(जुष्टा E. I.) देवदेवमचूचुदम्।
भगवन् देवदेवेश लोकनाथ मम प्रिय ॥ 40 ॥
View Verse
सर्वादे सर्वमध्यान्त सर्व सर्वोत्तराच्युत।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम(पुरुषेस्वर E. I.) ॥ 41 ॥
View Verse
दुस्तरापारसंसारसागरोत्तारकारण।
व्यक्ताव्यक्तज्ञकालाख्यक्लृप्तभावचतुष्टय ॥ 42 ॥
View Verse
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।
प्रद्युम्न (सर्वग E. I.)सुभग श्रीमन्ननिरुद्धापराजित ॥ 43 ॥
View Verse
नानाविभवसंस्थान नानाविभवभाजन(भावन A. B. F. G.)।
दिव्यशान्तोदितानन्दषाड्‌गुण्योदयविग्रह ॥ 44 ॥
View Verse
स्फुरत्किरीटकेयूरहारनूपुरकौस्तुभ।
पीताम्बर महोदार पुण्डरीकनिभेक्षण ॥ 45 ॥
View Verse
चतुर्मूर्ते चतुर्व्यूह शरदिन्दीवरद्युते।
अभिरामशरीरेश नारायण जगन्मय ॥ 46 ॥
View Verse
अमी हि प्राणिनः सर्वे निमग्नाः क्लेशसागरे।
उत्तारं प्राणिनामस्मात्कथं चिन्तयसि प्रभो ॥ 47 ॥
View Verse
इत्युक्तो देवदेवेशः स्मयमानोऽब्रवीदिदम्।
अरविन्दासने देवि पद्मगर्भे सरोरुहे ॥ 48 ॥
View Verse
उत्तारहेतवोऽमीषामुपाया विहिता मया।
कर्म सांख्यं तथा योग इति शास्त्रव्यपाश्रयाः ॥ 49 ॥
View Verse
प्रत्यवोचमहं देवमित्युक्ता पुरुषोत्तमम्।
देवदेव न ते शक्याः कर्तुं कालेन गच्छता ॥ 50 ॥
View Verse
कालो हि कलयन्नेव(एकः D.) स्वतन्त्रो भवदात्मकः।
ज्ञानं सत्त्वं बलं चैषामायुश्च विनिकृन्तति(परिकृन्तति B.; आयुश्चापि निकृन्तति E.) ॥ 51 ॥
View Verse
अन्तःकरणसंस्था हि वासना विविधात्मिकाः।
तत्तत्कालवशं प्राप्य यातयन्ति शरीरिणः(शरीरिणाम् B.) ॥ 52 ॥
View Verse
उदासीनो भवानेवं प्राणिनां कर्म कुर्वताम्।
(तत्तद्दशा E.)तत्तत्कालानुकूलानि तत्फलानि प्रयच्छति ॥ 53 ॥
View Verse
येन त्वं बत संरब्धः प्राणिनः पालयिष्यसि।
प्रब्रूहि तमुपायं मे प्रणतायै जनार्दन ॥ 54 ॥
View Verse
इत्युक्तः प्रत्युवाचेदं भगवानुत्स्मयन्निव।
सरोरुहे विजानीषे सर्वमेवात्मनो गतम् ॥ 55 ॥
View Verse
मां तु जिज्ञाससे देवि तथापि शृणु भामिनि।
(अपायाश्चाप्युपायास्च E.)उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया ॥ 56 ॥
View Verse
विहिता य उपायास्ते निषिद्धाश्चेतरे मताः।
अधो नयन्त्यपायास्तं य (एतान् A. B. F.)एनाननुवर्तते ॥ 57 ॥
View Verse
ऊर्ध्वं नयन्त्युपायास्तं य (एतान् A. C.)एनाननुवर्तते।
उपायापायसंत्यागी(संत्यागात् D.) मध्यमां वृत्तिमाश्रितः ॥ 58 ॥
View Verse
मामेकं शरणं प्राप्य मामेवान्ते समश्नुते।
षडङ्गं तमुपायं च शृणु मे पद्मसंभवे ॥ 59 ॥
View Verse
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम्।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ 60 ॥
View Verse
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।
एवं मां शरणं प्राप्य वीतशोकभयक्लमः ॥ 61 ॥
View Verse
निरारम्भो निराशीश्च(निराशी च A. D. E.) निर्ममो निरहंकृतिः।
मामेव शरणं प्राप्य तरेत् संसारसागरम् ॥ 62 ॥
View Verse
(स्वकर्म C.; षट्‌कर्म G.)सत्कर्मनिरताः शुद्धाः सांख्ययोगविदस्तथा(विदश्च ये E.)।
नार्हन्ति शरणस्थस्य कलां कोटितमीमपि ॥ 63 ॥
View Verse
इति तस्य वचः श्रुत्वा देवदेवस्य शार्ङ्गिणः।
प्रीताहमभवं शक्र तदिदं वर्णितं तव ॥ 64 ॥
View Verse
[^36]देवप्रिये महादेवि नमस्ते पङ्कजासने।
आनुकूल्यादिकं भावं मम व्याचक्ष्व विस्तरात् ॥ 65 ॥
View Verse
श्रीः---
आनुकूल्यमिति प्रोक्तं सर्वभूतानुकूलता।
अन्तः स्थिताहं सर्वेषां भावानामिति निश्चयात् ॥ 66 ॥
View Verse
मयीव सर्वभूतेषु ह्यानुकूल्यं समाचरेत्।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जयेत् ॥ 67 ॥
View Verse
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः।
अङ्गसामग्र्यसंपत्तेरशक्तेरपि कर्मणआम् ॥ 68 ॥
View Verse
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।
उपाया नैव सिद्यन्ति ह्यपाया बहुलास्तथा ॥ 69 ॥
View Verse
इति या गर्वहानिस्तद्दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात् ॥ 70 ॥
View Verse
ईशेशितव्यसंबन्धादनिदंप्रथमादपि।
रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः ॥ 71 ॥
View Verse
स विश्वासो भवेच्छक्र सर्वदुष्कृतनाशनः।
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम् ॥ 72 ॥
View Verse
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः।
गोपायिता भवेत्येवं गोप्तृत्ववरणं स्मृतम् ॥ 73 ॥
View Verse
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते ॥ 74 ॥
View Verse
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
संन्यासस्त्याग इत्युक्तः शरणागतिरित्यपि ॥ 75 ॥
View Verse
उपायोऽयं चतुर्थस्ते प्रोक्तः शीघ्रफलप्रदः।
अस्मिन् हि वर्तमानानां विधौ विप्रनिषेविते ॥ 76 ॥
View Verse
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः।
आनुकूल्येतराभ्यां च विनिवृत्तिरपायतः ॥ 77 ॥
View Verse
कार्पण्येनाप्युपायानां विनिवृत्तिरिहोदिता(इहेरिता E. I.)।
रक्षिष्यतीति विश्वासादभीष्टोपायकल्पनम्(रक्षणोपायकल्पनम् A. G.) ॥ 78 ॥
View Verse
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्।
सर्वज्ञोऽपि हि विश्वेशः सदा कारुणिकोऽपि सन् ॥ 79 ॥
View Verse
संसारतन्त्रवाहित्वाद्रक्षापेक्षां प्रतीक्षते।
आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते ॥ 80 ॥
View Verse
हिंसास्तेयादयः शास्त्रैरपायत्वेन दर्शिताः।
कर्मसांख्यादयः शास्त्रैरुपायत्वेन दर्शिताः ॥ 81 ॥
View Verse
अपायोपायसंत्यागी (माध्यमीं A. C. F. G.)मध्यमां स्थितिमास्थितः।
रक्षिष्यतीति निश्चित्य निक्षिप्तस्वस्वगोचरः ॥ 82 ॥
View Verse
बुध्येत देवदेवेशं(देवदेवं तं E. I.) गोप्तारं पुरुषोत्तमम्।
शक्रः---
उपायापाययोर्मध्ये कीदृशी स्थितिरम्बिके ॥ 83 ॥
View Verse
अपायोपायतामेव क्रिया सर्वावलम्बते।
स्वीकारे(स्वीकारः E.) व्यतिरिके(व्यतिरेकः E.) च निषेधविधिशास्त्रयोः ॥ 84 ॥
View Verse
दृश्यते कर्मणो व्यक्तमपायोपायरूपता।
श्रीः---
त्रिविधां पश्य देवेश कर्मणो गहनां गतिम् ॥ 85 ॥
View Verse
निषेधविधिशास्त्रेभ्यस्तां विधां च निबोध मे।
अनर्थसाधनं किंचित्किंचिच्चाप्यर्थसाधनम् ॥ 86 ॥
View Verse
अनर्थपरिहारं(परिहाराय E. I.) च (किंचिद्धर्मोऽपि E.)किंचित् कर्मोपदिश्यते।
त्रैराश्यं कर्मणामेवं विज्ञेयं शास्त्रचक्षुषा ॥ 87 ॥
View Verse
अपायोपायसंज्ञौ तु पूर्वराशी परित्यजेत्।
(In F. the chapter ends with thsi verse.)तृतीयो द्विविधो राशिरनर्थपरिहारकः ॥ 88 ॥
View Verse
प्रायश्चित्तात्मकः कश्चिदुत्पन्नानर्थनाशनः।
तमंशं नैव कुर्वीत मनीषी पूर्वराशिवत् ॥ 89 ॥
View Verse
क्रियमाणं न कस्मैचिद्यदर्थाय प्रकल्पते।
अक्रियावदनर्थाय (कर्म तत्तु E. I.)तत्तु कर्म समाचरेत् ॥ 90 ॥
View Verse
एषा (हि A. B. C. G.)सा वैदिकी निष्ठा ह्युपायापायमध्यमा।
अस्यां स्थितो जगन्नाथं प्रपद्येत जनार्दनम् ॥ 91 ॥
View Verse
सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम्।
उपायापायसंयोगे निष्ठया हीयतेऽनया ॥ 92 ॥
View Verse
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्।
प्रायस्चित्तिरियं सात्र यत्पुनः शरणं श्रयेत्(व्रजेत् B. C. G.) ॥ 93 ॥
View Verse
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च ॥ 94 ॥
View Verse
संग्रहाय च लोकस्य मर्यादास्थापनाय च।
प्रियाय मम विष्णोश्च देवदेवस्य शार्ङ्गिणः ॥ 95 ॥
View Verse
मनीषी वैदिकाचारं मनसापि न लङ्घयेत्।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम् ॥ 96 ॥
View Verse
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम्।
लङ्घयञ्शूलमारोहेदनपेक्षोऽपि तां प्रति ॥ 97 ॥
View Verse
एवं विलङ्घयन् मर्त्यो मर्यादां वेदनिर्मिताम्।
प्रियोऽपि न प्रियोऽसौ मे मदाज्ञाव्यतिवर्तनात् ॥ 98 ॥
View Verse
उपायत्वग्रहं तत्र (वर्जयेत् A. B. C. G.)वर्जयन् मनसा सुधीः।
चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम् ॥ 99 ॥
View Verse
अतीत्य सकलं क्लेशं संविशत्यमलं पदम्।
अपायोपायनिर्मुक्तां मध्यमां (वृत्तिम् E.)स्थितिमास्थिता ॥ 100 ॥
View Verse
शरणागतिरग्र्यैषा संसारार्णवतारिणी।
इदं शरणमज्ञानामिदमेव विजानताम् ॥ 101 ॥
View Verse
इदं तितीर्षतां पारमिदमानन्त्यमिच्छताम्।
(प्रायश्चित्ति E.)प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे ॥ 102 ॥
View Verse
तनूकृत्याखिलं पापं मां चाप्नोति नरः शनैः।
अथोपायप्रसक्तश्च भुक्त्वा भोगाननामयान्(अमानवान् A. B. C.) ॥ 104 ॥
View Verse
अन्ते विरक्तिमासाद्य विशते परमं पदम्।
उपायः सुकरः सोऽयं दुष्करस्च मतो मम ॥ 105 ॥
View Verse
शिष्टैर्निषेव्यते सोऽयमकामहतचेतनैः।
अकामैश्च सकामैश्च तस्मात्सिद्ध्यर्थमात्मनः ॥ 106 ॥
View Verse
अर्चनीया नरैः शश्वन्मम मन्त्रमयी तनुः।
प्रविश्य विधिवद्दीक्षां गुरोर्लब्ध्वार्थसंपदः(संपदम् E. I.)।
मन्मयैरर्चयेन्मन्त्रैर्मामिकां मान्त्रिकीं(मम मन्त्रमयीं E. I.) तनुम् ॥ 107 ॥
View Verse

Chapter - 18

(F. omits this verse.)नमस्ते पद्मनिलये नमस्ते पद्मसंभवे।
विदितं वेदितव्यं मे वेदान्तेष्वपि दुर्लभम् ॥ 1 ॥
View Verse
ब्रूहि मन्त्रमयं मार्गमिदानीं विष्णुवल्लभे।
यं विज्ञायार्चयेयं ते दिव्यां मन्त्रमयीं तनुम् ॥ 2 ॥
View Verse
कुतो मन्त्रसमुत्पत्तिः क्व च मन्त्रः (विलीयते B.)प्रलीयते।
मन्त्रस्य किं फलं पद्मे केन मध्ये प्रपूर्यते ॥ 3 ॥
View Verse
कियत्यश्च (विधास्तस्य B. G. I.)विधा अस्य परिमाणं कियत् किल।
क्षेत्रक्षेत्रज्ञभावश्च कीदृशः परमोऽम्बुजे ॥ 4 ॥
View Verse
मन्त्रश्च केन संग्राह्य उपदेष्टा च कीदृशः।
उपासनप्रकारश्च कथमस्याब्जसंभवे ॥ 5 ॥
View Verse
उपासनोपयोगी च यावानर्थोऽम्बुजासने।
सिद्धिसाधनयोगश्च प्रत्ययाश्च तथा तथा ॥ 6 ॥
View Verse
योगः स्वाध्याययोगश्च रक्षायोगस्तथैव च।
(प्रायश्चित्ति A. F. G.)प्रायश्चित्तविधिश्चैव (श्रद्धाकल्पः A.)श्राद्धकल्पस्तथैव च ॥ 7 ॥
View Verse
दीक्षाप्रतिष्ठयोः कल्पो यन्त्रकल्पस्तथैव च।
एतच्च निखिलं यच्चाप्यदृष्टमुपयुज्यते(उपपद्यते B.) ॥ 8 ॥
View Verse
प्रब्रूहि तदशेषेण नमस्ते पद्मसंभवे।
तवैष शिरसा पादौ नतोऽस्मि कमलारूणौ ॥ 9 ॥
View Verse
शरणं च प्रपन्नोऽस्मि पङ्कजे त्वमधीहि भो।
श्रीः(श्रीरुवाच I.)---
प्रशभारोऽयमतुलस्त्वयोद्दिष्टः पुरंदर ॥ 10 ॥
View Verse
वाच्यस्ते प्रीतिसंयोगाच्छृणु वक्ष्याम्यशेषतः।
अहमित्येव यः (पूर्ण B. G. I.)पूर्णः पुरुषः पुष्करेक्षणः ॥ 11 ॥
View Verse
स्वभावः सर्वभावानामभावानां च वासव।
इदंतयावलीढं यत् सदसज्जगति स्थितम् ॥ 12 ॥
View Verse
तत्तल्लक्षणवन्तो ये तदहंत्वे विलीयते।
विलीनेदंपदद्वीपः प्राप्तैकध्यश्चिदम्बुधिः ॥ 13 ॥
View Verse
निस्तरङ्गोदयोऽनन्तो वासुदेवः प्रकाशते।
पूर्णाहंतास्मि तस्यैका शक्तिरीश्वरतामयी ॥ 14 ॥
View Verse
नित्योदिता सदानन्दा सर्वतः समतां गता।
सर्वभावसमुद्भूतिः सर्वप्रत्यक्षसंमता ॥ 15 ॥
View Verse
या ह्येषा प्रतिभा तत्तत्पदार्थक्रमरूषिता(रूपिणी G.)।
उद्धृतेषु पदार्थेषु साहमक्रमशालिनी ॥ 16 ॥
View Verse
अवबोधात्मिकाया मे या प्रत्यगवमर्शिता(अवमर्शिनी C.)।
सा स्फुरत्ता महानन्दा शब्दब्रह्मेति गीयते ॥ 17 ॥
View Verse
प्रकाशानन्दसाराहं सर्वमन्त्रप्रसूः परा।
शब्दानां जननी शक्तिरुदयास्तमयोज्झिता ॥ 18 ॥
View Verse
व्यापकं यत्परं ब्रह्म नारायणमनामयम्।
शान्तता नाम यावस्था साहं शान्ताखिलप्रसूः ॥ 19 ॥
View Verse
तस्या मे य उदेति स्म सिसृक्षाक्योऽल्प(अयम् B.) उद्यमः।
स शब्दार्थविभेदेन शान्त उन्मेष उच्यते ॥ 20 ॥
View Verse
शब्दोदयपुरस्कारः सर्वत्रार्थोदय स्मृतः।
अर्थशब्दप्रवृत्त्यात्मा शब्दस्य स्थूलता हि सा ॥ 21 ॥
View Verse
बोधोन्मेषः स्मृतः शब्दः शब्दोन्मेषोऽर्थ उच्यते।
उद्यच्छब्दोदयः शक्तोः प्रथमः शान्ततात्मनः ॥ 22 ॥
View Verse
स नाद इति विख्यातो वाच्यतामसृणस्तदा।
नादेन सह शक्तिः सा सूक्ष्मेति परिगीयते ॥ 23 ॥
View Verse
नादात् परो य उन्मोषो द्वितीयः शक्तिसंभवः।
बिन्दुरित्युच्यते सोऽत्र वाच्योऽपि मसृणः स्थितः ॥ 24 ॥
View Verse
पश्यन्ती नाम सावस्था मम दिव्या महोदया।
ततः परो य उन्मेषस्तृतीयः शक्तिसंभवः ॥ 25 ॥
View Verse
मध्यमा सा दशा तत्र संस्कारयति संगतिम्।
वाच्यवाचकभेदस्तु तदा संस्कारतामयः ॥ 26 ॥
View Verse
चतुर्थस्तु य उन्मेषः शक्तेर्माध्यमिकात् परः।
वैखरी नाम सावस्था वर्णवाक्यस्फुटोदया ॥ 27 ॥
View Verse
अस्ति शक्तिः क्रियात्मा मे बोधरूपानुयायिनी(अनपायिनी F.)।
सा प्राणयति नादादिं शक्त्युन्मेषपरंपराम् ॥ 28 ॥
View Verse
शान्तरूपाथ पश्यन्ती मध्यमा वैखरी तथा।
चतूरूपा चतूरूपं वच्मि वाच्यं स्वनिर्मितम् ॥ 29 ॥
View Verse
वासुदेवादयः सूक्ष्मा वाच्याः शान्तादयः क्रमात्।
अहमेकपदी ज्ञेया प्रकाशानन्दरूपिणी ॥ 30 ॥
View Verse
वाच्यवाचकभेदेन(भावेन B.) पुनः सा द्विपदी स्मृता।
(B. and F. omit nine lines from here.)ऊष्मान्तःस्थस्वरस्पर्शभेदाच्चाहं चतुष्पदी ॥ 31 ॥
View Verse
अष्टवर्गविभेदाच्च साहमष्टपदी स्मृता।
अघोषरूपेणान्येन युक्ता नवपदी स्मृता ॥ 32 ॥
View Verse
अहमेकपदी दिव्या शब्दब्रह्ममयी परा।
घोषवर्णस्वरूपेण वर्तेऽहं द्विपदी पुनः ॥ 33 ॥
View Verse
तक्षती सलिलं सर्वं द्रव्यजातिगुणक्रियाः।
चतुर्धाभिदधानाहं चतुष्पद्युदिता बुधैः ॥ 34 ॥
View Verse
नामभावद्वयोपेता साहमष्टपदी स्मृता।
अविकल्पविकल्पस्था साहं नवपदी स्मृता ॥ 35 ॥
View Verse
व्योम्न्यहं परमे दिव्या ह्यनन्ताक्षरमालिनी।
इयद्विततिविस्तीर्णा पूर्णाहंताहमादिमा ॥ 36 ॥
View Verse
मन्त्राणां जननी ज्ञेया भुक्तिमुक्तिप्रदायिनी।
उद्यन्ति मन्त्रकल्लोला मत्त एव चिदम्बुधेः ॥ 37 ॥
View Verse
(मामेवाश्रित्य वर्तन्ते F.)मामाश्रित्य विवर्तन्ते यान्ति चास्तं मुहुर्मयि।
संविदानन्दसंदोहसुन्दराः शब्ददेहकाः ॥ 38 ॥
View Verse
सामर्थ्यपूर्णाः फलदा मन्त्रात्मानो हि मन्मयाः।
वर्णाः पदानि वाक्यानि सहप्रकरणाह्निकैः ॥ 39 ॥
View Verse
अध्यायाश्च परिच्छेदाः सर्गा उछ्वासकास्तथा।
पटलाद्या (व्यवच्छेदाः D.)अवच्छेदाः (प्रश्ना C.)प्रश्रवाकानुवाककाः ॥ 40 ॥
View Verse
मण्डलानि च काण्डानि संहिता विविधात्मिकाः।
ऋचो यजूंषि सामानि सूक्तानि च खिलैः समम् ॥ 41 ॥
View Verse
शास्त्रतन्त्रात्मकाः शब्दा बाह्याबाह्यागमास्तथा।
भाषाश्च विविधास्तास्ता व्यक्ताव्यक्तगिरः स्मृताः ॥ 42 ॥
View Verse
मन्त्ररूपभिदं शक्र विद्धि मद्रूपवेदिनाम्।
भावनातारतम्येन मन्त्रमन्त्रिव्यवस्थितिः ॥ 43 ॥
View Verse
मां त्रायतेऽयमित्येवं योगेन स्वीकृतो ध्वनीः।
गुप्ताशयः सदा यश्च मन्त्रज्ञं त्रायते भयात् ॥ 44 ॥
View Verse
स मन्त्रः संस्मृतोऽहंताविकासः शब्दजैः क्रमैः।
पूर्णाहंतासमुद्भूतैः शुद्धबोधान्वयो यतः ॥ 45 ॥
View Verse
सर्वे मन्त्रा मदीयाः स्युः प्रभवाप्ययवेदिनाम्।
मदीयाश्चान्यदीयाश्च भावनातारतम्यतः ॥ 46 ॥
View Verse
प्रकृत्यन्वयिनो मन्त्रा मदीयाः स्युः प्रधानतः।
भवद्भावात्मकं ब्रह्म स्वारस्येन विशन्ति ये ॥ 47 ॥
View Verse
प्रकृत्यन्वयिनो मन्त्रास्तारिकोत्तारिकादयः।
मन्त्राः स्वरसतो यान्ति ये भावं भवदुत्तरम् ॥ 48 ॥
View Verse
तेऽपवर्गप्रदा ज्ञेयास्तारप्रासादकादयः।
भावोत्तरां समां वापि ये भजन्ति भवत्स्थितिम् ॥ 49 ॥
View Verse
भोगापवर्गदा मन्त्रा ज्ञेयास्ते तारिकादयः।
विशन्ति भावमेवैके यान्त्येके भवदेव च ॥ 50 ॥
View Verse
भुक्तिदा मुक्तिदाश्चैव द्वितये ते व्यवस्थया।
प्रकृत्यन्वयिनामेवं स्वभावः परिकीर्तितः।
अभिसंधिबलात् सर्वं द्वितये ते वितन्वते ॥ 51 ॥
View Verse

Chapter - 19

एकोनविंशोऽध्यायः - 19
श्रीः(श्रीरुवाच B. I.)---
सिसृक्षालक्षणा पूर्वा पूर्णाहंता हरेरहम्।
सृष्टिरूपा परा शक्तिरूपेत्येवोदितास्म्यहम् ॥ 1 ॥
View Verse
दश पञ्च च तुल्या मे दशास्त्रिदशनन्दन।
अनुत्तरं स्वसंवेद्यं चिद्रूपं मम शाश्वतम् ॥ 2 ॥
View Verse
वाक्तत्त्वं तदकारात्मा सर्ववाङ्‌मयसंभवः।
तदेवानन्दरूपेण द्वितीयः स्वर इष्यते ॥ 3 ॥
View Verse
इच्छात्मना तृतीयः स्यादीशानात्मा तुरीयकः।
उन्मेषः पञ्चमः षष्ठ ऊर्जतारूप उच्यते ॥ 4 ॥
View Verse
चतुष्कं मध्यमं यत्तदिच्छादेरेव विक्रिया।
अनुत्तरेच्छासंयोगादेकारो नाम जायते ॥ 5 ॥
View Verse
तस्यैवानन्दसंयोगाज्जागद्योनिरुदाहृता।
अनुत्तरोन्मेषयोगादोकारो नाम जायते ॥ 6 ॥
View Verse
तस्यैवानुत्तरश्लेषात् सद्योजातसमुद्भवः।
अनुत्तराद्भवन्त्येते विकासा वेद्यसंश्रयाः ॥ 7 ॥
View Verse
तादृक्तादृक्समुन्मेषा आनन्दाद्यास्त्रयोदश।
त्रयोदशतयोन्मेषाः श्रिता वेदनशेषिताम् ॥ 8 ॥
View Verse
अनुत्तरीं सूक्ष्मदशां स तु (पञ्चदश स्वराः B.)पञ्चदशः स्वरः।
एताः पञ्चदशावस्था विसृष्टेः स्फुरणोद्यमाः ॥ 9 ॥
View Verse
दशभिः पञ्चभिश्चैवमङ्गैः (पूर्ण B. D. F.)पूर्णा सिसृक्षया।
(देवी B.)दैवी सृष्टिमयी शक्तिः कृत्ये कृत्ये कृतोद्यमा ॥ 10 ॥
View Verse
विसृजत्यास्तु तस्या मे तत्त्वानां पञ्चविंशतिम्(विंशतिः G.)।
पुरुषाद्याः पृथिव्यन्ताः कादिमान्ताः समुद्गताः ॥ 11 ॥
View Verse
तत्तदक्षरसंस्फूर्तेस्तत्तत्तत्त्वं समुद्गतम्।
चतुष्कं धाराणारूपं यादिवान्तमुदीर्यते ॥ 12 ॥
View Verse
धारयन्ति यतो मध्ये पुरुषं धारणाः स्मृताः।
कला किंचित्क्रियारूपा यकारो वातसंज्ञितः(संज्ञकः B.) ॥ 13 ॥
View Verse
किंचिज्ज्ञानात्मिका विद्या रेफः पावकसंज्ञितः।
स्तम्भमोहात्मिका माया लकारः पृथिवी मतः ॥ 14 ॥
View Verse
रञ्जनात्मा रागशक्तिर्वकारो वरुणात्मकः।
परापरदशामध्ये धारयन्त्यो नरं सदा ॥ 15 ॥
View Verse
चतस्रो धारणा ज्ञेयास्ता एतास्तत्त्वकोविदैः।
शादिक्षान्तं तु विज्ञेयं विशुद्धं ब्रह्मपञ्चकम् ॥ 16 ॥
View Verse
शषसहोऽनिरुद्धाद्या विज्ञेयास्त्रिदशेश्वर।
सृजन्त्याः क्षुभितं रूपं सृष्ट्यादौ यन्ममाद्भुतम् ॥ 17 ॥
View Verse
क्षोभिका सा महाशक्तिः क्षात्मा सत्यापराह्वया।
पृथिव्याद्या वियत्प्रान्ता या दिव्याः पञ्च शक्तयः ॥ 18 ॥
View Verse
बलादिपञ्चकात्मानो दिव्या मत्सत्त्वनामिकाः।
ज्ञानात्मानो ममोद्यत्यास्ता एताः शादिशक्तयः ॥ 19 ॥
View Verse
विसर्गो नाम यः प्रोक्तः पुरा पञ्चदशाङ्गवान्।
साहं सोममयी शक्तिः किरणायुतसंकुला ॥ 20 ॥
View Verse
(C. omits 4 lines from here.)संकोचश्च विकासश्च तावेव परिकीर्तितौ।
अङ्गानामन्तिमो यस्तु प्रोक्तः पञ्चदशो मया ॥ 21 ॥
View Verse
आदानशीलं तं विद्धि सूर्यं भोक्तारमञ्जसा।
सूर्याचन्द्रमसावेतौ बिन्दुसर्गौ पुरंदर ॥ 22 ॥
View Verse
(B. omits 3 lines from here.)किरणाः सप्त सप्त स्युर्देवयोरनयोर्द्वयोः।
चतुर्दश स्वराः शिष्टाः सप्त युग्मानि कल्पयेत् ॥ 23 ॥
View Verse
तेषु सप्तसु युग्मेषु पूर्वे सप्त पुरंदर।
शोषकाः सूर्यरूपाया भोक्त्राक्याया ममांशवः ॥ 24 ॥
View Verse
उत्तरे सप्त युग्मेषु शीतलाह्लादकारिणः।
पोषकाः सोमरूपाया भोग्याख्याया ममांशवः ॥ 25 ॥
View Verse
आलोकस्तीक्ष्णता व्याप्तिर्ग्रहणं क्षेपणेरणे।
पाक इत्युदिताः पूर्वे किरणाः सूर्यसंभवाः ॥ 26 ॥
View Verse
(मावना F.)द्रवता शीतभावश्च शान्तिः(शक्तिः A. B. C.) किरणैः कान्तिशालिनी।
रसतानन्द इत्येते सप्त चान्द्रमसाः कराः ॥ 27 ॥
View Verse
अग्नीषोमात्मकैरेभिः(एतैः D.) किरणैः कान्तिशालिनी।
पुमांसं बिन्दुरूपं तमङ्गीकृत्य विशेषणी ॥ 28 ॥
View Verse
सोमरूपोत्तरा शक्तिकोटिमण्डलमण्डिता।
महासृष्टिर्महानन्दा प्रवर्तेऽन्त्यस्वरात्मना ॥ 29 ॥
View Verse
(तस्यां प्रवर्तमानायां B.)तस्याः प्रवर्तमानाया उद्गतं ब्रह्मपञ्चकम्।
क्षादि शान्तं सुरेशान शक्त्युन्मेषविशेषितम् ॥ 30 ॥
View Verse
क्ष इत्येव महाक्षोभ उदितः सत्यसंज्ञया।
वासुदेवाख्यया होऽभूता साख्यः संकर्षणोदयः ॥ 31 ॥
View Verse
प्रद्युम्नः षाख्यया ज्ञेयो ह्यनिरुद्धस्तु शाख्यया।
ता एताः शक्तयः पञ्च पञ्चब्रह्मात्मिकाः पराः ॥ 32 ॥
View Verse
स्फूर्तयो मदभिन्नास्ता जगदुत्पत्तिहेतवः।
ज्वाला इव महावह्नेर्ब्रह्मणो मम शक्तयः ॥ 33 ॥
View Verse
चतस्रो धारणा जाता वाद्या यान्ताः पुरंदर।
तुर्याद्या जाग्रदन्तास्ता अवस्थाः परिकीर्तिताः ॥ 34 ॥
View Verse
पुमांसं धारयन्त्येता मध्यतो दशयोर्द्वयोः।
यैषा ब्रह्मदशा प्रोक्ता प्राकृती भादिका(श्रयते A.; क्रियते F.) च या ॥ 35 ॥
View Verse
मध्ये तयोर्मकाराख्यो धारणानां चतुष्कतः।
(श्रयते A.; क्रियते F.)ध्रियते स पुमान् प्रोक्तो जाग्रदादिविभेदवान् ॥ 36 ॥
View Verse
यदि न ध्रियते ताभिर्दशामन्यतरां व्रजेत्।
ब्राह्नीं वा प्राकृतीं वापि नैव स्यात् संसृतिस्ततः ॥ 37 ॥
View Verse
(य इत्थं A. B.)इत्यर्थं धारणा मत्तः प्रादुर्भूता ममाज्ञया।
ततो दशाचतुष्कस्थः पुरुषो भोक्तृसंज्ञकः ॥ 38 ॥
View Verse
मत्तो जज्ञे म इत्येवं योग्यो भोगापवर्गयोः।
भोगानां प्रसवार्थाय पुरुषस्यास्य वासव ॥ 39 ॥
View Verse
अचैतन्यं परं सूक्ष्मं गुणसाम्यमनुल्बणम्।
योनिस्वभावसंज्ञातं मत्तोऽभूद्भ इति स्वयम् ॥ 40 ॥
View Verse
(भोग्यदत्त्वादि B.)भोग्यभोगादिसिद्ध्यर्थं भुञ्जानस्य विपश्चितः(अविपस्चितः F.)।
बाद्यात् ककारपर्यन्ताद्वर्णग्रामात् पुरंदर ॥ 41 ॥
View Verse
व्यक्तानि जज्ञिरे मत्तो विंशतिस्रीणि च क्रमात्।
बुद्ध्यहंकारमनसां सृष्टिर्बादित्रयात्तथा ॥ 42 ॥
View Verse
श्रोत्रादेर्नादितान्तेषु पञ्चकस्य समुद्भवः।
वागादेर्णादिटान्तेषु पञ्चकस्य समुद्भवः ॥ 43 ॥
View Verse
(व्योमाद्या I.)शब्दाद्याः पञ्चतन्मात्रा ञादिचान्तेषु जज्ञिरे।
वियदादीनि भूतानि ङादिकान्तेषु जज्ञिरे ॥ 44 ॥
View Verse
बोधः शब्दात्मनोदेति शब्दस्त्त्वर्थात्मना ततः।
विद्धि बोधं तु मद्रूपं सर्वेयं मत्ततिस्ततः ॥ 45 ॥
View Verse
वर्णाध्वनस्त्वियं रीतिर्मध्यमा कथिता तव।
आद्यामन्तां च देवेश गदन्त्या मे निशामय ॥ 46 ॥
View Verse

Chapter - 20

विंशोऽध्यायः - 20
शक्रः---
नमो निखिलनिर्माणत्राणसंहारशक्तये।
हरेः स्वरूपभूतायै नमस्ते ज्ञानरूपिणि ॥ 1 ॥
View Verse
त्वत्प्रसादान्मया पद्मे रहस्यं परमं श्रुतम्।
वर्णाध्वानं यथावन्मे(पद्मे A. B.) भूयस्त्वं वक्तुमर्हसि ॥ 2 ॥
View Verse
श्रीः(श्रीरुवाच C.)---
शृणु वर्णाध्वनो रीतिमाद्यां त्रिदशपुंगव।
प्राप्नोति यत्परिज्ञानात्साधको (मत्स्वरूपताम् C.)मत्सरूपताम् ॥ 3 ॥
View Verse
वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत् परम्।
अनस्तमितभारूपं सर्वाभिन्नमहंपदम् ॥ 4 ॥
View Verse
अहंता नाम सा शक्तिस्तदभिन्ना सदोदिता।
अनस्तमितभारूपा वेद्यवेदकवर्जिता ॥ 5 ॥
View Verse
प्रकाशानन्दसाराहं सर्वतः समतां गता।
कोटिकोट्ययुतैकांशकोट्यंशे क्षुभिता सती ॥ 6 ॥
View Verse
शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि।
मुक्तयेऽखिलजीवानामुदेमि परमेश्वरात् ॥ 7 ॥
View Verse
तदव्यक्ताक्षरं विद्धि तन्त्रीशब्दो यथा कलः।
पृथग्वर्णात्मना याति स्थितये नैकधा(अनेकाधा F.) स तु ॥ 8 ॥
View Verse
सूक्ष्मवर्णस्वरूपोऽसौ धारासंतानरूपधृत्।
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य विवेकिनः(विवेकतः B.) ॥ 9 ॥
View Verse
(सोऽनुभूति A. B. C. D.)अनुभूतिपदं याति प्रसादात् परमात्मनः।
मच्चातुरात्म्यनिचयो विज्ञेयो हि तदात्मना(तदात्मनाम् C.) ॥ 10 ॥
View Verse
प्रभवाप्यययोगेन भारूपध्वनिलक्षणः।
सकारान्तस्त्वकाराच्च हकारादान्त एव च ॥ 11 ॥
View Verse
प्रभवे द्वादशान्तस्तु हकारश्चतुरात्मनाम्।
अकारस्त्वप्यये चैतौ द्वादशान्तावुभौ समौ ॥ 12 ॥
View Verse
वार्णे व्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना।
विश्राम उदयो व्याप्तिर्व्यक्तिरा वासुदेवतः ॥ 13 ॥
View Verse
अत्रैकैकोपरि ज्ञेया मूर्तिर्वै त्वेवमेव हि।
(C. omits four lines from here.)युक्ता विश्रामपूर्वेण चतुष्केण समासतः ॥ 14 ॥
View Verse
विश्रामं चिन्तयेद्देवं वासुदेवं सनातनम्।
अकारं पुण्डरीकाक्षं पूर्वदेवं सनातनम् ॥ 15 ॥
View Verse
संकर्षणादितत्त्वानि विश्राम्यन्ति लयेऽत्र हि।
ततः संकर्षणं देवमाकारमुदयं स्मरेत् ॥ 16 ॥
View Verse
उदितो हि स सर्वात्मा प्रथमं सर्वकृत् स्वयम्।
व्याप्तं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत् ॥ 17 ॥
View Verse
विविधं प्राप्यते तेन त्रयीकर्मात्मना जगत्।
अनिरुद्धं व्यक्तिरूपमीकारं तमनुस्मरेत् ॥ 18 ॥
View Verse
व्यज्यन्ते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः।
दण्डवत्संनिवेशेन संस्थिता ह्येवमेव हि ॥ 19 ॥
View Verse
आ सकाराच्चतूरूपयुक्ता मे चतुरात्मता।
स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम् ॥ 20 ॥
View Verse
हकारं वासुदेवं तु विश्रामं परिचिन्तयेत्।
संकर्षणं सकारं तमुदयं त्वप्यये स्मरेत् ॥ 21 ॥
View Verse
एवमाकारतो दिव्यां चिन्तयेच्चतुरात्मताम्।
द्विषट्‌कं धारणानां च द्वादशाध्यात्मलक्षणम्(चिन्तनम् B.) ॥ 22 ॥
View Verse
सोपानभूतं यत्क्रान्त्वा द्वादशान्ताद्विशेत् परम्(पुरम् B. D.)।
एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता ॥ 23 ॥
View Verse
सूक्ष्मा तच्चातुरात्मीया भारूपा मन्मयी परा।
मध्यमा पूर्वमेवोक्ता विशेषं तत्र मे शृणु ॥ 24 ॥
View Verse
धारणाः पूर्वमुक्ता याश्चतस्रो मत्स्वरूपिकाः।
वकाराख्यानिरुद्धस्य शक्तिः सा रागसंज्ञिता(संज्ञिका C.) ॥ 25 ॥
View Verse
माया नाम महालक्ष्मीर्लकारापरनामिका।
विद्या या रेफसंज्ञाता महावाणी तु सा स्मृता ॥ 26 ॥
View Verse
वातसंज्ञा महाकाली क्रियाशक्तिर्यकारिणी।
ब्रह्माद्या मूर्तयस्तिस्रः पत्न्यस्रय्यादयश्च याः ॥ 27 ॥
View Verse
तज्ज्ञेयं सकलं सूक्ष्ममकारस्यादिमेंऽशके।
मध्यमे भोक्तृकूटस्थः पुरुषोंऽशे प्रतिष्ठितः ॥ 28 ॥
View Verse
संसारी पुरुषः सर्वश्चरमांशेऽवतिष्ठते।
एषा ते मध्यमा रीतिर्वर्णमार्गस्य दर्शिता ॥ 29 ॥
View Verse
चरमामथ वक्ष्यामि रीतिं बलनिषूदन।
वैखरी चरमा रीतिः प्रयत्नस्थानभेदिनी ॥ 30 ॥
View Verse
व्यक्तवाचां समुच्चारे सा स्फुटीभवति ध्रवम्।
जीवानां देहबद्धानां तत्तत्सन्मार्गदर्शिका ॥ 31 ॥
View Verse
मातृका जायते सेयं विष्णुशक्त्युपबृंहिता।
विष्णुवत्तत्र पञ्चाशच्छक्तयः परिकीर्तिताः ॥ 32 ॥
View Verse
(C. omits 4 lines from here.)अधितिष्ठन्ति ये यां च मातृकां वर्णमालिनीम्।
वासुदेवादयो व्यूहा दश द्वौ केशवादयः ॥ 33 ॥
View Verse
स्वराधिष्ठायिनो देवाः शक्तीस्तेषामिमाः शृणु।
लक्ष्मीः कीर्तिर्जया माया व्यूहशक्तय ईरिताः ॥ 34 ॥
View Verse
श्रीश्च वागीश्वरी कान्तिक्रियाशान्तिविभूतयः।
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च ॥ 35 ॥
View Verse
शक्तयः केशवादीनां ता एताः स्वरशक्तयः।
काद्यधिष्ठायिनो देवान् गदन्त्या मे निशामय ॥ 36 ॥
View Verse
पद्मनाभादिनामानो विष्णवः कादिदेवातः।
पद्मनाभो ध्रुवोऽनन्तः शक्तीशो मधुसूदनः ॥ 37 ॥
View Verse
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः।
(धर्मात्मा I.)क्रोडात्मा बडबावक्त्त्रो धर्मो वागीश्वरस्तथा ॥ 38 ॥
View Verse
एकार्णवशयो देवः कूर्मः पातालधारकः।
वराहो नारसिंहश्चाप्यमृताहरणस्तथा ॥ 39 ॥
View Verse
श्रीपतिर्दिव्यदेहोऽथ कान्तात्मामृतधारकः।
राहुजित् कालनेमिघ्नः पारिजातहरो महान् ॥ 40 ॥
View Verse
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः ॥ 41 ॥
View Verse
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 42 ॥
View Verse
ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः।
वेदविद्भगवान् कल्की पातालशयनः प्रभुः ॥ 43 ॥
View Verse
एतेष्वन्त्येषु चत्वारो देवा रामादयो हि ये।
ते रङ्गयमयोर्जिह्वामूलोपध्मानयोरपि ॥ 44 ॥
View Verse
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च।
संख्या विश्वा खगा भूर्गौर्लक्ष्मीर्वागीश्वरी तथा ॥ 45 ॥
View Verse
अमृता धरणी छाया नारसिंही सुधा तथा(तथा सुधा B. C.)।
श्रीः कीर्तिर्विश्वकामा मा सत्या कान्तिः सरोरुहा ॥ 46 ॥
View Verse
माया पद्मासना खर्वा विक्रान्तिर्नरसंभवा।
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ॥ 47 ॥
View Verse
वैदेही (देव B.)वेदविद्या च पद्मिनी नागशायिनी(पद्मवासिनी C.)।
मदंशका इमा देव्यो विज्ञेयाः कादिशक्तयः ॥ 48 ॥
View Verse
भवोपकरणैश्चेयं मातृकाधिष्ठिता सुरैः।
श्रीकण्ठानन्दसूक्ष्माद्यैर्लम्बोदर्यादिशक्तिभिः ॥ 49 ॥
View Verse
विननायकैश्च दुर्गाभिः क्षेत्रेशैर्मातृभिस्तथा।
समयस्थैस्तथा बौद्धैरार्हतैरपि चापरैः ॥ 50 ॥
View Verse
यथा हि क्षुधिता बाला मातरं पर्युपासते।
एवं सर्वे सुरा देवीं मातृकां पर्युपासते ॥ 51 ॥
View Verse
इयं योनिर्हि मन्त्राणां विद्यानां जन्मभूरियम्।
तत्त्वानां तात्त्विकानां च ज्ञानानां प्रसवस्थली ॥ 52 ॥
View Verse

Chapter - 21

एकविंशोऽध्यायः - 21
शक्रः---
शब्दार्थव्यक्तिरूपायै षडध्वपरिवर्तिनि।
अध्वातीतावबोधाख्ये नमस्ते हरिवल्लभे ॥ 1 ॥
View Verse
वर्णाः प्रकाशिता देवि यथावत् सर्वहेतवः।
मन्त्रमार्गमिदानीं मे यथावद्वक्तुमर्हसि ॥ 2 ॥
View Verse
श्रीः---
एक एव परो देवः श्रीमान् पुरुषसत्तमः।
षाड्‌गुण्याम्भोनिधिर्दिव्यः सर्वात्मा सर्वतोमुखः ॥ 3 ॥
View Verse
तस्याहं परमा शक्तिरहंता श्रीरभेदिनी।
सर्वाधारा सर्वशक्तिः सर्वज्ञा सर्वतोमुखी ॥ 4 ॥
View Verse
मयि प्रकाशते विश्वं दर्पणोदरशैलवत्।
बोध एव स्वरूपं मे निर्मलानन्दलक्षणः ॥ 5 ॥
View Verse
इच्छापरवती साहं बोधकांशविवर्तिनी।
शब्दब्रह्ममयी भूत्वा विवर्तेऽहं कलाध्वना ॥ 6 ॥
View Verse
कला ज्ञानादयः प्रोक्ताः षड्‌ गुणाः पारमेश्वराः।
तासां त्रिकद्वियोगेन विवर्ते तत्त्ववर्त्मना ॥ 7 ॥
View Verse
संकर्षणादयो देवास्तत्त्वानि सुरसत्तम।
वर्णव्यतिकरैर्भूयो विवर्ते मन्त्रवर्त्मना ॥ 8 ॥
View Verse
तस्य मन्त्राध्वनो व्यक्तिं गदन्त्या मे निशामय।
शब्दब्रह्मविवर्तोऽयं किरणायुतसंकुलः ॥ 9 ॥
View Verse
चिल्लक्षणः षड्‌गुणात्मा तस्य भेदश्चतुर्विधः।
क्वचिद्बीजं क्वचित्पिण्डं क्वचित्संज्ञा क्वचित्पदम् ॥ 10 ॥
View Verse
तुर्यं सुषुप्तिः स्वप्नश्च जाग्रद्बीजादयः क्रमात्।
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम् ॥ 11 ॥
View Verse
बीजं बहुस्वरं वापि विज्ञेयं विबुधेश्वर।
(अन्तराहुरयः A.; अन्तराहलयः B. G.; अन्तराकुलयः C.; अनन्तराविलं D.)अन्तरा हरयः पिण्डं क्वचित्स्वरसमायुतम् ॥ 12 ॥
View Verse
तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुता।
क्रियाकारकसंयोगस्तुतिसंबोधलक्षणः ॥ 13 ॥
View Verse
नानाभिज्ञासमायुक्तः पदात्मा मन्त्र उच्यते।
एतच्चतुष्टयं मन्त्रं संपूर्णं देवतात्मनि ॥ 14 ॥
View Verse
सा चतुष्टयसंबद्धा सिद्धिमिष्टां प्रयच्छति।
क्षेत्रक्षेत्रज्ञभावं च मन्त्राणां त्रिदशेश्वर ॥ 15 ॥
View Verse
विज्ञाय तत्त्वतो मन्त्रान् प्रयुञ्जीत विचक्षणः।
शक्रः---
क्षेत्रक्षेत्रज्ञसद्भावं मन्त्राणां वद मेऽम्बुजे ॥ 16 ॥
View Verse
श्रीः---
बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम् ॥ 17 ॥
View Verse
निर्बीजानामादि जीवः क्षेत्रं तु परिशेषितम्।
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते ॥ 18 ॥
View Verse
शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः
क्षेत्रज्ञः स्वर उद्दिष्टः केवले च स्वरे पुनः ॥ 19 ॥
View Verse
जीवः स्यात् प्रथमा मात्रा द्वितीयादि (मनुर्भवेत् B.)तनुर्भवेत्।
एकमात्रे तु जीवः स्यात् संस्कारोऽद्भुतलक्षणः(संस्कारोद्बोधलक्षणः I.) ॥ 20 ॥
View Verse
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः।
प्रथमो जीव उद्दिष्टः शिष्टं क्षेत्रं प्रचक्षते(क्षेत्रज्ञ उच्यते I.) ॥ 21 ॥
View Verse
क्षेत्रक्षेत्रज्ञसद्भाव एष ते संप्रदर्शितः।
आदौ मध्ये तथान्ते च त्रिषु वान्यतरत्र वा ॥ 22 ॥
View Verse
एषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः।
बीजाभावे तु मन्त्राणां बीजं कृत्वादिमाक्षरम् ॥ 23 ॥
View Verse
अनुस्वारयुतं पश्चात् सकलं मन्त्र उच्यते।
प्रक्रीडयन्ति पुरुषं मन्त्रा रागेण रञ्जितम् ॥ 24 ॥
View Verse
चतुर्दशविभागस्थे प्राकृते भुवनाध्वनि।
तुर्यवर्जं सुषुप्त्याद्यो प्राकृते च पदाध्वनि ॥ 25 ॥
View Verse
आचार्यदृष्टिपातस्थं पुरुषं संयतेन्द्रियम्।
प्रसादसुमुखा मन्त्रा उत्तार्य भुवनाध्वनः ॥ 26 ॥
View Verse
(I. omits three lines from here.)पदाध्वनश्च वैराग्यं जनयन्तः पदे पदे।
क्रमात्तत्त्वकलावर्णपदवीषु नयन्ति तम् ॥ 27 ॥
View Verse
मान्त्रं प्रासादमासाद्य निर्धूताशेषबन्धनः।
लक्ष्मीनारायणाख्यं तद्विशति ब्रह्म शाश्वतम् ॥ 28 ॥
View Verse
शक्रः---
आचार्यः कीदृशो देवि शिष्यस्तस्य च कीदृशः।
मन्त्रेषु कतमो मन्त्रः प्रभवेत् परमाप्तये ॥ 29 ॥
View Verse
कथं स चोपदेष्टव्य एतद् ब्रूहि नमोऽस्तु ते।
श्रीः---
सर्वलक्षणसंयुक्तो(संपन्नो C.) ब्राह्नणे वेदपारगः ॥ 30 ॥
View Verse
षट्‌कर्मनिरतः शान्तः पञ्चकालरतः शुचिः।
पञ्चरात्रार्थविन्मौनी मन्त्राक्षरकृतश्रमः ॥ 31 ॥
View Verse
न स्थूलो न कृशो ह्रस्वो न काणो नैव रोगवान्।
नान्धो न बधिरो मूढो न खल्वाटो न पङ्‌गुकः ॥ 32 ॥
View Verse
न हीनाङ्गोऽतिरिक्ताङ्गो न श्वित्री न च डाम्भिकः।
न क्रोधनो न दुश्चर्मा न लोभहतचेतनः ॥ 33 ॥
View Verse
अकुलीनं दुराचारं शठं जिह्नं च वर्जयेत्।
दयादान्तिशमोपेतं[^8] दृढभक्तिं क्रियापरम् ॥ 34 ॥
View Verse
सत्यवाक्‌छीलसंपन्नं रेखाकर्मसु कौशलम्।
जितेन्द्रियं सुसुतुष्ट करुणापूर्णमानसम् ॥ 35 ॥
View Verse
(आर्यं F.; कुर्यात् I.)आर्यलक्षणसंपन्नमार्जवं चारुहासिनम्।
(एवंगुरुगुणा C. B.)एवंगुणगणाकीर्णं गुरुं विद्यात्तु वैष्णवम्(केवलम् F.) ॥ 36 ॥
View Verse
शिष्यश्च तादृशो ज्ञेयः सर्वलक्षणलक्षितः।
क्षान्तिशीलं सुधीमन्तं(सुशीलं तं B.) क्रोधलोभविवर्जितम् ॥ 37 ॥
View Verse
स्नानार्चनरतं(परं C.) नित्यं गुरुशुश्रूषणोद्यतम्।
विप्राग्निदेवपितृषु भक्तं तर्पणशीलिनम् ॥ 38 ॥
View Verse
कुलीनं च तथा प्राज्ञं शास्त्रार्थनिरतं सदा।
ब्राह्नणं क्षत्रियं वैश्यं शूद्रं वा भगवत्परम् ॥ 39 ॥
View Verse
ईदृग्लक्षणसंयुक्तं शिष्यमार्जवसंयुतम्।
वर्णधर्मक्रियोपेतां नारीं वा सद्विवेकिनीम् ॥ 40 ॥
View Verse

Chapter - 22

द्वाविंशोऽध्यायः - 22
शक्रः---
अनादिनिधने देवि सर्वज्ञे हरिवल्लभे।
कथं वै ज्ञापयेन्मन्त्रांस्तेषां रूपं च कीदृशम् ॥ 1 ॥
View Verse
समप्रधानता वैषामुत ज्येष्ठकनिष्ठता।
एतत् पृष्ठा मया ब्रूहि नमस्ते सरसीरुहे ॥ 2 ॥
View Verse
श्रीः---
शृणु सर्वमशेषेण मत्तस्त्वं पाकशासन।
यथास्मि मन्त्ररूपाहं यथा च ज्ञापयामि तान् ॥ 3 ॥
View Verse
परं ब्रह्म परं धाम षाड्‌गुण्यममलोज्ज्वलम्।
देशकालानवच्छिन्नमनाकारमनूपमम् ॥ 4 ॥
View Verse
अहमित्येव तद्ब्रह्म स्वात्मसंबोधि निर्गुणम्।
अनादिनिधनं दिव्यं लक्ष्मीनारायणं महत् ॥ 5 ॥
View Verse
चिदानन्दरसं दिव्यमखण्डमजरामरम्।
अनुन्मिषद्भवद्भावं ग्राह्यग्राहकवर्जितम्(ग्राहकतोज्झितम् I.) ॥ 6 ॥
View Verse
स्तिमितं तत् परं ब्रह्म तस्य स्तिमिततास्म्यहम्।
तत् कदाचित्परं ब्रह्म भवद्भावव्यवस्थया ॥ 7 ॥
View Verse
उन्मिषत्यजहद्रूपं स्वेच्छयैव कदाचन।
(अहं D.)साहं भावात्मिकाहंता (संपूर्णा B.; पूजिता F.)संपूज्या परमात्मनः ॥ 8 ॥
View Verse
उदेमि भवतो देवादिच्छयैव विवस्वतः(व्यवस्थिता C.)।
संभृत्याखिलसंभारमिच्छयैव स्वनिर्मितम् ॥ 9 ॥
View Verse
स्वभित्तौ लिखितं नीत्वा(नीतं A.; विलिखन्तीदं I.) प्रभवामि षडध्वना।
वार्णः कलामयश्चैव तात्त्विको मान्त्रिकस्तथा ॥ 10 ॥
View Verse
पादिको भौवनश्चैव षडध्वानः प्रकीर्तिताः।
परमं यदहंताख्यं (सच्चिद्रूपम् B.)संविद्रूपमनामयम् ॥ 11 ॥
View Verse
उन्मेषः प्रथमस्तस्य वर्णाध्वा परिकीर्तितः।
व्याकृतिर्दशिता तस्य पूर्वं ते पाकशासन ॥ 12 ॥
View Verse
तदेव परमं रूपं मम संविन्मयं महत्।
विवर्ततेऽध्वभावेन ज्ञानाद्येन कलात्मना ॥ 13 ॥
View Verse
ज्ञानादीनां कलानां तु गुणानां परमात्मनः।
पुर्वं ते कथिता सूक्तिर्यावन्तो यादृशाश्च ते ॥ 14 ॥
View Verse
अध्वद्वयमुपादाय तद्रूपं मम चिन्मयम्।
वासुदेवादिरूपेण वर्तते तत्त्ववर्त्मना ॥ 15 ॥
View Verse
पूर्वाध्वद्वयमादाय तदेव मम चिन्मयम्।
रूपं विवर्तते शश्वन्मान्त्रेण परमाध्वना ॥ 17 ॥
View Verse
उत्तारणाय जीवानां मग्नानां भवसागरे।
भोगाय भवसंस्थानां वैराग्यजननाय च ॥ 18 ॥
View Verse
[^7]आराधनस्य सिद्ध्यर्थं मानसालम्बनाय च।
मन्त्राद्वा परमोदारो मम चिद्रूपलक्षणः ॥ 19 ॥
View Verse
वासुदेवादिदेवानां मूर्तिभावं व्रजत्यसौ।
मन्त्राः सर्वे चिदात्मानः सर्वगाः सर्वसाधकाः ॥ 20 ॥
View Verse
त्रायमाणाश्च मन्तारं गुप्तरूपाश्च शास्त्रतः।
भोगापवर्गदा ह्येते देवदेवस्य शार्ङ्गिणः ॥ 21 ॥
View Verse
रूपं मे (मघवन् B.)भगवन्मन्त्रा विज्ञेया मूर्तयोऽमलाः।
जाग्रत्स्वप्नौ(स्वप्नः D.) सुषुप्तिश्च तुर्यं चेति चतुष्टयम् ॥ 22 ॥
View Verse
ज्ञेयं पदाध्वनो रूपं जाग्रद्बाह्येन्द्रियक्रमः(क्रमात् D.)।
बाह्येन्द्रियाणां तमसाभिभूते विभवे सति ॥ 23 ॥
View Verse
अन्तःकरणवृत्तिर्या संस्कारपरिशेषिणी।
सा स्वप्न इति विज्ञेया तदभावे सुषुप्तिका ॥ 24 ॥
View Verse
तमसानभिभूतस्य सत्त्वस्थस्य विपश्चितः।
बाह्यान्तःकरणस्थाया वृत्तेरुपरमे सति ॥ 25 ॥
View Verse
शुद्धसत्त्वप्रसादस्य संततिस्तुर्यसंज्ञिता।
एवं चतुर्विधे मार्गे निर्दिष्टेऽस्मिन् पदाभिधे ॥ 26 ॥
View Verse
तुर्यवर्जं सुषुप्त्यादिरशुद्धां भजते गतिम्।
मायादिक्षितिपर्यन्ता योक्ता भुवनपद्धतिः ॥ 27 ॥
View Verse
भुवनाध्वा स विज्ञेयो ह्यशुद्धो मलपङ्किलः।
प्रक्रीडयन्ति मन्त्रास्ते शश्वद्रागपरं नरम् ॥ 28 ॥
View Verse
तत्तद्भोगेन्द्रजालानि दर्शयन्तो विमोहितम्।
गुरुणा सदयं सम्यग्वीक्षितं करुणादृशा ॥ 29 ॥
View Verse
उत्तारयन्ति वैराग्यं जनयन्तः पदे पदे।
ततः शुद्धमयान् मार्गान् प्रापयन्तः शनैः शनैः ॥ 30 ॥
View Verse
शब्दब्रह्मणि निष्णातं प्रापयेयुः परां श्रियम्।
एवंविधा महात्मानो मन्त्राः परमपावनाः ॥ 31 ॥
View Verse
त्रिविधास्ते तु विज्ञेया अधमा मध्यमाः परे।
भवोपकरणानां ये देवानां मूर्तितां गताः ॥ 32 ॥
View Verse
अन्तवत्फलदा मन्त्रास्ते ज्ञेया अधमा बुधैः।
मन्त्राविभवदेवानां सशक्तीनां तु मूर्तयः ॥ 33 ॥
View Verse
ते ज्ञेया मध्यमा मन्त्रा उत्तमा व्यूहमूर्तयः।
ये तु ब्रह्मावगाहन्ते लक्ष्मीनारायणात्मकम् ॥ 34 ॥
View Verse
भवद्भावव्यवस्थानास्ते मन्त्रा उत्तमोत्तमाः।
एवं च ज्यैष्ठ्यकानिष्ठ्यं विज्ञेयं मन्त्रकोविदैः ॥ 35 ॥
View Verse
उत्तमाः पञ्चरात्रस्था मध्यमास्तु त्रयीमयाः।
तन्त्रान्तरस्था विज्ञेया अधमाः शास्त्रचक्षुषा ॥ 36 ॥
View Verse
कलाङ्गा उत्तमा ज्ञेया अन्याङ्गा मध्यमाः स्मृताः।
अनङ्गा अधमा मन्त्रा भूयः शृणु सुरेश्वर ॥ 37 ॥
View Verse
बीजपिण्डादिसंयुक्ता उत्तमाः परिकीर्तिताः।
बीजाद्यन्यतमान्तःस्था मन्त्रा मध्यमसंज्ञिताः ॥ 38 ॥
View Verse
अबीजादियुता ज्ञेया मन्त्रा अधमसंज्ञिताः।
एवं मन्त्रविधा ज्ञात्वा ह्याचार्यः शास्त्रलोचनः।
(यथानुरूपतः D. F.)यथास्वरूपतः शिष्यान् ज्ञापयेदर्थितो मनून् ॥ 39 ॥
View Verse

Chapter - 23

व्यापकं यत् परं ब्रह्म लक्ष्मीनारायणं महत्।
(B. omits this line.)अहंता परमा तस्य शक्तिर्नारायणी ह्यहम् ॥ 1 ॥
View Verse
अनुग्रहाय लोकानामहमाचार्यतां गता।
संकर्षणस्वरूपेण शास्त्रं प्रद्योतयाम्यहम् ॥ 2 ॥
View Verse
पुनश्च गुरुमूर्तिस्था सम्यग्विज्ञानशालिनी।
शक्तिमय्या स्वया दृष्ट्या करुणामन्त्रपूर्णया(पूरया C.) ॥ 3 ॥
View Verse
(पावयामि B.)पालयामि गुरुर्भूत्वा शिष्यानात्मोपसर्पिणः।
तस्माज्ज्ञेयः सदा शिष्यैराचार्योऽसौ(आचार्यः सः D.) मदात्मकः ॥ 4 ॥
View Verse
शिष्यं संज्ञापयेन्मन्त्रान् (यथावत् B. D. F. G.)यथा तदवधारय।
आदौ शुद्धे समे स्निग्धे देशे भूदोषवर्जिते ॥ 5 ॥
View Verse
वर्णानुरूपवर्णाढ्ये गोमयेनोपलेपिते।
धूपिते शल्यनिर्मुक्ते गन्धपुष्पाद्यलंकृते ॥ 6 ॥
View Verse
पञ्चगव्येन संसिक्ते चन्दनाद्यनुलेपिते(चन्दनाद्युपलेपिते B. C. F. I.)।
सुमृन्मयीं च घटिकां केवलैः कुसुमैः शुभैः ॥ 7 ॥
View Verse
प्रणवादिनमोऽन्तेन स्वेन मन्त्रेण पूजयेत्।
व्याहृत्या परिजप्याथ (B. omits this and the next pada.)पूर्वया प्रणवाद्यया ॥ 8 ॥
View Verse
मृदं भूमौ प्रसार्याथ गन्धधूपाधिवासितम्(धूपादिवासितम् A.; पुष्पादिवासितम् F.)।
चतुरश्रं सुवृत्तं वा द्विहस्तं हस्तमेव वा ॥ 9 ॥
View Verse
सुसमं मातृकापीठं कृत्वा प्रस्तारयेत्तु ताम्।
एकैव भिन्नवर्गा या(वर्गस्था C.; मार्गा या D. F.) देवी पञ्चदशाक्षरा ॥ 10 ॥
View Verse
मन्त्राणां जननी साक्षान्मम शब्दमयी तनुः।
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत् ॥ 11 ।
View Verse
पौरुषे चक्ररूपं तु पाद्मीं लक्ष्मीमनुक्रमेत्।
अग्नीषोममयी (विद्या सृष्ट्याख्याता द्विरष्टका I.)शक्तिर्विसृष्टाख्या द्विरष्टधा ॥ 12 ॥
View Verse
अग्न्यादिवायुपर्यन्ते तां लिखेदरपत्रवत्।
अन्तःस्थधारणारूपं यादिवान्तचतुष्टयम् ॥ 14 ॥
View Verse
उदग्गतं लिखेत् पत्रमरं वा पूर्ववद्बुधः।
शाद्यं क्षान्तं तुरीयान्तं यदुक्तं ब्रह्मपञ्चकम् ॥ 15 ॥
View Verse
तल्लिखेदैशदिक्संस्थमरं पत्रमथापि वा।
शब्दाख्यं यत्परं ब्रह्म ज्योतिर्मयमनामयम् ॥ 16 ॥
View Verse
ध्यायेदालोकरूपेण पर्यन्ते चक्रपद्मयोः।
प्रणवाद्यैर्नमोऽन्तैस्तैरक्षरैस्तत्त्वसंज्ञकैः ॥ 17 ॥
View Verse
अनादिनिधनां देवीमहंतां पुरुषोत्तमीम्(पुरुषोत्तमाम् A. B. C. D.)।
पाशाङ्‌कुशधरां देवीं पद्मिनीं पद्ममालिनीम् ॥ 19 ॥
View Verse
प्रसन्नां पद्मगर्भाभां सर्वलोकमहेश्वरीम्।
वर्णप्रक्लृप्तावयवां वर्णालंकारभूषिताम् ॥ 20 ॥
View Verse
शब्दब्रह्म तनुं विद्यात् प्रणवं तु शिरः स्मरेत्।
अ आ इति भ्रुवौविद्यादि ई विद्यात्तु चक्षुषी ॥ 21 ॥
View Verse
उ ऊ कर्णौ ऋ ॠ नासापुटावन्यौ कपोलकौ।
ए ऐ ओष्ठौ (तु B. C. I.)च विज्ञेयौ ओ औ दशनपङ्‌क्तिके ॥ 22 ॥
View Verse
अं जिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।
टतवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेद्बुधः ॥ 23 ॥
View Verse
बभौ पश्चात्पुरोभागौ मं नाभिं परिचिन्तयेत्।
प्राणोष्माणौ यरौ विद्याल्लं हारं परिचिन्तयेत् ॥ 24 ॥
View Verse
वकारं कटिसूत्रं तु कुण्डले तु शषौ स्मरेत्।
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत् ॥ 25 ॥
View Verse
प्रसरन्तीं प्रभां विद्यात् क्षकारं विद्युदुज्ज्वलाम्।
(B. D. I. omit 3 lines from here.)रङ्गं नासाग्रगं विद्याद्यमाख्यं हृदये स्मरेत् ॥ 26 ॥
View Verse
जिह्वामूलीयकं जिह्वामूले विद्यादनन्तरम्।
उपध्मानीयकं विद्यादोष्ठयोः क्रमशस्तथा ॥ 27 ॥
View Verse
शुभैर्वर्णमयैः पद्मैरग्नीषोममयैः कृताम्।
बिभ्रतीं वनमालां च कण्ठात्पादावलम्बिनीम् ॥ 28 ॥
View Verse
अग्नीषोमार्ककोट्याभं स्फुरद्रत्नविभूषितम्।
मकुटं चिन्तयेद्विद्वान् (भकारं A. B.)हकारं पारमेश्वरम् ॥ 29 ॥
View Verse
एवं संस्मृत्य तां देवीं मातृकां मन्त्रमातरम्।
पूजयेदर्घ्यपुष्पाद्यैरौं नमो मन्त्रमातृके ॥ 30 ॥
View Verse
इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात्।
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद्भुवि ॥ 31 ॥
View Verse
पद्मस्थे पद्मनिलये पद्मे पद्माक्षवल्लभे।
सर्वतत्त्वकृताधारे मन्त्राणां जननीश्वरि(ईश्वरे I.) ॥ 32 ॥
View Verse
व्याकुरु त्वं परं दिव्यं रूपं लक्ष्मीमयं मम।
प्रार्थ्यैवं प्रयतो मन्त्री स्वयं लक्ष्मीमयो भवेत् ॥ 33 ॥
View Verse
मातृकाकृतविन्यासः स्वयं सन्मातृकामयः।
उद्धरेदीप्सितं मन्त्रं शिष्यस्योपदिशेत्ततः ॥ 34 ॥
View Verse
बीजपिण्डात्मका मन्त्रा मन्त्रेषु श्रेष्ठतां गताः।
तत्र श्रेष्ठानि बीजानि पिण्डेभ्योऽपि सुरेश्वर ॥ 35 ॥
View Verse
बीजेषु रत्नभूतानि (तारकादीनि I.)सप्त बीजानि वासव।
तारकः प्रथमं बीजं द्वितीयं तारिका स्मृता ॥ 36 ॥
View Verse
तयोस्तु तेजसा तुल्यं तृतीयमनुतारिका।
चतुर्थं तु जगद्योनिः परमं बीजमुच्यते ॥ 37 ॥
View Verse
स्थूलसूक्ष्मपरत्वं तु प्रतिस्वं परिकीर्तितमे।
त्वं शक्रावहितो भूत्वा श्रृणु बीजान्यनुक्रमात् ॥ 39 ॥
View Verse

Chapter - 24

चतुर्विंशोऽध्यायः - 24
श्रीः(श्रीरुवाच I.)---
परं ब्रह्म परं दाम परं ज्योतिरनूपमम्।
लक्ष्मीनारायणं ब्रह्म दोषसून्यं निरञ्जनम् ॥ 1 ॥
View Verse
एकं सर्वमिदं व्याप्य स्थितं सर्वोत्तरं महः(महत् A. B. C. D. G.)।
अहंताहं परा तस्य ब्रह्मणः परमात्मनः ॥ 2 ॥
View Verse
हिताय (सर्वभूतानां D.)सर्वजीवानामुन्मिषन्ती स्ववाञ्छया।
शब्दब्रह्ममयी भूत्वा मातृकामन्त्रविग्रहा ॥ 3 ॥
View Verse
भवामि मन्त्ररूपाहं(भूताहं D.) तत्तद्वाच्यानुकारिणी।
प्रथमं ताररूपेण (यथास्थोऽयं B. C.)यथास्म्येवं समुद्धरेत् ॥ 4 ॥
View Verse
प्रथमं ध्रुवमादाय ततः कर्णं समुद्धरेत्।
नाभिं समुद्धरेत्पश्चात् त्रयमेकत्र योजयेत् ॥ 5 ॥
View Verse
ओमित्येतत् समुत्पन्नं प्रथमं ब्रह्मतारकम्।
बिन्दुना भूषयेत् पश्चान्नादेन तदनन्तरम् ॥ 6 ॥
View Verse
ध्यायेत् संततनादेन तैलधारामिवातताम्।
एतत्तद्वैष्णवं रूपं त्र्यक्षरं ब्रह्म शाश्वतम् ॥ 7 ॥
View Verse
अनिरुद्धस्त्वकारोऽत्र प्रद्युम्नः पञ्चमः स्वरः।
संकर्षणो मकारस्तु वासुदेवस्तु बिन्दुकः ॥ 8 ॥
View Verse
चतुर्णामविभागस्तु नादस्तत्र सुरेश्वर।
नादस्य या परा काष्ठा साहंता परमेश्वरी ॥ 9 ॥
View Verse
शक्तिः सा परमा सूक्ष्मा (नादान्ता A. I.)नादान्तगगनाह्वया।
शब्दब्रह्ममयी सूक्ष्मा साहं सर्वावगाहिनी ॥ 10 ॥
View Verse
विरामे सति नादस्य (या D.)यः स्फुटीभवति [^8]स्वयम्।
ज्योतिस्तत्परमं ब्रह्म लक्ष्मीनारायणाह्वयम् ॥ 11 ॥
View Verse
एतत्ते वैष्णवं धाम कथितं पौरुषं परम्।
शान्तमस्यैव यद्रूपं तस्य तत्त्वं निशामय ॥ 12 ॥
View Verse
एतत् तत् परमं धाम शाक्तिसंहारलक्षणम्।
स्मर्यमाणं परं तत्त्वं प्रकाशयति यद् ध्रुवम् ॥ 14 ॥
View Verse
संहृत्य सर्वसंभारं शुद्धाशुद्धाध्वसंभवम्।
सृष्टौ समुद्यता शक्तिः सूर्ये पुंसि सनातने ॥ 15 ॥
View Verse
परमे भोक्तृरूपे सा विधाय प्रतिसंचरम्।
अग्नीषोममयाद्भावात् स्थूलात्सा प्रतिनिर्गता ॥ 16 ॥
View Verse
दांपत्यं मध्यमं शश्वद्बिन्दुनादमयं श्रिता।
शक्तिः शान्तात्मकं दिव्यं (सूक्ष्मा D.)सूक्ष्मदांपत्यमाश्रिता ॥ 17 ॥
View Verse
प्रतितिष्ठति सा दिव्ये व्यापके परमात्मनि।
अस्य मात्रा विधानज्ञैः सार्धास्तिस्र उदाहृताः ॥ 18 ॥
View Verse
त्रयोऽग्नयस्रयो (वेदाःस्रयोलोकाः B. F.)लोकास्त्रयो वेदास्त्रयो गुणाः।
त्रयो देवास्त्रयो व्यूहास्त्रयो वर्णास्त्रयः स्वराः ॥ 19 ॥
View Verse
त्रितयं त्रितयं शक्र यत् किंचिज्जगतीगतम्।
तदादि त्रितयं ज्ञेयमर्धमात्रा निरञ्जना ॥ 20 ॥
View Verse
सर्वे शब्दा अकारोत्था उकारात्तेजसां त्रयम्।
पृथिव्यादि प्रकृत्यन्तं मकारोत्थं पुरंदर ॥ 21 ॥
View Verse
ज्योतिर्मय्यर्धमात्रा सा चिन्मयी परमा कला।
युग्भिः स्वरैः सबिन्द्वन्तैराद्यन्तस्वरषट्‌कयोः ॥ 22 ॥
View Verse
ज्ञानादिगुणषट्‌कान्तैरङ्गक्लृप्तिरमुष्य तु।
नाभौ पृष्ठे तथा बाह्वोरूरुजानुपदेषु च ॥ 23 ॥
View Verse
तारपूर्वान् गुणान् भूयो विन्यसेत् पाकशासन।
एवं विन्यस्य तन्मन्त्रमङ्गोपाङ्गसमन्वितम् ॥ 24 ॥
View Verse
स्वदेहे गुरुरात्मस्थं चिन्तयेत् पुरुषोत्तमम्।
विश्वादिलयपूर्वं तु यथावत् तन्निबोध मे ॥ 25 ॥
View Verse
विश्वं जाग्रत्पदेशानं सर्वेन्द्रियसमीरकम्।
भोक्तारं शब्दपूर्वाणां पञ्चानां विषयात्मनाम् ॥ 26 ॥
View Verse
अकारं तैजसे देवे प्रद्युम्ने स्वप्नवर्त्मगे(सद्मनि I.)।
अन्तःकरणवृत्तीनां प्रेरके प्रविलापयेत् ॥ 28 ॥
View Verse
तं सोपकरणं देवमुकारे प्रविलापयेत्।
उकारं चेस्वरे प्राज्ञे संकर्षणतनुस्थिते ॥ 29 ॥
View Verse
सुषुप्तिपदगे शश्वत् प्राणादिप्रेरके विभौ।
विलाप्य तं च देवेशं तुर्यसंस्थेऽर्थमात्रके ॥ 30 ॥
View Verse
ज्ञानानन्दमये देवे वासुदेवे विलापयेत्।
तुर्यातीते च तत्तुर्यं लक्ष्मीनारायणात्मनि ॥ 31 ॥
View Verse
प्रविलाप्य स्वयं दिव्यामहंतां वैष्णवीं श्रयेत्।
तन्मयस्तादृशं प्राप्य लयस्थानं ततः क्रमात् ॥ 32 ॥
View Verse
जागरामवतीर्याथ (उदितं A. C.)दीक्षितं शिष्यमग्रतः।
सद्गुरुर्मन्मयो भूत्वा तारमध्यापयेत्स्वयम् ॥ 33 ॥
View Verse
साङ्गोपाङ्गक्रमं शश्वत् ससमाधिं सविस्तरम्।
स च दद्यात् स्वमात्मानं दक्षिणां गुरवे धनैः ॥ 34 ॥
View Verse
पालाशं (पावनं A. I.)वा वनं सम्यक्पर्यन्तादृष्टभूतलम्।
स्नानं त्रिषवणं कुर्वन् ब्रह्मचारी जितेन्द्रियः ॥ 36 ॥
View Verse
पयोयावकभैक्षाणामशन्नन्यतमं सकृत्।
कुशोच्चये निषण्णः सन् काशचीरकुशेशयः ॥ 37 ॥
View Verse
पालाशं (धारयन् B. F.)धारयेद्दण्डं संवीतः कृष्णचर्मणा।
मच्चित्तो मन्मयो भूत्वा गुर्वादिष्टेन वर्त्मना ॥ 38 ॥
View Verse
दशांशं जुहुयात् पर्णैः समिद्भिः सर्पिषापि वा।
प्रीता तस्य प्रकाशेऽहमहंता वैष्णवी परा ॥ 40 ॥
View Verse
साधकस्य ततः सम्यक् सद्विवेकिनि चेतसि।
लक्ष्मीनारायणाख्यं तत् सामरस्यं प्रकाशते ॥ 41 ॥
View Verse
जीवन्नेव भवेन्मुक्तः पुनीते चक्षुषा जगत्।
सिद्धाः स्युस्तस्य मन्त्रास्ते लौकिका वैदिकाश्च ये ॥ 42 ॥
View Verse
स्नातः सर्वेषु वेदेषु विद्यासु सकलासु च।
सिद्धान्तेषु च सर्वेषु तीर्थेषु च भवेदसौ ॥ 43 ॥
View Verse
प्रयोगाः सर्वमन्त्राणां यावन्तो यादृशाश्च ये।
तावन्तस्तादृशास्तेऽस्य प्रयोगा इति निर्णयः ॥ 44 ॥
View Verse
अस्य व्याहृतयस्तिस्रो वर्णत्रयसमुद्गताः।
पभ्द्यः समुद्गता ह्यस्याः सावित्री सर्वपावनी ॥ 45 ॥
View Verse
अस्याः पद्भ्यस्रयो वेदा ऋग्यजुःसामलक्षणाः।
इत्येतन्मयमेवेदं लौकिकं वैदिकं वचः ॥ 46 ॥
View Verse
यथा न्यग्रोधधानायामन्तर्भूतो महाद्रूमः।
तथेदं वाङ्‌मयं विश्वमस्मिन्नन्तः स्थितं सदा ॥ 47 ॥
View Verse
एतदाद्यं महाबीजं शब्दानां प्रकृतिः परा।
शब्दब्रह्म परं धाम पवित्रं परमं महत् ॥ 48 ॥
View Verse
ओंकारः प्रणवस्तारो हंसो नारायणो ध्रुवः।
वेदात्मा सर्ववेदादिरादित्यः सर्वपावनः(पालनः B. C.) ॥ 49 ॥
View Verse
मोक्षदो मुक्तिमार्गश्च सर्वसंधारणक्षमः(संधारणः परः I.)।
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 50 ॥
View Verse
अयमन्विच्छतां स्वर्गः पोतः पारं तितीर्षताम्।
हकारौकारसंयोगादयं प्रासादसंज्ञकः ॥ 52 ॥
View Verse
पिण्डोऽयं सर्वतत्त्वानां पिण्डभूतः सनातनः।
साधनं प्रतिपत्तिश्च विनियोघोऽथ धारणा ॥ 53 ॥
View Verse
बीजस्येव सुरेशान प्रासादस्यास्य विद्धि तत्।
अस्यैव संज्ञामन्त्रोऽयं हंसो नाम महामनुः ॥ 54 ॥
View Verse
भोक्तारं प्रथमं वर्णं विद्धि भोग्यं द्वितीयकम्।
नारायणमयं पूर्वमक्षरं श्रीमयं परम् ॥ 55 ॥
View Verse
अग्नीषोमात्मकावेतौ वर्णौ विद्धि सनातनौ।
अनयोरन्तरा शक्र बिन्दुधर्मौ व्यवस्थितौ ॥ 56 ॥
View Verse
आधारान्मूर्धपर्यन्तं भोक्तारं वर्णमुन्नयेत्।
विसृजेन्मुखतो वर्णं द्वितीयं भोग्यसंज्ञकम् ॥ 57 ॥
View Verse
सर्वा सृष्टिः कृता तेन हंसोच्चारप्रयोगतः।
अजपेयं समाख्याता विद्या सर्वाङ्गशोभना ॥ 58 ॥
View Verse
चतुःषष्ट्यधिकाशीतिकोटिसंख्यासु योनिषु।
तद्भेदेषु च मन्त्रोऽयं स्वयमुच्चरते सदा ॥ 59 ॥
View Verse
निश्वासेन समं विद्या समुदेत्यन्तरुज्ज्वला।
उदयास्तमयावस्याः श्वासनिश्वासतुल्यकौ ॥ 60 ॥
View Verse
षष्टिः श्वासा भवेत्प्राणाः षट्‌ प्राणा नाडिका मता।
नाड्यः षष्टिरहोरात्रमेवं कालक्रियागतिः ॥ 61 ॥
View Verse
एवं हंसोदयाद्विद्धि सहस्राण्येकविंशतिम्।
शतानि षट्‌ च देवेश तावन्तः स्युर्जपाः कृताः ॥ 62 ॥
View Verse
किंतु संकल्पनं कुर्यादहरादौ मनीषया।
एवंसंख्यान्(संख्यां B. C. F.) जपानस्य करिष्यामीति बुद्धिमान् ॥ 63 ॥
View Verse
विन्यसेत् पञ्च चाङ्गानि तेषां रूपं निबोध मे।
सूर्यसोमौ चतुर्थ्यन्तौ नमः स्वाहासमन्वितौ ॥ 64 ॥
View Verse
निरञ्जनौ निराभासौ वौषड्‌हुंफडन्तकौ।
फडन्तं मूलमेवास्त्रमित्यङ्गान्यस्य पञ्च तु ॥ 65 ॥
View Verse
शिष्टं प्रणववच्चिन्त्यमिति संज्ञामनोर्विधिः।
पदमन्त्रास्त्रयोऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ 67 ॥
View Verse
विष्णवे नम इत्येवं नमो नारायणाय च।
नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ 68 ॥
View Verse
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ 69 ॥
View Verse
पदमन्त्रश्चतुर्थोऽयं प्रणवस्य पुरंदर(प्रकीर्तितः I.)।
ओंकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥ 70 ॥
View Verse
ज्ञानादिगुणसंयुक्तैरक्षरैः प्रणवादिभिः(प्रणवादिकैः I.)।
नमोऽन्तैरङ्गक्लृप्तिः स्यात्तथैवोपाङ्गकल्पना ॥ 71 ॥
View Verse
न्यूनाक्षरस्य मन्त्रस्य वर्णेन चरमेण तु।
उपाङ्गकल्पना कार्या (तत्तत्पदगुणैः B. F.)तत्तद्गुणपदैर्युता ॥ 72 ॥
View Verse
केवलस्तारकश्चैव चत्वारश्च तदादिकाः।
पञ्चैते व्यापका मन्त्राः पाञ्चरात्रे प्रकीर्तिताः ॥ 74 ॥
View Verse
एषा दिव्या महासत्ता पञ्चमन्त्री तु मन्मयी।
अर्चनाज्जपतो ध्यानादिमां(अमुं D. F.) सम्यक् समाश्रितः।
स्वां सत्तां वैष्णवीं प्राप्य परं ब्रह्माधिगच्छति ॥ 76 ॥
View Verse

Chapter - 25

पञ्चविंशोऽध्यायः - 25
श्रीः(श्रीरुवाच I.)---
इत्थं ते कथितः शक्र तारकस्यैष विस्तरः।
संसारतारिकाया मे तारिकायाः शृणु क्रमम् ॥ 1 ॥
View Verse
वर्णानां (सिद्धि B. E.)विधिसिद्ध्यर्थं संज्ञाः पूर्वं निशामय।
श्रुतासु विधिवद्यासु विधिर्मान्त्रः(मन्त्रः A. B. C. I.) प्रवर्तते ॥ 2 ॥
View Verse
अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः।
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः ॥ 3 ॥
View Verse
रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः।
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर ॥ 4 ॥
View Verse
उकारो भुवनाख्यश्च उद्दाम उदयस्तथा।
ऊकार ऊर्जो लोकेशः प्रज्ञाधाराख्य एव च ॥ 5 ॥
View Verse
सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः।
ॠकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम् ॥ 6 ॥
View Verse
लिङ्गात्मा भगवान् प्रोक्तो लृकारस्तारकः स्मृतः।
लृकारो दीर्घघोणश्च(कोणश्च A.) देवदत्तस्तथा(स्थिरो I.) विराट् ॥ 7 ॥
View Verse
त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः।
ऐश्वर्यं योगधाता(दाता A. B. C.) च ऐ स ऐरावणः स्मृतः ॥ 8 ॥
View Verse
ओकार ओतदेहश्च(देवश्च C. D. G.) ओदनश्चैव विक्रमी।
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः ॥ 9 ॥
View Verse
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोंऽकार एव च।
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः ॥ 10 ॥
View Verse
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः।
चकारश्चञ्चलश्चक्री(चक्रः A. D.) चन्द्रांशुः स तु कथ्यते ॥ 13 ॥
View Verse
छन्दःपतिश्छलध्वंसी(बलध्वंसी B.) छकारश्छन्द एव च।
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः ॥ 14 ॥
View Verse
झकारो झषसंज्ञश्च सामगः सामपाठकः।
ईश्वरश्चोत्तमाख्यश्च ञकारस्तत्त्वधारकः ॥ 15 ॥
View Verse
चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा।
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते ॥ 16 ॥
View Verse
दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः ॥ 17 ॥
View Verse
णकारोऽभयदः शास्ता वैकुण्ठ इति(वैकुण्ठः परि B. C. F. I.) कीर्तितः।
(D. omits 4 lines from here.)तकारस्ताललक्ष्मा च वैराजः स्रघ्धरः स्मृतः ॥ 18 ॥
View Verse
धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः ॥ 20 ॥
View Verse
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः(संज्ञकः B. C. F. I.) ॥ 21 ॥
View Verse
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
(भल्लाटकः B. C. E.)भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः ॥ 22 ॥
View Verse
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते ॥ 23 ॥
View Verse
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः ॥ 24 ॥
View Verse
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः ॥ 25 ॥
View Verse
अशेषसंज्ञा वर्णानामित्येताः कीर्तिता मया।
अनुलोमविलोमेन वर्ण्या वर्णस्य वै पुनः ॥ 28 ॥
View Verse
संज्ञा संख्या(संख्या संज्ञा A.) च या शक्र सामान्या सा महामते।
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः ॥ 29 ॥
View Verse
कारणं सर्वमन्त्राणां लक्ष्मीशक्त्युपबृंहिताः।
स्तुता संपूजिता ध्याता (वर्णसंज्ञाभिः A.)वर्णाः संज्ञाभिरादरात् ॥ 30 ॥
View Verse
प्रयच्छन्ति परामृद्धिं विज्ञानं भावयन्त्यपि।
परस्पराङ्गभावं च मन्त्रोत्पत्तौ व्रजन्त्यमी ॥ 31 ॥
View Verse
चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम्।
नित्या यद्यपि ता दिव्या मन्त्राणां मूर्तयः पराः ॥ 32 ॥
View Verse
तथाप्येवंविधैर्वर्णैर्भाविता इति चिन्तना(चिन्तनाः C.; चिन्तनात् I.)।
भवन्ति पूर्णसामर्थ्या मन्त्राः शास्त्रनिदर्शनात् ॥ 33 ॥
View Verse
आलम्बनं धियां चैव भवन्त्येवं महामते।
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते ॥ 34 ॥
View Verse
सौकर्याय तथा मन्त्रे वर्णभागोऽनुचिन्त्यते।
कृत्वैव भावगां व्याप्तिं वर्णानां पूजनं त्रिधा ॥ 35 ॥
View Verse
भूमौ पद्मे तथा(अथवा D. F.) देव्यास्तनौ(ततो I.) मन्त्रान् समुद्धरेत्।
परमात्मानमादाय योजयेत् कालवह्निना ॥ 36 ॥
View Verse
त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत्।
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा ॥ 37 ॥
View Verse
सत्ता पूर्णा(पूर्ण F. I.) चिदानन्दा मम मूर्तिर्निरन्तरा।
इयं सा परमा निष्ठा या सा ब्रह्मविदां ध्रुवा(विदस्तु वा F.) ॥ 38 ॥
View Verse
अस्यां निष्ठाय तत्त्वज्ञा विशन्ति ब्रह्म मन्मयम्।
सैषा तत्त्वविदां मुख्यैः शास्त्रे शास्त्रे विचिन्त्यते ॥ 39 ॥
View Verse
ओतं प्रोतममुष्यां वै जगच्छब्दार्थतामयम्।
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी ॥ 40 ॥
View Verse
अनयैव समाधिस्थैः समाधीये समाधिना।
अभिधीयेऽनयैवाहं शैवैः षट्‌त्रिंशदन्तिमा ॥ 41 ॥
View Verse
महाराज्ञी तथैवाहमनयैव त्रयी परा।
ऋग्यजुःसामसंघाते(संख्याते C. F.) चिन्त्ये(चिन्त्या A.) सौरे च मण्डले ॥ 42 ॥
View Verse
तरुणीं रूपसंपन्नां सर्वावयवसुन्दरीम्(शोभिनीम् I.)।
अनयैव व्यवस्यन्ति लोकायतविचक्षणाः ॥ 43 ॥
View Verse
क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः।
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता(उदिता सदा D. I.) ॥ 44 ॥
View Verse
परमा तारिका शक्तिस्तारिणी तारिकाकृतिः।
लक्ष्मीः पद्मा महालक्ष्मीस्तारा गौरी निरञ्जना ॥ 45 ॥
View Verse
हृल्लेखा परमात्मस्था या शक्तिर्भुवनेश्वरी।
चिच्छक्तिः (शान्त B. D.)शान्तिरूपा च घोषणी(घोषिणी D.) घोषसंभवा ॥ 46 ॥
View Verse
कामधेनुर्महाधेनुर्जगद्योनिर्विभावरी।
एवमादीनि नामानि शास्त्रे शास्त्रे विचक्षणैः ॥ 47 ॥
View Verse
तारिकाया निरुक्तानि वेदे वेदे च पण्डितैः।
अस्या एवापरा मूर्तिर्विज्ञेया त्वनुतारिका ॥ 48 ॥
View Verse
शान्तं नियोजयेत् स्थाने पूर्वस्य परमात्मनः।
शेषमन्यत्समं(एतत्समम् D.) ह्येषा तनुर्मेऽन्यानुतारिका ॥ 49 ॥
View Verse
तारिकायामिवास्यां च विज्ञेयं वैभवं महत्।
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर ॥ 50 ॥
View Verse
यत्किंचिदेतया साध्यं साधनीयं तदन्यया।
इमे पूर्वापरीभावं प्रजतोऽन्योन्यवाञ्छया॥
View Verse

Chapter - 26

षड्‌विंशोऽध्यायः - 26
शक्रः---
परं ब्रह्म परं धाम पद्मस्थे पद्ममालिनि।
नमस्ते पद्मजे पद्मे गोविन्दगृहमेधिनि ॥ 1 ॥
View Verse
द्वे एते कथिते देवि तव तन्वौ सनातने(सनातनि B. C.)।
(बिशेषोऽन्वस्ति D. I.)विशेषस्त्वस्ति वा कश्चिदनयोः सूक्ष्मरूपतः ॥ 2 ॥
View Verse
श्रीः---
एकमादौ परं तत्त्वं लक्ष्मीनारायणात्मकम्।
पूर्णस्तिमितषाड्‌गुण्यं स्वच्छस्वच्छन्दचिद्धनम् ॥ 3 ॥
View Verse
तस्याहं परमा शक्तिः सर्वावस्थानुसारिणी।
(अहंता I.)देवी सा परमा दिव्या स्थूलसूक्ष्मपराह्वया ॥ 4 ॥
View Verse
मम तन्वाविमे शक्ती तारिका चानुतारिका।
दुहाते सकलान् कामानुभे एते(कामानुगावेते I.) पुरंदर ॥ 5 ॥
View Verse
उभे एते मते दिव्ये उभे निष्ठे परे स्मृते।
उभे संस्था मते(उभे A. B. C.) सर्वा उभे ते विष्णुवल्लभे ॥ 6 ॥
View Verse
उभे एते विचिन्त्याथ गच्छन्ति परमां गतिम्।
तत्त्वं तु परमं सूक्ष्मं गदन्त्या मे निशामय ॥ 7 ॥
View Verse
परं ब्रह्म ततः शान्तं ततो नाद इति क्रमः।
सर्वत्रावस्थिता (भान्ती A.)साहं निमेषोन्मेषरूपिणी ॥ 8 ॥
View Verse
आद्यं यत् परमं ब्रह्म सूक्ष्मं स्तिमितशक्तिकम्।
तारस्तत्र प्रतिष्ठाय तनोति विततां गतिम् ॥ 9 ॥
View Verse
भवतो ब्रह्मणो योऽयमुन्मेषः परमात्मनः।
भवद्भावात्मके तस्मिंस्तारिका प्रतितिष्ठति ॥ 10 ॥
View Verse
ब्रह्मणस्त्ववरोहो यः शान्तरूपः सिसृक्षया।
शान्ताख्ये भावभूयिष्ठे तस्मिन्नास्तेऽनुतारिका ॥ 11 ॥
View Verse
द्वितीयस्त्ववरोहो यः शक्त्याख्यो भाव ऊर्जितः।
वाग्भवादीनि बीजानि तत्र तिष्ठन्ति वासव ॥ 12 ॥
View Verse
एतावाननयोर्भेदः प्रोक्तस्ते सूक्ष्मधीमयः।
वाग्भवादीनि बीजानि गदन्त्या मे निशामय ॥ 13 ॥
View Verse
त्रैलोक्यैश्वर्यदोपेतमैश्वर्यं वर्णमुद्धरेत्।
जगद्योनिरिदं बीजं वाग्भवाख्यमुदाहृतम् ॥ 14 ॥
View Verse
सैषा कुण्डलिनी शक्तिर्यस्यां कुण्डलितं जगत्।
शब्दशक्तिस्वरूपेण यथा(ज्ञानं A.) तदवधारय ॥ 15 ॥
View Verse
अस्याः पूर्वमिकारं तु योजयेत् सूक्ष्मचक्षुषा।
(F. omits 2 lines from here.)इत्थं यदिष्टं यद् द्रव्यं यत्तत्तत्र प्रतिष्ठितम्(तत्तत्र प्रतितिष्ठति I.) ॥ 17 ॥
View Verse
आनन्दमस्य पूर्वं तु चिन्तयेत् सूक्ष्मचक्षुषा।
अप्रमेयं ततः पूर्वं योजयेत् सूक्ष्मच्क्षुषा(सूक्ष्मया दृशा I.) ॥ 18 ॥
View Verse
गोपनी सर्वभूतानां शक्तिरानन्दनिर्भरा।
इच्छाज्ञानक्रियारूपैरिकारोत्थैः समन्विता ॥ 20 ॥
View Verse
त्रैलोक्यैश्वर्यदा देवी विष्णुपत्नी जगत्प्रसूः।
इति वाच्यां जगद्योनिबिजस्याब्जां विचिन्तयेत् ॥ 21 ॥
View Verse
इन्धनं दीपनं ज्ञानमिच्छा चेकारदर्शिताः(दर्शिता B. D. I.) ॥ 22 ॥
त्रैलोक्यं तु त्रयो लोकास्ते च जीवास्त्रिधा स्थिताः(मताः B. D. I.)।
तेषामैश्वर्यदानेन त्रैलोक्यैश्वर्यदाह्विका(ऐश्वर्यदाम्बिका A. C. I.) ॥ 23 ॥
View Verse
अप्रमेयादिना लोकान् वितत्य भुवनाध्वना।
तस्मिन्नेव परे भूयो व्योमेशे परमात्मनि ॥ 24 ॥
View Verse
संतिष्ठते परेत्येवमुदयास्तमयौ मम।
ईदृशीयं महाविद्या जगद्योनिर्गिरां प्रसूः ॥ 25 ॥
View Verse
मध्यमं गुणतत्त्वानां यत् प्रोक्तं पश्चिमाननम्।
रञ्जनं (सत्त्वमुभयोः A.)सत्त्वतमसोर्भोगेनाल्पेन रञ्जितम् ॥ 27 ॥
View Verse
सा परा प्रकृतिः काक्या कल्पयन्ती जगद्विधिम्(जगद्धितम् G.; जगत्पुरा I.)।
पुरुषेश्वरयोगेन सा सृष्ट्यै संप्रकल्पते ॥ 28 ॥
View Verse
अव्यक्तपुरुषेशाक्यरूपत्रयविभाविनी।
माया श्रीः सा पुनर्देवी व्योमेशे प्रतितिष्ठति ॥ 29 ॥
View Verse
षष्ठीं सारस्वतीं विद्यां गदन्त्या मे निशामय ॥ 30 ॥
प्रज्ञाधारो ह्यहं शक्र प्रकृष्टज्ञानजन्मभूः।
साहं प्रज्ञाप्रसूर्विष्णोरुदयेन समन्विता ॥ 31 ॥
View Verse
आनन्दं योजयेत् तस्याः पुरस्तात् सूक्ष्मया दृशा।
अप्रमेयमतः पूर्वं भावयेत् भूक्ष्मया दृशा ॥ 32 ॥
View Verse
अप्रमेयोदिता साहं महानन्दमयी शुभा।
आधारभूता प्रज्ञाया व्योमेशे संस्थिता पुनः ॥ 33 ॥
View Verse
पुनर्विसृष्टियोगाय परमेश्वरमागता।
षष्ठी समुद्धृता विद्या शब्दतश्चार्थतश्च ते ॥ 34 ॥
View Verse
इयं बीजत्रयी विद्या कथिता त्रिपुराह्वया।
व्युत्क्रमानुक्रमाभ्यां सा (आत्मसाद्यसतोऽपि च A.; आत्मसाम्यसमेऽपि च B. C.; समासव्यासतोऽपि च D. F.; ह्यन्या सा व्यासतोऽपि च I.)ह्यात्मसाम्यप्रदापि च ॥ 35 ॥
View Verse
चतुर्णां पुरुषार्थानां हेतून् व्यस्य समस्य च।
सप्तमी तु महालक्ष्मीर्विद्या सा सर्वसाधनी ॥ 37 ॥
View Verse
परां प्रकृतिमादाय भास्करं तत्र योजयेत्।
मर्दनेन समायोज्य योजयेत् कालवह्निना ॥ 38 ॥
View Verse
भूषयेन्मायया पिण्डमन्ते व्यापिनमानयेत्।
कथितं ते महालक्ष्मीबीजमेतत् पुरंदर ॥ 39 ॥
View Verse
38,39. महालक्ष्मीबीजोद्धारमाह---परामित्यादिना। प्रकृतिं ककारमादाय तेन भास्करं षकारं, मर्दनं मकारं, कालवह्निं रेफं, मायामीकारं, व्यापिनं बिन्दुं च योजयेत्। क्ष्म्रीं इति मन्त्रः। तथा च तन्त्रराजे---"ग्रासो नभो दाहवह्निस्वैर्युक्तः कौलिनीमनुः" इति। तत्र ग्रासः क्षकारः, नभो मकारः, दाहवह्निः रेफः, स्वमीकारो भिन्दुश्च।
कर्षन्ती व्याकृतावस्थामहं हि स्वेन तेजसा।
प्रधानभूमिकां गत्वा मूर्तित्रयविभाविनी ॥ 40 ॥
View Verse
निर्माय सकलं भावं व्योमेशे संप्रतिष्ठिता।
इति भाव्यमिदं बीजं जपता साधकेन तु ॥ 41 ॥
View Verse
इत्येते रश्मयो ज्ञेयो विद्यायास्तारिकाकृतेः।
अनुतारादयो विद्या इतीदं तारिकामयम् ॥ 42 ॥
View Verse
तामिमां तारिकां विद्यां भजमानो यथाविधि।
ऐहिकामुष्मिकान् (लोकान् F.)भोगगानक्षयान् प्रतिपद्यते ॥ 43 ॥
View Verse

Chapter - 27

सप्तविंशोऽध्यायः - 27
शक्रः---
नमस्तुभ्यं जगन्नाथे पुण्डरीकाक्षवल्लभे।
अशेषजगदीशाने सर्वज्ञे सर्वभाविनि ॥ 1 ॥
View Verse
श्रुतमेतन्मया सम्यग्विद्यानां(विज्ञानं B. F.) तत्त्वमुत्तमम्।
भूयश्च तारिकाया मे विधिं व्याख्यातुमर्हसि ॥ 2 ॥
View Verse
आद्यमेकं परं ब्रह्म सर्वज्ञं सच्चिदात्मकम्।
(स्वशक्त्या छुरितं I.)स्वशक्तिचरितं दिव्यं लक्ष्मीनारायणं महः ॥ 3 ॥
View Verse
(साहंता I.)अहं सा परमा शक्तिरहंताख्या सनातनी।
तद्धर्मधर्मिणी नित्या प्रभा भानोरिवामला ॥ 4 ॥
View Verse
तदीयानि विधीयन्ते पञ्च कृत्यानि सर्वदा।
तदुन्मेषस्वरूपिण्या मयैवादितिनन्दन ॥ 5 ॥
View Verse
मम दिव्या परा शक्तिर्नित्यं(नित्या B. F. I.) मद्धर्मधर्मिणी।
हृल्लोखा परमा विद्या (मत्स्वरूपम् A. D. I.)मत्स्वरूपा पुरंदर ॥ 6 ॥
View Verse
अस्या व्याख्यामिमां शश्वत् सावधानेन चेतसा।
श्रद्दधानः प्रपन्नस्त्वमुपसन्नो गृहाण मे ॥ 7 ॥
View Verse
आमनन्ति यमात्मानं जगतस्तस्थुषः परम्।
(प्रभव F.)प्रसवस्थितिसंहारकारणं सूर्यसंज्ञितम्(संज्ञकम् B. C. F.) ॥ 8 ॥
View Verse
नित्यं(नित्य B. D.) प्रेरयितारं च प्राणसंज्ञं सनातनम्।
तं विद्धि प्रथमं वर्णँ हकारं पुरुषोत्तमम् ॥ 9 ॥
View Verse
यस्तस्य प्रथमोन्मेषः क्रोडीकृतजगत्त्रयः(जगत्क्रियः G.)।
अशेषभुवनाधारो ज्वलद्रूपोऽमितोऽन्यतः ॥ 10 ॥
View Verse
रेफं तत्परमं विद्धि तेजोरूपं सनातनम्।
उन्मेष एव सम्यक् स(सं B. D.) व्याप्नुवन् सकलां गतिम् ॥ 11 ॥
View Verse
व्यापारान् पञ्च बिभ्रच्च बिन्दून् सृष्ट्यादिलक्षणान्।
आस्चर्यज्ञानरूपश्च निमेषोन्मेषसंततेः ॥ 12 ॥
View Verse
इच्छाज्ञानक्रियारूपं बिभ्रच्च (विदितक्रमः B.; विततिं क्रमात् I.)विततिक्रमम्।
इईरूपस्य युग्मस्य स्थितिरेषा सनातनी ॥ 13 ॥
View Verse
तदेवं(तदेव C.) परमोन्मेषरूपाहं विततोदया।
इच्छाज्ञानक्रियारूपा पञ्चकृत्यकरी विभोः ॥ 14 ॥
View Verse
नानाविधाश्चर्यमयी चिद्धना सुखरूपिणी।
विज्ञेया परमात्मस्था व्यापिनी विष्णुवल्लभा ॥ 15 ॥
View Verse
विधाय कृत्यमखिलं त्रैलोक्यैश्वर्यदायिनी।
तस्मिन्नेव पुनर्देवे व्योमेशे परमात्मनि ॥ 16 ॥
View Verse
आदाय सर्वसंभारं प्रतितिष्ठामि निष्कला।
अस्या रूपाणि पञ्चेह तत्त्वज्ञाः संप्रचक्षते ॥ 17 ॥
View Verse
तानि रूपाणि देवेश गदन्त्या मे निशामय।
व्योमेशान्तमिदं रूपमेकं यत्तत्प्रकीर्तितम् ॥ 18 ॥
View Verse
व्योमेशात् परतः केचिद्वाञ्छन्ति परमेश्वरम्।
व्योमेशमपहायान्ये प्रधानं विनियोज्य तु ॥ 19 ॥
View Verse
बिन्दुनादौ च वाञ्छन्ति तदन्ते प्रणवोपमम्।
अन्ते प्रधानमेवैकं केचिद्धीराः प्रचक्षते ॥ 20 ॥
View Verse
सृष्टिकर्तारमन्तेऽन्ये वैदिकाः समधीयते।
एवं पञ्च स्वरूपाणि तारिकाया विदुर्बुधाः ॥ 21 ॥
View Verse
शान्तस्थायाः सुरेशान रूपाण्येवंविधान्यपि।
प्रधानान्ते विसृष्ट्यन्ते व्योमेशान्ते तथैव च ॥ 22 ॥
View Verse
व्योमेशोर्ध्वविसृष्ट्यन्त इति रूपचतुष्टये।
ऐहिकी परमा सिद्धिस्तत्तच्चामुत्रिकी(तत्र चामुष्मिकी D.; तत्र चामुत्रिकी I.) परा ॥ 23 ॥
View Verse
प्रधानबिन्दुनादान्ते मोक्षश्रीरेव केवला।
इत्येवमनुसंधाय तारिकायाः परां स्थितिम् ॥ 24 ॥
View Verse
शिष्याय साधुशीलाय गुरुब्रह्महितैषिणे।
आचार्य आदिशेद्विद्यां परब्रह्मस्वरूपिणीम् ॥ 25 ॥
View Verse
हस्तदेहाङ्गविन्यासं विधायात्मनि वै पुरा।
विनय्स्य शिष्यदेहे च ततश्चोपदिशेन्मनुम् ॥ 26 ॥
View Verse
स्थापयेद्धृदि शिष्यस्य भावपूर्वं मनुं परम्।
पुनश्च स्थापयेत् स्वस्य(स्वस्मिन् B. F. I.) हृदये मन्त्रमुत्तमम् ॥ 27 ॥
View Verse
दीक्षाभिषेकपूर्वं च सर्वमेतत् समाचरेत्।
आचार्यादथ संप्राप्य विद्यां शिष्यो विचक्षणः ॥ 28 ॥
View Verse
आत्मानमात्मनश्चैव वित्तं दत्त्वा तु दक्षिणाम्।
सकलं त्वर्धमंशं वा येन वा तोष्यते गुरुः ॥ 29 ॥
View Verse
वैदिके च समाचारे(समयाचारे B. F. I.) लौकिके च व्यवस्थिते।
अप्रमाद्यन् सदाचार्ये(सदाचारे D.) गुरुषु ब्राह्नणेषु च ॥ 30 ॥
View Verse
अद्रोहं शीलयन् शश्वद्भूतग्रामे चतुर्विधे।
नित्यमात्मगुणोपेतो धर्मलक्षणसेवकः ॥ 31 ॥
View Verse
संस्कारैः संस्कृतः शुभ्रैर्देवपित्रतिथिक्रियः।
दिव्यशास्त्राण्यधीयानो निगमांश्चैव वैदिकान् ॥ 32 ॥
View Verse
अलोलुपेन चित्तेन सिद्धान्ताननुसंचरन्।
यावदर्थं तु विज्ञानमाददानस्ततस्ततः ॥ 33 ॥
View Verse
अदूषयंश्च शास्त्राणि प्रमाणैरनुसंचरन्।
आह्निकं विधिवत् कुर्वन् शास्त्रार्थं कर्मणां क्रमैः ॥ 34 ॥
View Verse
अहरादि त्वहोरात्रं पुना रात्र्यवसानकम्।
अवन्ध्यं(अवश्यं B. F.) सततं कुर्वंश्चोदितैः कर्मणां क्रमैः ॥ 35 ॥
View Verse
पञ्चकालरतो(परो D. E.) नित्यं पञ्चयज्ञपरायणः।
भूषितो दमदानाभ्यां सत्येनाहिंसनेन च ॥ 36 ॥
View Verse
भूतिमेव परामिच्छन् (अभूतिं I.)विभूतिं परिवर्जयेत्।
पावनः सर्वभूतानां मनसा चक्षुषा गिरा ॥ 38 ॥
View Verse
चित्तप्रसादनीर्देवीश्चतस्रः परिशीलयन्।
मैत्र्याद्याः शान्तिमन्विच्छन् जपयज्ञपरायणः ॥ 39 ॥
View Verse
अप्रमाद्यन् स्वकर्मस्थः प्रमादे सति दैवतः।
प्रायश्चित्तं चरन् सम्यग्यस्मिन्यस्मिंस्तु(यस्मिंश्च B.) यादृशम् ॥ 40 ॥
View Verse
कर्मणा मनसा वाचा देवदेवं जनार्दनम्।
प्रपन्नः शरणं शश्वन्मां च तद्धर्मधर्मिणीम् ॥ 41 ॥
View Verse
उत्तमं पुरुषं स्रीं च संदृष्ट्वा मामनुस्मरन्।
दंपती (यस्मिंस्च B.)पूजयन्नित्यं दांपत्यं चाप्यलोपयन् ॥ 42 ॥
View Verse
शब्दस्थमर्थगं वापि पुंभावं विविधात्मकम्।
स्रीभावं विद्धि तद्रूपं लक्ष्मीनारायणं स्मरन्‌(स्मरेत् B.) ॥ 43 ॥
View Verse
उत्तमां गुणसंपन्नां रूपयौवनशालिनीम्।
अलोलुपेन चित्तेन दृष्ट्वा मामेव चिन्तयन् ॥ 44 ॥
View Verse
क्षालयन् पावनैः स्रीणां जायमानं व्यतिक्रमम्।
कुब्जां वा विकलां वापि सर्वावस्थां गतां स्रियम् ॥ 46 ॥
View Verse
अविनिन्दंश्चरंस्रीणां प्रियं शास्त्रानुकूलतः।
एवंवृत्तः सदाचारो नरो विगतकल्मषः ॥ 47 ॥
View Verse
इति ते कथिता शक्र तारिकायाः परा स्थितिः।
विद्यानामपि चान्यासां किं भूयः श्रोतुमिच्छसि ॥ 49 ॥
View Verse

Chapter - 28

अष्टाविंशोऽध्यायः - 28
शक्रः---
नमस्ते कमलावासे नमस्रय्यन्तवासिनि।
त्वत्प्रसादेन विधिवच्छ्रतो मन्त्रः समाधिना ॥ 1 ॥
View Verse
प्रतिपत्तिश्च सकला स्वरूपं च यथास्थितम्।
आहोरात्रिकमाचारमिदानीं वक्तुमर्हसि ॥ 2 ॥
View Verse
श्रीः---
एको नारायणः श्रीमाननादिः पुष्करेक्षणः।
ज्ञानैश्वर्यमहाशक्तिवीर्यतेजोमहोदधिः ॥ 3 ॥
View Verse
आत्मा स सर्वभूतानां हंसो नारायणो (हरिः C.)वशी।
तस्य सामर्थ्यरूपाहमेका तद्धर्मधर्मिणी ॥ 4 ॥
View Verse
साहं सृष्ट्यादिकान् भावान् विदधाना पुनः पुनः।
आराधिता सती सर्वांस्तारयामि भवार्णवात् ॥ 5 ॥
View Verse
ददामि विविधान् भोगान् धर्मेण परितोषिता।
सद्धर्मपरसंस्थाना(परमस्तस्याः D.; परमस्थाना I.) मम सत्त्वादिका तनुः ॥ 6 ॥
View Verse
आचाररूपो धर्मोऽसावाचारस्तस्य (रक्षणम् C.)लक्षणम्।
तमाचारं प्रवक्ष्यामि यः सद्भिरनुपाल्यते ॥ 7 ॥
View Verse
हित्वा योगमयीं निद्रामुत्थायापररात्रतः।
प्रपद्येत हृषीकेशं शरण्यं श्रीपतिं हरिम् ॥ 8 ॥
View Verse
प्रपत्तेश्च स्वरूपं ते पूर्वमुक्तं सुरेश्वर।
भूयश्च शृणु वक्ष्यामि सा यथा स्यात् स्थिरा (भुवि B.)त्वयि ॥ 9 ॥
View Verse
आचम्य प्रयतो भूत्वा स्मृत्वास्त्रं ज्वलनाकृति।
तत् प्रविश्य विनिष्क्रान्तः पूतो भूत्वास्त्रतेजसा ॥ 10 ॥
View Verse
प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्चभिरन्विताम्।
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम् ॥ 11 ॥
View Verse
मया सर्वेषु भूतेषु यथाशक्ति यथामति।
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः ॥ 12 ॥
View Verse
उपायाः क्रियमाणास्ते नैव स्युस्तारका मम।
अतोऽहं कृपणो दीनो निर्लेपश्चाप्यकिंचनः ॥ 13 ॥
View Verse
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया।
रक्षकः (सर्वभूतानां B. G.)सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥ 14 ॥
View Verse
यन्मेऽस्ति दुस्त्यजं किंचित् पुत्रदारक्रियादिकम्।
(समन्तात् A. B. C. G.)समस्तमात्मना न्यस्तं श्रीपते तव पादयोः ॥ 15 ॥
View Verse
शरणं भव देवेश नाथ लक्ष्मीपते मम।
सकृदेवं प्रपन्नस्य कृत्यं नैवान्यदिष्यते ॥ 16 ॥
View Verse
उपायापायमुक्तस्य वर्तमानस्य मध्यतः।
नरस्य बुद्धिदौर्बल्यादुपायान्तरमिष्यते ॥ 17 ॥
View Verse
अतः परं सदाचारं प्रोच्यमानं निबोध मे।
आशंसानः समुत्तिष्ठेत् सर्वभूतसुखोदयम् ॥ 18 ॥
View Verse
भवन्तु सर्वभूतानि सात्त्विके विमले पथि।
भजन्तां श्रीपतिं शश्वद्विशन्तु परमं पदम् ॥ 19 ॥
View Verse
इत्याशास्य प्रियं सम्यग्भूतेभ्यो मनसा गिरा।
शरीरशोधनं कृत्वा धर्मशास्त्रविधानतः(विशारदः F.) ॥ 20 ॥
View Verse
शौचं च विधिवत् कृत्वा भक्षयेद्दन्तधावनम्।
अथाचम्य विदानेन पवित्रैः शास्त्रचोदितैः(बोधितैः B. D.) ॥ 21 ॥
View Verse
प्लावयित्वाभ्युपासीत संध्यां त्रैलोक्यपावनीम्।
मन्मयी त्रिविधा शक्तिः सूर्यसोमाग्निरूपिणी ॥ 22 ॥
View Verse
शुद्धये सर्वभूतानां संध्या देवी प्रवर्तते।
उपस्थाय विवस्वन्तमन्तःस्थं पुरुषोत्तमम्(अन्तःस्थ B. I.) ॥ 23 ॥
View Verse
कुर्यादग्निविधिं सम्यगुपादानमथाचरेत्(दानं समाचरेत् B. D.)।
सति वित्ते न कुर्वीतोपादानं तु विचक्षणः ॥ 24 ॥
View Verse
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः।
प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ 25 ॥
View Verse
स्नानं कृत्वा विधानेन त्रिविधं शास्त्रचोदितम्।
भूतशुद्धिं विधायाथ यागमान्तरमाचरेत् ॥ 26 ॥
View Verse
स्वयमुत्पादितैः (क्रीतैः A.; अन्यैः B. C.)स्फीतैर्लब्धैः (शिष्यादिना तथा B. F.)शिष्यादितस्तथा।
भोगैर्यजेत मां विष्णुमुभौ वा शास्त्रपूर्वकम् ॥ 27 ॥
View Verse
अष्टाङ्गेन विधानेन ह्यनुयागावसानकैः।
स्वाध्यायमाचरेत् सम्यगपराह्णे विचक्षणः ॥ 28 ॥
View Verse
दिव्यशास्त्राण्यधीयीत निगमांश्चैव वैदिकान्।
सर्वाननुचरेत् सम्यक् सिद्धान्तानात्मसिद्धये ॥ 29 ॥
View Verse
अलोलुपेन चित्तेन रागद्वेषविवर्जितः।
न निन्देन्मनसा वाचा शास्त्राण्युच्चावचान्यपि ॥ 30 ॥
View Verse
तावन्मात्रार्थमादद्याद यावता ह्यर्थ आत्मनः।
भूतानां श्रेयसे सर्वे सर्वशास्त्राणि तन्वते ॥ 31 ॥
View Verse
तां तामवस्थां संप्राप्य तानि श्रेयो वितन्वते।
आदौ मध्ये च सर्वेषां शास्त्राणामन्तिमे तथा ॥ 32 ॥
View Verse
निदानज्ञा भिषक्कल्पा तत्तद्गुर्वादिरूपिणी।
प्रवर्तयामि शास्त्राणि तानि तानि तथा तथा ॥ 34 ॥
View Verse
अधिकारानुरूपेण प्रमाणानि तथा तथा।
अत्यन्तहेयं न क्वापि शास्त्रं किंचन विद्यते ॥ 35 ॥
View Verse
सर्वत्र सुलभं श्रेयः स्वल्पं वा यदि वा बहु।
ततः कार्यो न विद्वेषो यावदर्थमुपाश्रयेत् ॥ 36 ॥
View Verse
समयं न विशेत्तत्र नैव दीक्षां कदाचन।
ततः संध्यामुपासीत पश्चिमां सार्धभास्कराम् ॥ 37 ॥
View Verse
विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः।
सुविविक्ते शुचौ देशे निःशलाके मनोरमे ॥ 38 ॥
View Verse
मृद्वास्तरणसंकीर्णे चेलाजिनकुशोत्तरे।
अन्तर्बहिश्च संशुद्धे यमादिपरिशोधितः ॥ 39 ॥
View Verse
आसनं चक्रमास्थाय पद्मं स्वस्तिकमेव वा।
यत्र वा रमते बुद्धिर्नाडीमार्गान् निपीडयन्(अपीडयन् I.) ॥ 40 ॥
View Verse
विजित्य पवनग्रामं प्रत्याहारजितेन्द्रियः।
धारणासु श्रमं कृत्वा मां ध्यायेत् सुसमाहितः ॥ 41 ॥
View Verse
अनौपम्यामनिर्देश्यामविकल्पां निरञ्जनाम्।
सर्वत्र सुलभां लक्ष्मीं सर्वप्रत्ययतां(प्रत्यक्षतां B. D.) गताम् ॥ 42 ॥
View Verse
साकारामथवा योगी वराभयकरां पराम्।
पद्मगर्भोपमां पद्मां पद्महस्तां सुलक्षणाम् ॥ 43 ॥
View Verse
यद्वा नारायणाङ्कस्थां सामरस्यमुपागताम्।
चिदानन्दमयीं देवीं तादृशं च श्रियः पतिम् ॥ 44 ॥
View Verse
बहुधा योगमार्गास्ते वेदितव्याः सुरेश्वर।
तेष्वेकं धर्ममास्थाय भक्तिः श्रद्धा च यत्र ते ॥ 45 ॥
View Verse
सम्यङ्‌ निध्यानमुत्पाद्य समाधिं समुपाश्रयेत्।
ध्याता ध्यानं तथा ध्येयं त्रयं यत्र विलीयते ॥ 46 ॥
View Verse
एकैवाहं तदा भासे पूर्णाहंता सनातनी।
(ऐकार्थ्यं A. B. C.)ऐकध्यमनुसंप्राप्ते मयि संविन्महोदधौ ॥ 47 ॥
View Verse
नान्यत् प्रकाशते किंचिदहमेव तदा परा।
योगाच्छ्रान्तो जपं कुर्यात्तच्छ्रान्तो योगमाचरेत् ॥ 48 ॥
View Verse
तस्य क्षिप्रं प्रसीदामि जपयोगाभियोगिनः।
नीत्वैवं प्रथमं यामं जपयोगादिना सुधीः ॥ 49 ॥
View Verse
योगस्थ एव तद्धीरस्ततो यामद्वयं स्वपेत्।
उत्थायापररात्रे तु पूर्वोक्तमनुसंचरेत् ॥ 50 ॥
View Verse
इति व्यामिश्रकृत्यं तत् प्रोक्तं ते बलसूदन।
अच्छिद्रान् पञ्चकालांस्तु भगवत्कर्मणा नयेत् ॥ 51 ॥
View Verse
दीक्षितः पञ्चकालज्ञो लक्ष्मीमन्त्रपरायणः।
अन्तरं नानयोः किंचिन्निष्ठायां बलसूदन ॥ 52 ॥
View Verse
उभावेतौ मतौ भक्तौ विशतो मां तनुक्षये।
चक्रपद्मधरो नित्यं भवेल्लक्ष्मीपरायणः ॥ 53 ॥
View Verse
स्वदारनिरतश्च स्याद् ब्रह्मचारी सदा भवेत्।
मन्मन्त्रमभ्यसेन्नित्यं मच्चित्तो मत्परायणः ॥ 54 ॥
View Verse
सर्वानुच्चावचाञ्छब्दांस्तद्भावेन विभावयेत्।
अग्नीषोमविभागज्ञः क्रियाभूतिविभागवित् ॥ 55 ॥
View Verse

Chapter - 29

एकोनत्रिंशोऽध्यायः - 29
शक्रः---
शुद्धाशुद्धषडध्वाक्यचित्रनिर्माणभित्तये।
नमः श्रीवत्सभामिन्यै भवसंतापशान्तये ॥ 1 ॥
View Verse
अग्नीषोमविभागं मे क्रियाभूतिविधामपि।
ब्रूहि मे तत्त्वतः पद्मे विद्यायास्तारिकाकृतेः ॥ 2 ॥
View Verse
श्रीः---
व्यापकं यत्‌ परं ब्रह्म शक्तिर्नारायणी हि या।
सा ह्यहं परिणामेन भवामि प्रणवाकृतिः ॥ 3 ॥
View Verse
अग्नीषोमविभागं मे तारिकाया निशामय।
क्रियाभूतिविधानं च यथावत् सुरनन्दन ॥ 4 ॥
View Verse
उन्मेषः परमो विष्णोराद्यः षाड्‌गुण्यचिन्मयः।
साहं संभृतसंभारा शक्तिस्ते कथिता पुरा ॥ 5 ॥
View Verse
सृष्टवत्या जगत् कृत्स्नं तस्या मे रक्षणोद्यमे।
द्विधा प्रवर्तते रूपं (किंचित्तेजोमुखं मतम् A. G.; B. omits four quarters from here.)मुखेनैश्वर्यतेजसोः ॥ 6 ॥
View Verse
तेजोमुखं तु यद्रूपं सा क्रियाशक्तिरुच्यते।
सैवाग्निरुच्यते शक्तिः सर्वोपप्लवदाहनात्(दाहतः C.) ॥ 8 ॥
View Verse
ऐश्वर्यसंमुखं रूपं भूतिर्लक्ष्मीरितीरिता।
शक्तिरैश्वर्यभूयिष्ठा सा मे सोममयी तुः ॥ 9 ॥
View Verse
इच्छाज्ञानक्रियामय्यास्ते इमे व्यूहजे मम।
षाड्‌गुण्यविग्रहा साहं व्यूहिनी परमेश्वरी ॥ 11 ॥
View Verse
या सा शक्तिः (क्रियान्या A. C. G.; कियाग्न्याख्या I.)क्रियाख्या मे षाड्‌गुण्यं तेजसोज्ज्वलम्।
तस्या आसंस्रयो व्यूहाः सूर्यसोमाग्निशक्तयः ॥ 12 ॥
View Verse
अध्यात्ममधिदैवं च तथा चैवाधिभौतिकम्।
तस्या रूपत्रयं विद्धि सूर्याख्यायाः सुरेश्वर ॥ 14 ॥
View Verse
अध्यात्मस्था तु सूर्याख्या पिङ्गलामार्गगामिनी।
आलोकेनाधिभूतस्था सूर्यशक्तिः प्रवर्तते ॥ 15 ॥
View Verse
सूर्यमण्डलसंस्थाना शक्तिः सान्याधिदैविकी।
सूर्यमण्डलसंस्थाना अर्चिषो याः प्रकीर्तिताः ॥ 16 ॥
View Verse
ऋचस्ता विद्धि देवेश तपन्तीस्तपनात्मिकाः।
दीप्तयो यास्तदन्तःस्थास्तानि सामानि विद्धि मे ॥ 17 ॥
View Verse
अन्तःस्था या परा शक्तिः पौरुषीं तनुमास्थिता।
(तं B. C.)तां विद्धि पुरुषं दिव्यं रमणीयं यजुर्मयम् ॥ 18 ॥
View Verse
शङ्खचक्रधरं श्रीशं पीनोदारचतुर्भुजम्।
प्रसन्नवदनं पद्मविष्टरं पुष्करेक्षणम् ॥ 19 ॥
View Verse
मूर्धान्तःपुरुषस्यास्य दशहोता निगद्यते।
पादपाणि चतुर्होता देवस्यास्य सुरेश्वर ॥ 20 ॥
View Verse
लोममांसास्थिमज्जासृक् पञ्चहोता सुरेश्वर।
स्तनावण्डौ च पुंस्त्वं च षड्‌ढोतापान एव च ॥ 21 ॥
View Verse
शीर्षण्याः सप्त ये प्राणाः सप्तहोता निगद्यते।
शोभास्तु दक्षिणास्तस्य संभाराः संधयः स्मृताः ॥ 22 ॥
View Verse
ओंकारः प्रणवस्तारो गुह्यं नाम सनातनम्।
यजूंषि रुद्रशुक्राणि (तथा सामानि A.)स्थूलनामानि तस्य तु ॥ 24 ॥
View Verse
यजुर्मयमनुं दिव्यमभ्यस्यन् पुरुषं नरः।
अनुव्याहृत्यभीचारपापेभ्योऽपि प्रमुच्यते ॥ 25 ॥
View Verse
तपत्येवं परा शक्तिस्रयी सूर्याख्ययाम्बरे।
त्रिविधैषा परा शक्तिः प्रख्याता सूर्यसंज्ञया ॥ 26 ॥
View Verse
तदादिवर्णपवना शिरःकल्पितशेखरा।
क्षित्यादिपुरुषान्तार्णा प्रकाशानन्दविग्रहा ॥ 28 ॥
View Verse
उदिता ब्रह्मणो भूयो ब्रह्मणि प्रतितिष्ठति।
वेदानां जननी सैषा वर्णानां जननी परा ॥ 29 ॥
View Verse
अनुलोमविलोमाभ्यां सौम्याग्नेयी निगद्यते।
सैषा सूर्यवपुर्दिव्या सावित्री मन्मयी कला ॥ 30 ॥
View Verse
गायत्री नाम गायन्तं त्रायते महतो भयात्।
आदाय जीवनं गोभिर्भूसरित्प्राणिसंभवम् ॥ 31 ॥
View Verse
पुनर्मुञ्चति मेघेषु (नवमासहृतं A. B.; C. omits eight quarters from here.)नवमासधृतं करैः।
उक्ता सूर्यमयी शक्तिः शृणु वह्निमयीं पराम् ॥ 32 ॥
View Verse
एषापि त्रिविधा शक्र शक्तिर्वह्निमयी मम।
दिव्येकाबिन्धना ह्यन्या क्षितौ क्षितिमयेन्धना ॥ 33 ॥
View Verse
तथा भुक्तेन्धना कोष्ठे शक्तिर्वह्निमयी त्रिधा।
सर्वदेवमयी सैषा देवानां मुखमुच्यते ॥ 34 ॥
View Verse
त्रिवर्गस्थैः स्तुता सैषा त्रिष्टुबित्युच्यते बुधैः।
दुर्गाणि तारयन्त्यात्मपारायणपरं नरम् ॥ 35 ॥
View Verse
शक्तिः सोममयी त्वन्या सापि त्रेधा निगद्यते।
दिवि बिम्बात्मना त्वेका तथान्यौषधिरूपिणी ॥ 36 ॥
View Verse
चरति प्राणिनामन्तरिडयैकामृतात्मिका।
अनुष्टुब्भिः स्तूयमाना सैषानुष्टुबुदीरिता ॥ 37 ॥
View Verse
मृत्युंजय इति प्रोक्ता सा विद्या मृत्युनाशिनी।
सूर्यसोमाग्निरूपाणां तासामासां पुरंदर ॥ 38 ॥
View Verse
हविष्कृदुदिता सूर्यात् सोमरूपा हविर्मयी।
हविरत्ति तथाग्न्याख्या वह्निविप्रमुखात्मना ॥ 39 ॥
View Verse
तिसृभिर्वर्तते कृत्स्नं लोकतन्त्रमहर्निशम्।
इति व्यूहत्रयोपेता व्यूहिनी सा क्रियात्मिका ॥ 40 ॥
View Verse
शक्तिः परमगम्भीरा मम तेजोमुखोद्गता।
सूर्येन्दुवह्निकोट्योघनियुतार्बुदभास्वरा(भासुराः I.) ॥ 41 ॥
View Verse
चक्रं सुदर्शनं नाम (सावित्र्याद्यरि A. B. C. G.)सा भवत्यरिदारणम्।
अस्रं परमतेजिष्ठमाग्नेयं नाम वैष्णवम् ॥ 42 ॥
View Verse
परोद्यमस्वरूपं तत्(स्वरूपत्वात् I.) प्राणादिप्राणनं परम्।
उद्यन्ति सर्वाण्यस्राणि तस्मात् सर्वाश्च शक्तयः ॥ 43 ॥
View Verse
करणं साधकतमं पञ्चकृत्यविधौ हरेः।
न तत् कृत्यं विना तेन यत्‌ स्याद् विष्णोर्महात्मनः ॥ 44 ॥
View Verse
संकल्पादिस्वरूपेयं सृष्टौ विष्णोः प्रवर्तते।
रक्षणे संहृतौ चैव धत्ते चक्रमयीं तनुम् ॥ 45 ॥
View Verse
ममांशजा पराग्नेयी(ज्ञेया A. D.) क्रियाशक्तिर्हि वैष्णवी।
आब्रह्मस्तम्बपर्यन्तं षोढा विष्टभ्य तिष्ठति ॥ 46 ॥
View Verse
तत्र वर्णमयं चक्रं प्रथमं शृणु वासव।
तारिकातारकद्वन्द्वमक्षगं(अक्षस्थं I.) पारमेश्वरम् ॥ 47 ॥
View Verse
नाभौ सूर्येन्दुभारूपं (श्रियास्तारं A. B. C.; श्रितद्वारं I.)श्रितं स्वारं द्विरष्टकम्।
कादिभान्तं त्रिरष्टारं(द्विषट्‌कारं A. B. C. D. I.) मादिहान्तं तु नेमिगम् ॥ 48 ॥
View Verse
प्रधिः पर्यन्तवह्न्यात्मा (वर्णान्तं पिण्डसंनिभम् C.)वर्गान्तः पिण्डसंनिभः।
वर्णचक्रमिदं दिव्यं वर्तते वर्णवर्त्मना ॥ 49 ॥
View Verse
कलाचक्रमिदं शक्र ज्ञानाक्षं शक्तिनाभिकम्।
ऐश्वर्यारं बलाद्येन नेम्याद्यं त्रिगुणेन तु ॥ 50 ॥
View Verse
तत्त्वं तु वासुदेवाक्षं नाभिः संकर्षणोज्ज्वलः।
प्रद्युम्नारं तथा शक्र प्रधिरूपानिरुद्धकम् ॥ 51 ॥
View Verse
अक्षनाभ्यरनेमिस्थैस्तुर्याद्यैः पदचक्रकम्।
मन्त्रमक्षादिकैर्बीजपिण्डसंज्ञापदात्मभिः ॥ 52 ॥
View Verse
कालाक्षं नाभिगाव्यक्तं महदाद्यरपञ्जरम्।
मनःश्रोत्रतदर्थादिविकारपरिमण्डलम् ॥ 53 ॥
View Verse
लोकलौकिकपर्यन्तं भुवनं चक्रमन्तिमम्।
षट्‌चक्रं दधती हस्तैः पौरुषीं तनुमास्थिता ॥ 54 ॥
View Verse
सुदर्शनः क्रियाशक्तिर्वैष्णवी चक्रमध्यगा।
बीजं पिण्डं पदं संज्ञा अस्याः शृणु चतुष्टयम् ॥ 55 ॥
View Verse
सोमं प्रथममादाय प्राणमन्ते नियोजयेत्।
ततोऽमृतमुपादाय योजयेत् कालपावकम् ॥ 56 ॥
View Verse
तत्संस्थमनलं कुर्यान्मायां व्यापिनमन्ततः।
एतत् सौदर्शनं बीजं मत्क्रियाशक्तिजृम्भितम् ॥ 57 ॥
View Verse
56,57. सोमः सकारः। प्राणो हकारः। अमृतं सकारः। कालपावकः राकारः। अनलः रकारः। माया व्यापी च ईंकारः। सहस्रार ईं इति बीजमन्त्रः।
सप्तवर्णात्मकं दिव्यमिदं बीजं (महद्धितम् A.; महर्द्धिमत् I.)महर्द्धिदम्।
एतदेव महत् पिण्डं मायाव्यापिसमुज्झितम्(समन्वितम् I.) ॥ 58 ॥
View Verse
कालाग्न्यर्कायुताकारमेतद्वज्राम्बुदध्वनि।
पञ्चवर्णं महापिण्डं दुर्धरं देवदानवैः ॥ 59 ॥
View Verse
शुचिना तु सकृत् स्मर्यमजितेन्द्रियदुःस्मरम्।
स्मृत्वा तु शान्तये स्मर्ये बीजे मे तारिकादिके ॥ 60 ॥
View Verse
योऽसौ पिण्डोर्ध्वभागस्थो वर्णः कालानलाभिधः।
दह्यन्ते तेन दैत्येन्द्रा लोकाश्चैव युगक्षये ॥ 61 ॥
View Verse
द्वितीयशक्तिसंस्थेन त्वग्निनाग्निः समिध्यते।
शक्तिं प्राणयति प्राणः पूरितोऽमृततेजसा ॥ 62 ॥
View Verse
इति पिण्डस्वरूपं ते कथितं सुरपुंगव।
व्यापकैः पञ्चभिः पिण्डं (कीलितं A.)कल्पितं त्वन्तरान्तरा ॥ 63 ॥
View Verse
वर्मास्त्रान्तं ध्रुवाद्यं च संज्ञामन्त्रत्वमृच्छति।
व्यापकौ योजयेदन्ते पिण्डाद्योः सोमसूर्ययोः ॥ 64 ॥
View Verse
अ्ते सोमाग्निकूटस्य ह्येकं व्यापकमानयेत्।
आद्यन्तयोस्तथान्त्यस्य वर्णस्य व्यापकौ स्मृतौ ॥ 65 ॥
View Verse
वर्म प्राणोर्जयोर्व्योम दुष्टोपद्रवमर्दनम्।
यः संकर्षणस्तु संहारः कल्पान्तेऽखिलगोचरः ॥ 66 ॥
View Verse
स्ववर्णैरङ्गवानेष बली सौदर्शनो मनुः।
दिव्यान्तरिक्षभौमानां भोगानामाप्तिसाधनम् ॥ 68 ॥
View Verse
कल्पद्रुमो मनुः सोऽयमाश्रितानां पुरंदर।
नारायणात् समुद्यत्या मम नित्यं जगद्धिते ॥ 69 ॥
View Verse
अग्नीषोमविभागस्ते कथितो वृत्रसूदन।
क्रियाभूतिविभेदश्च क्रियाशक्तिभिदापि च ॥ 70 ॥
View Verse
क्रियाशक्तिप्रभावश्च बीजपिण्डादिभेदतः।
भूयः शक्र क्रियाशक्ते ऋद्धिमेतावतीं शृणु ॥ 71 ॥
View Verse

Chapter - 30

एषा ते कथिता शक्र मया शक्तिः क्रियात्मिका।
(In A. C. D. F. 13 lines from here are omitted but given in ch.29. Vide note on p.101.)तस्या व्याप्तिमवोचं ते सूर्यसोमाग्निभेदिताम् ॥ 1 ॥
View Verse
व्यूहिनीमप्यवोचं ते बीजपिण्डाभिधानतः।
पदमन्त्रस्वरूपं च तस्याः शक्र निबोध मे ॥ 2 ॥
View Verse
अजितानलसर्गाणां संयोगः पिण्ड आदिमः।
कमलानलसर्गाणां योगः पिण्डो द्वितीयकः ॥ 3 ॥
View Verse
श्वेताद्याह्लादिसंयोगस्तृतीयः पिण्ड उच्यते।
सूर्योर्जव्यापिनां पिण्डश्चतुर्थस्तेन मध्यतः ॥ 4 ॥
View Verse
त्रीण्यस्राणि ततः कालचक्राय हुतभुक्प्रिया।
तारकेणान्वितश्चादौ चक्रोऽयं पदमन्त्रराट् ॥ 5 ॥
View Verse
नैव किंचिदसाध्यं हि मन्त्रेणानेन वासव।
(अभियुक्ता मनावस्मिन् I.)अभियुक्तमना अस्मिन्न गच्छति पराभवम् ॥ 6 ॥
View Verse
यस्तु ते कथितः पूर्वं त्रियुगार्णो मनूत्तमः।
प्रभावमखिलं तस्य भूयो व्याख्यामि वासव ॥ 7 ॥
View Verse
अनामरूपवच्चक्रं षाड्‌गुण्यमहिमोज्ज्वलम्।
ध्यायन् सबीजमावर्त्य मन्त्रं बन्धात् प्रमुच्यते ॥ 8 ॥
View Verse
क्रियाशक्तेर्मदीयायास्तनुः साक्षान्महामनुः।
षडर्णोऽथर्ववेदान्तसंस्थितश्चक्रबृंहितः ॥ 9 ॥
View Verse
षडध्वमयमोजस्वि चक्रं सौदर्शनं परम्।
भावयेदक्षनाभ्यादिविभक्तावयवोज्जवलम् ॥ 10 ॥
View Verse
अमृतादीन् मनोरर्णानक्षाद्यङ्गेषु चिन्तयेत्।
अक्षे नाभौ तथारेषु नेमौ प्रधितदन्तयोः ॥ 11 ॥
View Verse
प्रकृत्यादिविशेषान्तैस्तत्त्वैः संग्रथितः(संस्कृतः C.) प्रधिः।
माया प्रसूतिस्रैगुण्यमपि नेमिः सुदर्शने ॥ 12 ॥
View Verse
पदाध्वरचितारान्ता मन्त्रा अरसहस्रकम्।
अरान्तो व्यूहमार्गस्थो नाभिस्तत्र कलामयी ॥ 13 ॥
View Verse
वर्णाध्वा ह्यक्षपर्यन्तो मध्ये शक्तिरहं परा।
मदन्तः परमं ब्रह्म ग्राह्यग्राहकतोज्झितम् ॥ 14 ॥
View Verse
मध्ये तु चिन्तयेत् तारं तारिकां तद्बहिः स्मरेत्।
तद्बहिश्च क्रियाबीजं तद्बहिश्चादिमाक्षरम् ॥ 15 ॥
View Verse
इत्यक्षकुहरे ज्ञेयं क्रमाद्बीजचतुष्टयम्।
नाभ्यरादौ तु सूर्यादीनिति पूर्वोक्तया दिशा ॥ 16 ॥
View Verse
ह्रस्राकारस्वरूपो यः स सहस्रविधान्वयी।
सूर्यकालानलद्वन्द्वैरप्रमेयादिभेदितैः ॥ 17 ॥
View Verse
अमृतानलयुग्मैश्च तावद्भिस्तादृशैरपि।
संहत्य भेदयेत् कादीनग्नीषोममयैः स्वरैः ॥ 18 ॥
View Verse
सूर्यसोमानिलान् हित्वा त्रिंशतं चैकमेव च।
अष्टन्यूनसहस्रं तदक्षराणि स्युरञ्जसा ॥ 19 ॥
View Verse
बीजाष्टकं तु तारादि ह्रस्रयुक्तं भवेदथ।
ईशाद्यनुप्रदेशस्थं (वह्निना व्याप्तिरुच्यते A. C. D.)वह्नेर्वायुपदावधि(In A. C. D., verses 43 and then 34b to 42 follow on here.) ॥ 20 ॥
View Verse
दत्त्वा (अस्रयुग्मं चारीं च. A.)सूत्रयुगं चारीं चतुर्धा विभजेद्भुवम्।
पञ्च पञ्चाशतं कुर्यादराणां प्रतिभूमिकम् ॥ 21 ॥
View Verse
सहस्रं तान्यराणि स्युस्तेषु वर्णसहस्रकम्।
न्यसेत् प्रागादि सोमान्तं कोणसूत्रेषु वै ततः ॥ 22 ॥
View Verse
न्यसेन्मन्त्राध्ववर्तिन्यश्चतस्रोऽग्निगुणाः क्रमात्।
जया च विजया चैव अजिता चापराजिता ॥ 23 ॥
View Verse
अग्न्यादीशानपर्यन्तसूत्रस्था मन्त्रदेवताः।
अराणि पूरयन्ती सा नेमिः सौदर्शनी स्थिता ॥ 24 ॥
View Verse
अरनेम्यन्तरस्थानि सर्वास्त्राणि च वासव।
प्रवर्तकानि पुरतः सर्वास्त्राणि पुरंदर ॥ 25 ॥
View Verse
निवर्तकानि पुरतः शिरोभिः शक्रचिह्नितैः।
कृताञ्जलीनि दृप्तानि ध्यायेदुभयतः समम् ॥ 26 ॥
View Verse
नेमिक्षेत्रे महालक्ष्मीः पूर्वस्यां दिशि संस्थिता।
दक्षिणस्यां महामाया पश्चिमायां सरस्वती ॥ 27 ॥
View Verse
सौम्यायां दिशि विज्ञेया महिषासुरनाशनी।
तद्बहिः परितो देवा ब्रह्माद्यास्तु त्रिमूर्तयः ॥ 28 ॥
View Verse
तुर्यादिशक्तिसंयुक्ता अवतारास्ततः परम्।
प्रकृत्यादिविशेषान्तं चतुर्विंशतिसंमितम् ॥ 29 ॥
View Verse
प्रधिपूर्वे स्थितं भागे तत्त्वजातमनुक्रमात्।
भवोपकारणा देवा मध्यमे परिनिष्ठिताः ॥ 30 ॥
View Verse
पृथक् चरमभागस्था भौवना भुवनैः सह।
ब्रह्माण्डोदरसंरूढा(संरूढं A.) भूर्भुवःसुवरादिकाः(आदिकम् A.) ॥ 31 ॥
View Verse
मेर्वादयोऽखिलाः शैला गङ्गाद्याः सरितस्तथा।
क्षीराब्ध्याद्याः समुद्राश्च द्वीपा जम्ब्वादिसंज्ञिताः ॥ 32 ॥
View Verse
वैमानिकगणाः सर्वे ग्रहाः सूर्यादयस्तथा।
नक्षत्रतारकाताराभूतप्रेतादयस्तथा ॥ 33 ॥
View Verse
तिस्रस्रिंशच्च याः कोट्यस्त्रिदशानां पुरंदर।
समाश्रिताः प्रधिं तास्तु सरघा इव सारघम् ॥ 34 ॥
View Verse
अयुते द्वे सुरेशान ह्युभयोः प्रधिपार्श्वयोः।
(In A. C. D. verses 35b to 49 are in a different order. Vide note on page 104.)अग्नयः परिवर्तन्ते प्रवर्तकनिवर्तकाः ॥ 35 ॥
View Verse
कालानलसहस्राभाः स्फूर्जज्ज्वालाकुलाकुलाः।
प्रवर्तकानलास्तत्र दैत्यदानवदाहिनः ॥ 36 ॥
View Verse
धीराः प्रशान्तगम्भीराः प्रसन्नास्तिग्मतेजसः।
निवर्तका ममेच्छातः शमयन्ति प्रवर्तकान् ॥ 37 ॥
View Verse
सुदर्शनमनोरन्ते यत्तत् संकर्षणोद्भवम्।
लाङ्गलास्त्रं महाघोरं सर्वसंहारकारकम् ॥ 38 ॥
View Verse
तिर्यक् स्थितस्य नेम्यन्ते तस्य पूर्वार्धसंभवाः।
प्रवर्तकास्तदूर्ध्वांशसंभवास्तु निवर्तकाः ॥ 39 ॥
View Verse
अग्नीषोममया एते प्रवर्तकनिवर्तकाः।
अग्नीषोममयास्त्रोत्था तदुत्था चास्त्रसंततिः ॥ 40 ॥
View Verse
द्वेऽयुते शृणु मूर्तीस्त्वं वह्नीनां विविधात्मनाम्।
याः स्मृत्वा पुरुषो घोरमापदर्णवमुत्तरेत् ॥ 41 ॥
View Verse
अशेषभुवनाधारश्चतुर्गत्यूर्जबिन्दुमान्।
पिण्डोऽयं तारकः पूर्वंवह्नीनां वपुरुच्यते(वह्नेर्वायुपदावधि A.) ॥ 42 ॥
View Verse
अमृताधारवह्न्यूर्जबिन्दुमांस्तारपूर्वकः।
पिण्डो निवर्तकादीनां दिव्या तनुरुदीर्यते ॥ 43 ॥
View Verse
प्रधिं कालपुमव्यक्तव्यक्तसप्तकरूपतः।
विभज्य दशधा तत्तद्रूपवर्णपुरोगमैः ॥ 44 ॥
View Verse
प्राग्भागादिक्रमेणैव स्वरपूर्वैः स्वरान्तिमैः।
सूर्यानलयुगैः काद्यैरष्टाभिर्बीजनायकैः ॥ 45 ॥
View Verse
युक्तास्तारनमोऽन्तास्ताः प्रवर्तकतनूर्लिखेत्।
अमृताग्नियुगैरेव निवर्तकतनूस्तथा ॥ 46 ॥
View Verse
एकैकाग्नेः शिखाः सप्त घोराः शान्ताश्च संस्मरेत्।
आदितः सप्त युग्माद्याः स्वरसंभेदिताः क्रमात् ॥ 47 ॥
View Verse
सूर्याग्नियुगसंभूता अमृताग्नियुगोत्थिताः।
वर्गान्तश्च प्रधानश्च सिद्धिदो वामनस्तथा ॥ 48 ॥
View Verse
श्वेतश्च तत्त्वधारश्च झषः शाश्वत एव च।
छान्दःपतिस्तथा चक्री कालाद्यर्णाः सबिन्दुकाः ॥ 49 ॥
View Verse
नाभ्यरान्तस्थसूत्रस्थरूपास्चत्वार ऐश्वराः।
अरेषु परितो देवाः केशवाद्या व्यवक्थिताः ॥ 50 ॥
View Verse
स्वैः स्वैश्चिह्नैः सरोजाद्यैर्ध्येया दामोदरान्तिमाः।
अरनेम्यन्तसूत्रस्थाः पद्मनाभादयोऽखिलाः ॥ 51 ॥
View Verse
सर्वे समन्विता देवाः स्वाभिः स्वाभिश्च शक्तिभिः।
प्राग्भागे कमला देवी दक्षिणे कीर्तिरुज्ज्वला ॥ 52 ॥
View Verse
जया तु पश्चिमे भागे माया भागे तथोत्तरे।
प्रत्येकं कोटिसंख्याभिः शक्तिभिः परिवारिताः ॥ 53 ॥
View Verse
अधितिष्ठन्ति तेऽभीक्ष्णं सहस्रारं सुदर्शनम्।
कालचक्रमनाद्यन्तमस्य तेजः प्रकीर्तितम् ॥ 54 ॥
View Verse
संवत्सरर्तुमासार्धमासाहोरात्रसंज्ञितैः।
अक्षनाभ्यरनेम्यन्तैः कलृप्तपञ्चविभक्तिकम् ॥ 55 ॥
View Verse
धार्यते भ्राम्यते चैव यन्त्रारूढमिदं परम्।
नाभिकन्दस्थितेनैव सहस्रारेण नेमिना ॥ 58 ॥
View Verse
चक्रेणानेन हन्यन्ते रक्षोदैतेयदानवाः।
नानामन्त्रात्मना ते तदन्तः सुस्थितेन च ॥ 59 ॥
View Verse
विध्वंसयति शत्रूंश्च स्मृतमात्रमनन्तरम्।
अभ्यस्यमानमनिशं सहस्रारमिदं नरैः ॥ 60 ॥
View Verse
क्लेशकर्माशयान् दोषानशेषान् क्षपयेत् क्षणआत्।
बीजं पिण्डं च संज्ञां च मूर्तिं चेति चतुष्टयम् ॥ 61 ॥
View Verse

Chapter - 31

एकत्रिंशोऽध्यायः - 31
श्रीः---
या सा षाड्‌गुण्यतेजःस्था क्रियाशक्तिः प्रकाशिता।
आग्नेयं रूपमाश्रित्य सा धत्ते पौरुषं वपुः ॥ 1 ॥
View Verse
सर्वास्त्रशस्त्रसंस्यूतं(संस्थं तं A. B. C. G.) सूर्यसोमाग्निमूलकम्।
महत् सुदर्शनं नाम (नानाव्यूहो A. B. C.)नानारूपोपशोभितम् ॥ 2 ॥
View Verse
तस्य मध्ये (क्रिया B.)स्थिता शक्तिः पौरुषीं तनुमास्थिता(आश्रिता B.)।
(स्वसौम्याग्नेयरूपेण A. B. C. G.)सौम्याग्नेयस्वरूपेण तत्तत्कालव्यवस्थया ॥ 3 ॥
View Verse
पुरस्ताद्दर्शितस्तस्या(तस्य B. C.) वाचकस्ते चतुर्विधः।
तत्र संज्ञामयो मन्त्रो भूयसा बलवत्तरः ॥ 4 ॥
View Verse
तस्य व्याख्यामिमां शक्र गदन्त्या मे निशामय।
या सा सोमात्मिका शक्तिरुन्मेषः प्रथमो हरे ॥ 5 ॥
View Verse
मूलशक्तिरहं श्रीः सा प्रथमाक्षरसंस्थिता।
अमृता तृप्तिरूपा च सोमात्मा चाखिलेश्वरी ॥ 6 ॥
View Verse
अमृतीकरणं कुर्यात् सर्गस्येन्दुकलास्थिता(कलास्तथा A. B. C.)।
शिरःपद्मादयो मन्त्राः परमेश्वरयुक्तया ॥ 7 ॥
View Verse
अनया (सूतया B.)सृतया कुर्यात्तृप्तिं संसिद्धिमेव च।
सृष्टिकृत्संयुता सेयं जीवशक्तिः सनातनी ॥ 8 ॥
View Verse
त्रैलोक्यैश्वर्यदोपेता वायुवेश्माक्षरस्थिता।
ताराकारा रिपोर्मूर्ध्नि (चिन्त्ये A. B.)चिन्त्योच्छेदनसिद्धये ॥ 9 ॥
View Verse
अप्रमेयोपगूढाया अग्नीषोममयीजुषः।
अस्याः शक्तेः समुद्भूतं सूक्तं पौरुषमुज्ज्वलम् ॥ 10 ॥
View Verse
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
नित्यमाप्यायते मन्त्रः सोऽयमग्निजुषा मया ॥ 11 ॥
View Verse
तत्तत्कार्यजुषा तत्तद्वर्णशक्तित्रयीजुषा।
अनया यन्न साध्येत न तदन्सित जगत्त्रये ॥ 12 ॥
View Verse
सूते सा सकलाः शक्तीरनुजानाति ताः पुनः।
संहरन्ती पुनश्चैता(एनाः B. D.) इति च स्मर्यते ततः ॥ 13 ॥
View Verse
स्वमुन्मेषमधिष्ठाय परमात्मा स शक्तिराट्।
उदितो जगतोऽर्थाय हेतिदेवः सनातनः ॥ 14 ॥
View Verse
हृत्पुण्डरीकमध्यस्थं यं विचिन्वन्ति योगिनः।
यथावद् ध्यायतो वेध्यं मुक्तेषोर्वेगवत्तया ॥ 16 ॥
View Verse
प्रकर्षेणोन्नयन् प्राणान् प्राण इत्येष(एव A. C.) शब्द्यते।
इन्दुमण्डलसंवीतो व्यापिमानप्रमेयवान् ॥ 17 ॥
View Verse
जिह्वामूलस्थितो ध्यातो वाक्प्रवृत्तिं नियच्छति।
अंमण्डले स्थितो ध्यातः स एव हि सुधां(सुधाः C.) स्रवन् ॥ 18 ॥
View Verse
एतदादीनि सूक्तानि सहस्रमृषयो विदुः।
तत्तत्कालजुषा तत्तद्वर्णशक्तित्रयीजुषा ॥ 20 ॥
View Verse
अनेन यन्न साध्येत न तदस्ति जगत्त्रये।
हन्यते सकलं लोकं गमयत्यमलं पदम् ॥ 21 ॥
View Verse
त्याजयत्यखिलं क्लेशं गम्यते योगचिन्तकैः।
हेत्येवं कथ्यते सद्भिरेवं निर्वचनस्थितैः ॥ 22 ॥
View Verse
अशेषभुवनाधारा संकल्पप्रबलीकृता।
प्रत्यभिज्ञायते सैव शक्तिर्या परमात्मनः ॥ 23 ॥
View Verse
सरत्यस्याश्चलं सर्वं स्रियते सकलैः सदा।
पृथिवी संस्थिता सेयं स्तम्भे सृत्या नियुज्यते ॥ 24 ॥
View Verse
सहो नाम बलं तत्र रमते तत् सहस्रधा।
सहस्रति सहस्रा स्यादग्नीषोमात्मनो मम ॥ 25 ॥
View Verse
अग्नीषोममयी सा मे शक्तिः सर्वक्रियाकरी।
सुसंकल्पसमिद्धा सा तेजसां राशिरूर्जिता ॥ 26 ॥
View Verse
संप्राप्यैवानलं भावं कालपावकतां गता।
रेत्येवं केवली भूत्वा ज्वलत्यविरतोदया ॥ 27 ॥
View Verse
परमेश्वरभूता सा परमाश्चर्यकारिणी।
र इत्येव महाशक्तिर्मदीयाद्या क्रियाह्वया ॥ 28 ॥
View Verse
संख्यानन्त्यं सहस्रं स्यादरानन्त्यं तदुच्यते।
वर्मास्त्रयोः स्वरूपं च दर्शितं ते पुरंदर ॥ 29 ॥
View Verse
ध्रुवश्च प्रणवोऽस्यादिः पूर्वमेव निरूपितः।
एवमेव महामन्त्रः शब्दब्रह्मोद्गतो रसः ॥ 30 ॥
View Verse
आथर्वणी महाशक्तिः क्रियाशक्तेः (महा C.)प्रिया तनुः।
त्रयीसारो ह्यथर्वाख्या पञ्चपर्वा महाश्रुतिः ॥ 31 ॥
View Verse
मन्त्रेण सूयतेऽनेन सारेणेव वनस्पतिः।
अस्य त्वङ्गविधानज्ञाः षडङ्गानि प्रचक्षते ॥ 32 ॥
View Verse
गायत्रीमपि चक्राख्यां प्राकारं चाग्निसंज्ञितम्(संज्ञकम् C.)।
गोपनाद्वरुणोत्सेधात् सोदयादमृतात्तथा ॥ 33 ॥
View Verse
ऊर्ध्वं चक्राय च स्वाहा हृदादिस्तु शिखावधि।
सूर्यज्वालापदाच्चोर्ध्वं महायुक्तात् सुदर्शनात् ॥ 34 ॥
View Verse
ऊर्ध्वं चक्राय च स्वाहा वर्माद्योऽस्रान्तको विधिः।
नमश्चक्राय तस्यान्ते विद्महेऽसौ चतुर्युगः ॥ 35 ॥
View Verse
मुष्टिं वितर्जनीं कृत्वा तर्जनीं तर्जसंस्थिताम्।
परितो भ्रामयेद्वह्निं ध्यायन् प्राकारसंस्थिम् ॥ 37 ॥
View Verse
अन्योन्यसंमुखे पाणितले वै दक्षिणोत्तरे।
कनिष्ठाङ्गुष्ठयोरग्रे श्लिष्टे दीर्घास्तथापराः ॥ 38 ॥
View Verse
परितो भ्रामयेदेवं चक्रमुद्रेयमीरिता।
अह्गमुद्रास्तु वक्ष्यन्ते शक्तिग्रासमनुं शृणु ॥ 39 ॥
View Verse
पवित्रमनलारूढं सव्यापि प्रणवात् परम्।
महासुदर्शनेत्येवं चक्रराजं महाध्वगम् ॥ 40 ॥
View Verse
ततोऽस्तगततेत्यस्मात् सर्वदुष्टभयंकर।
छिन्धि छिन्धीत्यतः पश्चाद्भिन्धि भिन्धि प्रकीर्तयेत् ॥ 41 ॥
View Verse
विदारयद्वयं पश्चात् परमन्त्रान् ग्रस ग्रस।
द्विर्भक्षयेति भूतानि त्रासयेति द्विरुच्चरेत् ॥ 42 ॥
View Verse
वर्मास्त्रवह्निजायाः स्युः शक्तिग्रसनकृन्मनुः।
स्वयं सुदर्शनो भूत्वा मन्त्रमुच्चारयन्निमम् ॥ 43 ॥
View Verse
40-43. पवित्रमित्यादि। `ओं प्रं महासुदर्शन चक्रराज महाध्वग अस्तगत सर्वदुष्टभयंकर छिन्धि छिन्धि भिन्धि भिन्धि विदारय विदारय, परमन्त्रान् ग्रस ग्रस भक्षय भक्षयय भूतानि त्रासय त्रासय' इत्यस्यानन्तरं कवचमन्त्रमस्रमन्त्रं च संयोज्यान्ते स्वाहापदं संयोजयेत्। एष शक्तिग्रासमन्त्रः।
शक्तिं मुखहृदादिभ्यः परस्याचूषयेद्धिया।
षडक्षरस्य मन्त्रस्य शृणु ध्यानं पुरंदर ॥ 44 ॥
View Verse
सहस्रारमहाचक्रमयुताग्निचयोत्कटम् ॥ 45 ॥
षडद्वमयमुद्भ्रान्तं ध्यायेन्मच्छक्तिजृम्भितम्।
अक्षस्थं परमात्मानं नारायणमनामयम् ॥ 46 ॥
View Verse
चक्ररूपिणमीशानं ध्यायेत् कुङ्‌कुमसंनिभम्।
पीताम्बरधरं दिव्यं मुक्तालंकारमण्डितम् ॥ 47 ॥
View Verse
एनमष्टभुजं ध्यायेन्महाव्यसनसंप्लवे।
उद्यज्जानुमनेकास्त्रं स्थितं परमशोभनम् ॥ 48 ॥
View Verse
चक्रं मुसलमुद्दाममङ्कुशं सरसीरुहम्।
याम्ये करचतुष्केऽथ वामे भुजचतुष्टये ॥ 49 ॥
View Verse
शङ्खं बाणयुतं चापं पाशं गुर्वीं गदामपि।
दधानं दक्षिणं दिव्यं दंष्ट्राभास्वरिताननम् ॥ 50 ॥
View Verse
पिङ्गाक्षं पिङ्गकेशाढ्यं ज्वालामालापरिष्कृतम्।
अथ षोडशहस्तं च ध्यायेद्देवं सुदर्शनम् ॥ 51 ॥
View Verse
परैः परिभवे प्राप्ते प्रतीकारविवर्जिते।
स्थितावनवक्लृप्तायामपि निर्जित्य वैरिणः ॥ 52 ॥
View Verse
भये महति संजाते चोरव्याघ्रद्विपादिभिः।
प्रत्यालीढस्थितं देवं वैरिवर्गदिगुन्मुखम् ॥ 53 ॥
View Verse
प्रहारोद्योगिभिः पीनैर्भुजैरूर्ध्वैरलंकृतम्।
शक्त्या दीप्तेन खड्‌गेन वह्निना च शतार्चिपा(हुतार्चिषा B. F.) ॥ 54 ॥
View Verse
अङ्‌कुशेनाथ दण्डेन कुन्तेनाथ ज्वलत्त्विषा।
परश्वधेन चक्रेण दक्षिणाधःकरैः क्रमात् ॥ 55 ॥
View Verse
शङ्खेन (पाशमुख्येन चापेनाथ B. F.)चापमुक्येन पाशेनाथ हलेन च।
कुलिशेन गदास्त्रोण मुसलेनाथ शूलतः ॥ 56 ॥
View Verse
ऊर्ध्वादधः स्थितैर्वामैः प्रदीप्तैरायुधैर्युतम्।
दंष्टानिष्ठ्यूतघोराग्निज्वालाकोलाहलाकुलम् ॥ 57 ॥
View Verse
संस्यूततत्त्वयाकीर्णं दिव्यया वनमालया।
घोराट्टहाससंत्रासद्रव्ददैत्येन्द्रदानवम् ॥ 58 ॥
View Verse
अयुतायुतवह्नीनामास्पदे दीप्ततेजसाम् ॥ 59 ॥
अध्वषट्‌कमये चक्रे चक्रिणं चक्रमुत्तमम।
ध्यायेदेवंविधं देवं भये महति मानवः ॥ 60 ॥
View Verse
एवं ध्यात्वा पुनर्ध्यायेच्चतुर्बाहुं सुदर्शनम्।
अन्यथा नैव शान्तिः स्यादस्ति तेजस्तथा हरेः ॥ 61 ॥
View Verse
अत्यद्भुतमिदं शक्र रहस्यं ते प्रकीर्तितम्।
भूयो रहस्यमन्यच्च शृणु मे सुरपुंगव ॥ 64 ॥
View Verse
आग्नेयी या मदीया ते पुरा शक्तिः प्रकीर्तिता।
सूर्यकोट्यर्बुदाभासा वह्निकोट्यर्बुदोपमा ॥ 65 ॥
View Verse
इन्दुकोट्यर्बुदाभासा मम स्पन्दमयी तनुः।
अमृतं परमात्मानमशेषभुवनाधृतिम् ॥ 66 ॥
View Verse
आस्थाय पञ्चबिन्द्वात्मा स्पृशन्ती व्यापिनं परम्।
हिताय सर्वभूतानामुदेति परमेश्वरात् ॥ 67 ॥
View Verse
सुस्थितौ नेमिगौ ध्यायेच्छेषं तु प्रधिमण्डलम्।
आत्मानं मध्यतो ध्यायेत् स्वं मायापरमात्मनोः ॥ 69 ॥
View Verse
सूर्यानलान्तरस्थं च निरस्यन् संस्मरेज्जनम्।
ध्यायन्ननिशमेवं हि योगी ध्यानपरायणः ॥ 70 ॥
View Verse
विधूय निखिलं दोषं सांसारिकमशेषतः।
मयि भक्तिं परां प्राप्य मामेवान्ते समश्नुते ॥ 71 ॥
View Verse
अन्तरा परमात्मानममृतं च स्थितो जपन्।
मनीषी मनसा नित्यं पीयूषाप्यायनं स्मरेत् ॥ 72 ॥
View Verse
सुधयाप्लाव्यमानो हि (सुधया B. C.)स्रुतया शक्तिकोटरात्।
प्राणेन प्राण्यमानश्च दग्धदोषोऽनलत्विषा ॥ 73 ॥
View Verse
पञ्चबिन्दुक्रियालाभादैश्वर्यं परमास्थितः।
संतताब्यासयोगेन वशी युक्तो जितेन्द्रियः ॥ 74 ॥
View Verse
विहाय सकलं क्लेशं वेषमास्थाय मामकम्।
दृप्तो जातबलो योगी क्रियया सर्वतो वशी ॥ 75 ॥
View Verse
ईश्वरः परमो भूत्वा सर्वव्याप्तिमयः स्थितः।
मामेव मामकं धाम मत्प्रसादादुपाश्नुते ॥ 76 ॥
View Verse
या क्रिया सा चिदाख्याता या चित्तिः सा परा क्रिया।
एते सपरमानन्दास्त्रयस्ते परिकीर्तिताः ॥ 77 ॥
View Verse
अखण्डैका परा शक्तिश्चित्क्रियानन्दरूपिणी।
वैष्णवी सा पराहंता साहं सर्वार्थपूरणी ॥ 78 ॥
View Verse
स्वाच्छन्द्यान्मम (संकल्पात् F. G.)संकल्पो द्विधैवं प्रविजृम्भते।
एका शक्तिः क्रियाह्वाना महाभूतिरथापरा ॥ 79 ॥
View Verse
सामानय्तोऽन्योः शक्र स्थिताहं परमेश्वरी।
एषा ते सकला शक्तिः क्रियारूपा प्रदर्शिता ॥ 80 ॥
View Verse
स्थूलसूक्ष्मपरत्वेन तारिकाया निशामय।
निमीलितक्रियाकारा स्पष्टैश्वर्यस्वरूपिणी ॥ 81 ॥
View Verse
तनुः षाड्‌गुण्यरूपा मे भूतिः सा तारिकाह्वया।
तस्याः स्थूलादिरूपाणि यथावन्मे निशामय ॥
View Verse

Chapter - 32

द्वात्रिंशोऽध्यायः - 32
श्रीः ---
या ह्येषा परमा विद्या तारिका भवतारिणी।
स्थूलं सूक्ष्मं परं चेति तस्या रूपत्रयं शृणु ॥ 1 ॥
View Verse
पञ्चवर्णं चतुर्वर्णमिति स्थूलात्मकं वपुः।
त्रिवर्णा सूक्ष्मसंज्ञा मे परा विष्णुमयी स्थिता ॥ 2 ॥
View Verse
इमास्तिस्रो ह्रवस्था मे प्रत्येकं तु त्रिधा त्रिधा।
स्थूले तु या परावस्था परमात्माश्रया तु सा ॥ 3 ॥
View Verse
अशेषभुवनाधारविष्णुव्यापिसमाश्रया।
भोक्तृभोग्यात्मिका चेयं तस्या रूपं निबोध मे ॥ 4 ॥
View Verse
अशेषभुवनाधारनिलयव्यापिजन्मना।
परमात्मादिकेनैव ललाटतटमेयुषा ॥ 5 ॥
View Verse
आक्रम्य वैष्णवं रूपं स्वे पुनः प्रतितिष्ठति।
तारकारणनादेन शोभमाना हरिप्रिया ॥ 6 ॥
View Verse
भोक्तृभोग्यादिकं सर्वं भुवनं बिभ्रती धिया।
व्यापिनं सर्वतो देवी परमात्मानमाश्रिता ॥ 7 ॥
View Verse
तावत्तया स्थिता विष्णुरूपा स्थूला गतिः परा।
पञ्चकृत्यकरी शक्तिस्रिविधैश्वर्यबृंहिता ॥ 8 ॥
View Verse
सृष्ट्यादिकं विधायाथ व्योमस्थं परमास्थिता।
सर्वाश्चर्यकरी देवी सृष्टिस्थित्यन्तकारणम् ॥ 10 ॥
View Verse
सूर्यं समाश्रिता विष्णुं कलयन्ती(कलयन्तं A. B. G.)जगत्स्थितिम्।
कालपावकतेजोभिः स्थूला स्थूलमयाद्भुता ॥ 11 ॥
View Verse
कथिता गतयस्तिस्रः स्थूलाया मम वासव।
सूक्ष्मायास्तु गतीस्तिस्रः शृणु वृत्रनिषूदन ॥ 12 ॥
View Verse
अकालकलना सेयं सूक्ष्मा तु परमेश्वरी।
व्यापिनं परमात्मानं श्रयन्ती वर्तते ध्रुवा ॥ 13 ॥
View Verse
शुद्धो वर्गस्तथाशुद्धो द्विविधं सृज्यमुच्यते।
शुद्धेतरे स्थिता स्थूला शुद्धे सूक्ष्मा प्रतिष्ठिता ॥ 14 ॥
View Verse
तिस्रोऽप्यासां गतीः सम्यक् स्थूलाया इव लक्षयेत्।
परा या मे तनुः शक्र तस्या रूपं निशामय ॥ 15 ॥
View Verse
सर्वव्याप्तिमती दिव्या निष्कला सा निरञ्जना।
सा परा मन्मयी शक्तिः कथिता विष्णुसंज्ञया ॥ 16 ॥
View Verse
एषा सा वैष्णवी सत्ता सैषाहंता हरेर्मता।
एषा सा योगिनां निष्ठा सैषा सांख्यात्मनां गतिः ॥ 17 ॥
View Verse
इयं सा परमा मूर्तिरियं सा परमा गतिः।
शक्तिः कुण्डलिनी चाद्या भ्रमरी योगदायिका ॥ 18 ॥
View Verse
अनाहता ह्यघोषा च निर्मर्यादा नदोद्गता।
शब्दब्रह्म तथा शक्तिर्मातृकायोनिरुत्तमा ॥ 19 ॥
View Verse
गायत्री च कला गौरी शची देवी सरस्वती।
वृषाकपायी सत्या च प्राणपत्नी यशस्विनी ॥ 20 ॥
View Verse
इन्द्रपत्नी महाधेनुरदितिर्देवनन्दिनी।
रुद्राणां जननी देवी वसूनां तु हिता तथा ॥ 21 ॥
View Verse
आधित्यानां स्वसा नाभिरमृतस्य धृतिः परा।
इडा रतिः प्रियाकारा गुरुधात्री महीयसी ॥ 22 ॥
View Verse
मही च विश्रुतिस्चैव त्रयी गौः प्राणवत्सला।
शक्तिश्च प्रकृतिश्चैव महाराज्ञी पयस्विनी ॥ 23 ॥
View Verse
तारा (हिता F.)सीता तथा श्रीश्च कामवत्सा प्रियव्रता।
तरुणी च वरारोहा नीरूपा रूपशालिनी ॥ 24 ॥
View Verse
अम्बिका सुन्दरी ज्येष्ठा वामा घोरा मनोमयी।
सिद्धा सिद्धान्तिका योगा योगिनी योगभाविनी ॥ 25 ॥
View Verse
एवमादीनि नामानि शास्त्रे शास्त्रे मनीषिभिः।
कथितानि रहस्यानि शक्तेः सिद्धान्तपारगैः ॥ 26 ॥
View Verse
सैषा शक्तिः परा दिव्या त्रिधा रूपैरवस्थिता।
स्थूलसूक्ष्मपरत्वेन त्रैधमेतत् प्रदर्श्यते(प्रदृश्यते B. C.) ॥ 27 ॥
View Verse
षाड्‌गुण्यं यत् परं ब्रह्म वासुदेवाख्यमव्ययम्।
संहृताखिलभेदं तदेकमेव यदा तदा ॥ 29 ॥
View Verse
अप्रमेयाख्यया देवस्तदा योगिभिरीर्यते।
व्याप्यव्यापकभेदो वा सृज्यसृष्टिविधापि वा ॥ 30 ॥
View Verse
षाड्‌गुण्यं ब्रह्म? तत्रेयं संस्थिता विष्णुसंज्ञया।
अतरङ्गार्णवाकारा शक्तिशक्तिमतोर्गतिः ॥ 32 ॥
View Verse
तदा यदा पुनर्ब्रह्म वासुदेवाख्यमव्रणम्।
उन्मिषत्यात्मसंकल्पात्तदा प्रथम उच्यते ॥ 33 ॥
View Verse
प्रथते हि यदा ब्रह्म शुद्धाशुद्धाख्यवर्त्मना।
माया नाम तदा त्वेषा व्रह्नसंकल्परूपिणी ॥ 34 ॥
View Verse
संकर्षणादिक्षित्यन्तस्तस्या (गर्भ इव C. G.)गर्भमवस्थितः।
यदा पुनः परं ब्रह्म स्वेच्छासंपादितं पृथक् ॥ 35 ॥
View Verse
व्याप्यव्यापकभेदेन सद्वितीयमवस्थितम्।
पञ्चबिन्दुस्तदा देवी पञ्चकृत्यविधायिनी ॥ 36 ॥
View Verse
पराया इति ते प्रोक्ता मम तन्वा गतिस्रयी।
रूपं रूपं विभज्यैषा तत्तत्तत्त्वार्णभेदिनी ॥ 37 ॥
View Verse
तत्तद्वाचकतां (नीत्वा A.)नीता स्वकामाज्जगतीतनुः।
तेषु तेषु हि तत्त्वेषु स्वात्मभूतावतिष्ठते ॥ 38 ॥
View Verse
मदंशः सूक्ष्मरूपो यो गूढोऽग्निरिव दारुषु।
तत्तद्रूपमनुप्राप्ता(प्राप्य C.) सेवनी नाम शाश्वती ॥ 39 ॥
View Verse
तत्तद्वर्णोपरागेण तत्तद्व्यक्तिवपुः स्वयम्।
अधिदैवतभावेन तत्र योंऽशः परात्मकः ॥ 40 ॥
View Verse
वैष्णवः शक्तिरूपो मे नियच्छन्नवतिष्ठते।
तत्तद्वाचकतां याति देवी सेयमनश्वरी ॥ 41 ॥
View Verse
अशेषभुवनाधारा योगिनी परमेश्वरी।
केवलस्तत्त्ववर्णस्तु त्रैलोक्यैश्वर्यदां गतः ॥ 42 ॥
View Verse
तत्तत् स्थूलमयं तत्त्वं मदीयं (शक्ति B.)वक्ति शाश्वतम्।
तत्तद्भावाभिधानेन तन्नियन्तृत्वदर्शने ॥ 43 ॥
View Verse
इयमेवेश्वरा देवी द्विधा सक्तावतिष्ठते।
क्षादि शान्तं पुरा यत्ते दर्शितं ब्रह्मपञ्चकम् ॥ 44 ॥
View Verse
धारणानां चतुष्कं यद्वादि यान्तमुदीरितम्।
तत्र सूक्ष्मपरे भावे स्थितेयं पूर्ववद् द्विधा ॥ 46 ॥
View Verse
मायाप्रसूतित्रैगुण्यरूपो यो भार्ण उच्यते।
ई नाम पूर्ववद्देवी तत्रापि दशयोर्द्वयोः ॥ 48 ॥
View Verse
बुद्ध्यहंकारमनसां यद्रूपं बादिकं त्रयम्।
तत्रापि पूर्ववद् द्वेधा देवीयं दशयोर्द्वयोः ॥ 49 ॥
View Verse
नादिके णादिके चैव तथेन्द्रियगणद्वये।
दशयोः सूक्ष्मपरयोरियं द्वेधावतिष्ठते ॥ 50 ॥
View Verse
ञादिके ङादिके चैव स्थूलसूक्ष्मस्वरूपके।
विभूतिपञ्चके देवी दशयोः पूर्ववत् स्थिता ॥ 51 ॥
View Verse
सप्तत्या वितता भेदैः शुद्धाशुद्धमयाध्वनि।
नटीव स्वयमी शक्तिबिभर्ति बहुधा वपुः ॥ 52 ॥
View Verse
यत्र यत्र गता सेयं शुद्धाशुद्धे तथाध्वनि।
तत्र तत्र त्वजहती विष्णोः संबन्धमी स्थिता ॥ 54 ॥
View Verse
एकद्वित्र्यादियोगेन स्वरव्यञ्जनरूषिता।
शुद्धाशुद्धाध्ववर्गस्था नानाभेदोपपादिता ॥ 55 ॥
View Verse
जटोपरागहीनाया अस्या एव पुनस्रिधा।
ज्ञेयः स्थूलादिरूपेण विभेदस्तत्त्वचिन्तकैः ॥ 56 ॥
View Verse
सृष्टिकृत्संयुता स्थूला सूक्ष्मा व्योमेशसंयुता।
निरञ्जना परा सेयमी इत्येवानुरागिणी ॥ 57 ॥
View Verse

Chapter - 33

त्रयस्रिंशोऽध्यायः - 33
श्रीः(श्रीरुवाच C.)---
शृणु वत्स सुरेशान विद्यायास्तारिकाकृतेः।
अङ्गोपाङ्गानि मन्त्राणि नानामन्त्रमयानि मे ॥ 1 ॥
View Verse
गोपनं पञ्चबिन्दुं च ह्यूर्जमैरावणं तथा।
और्वं च पञ्चकं चैते प्रत्येकं व्यापिनान्वितम् ॥ 2 ॥
View Verse
प्राणानलोपरिस्थं तु कृत्वैतत्‌ पिण्डपञ्चकम्।
हृदादिनेत्रपर्यन्तमङ्गबीजमिदं स्मरेत् ॥ 3 ॥
View Verse
परं प्रणवबीजाभ्यां ज्ञानाय च पदं न्यसेत्।
हृदयाय नमश्चैवं मनुरेकादशाक्षरः॥
View Verse
प्रणवादिनमोऽन्तोऽयं मन्त्र एकादशाक्षरः।
परं प्रणवबीजाभ्यामैश्वर्याय पदं न्यसेत् ॥ 5 ॥
View Verse
शिरसे च (ततः A. B.)तथा स्वाहा ह्येष(सैष B.) एकादशाक्षरः।
परं प्रणवबीजाभ्यां शक्तये च पदं न्यसेत् ॥ 6 ॥
View Verse
शिखायै वौषडित्येवं शैखोऽयं तु दशाक्षरः।
परं प्रणवबीजाभ्यां बलायेति पदं न्यसेत् ॥ 7 ॥
View Verse
कवचाय हिमित्येवं मन्त्रोऽयं च दशाक्षरः।
परं प्रणवबीजाभ्यां तेजसे च पदं न्यसेत् ॥ 8 ॥
View Verse
नेत्राभ्यां बौषडित्येवं नेत्रमन्त्रो दशाक्षरः।
प्राणानलोपरिस्थं तु विन्यसेत् परमेश्वरम् ॥ 9 ॥
View Verse
तस्मात् प्रणवपूर्वात्तु पदं वीर्याय विन्यसेत्।
अस्राय च फडित्येवं मन्त्रोऽयं च दशाक्षरः ॥ 10 ॥
View Verse
अङ्गषट्‌कमिदं प्रोक्तमुपाङ्गत्रियुगं शृणु।
तारिकान्ते क्रमाद्दद्यात् पूर्ववत् षड्‌गुणं पदम् ॥ 11 ॥
View Verse
ज्ञानादितेजःपर्यन्तं तदन्ते च क्रमान्न्यसेत्।
उदराय च पृष्ठाय बाहुभ्यामिति वै पदम् ॥ 12 ॥
View Verse
11,12. ओं ह्रीं ज्ञानाय उदराय नमः। ओं ह्रीं शक्तये पृष्ठाय नमः। ओं ह्रीं बलाय बाहुभ्यां नमः।
ऊरुभ्यामथ(इति B.) जानुभ्यां चरणाभ्यामिति क्रमात्।
नमश्च परतो योज्यमुपाङ्गानामयं विधिः ॥ 13 ॥
View Verse
इत्येवमङ्गोपाङ्गानां मन्त्रा द्वादश कीर्तिताः।
अलंकारास्त्रमन्त्रांस्तु ब्रुवत्या मे निशामय ॥ 14 ॥
View Verse
कौस्तुभो व्योमसंभिन्नः परमात्मा ततः परम्।
ऊर्ध्वाधोऽनलसंभिन्न ऊर्जेनापि समन्वितः ॥ 15 ॥
View Verse
सृष्टिकृत्संयुतो मूर्ध्नि कौस्तुभो व्यापिसंयुतः।
नमस्कृतिस्ततः पश्चात्ततः पश्चात् प्रभात्मने ॥ 16 ॥
View Verse
कौस्तुभाय ततः स्वाहा प्रणवाद्यस्तु कौस्तुभः।
मन्त्रः षोडशवर्णोऽयं सर्वकर्मप्रसाधकः ॥ 17 ॥
View Verse
15-17. ओं ठं र्ह्रूः ठं नमः प्रभात्मने कौस्तुभाय स्वाहा।
उद्धरेत् प्रथमं तारं (धारेशं F.)धरेशं तत उद्धरेत्।
तदधस्तृप्तिसंज्ञं(संज्ञः B.) च वराहं तदधो न्यसेत् ॥ 18 ॥
View Verse
मायया भूषयेत् पश्चाद्व्यापिना चाङ्कयेत्ततः।
पञ्चात्मा वर्णपिण्डोऽयं नमस्कारं ततः परम् ॥ 19 ॥
View Verse
ततः स्थलजलोद्भूतभूषितेपदमुद्धरेत्।
वनमाले ततः स्वाहा मन्त्रः सर्वार्थसाधकः ॥ 20 ॥
View Verse
एकोनविंशत्यर्णोऽयं वनमालामयो महान्।
तारकस्यावसाने तु वामनार्णं समुद्धरेत् ॥ 21 ॥
View Verse
तदधस्तृप्तिमायोज्य भूषयेदुदयेन तु।
व्यापिना चाङ्कितः पिण्डश्चतुरर्णो महाद्भुतः ॥ 22 ॥
View Verse
नमस्कारस्ततः पश्चाच्छ्रीनिवासपदं ततः।
पद्माय वह्निजाया च पाद्मोऽयं (द्वादशा A. B. C.)त्रिदशाक्षरः ॥ 23 ॥
View Verse
आदायादौ तु वैकुण्ठं रेफं तदुपरि न्यसेत्।
आनन्देनान्वितं पश्चाद्व्यापिना चाङ्कयेत्ततः ॥ 24 ॥
View Verse
मन्त्रः पञ्चदशार्णोऽयं कामिनां क्षिप्रसिद्धिकृत्।
प्रणवान्ते विराट्‌संज्ञं व्यापिना मूर्ध्नि संयुतम् ॥ 26 ॥
View Verse
द्वयं पिण्डतया योज्यं रेफं कमलमङ्‌कुशम्।
व्यापिना संयुतं मूर्ध्नि तृतीयमिदमक्षरम् ॥ 27 ॥
View Verse
पदं निशितघोणाय चाङ्कुशाय शिखिप्रिया।
इति पञ्चदशार्णोऽयमाङ्कुशः शीघ्रसिद्धिदः ॥ 28 ॥
View Verse
26-28. ओं लॄंर्कृं निशितघोणाय अङ्‌कुशाय स्वाहा।
अलंकारास्त्रमन्त्राणामेतत् पञ्चकमीरितम्।
आधारासनमन्त्राणां शृणु रूपं पुरंदर ॥ 29 ॥
View Verse
यद्विना तारिकायास्तु पूरणं नैव जायते।
अनलद्वयमध्यस्थः प्राणो मायी स बिन्दुमान् ॥ 30 ॥
View Verse
तत आधारशक्त्यै च प्रणवादिर्नमोऽन्तिमः।
आधारशक्तिमन्त्रोऽयं विज्ञेयस्तु नवाक्षरः ॥ 31 ॥
View Verse
29-31. ओं ह्रीं आधारशक्त्यै नमः।
अनलद्वयमध्यस्थो बिन्द्वन्तोऽप्यूर्जसंयुतः।
ततः कालाग्निकूर्माय नमोऽन्तः प्रणवादिकः ॥ 32 ॥
View Verse
मन्त्रः कालाग्निकूर्मस्य विज्ञेयोऽयं दशाक्षरः।
गोपनेनाङ्कितं प्राणं मूर्ध्नि च व्यापिना युतम् ॥ 33 ॥
View Verse
प्रणवान्ते समुद्धृत्य ह्यनन्ताय नमस्ततः।
अष्टाक्षरो ह्ययं मन्त्रो नागराजस्य कीर्तितः ॥ 34 ॥
View Verse
33,34. ओं हां अनन्ताय नमः।
कमलं चाग्निरूपं च प्रधानं पुरुषेश्वरम्।
पिण्डीकृत्य चतुष्कं तु गोपनव्यापिसंयुतम् ॥ 35 ॥
View Verse
वसुधायै नमः पश्चात् प्रणवादिर्मनुस्त्वयम्।
विश्वंभराया विज्ञेय आधारः परिकल्प्यते ॥ 36 ॥
View Verse
35,36. ओं क्ष्म्लां वसुधायै नमः।
अमृतं वरुणं चार्णद्वयं पिण्डीकृतं सह।
गोपनव्यापिसंयुक्तं प्रणवान्ते समुद्धरेत् ॥ 37 ॥
View Verse
क्षीरार्णवाय च नमः सोऽयं मन्त्रो नवाक्षरः।
पवित्रं सोदयव्यापिसंयुतं प्रणवान्तगम् ॥ 38 ॥
View Verse
आधारपद्माय नमः पद्मस्यायं दशाक्षरः।
इत्थमाधारषट्‌कस्य मन्त्रषट्‌कं प्रकीर्तितम् ॥ 39 ॥
View Verse
आधारेशाख्यमन्त्राणां विधिं शृणु पुरंदर।
धर्ताजितोऽमृताधारो विबुधाख्यश्च वासव ॥ 40 ॥
View Verse
एतांश्चतुर उद्धृत्य वर्णानेषामथोपरि।
विन्यसेच्चतुरो वर्णान् सत्यादीन् साधकोत्तमः ॥ 41 ॥
View Verse
त्रैलोक्यैश्वर्यदं दद्याच्चत्वार्येतानि वासव।
बीजानि प्रणवादीनि धर्मादेः षोडशात्मनः ॥ 42 ॥
View Verse
धर्मादिकमधर्माद्यमृगाद्यं च कृतादिकम्।
चतुष्टयानि चत्वारि यानि (रूढानि B.)सिद्धानि लोकतः ॥ 43 ॥
View Verse
चतुश्चतुर्विभागेन संज्ञाः षोडश विन्यसेत्।
बीजोपरि नमस्छान्ते मन्त्राः षोडश ते स्मृताः ॥ 44 ॥
View Verse
सोदयं सामृतं ह्रस्वं प्रणवोपरि विन्यसेत्।
अव्यक्तपद्माय नमः स मन्त्रोऽव्यक्तपद्मकः ॥ 45 ॥
View Verse
सूर्येन्द्वग्निपदेब्यस्तु प्रत्येकं मण्डलाय च।
नमोऽन्ते प्रणवश्चादौ ते मन्त्रा मण्डलत्रये ॥ 46 ॥
View Verse
इत्यासनाख्यमन्त्राणां कथिता त्वेकविंशतिः।
इत्ययं पीठपूजान्तो मन्त्रग्रामो मयेरितः ॥ 48 ॥
View Verse
रहस्यं परमं गुह्यमिदानीं परमं शृणु।
क्षेत्रेशाद्यं मन्त्रचयं विघ्ननिर्मथनक्षमम् ॥ 49 ॥
View Verse
गरुडं कालमनलं पिण्डीकृत्याङ्कयेत् ततः।
सव्यापिनादिदेवेन क्षेत्रपालाय वै नमः ॥ 50 ॥
View Verse
प्रणवाद्यो मनुः सोऽयं क्षेत्रेशस्य नवाक्षरः।
अनुतारा श्रियै पश्चान्नमस्त्वादौ च तारकः ॥ 51 ॥
View Verse
षडक्षरः श्रियो मन्त्रश्चण्डादीनपराञ्शृणु।
सचञ्चलानलस्तारः केवलस्त्वादितो भवेत् ॥ 52 ॥
View Verse
चण्डाय नम इत्येव सप्तवर्णो मनूत्तमः।
सपवित्रानलस्तारः केवलस्त्वादितो भवेत् ॥ 53 ॥
View Verse
प्रचण्डाय नमो मन्त्रः प्रचण्डोऽयं चतुर्युगः।
सशाश्वतानलस्तारः केवलस्त्वादितो भवेत् ॥ 54 ॥
View Verse
जयाय नम इत्येवं जयस्य मुनिवर्णकः।
वराहानलसंयुक्तस्तारः शुद्धस्तथादिगः ॥ 55 ॥
View Verse
विजयाय नमः सोऽयं विजयस्य चतुर्युगः।
गोविन्दः सानलो मायी व्यापिमान् प्रणवान्तगः ॥ 56 ॥
View Verse
गङ्गायै नम इत्येवं गङ्गाया मुनिवर्णकः।
समायः सानलः सूक्ष्मो व्यापिमान् प्रणवान्तगः ॥ 57 ॥
View Verse
ततश्च शङ्खनिधये नमः सोऽयं नवाक्षरः।
पवित्रः सानलः सोर्जो व्यापिमान् प्रणवान्तगः ॥ 59 ॥
View Verse
ततश्च पद्मनिधये नमः सोऽयं नवाक्षरः।
क्षेत्रेशात् पद्मनिध्यन्तं मन्त्राणां दशकं त्विदम् ॥ 60 ॥
View Verse
गणेशाद्यादिसिद्धान्तमथ मन्त्रगणं शृणु।
ऊर्जव्यापिसमायुक्तो गोविन्दः प्रणवान्तगः ॥ 61 ॥
View Verse
ततो गोविन्दवैकुण्ठौ पवित्रः स्रग्धरस्तथा।
जगद्योनिगतः शङ्खो नरः कालो विसर्गवान् ॥ 62 ॥
View Verse
61,62. गणेशादीति। गणेशमारभ्य आदिसिद्धपर्यन्तानां मन्त्रा इत्यर्थः। ओं गूं गणपतये नमः।
नवाक्षरो ह्ययं मन्त्रो गाणपत्यः प्रकीर्तितः।
षोढा संयोज्य गोविन्दं युग्माद्यैर्गोपनादिभिः ॥ 63 ॥
View Verse
अङ्गक्लृप्तिरमुष्य स्यान्नमः स्वाहादिसंयुता(संयुतम् F.)।
आद्यन्तानलसंयुक्तं मायाव्यापिसमन्वितम् ॥ 64 ॥
View Verse
गरुडं तारकस्यान्ते तदन्ते तारिकां स्मरेत्।
रेफशङ्खादिदेवाढ्यं (सोम B. C.)सोमं व्यापिसमन्वितम् ॥ 65 ॥
View Verse
चतुर्थं संस्मरेद्बीजं तदिदं बलसूदन।
वैराजानलशङ्खाढ्चं गोपनं व्यापिसंयुतम् ॥ 66 ॥
View Verse
सोमवर्णं स्मरेच्छक्र पञ्चमं परमाद्भुतम्।
अप्रमेयादिदेवादि यावद्गरुडवर्णकम् ॥ 67 ॥
View Verse
कुर्याच्चतुर्थबीजेन गोपनादिविभेदिना।
अन्तर्जातियुतां सम्यगङ्गक्लृप्तिं विचक्षणः ॥ 69 ॥
View Verse
गोपनादिविभिन्नस्य बीजस्याद्यन्तयोर्न्यसेत्।
प्रणवं च नमश्चैव ततो जातिं प्रकल्पयेत् ॥ 70 ॥
View Verse
प्रणवत्रितयं व्यापिसंयुतः सोदयश्च गः।
गुरवेऽथ नमः सोऽयं प्रथितो गुरुपूजने ॥ 71 ॥
View Verse
प्रणवत्रितयस्यान्ते पवित्रो व्यापिसंयुतः।
परमगुरवे नमः प्रथितस्तु गुरोर्गुरुः ॥ 72 ॥
View Verse
प्रणवत्रितयस्यान्ते व्याप्यानन्दयुतस्तु पः।
परमेष्ठिनेऽथ च नमो मन्त्रो गुरुगुरोर्गुरुः ॥ 73 ॥
View Verse
71-73. ओं ओं ओं गुं गुरवे नमः। ओं ओं ओं पं परमगुरवे नमः ओं ओं ओं पां परमेष्ठिने नमः।
तारपञ्चकमाह्लादं व्योम प्राणोपरि न्यसेत्।
कालानलौ तु तदधः सर्वलोकेश्वरोपरि ॥ 74 ॥
View Verse
यथाक्रमोदितैर्वर्णैः पिण्डं कृत्वा ततः स्वधा।
पितृभ्योऽथ नमः सोऽयं पितृसंघस्य मन्त्रराट्‌ ॥ 75 ॥
View Verse
74,75. ओं ओं ओं ओं ओं ट्‌ह्‌म्रूं स्वधा पितृभ्यो नमः।
षट् तारा आदिदेवोऽथ व्योमवान् केवलोऽथ सः।
रामवान् दमनश्चाथ सिद्धेभ्योऽथ ततो नमः ॥ 76 ॥
View Verse
मन्त्रोऽयमादिसिद्धानां भगवद्भावितात्मनाम्।
क्षेत्रेशाद्यादिसिद्धान्तान् विघ्ननिर्मथनक्षमान् ॥ 77 ॥
View Verse
प्राणं धरेशमानन्दं पिण्डीकृत्य क्रमस्थितान्।
मूर्ध्नि व्योमयुतं कृत्वा तत इन्द्राय वै नमः ॥ 79 ॥
View Verse
ऐन्द्रोऽयमीरितो मन्त्रः पावकादीन्निबोध मे।
कुर्यात् प्राणानलानदैर्व्यापिनापि च पिण्‍कम् ॥ 80 ॥
View Verse
प्राणकालादिदेवैश्च व्यापिनापि च पिण्डक्म्।
अग्नये नम इत्येवं यमाय नम इत्यापि ॥ 81 ॥
View Verse
80,81. ओं ह्रां अग्नये नमः। ओं ह्नां यमाय नमः।
नरः स भगवान् व्यापी पिण्डो निर्ऋतये नमः।
यातुधानेशमन्त्रोऽयं जलेशस्यावधाराय ॥ 82 ॥
View Verse
प्राणं वरुणमानन्दं व्यापिनं पिण्डयेद् बुधः।
वरुणाय नमः पश्चाद्वारुणोऽयं मनूत्तमः ॥ 83 ॥
View Verse
प्राणं सूक्ष्मं तथानन्दं व्यापिनं पिण्डयेद् बुधः।
वायवे नम इत्येवं वायवीयो मनूत्तम् ॥ 84 ॥
View Verse
घर्मांशुवरुणानन्दान् व्यापिना सह पिण्डयेत्।
सोमाय नम इत्येवं सौम्यो मनुरुदाहृतः ॥ 85 ॥
View Verse
सूर्यमूर्जं तथा व्योम चक्रिणं पिण्डयेत् क्रमात्।
ईशानाय नमः पश्चादीशानस्य मनूत्तमः ॥ 86 ॥
View Verse
प्राणं वैकुण्ठमानन्दं व्यापिना पिण्डयेत् क्रमात्।
अनन्ताय नमः पश्चान्नागराजमनुस्त्वयम् ॥ 87 ॥
View Verse
प्राणं खर्वं तथानन्दं व्यापिना पिण्डयेत् क्रमात्।
ब्रह्मणे नम इत्येवं ब्रह्मणो मनुरुत्तमः ॥ 88 ॥
View Verse
सर्वेषां प्रणवः पूर्वमायुधानामथो शृणु।
अनलं जन्महन्तारं प्रधानमनलोर्जकौ ॥ 89 ॥
View Verse
सर्गेण पिण्डयेत् संज्ञां नमः कुलिशमन्त्रराट्।
ऊर्जं विहाय तत्स्थाने मायया परिभूषितम् ॥ 90 ॥
View Verse
तदेव पिण्डं संज्ञा च नमः शक्तिमनुस्त्वयम्।
अखण्डविक्रमं कालं लोकेशं परमेश्वरम् ॥ 91 ॥
View Verse
पिण्डीकृत्य (मनुं B. C. F.)ततः संज्ञा नमो दण्डमनुस्त्वयम्।
विश्वाप्यायकरं कालं लोकेशं परमेश्वरम् ॥ 92 ॥
View Verse
पिण्डीकृत्य (मनुः F.)ततः संज्ञा नमः खड्‌गमनुस्त्वयम्।
चन्द्री शान्तादिदेवौ च सृष्टिकृत् पिणिडता इमे ॥ 93 ॥
View Verse
पाशाय नम इत्येवं पाशमन्त्रोऽयमद्भुतः।
अजितो वरुणानन्दौ सृष्टिकृत्‌ पिण्डिता इमे ॥ 94 ॥
View Verse
ध्वजाय नम इत्येवं ध्वजमन्त्र उदीरितः।
परमात्मानलोद्दामान्‌ पिण्डयेत् सृष्टिकृद्युतान् ॥ 95 ॥
View Verse
मुसलाय नमः पश्चान्मौसलोऽयं मनूत्तमः।
अनलं जन्महन्तारमुदयं सृष्टिकृद्युतम् ॥ 96 ॥
View Verse
पिण्डीकृत्य ततः संज्ञा नमः शूलमनुस्त्वयम्।
करालमनलारूढमोदनं सृष्टिकृद्युतम् ॥ 97 ॥
View Verse
अनलप्राणलोकेशान् व्यापिना पिण्डयेत् क्रमात्।
वरुणं भूधरं चैव व्यापिना पिण्डयेत् क्रमात् ॥ 100 ॥
View Verse
पिण्डोऽयं ज्ञानदः पश्चाद्विष्वक्सेनस्य मन्त्रराट्।
प्रणवादिस्त्वयं मन्त्रः सर्वार्थकृदुदीरितः ॥ 101 ॥
View Verse
ऊर्जहीनं तु यत् पूर्वं तेनानन्दादियोगिना।
अङ्गक्लृप्तिरमुष्य स्याज्जातिमुद्रासमन्विता ॥ 102 ॥
View Verse
सोमं वरुणमीकारं व्यापिना पिण्डयेत् क्रमात्।
सुरभ्यै नम इत्येवं तारपूर्वो मनुस्त्वयम् ॥ 103 ॥
View Verse
सुरभ्याः कथितः सर्वभोगसंपूरणार्थकः।
प्रणवद्वितयस्यान्ते तारिकाद्वयमुद्धरेत् ॥ 104 ॥
View Verse
ततः परमधामा चावस्थिते मदनुग्रहा।
अभियोगोद्यते चेह तथैवावतरेति च ॥ 105 ॥
View Verse
इहाभिमतशब्दं च सिद्धिदे इति च त्रयम्।
ततो मन्त्रशरीरे च तारस्तारा नमो नमः ॥ 106 ॥
View Verse
104-106. ओं ओं ह्रीं ह्रीं परमधामावस्थिते मदनुग्रहाभियोगोद्यते इहावतरेहाभिमतसिद्धिदे मन्त्रशरीरे ओं ह्रीं नमो नमः। इत्यावाहनमन्त्रः।
पञ्चचत्वारिंशदर्णो मन्त्र आवाहनार्थकः।
प्रणवस्तारिका प्राणास्त्रयः सव्यापिनस्ततः ॥ 107 ॥
View Verse
तिस्रश्च तारिकाः पश्चादिदं शब्दं त्रिरुच्चरेत्।
गृहाण वह्निजाया च भोगदानमनुस्त्वयम् ॥ 108 ॥
View Verse
107,108. ओं ह्नीं हं हं हं ह्नीं ह्नीं ह्नीं इदमिदमिदमर्घ्यं गृहाण स्वाहा इत्यादि।
ओंकारमुद्धरेत् पूर्वं विष्णुं व्योमान्वितं ततः।
तारिकामुद्धरेत् पश्चाद्भूयो विष्णुं तथाविधम् ॥ 109 ॥
View Verse
ततो व्योमान्वितं प्राणं सोमनामसमन्वितम्।
परे च परमेशे च प्रसीद प्रणवं ततः ॥ 110 ॥
View Verse
109,110. ओं ईं ह्रीं ईं हंसपरे परमेशे प्रसीद ओं ह्नीं नमः। इति प्रसादनमन्त्रः।
तारिका च नमश्चान्ते प्रसादनमनुस्त्वयम्।
प्रणवस्तारिका चैव ततो भगवतीति च ॥ 111 ॥
View Verse
मन्त्रमूर्तेऽथ स्वपदं समासादय तद्‌द्वयम्।
क्षमस्वेति द्विरुच्चार्य तारस्तारा नमो नमः ॥ 112 ॥
View Verse
111,112. ओं ह्रीं भगवति मन्त्रमूर्ते स्वपदं समासादय समासादय क्षमस्व क्षमस्व ओं ह्री नमो नमः। इति विसर्जनमन्त्रः।
वैसर्जनमनुः सोऽयमित्येते मन्त्रनायकाः।
कथिताः सुरशार्दूल सर्वपापमलापहाः ॥ 113 ॥
View Verse
अभक्तानां च ये नैव प्रदेयाः क्रूरकर्मणाम्।
नास्तिकानामसाधूनां धूर्तानां वञ्चनाजुषाम् ॥ 114 ॥
View Verse
तत्त्वतश्चोपसन्नानां दृढश्रद्धावलम्बिनाम्।
वैष्णवानामिदं वाच्यमवाच्यमितरेषु तु(तत् C.) ॥ 116 ॥
View Verse
अन्यथा वक्ति यो मोहाल्लोभात् कामादथापि वा।
अज्ञानाद्बालभावाद्वा(भावाच्च C.) स याति नरकान् बहून्(क्रमात् A.) ॥ 117 ॥
View Verse
तस्मादालक्ष्य वै सर्वं गुणजातं यथोदितम्।
प्रब्रूयादुपसन्नाय धर्मेण न्यायतस्तथा ॥ 118 ॥
View Verse
प्रब्रूयाद्यो ह्यधर्मेण यो वाधर्मेण पृच्छति।
तावुभौ नरकं घोरमृच्छतः कालमक्षयम् ॥ 119 ॥
View Verse
पृथिवीं रत्नसंपूर्णां दद्याद्यद्यपि वासव।
नैव देयं ह्यभक्ताय नापरीक्षितशीलिने ॥ 120 ॥
View Verse
इति ते भवतो भक्तिर्मयि शक्र महीयसी।
तत्त्वतश्चोपसन्नस्य मयेह प्रीयमाणया ॥ 121 ॥
View Verse
अङ्गोपाङ्गादिमन्त्राणां मन्त्रकोशः प्रकाशितः।
मुद्राकोशमिदानीं त्वं गदन्त्या मे निशामय ॥ 122 ॥
View Verse

Chapter - 34

चतुस्रिंशोऽध्यायः - 34
श्रीः---
मुद्राकोशं प्रवक्ष्यामि मन्त्रकोशस्य वासव।
येन विज्ञातमात्रेण मन्त्रसिद्धिर्महीयसी ॥ 1 ॥
View Verse
मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे।
आत्मनो न्यासकाले च पूजान्ते मण्डलाविधौ(मण्डलावधौ A. B.) ॥ 2 ॥
View Verse
अर्चायां मन्त्रविन्यासे ह्यर्घ्यपात्रेषु भोजने।
पूर्णाहुत्यवसाने च मन्त्रे (वा B.)ह्यभ्यन्तरस्थिते ॥ 3 ॥
View Verse
हिंसकानां विघाताय सर्वविघ्नोपशान्तये।
संमुखौ तु करौ कृत्वा सुश्लिष्ठौ सुप्रसारितौ ॥ 4 ॥
View Verse
संमुखं मध्यमायुग्मनिक्षिप्ताङ्‌गुलयः पराः।
अन्योन्याभिमुखाश्चैव भुजबृन्देन कल्पिताः ॥ 5 ॥
View Verse
महाश्रीरिति विख्याता सर्वसौभाग्यदायिका।
मोचनी सर्वदोषाणां शीघ्रसिद्धिप्रदायिनी ॥ 6 ॥
View Verse
जडभूतस्य वै (जन्तोर्वेदना B.)जन्तोर्बोधनाभ्युदयात्मिका।
प्रसार्य (वाममुत्तानाः B.)वाममुत्तानमङ्‌गुल्यो (विरलायिताः B. G.)विरलाः स्थिता ॥ 7 ॥
View Verse
कार्यास्त्वाकुञ्चितप्रान्ता अङ्‌गुष्ठं सेतुवद्भवेत्।
संमुखं तासु संलग्नं करशाखासु मध्यमाम् ॥ 8 ॥
View Verse
परसूक्ष्मपदस्थे तु मम प्रीतिप्रदायिके।
मम स्थूलपदस्थाया योनिमुद्रां निशामया ॥ 10 ॥
View Verse
संमुखौ तु करौ कृत्वा (संश्लिष्टौ C.)सुश्लिष्टौ सुप्रसारितौ।
मध्यतो मूलतः पृष्ठे विपर्यस्ते ह्यनामिके ॥ 11 ॥
View Verse
तर्जनीमूलयोर्न्यस्य ताभ्यामग्रे निगूहयेत्।
मध्ययोः शेषयोरग्रे कनिष्ठायुगलं पुरः ॥ 12 ॥
View Verse
अन्योन्यं पृष्ठतो लग्नं तलमध्योन्नतं भवेत्।
अङ्‌गुष्ठाग्रद्वयं कुर्यान्मध्ययोरग्रपर्वगम् ॥ 13 ॥
View Verse
महायोनिरिति ख्याता मुद्रा सर्ववशंकरी।
त्रिविधा त्रिविधाया मे मुद्रैषा संप्रदर्शिता ॥ 14 ॥
View Verse
सूक्ष्माख्या(सूक्ष्माद्या B. C.) शक्तिमुद्रा या विकारस्तत्र(तस्य B.) वर्ण्यते।
प्रदेशिन्यादितोऽङ्‌गुष्ठमैकैकश्येन सेतुवत् ॥ 15 ॥
View Verse
लक्ष्मीः कीर्तिर्जया माया देव्यो मच्छक्तयो हि ताः।
दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ॥ 17 ॥
View Verse
अन्तःस्थमुन्नतं कृत्वा वामाङ्‌गुष्ठं सुरोत्तम।
संमुखं हृदि हार्दैषा मुद्रा बुद्धिविवर्धनी ॥ 18 ॥
View Verse
मुष्टिं वितर्जनीं कृत्वा तर्जनी ह्यूर्ध्वसंस्थिता।
शिखामुद्रेति विख्याता सर्वुदष्टभयंकरी ॥ 20 ॥
View Verse
दोषविग्नविनाशाय सदा ह्येतां प्रदर्शयेत्।
आदौ तस्मात् प्रयत्नेन यागवेश्मनि दर्शयेत् ॥ 21 ॥
View Verse
उत्सादं सर्वविघ्नानां कुरुते मन्त्रसंयुता(संयुतम् F.)।
उभयोरग्रतः शाखाः (संस्था तु B.)संस्थास्तु करयोर्द्वयोः ॥ 22 ॥
View Verse
ताभ्यां मध्यमसंलग्नं करबन्धादितो भवेत्।
वार्णण्येषा भवेन्मुद्रा द्वावंसावनया स्पृशेत् ॥ 23 ॥
View Verse
अभेद्या दुष्टसंघेन भूतवेतालयोगिभिः।
कर्मकाले निबध्यैषा मन्त्रिणा च प्रयत्नतः ॥ 24 ॥
View Verse
करयोर्ग्रथिताङ्‌गुल्यः संवृताः पाणिपृष्ठगाः।
तर्जन्यौ प्रान्तसंलग्ने सुषिरे चोच्छ्रिते तयोः ॥ 25 ॥
View Verse
अङ्‌गुष्ठौ मूलसंलग्नौ विपर्यस्तौ परस्परम्।
चाक्षुष्येषा भवेन्मुद्रा निबध्या चक्षुरन्तिके ॥ 26 ॥
View Verse
तर्जनीं स्फोटयेद्दिक्षु दशस्वङ्गुष्ठकेन तु।
द्रुतं करद्वयेनैव चक्षुर्भ्यां संनिरीक्षयेत् ॥ 27 ॥
View Verse
अस्रमुद्रेति विख्याता त्रासनी देवविद्विषाम्।
अङ्गानामियमुद्दिष्टा षण्मुद्री सर्वसाधनी ॥ 28 ॥
View Verse
उपाङ्गत्रियुगस्याथ मुद्रा एता निशामय।
अङ्‌गुलीः श्लेषयेत् सर्वाश्चतस्रो दक्षिणस्थिताः ॥ 29 ॥
View Verse
तासां मूले तथाङ्गुष्ठं तिर्यञ्चं विनिवेशयेत्।
उपाङ्गानामियं मुद्रा तया तत्तत् स्पृशेत् पदम् ॥ 30 ॥
View Verse
अलंकारास्त्रमन्त्राणां (मुद्राम् B. C.)मुद्रा अथ निशामय।
कनिष्ठानामिकामध्या मुष्टिवत् पाणिमध्यगाः ॥ 31 ॥
View Verse
उभयोर्हस्तयोः पश्चात्तौ मुष्टी श्लेषयेन्मिथः(बुधः A. G.)।
प्रसार्य तर्जनीद्वन्द्वं श्लेषयेदग्रतस्ततः(तथा B.) ॥ 32 ॥
View Verse
अङ्‌गुष्ठाग्रे विपर्यस्य तर्जन्योर्मध्यतो न्यसेत्।
मुद्रैषा कौस्तुभी नाम मालामुद्रामिमां शृणु ॥ 33 ॥
View Verse
व्यङ्गुष्ठा अङ्गुलीरष्टौ ग्रथयेदग्रतो मिथः।
लम्बं बाहुद्वयं कुर्यादेषा वा वनमालिका ॥ 35 ॥
View Verse
अङ्गुष्ठौ पार्श्वतो लग्नावङ्गुल्यो विरलाः स्थिताः(कृताः B.)।
एषा पाङ्केरुही मुद्रा पुष्टिसौभाग्यवर्धिनी(वर्धनी B.) ॥ 36 ॥
View Verse
उत्ताने दक्षिणे पाणावग्रेऽङ्गुष्ठकनिष्ठयोः।
मेलयेत् सेतुवच्छिषष्टं सुसंश्लिष्टं लतात्रयम् ॥ 37 ॥
View Verse
आकुञ्चितफणाकारा मुद्रा पाशा भवेदियम्।
मुष्टिं पृष्ठस्थिताङ्गुष्ठं पाण्योर्मुष्टिद्वयं पुरा ॥ 38 ॥
View Verse
कुर्यादधोमुखं वामं तत्पृष्ठे दक्षिणं तथा।
अथाधारादिशक्तेः स्यान्मुद्रोक्ता कूर्मवह्निजा ॥ 39 ॥
View Verse
ऋजूमधोमुखीं कुर्यान्मध्यमामङ्गुलीं तथा।
ततः कनिष्ठिकाङ्गुष्ठौ वलवत्तु प्रसारयेत् ॥ 41 ॥
View Verse
अनन्तासनमुद्रेयमनन्तोऽयं यथोत्थितः।
इयमासनमुद्राणां प्रधाना परिकीर्तिता ॥ 42 ॥
View Verse
अविबागा परा शक्तिराधाराधारसंज्ञिता।
कूर्ममुद्रा तदुन्मेषा (नामिकानन्त C.)नादात्मानन्तमुद्रिका ॥ 43 ॥
View Verse
भावनीयमिदं शश्वदित्थमासनकर्मणि।
करद्वयेन बध्नीयाल्लग्नमुष्टिद्वयं पुरः ॥ 44 ॥
View Verse
अङ्गुलीत्रितयेनैव अङ्गुष्ठौ तर्जनीद्वयम्।
प्रान्तलग्नं तु तत् कुर्यात्तद्युगं मेलयेत् पुनः ॥ 45 ॥
View Verse
एषा सा पार्थिवी मुद्रा सर्वभूतविधारिणी।
मणिबन्धौ तु संलग्नौ नखाग्राणि करद्वये ॥ 46 ॥
View Verse
कार्याणि साङ्गुलीकानि परस्परमुखानि तु।
अङ्गुष्ठाग्रे निराधारे तन्मध्ये चालयेद् द्रुतम् ॥ 47 ॥
View Verse
मद्ये कुर्याच्च करयोरगाधं(अभाम्यं A. B. G.) सुषिरोपमम्।
क्षीरार्णवस्य मुद्रैषा पाद्मी पूर्वं प्रदर्शिता ॥ 48 ॥
View Verse
करद्वयमसंलग्नं कृत्वा तदनु योजयेत्।
मुखे मुखं तु तर्जन्योरेवं मध्यमयोः क्रमात् ॥ 49 ॥
View Verse
अनामयोस्ततः पश्चाद्वक्त्रे वक्त्रं कनिष्ठयोः।
अङ्गुष्ठयुगलं तत्तदङ्गुलीमुखयोर्न्यसेत् ॥ 50 ॥
View Verse
एतन्मुद्राचतुष्कं तु धर्माद्ये तु चतुष्टये।
अधर्मादिचतुष्काणां तद्वन्मुद्राचतुष्टयम् ॥ 51 ॥
View Verse
तदूर्ध्वस्थस्य पद्मस्य मुद्रा (पाद्मा F.)पाद्मी पुरोदिता।
दक्षिणस्य तु हस्तस्य तर्जन्यङ्गुष्ठमेलनम् ॥ 52 ॥
View Verse
कृत्वा तदनु तद्बन्धं विकास्य च शनैः शनैः।
समुत्तानं पुनः कुर्याच्छाखासंघं पृथक् पृथक् ॥ 53 ॥
View Verse
धामत्रयस्य मुद्रैषा चिद्भासनगतां शृणु।
स्फुटौ प्रसारितौ हस्तौ कुर्यादञ्जलिरूपकौ ॥ 54 ॥
View Verse
चिद्भासनस्य मुद्रैषा शुद्धसत्त्वमयी परा।
द्वात्रिंशदिति मुद्राणां सर्वदोषविनाशिनी ॥ 55 ॥
View Verse
भूषणआस्रासनादीनां तव शक्र प्रदर्शिता।
क्षेत्रेश्वरादिमुद्राणामिदानीं दशकं शृणु ॥ 56 ॥
View Verse
ग्रस्तमङ्गुलिसंघातं कृत्वा पाणिद्वयेन तु।
बलात्संपीडयेत् कुर्वन्नङ्गुष्ठद्वयमुच्छ्रितम् ॥ 57 ॥
View Verse
मुद्रेयं क्षेत्रपालस्य सर्वदुष्टनिबर्हणी।
उत्तानौ तु करौ कृत्वा निकटस्थौ पुरंदर ॥ 58 ॥
View Verse
अङ्गुलीनां गणं सर्वं कुञ्चितं मध्यसंस्थितम्।
अङ्गुष्ठौ पतितौ कृत्वा क्रमशः (स्पष्टतां A. B. C.)स्फुटतां नयेत् ॥ 59 ॥
View Verse
श्रीबीजस्य तु मुद्रैषा प्रथमं कथिता तव।
समुत्थाप्य कराद्वामात्तर्जनीं चण्डबीजजाम् ॥ 60 ॥
View Verse
तामेव दक्षिणाद्धस्तात् प्रचण्डस्य निदर्शयेत्।
मध्यमां वामहस्ताद्वै समुत्थाप्य जयस्य सा ॥ 61 ॥
View Verse
दक्षिणाद् विजयाख्यस्य बीजस्य परिकीर्तिता।
वामाच्चानामिकां प्राग्वत्कृत्वा गाङ्गस्य विद्धि ताम् ॥ 62 ॥
View Verse
दक्षिणाद्यामुनस्योक्ता मुद्रा बीजस्य वासव।
मुद्रा शङ्खनिधेः प्रोक्ता वामहस्तात् कनिष्ठिका ॥ 63 ॥
View Verse
तथा पद्मनिधेर्हस्ताद् दक्षिणात् सा कनिष्ठिका।
दक्षिणेन तु हस्तेन साङ्गुष्ठेन तु मुष्टिना ॥ 64 ॥
View Verse
प्रदेशिनीमनामां च वामहस्तस्य पीडयेत्।
प्रयत्नीकृतशाखानां पृष्ठे योज्याथ मध्यमा ॥ 65 ॥
View Verse
लम्बमानकराकारा यथा संदृश्यते च सा।
मुष्टेर्नातिसमीपस्थां वामहस्तात् कनिष्ठिकाम् ॥ 66 ॥
View Verse
दक्षिणाङ्गुष्ठपार्श्वेन(भावेन A.) दंष्ट्रावत् परिभावयेत्।
ईषत्तिर्यग्गतिस्पष्टौ वामोऽङ्गुष्ठस्तथा परः ॥ 67 ॥
View Verse
यथा तौ परिदृश्येते गजकर्णोपमौ शुभौ।
गणेश्वरस्य मुद्रैषा सर्वविघ्नक्षयंकरी ॥ 68 ॥
View Verse
संश्लिष्टौ मणिबन्धौ तु कृत्वा पाणिद्वये पुरा।
संलग्नमग्रदेशात्तु प्रोन्नतं मध्यमायुगम् ॥ 69 ॥
View Verse
प्रदेशिनीयुगं तद्वत्तथैवानामिकाद्वयम्।
अङ्गुष्ठं द्विगुणीकृत्य नमयेत्तदधोमुखम् ॥ 70 ॥
View Verse
शनैः शनैः स्पृशेद्यावत् स्वं स्वं (पाण्योर्द्वयोस्तथा B. C.; पाणिद्वयोस्तलम् F.)पाणिद्वयीतलम्।
स्फुटं (स्वाभिमुखं C.)सुविरलं कुर्यादङ्गुष्ठद्वितयं तथा ॥ 71 ॥
View Verse
कनिष्ठिकाद्वयं चैव समेन धरणेन तु।
इयं वागीश्वरी मुद्रा वाणीविभवदायिनी ॥ 72 ॥
View Verse
संमुखौ संपुटीकृत्य द्वौ हस्तौ संप्रसारितौ।
विनियोज्यौ ललाटाग्रे शिरसावनतेन तु ॥ 73 ॥
View Verse
गुर्वादित्रितयस्यैषा मुद्रा चेतःप्रसादिनी।
प्रोत्तानं दक्षिणं पाणिं कृत्वाङ्‌गुलिगणं ततः ॥ 74 ॥
View Verse
संलग्नं कुञ्चयेत् किंचिदङ्‌गुष्ठं संप्रसार्य च।
तियक् शनैः शनैः किंचित् कुर्याच्चाधोमुखं ततः ॥ 75 ॥
View Verse
मुद्रा पितृगणस्यैषा नित्यतृप्तिकरी स्मृता।
इयं श्राद्धसहस्रेभ्यः पितृप्रीतिकरी सदा ॥ 76 ॥
View Verse
दर्शनीया प्रयत्नेन पितॄणां पूजने सदा।
करद्वयं समुत्तानं नाभिदेशे नियोजयेत् ॥ 77 ॥
View Verse
वामस्य दक्षिणं पृष्ठे मुद्रैषा सिद्धसंसदः।
सुस्पृष्टं दक्षिणं हस्तमात्मनस्तु पराङ्मुखम् ॥ 78 ॥
View Verse
पराङ्मुखं लम्बमानं वामपाणिं प्रकल्पयेत्।
वराभयदमुद्रे द्वे लोकेशानामिमे स्मृते ॥ 79 ॥
View Verse
एकैकेन तु मन्त्रेण वज्राद्येव क्रमाद्युतम्।
अस्राख्यां शक्तिसंयुक्तां प्रागुक्तां संप्रदर्शयेत् ॥ 80 ॥
View Verse
लोकपालायुधानां तु पूजितानां क्रमादिह।
वामहस्तकनिष्ठाद्यास्तिस्रः स्वतलमध्यगाः ॥ 81 ॥
View Verse
तासामङ्गुष्ठतः पृष्ठे तर्जती प्रोन्नता भवेत्।
नासावंशप्रदेशस्था ततो दक्षिणपाणिना ॥ 82 ॥
View Verse
अङ्गुलीत्रितयेनैव मुष्टिं बद्धा तु पूर्ववत्।
तर्जनीं द्विगुणीकृत्य त्वङ्गुष्ठाग्रे नियोजयेत् ॥ 83 ॥
View Verse
प्रोद्यतो दक्षिणो बाहुश्चक्रक्षेपे यथोद्यतः।
विष्वक्सेनस्य मुद्रेयं विश्वबन्धनकृन्तती(कर्तनी B. C.) ॥ 84 ॥
View Verse
किंचिदाकुञ्चयेद्धस्तं दक्षिणं हृदयोपगम्।
अङ्गुष्ठौ विरलौ स्पष्टौ मुद्रा ह्यावाहने स्मृता ॥ 85 ॥
View Verse
खड्गधारासमाकारौ विरलाङ्गुलिकावुभौ।
अङ्गुष्ठौ दण्डवत् कृत्वा मुष्टिबन्धं शनैः शनैः ॥ 86 ॥
View Verse
कुर्यात् कनिष्ठिकादिभ्यो मुद्रैषा स्याद्विसर्जने।
प्रसृतौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ॥ 87 ॥
View Verse
कनीयस्यौ तथाङ्गुष्ठौ सुश्लिष्टौ च नियोज्य च।
मध्यमाङ्गुलियुग्मं चाप्यन्योन्यकरपृष्ठगम् ॥ 88 ॥
View Verse
प्रक्षिप्यानामिकायुग्मं तर्जनीयुगलं तथा।
मुद्रैषा कामधेन्वाख्या सर्वेच्छापरिपूरणी ॥ 89 ॥
View Verse
द्विप्रकारं तु मुद्राणां प्रयोगं विद्धि वासव।
अध्यात्मं संविदाकारं बाह्यं वाक्कर्मचित्तजम् ॥ 90 ॥
View Verse
अनेन विधिना मुद्रां यो बध्नाति विधानवित्।
तेनेदं मुद्रितं सर्वमपुनर्भवसिद्धये ॥ 91 ॥
View Verse
इति मुद्रागणः सर्वस्तवोद्दिष्टः पुरंदर।
आराधनाधिकारार्थं शृणु स्नानविधिं परम् ॥ 92 ॥
View Verse
अन्तर्बहिर्मलोपेतमलक्ष्मीः प्रतिपद्यते।
तस्या निवारणार्थाय स्नानं सर्वत्र शिष्यते(चेष्यते A. C.) ॥ 93 ॥
View Verse
तत् पुनस्रिविधं स्नानं जलमन्त्रस्मृतिक्रमात्।
त्रिविधं पुरुहूतैतत् स्मृतं शतगुणोत्तरम् ॥ 94 ॥
View Verse
पुष्करादिषु तीर्थेषु यत् स्नानं जलजं (मतम् B.)स्मृतम्।
ततः शतगुणं स्नानं भगवच्छास्त्रचोदितम् ॥ 95 ॥
View Verse
तस्माच्छतगुणं मान्त्रं मन्त्राङ्गन्याससंभवम्।
तस्माच्छतगुणं ध्यानं शुद्धसंविन्मयं परम् ॥ 96 ॥
View Verse
आदौ सामान्यविधिना जलस्नानं समाचरेत्।
विशेषविधिना पस्चाद्विशेषस्य विधिस्त्वयम् ॥ 97 ॥
View Verse
पूर्वं स्नात्वा मृदाम्भोभिः पश्चाद्गन्धादिलेपनप्त्।
स्नानं स्यात्तन्मलध्वंसि प्राणायामैः समाचरेत् ॥ 98 ॥
View Verse
द्वादशावृत्तया कुर्यात् पूरणं तारया पुरा।
धारयेत् षोडशावृत्त्या द्विषट्‌केन पुनस्त्यजेत् ॥ 99 ॥
View Verse
सव्यदक्षिणपर्यायै रेचनान्तमरुत्क्रमैः।
मलान् क्षपयति प्राणनाडीस्थान् पूर्वसंचितान् ॥ 100 ॥
View Verse
ततस्तत्त्वमयो भूत्वा मलिनं भूतपिण्डकम्।
षाट्‌कोशिकमसारं च शोधयेद्धारणावशात्(बलात् C.) ॥ 101 ॥
View Verse
पृथिव्यादीनि (तत्त्वानि कारणानि स्वकारणे B. F.)सर्वाणि तत्त्वानि स्वस्वकारणे।
धारणाभिर्नयेदस्तमव्यक्तान्तानि वै क्रमात् ॥ 102 ॥
View Verse
क्षीरे क्षीरमिवात्मानं मयि संमिश्रयेत्ततः।
भूत्वा लक्ष्मीमयः पश्चाद्भवेन्नारायणात्मकः ॥ 103 ॥
View Verse
धारणाबन्धमासाद्य शुद्धसत्त्वेन चेतसा।
परमात्मात्मकत्त्वं यत् सा शक्तिः परमा मता ॥ 104 ॥
View Verse
तत्स्थ एव स्वकं पिण्‍डं संदहेद्धारणाग्निना।
चिदाशुशुक्षणेस्तेजः पुञ्जमर्चिःकणालयम् ॥ 105 ॥
View Verse
पतन्तं संस्मरेन्मूर्ध्नि पिण्डं प्रज्वलितं ततः।
शान्तमन्तःस्थसत्सत्त्वं भस्मीभूतरजस्तमम् ॥ 106 ॥
View Verse
रजस्तमोमयं भस्म त्वपोह्योद्बोधवायुना।
चिदानन्दमहाम्भोधेरतरङ्गगुणाकरात् ॥ 107 ॥
View Verse
प्रसृतं सृष्टिमार्गेण संस्मरेदमृतोदकम्।
तेनाप्यायितमन्तःस्थं तत्सत्त्वं देहतां नयेत् ॥ 108 ॥
View Verse
शुद्धं तत्सृष्टिमार्गेण संश्रयेद्भौतिकं वपुः।
अन्तःशुद्धिरियं प्रोक्ता बाह्यशुद्धिमथो श्रृणु ॥ 109 ॥
View Verse
पवित्रपाणिरादाय मृत्कलां मन्त्रमन्त्रिताम्।
तां त्रिधा वामहस्ताग्रे मूलमध्याग्रतो न्यसेत् ॥ 111 ॥
View Verse
बोधशक्त्यात्मना पूर्वं तीर्थशुद्धिं समाचरेत्।
तीर्थं तत् त्रिविधं प्रोक्तं स्थूलसूक्ष्मपरात्मना ॥ 112 ॥
View Verse
तर्पयत्यखिलं स्थूलं स्थूलरूपेण तज्जगत्।
सत्त्वात्मना तु सूक्ष्मेण ससुरांस्तर्पयेत्पितॄन् ॥ 113 ॥
View Verse
परेणानन्दरूपेण नयेन्मत्कर्मयोग्यताम्।
तस्माच्छुद्धिः पुरा कार्या तीर्थे शास्त्रदृशा स्वयम् ॥ 114 ॥
View Verse
स्थूलं ज्ञानाग्निना दग्ध्वा ब्रह्मानन्देन पूरयेत्।
ज्ञानशक्त्यावरोप्याथ तीर्थे सत्त्वं तु वैष्णवम् ॥ 116 ॥
View Verse
प्रथमे मध्यमेऽथान्ते मृद्भागे क्रमशः सुधीः।
अस्रं च मूलमन्त्रं चाप्यङ्गमन्त्रं च संस्मरेत् ॥ 117 ॥
View Verse
दश दिक्षु क्षिपेदस्रं सर्वविघ्नोपशान्तये।
मूलमन्त्रान्वितं भागं तीर्थमध्ये विनिक्षिपेत् ॥ 118 ॥
View Verse
जलमध्यं समाविश्य निमज्ज्योन्मज्ज्य वै पुनः।
कराभ्यामस्रजप्ताम्भः पूर्वं मूर्ध्नि विनिक्षिपेत् ॥ 120 ॥
View Verse
द्वितीयं मूलमन्त्रेण तृतीयं चाङ्गमन्त्रकैः।
ततस्तीरं समासाद्य सम्यगाचम्य वै ततः ॥ 121 ॥
View Verse
स्नानं समाचरेन्मन्त्रैर्यथावन्न्यासकर्मणआ।
ध्यानस्नानं ततः कुर्यात् सावधानेन चेतसा ॥ 122 ॥
View Verse
स्वस्थितं पुण्डरीकाक्षं स्मृत्वा लक्ष्मीधरं परम्।
तत्पादोदकजां धारां संस्मरेच्छिरसि च्युताम् ॥ 123 ॥
View Verse
तया संप्लावयेदन्तर्बहिश्च सकलं वपुः।
एकैकशो द्विशो वापि त्रिशो वापि समाहितः ॥ 124 ॥
View Verse
यथाशक्ति यथाकालं त्रिविधं स्नानमाचरेत्।
प्रणवाद्यैर्नमोऽन्तैश्च नामभिर्मन्मयान् सुरान् ॥ 125 ॥
View Verse
ऋषींश्च तर्पयित्वाथ स्वधान्ते तर्पयेत् पितॄन्।
एवं स्नानं विधायाथ तीर्थस्थं मन्त्रनायकम् ॥ 126 ॥
View Verse
आकृष्य पूरकेणाथ संस्मरेद्धृदयान्तरे।
आकृष्य मनसाश्रं च दिग्विदिक्स्थापितं पुरा ॥ 127 ॥
View Verse
यागाङ्गानि समादाय प्रयायाद्यागमन्दिरम्।
स्वयं सिद्धमथार्षं वा सिद्धैर्वा परिकल्पितम् ॥ 128 ॥
View Verse
मनुष्यैः कल्पितं वाथ मन्मयैर्भावितान्तरैः।
सर्वलक्षणसंपूर्णं विमानं पाञ्चरात्रिकम् ॥ 129 ॥
View Verse
शुभं कमलिनीतीरं विजनं वा मनोहरम्।
यद्वा विविक्तमुद्यानं पुण्यवृक्षोपशोबितम् ॥ 130 ॥
View Verse
पुलिनं रमणीयं वा सिकतोपरि विस्तृतम्।
अवातमजनस्पर्शमसमीपस्थदोषवत् ॥ 131 ॥
View Verse
यत्र वा रोचते चित्तं तत्र यायान्मनोवशात्।
हृन्मध्यस्थे परे मन्त्रे प्रबुद्धानन्दविग्रहे ॥ 132 ॥
View Verse
दिगन्तरमपश्यन् वै मौनी संरोधितानिलः।
प्राप्य स्थानं शुभं तत्र नासाग्रेण विरेचयेत् ॥ 133 ॥
View Verse
मन्मन्त्रं परमात्मानं प्रदीप्तानलविग्रहम्।
बहिरस्रं च विन्यस्य चरणेनाहनेत् क्षितिम् ॥ 134 ॥
View Verse
स्मरन् मन्त्रमयीं लक्ष्मीं मामेकां परमेश्वरीम्।
एकान्तदेशमासाद्य बध्नीयाद्रुचिरासनम् ॥ 135 ॥
View Verse
दर्भे चर्मणि वस्रे वा फलके यज्ञकाष्ठजे।
अभिवन्द्य हरिं मां च भक्त्यैव(एवं B.) गुरुसंततिम् ॥ 136 ॥
View Verse
गृहीत्वा मानसीमाज्ञां तेभ्यस्तु शिरसा नतः।
मानसीं निर्वपेत् (सर्वाः क्रियाः B. F.)सर्वां क्रियां ज्ञानसमाधिना ॥ 137 ॥
View Verse
ज्ञानेन क्रियते यद्यत् कर्म ब्रह्मसमाधिना।
शुद्धसत्त्वमयं तत्तदक्षयं भवति ध्रुवम् ॥ 138 ॥
View Verse
बाह्यद्रव्याश्रिता यस्माद् दोषा राजसतामसाः।
ततस्तच्छोधनमपि कर्मणा मनसा गिरा ॥ 139 ॥
View Verse
तस्मादेकान्तनिर्दोषं भावनावासितं(भावितं B. G.) तथा।
तस्माज्ज्ञानं समास्थाय शुद्धं संवित्समुद्भवम् ॥ 140 ॥
View Verse
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम्।
इति स्नानविधिः सम्यक् कीर्तितस्ते सुरेश्वर।
अङ्गन्यासादिकं स्थानं तव वक्ष्याम्यतः परम् ॥ 141 ॥
View Verse

Chapter - 35

पञ्चत्रिंशोऽध्यायः - 35
श्रीः---
अन्तर्यागादिसिद्ध्यर्थं भूतशुद्धिं निशामय।
कथ्यमानं मया शक्र सावधानेन चेतसा ॥ 1 ॥
View Verse
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं स्थितम्।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं विदुः ॥ 3 ॥
View Verse
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता यत्र तत्तु तन्मात्रमुच्यते ॥ 4 ॥
View Verse
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीश्च तत्र तत्र निवेशयेत् ॥ 5 ॥
View Verse
घ्राणादि पायूपस्थादि गन्धादीति त्रयं त्रयम्।
तन्मात्रवर्गे पृथ्व्यादौ प्रातिलोम्याच्छमं नयेत् ॥ 6 ॥
View Verse
तरङ्गा जलधौ यद्वदस्तं यान्ति समीरणात्।
विषयेन्द्रियकल्लोला महाभूतमहोदधौ ॥ 7 ॥
View Verse
सुसमीचीनया बुद्ध्या तद्वदस्तं नयेद् बुधः।
(G. omits this line.)मनोऽभिमान इत्येतावहंकारे शमं नयेत् ॥ 8 ॥
View Verse
प्राणमध्यवसायं च बुद्धितत्त्वे (निगूहयेत् A.)निबर्हयेत्।
सत्त्वं रजस्तमश्चैव त्रैगुण्यं प्रकृतौ नयेत् ॥ 9 ॥
View Verse
यत्तत् त्रैगुण्यमव्यक्तं कारणं महदादिके।
त्रैगुण्यं च प्रसूतिश्च मायेत्येतत् त्रिधा तु तत् ॥ 10 ॥
View Verse
एवं (तत्र विधा B.)तत्त्वविदां ज्ञेया एताः प्रकृतयो दश।
स्थूलसूक्ष्मविबेदेन ताः पुनर्विंशतिः स्मृताः ॥ 11 ॥
View Verse
स्थूलानां प्रकृतीनां तु दश मन्त्रा इमे स्मृताः।
तत्तत्संज्ञा हुंफडन्तास्तारिकाद्या ध्रुवादिकाः ॥ 12 ॥
View Verse
मांसं मेदस्तथा स्मृत्वा रसो व्योमाक्षरत्रयम्(व्योमाक्षरं पुनः C.)।
परात् परद्वयं चैव बिन्दुनादविभूषितम् ॥ 13 ॥
View Verse
दशानां सूक्ष्मरूपाणां शक्त्याद्यास्ता नव स्मृताः।
देहेषु जीवभूता याः शक्तयः परसंज्ञिताः ॥ 14 ॥
View Verse
मायाव्योमयुतानेतान् शक्त्यादींस्तदनु स्मरेत्।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 15 ॥
View Verse
शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
गुणसूक्ष्मा निर्गुणा च एताः संज्ञाः क्रमात् स्मृताः ॥ 16 ॥
View Verse
बीजानां (दश शक्तेऽस्मिन् A. B.)दशके तस्मिन् वह्निविष्ण्वर्धचन्द्रकान्(चन्द्रमाः A. B. C.)।
संयोज्य मन्त्रान् जानीयादधिष्ठात्रीगतानिमान् ॥ 17 ॥
View Verse
गन्धश्रीश्च रसश्रीश्च रूपश्रीः स्पर्शपूर्विका।
शब्दश्रीरभिमानश्रीः प्राणश्रीर्गुणपूविका ॥ 18 ॥
View Verse
तथैव गुणसूक्ष्मश्रीर्मायाश्रीरिति संज्ञया।
अधिष्ठात्र्योऽपि(हि B. C.) वर्तन्ते शक्तयो दशके मम ॥ 19 ॥
View Verse
एवं परिकरं बुद्ध्वा भूतशुद्धिं समाचरेत्।
स्थानशुद्धिं पुरा कुर्याद्यथा तदवधारय ॥ 20 ॥
View Verse
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम्।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद्भुवम् ॥ 21 ॥
View Verse
सोमायुताभमद्वक्त्रजेनासिञ्चेदथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमथो शृणु ॥ 22 ॥
View Verse
चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम्।
मन्त्रेणाकृष्य देहान्तः स्वस्थानस्थां लयं नयेत् ॥ 23 ॥
View Verse
गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत्।
मय्यधिष्ठानभूतायां मां च बाह्याम्भसि क्षिपेत् ॥ 24 ॥
View Verse
मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च दैवत्म्।
स्वस्थाने विलयं नीत्वा रसमात्रे स्वमन्त्रतः ॥ 25 ॥
View Verse
मन्त्रेण तं प्रतिष्ठाप्य तच्च मय्यानयेल्लयम्।
मां च बाह्ये क्षिपेद्वह्नावामायं तत्क्रमस्त्वयम् ॥ 26 ॥
View Verse
सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः।
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम् ॥ 27 ॥
View Verse
सर्पिरन्यत्र च क्षीरे तत्सर्पिष्यपि(सर्पिरपि B. G.) चान्यकम्।
एवमा प्रकृतेः शक्तीरधिष्ठात्रीः स्मरेद् बुधः ॥ 28 ॥
View Verse
दशमीं तत्परं नीत्वा शक्तिमेकादशीं स्थिताम्।
महाक्षोभमयीं लक्ष्मीं व्यूहाभ्युदयरूपिणीम् ॥ 30 ॥
View Verse
एकादशीं च तां नीत्वा द्वादशीं परमात्मिकाम्।
अनिर्देश्यामनौपम्यां द्वादशीं तां मयि क्षिपेत् ॥ 31 ॥
View Verse
एवं तां परमां शक्तिं द्वादशीमशिलात्मिकाम्।
द्वादशान्तान्तमुन्नीय वर्णमय्यां मयि स्मरेत्(अनुस्मरेत् C.) ॥ 32 ॥
View Verse
अग्नीषोमार्ककोट्याभा(कोट्यास्च B.) सर्वतोऽक्षिशिरोमुखी।
धारासंतानरूपा मे सूक्ष्मा वर्णमयी तनुः ॥ 33 ॥
View Verse
सर्वजीवोपकाराय सर्वसंभारसंभृता।
उदिता सा (परा B.)पुरा विष्णोर्मेघाद्विद्युदिवोज्ज्वला ॥ 34 ॥
View Verse
शक्रः---
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयः क्रमात्।
कीदृशानि च बिम्बानि भूम्यादीनां वदाम्बुजे ॥ 35 ॥
View Verse
श्रीः---
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम्।
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः ॥ 36 ॥
View Verse
आ कर्णान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः।
आ भ्रुवोर्महतः स्थानमाकाशे तु(आकाशेभ्यः A.) परं स्मृतम् ॥ 37 ॥
View Verse
ततः प्रादेशमात्राग्रे मूर्धतश्चतुरङ्गुले।
स्थाने प्रकृत्याः शेषं तदङ्गुलीनां द्विरष्टकम् ॥ 38 ॥
View Verse
एकादश्यां द्विषट्‌कायां स्थानं तत्त्वक्षरश्रियः।
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् ॥ 39 ॥
View Verse
अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तैजसमुच्यते ॥ 40 ॥
View Verse
एवं तत्त्वोपसंहारे कृते हृत्कुहरोद्गतम्।
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमानुगप्त् ॥ 42 ॥
View Verse
ऊर्ध्वमाजानुमुन्नीय शक्तिसोपानपङ्‌क्तिभिः।
द्वादशान्तान्तराजीवं मध्यस्थायां मयि क्षिपेत् ॥ 43 ॥
View Verse
तदन्ते च(तु A. C.) महापद्मं सहस्रदलसंयुतम्।
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् ॥ 44 ॥
View Verse
अग्नीषोममयान्तःस्था महानन्दमयी तनुः।
अनिर्देश्योपमा संविन्मयी सा मामिका परा ॥ 45 ॥
View Verse
अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा।
स्वानन्दमेनमानीय महानन्दमयीं नयेत् ॥ 46 ॥
View Verse
ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालैर्महावेगैश्चिन्मयैः परितो दहेत् ॥ 47 ॥
View Verse
युक्तः सरसकः षष्ठो बिन्दुमान् दाहपावकः।
तारिकानतिमध्यस्थो विज्ञेयः शास्त्रचक्षुषा ॥ 48 ॥
View Verse
सोममय्या ममास्योत्थैः पीयूषैः प्लावयेत्ततः।
चन्द्री सूक्ष्मस्तु सव्योमा पिण्डस्याप्यायने स्मृतः ॥ 49 ॥
View Verse
सिसृक्षया मयोद्यत्या संवित्प्राणोपगूढया।
प्रेरितास्ताः स्मरेच्छक्तीर्वर्णमय्यां मयि स्थिताः ॥ 50 ॥
View Verse
ततस्ताभिः स्वशक्तीभिश्चोदनाद्वारपूर्वकम्(पूर्वतः A. B.)।
मायादि क्षितिपर्यन्तं निर्मितं संस्मरेत् क्रमात् ॥ 51 ॥
View Verse
ततः पिण्डसमुत्पत्तिं करणव्यञ्जनोज्ज्वलाम्।
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् ॥ 52 ॥
View Verse
तारिकानतिमद्यस्था जीवमन्त्र उदाहृतः।
विशुद्धविग्रहस्त्वेवं मन्त्रन्यासं समाचरेत् ॥ 54 ॥
View Verse
क्षितावुपरि विन्यस्तं यत् पुरा फलकादिकम्।
स्वेन स्वेन तु मन्त्रेण तं मन्त्री(तन्मन्त्रं B.) पञ्चधा स्मरेत् ॥ 56 ॥
View Verse
आधारशक्तिकूर्मोर्वीदुग्धाब्ध्यम्बुजरूपतः।
तार्क्ष्यं तत्र स्थितं ध्यायेत् खर्वबीजात्मना स्थितम् ॥ 57 ॥
View Verse
तत्रोपविश्य लक्ष्मीशं रूपं स्वमनुचिन्त्य च।
दिशो निबध्य चास्त्रेण पुनरेवं मुहुर्मुहुः ॥ 58 ॥
View Verse
गगनस्थैरदृश्यं स्याद्यथा न्यासं समाचरेत्।
करन्यासं पुरा कृत्वा देहन्यासं समाचरेत् ॥ 60 ॥
View Verse
अङ्गुष्ठे तारिकां न्यस्येत्तच्छक्तीरङ्गुलीषु तु।
तर्जन्यां तु न्यसेल्लक्ष्मीं मध्यायां कीतिमप्यथ ॥ 61 ॥
View Verse
अनामायां जयां मायां कनिष्ठायां ततो न्यसेत्।
सतारतारिकासंज्ञानत्यन्तस्तन्मनुक्रमः ॥ 62 ॥
View Verse
कनिष्ठिकाद्यासु ततो हृदयादीन्यनुक्रमात्।
अङ्गानि पञ्च विन्यस्य नेत्रमङ्गेषु संस्मरेत् ॥ 63 ॥
View Verse
कौस्तुभं दक्षिणतले वनमालां तथापरे।
दक्षिणे मध्यतः पद्मं न्यसेद्वामतलेऽपि च ॥ 64 ॥
View Verse
अड्कुशं दक्षिणे न्यस्येत् पाशं वामतले तथा।
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ॥ 65 ॥
View Verse
ततस्तु विग्रहन्यासं यथा कुर्यात्तथा शृणु।
आ मूर्ध्नश्चरणान्तं चाचरणाच्च शिरोऽवधि ॥ 66 ॥
View Verse
जयां दक्षिणपाणिस्थां माया वामकरस्थिताम्।
नासान्तरे च हृन्मन्त्रं शिरोमन्त्रं च मूर्धनि ॥ 68 ॥
View Verse
शिखां चैव शिखास्थाने स्कन्धयोः कवचं ततः।
विन्यस्य नेत्रयोनेत्रमश्रं पाणितलद्वये ॥ 69 ॥
View Verse
नाभौ पृष्टे करद्वन्द्व ऊरुजानुपदेषु च।
न्यसेत् सम्यगुपाङ्गानि त्रियुगं मन्त्रवित्तमः ॥ 70 ॥
View Verse
वक्षःस्थं कौस्तुभं मध्ये कण्ठे च वनमालिकाम्।
पङ्कजे करयोर्न्यस्य मन्त्रमावर्तयन् द्विधा ॥ 71 ॥
View Verse
वामहस्ते ततः पाशमङ्कुशं दक्षिणे करे।
पादयोस्तारिकां स्थूलां सूक्ष्मां चैवोपसंधिके ॥ 72 ॥
View Verse
चरमां ब्रह्मरन्ध्रे तु मन्त्राणां नायिका हि सा।
चन्द्रिकातपसंकाशं न्यासे न्यासे मनुं स्मरेत् ॥ 73 ॥
View Verse
मनसा भावयेन्मुद्रास्तत्र तत्र च साधकः।
तारिका या परा देवी तया व्याप्ताननुस्मरेत् ॥ 74 ॥
View Verse
विन्यस्तान् सकलान् मन्त्रान् सर्वतः संप्लुतोदवत्।
एवं कृतेऽनुसंधाने मन्त्राणां भिन्नवर्त्मनाम् ॥ 75 ॥
View Verse
अपामिवोदधिस्थानामेकीकारः(एकाकारः B.) प्रजायते।
एवं न्यासे कृते मन्त्री साक्षाल्लक्ष्मीमयो भवेत् ॥ 76 ॥
View Verse
सर्वाधिकारभागी स्यादाश्रित्य ध्यानजं बलम्।
ध्यायिनः सर्वसिद्धीनामाविर्भावश्च जायते ॥ 77 ॥
View Verse
न्यस्ताङ्गो निर्भयस्तिष्ठेद्देशे दुष्टसमाकुले।
विजयेतापमृत्यूंश्च सर्वांश्चैवौपसर्गिकान् ॥ 78 ॥
View Verse
न्यस्ताङ्गो विधिवन्मन्त्री यथाशास्त्रेण चेतसा।
तनुं मन्त्रमयीं तां तु मां ध्यायेत् परमेश्वरीम् ॥ 79 ॥
View Verse
अहं स भगवान् विष्णुरहं लक्ष्मीः सनातनी।
इत्येवंभाववान् योगी भूयो नैव प्रजायते ॥ 80 ॥
View Verse
इतीयं भूतशुद्धिस्ते यथावच्छक्र वर्णिता।
अन्तर्यागमथो वक्ष्ये तत्त्वतस्तन्निशामय ॥ 81 ॥
View Verse

Chapter - 36

षट्‌त्रिंशोऽध्यायः - 36
श्रीः---
ब्रह्मानन्दमयी शक्र भोगैर्यत् पारमार्थिकैः।
इज्येयं हृदयान्तःस्था सोऽन्तर्याग इति स्मृतः ॥ 1 ॥
View Verse
पद्मं वा स्वस्तिकं वापि बद्ध्वा योन्यासनं तु वा।
नाभिमेढ्रान्तरे ध्यायेच्छक्तिमाधाररूपिणीम् ॥ 2 ॥
View Verse
देवीं केनाप्यनादेयां नीरूपां ज्योतिरात्मिकाम्।
तदूर्ध्वे कालकूर्मं तु विमलं दीप्तविग्रहम् ॥ 3 ॥
View Verse
कूर्माकारं परं देवं शङ्खचक्रगदाधरम्।
तस्य चोपरि नागेन्द्रं पूर्णचन्द्रनिभाननम् ॥ 4 ॥
View Verse
फणासहस्रसंपूर्णं मदाघूर्णितलोचनम्।
चक्रलाङ्गलहस्तं च प्रणमेत्तं परात् परम् ॥ 5 ॥
View Verse
तदूर्ध्वं (वसुधा C.)वसुधां देवीं कुङ्कुमक्षोदसंनिभाम्।
हेमरत्नविचित्राङ्गीं प्रसन्नवदनेक्षणाम् ॥ 6 ॥
View Verse
बद्धाञ्जलिं शिरोदेशे संस्मरन्तीं विभुं स्मरेत्।
चतुर्धा भाजिते क्षेत्रे नाभिमेढ्रान्तरस्थिते ॥ 7 ॥
View Verse
एवमाधारशक्त्यादिदेवताः संस्मरेदिमाः(शक्त्यादीः संस्मरेद्देवता इमाः A. G.)।
नाभौ क्षीरार्णवं ध्यायेत् कुन्देन्दुधवलाकृतिम् ॥ 8 ॥
View Verse
स्रोतोरश्मिभिराकीर्णं पूर्णचन्द्रनिभाननम्।
गम्भीरविग्रहं ध्यायेद्रूपवन्तमरूपिणम् ॥ 9 ॥
View Verse
ततः समुत्थितं पद्मं ध्यायेत् क्षीरार्णवोदरात्।
प्रशान्तपावकाकारमुदयादित्यवर्चसम् ॥ 10 ॥
View Verse
लम्बोदरं हसन्तं च सितदन्तं शुभाननम्।
द्विभुजं वेष्टितं शश्वच्छुभैर्विविधषट्‌पदैः ॥ 11 ॥
View Verse
सहस्रदलसंपन्नं(पर्यन्तं A. B. G.) सहस्रकिरणावृतम्।
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत् ॥ 12 ॥
View Verse
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च क्रमादिमान्।
आसनस्य स्मरेत् पादानाग्नेयादिविदिग्गतान्(दिशः क्रमात् C.) ॥ 13 ॥
View Verse
पूर्वादिदिग्गता ज्ञेया धर्मादीनां विपर्ययाः।
अधर्मं च तथाज्ञानमवैराग्यमनैस्वरम् ॥ 15 ॥
View Verse
पुरुषाकृतयश्चेमे बन्धूककुसुमोपमाः।
प्रागीशानदिशोर्मध्ये प्रागाग्नेयदिगन्तरे ॥ 16 ॥
View Verse
ईशानसोमदिङ्मध्ये वह्न्यन्तकदिगन्तरे।
राक्षसान्तकदिङ्मध्ये वायुसोमदिगन्तरे ॥ 18 ॥
View Verse
कृताद्यं युगबृन्दं तु कृष्णं वृषनराकृति।
सर्वे चतुर्भुजा एते द्वाभ्यां पीठधृतस्तथा ॥ 19 ॥
View Verse
द्वाभ्यामञ्जलिबद्धाभ्यां प्रणमन्त्यासनस्थिताम्।
तेषामुपरि संचिन्त्यं पीठं बुद्धिमयं परम् ॥ 20 ॥
View Verse
अव्यक्तमम्बुजं श्वेतं तदूर्ध्वेऽष्टदलं स्मरेत्।
तदूर्ध्वे सूर्यबिम्बं तु (सूर्यकोट्ययुत G.)सूर्यकोटिसमप्रभम् ॥ 21 ॥
View Verse
तदूर्ध्वे चन्द्रबिम्बं तु चन्द्रकोटिसमप्रभम्।
तदूर्ध्वे वह्निबिम्बं तु वह्निकोट्ययुतप्रभम् ॥ 22 ॥
View Verse
तमो रजश्च सत्त्वं च गुणानेतान् क्रमात् स्मरेत्।
प्रणवस्य नतेश्चैव तत्तत्संज्ञास्तु मध्यगाः ॥ 23 ॥
View Verse
बुद्ध्यादिसत्त्वपर्यन्ततत्त्वमन्त्रगणाः स्मृताः।
ततश्चिदासनं दद्यात् पराहंतास्वरूपकम् ॥ 24 ॥
View Verse
आ नाभेर्हृदयान्तात्तु पञ्चधा भाजिते पदे।
समुद्राद्यासनान्तं तु चतुर्भिः [^8]कल्पयेत् पदैः ॥ 25 ॥
View Verse
एकेन पञ्चमेनैव पद्माद्यासनकल्पनम्।
भूतान्याधारशक्तौ तु कूर्मे तन्मात्रकं गणम् ॥ 26 ॥
View Verse
वागादिकं तथानन्ते भुवि श्रोत्रादिपञ्चकम्।
मनः क्षीरार्णवे ध्यायेदहंकारं ततोऽम्बुजे ॥ 27 ॥
View Verse
द्विरष्टकं च धर्माद्यमासनं चापि धीः स्मृता।
अव्यक्तं च तदूर्ध्वस्थमवदातं सरोरुहम् ॥ 28 ॥
View Verse
तमःप्रभृतयश्चोक्ता गुणा ह्यब्जत्रयात्मकाः।
एके कालं वदन्त्येतद् भूतादित्रितयात्मकम् ॥ 29 ॥
View Verse
चिदासनमनन्ताख्यं(अहंताख्यं A. F.) पुमांसमपरे जगुः(विदुः B. F.)।
एके चिदासनादूर्ध्वं गरुडं परिचक्षते ॥ 30 ॥
View Verse
खर्वव्योमान्वितं पश्चात् (खगासन A.)खगानननमोयुतम्।
मन्त्रमाहुः सुरेशान तन्मन्त्रं नवमं बुधाः ॥ 31 ॥
View Verse
इत्थं बहुविधैर्मन्त्रैरासने विहिते क्रमात्।
विष्णुं विश्वात्मकं देवं नारायणमनामयम् ॥ 32 ॥
View Verse
भावयेत् परमात्मानं शङ्खचक्रगदाधरम्।
चतुर्भुजं पीतवस्त्रं पुण्डरीकनिभेक्षणम् ॥ 33 ॥
View Verse
उदितं संस्मरेद्देव स्वशक्तेः स्पन्दनात्मनः।
सम्यग् ध्येयं यथैतत्ते तथा भूयो निबोध मे ॥ 34 ॥
View Verse
सुसम्यङ् न्यस्तमन्त्राङ्गः(सर्वाङ्ग A.) सुसंक्लृप्तान्तरासनः।
दर्शिताशेषमुद्रश्च संस्मरेन्मन्त्रवैभवम् ॥ 35 ॥
View Verse
परं ब्रह्म परं धाम यत् पारे तमसः स्थितम्।
शक्तिमच्छक्तिभावेन लक्ष्मीनारायणं महः ॥ 36 ॥
View Verse
भावानां चिदचिद्रूपभावाभावादिभेदिनाम्।
अन्तरात्मतया तत्तदहंकारपदास्पदम् ॥ 38 ॥
View Verse
अचिन्त्याननुयोज्येन हेतुना येन केनचित्।
शक्तिमच्छक्तिभावेन तद्‌ द्विधा व्यवतिष्ठते ॥ 39 ॥
View Verse
अहमित्येव यः प्रोक्तः पदप्रत्यययोर्द्वयोः।
नारायणः स भविता तस्याहंता तु या परा ॥ 40 ॥
View Verse
तद्धर्मधर्मिणी लक्ष्मीः शक्तिः सा भावरूपिणी।
सर्वकार्यकरी सैव शक्तिर्वितनुते जगत् ॥ 41 ॥
View Verse
शक्तिमन्तमधिष्ठाय ज्योत्स्नेव हिमदीधितिम्।
सा वितिस्तीर्षमाणा हि शब्दब्रह्मात्मना पुरा ॥ 42 ॥
View Verse
वितत्यात्मानमथ सा वितनोत्यर्थवर्त्मना।
शब्दब्रह्ममयः पूर्वो यो नाम प्रथमोदयः ॥ 43 ॥
View Verse
अकलङ्गः (कलङ्कात्मा A.; कलात्मासौ B.)कलाद्वात्मा योगस्थैरनुभूयते।
धारासंतानवर्णात्मा वर्णमार्गः स शब्द्यते ॥ 44 ॥
View Verse
कलाध्वानमधिष्ठाय स पुनर्मन्त्रवर्त्मना।
उदेति सकलं शक्तिचक्रमादाय वैष्णवम् ॥ 45 ॥
View Verse
परात्मना परं ज्योतिर्मयमानन्दलक्षणम्।
त्रिविघेनैव रूपेण यथा ते वर्णितं पुरा ॥ 46 ॥
View Verse
रूपं परं तदेवाथ वर्तते सूक्ष्मवर्त्मना।
मन्त्रप्रसररूपेण तच्च ते दर्शयिष्यते ॥ 47 ॥
View Verse
सूक्ष्मं तत् त्रिविधं भूयो वर्तते स्थूलवर्त्मना।
स्थूला चादितनुर्येयमङ्गोपाङ्गविभेदिनी ॥ 48 ॥
View Verse
लक्ष्मीनारायणस्यैषा मूर्तिः षाड्‌गुण्यबृंहिता।
चेतनाचेतनं विश्वमनुसंधेयमत्र तु ॥ 49 ॥
View Verse
तत्तत्कार्यकरी तस्या या शक्तिः साहमम्बुजा।
मन्त्रस्य यद्धि चैतन्यं पुमांसं तं प्रचक्षते ॥ 51 ॥
View Verse
मन्त्राणां यदहंयुत्वमहंकारगुणस्तु सः।
मन्त्राणां मानसं रूपमैन्द्रियज्ञानहेतुता ॥ 53 ॥
View Verse
यच्छब्दरूपता मन्त्रे सा ज्ञेया नभसि स्थिता।
कम्पो मन्त्रसमावेशे वायव्यं रूपमुच्यते ॥ 54 ॥
View Verse
यो हि मन्त्रस्थितो भावः स भौमो गुण उच्यते।
इत्येवं सर्वगां व्याप्तिं मन्त्री मान्त्रीं सुसंस्मरेत् ॥ 56 ॥
View Verse
अचिरान्मन्त्रसामर्थ्यात्तेन भावेन जायते।
इत्थं संवित्तिसामर्थ्यात्तारिकाशक्तिमातताम् ॥ 57 ॥
View Verse
स्पन्दमानां पुरा पश्येद्व्योम्नि सौदामिनीमिव।
हृदम्बुजगुहामध्ये पूर्वोक्ते चित्प्रभासने ॥ 58 ॥
View Verse
स्फुरन्त्यां तारिकामूर्तौ शब्दब्रह्मणि संस्मरेत्।
मिथुनं शाश्वतं दिव्यं (यथा तत् A. B. G.)यथावदवधारय ॥ 59 ॥
View Verse
सूर्यानलांशसंस्थानं नारायणमनामयम्।
स्मरेच्चिदासनासीनं पुण्डरीकायतेक्षणम् ॥ 60 ॥
View Verse
पीताम्बरमुदाराङ्गं काञ्चीनू पुरशोभितम्।
हारकुण्डलकेयूरकिरीटकटकोज्ज्वलम् ॥ 61 ॥
View Verse
प्रभयेव मणिं पूर्णं गाम्भीर्येणेव सागरम्।
प्रभयेव विवस्वन्तं ज्योत्स्नयेव निशाकरम् ॥ 63 ॥
View Verse
पुरा ध्यात्वा हृषीकेशं प्रसन्नमुखपङ्कजम्।
पुराष्टादशभिर्भोगैरर्चयेत् पुरुषोत्तमम् ॥ 64 ॥
View Verse
सूक्तेन पौरुषेणाथ प्रणवेन च वासव।
द्विष्ट्‌चतुस्रिकार्णऐस्च तथैव च जितंतया ॥ 65 ॥
View Verse
अर्चयित्वाथ देवेशं लक्ष्मीं सर्वाङ्गगां स्मरेत्।
लयात्मनार्चयित्वाथ लक्ष्मीमावाहयेत्ततः ॥ 66 ॥
View Verse
वामोत्सङ्गे निषण्णां तामथ देवस्य शार्ङ्गिणः।
अर्चयेद्विविधैर्भोगैर्यथावच्छास्त्रचोदितैः ॥ 67 ॥
View Verse
शक्रः---
देवप्रिये देवदेवि नमस्ते पङ्कजेक्षणे।
विधिं पुरुषसूक्तस्य तारादीनां च मे वद ॥ 68 ॥
View Verse
श्रीः---
एको नारायणो देवः श्रीमान् कमललोचनः।
एकाहं परमा शक्तिः सर्वकार्यकरी हरेः ॥ 69 ॥
View Verse
तावावां परमे व्योम्नि क्षेमाय सकलात्मनाम्।
आसीनौ सकलेशानौ सूरिभिः सेवितौ सदा ॥ 70 ॥
View Verse
तयोर्नौ हृदि संकल्पः कश्चिदाविर्बभूव ह।
उत्तारणाय जीवानामुपायोऽन्विष्यतामिति ॥ 71 ॥
View Verse
आवाभ्यामुत्थितं(मथितं B.) तेजः शब्दब्रह्ममहोदधिः।
मथ्यमानात्ततस्तस्मादभूत् सूक्तद्वयामृतम् ॥ 72 ॥
View Verse
पुरुषस्य हरेः सूक्तं मम सुक्तं तथैव च।
अन्योन्यशक्तिसंपृक्तमन्योन्यार्णपरिष्कृतम् ॥ 73 ॥
View Verse
नारायणार्षमव्यक्तं पौरुषं सूक्तमिष्यते।
अन्यन्मदार्षकं सूक्तं श्रीसूक्तं यत् प्रचक्षते ॥ 74 ॥
View Verse
प्रणवाद्याः पुरा मन्त्राः पञ्च सम्यक् प्रदर्शिताः।
इदानीं शृणु संक्षेपात्तेषामाराधनक्रमम् ॥ 75 ॥
View Verse
अष्टादश ऋचः प्रोक्ताः पौरुषे सूक्तसत्तमे।
ताभिस्तु प्रणावाद्याभिर्भोगानष्टादशोत्तमान् ॥ 76 ॥
View Verse
कुर्यादावाहनाद्यांश्च त एतेऽष्टादश स्मृताः।
आवाहनासने सार्घ्यं पाद्यमाचमनं तथा ॥ 77 ॥
View Verse
स्नानं च परिधानं च सोत्तरीयोपवीतकम्।
गन्धः सुमनसो दीपो धूपश्च मधुपर्ककः ॥ 78 ॥
View Verse
प्रापणं (स्वादु F.)सेन्दु ताम्बूलं पादयोः कुसुमाञ्जलिः।
आत्माराधनदानं च यथेष्टस्थानचिन्तनम् ॥ 79 ॥
View Verse
सर्वलक्षणसंपन्ना सर्वाधारमयी परा।
नित्या संपूर्णषाड्‌गुण्या या विष्णोर्मूर्तिरुज्ज्वला ॥ 80 ॥
View Verse
सैवेयं कथ्यते मूर्तिर्मान्त्री मन्त्रैश्चिदात्मकैः।
स्वीकारयति तां मन्त्री(तन्मन्त्री B. F.) देवं यत् स्वेन तेजसा ॥ 81 ॥
View Verse
तदावाहनमित्युक्तं मन्त्रविज्ञानपारगैः।
स्वस्तिकृत्यै स्वभावेन चेतनाचेतनं हरिः ॥ 82 ॥
View Verse
अधितिष्ठति यद्विश्वमासनं तदनु क्रिया।
ममानन्दमयी शक्तिर्देवस्त्वाप्यायते यया ॥ 83 ॥
View Verse
तच्छेषा (उभयोः प्रीतिः A.)उभयेऽपीति द्योत्यते पाद्यदानतः।
षोढा विभज्य रूपं स्वं तर्पयामि सनातनम् ॥ 85 ॥
View Verse
शब्दाद्यैः पञ्चभिर्भावैरन्तश्चाप्यभिमानतः।
समावेशितसद्भावैर्भोगैः सांदृष्टिकादिकैः ॥ 86 ॥
View Verse
आराधयेज्जगन्नाथं सावधानेन चेतसा।
दृष्ट्यैव जन्यते प्रीतिर्येषां(यैस्ते C.) सांदृष्टिका मताः ॥ 87 ॥
View Verse
शुभा रूपोल्बणास्ते च दीपप्रवहणादयः।
भोगाः शुभकराः शश्वत्तर्पयन्ति रसौर्हि ये ॥ 88 ॥
View Verse
भोगाः सांस्पर्शिकास्ते स्युः पाद्यार्घ्यासनपूर्वकाः।
गन्धाः सांस्पर्शिके केचित् केचिदाभ्यवहारिके ॥ 90 ॥
View Verse
निविष्टा (अनुलोमाः G.)अनिलाद्याः स्युरन्त्याः पाकजगन्धिनः(पङ्कजगन्धिनः A. B. F.)।
स्तुतिवादित्रगीताद्या भोगाः शब्दमया हि ये ॥ 91 ॥
View Verse
दैन्याञ्जलिपुटाद्याश्च ते स्मृता आभिमानिकाः।
इत्थं चतुर्विधैर्भोगैः शास्त्रदृष्टेन वर्त्मना ॥ 92 ॥
View Verse
ऋग्भिः सप्रणवाद्याबिस्तोषयेत् पुरुषोत्तमम्।
मन्त्रान्ते भोगनिर्देश- प्रीतिश्च तदनन्तरम् ॥ 93 ॥
View Verse
ओंकृत्यर्चमथोच्चार्य प्रणवादीनि पञ्च च।
आवाहयामि लक्ष्मीशं परमात्मानमव्ययम् ॥ 94 ॥
View Verse
आतिष्ठतामिमां मूर्तिं मदनुग्रहकाम्यया।
श्रिया सार्धं जगन्नाथो दिव्यो नारायणः पुमान् ॥ 95 ॥
View Verse
इत्यञ्जलिप्रसूनस्थं स्वमूर्ताववतार्य च।
प्रणम्य स्वागतं पृष्ट्वा क्षामयेदनया धिया ॥ 96 ॥
View Verse
प्रणम्य(प्रणत्वा B. F. G.) भगवन् पश्चादासनेनार्चयामि च।
उक्त्वा मन्त्रानथोच्चार्य त्रिर्निर्दिश्येदमित्यतः ॥ 97 ॥
View Verse
पश्चात् सनाम निर्दिश्य प्रीतिं पश्चात् समाचरेत्।
प्रीयतां भगवान् पश्चाद्वासुदेवस्ततः परम् ॥ 98 ॥
View Verse
अर्घ्यं निःस्रावयेद्वेद्यामयं भोगविधिक्रमः।
आसनार्घ्यादि भोगेषु यथालिङ्गं विनिर्दिशेत् ॥ 99 ॥
View Verse
आद्ययावाहनं कुर्यादासनं च द्वितीयया।
अर्घ्यं तृतीयया देयं मूर्ध्न्यापः कुसुमोद्धृताः ॥ 100 ॥
View Verse
पाद्यं देयं चतुर्थ्या तु पञ्चम्याचमनीयकम्।
षष्ठ्या स्नानविधिः कार्यः सप्तम्या परिधानकम् ॥ 101 ॥
View Verse
अष्टम्योत्तरवासश्च नवम्या गन्धलेपनम्।
दशम्या स्रगलंकारा(अलंकारः C.) एकादश्या तु दीपकः ॥ 102 ॥
View Verse
द्वादश्या सुरभिर्धूपः परया मधुपर्ककः।
प्रापणं तु चतुर्दश्या पञ्चदश्यानुवासनम् ॥ 103 ॥
View Verse
षोडस्या तु नमस्कारः परया कुसुमाञ्जलिः।
अष्टादश्या प्रदानं च समाराधनकर्मणः ॥ 104 ॥
View Verse
स्नानवासःप्रदीपेषु दद्यादाचमनक्रियाम्।
पुरस्तादर्हणं कार्यं मधुपर्कान्नदानतः ॥ 105 ॥
View Verse
कुर्याद्राजवदाचारं तत्तन्मन्त्रेण साधकः।
संकल्पश्च प्रदानं च प्रीतिश्चेति त्रयं त्रयम् ॥ 107 ॥
View Verse
कुर्यात् सर्वेषु भोगेषु देशकालाद्यपेक्षया।
समाहितोऽञ्जलिं कृत्वा तत ओं भगवन्निति ॥ 108 ॥
View Verse
आसनेनार्चयिष्यामीत्युक्त्वा दद्यादथासनम्।
मन्त्रमुच्चार्य निर्दिश्येदिदमासनमित्यतः ॥ 109 ॥
View Verse
ओमों प्रीयतां भगवान् वासुदेव इति ब्रुवन्।
अर्घ्यादिजलमादाय स्थापयेद्देवसंनिधौ ॥ 110 ॥
View Verse
आभिरर्घ्याभिरित्येवमाभिः पाद्याबिरित्यपि।
आभिराचमनीयाभिरर्हणीयाभिरित्यपि ॥ 111 ॥
View Verse
तर्पणीयाभिरध्भिश्च स्नानीयाभिरितीदृशम्।
प्रीतिसंकल्पयोर्वाच्यमिमा अर्घ्या इतीदृशम् ॥ 112 ॥
View Verse
वाच्यं प्रदानवेलायां यथालिङ्गमिति क्रमः।
अर्घ्यादिकल्पनं चाग्रे बहिर्यागे विधास्यते ॥ 113 ॥
View Verse
इति स्रगादिभिः षड्‌भिर्देवदेवं जनार्दनम्।
पञ्चभिर्वा चतुर्भिर्वा त्रिभिर्द्वब्यामथापि वा ॥ 114 ॥
View Verse
एकेन वा समाराध्य देशकालानुकूलतः।
मयैव पूजितं ध्यात्वा देवदेवं जनार्दनम् ॥ 115 ॥
View Verse
चन्द्रोदय इवाम्भोधिं सर्वाङ्गपरिबृंहितम्।
अनिर्देश्यामनौपम्यामनन्तां भाविनीं सदा ॥ 116 ॥
View Verse
भावयन् विधिवन्मन्त्री लययागेन मां यजेत्।
तारिकाविधिमन्विष्य तया मां तारिकां यजेत् ॥ 118 ॥
View Verse
अथ मेघादिवोद्यन्तीं विद्युतं पुरुषोत्तमात्।
समुद्यन्तीं तदिच्छातो विबाव्य मनसा सुधीः ॥ 119 ॥
View Verse
वामोत्सङ्गे(उत्सङ्ग B. F.) निषण्णां मां देवदेवस्य चिन्तयेत्।
ऐकध्यमावयोर्ज्ञात्वा स्वबावं च सुशीतलम् ॥ 120 ॥
View Verse
ऋग्भ्यां हिरण्यपूर्वाभ्यां प्रपद्येत जनार्दनम्।
सान्त्वयेच्च पराभ्यां तां मां तावदपृथक्कृताम् ॥ 121 ॥
View Verse
पञ्चम्या च प्रपद्येत प्रसन्नां भावयन् धिया।
ज्ञात्वा पूर्वोक्तसामर्थ्यं तारिकाया यथार्थतः ॥ 122 ॥
View Verse
मुद्रासमन्वितो मन्त्रो य आवाहनसंज्ञितः।
पूरकेण सुरेशान मनसा समुदीरयन् ॥ 123 ॥
View Verse
मामथावाहयेद्देवादुत्सङ्गे परमात्मनः।
प्रसन्नवदनां शस्वत् सर्वलक्षणलक्षिताम् ॥ 124 ॥
View Verse
पद्मगर्भनिभां कान्तामसितायतलोचनाम्।
स्फुरत्कटककेयूरहारकुण्डलमण्डिताम् ॥ 125 ॥
View Verse
गम्भीरनाभिं(नाभि B. F.) त्रिवलीविभूषिततनूदराम्।
सुकर्कशदृढोत्तुङ्गपीनवृत्तघनस्तनीम् ॥ 126 ॥
View Verse
चलद्विरेफपटलसमाक्रान्तालकावलिम्।
आरक्ताधरबिम्बां च वंशमुक्ताफलद्विजाम् ॥ 127 ॥
View Verse
अर्धचन्द्रललाटस्थराजमानललाटिकाम्।
सर्वलक्षणसंपन्नां कृष्णकुञ्चितमूर्धजाम् ॥ 128 ॥
View Verse
वरदां पङ्कजकरां पद्ममालाविभूषिताम्।
विष्णुवामभुजास्लिष्टां तदंसस्थकराम्बुजाम् ॥ 129 ॥
View Verse
वामेन बाहुना दिव्यां वहन्तीं पुष्पमञ्जरीम्।
वरदाभयपाणिं वा पाशाङ्‌कुशकरां तु वा ॥ 130 ॥
View Verse
अर्धस्वस्तिकसंलीनां स्फुरन्मौलिविराजिताम्।
ध्यात्वा मां संमुखीं कुर्यान्मन्त्रमूर्तिं सनातनीम् । 131 ॥
View Verse
पुष्पमर्ध्यं तथा दीपं धूपं माल्यं विलेपनम्।
चेतसा सादरेणैव पाद्यमाचमनं ततः(तथा B.) ॥ 133 ॥
View Verse
प्रणाममथवाष्टाङ्गं जयशब्दांश्च मानसान्।
प्रदर्शयेत्ततो मुद्रा यास्ते पूर्वं प्रदर्शिताः ॥ 134 ॥
View Verse
स्वागतं तव पद्माक्षि संनिधिं भज मेऽम्बुजे।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥ 135 ॥
View Verse
लब्ध्वानुज्ञां ततो मत्तो मानसं यागमाचरेत्।
संकल्पजनितैर्भोगैः पवित्रैः पारमार्थिकैः ॥ 136 ॥
View Verse
बाह्यप्रक्रियया शश्वत् परस्ताद्वक्ष्यमाणया।
मां यजेत सुनिष्णातो भोगैः सांस्पर्शिकादिकैः ॥ 137 ॥
View Verse
प्रापणान्तं विधायान्ते(विधायाथ C.) कारिणं संस्मरेद् गुरुम्।
जीवन्तमथवातीतं तस्मै दद्यात्ततोऽखिलम् ॥ 138 ॥
View Verse
वित्तं संविभजेच्चैव प्रापणांशेन मन्त्रवित्।
जीवतोऽप्यथवातीतान्यथार्थेनैव चेतसा ॥ 139 ॥
View Verse
परिवारान् स्मरेत् सर्वान् वक्ष्यमाणान् विशेषतः।
कारणे मयि संलीनान् धानास्थानिव भूरुहान् ॥ 140 ॥
View Verse
तत्तन्मन्त्रप्रयोगेण लयप्रक्रियया यजेत्।
कुर्यान्महानसे होमं मोक्षलक्ष्मीप्रदं शुभम् ॥ 141 ॥
View Verse
त्रिगुणाधारमध्यस्थे त्रिकोणे त्रिगुणेऽनले।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥ 142 ॥
View Verse
संस्कारैः संस्कृतं कृत्वा वक्ष्यमाणधिया सुधीः।
त्रिलक्षणाधारगते वैष्णवे जातवेदसि ॥ 143 ॥
View Verse
नादावसानगगनात्तारिकायाः परिस्रतम्(द्रुतम् B. C.)।
ब्रह्म हविर्गृहीत्वाथ ब्रह्मरन्ध्रेण संविशेत् ॥ 144 ॥
View Verse
ततो वह्निगृहं गत्वा सर्पिः (संगृह्य A. B. C.)संस्कृत्य शास्त्रतः।
कुर्वीत सकलं कृत्यं तेनाज्येन यथाविधि ॥ 145 ॥
View Verse
ततो होमावसाने तत्संकल्पः कर्म मानसम्।
संन्यसेन्मयि भावेन वक्ष्यमाणधिया सुधीः ॥ 146 ॥
View Verse
यः क्रमोऽबिहितो(विहितो B. E.) बाह्ये स सर्वो मानसेऽत्र तु।
अवधानेन वा कार्यो मन्मयैर्द्रव्यसंचयैः ॥ 147 ॥
View Verse
सर्वोपसर्गशमनः सोऽयं सर्वफलप्रदः।
कथितो मानसो यागः कार्य आदेहपातनात् ॥ 148 ॥
View Verse
इत्येवमन्तर्यागस्ते मदीयः शक्र वर्णितः।
बहिर्यागस्वरूपं तु तत्त्वतो मे निशामय ॥ 150 ॥
View Verse

Chapter - 37

सप्तत्रिंशोऽध्यायः - 37
श्रीः---
बहिर्वेद्यादिदेशस्थद्रव्यैर्मद्भावनेक्षितैः।
भोगभूतैर्यदिज्येऽहं बहिर्यागस्तु स स्मृतः ॥ 1 ॥
View Verse
वासना द्विविधा प्रोक्ता बाह्याभ्यन्तरहेतुजा।
निर्णुदत्यान्तराः सर्वा मानसो याग उत्तमः ॥ 2 ॥
View Verse
बाह्याशयविशुद्ध्यर्थं बाह्ययागो विधीयते।
शास्त्रीयां क्षितिमास्थाय मण्डपे तत्र मण्डिते ॥ 3 ॥
View Verse
ब्रह्मस्थाने विधायाथ वेदिं सर्वगुणान्विताम्।
अष्टहस्तं तदर्धं वा तदर्धं वापि साधितम् ॥ 4 ॥
View Verse
प्रागन्तं सुसितं सूत्रं वेदिमध्ये प्रसारयेत्।
तस्मिन्रुभयतः पार्श्वे(उभयपार्श्वे च B. F.) मध्यतश्चार्धमध्ययोः ॥ 5 ॥
View Verse
विधाय त्रीणि चिह्नानि पञ्च शङ्‌कून् निखानयेत्।
अन्त्ययोस्रिषु मध्येषु शङ्‌क्वोस्तत्र ह्युपान्त्ययोः ॥ 6 ॥
View Verse
सव्ये चाप्यपसव्ये च तत्र चिह्ने विधाय च।
मध्यमे प्रतिमुच्य द्वे सूत्रमध्यं समानयेत् ॥ 8 ॥
View Verse
चिह्नस्योपरि देशे च(तु B.) क्रमात् सव्यापसव्ययोः।
सूत्रमध्यं यतः प्राप्तं तत्र शङ्कुं निधापयेत् ॥ 9 ॥
View Verse
पूर्वस्मिन् प्रतिमुच्यैकं पाशं दक्षिणतोऽपरम्।
कुर्यात् प्रदक्षिणं कोणं मध्यचिह्नेऽनयोस्ततः ॥ 10 ॥
View Verse
प्रतिमुच्य क्रमात् पाशौ कुर्यात् कौणौ तथा परौ।
तत्क्षेत्रस्फुटतायै तु सूत्रयेत्तु चतुर्दिशम् ॥ 12 ॥
View Verse
भक्ते षोडशधा क्षेत्रे चतुर्भिर्मध्यमैः पदैः।
प्रागादिकैः प्रदेशैश्च विदधीत नवाम्बुजम् ॥ 13 ॥
View Verse
मद्यमं कमलं कार्यमष्टपत्रं यथा शृणु।
चतुर्धा भ्रामयेत् क्षेत्रं वर्जयित्वाष्टमं(अष्टकं A. C.) बहिः ॥ 14 ॥
View Verse
कर्णिका केसरं पत्रसंधिः पर्वेति च क्रमात्।
चत्वार्यंशप्रमाणानि त्यक्तोंऽशो व्योम तद्बहिः ॥ 15 ॥
View Verse
तस्मिन् सूत्राष्टकं पद्मे दिग्विदिक्संस्थितं क्षिपेत्।
सूत्राणामन्तरे भूयः क्षिपेत् सूत्राष्टकं तथा ॥ 16 ॥
View Verse
पद्मसंधिस्थसूत्रेण दिक्क्रमेण दलाष्टकम्।
सहजाः(सहजा B.) सुचिता रेखा व्योमरेखागणाः स्मृताः ॥ 17 ॥
View Verse
पद्मान्तराणामष्टानामेवमेव विधा भवेत्।
एवं पुरवरं रम्यं (नवपद्मं B.)नवपद्मसुलक्षणम् ॥ 18 ॥
View Verse
बहिर्द्वारयुतं कार्यं कोणशोभादिसंयुतम्।
चतुर्वर्णयुतं कार्यं कर्णिकादिविभक्तये ॥ 19 ॥
View Verse
पौष्पे वा प्रस्तरे वास्त्रे सुसिते वाथ धूपिते।
अहते गन्धयुक्तेऽथ स्थण्डिले वोपलेपिते ॥ 20 ॥
View Verse
प्रशस्तपल्लवाक्रान्ते वस्रपट्टादिसंयुते।
विभाव्य नवपद्मं तु पूजयेन्मन्त्रवित्तमः ॥ 23 ॥
View Verse
घटे पुरे तथार्चायां यद्वा मन्त्री क्रमाद्यजेत्।
सर्वलोकमयं सर्वगीर्वाणाश्रयमुत्तमम् ॥ 24 ॥
View Verse
ततः पात्रचतुष्कं तु हेमादिद्रव्यनिर्मितम्।
पूताम्बु पूर्णं गन्धस्रग्रत्नौषधिकुशोदकैः ॥ 26 ॥
View Verse
अर्घ्यमाचमनीयं च पाद्यं स्नानीयमेव च।
कल्पयेत् क्रमशो मन्त्री मन्त्रानेतानुदीरयन् ॥ 28 ॥
View Verse
सिद्धार्थकास्तिला दूर्वाः सयवाः सिततण्डुलाः।
तोयक्षीरफलोपेता अर्घ्यद्रव्यमुदाहृतम् ॥ 30 ॥
View Verse
पात्रं तारिकयापूर्य सुधासंदोहदेहया।
तस्मिन्निष्कलसंस्थाने मन्त्रचक्रं विचिन्तयेत् ॥ 31 ॥
View Verse
निष्कलं मध्यमार्घ्यं तु पूज्य पुष्पादिना पुरा।
भावनीयं च तत् सम्यगग्नीषोममयात्मना ॥ 32 ॥
View Verse
एष प्रथमसंस्कारो द्वितीयमवधारय।
प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्तु तत् ॥ 33 ॥
View Verse
निर्वापयेत्ततो दग्धं शीतपूर्णेन्दुरश्मिभिः।
ब्रह्मानन्दामृताम्भोधिकल्लोलैः पूरयेत्तु तत् ॥ 34 ॥
View Verse
अभिमन्त्र्य तु मुख्यैस्तन्मनुबिस्तारिकादिभिः।
ततो जलमुपादाय न्यसेत् पात्रान्तरेषु तु ॥ 35 ॥
View Verse
प्रतिस्वमपि वा कुर्यादीदृशं संस्कृतिक्रमम्।
आप्यायनं च पात्राणां प्रीतिं चास्मात् समाचरेत् ॥ 36 ॥
View Verse
मुद्रा कामदुघा कार्या सौरभेयी स्वमन्त्रतः।
सुरभिं हिमशैलाभां निराधारपदे स्थिताम् ॥ 37 ॥
View Verse
ध्यात्वा तत्स्तनसंकाशां मुद्रां तां परिदर्शयेत्।
कराभ्यां गन्धदिग्धाभ्यां सावधानेन चेतसा ॥ 38 ॥
View Verse
अर्ग्यपात्राम्भसा प्रोक्ष्य मण्डलं मण्डपं तथा।
यागद्रव्याण्यशेषाणि ताडयेदस्रमन्त्रतः ॥ 39 ॥
View Verse
मूलेनाप्लावयेत् पश्चात्तत् सर्वं भोगतां व्रजेत्।
ततो विष्णुं नमस्कृत्य तदङ्कस्थां च पङ्कजाम् ॥ 40 ॥
View Verse
अर्चयेन्मूलमन्त्रेण (मुक्तौघ B.)ह्यामुक्तकुसुमादिभिः।
अर्घ्यपात्रमथादाय पुष्पं धूपं विलेपनम् ॥ 41 ॥
View Verse
दीपं नैवेद्यमप्येवं द्वारयागं ततश्चरेत्।
उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ॥ 42 ॥
View Verse
भूमिष्ठं क्षेत्रपालं तु यजेद्ध्यानादिसंयुतम्।
नीलजीमूतसंकाशं दण्डहस्तं महातनुम् ॥ 43 ॥
View Verse
मुष्टिकृद्वामहस्तेन ध्येयः क्षेत्रेश्वरः सदा।
मुद्रा च दर्शनीयात्र परेष्वेवं विधिः क्रमात् ॥ 44 ॥
View Verse
द्वारोपरि स्थितां लक्ष्मीमूर्ध्वसंस्थ उदुम्बरे।
पङ्केरुहकरां लक्ष्मीं पद्मोपरिगतां यजेत् ॥ 45 ॥
View Verse
दक्षिणोत्तरशाखाभ्यां मूले चण्डप्रचण्डकौ।
तद्वज्जयं च विजयं बाह्ये द्वारस्य चान्तरे ॥ 46 ॥
View Verse
चण्डाद्या विजयान्ताश्च(विजयाद्याश्च B. F.) सर्वे ज्ञेयाश्चतुर्भुजाः।
गदाचक्रधराश्चैव शङ्खहस्ता महाबलाः ॥ 47 ॥
View Verse
तर्जयन्तो ह्यभक्तांश्च दोषाणां ध्वंसनोद्यताः।
इत्थं ध्येयाः समभ्यर्च्य दर्शनीयाश्च मुद्रिकाः ॥ 48 ॥
View Verse
शाखाद्वयस्य मध्ये तु वामदक्षिणतः क्रमात्।
गङ्गां च यमुनां चैव पूजयेत्तदनन्तरम् ॥ 49 ॥
View Verse
हस्ताभ्यां दधती कुम्भं (तीर्थोद B. C.)तीर्थेन परिपूरितम्।
नवयौवनलावण्या श्वेतरूपा स्मितानना ॥ 50 ॥
View Verse
गङ्गा ध्येया प्रसन्ना च पूर्णचन्द्रनिभानना।
तादृशी नीलजीमूतसंनिभा यमुना नदी ॥ 51 ॥
View Verse
तेनैव क्रमयोगेन द्वारस्याभ्यन्तरे(अनन्तरे F.) स्थितौ।
निधीशौ शङ्खपद्माख्यावर्घ्यपुष्पादिभिर्यजेत् ॥ 52 ॥
View Verse
निधीशौ भावनीयौ तौ निधिभाण्डोपरिस्थितौ।
स्थूलोदरौ च पिङ्गाक्षौ द्विभुजौ भगवन्मयौ ॥ 53 ॥
View Verse
कृत्वैवं द्वारयागं तु ततः पुष्पं च संमुखम्।
अङ्‌गुष्ठतर्जनीमध्यात्रितयेनास्त्रमन्त्रतः ॥ 54 ॥
View Verse
आदाय चाभिमन्त्र्याथ चक्रं तदुपरि स्मरेत्।
निशितारं ज्वलद्रूपं प्रवर्षदनलाशनि ॥ 55 ॥
View Verse
क्षयकृद्विघ्नजालानां न्यसेद्यागगृहान्तरे।
दक्षिणां तर्जनीं कुर्यात् सम्यगूर्ध्वमुखीं ततः ॥ 56 ॥
View Verse
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम्।
स्मृत्वा भ्रामयमाणस्तां संविशेद्यागमन्दिरम् ॥ 57 ॥
View Verse
अर्घ्यपात्राम्भसास्त्रेण प्रोक्षयेत् स्वकमासनम्।
तस्मिन्नाधारशक्त्यादि मान्त्रमासनमर्चयेत् ॥ 58 ॥
View Verse
तां तां प्रदर्शयेन्मुद्रां यत्र यत्र च या च या।
तत्रोपविश्य देवेशमर्चयेद्धृदये स्थितम् ॥ 59 ॥
View Verse
लक्ष्मीनारायणाख्यं तद्धृद्गतं परमं महः।
दांपत्यमनपायं तद्यापयेन्नेत्रयोर्द्वयोः ॥ 60 ॥
View Verse
सर्वं तद्भावमापाद्य पश्येन्निस्चललोचनः।
मण्डपे वेदिकायां वा यत्र वा यष्टुमिच्छति ॥ 61 ॥
View Verse
अर्घ्यपुष्पादिभिः पूज्यमाधारादिकमासनम्।
धर्मादिकान् यजेत् पश्चात्तत्तद्दिग्भागगोचरान् ॥ 62 ॥
View Verse
पद्मार्कमण्डलांश्चैव ततो भावासनावधि।
उपर्युपरि योगेन ध्यात्वा पुष्पादिनार्चयेत् ॥ 63 ॥
View Verse
विभज्य सप्तधा क्षेत्रमादौ गणपतिं यजेत्।
पद्मासनोपविष्टं तत्केसरे तु दलेऽम्बुजे(केसरेषु दलाम्बुजे B.) ॥ 65 ॥
View Verse
दधानं चोर्ध्वबाहुभ्यामक्षसूत्रपरश्वथौ।
वरदाभयमुद्रे च पूर्वहस्तद्वयेन तु ॥ 66 ॥
View Verse
किंतु (मुद्रान्वितं चिन्त्यं A. B.)मुद्रा विचिन्त्यैवं वरदाभयहस्तयोः।
तर्जन्यङ्गुष्ठसंसर्गाद् व्याख्यामुद्रासमाकृतिः ॥ 67 ॥
View Verse
पीनं लम्बोदरं स्थूलमेकदंष्ट्रं गजाननम्।
केसरेष्वङ्गषट्‌कं च षट्‌सु पद्मस्य विन्यसेत् ॥ 68 ॥
View Verse
स्वमन्त्रेणार्चयेन्मुद्रां बद्ध्वा पुष्पादिना सुधीः।
ततो वागीश्वरीं देवीं स्वमन्त्रेणार्चयेत्सुधीः ॥ 69 ॥
View Verse
सूर्येन्दुवह्निबिम्बस्थसितपङ्केरुहासनाम्।
सर्वोपाधिविनिर्मुक्तामपि साकारतां गताम् ॥ 70 ॥
View Verse
शक्तिं शब्दात्मिकां साक्षान्मदीयां प्रथमोद्गताम्(प्रथमोद्भवाम् F.)।
द्विनेत्रां द्विभुजां श्वेतां शङ्खपङ्कजधारिणीम् ॥ 71 ॥
View Verse
स्फुरत्पीयूषकल्लोलसदृशाभरणाम्बराम्।
ततो गुरुं तद्‌गुरुं च लोकसिद्धाकृती च तौ ॥ 72 ॥
View Verse
लोकसिद्धाकृतिं पश्चात् तद्‌गुरुं परमेष्ठिनम्।
ततः पितृगणः पूज्यो ह्यमूर्तः पिण्डसंनिभः ॥ 73 ॥
View Verse
आदिसिद्धान् यजेत् पस्चाद्भगवद्ध्यानतत्परान्।
शान्तान् निमीलिताक्षांश्च शुभाङ्गांस्तेजसाधिकान् ॥ 74 ॥
View Verse
अनुज्ञां प्राप्य तेभ्यश्च लब्धानुज्ञो यथाक्रमम्।
आवाह्य मां यजेत् पश्चाद्देवदेवाङ्कसंस्थिताम्॥
View Verse

Chapter - 38

अष्टत्रिंशोऽध्यायः - 38
श्रीः---
एको नारायणो देवः पूर्णषाड्‌गुण्यविग्रहः।
तस्याहं परमा शक्तिरेकाहंता सनातनी ॥ 1 ॥
View Verse
साधकानुग्रहार्थाय साहं साकारतां गता।
अङ्कस्था देवदेवस्य यथा पूज्ये(पूज्या F.) तथा शृणु ॥ 2 ॥
View Verse
प्राप्यानुज्ञां गणेशादेर्हृत्स्थामावाहयेत्ततः।
भावयेत् परमात्मानमन्तर्यागाभिपूजितम्(यागादिपूजितम् B. C.) ॥ 3 ॥
View Verse
पूर्णस्तिमितषाड्‌गुण्यं मया (शक्त्यादिपूजितम् B. C.)शक्त्याभिपूरितम्।
तारकं (तु F.)तत् त्रिरुच्चार्य तारिकां तु त्रिरुच्चरेत् ॥ 4 ॥
View Verse
आवाहयेत् ततो मन्त्रं पुंलिङ्गं समुदीरयन्।
पुरुषं पुण्डरीकाक्षं पीनोदारचतुर्भुजम् ॥ 5 ॥
View Verse
दिव्यशक्तिसमावासं लक्ष्मीशमवतारयेत्।
अनाहतात् पदाद्यद्वा सर्वतः समतां गतम् ॥ 7 ॥
View Verse
निर्गतं तु स्मरेद्देवं विद्युत्पुञ्चमिवाम्बुदात्।
सपुष्पाञ्जलिमध्यस्थं भावासनगतं न्यसेत् ॥ 8 ॥
View Verse
संनिधिं संनिरोधं च संस्तम्भं स्थापनं तथा।
कुर्वन् मुद्राचतुष्कं तु मनसा सम्यगाचरेत् ॥ 9 ॥
View Verse
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।
स्वां स्वां कनिष्ठिकां मृज्यात् संनिधीकरणं तु तत् ॥ 10 ॥
View Verse
अनामयोर्मध्यमयोः कुर्यादुन्मार्जनं तथा(तदा C.; ततः F.)।
संस्तम्भसंनिरोधौ च द्वौ कृतौ भवतस्तदा ॥ 11 ॥
View Verse
कृत्वा चतसृभिर्मुष्टिमङ्‌गुलीभिः करद्वये।
तिर्यक् च संमुखीकृत्य न्यसेन्मुष्टिद्वयोपरि ॥ 12 ॥
View Verse
अङ्‌गुष्ठद्वितयं शक्र संस्थापनमिदं भवेत्।
एवंभूतो भवत्येवं तारादिं मन्त्रमुच्चरन् ॥ 13 ॥
View Verse
कालं पाद्यार्घ्यदानान्तमुत्थितं भावयेद्धरिम्।
स्नानाभरणवस्रस्रग्दानेऽलंकरणे तथा ॥ 14 ॥
View Verse
अन्यत्र भोगयागेषु तत्तद्भोगानुकूलतः।
स्मरेच्छास्त्रीयसंस्थानं सानुकम्पं सुसंमुखम् ॥ 15 ॥
View Verse
क्लृप्ते तु विग्रहे पूर्वं तथारूपोऽवतिष्ठते।
भोगेषु दीयमानेषु शक्तिर्या मन्मयी परा ॥ 16 ॥
View Verse
विक्षिप्याधोमुखैनैव पाणियुग्मेन मूर्धनि।
तारेण तारया द्वाभ्यां (मनसा B.)नमसा चार्चयेत् क्रमात् ॥ 18 ॥
View Verse
पुष्पार्घ्यधूपलेपैस्तु(लेपधूपैस्तु B. C.) मूलमन्त्रादिभिः क्रमात्।
संक्षेपं विस्तरं चापि यथाकालं समाचरेत् ॥ 19 ॥
View Verse
शक्तिं तदङ्गसंपूर्णां निराकारामनूपमाम्।
तारया पूजयेत् पस्चात्तत्तदङ्गेषु देवताः ॥ 20 ॥
View Verse
अस्रभूषणशक्त्याद्याः स्वैः स्वैर्मन्त्रैः समर्चयेत्।
अयं यागो लयो नाम महान् सर्वार्थसिद्धिदः ॥ 21 ॥
View Verse
ततो भगवतो विष्णोः शक्तिसंपूर्णविग्रहात्।
सर्वशक्तिमयीं दिव्यामेकां परमभास्वराम् ॥ 22 ॥
View Verse
षाड्‌गुण्यविग्रहां देवीमनिर्देश्यामनूपमाम्।
सर्वत्र सर्वदा विष्णोः सर्वथैवानपायिनीम् ॥ 23 ॥
View Verse
कृपया साधकार्थाय स्वयं साकारतां गताम्।
अविहायैव(अविभान्त्येव C.) तं देवमाकारं पृथगेयुषीम् ॥ 24 ॥
View Verse
उक्तक्रमेण मां पूर्वं मन्त्रेणावाहयेत् सुधीः।
आवाहनविधौ प्रोक्तं क्रमं सर्वं समाचरेत् ॥ 25 ॥
View Verse
वामोत्सङ्गे निषण्णां च विष्णोर्मां भावयेत् प्रियाम्।
भावनीयं च मद्रूपं पूर्वमेव निदर्शितम् ॥ 26 ॥
View Verse
ज्वालायाः सुप्रदीप्तायाः स्फुलिङ्गनिचयं यथा।
भोगस्थाने यथैकैकं विन्यसेत्तत्तथा शृणु ॥ 28 ॥
View Verse
मध्याब्जकर्णिकामध्ये भावासनगतौ स्मरेत्।
पुरुषं पुण्डरीकाक्षं तदङ्कस्थां च पङ्कजाम् ॥ 29 ॥
View Verse
प्राच्याब्जकर्णिकामध्ये लक्ष्मीदेहाद्विनिर्गताम्।
द्विभुजां भावयेल्लक्ष्मीं द्विनेत्रां चारुकुण्डलाम् ॥ 30 ॥
View Verse
श्वेतमाल्याम्बरधरां हारकेयूरभूषिताम्।
सर्वलक्षणसंपन्नां पीनोन्नतपयोधराम् ॥ 31 ॥
View Verse
प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम्।
चलद्विरेफपटलरमणीयालकावलिम्(वलीम् B.) ॥ 32 ॥
View Verse
लसल्ललाटतिलकामारक्ताधरपल्लवाम्।
कृष्णकुञ्चितकेशां च वंशमुक्ताफलद्विजाम् ॥ 33 ॥
View Verse
पद्मासनोपविष्टां च पाशाह्कुशकरद्वयीम्।
पद्मगर्भोपमाकारां संमुखीमावयोः स्मरेत् ॥ 34 ॥
View Verse
स्मरेद्दक्षिणभागाब्जकर्णिकोदरमध्यगाम्।
वेषभूषादिभिस्तुल्यां लक्ष्म्याः कुन्दनिभां तु वा ॥ 35 ॥
View Verse
कीर्तिं मद्रूपनिष्क्रान्तां सर्वकीर्तिमयीं पराम्।
आवयोः पश्चिमाब्जस्थकर्णिकासनसंस्थिताम् ॥ 36 ॥
View Verse
मद्रूपनिःसृतां ध्यायेत्तादृशीमरुणां जयाम्।
स्मरेदुत्तरपद्मस्थकर्णिकोदरमध्यगाम् ॥ 37 ॥
View Verse
मायां मद्रूपनिष्क्रान्तां तादृशीमरुणां तु वा।
आग्नेये हृदयं पद्मे शिरो यातुसरोरुहे ॥ 38 ॥
View Verse
शिखां तु वायवीयाब्जे वर्म चेशानपङ्कजे।
मध्यपद्मपुरःपत्रे नेत्रमस्रं तु कोणके ॥ 39 ॥
View Verse
नेत्रस्य पुरतो देवं वासुदेवं विचिन्तयेत्।
मध्यदक्षिणदिक्पत्रे स्मरेत् संकर्षणं प्रबुम् ॥ 40 ॥
View Verse
स्मरेन्मध्यसरोजस्य प्रद्युम्नं पश्चिमे दले।
अनिरुद्धमुदक्संस्थे कोणपत्रयुगद्वये ॥ 41 ॥
View Verse
हृत्पङ्कजदलेष्वेवं वनमालां निवेशयेत्।
कीर्तिपङ्कजपत्रेषु भूषापद्मं निवेशयेत् ॥ 44 ॥
View Verse
जयापङ्कजपत्रेषु (पत्र B.)वर्म पद्मदलेषु च।
पद्मेषु विन्यसेदेवं पद्मपत्रचतुष्टये ॥ 45 ॥
View Verse
शिरःपङ्कजपत्रेषु (विन्यसेत्पाशमुत्तमम् A. B. C.)न्यसेदङ्‌कुशमुत्तमम्।
न्यसेद् द्वारचतुष्काग्रे गरुडं पततां वरम् ॥ 46 ॥
View Verse
नागान् वा तत आत्मीयद्वाराग्रेषु नियोजयेत्।
पूर्वद्वारभुवि न्यस्येत् पद्महस्तां बलाकिकाम् ॥ 47 ॥
View Verse
श्वेतां कमलपत्राक्षीं प्रसन्नां वामनाकृतिम्।
दक्षिणद्वारतस्तद्वन्नीलां तु वनमालिकाम् ॥ 48 ॥
View Verse
पश्चिमद्वारमध्ये तु रक्तवर्णां विभीषिकाम्।
उदीच्यद्वारमद्ये तु शंकरीं मधुदीधितिम् ॥ 49 ॥
View Verse
प्रागादीशानपर्यन्ते बहिर्द्वारप्रदेशतः(प्रवेशतः B.)।
इन्द्रादीन् संस्मरेदष्टौ लोकपालान् सवाहनान् ॥ 50 ॥
View Verse
अत ऊर्ध्वं च नागेशं ब्रह्माणं च विचिन्तयेत्।
तद्बहिश्च तदस्राणि वज्रादीनि विचिन्तयेत् ॥ 51 ॥
View Verse
सोमशंकरदिङ्मध्ये खस्थितं संस्मरेत् प्रबुम्।
विष्वक्सेनमुदाराङ्गमायान्तं गगनान्तरात् ॥ 52 ॥
View Verse
अनुक्तानामिदानीं मे ध्यानं शृणु पुरंदर।
अमृतात्मानमभ्राङ्गं पुण्डरीकायतेक्षणम् ॥ 53 ॥
View Verse
शङ्खचक्रगदापद्मधरं श्रीवत्सवक्षसम्।
पीताम्बरं चतुर्बाहुं वासुदेवं विचिन्तयेत् ॥ 54 ॥
View Verse
तुषारनिचयाकारं नीलवस्त्रं चतुर्भुजम्।
स्मरेत् संकर्षणं सीरसौनन्दकधरं परम् ॥ 55 ॥
View Verse
वरदाभयहस्तं च निमग्नोद्धरणक्षमम्।
प्रद्युम्नं संस्मरेद्रक्तं रक्तवाससमीश्वरम् ॥ 56 ॥
View Verse
शार्ङ्गं शरांश्च बिब्राणं वरदं चाभयप्रदम्।
संस्मरेदनिरुद्धं च पीतं विशदवाससम् ॥ 57 ॥
View Verse
खड्‌गखेटकहस्तं च वराभयकरं परम्।
आसीनाः सर्व एवैते पुरुषाः पुष्करेक्षणाः ॥ 58 ॥
View Verse
पश्यन्तो दिशमीशानां मां च विष्णुं च शाश्वतम्।
सिञ्चन्तोऽमृतकुम्भैर्नौ हिमशैलनिभा गजाः ॥ 59 ॥
View Verse
सितशोणितवर्णाङ्गं शुक्लवस्त्रं चतुर्भुजम्।
पद्मासनोपविष्टं च पद्मशङ्खकराङ्कितम् ॥ 60 ॥
View Verse
हृन्मुद्रालंकृतकरं वामेनाभयदं सदा।
सिताभरणवस्राढ्यं कर्पूरालिप्तविग्रहम् ॥ 61 ॥
View Verse
आवयोः संमुखासीनं हृन्मन्त्रं संस्मरेद् बुधः।
वन्धुजीवोपमं रक्तं पद्मचक्रधरं परम् ॥ 62 ॥
View Verse
काकालिकज्जलश्यामं पद्मकौमोदकीधरम्।
दक्षिणेनात्ममुद्राढ्यं परेणाभयदायिनम् ॥ 63 ॥
View Verse
लिप्तं मृगमदेनैव पुष्पाद्यैरसितैर्युतम्।
आवयोः संमुखासीनं कवचं संस्मरेत् प्रभुम् ॥ 64 ॥
View Verse
हरिद्रारुणसंकाशं गदापद्मधरं क्रमात्।
स्वमुद्राकरणव्यग्रपूर्वभागकरद्वयम् ॥ 65 ॥
View Verse
नारीर्वा संस्मरेदेतान् हृदादीन् साधकोत्तमः।
उक्तभूषणवेषाढ्याः स्वानुरूपानुलेपनाः ॥ 67 ॥
View Verse
इत्युक्तं ध्यानमङ्गानां सर्वपापहरं शुभम्।
कौस्तुभं द्विभुजं ध्यायेत् सहस्रार्कसमप्रभम् ॥ 68 ॥
View Verse
प्रदीप्तवेषभूषाढ्यं स्वमुद्रां दधतं हृदि।
पञ्चवर्णकृतां कान्तां वनमालां शुभेक्षणाम् ॥ 69 ॥
View Verse
प्रौढस्रीसदृशीं मुद्रां दधतीं हस्तयोर्द्वयोः।
पद्मं पद्ममुखं ध्यायेत् प्रसन्नं चन्द्रसंनिभम् ॥ 70 ॥
View Verse
द्विभुजं चारुसर्वाङ्गं कराभ्यां मुद्रिकां दधत्।
नवदूर्वाङ्कुरश्यामं पाशेशं पन्नगाननम्(पन्नगाशनम् A. G.) ॥ 71 ॥
View Verse
द्विभुजं याम्यहस्तेन स्वां मुद्रां दधतं परम्।
तथा वरदहस्तं च भीमरूपं भयावहम्(भयानकम् A.) ॥ 72 ॥
View Verse
संस्मरेदङ्कुशं तीक्ष्णं दीर्घनासं भयानकम्।
याम्येन दधतं मुद्रां पाणिना सव्यतो वरम् ॥ 73 ॥
View Verse
प्रसिद्धा लोकपालास्ते वेषाकृतिविभूषणैः।
नराकृतीनि शस्त्राणि चिह्नयुक्तानि मूर्धनि ॥ 74 ॥
View Verse
शङ्खचक्रधरो ध्येयो विष्वक्सेनश्चतुर्भुजः।
साक्षाद्विष्णुसमो मुद्राव्यापृतोऽन्यकरद्वये ॥ 75 ॥
View Verse
द्वाराग्रस्थं ततो ध्यायेद्गरुडं बीमलोचनम्।
रक्ततुण्डं महाघोणं तप्तचामीकरप्रभम् ॥ 76 ॥
View Verse
पृथुदंष्ट्रं गृध्रवक्त्रं पक्षमण्डलमण्डितम्।
इति ते परिवाराणां ध्यानमुक्तं समासतः ॥ 77 ॥
View Verse
आवयोः स्थूलयोरूर्ध्वे स्मरेत् सूक्ष्मां तु तारिकाम्।
दांपत्यं बिभ्रतीं सूक्ष्मां लक्ष्यालक्ष्यामिवानघाम् ॥ 78 ॥
View Verse
तदूर्ध्वे तु परां तारां पूर्णषाड्‌गुण्यचिन्मयीम्।
दांपत्यमावयोर्दिव्यं तत्परं पारमेश्वरम् ॥ 79 ॥
View Verse
सर्वतःपाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्।
शब्दार्थौ भासयत् स्वेन तेजसा नित्यमुद्यता ॥ 80 ॥
View Verse
प्रतिबिम्बमिवैतस्मिन् मन्त्रचक्रमशेषतः।
एवं क्रमोत्क्रमाकारैस्तारिकां विततां पराम् ॥ 81 ॥
View Verse
भावेन तत्त्वतो बुद्ध्वा यथान्यासं (समाचरेत् B. C.)समर्चयेत्।
आदितः सकलावासावर्चयेन्नौ धियानघौ ॥ 82 ॥
View Verse
अर्घ्यादिप्रापणान्तेन भोगजालेन मन्त्रवित्।
शक्त्यादिविष्वक्सेनान्तं परिवारं ततोऽर्चयेत् ॥ 83 ॥
View Verse
सर्वादौ गरुडं देवीश्चतस्रो द्वारपालिकाः।
भोगयागक्रमेणायं(क्रमः सोऽयं B. F.) न्यासस्ते शक्र दर्शितः।
यावन्तो यादृशा ये च भोगास्तांस्त्वं निबोध मे ॥ 84 ॥
View Verse

Chapter - 39

एकोनचत्वारिंशोऽध्यायः - 39
श्रीः---
शृणु भोगान् सुरेशान दत्तैस्तुष्यामि यैरहम्।
येषु मे वितता शक्तिर्भोग्यभोगाय तिष्ठते ॥ 1 ॥
View Verse
यथाशक्त्यनुरूपेण तत्तद्भोगोपकल्पने।
दिव्यशक्तिप्रभेदैस्तैर्विचित्रैः स्त्यानतां गतैः ॥ 2 ॥
View Verse
संपूर्णमीस्वरार्हं तद्भावनीयमशेषतः।
मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम् ॥ 3 ॥
View Verse
अर्घ्यं पाद्यं मधूपर्कस्तथैवाचमनीयकम्।
प्रणामपूर्वकं पश्चादात्मात्मीयनिवेदनम् ॥ 4 ॥
View Verse
अनुज्ञाप्य ततः पश्चात् स्नानासनमनुत्तमम्।
पादपीठमथार्घ्यं च ततः पाद्यप्रतिग्रहः ॥ 5 ॥
View Verse
पाद्याम्बु पादुके स्नानशाटी मात्रा च शालिका।
दर्पणं गन्धतोयं च पाणिप्रक्षालनार्थकम् ॥ 6 ॥
View Verse
दन्तकाष्ठं च वदनप्रक्षालाचमनाम्बुनी।
गन्धतैलं च चूर्णं च शालिगोधूमसंभवम् ॥ 7 ॥
View Verse
हरिद्राचूर्णसंमिश्रमीषत्पद्मकभावितम्।
उद्वर्तनार्थं तदनु स्नानार्थं खलिसंयुतम् ॥ 8 ॥
View Verse
उष्णाम्बु चन्दनं चन्द्रमिश्रितं लेपनार्थकम्।
क्षीरं दधि घृतं गव्यं मध्वैक्षवरसं तथा ॥ 9 ॥
View Verse
सुगन्धामलकाभिश्च लोध्रतोयं ततः परम्।
रक्तचन्दनतोयं च रजनीवारि चोत्तमम् ॥ 10 ॥
View Verse
ग्रन्थिपर्णीपयः पश्चात् ततश्च तगरोदकम्।
प्रियङ्गुजटिलासिद्धार्थकसर्वौषधीजलम् ॥ 11 ॥
View Verse
पुष्पपत्रफलाम्भांसि बीजगन्धोदके तथा।
हेमरत्नसरित्तीर्थकेवलाम्बूनि च क्रमात् ॥ 12 ॥
View Verse
स्नानीयांम्बुसमेतानि देयान्यम्बून्यमूनि तु।
अर्घ्यपात्रात्तथैवार्घ्यं स्नानानामन्तरान्तरा ॥ 13 ॥
View Verse
दद्यात् सपुष्पतोयेन क्षालनं चान्तरान्तरा।
स्नानशिष्टाम्बुसंपूर्णं (हरिद्राग्रन्थि B.)हरिद्राशालिसंभृतम् ॥ 14 ॥
View Verse
स्रगादिसंयुतं कुम्भं हस्ते कृत्वापरत्र तु।
सिद्धार्थैर्धूपवत् पात्रं भ्रामयित्वा तु मूर्धनि ॥ 15 ॥
View Verse
बहिः क्षिपेत्ततो दद्यात् सुधौते चाङ्गशाटिके।
केशोदकापकर्षार्थमम्बरं देहवारिहृत् ॥ 16 ॥
View Verse
अन्तरीयोत्तरीये द्वे सुधौते वाससी शुभे।
भाविते गन्धधूपेन दद्याद् भद्रासनं ततः ॥ 17 ॥
View Verse
शोधयेत् पूर्णकुम्भैस्तु खप्लुतं भावयेद्धरिम्।
अलंकारासनं पश्चाद्देयं मृद्वास्तरोल्बणम् ॥ 18 ॥
View Verse
मकुटाद्या अलंकाराः प्रदेयाः परमाद्भुताः।
स्रजो नानाविधाकाराः सात्त्विकैः कुसुमैश्चिताः ॥ 21 ॥
View Verse
पुष्पाञ्जलिः पदद्वन्द्वे प्राकारः सुमनश्चयैः।
गन्धद्रव्यसुशीतेन ह्यञ्जनेनाञ्जनं दृशोः ॥ 22 ॥
View Verse
तथैवालम्भनं चापि ललाटतिलकं तथा।
आदर्शो विमलो मृष्टः परितश्च समीक्षणम् ॥ 23 ॥
View Verse
प्रदीपश्च प्रधूपश्च वाहनं चेतनेतरत्।
स्तुतिमङ्गलगीतानि नृत्तवादित्रदर्शनम् ॥ 24 ॥
View Verse
मात्राश्च रत्नसंपूर्णा भोगच्छिद्रप्रपूरणाः।
बुद्ध्या विरचितास्तास्ता राजराजोचिताः क्रियाः ॥ 25 ॥
View Verse
अलंकारासनस्थाय त्वेते भोगा हि मन्मयाः।
अथ भोज्यासनं देयमर्ग्यपाद्यादिकं तथा ॥ 26 ॥
View Verse
यजेत मधुपर्केण (यथावत् B. F.)यथा तदवधारय।
पयसो मधुनो दध्नः संयोगो मधुपर्ककः ॥ 27 ॥
View Verse
पात्रं पुरः प्रतिष्ठाप्य मधुपर्केण पूरितम्।
अर्हणं तर्पणं चार्घ्यात् पृथक् पात्रद्वये भवेत् ॥ 28 ॥
View Verse
देयमाचमनं पश्चान्मात्रा गौर्माधुपर्किकी।
यष्टव्यमन्नयज्ञेन साङ्गेन मधुपर्कवत् ॥ 30 ॥
View Verse
ततश्च विश्रमार्थाय विमानं परमाद्भुतम्।
प्रदेयं तत्र दातव्यं सर्वमर्घ्यादि पूर्ववत् ॥ 32 ॥
View Verse
जपं समाचरेत् पश्चादलक्ष्यमितरैर्जनैः।
मन्त्रसंस्कृतया सम्यक् शुभया ह्यक्षमालया ॥ 33 ॥
View Verse
प्राकृतस्त्वङ्गुलीभिस्तु पर्वभिस्तु दशोत्तरः।
शतोत्तरादिसंख्यस्तु विज्ञेयो ह्यक्षमालया ॥ 34 ॥
View Verse
वाचिकः क्षुद्रकर्मार्थमुपांशु सिद्धिकर्मणि।
मानसो मोक्षलक्ष्मीदो ध्यानात्मा सर्वसिद्धिकृत् ॥ 35 ॥
View Verse
अक्षमाला तथा कार्या न दृश्या प्राकृतैर्यथा।
अक्षास्थिमात्रा मण्य उत्तमाः परिकीर्तिताः ॥ 36 ॥
View Verse
तदर्धं मध्यमं प्रोक्तं तदर्धमधमं स्मृतम्।
सौवर्णं द्रव्यसिद्ध्यर्थे पुष्ट्यर्थे पितृकर्मणि ॥ 38 ॥
View Verse
राजतं ताम्ररूपं तु मेधावीर्यजयाप्तये।
त्रापुषं यक्षिणीसिद्धौ सैसं रक्षःपिशाचयोः ॥ 39 ॥
View Verse
वेतालसाधनार्थं तु रीतिजं कांस्यजं तु तत्।
अक्षसूत्रं परिज्ञेयं नागपन्नगसाधने ॥ 40 ॥
View Verse
आयसं क्षुद्रकर्मार्थमिति धातुमयो मणिः।
आयुरारोग्यभूत्यर्थः(वृद्ध्यर्थः C.) सर्वो मणिमयो मणिः ॥ 41 ॥
View Verse
मोक्षाय शान्तये चैव स्फाटिको मणिरुच्यते।
सौभाग्ये वैद्रुमः कार्यः सौत्रः कार्यस्तु मुक्तये ॥ 42 ॥
View Verse
शान्तये मुक्तये पुष्ट्यै तुलसीमूलजो मणिः।
सर्वसिद्धिप्रदः पाद्मो मणिः शाङ्खः श्रियै मतः ॥ 43 ॥
View Verse
आयुःप्रजायशोदः स्यान्मौक्तिको मणिरुत्तमः।
आदद्यादेकमेतेषां शुभकाले गुणाधिके ॥ 44 ॥
View Verse
त्रिगुणं त्रिगुणीकृत्य चतुर्धा वा यथा दृढम्।
क्षालयित्वास्त्रतोयेन तेनैव ग्रथयेन्मणीन् ॥ 46 ॥
View Verse
अनूनानधिकांस्तुल्यानचलान् ग्रथितान्तरान्।
इष्टसंख्यामणिप्रोतसूत्रान्तद्वितयोपमम्॥
View Verse

Chapter - 40

चत्वारिंशोऽध्यायः - 40
शक्रः---
नमस्ते वारिसंभूते नमस्ते पद्मसंभवे।
प्रकारमक्षमालायाः प्रतिष्ठाया वदाम्बुजे ॥ 1 ॥
View Verse
श्रीः---
साधितामक्षमालां तु स्थापयेद्भाजने शुभे।
पूजयित्वार्घ्यपुष्पाद्यैस्तस्याः शुद्धिं समाचरेत् ॥ 2 ॥
View Verse
अस्त्रेण दग्ध्वा निर्वाप्य वर्मणाप्याययेच्छ्रिया।
परमामृतरूपिण्या तां मालां भावयेत्ततः ॥ 3 ॥
View Verse
चतुर्भुजामनौपम्यां मन्मयीं मामिवापराम्।
वरदाभयहस्तां च बद्धाञ्जलिकरद्वयाम् ॥ 4 ॥
View Verse
ब्रह्मद्वाराम्बुजन्मस्थां देवीं ध्यायेच्छिखोपमाम्।
तां परां वैष्णवीं शक्तिं मन्मयीं मदभेदिनीम् ॥ 5 ॥
View Verse
द्वादशान्ते विचिन्त्याथ क्रमाद्ध्यायेद्धृदम्बुजे।
हृत्पद्मादुत्थितां बूयो ब्रह्मरन्ध्राद्विनिर्गताम् ॥ 6 ॥
View Verse
शनैः शनैरुल्लसन्तीं मालास्थां तां विचिन्तयेत्।
अङ्गोपाङ्गक्रमोपेतां(क्रियोपेतां A. E.) स्थूलसूक्ष्मपरात्मिकाम् ॥ 7 ॥
View Verse
मां ध्यायेत् तारिकाकारां तत्र शक्तौ सुरेश्वर।
मणीन् सूत्रं तथा मालां मालास्थां वैष्णवीमपि ॥ 8 ॥
View Verse
एकार्णवीकृतं सर्वं(कृतां सर्वां C.) मायां ध्यायेत् सुरेश्वर।
मया दत्तां विभाव्यैनां संस्कृतामक्षमालिकाम् ॥ 9 ॥
View Verse
जपं समाचरेत् पश्चात् पूर्वोक्तेन विधानतः।
अनुन्मिषत् परं सूक्ष्मं स्थूलमात्मानमेव च ॥ 10 ॥
View Verse
लक्ष्मीनारायणाकारं पञ्चकं भावयेदिदम्।
तुर्यातीतं तथा तुर्यं सुषुप्तिस्वप्नजागराः ॥ 11 ॥
View Verse
अवस्थापञ्चकं तद्वत् तत्कर्तृकरणादिकम्।
कर्त्रुन्मेषं तथा तत्स्थं करणं बाह्यकं तथा ॥ 12 ॥
View Verse
मन्त्राक्षरं तथा स्थूलं सर्वं तत्तन्मयं स्मरेत्।
हृत्पुण्डरीकमध्यस्थां मन्मुखाम्भोजनिःसृताम् ॥ 13 ॥
View Verse
स्मरेच्छब्दमयीं शक्तिं वैष्णवीं मदभेदिनीम्।
तस्या विनिर्गतां ध्यायेन्मातृकां मन्त्रमातरम् ॥ 14 ॥
View Verse
मन्मयीं संस्मरेन्मालां जप्यमन्त्रमयीं ततः।
लतायामिव पुष्पाणि(पुष्पाणां A. B. C.) मन्त्रान् वै तत्र संस्मरेत् ॥ 15 ॥
View Verse
स्फुरणं मणिसंस्पर्शे हृल्लयं च तदत्यये।
भावयन् मन्त्रनाथस्य जपं कुर्याद्विचक्षणः ॥ 16 ॥
View Verse
जपं समाप्य विधिवन्न्यस्येन्मयि जपं कृतम्।
शक्तिं तां मन्मुखान्तःस्थां जपरूपां विचिन्तयेत् ॥ 18 ॥
View Verse
दीपे धूपे तथार्घ्ये च घण्टानादं समाचरेत्।
आवाहने तथार्घ्ये च नैवेद्ये मधुपर्कके ॥ 19 ॥
View Verse
प्रीणने च प्रयुञ्जीत घण्टानादं विचक्षणः।
न विना पूजया चाल्या तां विना पूजयेन्न च ॥ 20 ॥
View Verse
कार्यसिद्धिमभीप्सद्भिरिह चामुत्र चोभयोः।
सा हि घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ 21 ॥
View Verse
वाचि मन्त्राः स्थिताः सर्वे वाच्यं मन्त्रेषु चाखिलम्।
एतस्यां चाल्यमानायां मन्त्रा वत्सा इव द्रुतम् ॥ 22 ॥
View Verse
काङ्क्षमाणाः समायान्ति तां घण्टां मन्त्रमातरम्।
अधोमुखं तु ब्रह्माण्डं द्यायेल्लोककुलाकुलम् ॥ 23 ॥
View Verse
नालं तस्यास्तदूर्ध्वे तु वृत्तं पद्मं स्मरेद्बुधः।
अष्टपत्रं शुभं श्वेतं कर्णिकाकेसरान्वितम् ॥ 24 ॥
View Verse
तन्मध्ये चिन्तयेद्देवीं घण्टामष्टभुजान्विताम्।
मुख्यहस्तचतुष्केण पाशशङ्खाम्बुजाङ्कुशान् ॥ 25 ॥
View Verse
परबाहुचतुष्केण दधतीमक्षसूत्रकम्।
विज्ञानपुस्तकं सम्यगभयं च वरं तथा ॥ 26 ॥
View Verse
पद्मासनामम्बुजाक्षीं पद्मगर्भसमत्विषम्।
बद्ममालाधरां पीतसितवस्रानुलेपनाम् ॥ 27 ॥
View Verse
मन्त्रौघमुद्गिरन्तीं च ब्रह्मादिपरिसंस्तुताम्।
तारिकामुच्चरन् दीर्घं(दीर्घां A.) युग्मां संचालयेदिमाम् ॥ 28 ॥
View Verse
अनया पूजयन् मन्त्री मन्त्रसिद्धिं निगच्छति।
ततो गुरून् समानीय मन्मयान् वापि वैष्णवान् ॥ 29 ॥
View Verse
प्रदद्यात् प्रापणार्धं तु तेभ्यो मन्मन्त्रमुच्चरन्।
अथ वह्निगतां सम्यगग्नीषोममयीं पराम् ॥ 30 ॥
View Verse
तर्पयेन्मां सुरेशान यथावदवधारय।
तत उत्तरदिग्भागे देवागाराद्बहिस्तु वा ॥ 31 ॥
View Verse
भूभागे लक्षणोपेते कुण्डं कुर्यात् सलक्षणम्।
चतुरश्रं समं यद्वा पद्माकारं मनोहरम्(मनोरमम् F.) ॥ 32 ॥
View Verse
शतार्धहोमसंख्यायां कुण्डं स्याद् द्वादशाङ्‌गुलम्।
अष्टोत्तरशतेऽरत्निसमं हस्तं सहस्रके ॥ 33 ॥
View Verse
अयुताख्ये द्विहस्तं च लक्षहोमे चतुष्करम्।
कोटिहोमेऽष्टहस्तं स्याच्छास्त्रतः कारयेच्च तत् ॥ 34 ॥
View Verse
त्रिकोणमपि वा कुर्याद्धोमकुण्डं त्रिमेखलम्।
उद्धृत्य तारया पूर्वं त्रिस्तया प्रोक्षयेद्भुवम् ॥ 35 ॥
View Verse
शोषणं दाहनं प्लावं तारया सम्यगाचरेत्।
आधारशक्त्याद्यारभ्य पूज्यं भावासनावधि ॥ 36 ॥
View Verse
तत्र नारायणाख्यां वै शक्तिं तेजोमयीं पराम्।
मन्मयीममृताकारां सर्वातिशयरूपिणीम् ॥ 37 ॥
View Verse
सर्वशक्तिसमूहस्थां सर्ववस्त्वन्तरस्थिताम्।
अवतार्य हृदम्भोजात् सृष्टिमार्गेण शाश्वतीम् ॥ 38 ॥
View Verse
तारिकास्फुरणाकारामवतीर्य हृदम्बुजात्।
रेचकेन विनिक्षिप्य कुण्डमध्याम्बुजान्तरे ॥ 39 ॥
View Verse
संपूज्य गन्धपुष्पाद्यैः पद्ममुद्रां प्रदर्श्य च।
ध्यायेदृतमतीं शक्तिं सुस्नातामहताम्बराम् ॥ 40 ॥
View Verse
ध्यायेत् सर्वात्मिकां शक्तिं तामेव त्वधरारणिम्।
उत्तरं चारणिं ध्यायेत् सर्वतेजोमयं हरिम् ॥ 41 ॥
View Verse
मथ्नीयात् तारया सम्यक् तथा चैवानुतारया।
उत्पन्नं तारयादाय(आघ्राय A. B. G.) कृशानुं शक्तिसंभवम् ॥ 42 ॥
View Verse
उपनीय ततो वह्निं तारया चानुतारया।
ततः स्वाहास्वधाभ्यां तु देवीभ्यां जातवेदसः ॥ 44 ॥
View Verse
पाणिग्रहणकं कुर्यात् तारया त्वनुतारया।
सर्वं ध्यानमयं कार्यं जातनामादिकर्म तत् ॥ 45 ॥
View Verse
लोहपाषाणमण्युत्थवह्नौ कार्यवशात् कृते।
लौकिके वापि संस्कारं निषेकादि समाचरेत् ॥ 46 ॥
View Verse
पूरणेनोपसंहृत्य स्वात्मन्युपशमं नयेत्।
क्रमादानन्दशक्त्या तं संहारेण तु योजयेत् ॥ 48 ॥
View Verse
सृष्टिमार्गेण तं भूयोऽप्यवतार्य पदात् पदम्।
कुण्डमध्याम्बुजान्तःस्थां तारया भुवमानयेत् ॥ 49 ॥
View Verse
वह्निं स्वाहास्वधेशानमग्नीषोममयं यजेत्।
समिद्भिस्तिसृभिस्तारामुच्चरन्नेकयैकया ॥ 50 ॥
View Verse
शालीतिलाक्षतैः पश्चात् तत आज्याहुतित्रयम्।
उच्चार्य तारिकां पूर्वं बोधयेति द्विरुच्चरेत् ॥ 51 ॥
View Verse
तत्रस्थो बुध्यते वह्निर्यथावच्च हुतः(यो यथा यस्य सः A. B. G.) स्वयम्।
पर्यग्निकरणं कार्यं तारयैवार्द्रपाणिना ॥ 52 ॥
View Verse
स्तृणीयात् तारया दर्भैस्रेधा त्रेधा चतुर्धिशम्।
उदग्भागेऽग्निकुण्डस्य स्तृणीयाद्दर्भसंचयम् ॥ 53 ॥
View Verse
प्रणीताप्रोक्षणीपात्रे दर्वीध्मौ स्रुक्स्रुवौ तथा।
आज्यस्थालीं पवित्रे च सर्वं तत्र निधापयेत् ॥ 54 ॥
View Verse
प्रणीतां तारयापूर्य गन्धयुक्तेन वारिणा।
पवित्राब्यां त्रिरुत्पूय मां ध्यायेत् तारया श्रियम् ॥ 55 ॥
View Verse
वह्नेरुदक् प्रतिष्ठाप्य प्रोक्षणीं पूरयेच्छ्रिया।
तामुत्पूय ततः प्रोक्ष्य यागोपकरणं समम् ॥ 56 ॥
View Verse
आज्यपात्रं समादाय तस्मिन्नाज्यं निधाय च।
ब्रह्म सर्पिःसमुद्रोत्थं तद्ध्यात्वाग्नेरुदग्गतम् ॥ 57 ॥
View Verse
तारया समभिज्वाल्य दर्भाग्रे विनिधाय च।
तया पुनरभिज्वाल्य पर्यग्निकृतिमाचरेत् ॥ 58 ॥
View Verse
वह्नेः पश्चात् प्रतिष्ठाप्य पवित्रद्वितयेन तत्।
उत्पूय तारयाग्नौ तत् पवित्रद्वितयं क्षिपेत् ॥ 59 ॥
View Verse
परिदध्यात् परिधिभिर्यज्ञयोग्यैश्चतुर्दिशम्।
अग्निशर्वदिशोः स्थाप्य कुण्डमध्ये समिद्‌द्वयम् ॥ 60 ॥
View Verse
तत इध्मं समाधाय शुष्कं पञ्चदशात्मकम्।
तारया परिषिच्याग्निं स्रुक्स्रुवौ(स्रुवौ तु G.) परितापयेत् ॥ 61 ॥
View Verse
निमृज्य तारया पश्चात्तौ प्रोक्ष्याथ स्रुचा तया।
वायोरग्निदिशं यावद्यातोः शर्वदिशावधि ॥ 62 ॥
View Verse
स्रुवेणाज्याहुतीर्दद्यात् स्वाहान्तां तारिकां गृणन्।
अयं योग्यो भवेद्वह्निर्भगवद्धव्यवाहने ॥ 64 ॥
View Verse
तारया समिधो दद्यात् काष्ठरूपा दशापराः।
मामेव भावयेन्मध्ये विष्णोरङ्कस्थितां पराम् ॥ 66 ॥
View Verse
ब्रह्मानन्दमयाम्भोजकर्णिकास्थस्य वै विभोः।
अङ्कस्थां भावयल्लँक्ष्मीं ता दद्यात्समिधोऽखिलः ॥ 67 ॥
View Verse
ततः पुष्पमयीं दद्याद् धूपद्रव्यमयीं तथा।
एतास्तु त्रिविधा देया हस्तेनैव मनीषिणा ॥ 68 ॥
View Verse
मधुपर्कमयीं पश्चात् स्रुवेण जुहुयात् सुधीः।
स्रुच्यन्नं चतुरादाय सर्पिषापूर्यं पूर्ववत् ॥ 69 ॥
View Verse
तयैवान्नाहुतिं दद्यात् स्वाहान्तां तारिकां गृणन्।
स्रुवेणाज्याहुतीः पूर्वसमित्संख्याः समाचरेत् ॥ 70 ॥
View Verse
पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेद्धिया।
नित्ययागो ममैतावानूर्ध्वं काम्याहुतिं क्षिपेत् ॥ 72 ॥
View Verse
दशवारं तारयैव क्षमस्वेति वदन् धिया।
प्रणीतामुपसंहृत्य शुचिस्थाने (निधाय A. B.)निनीय च ॥ 73 ॥
View Verse
प्रहृत्य परिधीन् सर्वान् (सर्पिः A. B.)सँस्रावं समाचरेत्।
स्तरं प्रहृत्य वह्नौ च घृतेनापूर्य च स्रुवम् ॥ 74 ॥
View Verse
दद्यात् पूर्णाहुतिं दीर्घां स्वाहान्तां तारिकां गृणन्।
शक्त्या समेतां तां तारां वह्निस्थां मन्मयीं पराम् ॥ 75 ॥
View Verse
मां चाप्यङ्कस्थितां (विर्ष्णोर्नाडिका C.)विष्णोर्नासिकासंधिमार्गतः।
मरुच्छक्त्या समाकृष्य हृत्पद्मे विनिवेश्य च ॥ 76 ॥
View Verse
यागभूमिं समेत्याथ नवपद्मस्थया मया।
एकीकृत्य मयि न्यस्येदर्छास्थायां कृतिं तु ताम् ॥ 77 ॥
View Verse
प्रागेव विभजेदन्नं प्रापणात् संप्रदानतः।
तेनान्नेन यजेत् सम्यग्विष्वक्सेनं चतुर्भुजम् ॥ 78 ॥
View Verse
मण्डलान्तमुपानीय समाहूयाम्बरान्तरात्।
नवाम्रपत्रसदृशं पिङ्गभ्रूश्मश्रुलोचनम् ॥ 79 ॥
View Verse
पीतवस्त्रं चतुर्दंष्ट्रं स्वमुद्राद्वितयान्वितम्।
गदाखड्गधरं देवमभ्यर्च्य क्रमशः सुधीः ॥ 80 ॥
View Verse
साङ्गमुद्रामथादर्श्य गत्वा कुण्डसमीपतः।
विष्वक्सेनस्ततो भकत्या तर्पणीयस्तिलाक्षतैः ॥ 81 ॥
View Verse
वौषडन्तेन मन्त्रेण दद्यात् पूर्णाहुतिं ततः।
मण्डले पूजयित्वाथ कुर्यात्तस्य विसर्जनम् ॥ 82 ॥
View Verse
स्वमन्त्रेण सुरश्रेष्ठ(ज्येष्ठ B. C.) क्षमस्वेति पदं वदन्।
मुद्रां च दर्शयेत्तं च नभस्युत्पतितं स्मरेत् ॥ 83 ॥
View Verse
विष्वक्सेनार्चनं सर्वमगाधेऽम्बुनि निक्षिपेत्।
तोयेनास्त्रप्रजप्तेन प्लावयेन्मण्डलं च तत् ॥ 84 ॥
View Verse
ततः संपूजयेत् सर्वान् लोकपालानशेषतः।
पुष्पार्घ्यैरन्नदानान्तैरेकाहुत्या च वह्नितः ॥ 85 ॥
View Verse
सर्वांश्च परिवारांस्तान् स्वस्वस्थानक्रमेण तु।
अर्चयेत् क्षेत्रपालादीन् वह्निमध्ये च तर्पयेत् ॥ 87 ॥
View Verse
आधारशक्तेरारभ्य पीठशक्तीश्च सर्वशः।
गणेशाद्याश्च संपूज्याः संतर्प्याश्च घृतादिकैः ॥ 88 ॥
View Verse
सकृत्कृत्या त्रिवृत्या वा पूर्णाः सर्वेष्वथ क्षिपेत्।
लक्ष्म्यादीन्पूजयेत्सर्वान् विष्वक्सेनार्चनात्पुरा ॥ 89 ॥
View Verse
विष्वक्सेनार्चनात् पश्चाल्लोकपालार्चनं क्रमात्।
ततो वेदिं विशोध्याथ दर्भान् संस्तीर्य दक्षिणान् ॥ 90 ॥
View Verse
पितॄन् यजेत् क्रमेणैव प्रापणार्थावशेषतः।
कृत्वा पिण्डत्रयं तेन पितृभ्यो निर्वपेत् स्तरे ॥ 91 ॥
View Verse
पितॄनुद्दिश्य वै भक्तं तत्तन्नामानुदेशवत्।
संन्यस्य मयि तत् सर्वमन्तर्धानमवेक्ष्य च ॥ 93 ॥
View Verse
अर्घ्याद्यमुपसंहृत्य वर्मास्त्रे प्रतिहृत्य च।
उपसंहृत्य च न्यासमनुयागं समाचरेत् ॥ 94 ॥
View Verse
अस्रेण तारया प्रोक्ष्य तारया परिषिच्य च।
उपस्तीर्य तया चापो दद्यात् प्राणाहुतीस्तया(तदा A.) ॥ 95 ॥
View Verse
अदीक्षितस्त्वनुयजंस्तत्तन्मन्त्रानुसंहिताम्।
तारिकामुच्चरन् कुर्यान्मां चान्तःस्थां विभावयेत् ॥ 96 ॥
View Verse
सोमानन्दमयीं दिव्यां क्रमादन्नात्मतां गताम्।
वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् ॥ 97 ॥
View Verse
ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम्।
आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् ॥ 98 ॥
View Verse
तारिकामुच्चरन् पश्चादपिधायान्नमम्भसा।
आचम्य द्विस्ततो न्यस्येदनुयागं ततो मयि ॥ 99 ॥
View Verse
अथ स्वाध्यायमभ्यस्येद् दिनशेषं विचक्षणः।
चतुर्विधानि शास्त्राणि तदुत्थं तारिकादिकम् ॥ 100 ॥
View Verse
सिद्धान्तानपि चाशेषानसंलग्नेन चेतसा।
स्वाशयप्रविशुद्ध्यर्थं समीक्षेत धिया स्वया ॥ 101 ॥
View Verse
संध्यामुपास्य विधिवदभिगम्य च मां धिया।
योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा ॥ 102 ॥
View Verse
पूर्वपश्चिमयोर्नक्तं यामयोर्धातुसाम्यवान्।
इति यागविधिः शक्र विस्तरेण प्रदर्शितः ॥ 103 ॥
View Verse
विधानस्य तु संक्षेपं पुनरस्य (ब्रवीमि ते B.)निबोध मे।
संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः ॥ 104 ॥
View Verse
नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम्।
यजेतोभौ सहैवावां सूक्तेन पुरुषेण तु ॥ 105 ॥
View Verse
तथा मदीयसूक्तेन ताभ्यां वा नौ यजेत् पृथक्।
स्थाने वा सर्वमन्त्राणां तारिकामेव योजयेत् ॥ 106 ॥
View Verse
कुर्यात् संकल्पसंन्यासौ द्वावेवाद्यन्तयोः पृथक्।
अकुर्वन् भोगनिर्देशं केवलैर्वा यजेत्तु तैः ॥ 107 ॥
View Verse
तथा तथैव कुर्वीत शक्नुयात्तु यथा यथा।
न त्वेव हापयेद्यागमपि दद्याज्जलाञ्जलिम् ॥ 108 ॥
View Verse
तारिकां वाप्यधीयीत द्रव्याभावे विचक्षणः।
मनसा भावेयेद्रूपं यत्तस्या यादृशं च यत् ॥ 109 ॥
View Verse
निरामिषस्य शुद्धस्य लब्धलक्ष्यस्य वै पदे।
विक्षोभाय क्रियाः सर्वाः या याः शास्त्रेण दर्शिताः ॥ 110 ॥
View Verse
आततस्य च सर्वत्र समतामभ्युपेयुषः।
कः किं कस्मै किमर्थं वा कथं वा शक्नुयात्क्रियाम् ॥ 111 ॥
View Verse
अग्नीषोममयौ हित्वा पन्थानौ सार्वलौकिकौ।
तयोरन्तरमाविश्य मार्गमूर्ध्वं समाचरेत् ॥ 112 ॥
View Verse
लयाग्निदग्धदुर्मार्गः शीतीभूतो निरामयः।
स्थूलसूक्ष्मपरातीतपदाक्रान्तिविचक्षणः ॥ 113 ॥
View Verse
पश्यञ्च्छृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ॥ 114 ॥
View Verse
अकुर्वन्नेव तत् सर्वं मद्भूतो ह्यनिदंमयः।
अवस्थादेशकालाद्यैरनवस्यूतयाखिलैः ॥ 115 ॥
View Verse
अहंतया समाक्रान्तो धूमपीताग्निपीतवत्।
अनत्रा वर्तमानो हि सूर्याचन्द्रमसोर्द्वयोः ॥ 116 ॥
View Verse
स च पाशुपतो ज्ञेयः सर्वसिद्धान्तगश्च सः।
इत्येवं ते मयोद्दिष्टो मद्भावः पारमार्थिकः।
शृणु शेषमशेषं मे यत्ते किंचिद् विवक्षितम् ॥ 119 ॥
View Verse

Chapter - 41

एकचत्वारिंशोऽध्यायः - 41
शक्रः---
नमो नित्यानवद्यायै जनन्यै सर्वदेहिनाम्।
आधारेशात्मरूपायै शुद्धाशुद्धाखिलाध्वनाम् ॥ 1 ॥
View Verse
बाह्यान्तरविभागेन श्रुतो यागः सविस्तरः।
संप्रति श्रोतुमिच्छामि त्वत्तो दीक्षाविनिर्णयम् ॥ 2 ॥
View Verse
श्रीः---
एको नारायणः श्रीमान् षाड्‌गुण्यमहिमोज्ज्वलः।
तस्य षाड्‌गुण्यरूपाहं शक्तिरेका सनातनी ॥ 3 ॥
View Verse
आत्मानं विभजाम्येका पञ्चधा देवसंविदा।
शब्दरूपार्थरूपाभ्यां वृत्तिरूपेण वासव ॥ 4 ॥
View Verse
तथैवाचार्यरूपेण दीक्षाख्येनापरेण तु।
यद् द्यति क्लेशकर्मादीनीक्षयत्यखिलं पदम् ॥ 5 ॥
View Verse
क्षपयित्वा मलं सर्वं ददाति च परं पदम्।
दीक्षेति तेन तत्त्वज्ञैर्वर्ण्यते वेदपारगैः ॥ 6 ॥
View Verse
दीक्षा सा त्रिविधा तावत् स्थूलसूक्ष्मपरात्मना।
पुनर्दीक्ष्यविभेदेन त्रिविधा सा चतुर्विधा ॥ 7 ॥
View Verse
समयी पुत्रकश्चैव तृतीयः साधकस्तथा।
आचार्यश्चेति दीक्ष्यास्ते तेषामन्यत्र विस्तरः ॥ 8 ॥
View Verse
महामण्डलयागेन(योगेन B.) हवनाद्वाथ केवलात्।
वाचा केवलया वापि दीक्षैषा त्रिविधा पुनः ॥ 9 ॥
View Verse
वित्ताढ्यस्याल्पवित्तस्य द्रव्यहीनस्य च क्रमात्।
आनीय दृढसंकल्पं चिरकालपरीक्षितम् ॥ 10 ॥
View Verse
आचार्यः प्रणतं शिष्यं संसारानलतापितम्।
नवाम्बुजं विधायादौ तस्मिन् कुम्भं (समीक्ष्य च F.)समिज्य च ॥ 11 ॥
View Verse
आनीय भगवद्भक्तान् शुभाः कन्याः स्रियस्तथा।
पञ्चगव्येन पूतांश्च दन्तधावनपूर्वकम् ॥ 13 ॥
View Verse
पुष्पाञ्जलिभृतश्चैव बद्धाक्षान्नववाससा।
आपादमूर्धपर्यन्तमेकसूत्रं प्रकल्पयेत् ॥ 14 ॥
View Verse
त्रिगुणं त्रिगुणग्रन्थींस्तत्सूत्रे तत्त्वसंख्यया।
कृत्वा मूर्धादिपादान्तं बावयेत्तत्त्वपद्धतिम् ॥ 15 ॥
View Verse
ईशकालादि भूम्यन्तं सप्तविंशतिसंख्यया।
तत्त्वानि ग्रन्थयो ज्ञेया ग्रन्थिस्थास्तु गुणास्त्रयः ॥ 16 ॥
View Verse
मायाविद्याक्रियात्मानस्ते पाशाः परिकीर्तिताः।
स्थूलसूक्ष्मात्मको देहः शुभाशुभफलप्रदः ॥ 17 ॥
View Verse
रञ्जितोऽयं गुणैश्चित्रैरशेषकलुषास्पदम्।
संपातहोमकर्मान्ते देहं सूत्रमयं स्वयम् ॥ 18 ॥
View Verse
छित्वा छित्वा तु होतव्यं भोगनिर्मूलकारणम्।
ललाटे चेश्वरं ध्यायेच्चिद्रूपं सर्वतोमुखम् ॥ 19 ॥
View Verse
स्वबीजेन स्थितं ध्यात्वा जुहुयात्तत्त्वसंख्यया।
सिन्दूरपुञ्जसंकाशं प्रधानं भ्रूयुगे स्मरेत् ॥ 20 ॥
View Verse
तालुमूर्ध्नि स्थितां बुद्धिं पूर्णेन्दुकिरणोपमाम्।
तालुमध्ये त्वहंकारं कुसुमाभं विचिन्तयेत् ॥ 21 ॥
View Verse
प्रस्फुरत्तारकाकाराञ्छ्रोत्रादीन् पञ्च चिन्तयेत्।
हृन्नाब्योः पञ्चधा मद्ये वागादीनि स्मरेत्तथा ॥ 23 ॥
View Verse
स्मरेच्छब्दादितन्मात्रा नाभिबस्त्यग्रमध्यमे।
ऊर्वोराचरणद्वन्द्वात् स्थूलभूतानि संस्मरेत् ॥ 24 ॥
View Verse
स्वैः स्वैर्बिम्बैः समेतानि ताराकाराणि तान्यपि।
उच्चार्य प्रणवं तत्र तत्तद्बीजं समुच्चरेत् ॥ 25 ॥
View Verse
तत्त्वसंज्ञां ततः स्वाहा संपाताहुतिरीदृशी।
गुरुः संपातहोमान्ते स्वयं लक्ष्मीमयो भवन् ॥ 26 ॥
View Verse
पूर्णाहुतिं ततो दद्यात्तारया वौषडन्तया।
एवं संपातहोमान्ते सूत्रं तद्ग्रन्थिमद् दृढम् ॥ 27 ॥
View Verse
शरावसंपुटान्तःस्थं विनिवेद्य मदन्ततः।
आनीतस्याथ शिष्यस्य नेत्रबन्धं विघट्टयेत् ॥ 28 ॥
View Verse
प्रदत्तपुस्तकं सम्यग्गुरुं स्वमभिवादयेत्।
स शिष्योऽग्निसमीपस्थो जुहुयात्तारया धिया ॥ 29 ॥
View Verse
अङ्गैरुपाङ्गैर्लक्ष्म्यादिपरिवारैश्च सर्वशः(सर्वतः B. F.)।
अधिकारी भवत्येवं (जपने B. F.)जपेऽग्नौ श्रवणेऽर्चने ॥ 30 ॥
View Verse
दीक्षायामध्वशुद्ध्यर्थं मूलाद्यैर्जुहृयात्ततः।
तिलेन चापि जुहुयाच्छताद्यं तु दशावरम् ॥ 31 ॥
View Verse
पूर्णाहुतिं घृतेनैव तारयैव तु पातयेत्।
एषा दीक्षा भवेन्मान्त्री सर्वमन्त्रवियोजनी ॥ 32 ॥
View Verse
एतावत्यधिकारे तु शिष्यान् भोगैकलम्पटान्।
ग्राहयेदीप्सितान् मन्त्रान् प्रकृतिप्राकृतांस्तु वा ॥ 33 ॥
View Verse
ओं बीजं तत्त्वसंज्ञां च (शुद्धया स्वाहया C.)शोधयस्वाभिधान्वयात्।
आहुतीनां दशावृत्त्या सम्यग्ध्यानसमन्वयात् ॥ 36 ॥
View Verse
क्षित्यादिरीश्वरान्तः स्यात्तत्त्वग्रामो विशोधितः।
होमादौ दीक्षणीयस्य संज्ञा योज्या यथार्थतः ॥ 37 ॥
View Verse
बद्धपद्मासने शिष्ये सद्गुरुः स्वसमीपगे।
ध्यायेद्भूम्यन्तमीशाद्यं समग्रां तत्त्वपद्धतिम् ॥ 38 ॥
View Verse
निरीक्ष्य लक्ष्मीनेत्राभ्यां लक्ष्मीहस्तेन संस्पृशेत्।
उपसंहृत्य भूम्याद्यामीशाद्यां तु पुनः सृजेत् ॥ 39 ॥
View Verse
इत्थं शिष्यतनुस्थानां तत्त्वानां जडरूपिणाम्।
आवहत्याशु संबोधं दीक्षा ध्यानमयी त्वियम् ॥ 40 ॥
View Verse
पाशसूत्रमथाधाय शरावद्वयमध्यगम्।
गत्वा कुण्डसमीपं तु तदुत्सार्य निधाय च ॥ 41 ॥
View Verse
हृदये ताडयेच्छिष्यं तारया हुंफडन्तया।
शिष्यं भूतत्त्वगं स्मृत्वा तद्भोगान् भोजयेद्धिया ॥ 43 ॥
View Verse
समाप्ताखिलभूभोगं तत उद्धृत्य योजयेत्।
अप्तत्त्वे तत्र चाप्येवं मत्वेशाद्विधिरीदृशः ॥ 44 ॥
View Verse
तारया साङ्गया हुत्वा छित्वा ग्रन्थिं तु पार्थिवम्।
निधाय स्रुचि संपूर्य सर्पिषा जुहुयात्तया ॥ 45 ॥
View Verse
तारिकायाः परे भावे कुण्डस्थे ज्वलनत्विषि।
अप्तत्त्वं क्रामयेत्सूक्ष्मं तदप्येवं तु होमयेत् ॥ 46 ॥
View Verse
तत्सूक्ष्मं क्रामयेद्वह्निं जुहुयात् पूर्णया च तत्।
एवं क्रमेण हुत्वा तु पूर्णाहुतिपरंपराम् ॥ 47 ॥
View Verse
प्रकृतिं पुरुषं नीत्वा पुरुषं चेश्वरं नयेत्।
ईश्वरात् परमं तत्त्वं तत्त्वग्रामे न विद्यते ॥ 48 ॥
View Verse
स्थूलसूक्ष्मपराकारा शक्तिरीश्वररूपिणी।
पुरुषो हीश्वरात्तत्त्वादधो यातो यतोऽशुचिः ॥ 49 ॥
View Verse
प्राप्य तत् परमं तत्त्वं शुचिरेव भवत्ययम्।
विश्वात्मा विश्वतश्चक्षुस्ततो दीक्ष्यो भवत्ययम् ॥ 50 ॥
View Verse
भोगमोक्षप्रसिद्ध्यर्थं स्यातां पूर्णाहुती ततः।
सकलं निष्कलं शिष्यं ध्यात्वा स्रुचि घृतं तथा ॥ 51 ॥
View Verse
द्वयं तदेकीकुर्वन् वै परातीतः स्थितो गुरुः।
ध्यायन् विज्ञानशब्दात्मा पश्यन्तीरूपमुत्तमम् ॥ 52 ॥
View Verse
तारिकायाः परं भावमनुच्छ्रायमनाहतम्।
तेन शिष्यं समीकुर्वंस्तारया वौषडन्तया ॥ 53 ॥
View Verse
पूर्णाहुत्याथ शिष्यस्य स्थितये देहपातनात्।
नमोऽन्तया ध्रुवाद्येवं तारया जुहुयाद्बहु ॥ 54 ॥
View Verse
तत्र पूर्णाहुतिं दत्वा महापूर्णमथ क्षिपन्।
शिष्यं गुरुः स्वमात्मानं मां च लक्ष्मीं सनातनीम् ॥ 55 ॥
View Verse
क्षीरे क्षीरमिव ध्यायेत् सर्वं मयि समीकृतम्।
एवं लक्ष्मीमयीकृत्य शिष्यं विज्ञानवायुना ॥ 56 ॥
View Verse
आकृष्य क्रमतो मन्त्रमिमं संश्रावयेत् पुन।
हृदये स्थापयित्वा मां तारामुपदिशेत्ततः ॥ 57 ॥
View Verse
अङ्गोपाङ्गादिकं सर्वं शास्त्रीयं क्रममेव च।
दिशेत् सामयिकं धर्मं मन्त्रगुप्त्यादिकं हि यत् ॥ 58 ॥
View Verse
विष्णुहस्तं ततो दद्यान्मूर्ध्नि पृष्ठे हृदन्तरे।
तदङ्गं मुद्रयालक्ष्य शिष्येणाराधयेत्तु(धारयेत्तु B.) माम् ॥ 59 ॥
View Verse
तारया कुम्भमादाय यत्रेष्टं गुरुणा पुरा।
अङ्गोपाङ्गादिसंयुक्तां तारिकां मनसा गृणन् ॥ 60 ॥
View Verse
अभिषिञ्चेद्गुरुः शिष्यं प्रसन्नेनान्तरात्मना।
लब्धरूपस्ततः शिष्यः संसाराम्बुधिपारगः ॥ 61 ॥
View Verse
महता विभवेनाथ गुरुयागं समाचरेत्।
कृत्वा त्वाधारशक्त्यादि गुरुं तत्र निवेश्य च ॥ 62 ॥
View Verse
अर्घ्याद्यैः पूजयेत् सर्वैः स्वर्णरत्नादिभिस्तथा।
आशितं तर्पितं पश्चान्मन्त्रेणानेन पूजयेत् ॥ 63 ॥
View Verse
अज्ञानगहनालोकसूर्यसोमाग्निमूर्तये।
दुःखत्रयाग्निसंतापशान्तये गुरवे नमः ॥ 64 ॥
View Verse
गृहीत्वा तु ततोऽनुज्ञां मन्त्रमावर्तयेत्ततः।
साधयेच्च यथाकामं यावद्यावदभीप्सति(After verse 65, the Telugu printed editon has the following additional passages within brackets:) ॥ 65 ॥
View Verse
शक्रः---
पद्मे त्वयोक्तदीक्षायां दीक्षिता ये मधुद्विषः।
पूजायामधिकारो हि तेषां वान्यस्य नेश्वरि ॥
View Verse
श्रीः---
इन्द्रेदं परमं गुह्यं स्नेहात्ते कथयाम्यहम्।
मोक्षार्थं दीक्षिता भूमौ सन्ति वर्णत्रयेषु च ॥
View Verse
सर्वे तेऽनधिकारा हि परार्थयजने तथा।
तेषां मद्ये महाभागा विष्णुपादार्पिताशयाः ॥
View Verse
परमैकान्तिनो लोके मुनयोऽष्टौ शतं हिते।
काण्वमाध्यंदिनविदः पञ्चरात्रपरायणाः ॥
View Verse
शरणागतिधर्मज्ञा द्वयाग्र्यमनुतत्पराः।
कात्यायनमुनिप्रोक्तसूत्रकर्मक्रियाश्रिताः ॥
View Verse
काश्यपो गौतमश्चाथ भृगुराश्वलायनोऽङ्गिराः।
इत्यादयो मुनिश्रेष्ठाः परार्थयजने हरेः ॥
View Verse
साधिकारा भवन्त्यन्ये यजने नाधिकारिणः।
एते भक्ता मम हरेः प्रिया भागवता इणे ॥
View Verse
अन्ये भागवता नैव पूजायामावयोर्द्वयोः।
भक्त्या भागवताश्चान्ये यद्वा भगवतो हरेः ॥
View Verse
सुभक्ताश्चेतरे लोके प्रोक्ता भागवता इति।
काश्यपादिमुनिश्रेष्ठगोत्रजेर्हि परार्चना ॥
View Verse
कार्या भागवतैरन्यैः कृता यदि परार्चना।
मोहेन राजराष्ट्राणां बलाद्दोषो भविष्यति ॥
View Verse
ततः समस्तयत्नेन कार्यो भागवतैः सदा।
काश्यपाद्यन्वयभवो दीक्षितो यो निरक्षरः ॥
View Verse
इति दीक्षाभिषेकौ ते वर्णितौ बलसूदन।
सम्यक्समाधिसंपाद्यं किं भूयः श्रोतुमिच्चसि ॥ 66 ॥
View Verse

Chapter - 42

द्विचत्वारिंशोऽध्यायः - 42
शक्रः---
संसारसागरोत्तारपोतपादाम्बुजद्वये।
हृषीकेशमहिष्यै ते भूयो भूयो नमो नमः ॥ 1 ॥
View Verse
त्वत्प्रसादान्मया देवि श्रुतो दीक्षाविधिः क्रमात्[^1]।
तारिकाया वदाब्जस्थे पौरस्चरणिकीं क्रियाम् ॥ 2 ॥
View Verse
श्रीः---
अहं नारायणी नाम शक्तिर्नारायणाश्रिता।
तस्या मे परमा पूर्तिस्तारिका भुवनेश्वरी ॥ 3 ॥
View Verse
तस्या मे पिण्डभूतायाः शृणु साधनसंपदम्।
कृष्णाष्टमीं समारब्य यावत्कृष्णचतुर्दशी ॥ 4 ॥
View Verse
स कालस्तारिकासिद्धौ तन्त्रज्ञैः संप्रदर्शितः।
महापापैरसंस्पृष्टः प्रख्यातैरतिपातकैः ॥ 5 ॥
View Verse
नास्तिक्यात्प्रच्युतो भावान्निन्दिताभ्यासवर्जितः।
भूतेषु भावयन्मैत्रीं कृतपापानुतापवान् ॥ 6 ॥
View Verse
उच्चापचानि पापानि प्रायश्चित्तैः शमं नयेत्।
ब्रह्मचारी हविष्याशी सत्यवादी दृढव्रतः ॥ 7 ॥
View Verse
संनिधौ मनसा विष्णोरोंकारं नियुतं जपेत्।
महाव्याहृतिभिर्होमानयुतं सर्पिषाचरेत् ॥ 8 ॥
View Verse
सावित्र्या च तिलैर्होमं तावत्संख्यं समाचरेत्।
महापापातिपाप्मानौ विहाय प्रथितौ कृतौ ॥ 9 ॥
View Verse
एतादृशं विधिं कृत्वा प्रणवादित्रयेण तु।
महापापातिपापाद्यैरप्रकाशैर्विमुच्यते ॥ 10 ॥
View Verse
उपवासादिभिस्तद्वत् प्रकाशैरपि चेतरैः।
तिस्रो वोपवसेद्रात्रीरघमर्षणतत्त्ववित् ॥ 11 ॥
View Verse
त्रिरह्नस्रिर्निशायाश्च सवासा जलमाविशेत्।
प्रतिसंद्ये निमज्जं स्रिस्रिर्जपन्नघमर्षण् ॥ 12 ॥
View Verse
प्रतिमज्जनमेवं तु क्षपयेत्तत् त्रिरात्रकम्।
चतुर्थेऽहनि वै दद्याद् ब्राह्नणाय पयस्विनीम् ॥ 13 ॥
View Verse
एवं पूतो भवेत् प्राग्वदशेषेणापि चांहसा।
आत्मानमभिषिञ्चेद्वा त्रिसंध्यं पञ्चगव्यतः ॥ 14 ॥
View Verse
तिस्रो नीत्वा क्षपा एवं मुच्यते सर्वकिल्बिषैः।
तारादिपञ्चकं तेषामेकैकमथवा(अपि वा B. F.) धिया ॥ 15 ॥
View Verse
जपन् पिबन् समीक्षेत वैष्णवं विमलोज्ज्वलम्।
अहोरात्रकृतैरेवं मुच्यते सर्वपातकैः ॥ 16 ॥
View Verse
भुवने यान्ति ये विष्मुमपापा धर्मतत्पराः।
तस्पङ्‌क्तिस्थोऽपि वा भुक्त्वा मुच्यते सर्वपातकै ॥ 17 ॥
View Verse
धर्मैः पापं क्षयं नीत्वा महर्षिगणसंमतैः(संमितैः G.)।
तारिकामाश्रयेत् पश्चाद्भवसागरतारिकाम् ॥ 18 ॥
View Verse
उपोष्य विधिवन्मन्त्री कृष्णपक्षस्य सप्तमीम्।
स्थित्वा संध्यामथाष्टम्यां तारिकाजपमाचरेत् ॥ 19 ॥
View Verse
अनुज्झन विहितं कर्म काम्यान्तरविवर्जितः।
दिव्ये सैद्धे तथैवार्षे विष्णोरायतनेऽमले ॥ 20 ॥
View Verse
पर्वताग्रे नदीतीरे गोष्ठे बिल्ववनेऽपि वा।
पयोयावहविष्याणामशन्नन्यतमं सकृत् ॥ 21 ॥
View Verse
जपं द्वादशसाहस्रं कुर्याद्वै सप्त वासरान्।
दशांशं तर्पणं कुर्यादाहुतीश्चापि सर्पिषा ॥ 22 ॥
View Verse
अनेन वर्तमानस्य विधिना तारिकाविधौ।
चतुर्दशीनिशीथे चेच्छुभं पश्यति दर्शनम् ॥ 23 ॥
View Verse
सुराकुम्भस्य लाभो वा सुरापानमथापि वा।
स्रिया कामाबिषेको वा दर्शनं सुदृशोऽथवा ॥ 24 ॥
View Verse
तया वालिङ्गनं भावात् सह भोगोऽथवा तया।
मन्त्रसिद्धेस्तयोक्तिर्वा फललाभोऽथवा ततः ॥ 25 ॥
View Verse
सौम्यस्य दर्शनं वापि मिथुनस्य सुरूपिणः।
राज्ञो वा दर्शनं राजमहिष्या वाथ दर्शनम् ॥ 26 ॥
View Verse
नारायणस्य वा साक्षात् स्वप्ने दृष्टिर्ममापि वा।
पतिव्रातादर्शनं वा वैष्णवैर्वा समागमः ॥ 27 ॥
View Verse
यच्चान्यत् स्वप्नशास्त्रेषु शब्द्यते शुभदर्शनम्।
लब्धाशस्तत उत्थाय त्यक्तनिद्रो जितक्लमः ॥ 28 ॥
View Verse
आचम्य प्रयतो मन्त्री स्मरेन्मां संस्तरे निशाम्।
अथ प्रातः समुत्थाय कृतसंद्याविधिक्रमः ॥ 29 ॥
View Verse
तुल्यशीलवयोरूपौ सुरूपौ धर्मतत्परौ।
अदीनाकृपणाकारौ रूपवन्तौ मनस्विनौ ॥ 30 ॥
View Verse
दंपती यौवनावस्थौ प्रसन्नमृदुभाषिणौ।
आहूय स्नापयित्वा तौ लक्ष्मीनारायणात्मकौ ॥ 31 ॥
View Verse
भूषयित्वा च वस्राद्यैरकुर्वन् वित्तवञ्चनाम्।
आशितौ लिप्तगन्धाङ्गौ दक्षिणापरितोषितौ ॥ 32 ॥
View Verse
प्रार्थयेत्तारिकासिद्धिं लक्ष्मीनारायणात्मना।
अस्त्वेवमिति वाक्यान्ते [^4]तावावां शरणं व्रजेत् ॥ 33 ॥
View Verse
वाचयित्वा ततः स्वस्ति वैष्णवान् वेदवित्तमान्।
द्विजाग्र्यांस्तर्पयित्वाथ वर्तेताभीष्टसंपदे ॥ 34 ॥
View Verse
चतुर्दशीनिशायां चेन्न पश्येत् स्वप्नदर्शनम्।
अमावास्यां समारब्य यावत्कृष्णस्य (प़ञ्चमी B. G.)सप्तमी ॥ 35 ॥
View Verse
तावन्तं व्रतवानेव वर्तयेत् कालमप्यथ।
त्रिसहस्रं जपं कुर्वन्नेकभुक्तेन वर्तयन् ॥ 36 ॥
View Verse
मद्ये कौमारदाराणामृतुं प्राप्तमलङ्घयन्।
अनिन्दन् कामिनीवृत्तं दंपती नन्दयन् धिया ॥ 37 ॥
View Verse
ऋते पापं प्रियं कुर्वन् कामिनीनामलोलुपः।
ततः कृष्णाष्टमीं प्राप्य पूर्ववज्जपमाचरेत् ॥ 38 ॥
View Verse
कुर्वन् होमादिकं सर्वं स्वप्नदृष्टौ निवर्तयेत्।
यावच्चिह्नानि संपश्येत् तावदेवं समाचरेत् ॥ 39 ॥
View Verse
सिद्धायां तारिकायां तु सर्वं च लभते नरः।
सम्यक्कर्ता च शास्त्राणामद्यात्मगतिकोविदः ॥ 40 ॥
View Verse
सर्वतन्त्रविधानज्ञः सर्ववेदान्तपारगः।
सर्वसंदेहनिर्भेदी सर्वनिर्णयपारगः ॥ 41 ॥
View Verse
यथार्थवागृजुर्वाग्मी धर्मसागरपारगः।
परस्य स्वस्य वायं हि विनियोगं चिकीर्षति ॥ 42 ॥
View Verse
निग्रहेऽनुग्रहे वापि स स सिध्यति सर्वदा।
शक्रः---
नमः संपूर्णषाड्‌गुण्यविग्रहायै हरिप्रिये ॥ 43 ॥
View Verse
अरविन्दगृहायै ते गोविन्दगृहमेधिनि।
त्वन्मुखाब्जाच्छ्रता सिद्धिस्तारिकाया विशेषिणी ॥ 44 ॥
View Verse
स्थूलसूक्ष्मपराकारा यथावच्च प्रदर्शिताः(प्रकाशिता C.)।
साधिताया विधानेन तारायास्त्रिविधात्मनः ॥ 45 ॥
View Verse
विनियोगमिदानीं मे वक्तुमर्हसि पद्मजे।
श्रीः---
एकः षाड्‌गुण्यपूर्णात्मा हंसो नारायणो वशी ॥ 46 ॥
View Verse
हंसी शक्तिरहं तस्य वशिनी सर्वकामदा।
हंसो हंसी च तावावामुदितौ तारिकात्मना ॥ 47 ॥
View Verse
तस्या अस्मत्स्वरूपाया विनियोगं निबोध मे।
नानाविधेषु मन्त्रेषु बाह्यान्तरविभागतः ॥ 48 ॥
View Verse
यावन्तो यादृशा ये च मन्त्राः सन्ति परावराः।
तदीया विनियोगा ये यावन्तः सन्ति यादृशाः ॥ 49 ॥
View Verse
तावन्तस्तादृशास्तेऽस्या विनियोगा न संशयः।
तथापि विनियोगान्मे कांश्चिच्छक्र निशामय ॥ 50 ॥
View Verse
धर्मार्थकाममोक्षेषु सद्यः प्रत्ययकारकान्।
कृष्णाजिनोत्तरासङ्गां कृष्णाजिननिवासिनीम् ॥ 51 ॥
View Verse
कृष्णाजिनाम्बरां त्रस्तकृष्णशाबशुभेक्षणाम्।
पूर्णचन्द्रनिभां ध्यात्वा ब्रह्ममुद्राक्षसूत्रिणीम् ॥ 52 ॥
View Verse
सरोरुहे दधानां चाप्यपरस्मिन् करद्वये।
इत्थं मामम्बुजाक्षं वा देवदेवं जनार्दनम् ॥ 53 ॥
View Verse
ध्यात्वा लक्षं जपेत्तारां धर्मः प्रत्यक्षतामियात्।
विभुसंख्यामितान्प्रस्थाञ्शालीनां तण्डुलात्मनाम् ॥ 54 ॥
View Verse
सर्पिषस्तावतः प्रस्थान् शर्करायाः पलानि च।
गुडस्य वापि तावन्ति पाचयेदेकपात्रगान् ॥ 55 ॥
View Verse
पयसा तावता तुल्यं विधिना सुशृतं हविः।
शुक्लप्रतिपदः प्रातरुदितेऽर्धेन भास्करे ॥ 56 ॥
View Verse
एकाहुत्यैव जुहुयान्महापात्रस्थितं हविः।
त्रिष्टुभा जातवेदस्या तारिकाद्यन्तरुद्धया ॥ 57 ॥
View Verse
महाकुण्डे महावह्नौ यन्त्रयोगेन बुद्धिमान्।
अथ प्रातः समारभ्य यावदस्तमयं रवेः ॥ 58 ॥
View Verse
अविच्छिन्नं (तु B. C.)च जुहुयात् स्रुवेणैव गतक्लमः।
सपिषा संस्कृतेनैव तादृस्या त्रिष्टुभा सुधीः ॥ 59 ॥
View Verse
प्रातरारभ्य शाल्यन्नं पयोदध्याज्यसंस्कृतम्।
एकैकं भोजयेद्विप्रं प्रातरारभ्य संततम् ॥ 60 ॥
View Verse
वाचयित्वा द्विजानन्ते तर्पयेद्वेदवित्तमान्।
दंपती वैष्णवौ चैवं लक्ष्मीलक्ष्मीशसंज्ञया ॥ 61 ॥
View Verse
य एवमाचरेद्धीरो व्यवसायसहायवान्।
कोटिसंक्यमनौपम्यमक्षयं लभते निधिम् ॥ 62 ॥
View Verse
इमं शृणु महाश्चर्यं प्रयोगं पाकशासन।
तारामादाय पूर्वं तु योजयेत् सुभगेपदम् ॥ 63 ॥
View Verse
स्वाहां संयोजयेत् पश्चात्तारिकेयं षडक्षरा।
उपोष्यैव(एवं B.) चतुर्दश्यां पौर्णमास्यामुपक्रमेत् ॥ 64 ॥
View Verse
जपेद्दशसहस्रं तामारामे शोभनद्रुमे।
आसीनो मध्यतः सम्यक्पूर्णकुम्भप्रदीपयोः ॥ 65 ॥
View Verse
ध्यायन्मां पद्मगर्भाभां पङ्कजद्वयधारिणीम्।
द्विभुजामसितापाङ्गीं नीलकुञ्चितमूर्धजाम् ॥ 66 ॥
View Verse
स्मितपूर्णमुखीं रम्यां पीनोन्नतपयोधराम्।
सर्वाभरणसंपूर्णां दुकूलोत्तमवासिनीम् ॥ 67 ॥
View Verse
सुशुभां सुभगामित्थं ध्यायञ्जपमथाचरेत्।
तर्पयेज्जुहुयाच्चैव दशांशं तारयानया ॥ 68 ॥
View Verse
बलिं दद्याच्च शाल्यन्नं पयोघृतगुडान्वितम्।
स्रियं लक्षणसंपन्नां पूजितां भोजयेत्सुधीः ॥ 69 ॥
View Verse

Chapter - 43

त्रिचत्वारिंशोऽध्यायः - 43
श्रीः---
शृणु वक्ष्ये परां सिद्धिं नानायोगसमुत्थिताम्।
विद्यायाः पिण्डभूतायास्तारिकायाः सुरेश्वर ॥ 1 ॥
View Verse
युञ्चीत विधिवद्योकी तारिकां देहगोचरे।
नासिकाग्रे च जिह्वाग्रे जिह्वाया मध्यमूलयोः ॥ 2 ॥
View Verse
तत्त्वात्तत्त्वान्तरं यास्यन् संख्यया संख्यया जपेत्।
द्विश्चतुः षट् तथाष्टौ च दशषोडशवारकम् ॥ 4 ॥
View Verse
चतुर्विंशतिवारं(संख्यं C.) च बुद्ध्यन्ते प्रकृतिं स्मरेत्।
अशीतिं संसंमरेत्तारां तत्र जीवं विचिन्तयेत् ॥ 5 ॥
View Verse
यावान् यादृक् च यश्चायं शतं तत्राचरेज्जपम्।
अव्यक्तचेतनाधारं पुष्करं तदधः स्मरेत् ॥ 6 ॥
View Verse
तत्त्वाद्यवयवाधारमनन्तं तत्त्ववाहकम्।
पद्माकारं विचिन्त्यैतज्जपेत्सार्धं शतं सुधीः ॥ 7 ॥
View Verse
ततस्तन्नालम्यक्तकालजीवाक्षरात्मकम्।
खं यत्तु(यत्र B.) तत्र कालस्तत्तमोऽन्तःसुषिरूपकम् ॥ 8 ॥
View Verse
यस्त्वन्तश्चेतनःसोऽयमिति तत्त्रितयात्मकम्।
चिन्तयित्वा यथावत्तदाचरेद् द्विशतं जपम् ॥ 9 ॥
View Verse
नालादधोऽनिरुद्धाख्यशक्तिं(अनिरुद्धाख्यां शक्तिं C. G.) मां भगवन्मयीम्।
संस्मरन् रूपकालाद्यैराचरेत्तु शतं जपम् ॥ 10 ॥
View Verse
प्रद्युम्नशक्तिं तदधो जपसंख्या च तादृशी।
अधः सांकर्षिणीं शक्तिं जपसंख्या च तादृशी ॥ 11 ॥
View Verse
सर्वोधो वासुदेवाख्यं(वासुदेवाख्य C.) दांपत्यं स्थूलरूपकम्।
ततः सूक्ष्मं परं तस्मात् परातीतं तु सर्वतः ॥ 12 ॥
View Verse
लक्ष्मीनारायणाभासमनिर्देश्यमनौपमम्।
सर्वतः शक्तिशक्तीशस्पन्दमानमनाविलम् ॥ 13 ॥
View Verse
प्राप्य योगमयीं निद्रां निद्रामेवं समाविशेत्।
उत्थायापररात्रे तु द्वादशैतास्तु धारयेत् ॥ 14 ॥
View Verse
वासुदेवादिभूम्यन्तं तत्संख्यानविधिक्रमात्।
हृदि वा धारयेदेताः समस्ता अपि धारणाः ॥ 15 ॥
View Verse
धारणा द्वादशैवैतास्तारिकायामथापि वा।
एष सर्वहितो योगो यत्तत्त्वैस्तत्र भूयते ॥ 16 ॥
View Verse
प्रतिसंहृत्य वा सर्वं व्यक्ताव्यक्तमयं पदम्।
निरालम्बं मनः कृत्वा शून्यभावं समाविशेत् ॥ 17 ॥
View Verse
शून्याकारसमाकारं संपूर्णमिव वारिधिम्।
आविशामि महायोगं शून्यभावनिवेशितम् ॥ 18 ॥
View Verse
यदा स्तिमितनिःशब्दनीरदानन्दसंनिभम्।
योगी भवति युञ्जानः स योगी मत्प्रियः सदा ॥ 19 ॥
View Verse
यत्र ध्येयमवच्छिन्नं (B. omits this and the next quarters.)नैव किंचन विद्यते।
अज्ञेयमनवच्छिन्नं तद्रूपं मद्वपुः स्फुटम् ॥ 20 ॥
View Verse
आत्मसात्कुरुते योगी ज्ञेयं सकलमक्रमम्।
वितता सा महाज्वाला निस्तरङ्गा तनुर्मम् ॥ 21 ॥
View Verse
हूयन्ते मनसा यत्र भूतानि भुवनानि च।
सर्वभावस्तदा शश्वद्भावो मे प्रविजृम्भते ॥ 22 ॥
View Verse
स्रुचा च मनसा हुत्वा भूताक्षभुवनादिकम्।
तां च स्रुचं प्रहृत्याथ योगिना भूयते मया ॥ 23 ॥
View Verse
यदवच्छिद्यते येन तत्तु तस्मान्महत्तरम्।
धियावच्छिद्यते सर्वं यद्यदस्ति च नास्ति च ॥ 24 ॥
View Verse
सा नावच्छिद्यतेऽन्येन तनुः सा मे निरञ्जना।
धियो नैतौ बहिर्भूतावभावो भाव एव वा ॥ 25 ॥
View Verse
अनालीढौ धिया न स्तः सा मे तनुरनञ्जना।
यदातिक्रम्य मर्यादां जलधिः प्लावयेज्जगत् ॥ 26 ॥
View Verse
तदा न स्थलनिम्ने स्तस्तथा मय्यखिलं जगत्।
नेदमल्पात्मना शक्यमास्थातुं परमं पदम् ॥ 27 ॥
View Verse
कुर्याद्विच्छिद्य विच्छिद्य योगमेतदवाप्तये।
भावे भावे शुभेऽन्यत्र भूते भवति भाविनि ॥ 28 ॥
View Verse
स्मरेत् सारतरं रूपं परमं पारमेश्वरम्।
संभरन्ति प्रसूनेषु मधु सर्वेषु षट्‌पदाः ॥ 29 ॥
View Verse
संभरन्ति तथैकां मां सर्वभावेषु योगिनः।
यत्र यत्र मनो याति लक्ष्मीं तत्रैव चिन्तयेत् ॥ 30 ॥
View Verse
चलित्वा तत् कुतो याति सर्वं तन्मन्मयं हि यत्।
तत्त्वानां पद्धतिं मालां मत्सूत्रग्रथितां स्मरेत् ॥ 31 ॥
View Verse
मयि वा भित्तिभूतायां चित्रवत् संस्मरेज्जगत्।
स्तिमितापारगम्भीरे फेनपिण्डं यथाम्बुधौ ॥ 32 ॥
View Verse
स्मरेत् क्रमोत्क्रमाभ्यां वा प्रमात्रादिचतुष्टयम्।
प्रभवन्तीं मदाकारादपि(मदाकारामपि G.) यान्तीं च तां पुनः ॥ 33 ॥
View Verse
पुमानाद्यो मदुन्मेषः स मत्संकल्पकल्पितः।
अन्तःकरणसंज्ञोऽन्यो मदुन्मेषोऽधरावनौ ॥ 34 ॥
View Verse
बहिष्करणरूपोऽन्यस्तृतीयस्तदधः क्षितौ।
भावरूपः प्रमेयात्मा तुर्योऽयमधराधरः ॥ 35 ॥
View Verse
मत्संकल्पवशेनैव सदानन्दचिदात्मिकाम्।
भावयन्ननिसं शश्वत् क्रमव्युत्क्रमतो धिया ॥ 36 ॥
View Verse
इमां चतुष्टयीं हित्वा मद्भावं प्रतिपद्यते।
विज्ञानाधारभूतेषु द्वात्रिंशत्यम्बुजेषु वा ॥ 37 ॥
View Verse
ध्यायेद्दीपशिखाबां मामथवा रूपसुन्दरीम्।
आधारपद्मादारभ्य नाबिपद्मादधो भुवि ॥ 38 ॥
View Verse
षट् पद्मा योगिनां चिन्त्यास्तेषां नामानि मे शृणु।
व्युच्छन्ती व्युषिता व्युष्टा व्युषुषी व्योषुषी रमा ॥ 39 ॥
View Verse
नाभिपद्माद्धृदम्भोजात् पञ्च पद्मान् प्रचक्षते।
पश्यन्ती नाभिपद्माख्या पश्या पश्येतरात्मिका ॥ 40 ॥
View Verse
दृश्या च दृश्यमाना च हृदयं पङ्कजाह्वयाः।
हृत्कण्ठान्तरमद्याच्च पञ्चपद्माह्वयाञ्शृणु ॥ 41 ॥
View Verse
बोधयन्ती च बोद्ध्री च बुध्यमाना तथेतरा।
घोषोन्मेषा च संज्ञाः स्युः कण्ठहृन्मध्यपद्मगाः ॥ 42 ॥
View Verse
कण्ठताल्वन्तराम्भोजपञ्चकाख्या इमाः शृणु।
घोषयन्ती च घुष्यन्ती घुष्टा(पुष्यन्ती पुष्टा B.) घोषा तथेतरा ॥ 43 ॥
View Verse
तालुभ्रूमध्यदेशस्था पञ्चपद्माह्वया इमे।
ग्राहयन्ती च गृह्णाना जिघृक्षा च गृहीतिका ॥ 44 ॥
View Verse
निर्णीतिरिति तालुभ्रूमध्याम्भोजगणाभिधाः।
भ्रूमूर्धमध्यपद्मानां षण्णामाक्या इमाः शृणु ॥ 45 ॥
View Verse
प्राणयन्ती प्राणती च प्राणा प्राणावबोधिनी।
परा बोधेति ता एता भ्रूमध्यान्तःस्थपद्मगाः ॥ 46 ॥
View Verse
रत्नदीपशिखाभेषु भावयेन्मां क्रमोत्क्रमात्।
गृणन्मां तारिकां दीर्घां दीर्घघण्टानदोपमाम् ॥ 47 ॥
View Verse
इत्थं मां चिन्तयन् योगी सुरूपां वापि संस्मरन्।
विहाय सकलं क्लेशं मद्भावं प्रतिपद्यते ॥ 48 ॥
View Verse
लक्षयेद्वापि पद्मेषु नवस्वेषु क्रमोत्क्रमात्।
आधारे त्रीणि पद्मानि हृदयाधोऽम्बुजत्रयम् ॥ 49 ॥
View Verse
मूर्ध्नोऽधस्रीणि पद्मानि नवपद्मविधिक्रमः।
द्वादशस्वथवाब्जेषु मूर्धाद्येषु द्विके द्विके ॥ 50 ॥
View Verse
षट्‌सु वा प्रथमाब्जेषु त्रिषु वा मूलहृद्भुवि।
भ्रूमध्ये चिन्तयेद्वापि तारिका तारनादिनीम् ॥ 51 ॥
View Verse
तद्बिन्दुं चिन्तयेत् पूर्वं मुद्गमात्रं सुभास्वरम्।
ततः सर्षपमात्रं तु (ततश्चित्त A. B.)ततश्चित्रमनाकृतिम् ॥ 52 ॥
View Verse
यो यो वा गृह्यते भावो घटकुड्यादिरूपवान्।
चिन्तयेत्तत्र तत्त्वानि यानि यावन्ति शास्त्रतः ॥ 53 ॥
View Verse
मन्मयीकृत्य तत्रैतान्यहंभावनया स्मरेत्।
हेतुमद्धेतुभूतानि लोके वस्तूनि यानि वा ॥ 54 ॥
View Verse
आश्रिताश्रयरूपाणि यानि स्वच्छघनानि वा।
भावतद्वत्स्वरूपाणि शुभाशुभमयानि च ॥ 55 ॥
View Verse
प्रसवाप्रसवात्मानि गुणगुण्याकृतीनि वा।
आधाराधेयभूतानि शक्तितद्वन्मयानि वा ॥ 56 ॥
View Verse
भोग्यभोक्तृस्वरूपाणि नारीनरमयानि वा।
क्रियाकर्तृस्वरूपाणि ह्युपायोपेयकानि वा ॥ 57 ॥
View Verse
स्रीपुंप्रत्ययरूपाणि शब्दरूपाणि यानि वा।
द्वन्द्वभूतानि वस्तूनि लोकेऽस्मिन् यानि कानिचित् ॥ 58 ॥
View Verse
तानि योगी धिया पश्येल्लक्ष्मीनारायणात्मना।
तन्त्रस्य परमं गुह्यं व्रतं शृणु पुरंदर ॥ 59 ॥
View Verse
योगिना यदनुष्ठेयं लक्ष्मीयोगविधिक्रमे।
प्रवर्तमानया पूर्वमादिदेवाज्जगद्विधौ ॥ 60 ॥
View Verse
आत्तं सीमन्तिनीरूपं मया साभिनिवेशया।
चिकीर्षुर्मत्प्रियं(प्रियान् B. C.) योगी लक्ष्मीतन्त्रविचक्षणः ॥ 61 ॥
View Verse
न स्मरेत् कामिनीनिन्दां कर्मणा मनसा गिरा।
यत्राहं तत्र तत्त्वानि यत्राहं तत्र देवताः ॥ 62 ॥
View Verse
यत्राहं तत्र पुण्यानि यत्राहं तत्र केशवः।
वनितायामहं तस्मान्नारी सर्वजगन्मयी ॥ 63 ॥
View Verse
योऽभिनिन्दति तां नारीं स लक्ष्मीमभिनिन्दति।
योऽभिनन्दति तां लक्ष्मीं त्रैलोक्यमभिनन्दति ॥ 64 ॥
View Verse
यो द्वेष्टि वनितां कांचित् स द्वेष्टि हरिवल्लभाम्।
यो हरेर्वल्लभां द्वेष्टि स द्वेष्टि सकलं जगत् ॥ 65 ॥
View Verse
ज्योत्स्नामिव स्रियं दृष्ट्वा यस्य चित्तं प्रसीदति।
नापध्यायति यत्किंचित् स मे प्रियतमो मतः ॥ 66 ॥
View Verse
यथा नारायणे नास्ति मयि वा शक्र किल्बिषम्।
यथा गवि यथा विप्रे यथा वेदान्तवेदिनि ॥ 67 ॥
View Verse
अरुणा ह्यापगा यद्वत्तथा सीमन्तिनी वरा।
यदस्मि जननी नाम त्रयाणां जगतामहम् ॥ 69 ॥
View Verse
तदिदं नार्यवष्टम्भात् सा हि मे परमं बलम्।
त्रैलोक्यजननी देवी सर्वकामसमृद्धिनी ॥ 70 ॥
View Verse
मत्तनुर्वनिता साक्षाद्योगी कस्मान्न पूजयेत्।
न कुर्याद् वृजिननं नार्याः कुवृत्तं न स्मरेत् स्रियाः ॥ 71 ॥
View Verse
ऋते पापात् प्रियं नार्याः कार्यं योगमभीप्सता।
जननीमिव तां पश्येद्देवतामिव मामिव ॥ 72 ॥
View Verse
यो द्वेष्टि वनितां मोहात्तत्साहाय्यं न चाचरेत्।
इदं च शृणु देवेश यद्वक्ष्यामि प्रियोऽसि मे ॥ 73 ॥
View Verse
श्रुत्वा त्वयाप्यनुष्ठेयं नैव वाच्यं हि कस्यचित्।
या रूपिणी वरारोहा काचिद् दृष्टिपथं गता ॥ 74 ॥
View Verse
तस्यां मां भावयेद्योगी तारिकां मनसा गृणन्।
अलोलुपेन चित्तेन तस्या रूपमनुस्मरेत् ॥ 75 ॥
View Verse
प्राणं सूर्यं परात्मानं नारीहृदयपूरुषम्।
संस्मरेदनलं तत्र रूपलावण्यसंपदम् ॥ 76 ॥
View Verse
अशेषसंपदोपेतां तां नारीं मामनुस्मरेत्।
अनुस्मृत्य गृणन् ब्रह्म भावयेदेव मां धिया ॥ 77 ॥
View Verse
ततः समाधिसंपत्तौ तत्राविष्टा भवाम्यहम्।
स्तब्धसर्वाङ्गविस्रंसो मदावेशस्य लक्षणम् ॥ 78 ॥
View Verse
अलोलुपेन चित्तेन मां समाराध्य यत्नतः।
विरमेदेव युञ्जानः पाप्मानं परिवर्जयन् ॥ 79 ॥
View Verse
एतत्तु परदारेषु नैव कार्यं विजानता।
अयं समाधिर्यत्रासीत् सानुरज्यति तद् ध्रुवम् ॥ 80 ॥
View Verse
स्वस्रियामेव कुर्वीत साधारण्यामधापि वा।
विप्लवोऽपि न दोषोऽत्र यतो मद्भावभावना ॥ 81 ॥
View Verse
संस्पर्शजेषु भोगेषु यः संहर्षमहोदयः।
मद्रूपं तदनुध्यायेदविक्षिप्तेन चेतसा ॥ 82 ॥
View Verse
प्रशस्तविषयोत्थं यत् सुखं लेखनमन्थनात्।
स्मरतस्तत्प्रहर्षो यस्तद्भावमनुशीलयेत् ॥ 83 ॥
View Verse
चक्षुषा विषये दृष्टे या प्रीतिरुपजायते।
रसिते च श्रुते घ्राते सा मे सुखमयी तनुः ॥ 84 ॥
View Verse
यदृच्छोपनतेष्वेवं शब्दस्पर्शरसादिषु।
उपपत्तिरियं प्रोक्ता चेतो दमयतो यतेः ॥ 85 ॥
View Verse
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते।
आदिमन्तोऽन्तवन्तश्च न तेषु रमयेन्मनः ॥ 86 ॥
View Verse
निरस्तरजसा ध्वस्ततमसा सत्त्ववर्तिना।
यदन्तःकरणेनान्तर्व्यज्यते सुखमुत्तमम् ॥ 87 ॥
View Verse
आद्यन्तविधुरं तन्मे सुखं ज्ञानमयं वपुः।
तत्तादृग्व्यज्यते नैव संस्पर्शैर्विषयाश्रितैः ॥ 88 ॥
View Verse
अनुबध्नन्ति यद्‌ दुःखं विषयाः सुखवाहिनः।
मध्वन्तर्विषसंसृष्टं मधुरं यदि भक्षणे ॥ 89 ॥
View Verse
किं तेनानन्तरं यत्तद्व्यापादयति भक्षिणम्।
क्रुद्धस्य फणिनश्छायां यः श्रयेदातपार्दितः ॥ 90 ॥
View Verse
स सेवेत नरो भोगान् सुखाय स्पर्शसंभवान्।
साध्यान् दुःखव्ययायासैः सुदर्शान् दुःखमिश्रितान् ॥ 91 ॥
View Verse
तनीयसः क्षयिष्णूंश्च कः श्रयेद्विषयान् सुखी।
जप्यपूतमिताहारदिव्यसत्त्वतनूकृतौ ॥ 92 ॥
View Verse
रजस्तमोगुणौ क्षिण्वन् मत्प्रियाचारकर्मणा।
योगी समाधये शश्वद्यत्नेन दमयेन्मनः ॥ 93 ॥
View Verse
जिते मनसि वै शश्वद्विश्वं तेन विजीयते।
जिते मनसि शुद्धा मे तनुरुन्मिषति स्वयम् ॥ 94 ॥
View Verse
शक्रः---
समस्तचिदचिद्भेदतन्त्रयन्त्रविधायिनि।
विधात्रि सर्वभोगानां नमस्ते पङ्कजासने ॥ 95 ॥
View Verse
विषयप्रवणं शश्वच्चपलं बलवद् दृढम्।
आशु दूरगमव्यक्तं दम्यते केन तन्मनः ॥ 96 ॥
View Verse
श्रीः---
दुर्दमं दुर्धरं शस्वदणु दुर्बोधमुत्क्रमम्।
वैराग्याभ्यासनिग्राह्यं तन्मनः शक्र चञ्चलम् ॥ 97 ॥
View Verse
रागस्तु विषये रक्तिः स्वभावाभ्यासयोगजा।
तदभावश्च वैराग्यं तत्त्वज्ञानेन जन्यते ॥ 98 ॥
View Verse
दौरात्म्यं विषयाणां यत्तत्त्वज्ञानं तु तन्मतिः।
चतुर्धा लक्षयेत्तच्च दौरात्म्यं प्रज्ञया सुधीः ॥ 99 ॥
View Verse
यो यादृशो यतो यस्मै भावोऽयमिति चिन्तयेत्।
विषया बन्धनात्मानो विषिण्वन्ति स्वसेविनः(नाम् A.) ॥ 100 ॥
View Verse
अव्यक्ताद्व्यक्तिमापन्नाः सर्वे ते सुखदुःखयोः।
ते च नैव स्वसंसिद्धा विषया विषयैषिणाम् ॥ 101 ॥
View Verse
अनेकान्तव्ययायासदुःखसाधनजा हि ते।
सुखमेव न ते कुर्युर्दुःखं च सुवते हि ते ॥ 102 ॥
View Verse
सुखं च तत्क्षणध्वंसि स्वदशादुःखसंमितम्।
चित्ररूपमिदं चिन्त्यं भावे भावे विपश्चिता ॥ 103 ॥
View Verse
तत्त्वज्ञानमिदं प्रोक्तं संगृह्य च विगृह्य च।
विषयेषु च रागस्तु सुखहेतुत्वनिश्चयात् ॥ 104 ॥
View Verse
स मिथ्याज्ञानरूपत्वात्तत्त्वज्ञानैरपोह्यते।
तद्विनिश्चयबाधे च हेतुत्वं नैव सिध्यति ॥ 105 ॥
View Verse
अहेतून् विषयान् कश्चिन्नाददीत स्वसिद्धये।
यदिदं तत्त्वविज्ञानं तस्य (यच्चिन्तनं C.)यच्छीलनं मुहुः ॥ 106 ॥
View Verse
सोऽभ्यास इति तत्त्वज्ञैस्तत्त्वशास्त्रेषु शब्द्यते।
सूक्ष्मे महत्यणौ स्थूले स्थिरे च चलवस्तुनि ॥ 107 ॥
View Verse
यत्र तिष्ठति यच्चित्तं धार्यतेऽभ्यास एषु वै(एष वा A. G.)।
वैराग्याभ्यासयोगेन यतमानेन योगिना ॥ 108 ॥
View Verse
दम्यते मन उद्दामं ततः शाम्यति तद् ध्रुवम्।
शक्रः---
तत्त्वारविन्दसंदोहविहारचतुरक्रमे ॥ 109 ॥
View Verse
मधुजिन्मानसावासे नमस्ते पङ्कजासने(पङ्कजानने C.)।
अभ्यासेन यथा चित्तं दम्यते बलवद् दृढम् ॥ 110 ॥
View Verse
तं प्रदर्शय पन्थानं नमस्ते पद्मसंभवे।
श्रीः---
वियत्यूर्ध्वं तनूभूते जवात् पतति पत्रिणि ॥ 111 ॥
View Verse
अरुन्धत्यां तथा सूक्ष्मे शनैश्चित्तं निरोधयेत्।
शैले महति वा चित्तमनन्ते वा विभावयेत् ॥ 112 ॥
View Verse
111-112. प्रथमं वस्तूनि यथा प्रतीयन्ते तथैव तेषु चित्तं निवेश्य, क्रमेण ततो वैराग्यमापाद्य, पश्चात् तत्त्वानुसंधाने तन्निवेशनीयमितीममर्थं सदृष्टान्तमाह---वियतीत्यादिना। तनूभूत इति। दूरदेशोत्प्लवनेनाल्पपरिमाणतया दृश्य इत्यर्थः।
परिभ्रमति वा चक्रे यत् सूक्ष्ममणु विद्यते।
मनस्तत्रैव संयोज्य भ्रामयेद्भ्रमता समम् ॥ 113 ॥
View Verse
तथाश्वत्थदलाग्रेण चलता चालयेन्मनः।
तिष्ठति स्थापयेच्चित्तं गच्छता गमयेन्मनः ॥ 114 ॥
View Verse
प्रदर्शनार्थमुक्तस्ते प्रकारोऽयं पुरंदर।
अनेन दमयंश्चित्तं परं योगमवाप्स्यति ॥ 115 ॥
View Verse
ईशेशितव्यसंभेदं यत्पुंरूपं परावरम्।
सूर्यस्थं संस्मरेत्तत्तु स्रीरूपं पञ्चबिन्दुकम् ॥ 116 ॥
View Verse
इति ते तारिकारूपं सर्वतः सौम्य दर्शितम्।
इत्थं विज्ञाततत्त्वस्य ज्ञेयं नैवान्यदिष्यते ॥ 117 ॥
View Verse
इतीयं पिण्डसिद्धस्ते लेशतः शक्र दर्शिता।
संज्ञामूर्तिविधानं च साधनं चाथ मे शृणु ॥ 118 ॥
View Verse

Chapter - 44

चतुश्चत्वारिंशोऽध्यायः - 44
शक्रः---
नमस्ते चिदचिद्वर्गसंरक्षणविचक्षणे।
जगद्विधानशिल्पिन्यै विष्णुपत्न्यै नमोऽस्तु ते ॥ 1 ॥
View Verse
स्थूलसूक्ष्मपरात्मानो भेदाः पूर्वं प्रदर्शिताः(निदर्शिताः B. C. F.)।
ताराया बीजपिण्डादिभेदं दर्शय मेऽम्बुजे ॥ 2 ॥
View Verse
श्रीः---
एको नारायणः श्रीमान् पूर्णषाड्‌गुण्यविग्रहः।
एकाहं परमा तस्य शक्तिः षाड्‌गुण्यविग्रहा ॥ 3 ॥
View Verse
लोकाननुजिघृक्षन्ती शश्वज्ज्ञानक्रियात्मना।
साहं तारिकया तन्वा पोषयामि पुनामि च ॥ 4 ॥
View Verse
तस्याः परादिभावस्ते शक्र पूर्वं निदर्शितः(निशामितः C. F.)।
बीजपिण्डादिकान् भेदान् गदन्त्या मे निशामय ॥ 5 ॥
View Verse
या परा दर्शिता पूर्वं यादृशी सा त्रिधात्मना।
साहंता तादृशी शक्र तारिकाबीजमुच्यते ॥ 6 ॥
View Verse
सूर्यानलस्थिता विष्णुपिण्डव्योमेशशेखरा।
पौरश्चरणिको योगस्तस्याः सिद्धिश्च दर्शिता ॥ 7 ॥
View Verse
संज्ञाख्या तारिकाया हि योगिभिः शक्र सेव्यते।
तामद्यावदधानस्त्वं गदन्त्या मे निशामय ॥ 8 ॥
View Verse
शुद्धमेकमुपादाय स्वाहया शक्र योजयेत्।
अयं संज्ञामनुर्योगिदेवब्रह्मादिपूजितः(ब्रह्मर्षिपूजितः A. C.) ॥ 9 ॥
View Verse
योगिभिर्यतमानैर्वा मया नारायणेन वा।
शक्यः प्रभाव आख्यातुं संज्ञायास्त्रिदशेश्वर ॥ 10 ॥
View Verse
शुभानुबन्धमात्रं तु संज्ञेष्टं परमक्षरम्।
पिण्डिताया इवास्याश्च सिद्धयः साधनानि च ॥ 11 ॥
View Verse
स्मरन् सततमभ्यासात्तन्मयीकृतविग्रहः।
योगी मन्मयतां प्राप्य मद्भावं प्रतिपद्यते ॥ 12 ॥
View Verse
अहं वा बोधिता तेन साक्षात्कारमुपेयुषी।
विदधे सकलं कामं(सकलान् कामान् C.) स योगी यं यमिच्छति ॥ 13 ॥
View Verse
इति संज्ञामनुः शक्र लेशतः संप्रदर्शितः।
पदमन्त्रमिदानीं मे शृणु त्वं सर्वसाधकम् ॥ 14 ॥
View Verse
विभज्य नायमुद्धार्यो न च लेख्यस्तथापि च।
अविप्लवाय रूपस्य स्वरूपमुपदिश्यते ॥ 15 ॥
View Verse
ओं ह्रीं श्रीं नमः समस्तजगदुपकारस्वीकृतबुद्धिमनोऽङ्गप्रत्यङ्गसुन्दरायै विधाचतुष्टयसमुन्मेषितसमस्तजनलक्ष्मीकीर्तिजयामायाप्रभावात्मसमस्तसंपदेकनिधये समस्तशक्तिचक्रसूत्रधारायै समस्तजनभोगसौभाग्यदायिनि विविधविषयोपप्लवप्रशमनि नारायणाङ्कस्थितायै ओं ह्रीं श्रीं नमो नारायणाय लक्ष्मीनारायणाभ्यां स्वाहा। श्रीं ह्रीं ओं।
इति ते दर्शितः सोऽयं पदमन्त्रो महाद्भुतः।
ग्राह्यो गुरुमुखादेव कृतदीक्षं मनीषिभिः ॥ 16 ॥
View Verse
अस्यामधीयमानायामादर्श इव निर्मले।
विद्यायां संप्रकाशेऽहं यावती यास्मि यादृशी ॥ 17 ॥
View Verse
प्रकाशानन्दसाराहं तदन्ते सर्वदर्शिनि।
सत्सत्त्वव्यञ्जिके चाथ परब्रह्म तदन्तिके ॥ 19 ॥
View Verse
ततो भगवतीत्येव विष्णुपत्नि तदन्तिके।
ज्ञानं जातियुतं वाच्यं हृन्मन्त्रोऽयं महाद्भुतः ॥ 20 ॥
View Verse
अहं (हि B. C.)च शक्तिसंपूर्णे जगत्प्रकृतिके तथा।
ज्ञानवैश्वानरशिखे शेषं पूर्ववदिष्यते ॥ 22 ॥
View Verse
प्राणाप्राणमयोन्मेषमहास्पन्दमयीति च।
सर्वाश्रमपदातीते कवचं पूर्वशेषवत् ॥ 23 ॥
View Verse
विकारविधुरे चाथ स्वस्वभावस्तथोच्यते।
महावीर्यमयीत्येवमस्रं पूर्वोक्तशेषवत् ॥ 24 ॥
View Verse
परानपेक्षसामर्थ्ये सर्वप्रसविनीति च।
अन्ते बोधमयीत्येवं नेत्रं पूर्वोक्तशेषवत् ॥ 25 ॥
View Verse
पञ्चके ब्रह्मणां कूटे शान्तानलविहारिणी।
ब्रह्मश्रीर्नाम मायेयं व्योमेशकृतशेखरा ॥ 26 ॥
View Verse
प्रधानानलपीठस्था व्योमेशकृतशेखरा।
पुरुषश्रीरियं ज्ञेया चेतनौघप्रसारिणी ॥ 28 ॥
View Verse
ध्रुवानलस्थिता मायाव्योमेशकृतशेखरा।
प्रधानश्रीरियं ज्ञेया सर्वचेतनकारिणी ॥ 29 ॥
View Verse
वामनादिपवित्रान्ते पवित्रानलगामिनी।
अन्तःकरणश्रीर्मायाव्योमेशकृतशेखरा ॥ 30 ॥
View Verse
वामनादिपवित्रान्ते स्रग्धरानलचारिणी।
ज्ञानश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 31 ॥
View Verse
उत्तमादिकरालान्ते कपिलानलचारिणी।
भूतश्रीरियमुद्दिष्टा मायाव्योमेशभूषिता ॥ 33 ॥
View Verse
ब्रह्मश्रीपूर्विका एता अष्टौ पद्मदलाष्टगाः।
पदमूर्तेस्तारिकायाः परिवाराः प्रकीर्तिताः ॥ 34 ॥
View Verse
सर्वास्ताः पद्मगर्भाभाः प्रसन्नाननपङ्कजाः।
बाहुद्वन्द्वे धारयन्त्यः प्रफुल्लं पङ्कजद्वयम् ॥ 35 ॥
View Verse
ब्रह्मश्रीः पूर्वहस्ताभ्यां ब्रह्माञ्जलिकरी शुभा।
पूर्वाभ्यां धारणालक्ष्मीः शुद्धाशुद्धविभाजिनी ॥ 36 ॥
View Verse
पूर्वाभ्यां पुरुषश्रीस्तु प्रसादाञ्जलिकारिणी।
पूर्वाभ्यां प्रकृतिश्रीस्तु पाशाह्कुशविधारिणी ॥ 37 ॥
View Verse
अन्तःकरणलक्ष्मीस्तु प्रसादाञ्जलिकारिणी।
अधोमुखे पाणितले कनिष्ठानामिकाद्वयम् ॥ 38 ॥
View Verse
कुञ्चयेद्धारयेदन्यदङ्गुल्योर्द्वितयं सह।
विश्लिष्य धारयेत्तद्वदङ्‌गुष्ठं प्रोन्नतं बलात् ॥ 39 ॥
View Verse
उन्नते दक्षिणतले बहिर्मुखमवस्थिते।
संनिवेशस्तथा कार्य एषा मुद्रा तु तार्किकी ॥ 40 ॥
View Verse
तथाविधे करद्वन्द्वे व्याख्यामुद्रा तु या भवेत्।
ज्ञानश्रियस्तु सा मुद्रा कर्मलक्ष्म्या निबोध मे ॥ 41 ॥
View Verse
करणव्यापृतौ पाणी ससंरम्भोद्यमौ सदा।
एषा मुद्रा समुद्दिष्टा कर्मलक्ष्म्या महामते ॥ 42 ॥
View Verse
भूतलक्ष्म्याः करौ पूर्वौ नानाभोगप्रदायिनौ।
महालक्ष्मीमयं कूटमेकं सर्वसुखावहम् ॥ 43 ॥
View Verse
शृणु मे सावधानेन चेतसा बलसूदन।
गरुडादिकरालान्तं तं नरः प्रोद्धरेत्क्रमात् ॥ 44 ॥
View Verse
करालानलगां मायां सव्योमेशामथोच्चरेत्।
महालक्ष्मीमयं कूटं महाश्रीरस्य देवता ॥ 45 ॥
View Verse
एकानेकस्वभावा सा साकारा च निराकृतिः।
अनन्तवक्त्रानन्तपदा तथानन्तकरा परा ॥ 46 ॥
View Verse
आधाराधेयभावेन सर्वत्रावस्थिता सदा।
नानावर्णा तथा नानाशस्त्रग्रामौघसंकुला ॥ 47 ॥
View Verse
क्रूरा सौम्या समासीना नानासंपत्प्रकर्षिणी।
सर्वत्र (सुभगा A. F. G.)सुलभा ध्येया कमलोदरभास्वरा ॥ 48 ॥
View Verse
इयमेव विपर्यस्ता गरुडान्ता महामते।
पूर्ववद्रूपतो ध्येया पूर्वोक्तफलदायिनी ॥ 49 ॥
View Verse
स्वरद्विसप्तकं देव्याः किरणत्वेन संस्थितम्।
बिन्दुराधारभावेन सृष्टिः स्वं रूपमूर्जितम् ॥ 50 ॥
View Verse
इति ते तारिकामूर्तिः पदाख्या संप्रदर्शिता।
अवधानवदस्यां त्वं सदा चेतो निवेशय ॥ 51 ॥
View Verse
शतकोटिप्रविस्ताराल्लक्ष्मीतन्त्रमहार्णवात्।
अयं सारः समुद्धृत्य स्निग्धया दर्शितो मया ॥ 52 ॥
View Verse
अङ्कस्थायां मयि पुरा देवदेवो जनार्दनः।
उज्जहारारविन्दाक्षो विद्यां मत्प्रीतये पराम् ॥ 53 ॥
View Verse
यथा हि चन्द्रिकां दृष्ट्वा नृणां चेतः प्रसीदति।
विद्यामिमां तथा दृष्ट्वा योगिनां हृत्प्रसीदति ॥ 54 ॥
View Verse
न यमादिपरिक्लेश आसनव्यसनं न च(तथा A.)।
न प्राणायामतः क्लेशो नैव किंचिदिहेष्यते ॥ 55 ॥
View Verse
सुखासीनः प्रसन्नात्मा यथेष्टासनविग्रहः।
अभ्यस्य मनसा विद्यामिमां सिद्धिं नियच्छति ॥ 56 ॥
View Verse
यथा नद्यो नदाश्चैव संप्लवन्ते महोदधौ।
एवं सर्वाः परा विद्याः संप्लवन्ते पदात्मनि(पदाध्वनि A. G.) ॥ 57 ॥
View Verse
असंख्येयानि र्तनानि यथा नदनदीपतौ।
असंख्येयानि तेजांसि पदमूर्तौ तथा विदुः ॥ 58 ॥
View Verse
यथान्नं मधुसंसृष्टं मधु चान्नेन संयुतम्।
एवं बीजादयो भावास्तारायाः प्रीतिदायिनः ॥ 59 ॥
View Verse
अहमेव पुनः शक्र परा करुणयोद्यता(पराकारा यथोद्यता A. G.)।
साधकानां हितार्थाय मनसो भावनाय च ॥ 61 ॥
View Verse
अखण्डा परिपूर्णा हि चतुर्धात्मानमात्मना।
इमां विद्यामयीं मूर्तिं विभजामि हितैषणी ॥ 62 ॥
View Verse
विभक्तानां तु मूर्तीनां मन्मयीनां पुरंदर।
विधिं चतसृणां त्वं मे यथावच्छ्रोतुमर्हसि(ज्ञातुमर्हसि C.) ॥ 63 ॥
View Verse

Chapter - 45

पञ्चचत्वारिंशोऽध्यायः - 45
श्रीः---
अहं नारायणी देवी पूर्वेषामपि पूर्वजा।
साक्षाद्भगवतो विष्णोर्लक्ष्मीः श्रीरनपायिनी ॥ 1 ॥
View Verse
विभजामि स्वया शक्त्या चतुर्धात्मानमात्मना।
लक्ष्मीः कीर्तिर्जया माया चतस्रो मूर्तयश्च ताः ॥ 2 ॥
View Verse
या सा (लक्ष्मीः परा शक्तिः F. G.)शक्तिः परा लक्ष्मीरहंताहं विभोर्हरेः।
विभजन्ती स्वमात्मानं चतुर्धा जगतो हिते ॥ 3 ॥
View Verse
अहमेव पराहंता भवामि प्रथमा तनुः।
लक्ष्मीर्नाम महाभागा सर्वैश्वर्यफलप्रदा ॥ 4 ॥
View Verse
कीतिर्नाम द्वितीया मे तनुः सत्कीर्तिदायिनी।
जया नाम तृतीया मे तनुर्विजयदायिनी ॥ 5 ॥
View Verse
माया नाम चतुर्थी मे सर्वाश्चर्यकरी तनुः।
लक्ष्मीः कीतिर्जया मायेत्येवं नारायणाश्रयाः ॥ 6 ॥
View Verse
नारायणाश्रयाया मे मूर्तयः परमोज्ज्वलाः।
स्वशक्तिनिचयोपेता निराकारास्तु निष्कलाः ॥ 7 ॥
View Verse
सूर्यस्य रश्मयो यद्वदूर्मयश्चाम्बुधेरिव।
सर्वैश्वर्यप्रभावे तु लक्ष्मीर्लक्ष्मीपतेः स्थिता ॥ 8 ॥
View Verse
नानाविशेषलक्ष्मीभिः कोटिसंख्याभिरावृता।
कीर्तिस्तथाविधा नैव विभिन्ना विग्रहे विभोः ॥ 9 ॥
View Verse
तन्नास्ति यन्न हि तया व्याप्तं सामान्यदेहया।
यस्य यत्र च या कीर्तिः स्वसामर्थ्यात्प्रजायते ॥ 10 ॥
View Verse
सा सा रूपविशेषोऽस्याः सामान्यात्मन उत्थिता।
जया जयेश्वरस्यैवं व्याप्तिभावेन संस्थिता ॥ 11 ॥
View Verse
या काचिद्विद्यते माया जगत्यस्मिन् सुरादिषु।
भगवन्माययोद्भूतां तां मां विद्धि सुरेश्वर ॥ 12 ॥
View Verse
तदीयं निष्कलं रूपं मदीयं च विहाय वै।
कोऽस्मिंस्तत्त्वोदधौ चास्ति(तत्त्वोदधावस्ति F. I.) चतुर्धा सुरसत्तम् ॥ 13 ॥
View Verse
भगवच्छक्तिभिः सम्यगाभिर्योगविभाविताः।
स्वालोकज्ञानसामर्थ्यात् साकारत्वमुपागताः ॥ 14 ॥
View Verse
ध्यातव्याः साधकश्रेष्ठैरिज्याः पूज्याश्च सिद्धये।
तासां ममादिभूताया लक्ष्म्या मूर्तिं(मूर्तीः F.) निशामय ॥ 15 ॥
View Verse
सौम्यवक्त्रा सौम्यनेत्रा द्विभुजा चारुकुण्डला।
पद्मगर्भोपमा कान्त्या मेखलादाममण्डिता ॥ 16 ॥
View Verse
श्वेतमाल्याम्बरधरा हारकेयूरमण्डिता।
सर्वलक्षणसंपन्ना पीनतुङ्गघनस्तनी ॥ 17 ॥
View Verse
ललाटे तिलकं चित्रं वहन्ती च मनोहरम्।
आरक्ताधररत्ना च वंशमुक्ताफलद्विजा ॥ 19 ॥
View Verse
अर्धचन्द्रललाटा च नीलकुञ्चितमूर्धजा।
पाशाङ्कुशधरा देवी धर्मकामार्थमोक्षदा ॥ 20 ॥
View Verse
बद्धपद्मासना चैव मकुटोत्तमशोभिता।
एवं ध्येयाहमीशाना लक्ष्मीव्यूहस्थिता सती ॥ 21 ॥
View Verse
मन्त्रमस्याः प्रवक्ष्यामि तं मे निगदितं(निगदतः A.) शृणु।
तारिका नाम यद्बीजं हृदयं तत्परं मम ॥ 22 ॥
View Verse
पूर्वं प्रणवमादाय तदन्तो तां नियोजयेत्।
द्व्यक्षरं तु ततो लक्ष्मयै नमस्छान्ते नियोजयेत् ॥ 23 ॥
View Verse
ततः परमशब्दं तु तदन्ते पुरुषेश्वरम्।
आनन्दिनं च गरुडं वरुणं च समुद्धरेत् ॥ 24 ॥
View Verse
स्थितायैपदमस्यान्ते भूयो मद्धृदयं पठेत्।
अनुबीजं तदन्ते च मद्बीजं पुनरुत्तमम् ॥ 25 ॥
View Verse
वह्निजायां तदन्ते च मूर्तिमन्त्रो ममेदृशः।
विंशत्यर्णः स्मृतः सोऽयं साक्षाल्लक्ष्मीसमाह्वयः ॥ 26 ॥
View Verse
23-26. ओं ह्रीं लक्ष्म्यै नमः परमलक्षावस्थितायै ह्रीं श्रीं ह्रीं स्वाहा इति विंशत्यक्षरो मूर्तिमन्त्रः।
अङ्गमन्त्रं निबोधास्या यथावद् वृत्रसूदन।
शान्तमादाय तस्यान्ते विन्यसेत् पुरुषेश्वरम् ॥ 27 ॥
View Verse
चन्द्रिणं व्यापिनं चैव सर्वेषामुपरि न्यसेत्।
विद्धि षड्‌ हृदयादीनि तान्यस्रान्तानि वासव ॥ 29 ॥
View Verse
लक्ष्मीसखीनामधुना मन्त्रानेतान्निशामय।
सत्यं तत्स्थं वराहं च (मायाक्तं I.)मायान्तममृतं तथा ॥ 30 ॥
View Verse
वरुणं रामयुक्तं च चत्वारो बीजनायकाः।
चन्द्री व्यापी क्रमाद्योज्यौ सर्वेषां मूर्द्नि वै ततः ॥ 31 ॥
View Verse
ऋद्धिर्वृद्धिः समृद्धिश्च विभूतिश्च सखीगणः।
तारं बीजंततः संज्ञा स्वाहा चासां मनुः स्मृतः ॥ 32 ॥
View Verse
सख्यश्चतस्र एताः स्युर्द्विभुजाः सौम्यदर्शनाः।
पद्मकोशप्रतीकाशाः श्रीवृक्षचमरङ्किताः ॥ 33 ॥
View Verse
पद्मासनोपविष्टाश्च प्रेक्षमाणा मदाननम्।
एवं ध्येयास्तु सख्यस्तास्चतुरोऽनुचराञ्शृणु ॥ 34 ॥
View Verse
लावण्यः सुभगश्चैव सौभाग्यश्च तृतीयकः।
चतुर्थः सौमनस्यश्च चत्वारोऽनुचरा मम ॥ 35 ॥
View Verse
चतुर्भुजाः सौम्यवक्त्रा नीलकौशेयवाससः।
दधतः पद्मकुम्भौ च नलिनीद्वजमेव च ॥ 36 ॥
View Verse
प्रफुल्लामलवृक्षं च चतुर्भिः स्वभुजैः शुभैः।
मन्त्रानेषां प्रवक्ष्यामि तत्त्वतस्तान्निबोध मे ॥ 37 ॥
View Verse
विबुधस्त्वादिदेवाढ्यः सोमोऽथ भुवनस्थितिः(स्थितः B. I.)।
द्विधामृतं समादाय भूधराभ्यां नियोजयेत् ॥ 38 ॥
View Verse
चन्द्रिव्यापिसमेतानि स्मरेद्बीजानि तत्त्वतः।
तारं बीजं ततः संज्ञा नमस्चान्ते मनोः स्मृतः ॥ 39 ॥
View Verse
एतत् साङ्गपरीवारं लक्ष्मीरूपं निदर्शितम्।
कीर्त्याख्याया द्वितीयाया मूर्ते रूपादिकं शृणु(रूपादि तच्छृणु A. G.) ॥ 40 ॥
View Verse
रूपेण सदृशी लक्ष्म्या वर्णतश्चम्पकप्रभा।
शेषे लक्ष्मीसमा रूपे मूर्तिमन्त्रान्निबोध मे ॥ 41 ॥
View Verse
तारं मद्धृदयं पश्चात् करालो विष्णुसंयुतः।
स्रग्धरश्चानलारूढ ऐश्वर्यपरिभूषितः ॥ 42 ॥
View Verse
नमः सदोदितानन्दविग्रहायैपदं ततः।
मद्बीजं कमलारूढमनलं विष्णुभूषितम् ॥ 43 ॥
View Verse
व्यापिना च समायुक्तमन्ते बीजमिदं स्मरेत्।
स्वाहापदं मनुः सोऽयं विंशत्यर्णस्तु कीर्तितः ॥ 44 ॥
View Verse
अङ्गमन्त्रान्निबोधाद्य गदन्त्या मे निशामय।
करालमनलारूढं कृत्वा संयोज्य पूर्ववत् ॥ 45 ॥
View Verse
आनन्दाद्यैः स्वरैश्चन्द्रिव्यापियुक्तैः श्रियो यथा।
अङ्गमन्त्रा इमे कीर्तेः सखीरूपमनूञ्छृणु ॥ 46 ॥
View Verse
द्युतिः सरस्वती मेधा श्रुतिः सख्य इमाः स्मृताः।
द्विभुजा हेमवर्णाभाः कीर्तिरूपाः स्मिताननाः ॥ 47 ॥
View Verse
सुपुस्तकं करे वामे दक्षिणे चामरं करे।
मन्त्रान् कीर्तिसखीनां तु गदन्त्या मे निशामय ॥ 48 ॥
View Verse
मदनं चामृतं चैव प्रधानं शंकरं तथा।
एतान् कृत्वानलारूढान् मायया परिभूषयेत् ॥ 49 ॥
View Verse
चन्द्रिणं व्यापिनं दद्यात् सखीमन्त्रानिमान् स्मरेत्।
कीर्तेरनुचराणां (च B. C. F.)तु नामरूपादिकं शृणु ॥ 50 ॥
View Verse
वागीशो जयदश्चैव(अभयदश्चैव B. C. F.) प्रसादस्राण एव च।
ध्येयाः किंशकवर्णाभाः (कान्ति B. F.)कान्तरूपा मनोहराः ॥ 51 ॥
View Verse
श्वेताम्बरास्चतुर्हस्ताः सर्वाभरणभूषिताः।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ 52 ॥
View Verse
शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सपुष्पं षट्‌पदोपेतमपराभ्यां निबोध मे ॥ 53 ॥
View Verse
पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं दधतश्चारुलोचनाः ॥ 54 ॥
View Verse
वराहमादिदेवाढ्यमप्रमेयं च केवलम्।
पवित्रमनलारूढं स्रग्धरं च तथाविधम् ॥ 55 ॥
View Verse
आदिदेवान्वितं कृत्वा तेषामूर्ध्वं सुयोजयेत्(मूर्धसु योजयेत् A. G.)।
चन्द्रिणं व्यापिनं चान्ते मन्त्रा अनुचराश्रिताः ॥ 56 ॥
View Verse
कीर्तेर्द्वितीयमूर्तेर्वै क्रमोऽयं परिकीर्तितः।
रूपादिकं तृतीयाया जयाया मे निशामय ॥ 57 ॥
View Verse
रूपेण सदृशी लक्ष्म्या जया परमशोभना।
तारश्च तारिका चैव जन्महन्ता चतुर्गतिः ॥ 58 ॥
View Verse
व्यापको जन्महन्ता सरामोऽथ स्रग्धरस्तथा।
आदिदेवान्वितो धर्ता प्रधानश्च तथाविधः ॥ 60 ॥
View Verse
वरुणोऽथामृतस्थश्च धन्वी रामविभूषितः।
वैराजश्चादिदेवाढ्यः शङ्ख ऐस्वर्यभूषितः ॥ 61 ॥
View Verse
तारिका शाश्वतोऽशेषभुवनाधारविष्णुमान्।
व्योमेशभूषितश्चाथ वह्निपत्नी ततः परम् ॥ 62 ॥
View Verse
जयाया मूर्तिमन्त्रोऽयमङ्गमन्त्रान् निबोध मे।
जन्महन्तारमादाय कालपावकभूषितम् ॥ 63 ॥
View Verse
स्वरैर्विभूषयेत् प्राग्वच्चन्द्रिव्यापिसमन्वितैः।
अङ्गानि हृदयादीनि जयायास्तानि संस्मरेत् ॥ 64 ॥
View Verse
जयन्ती विजया चैव तृतीया चापराजिता।
सिद्धिश्चतुर्थी विज्ञेया जयासख्य इमाः स्मृताः ॥ 65 ॥
View Verse
अजितं विष्णुसंयुक्तं वरुणं (सिद्धसंयुतम् A.; चेद्धसंज्ञितम् C.; चेन्द्रसंयुतम् F.)चेद्धसंयुतम्।
केवलव्यापकं चैव सोममिष्टविभूषितम् ॥ 66 ॥
View Verse
चन्द्रिव्यापिसमायुक्तं कृत्वा संयोज्य संज्ञया।
स्वाहामन्ते समायोज्य सखीमन्त्रानिमान् स्मरेत् ॥ 67 ॥
View Verse
प्रतापी जयभद्रश्च तृतीयस्तु महाबलः।
उत्साहश्चेति वर्गोऽयं जयानुचरसंज्ञितः ॥ 70 ॥
View Verse
रक्ताम्बरधराः सर्वे चतुर्हस्ता महाबलाः।
धनुर्बाणकराश्चैव गदाचक्रधरास्तथा ॥ 71 ॥
View Verse
इत्थं तेऽनुचरा ज्ञेयाः(ध्येयाः A. B.) पुष्पाभरणभूषिताः।
पद्मनाभोऽनलारूढोऽजितः कालस्तथैव च ॥ 72 ॥
View Verse
उद्दामश्च सुरेशैते चन्द्रिव्यापिविभूषिताः।
प्रणवाद्या नमोऽन्ताश्च संज्ञया च समन्विताः ॥ 73 ॥
View Verse
जयानुचरमन्त्रास्ते विज्ञेया वृत्रसूदन।
अयं तृतीयमूर्तेर्मे जयाया विधिरद्भुतः ॥ 74 ॥
View Verse
चतुर्थ्याः संविधानं मे मायामूर्तेर्निशामय।
सर्वाश्चर्यकरी देवी देवदेवस्य शार्ङ्गिणः ॥ 75 ॥
View Verse
माया नाम महाशक्तिस्तुरीया मे तनुः परा।
रूपेण सदृशी लक्ष्म्या मूर्तिमन्त्रं निशामय ॥ 76 ॥
View Verse
आदाय तारकं पूर्वं तारिकां तदनु स्मरेत्।
मायायै च नमः पश्चात् काल ओदनसंस्थितः ॥ 77 ॥
View Verse
वामभ्रूसंयुतः सूर्यः स्रघ्धरो विष्णुभूषितः।
केवलोऽसौ नरान्त्योऽथ मदनो गोपनान्वितः ॥ 78 ॥
View Verse
पुण्डरीकोऽनलारूढो रामवांस्तदनन्तरम्।
ताललक्ष्मादिदेवाढ्यः शङ्ख ऐश्वर्यसंयुतः ॥ 79 ॥
View Verse
ततः कालोऽनलारूढो मायाव्यापिसमन्वितः।
मायाबीजमिदं दिव्यं तारिकोर्ध्वस्थितं स्मरेत् ॥ 80 ॥
View Verse
वह्निजाया तदन्ते स्याद्विंशत्यर्णो मनुः स्मृतः।
अङ्गान्यस्य प्रवक्ष्यामि तानि मे त्वं निशामय ॥ 81 ॥
View Verse
मायाबीजं समादाय गोपनाद्यैः स्वरैः क्रमात्।
विभेद्य पूर्ववत् कार्या ह्यङ्गक्लृप्तिर्विपश्चिता ॥ 82 ॥
View Verse
मोहिनी भ्रामणी दुर्गा प्रेरणी च सुरेश्वर।
मायासख्यश्चतस्रस्ता विज्ञेया रत्नभासुराः ॥ 83 ॥
View Verse
लावण्येन च वीर्येण सौन्दर्येण च तेजसा।
मायातुल्या इमा देव्यः सितवस्रानुलेपनाः ॥ 84 ॥
View Verse
चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः।
मन्त्रानासां प्रवक्ष्यामि शृणु त्वं बलसूदन ॥ 85 ॥
View Verse
प्रधान ओदनारूढो ध्रुवो रेफादिदेववान्।
मदनो भुवनारूढो योऽनलैश्वर्यसंयुतः ॥ 86 ॥
View Verse
चन्द्रिव्यापियुता ह्येते सर्वे प्रणवपीठगाः।
संज्ञाश्वाहायुजो मायासखीमन्त्रा इमे स्मृताः ॥ 87 ॥
View Verse
मायामयो महामोहः शम्बरश्च कलीश्वरः।
चत्वारोऽनुचरा एते काकालीकज्जलोपमाः ॥ 88 ॥
View Verse
चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः।
केयूराभरणोपेताः पीतकौशेयवाससः ॥ 89 ॥
View Verse
हारनूपुरसंयुक्ता नानाकुसुमभूषिताः।
तुषारधूलिधवलाःखड्गपाशकरोद्यताः ॥ 90 ॥
View Verse
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये।
प्रधानो गोपनोपेतः केवलस्तदननत्रम् ॥ 91 ॥
View Verse
शंकरः केवलश्चैव केवलः कमलस्तथा।
चन्द्री व्यापी च सर्वेषां क्रमान्मूर्धसु विन्यसेत् ॥ 92 ॥
View Verse
तारकाद्या नमोऽन्ताश्च संज्ञया च समन्विताः।
मन्त्रा मायामयादीनां चतुर्णां बलसूदन ॥ 93 ॥
View Verse
सर्वेषामङ्गमन्त्राणां ध्यानं सामान्यमीरितम्।
मुद्राश्चाङ्गसमेतानां देवानामपि वासव ॥ 94 ॥
View Verse
याः पुरस्तान्मया प्रोक्ता दर्शयेत्ता यथायथम्।
एकैकशः समस्ता वा देवीरेता भजन्नरः ॥ 95 ॥
View Verse
यथामति यथोत्साहं युज्यते परया श्रिया।
एताश्चतस्रस्तन्व्यो मे भगवत्किरणात्मिकाः ॥ 96 ॥
View Verse
याभिः स भगवान् देवः पूर्णरूपोऽवतिष्ठते।
एकैकस्या असंख्याताः शक्तयस्तत्तदात्मिकाः ॥ 97 ॥
View Verse
अनन्तपरिवारास्ता इति शक्तिमयं जगत्।
आसां चतसृणामेकां शक्तीनां परमेश्वरीम् ॥ 98 ॥
View Verse
मूलभूतां पराहंतां विष्णोस्तद्धर्मधर्मिणीम्।
सर्वशक्तिमयीं तां मां शक्तिचक्रस्य नायिकाम् ॥ 99 ॥
View Verse
प्रकाशानन्दयोरन्तरनुस्यूतामनुस्मरेत्।
अग्नीषोमद्वयान्तःस्थां मध्यमार्गानुवर्तिनीम् ॥ 100 ॥
View Verse
अपराच्या मनोवृत्त्या (F. omits four quarters from here.)मन्वीत मतिमान्नरः।
अस्तमानाय्य सौषुम्ने मार्गे सूर्यनिशाकरौ ॥ 101 ॥
View Verse
अपराचीनया वृत्त्या कुर्वीत मयि संस्थितिम्।
शक्रः---
देवदेवमये देवि सरसीरुहसंस्थिते ॥ 102 ॥
View Verse
मुद्रा देवीसखीनां च किंकराणां च मे वद।
श्रीः---
देवीनां दर्शिता मुद्राः पुरैव बलसूदन ॥ 103 ॥
View Verse
तत्सखीनामिदानीं तु षोडशानां निबोध मे।
संमुखौ तु करौ कृत्वा सुस्पष्टौ सुप्रसारितौ ॥ 104 ॥
View Verse
कनिष्ठानामिकाभ्यां वै युगलं युगलं हरेत्।
मेलयेन्नखदेशाच्च यथा स्यादेकपिण्डवत् ॥ 105 ॥
View Verse
अङ्गुलीभिश्चतसृभिः पाणिमध्ये निराश्रयम्।
अङ्गुष्ठौ दण्डवत्कृत्वा प्रान्तलग्नौ प्रसारितौ ॥ 106 ॥
View Verse
अङ्गुलीनां चतसृणां विश्रान्तौ चोदरावधेः।
सर्पकुण्डलवत्कृत्वा प्रयत्नात्तर्जनीद्वयम् ॥ 107 ॥
View Verse
प्रसार्य चाग्रतो लग्ने मध्यमे द्वे सुरेश्वर।
कनीयस्यौ ऋजूसूते समारभ्य करद्वयम् ॥ 108 ॥
View Verse
कुर्याच्चैवातिसंलग्नं मणिबन्धावसानतः।
ईषदङ्गुष्ठमूले तु मणिबन्धं करद्वयात् ॥ 109 ॥
View Verse
कुर्याद्विकसितं चैव मुद्रैषा बलसूदन।
महायोन्यभिधाना च त्रिलोकजननी परा ॥ 110 ॥
View Verse
वशीकुर्याज्जगत् सर्वं कामतो यदि योजिता।
अत्रानुष्ठानयत्ता स्री बद्ध्वा दूरात् प्रदर्शयेत् ॥ 111 ॥
View Verse
मुनीनां गतसङ्गानां क्षोभं जनयते क्षणात्।
पुरुषोऽत्राभियुक्तो वा दर्शयेद्वनितासु च ॥ 112 ॥
View Verse
निवृत्तकामधर्मासु चाबलास्वथवा मुनेः।
क्षुभ्यन्त्यमदनास्ताश्च सकामायास्तु का कथा ॥ 113 ॥
View Verse
एषा साधारणी मुद्रा सर्वासामपि वासव।
वक्ष्येऽथानुचराणां तु षोडशानां समासतः ॥ 114 ॥
View Verse
पृष्ठलग्नौ करौ कृत्वा मोक्षयेत्तदनन्तरम्।
प्रदेशिनीयुगं चैव कनिष्ठायुगलं तथा ॥ 115 ॥
View Verse
अधोमुखं तु सुस्पष्टं ताभ्यां मध्यं(मध्यां C. F.) महामते।
कनिष्ठिकाद्वयं लग्नं विरलं तर्जनीयुगम् ॥ 116 ॥
View Verse
मध्यमानामिकायां तु युग्मं युग्मं तु धारयेत्।
एकलग्नं नखोद्देशाद्यावत्पर्व(पद्मं A.) तु मध्यमम् ॥ 117 ॥
View Verse
ऊर्ध्ववक्त्रं सुरश्रेष्ठ समेन धरणेन तु।
सुस्पष्टौ लम्बमानौ चाप्यङ्गुष्ठौ चाप्यधोमुखौ ॥ 118 ॥
View Verse
परस्परं तु दूरस्थौ मुद्रैषा सर्वकामदा।
स्वस्वमन्त्रयुता कार्या सर्वेषामियमेकिका ॥ 119 ॥
View Verse
साधारण्याविमे प्रोक्ते मुद्रे सख्यनुचारिणाम्।
इत्थं सपरिवाराभिस्तां मां चतसृभिर्युताम् ॥ 120 ॥
View Verse
विभूतिभिरुपास्यैवं मामेवान्ते समश्नुते।
विभूतयो ह्यनन्ता मे तत्त्वतात्त्विकसंश्रयाः ॥ 121 ॥
View Verse
कोटिकोटिपरीवारा एकैकास्ताश्च वासव।
एताः प्रधानभूतास्ताश्चतस्रः परिकीर्तिताः(ते च कीर्तिताः B. C.) ॥ 122 ॥
View Verse
इति मे मूर्तिमन्त्राणामङ्गमन्त्रादिभिः सह।
कथितस्ते समुद्देशः साधनादीनि मे शृणु ॥ 123 ॥
View Verse

Chapter - 46

षट्‌चत्वारिंशोऽध्यायः - 46
श्रीः---
अनुक्रमेण देवेश लक्ष्म्यादीनां च साधनम्।
विविधानि च कर्माणि तन्मन्त्रेभ्योऽवधारय ॥ 1 ॥
View Verse
चतुरश्रं चतुर्द्वारं कृत्वा पूर्वोदितं पुरम्।
तन्मध्येऽष्टदलं पद्मं लिखेच्छुक्लारुणप्रभम् ॥ 2 ॥
View Verse
सितानि चतुरालिख्य कोणेषु स्वस्तिकानि च।
व्यापकत्वेन तु पुरा मणिबन्धमुखादितः ॥ 3 ॥
View Verse
विन्यस्य मूलमन्त्रं च हस्ते देहे च केवलम्।
पश्चादादौ च(तु B. C.) हस्ताभ्यां लक्ष्मीमन्त्रं तथा न्यसेत् ॥ 4 ॥
View Verse
तदङ्गानि च विन्यस्य हस्ते देहे यथा पुरा।
तस्यानुगचतुष्कं यद्देवीनां तदनु न्यसेत् ॥ 5 ॥
View Verse
प्रदेशिन्यादितो हस्तद्वये तदनु विग्रहे।
उत्तमाङ्गे तु (भ्रूमध्ये B.)हृन्मध्य ऊर्वोर्जानुद्वये तथा ॥ 6 ॥
View Verse
लावण्याद्यांश्च चतुरो ह्यनामादि(अनामादौ C. G.) करद्वये।
अङ्गुष्ठान्तं च विन्यस्य हस्ते देहे च वासव ॥ 7 ॥
View Verse
दक्षिणे च तथा वामे स्कन्धे पक्षद्वये ततः।
न्यासं कृत्वा यथान्यायं श्रीकामोऽथ यजेद्धृदि ॥ 8 ॥
View Verse
लययागप्रयोगेण लक्ष्मीमन्त्रं तु केवलम्।
कृत्वावलोकनाद्यं तु तो बाह्ये तु विन्यसेत् ॥ 9 ॥
View Verse
मूतिमन्त्रयुतं मूलं कर्णिकोपरि वासव।
सकलाकलदेहं च सर्वमन्त्रान्वितं विभुम् ॥ 10 ॥
View Verse
तदुत्सङ्गगतां लक्ष्मीं स्वमन्त्रेणावतार्य च।
पूर्वोक्तध्यानसंयुक्तो भोगमोक्षप्रसिद्धये ॥ 11 ॥
View Verse
तदाग्नेये तदीशाने यातवीयेऽथ वायवे।
चत्वारि हृदयादीनि नेत्रं केसरसंततौ ॥ 12 ॥
View Verse
तदग्रे दक्षिणे पृष्ठे वामपार्श्वे क्रमान्न्यसेत्।
चतुष्टयं तु ऋद्ध्याद्यं द्विभुजं तु तथाकृति(यथाकृति C.) ॥ 13 ॥
View Verse
स्वस्तिकानां तदीशादिकोणस्थाने निवेश्य तु।
लावण्याद्यचतुष्कं तु सौम्यवक्त्रं चतुर्भुजम् ॥ 15 ॥
View Verse
नीलकौशेयवसनं पद्मकुम्भकरान्वितम्।
नलिनीध्वजहस्तं च सफलामलवृक्षधृत् ॥ 16 ॥
View Verse
द्वारेष्वस्त्रं चतुर्दिक्षु न्यस्य पूज्य यथा पुरा।
मूलमन्त्रयुतां देवीं लक्ष्मीं त्रिदशनन्दन ॥ 17 ॥
View Verse
मुद्रास्च दर्शयेत् सर्वा यत्र यत्र हि याः स्मृताः।
जप्त्वा कृत्वा ततो होमं सघृतैस्तु तिलाक्षतैः ॥ 18 ॥
View Verse
लक्ष्मीरूपस्ततो बूत्वा साधकः कृतनिश्चयः।
जपेल्लक्षाणि वै पञ्च शुद्धाहारो जितेन्द्रियः ॥ 20 ॥
View Verse
होमं कुर्याज्जपान्ते तु क्रमाद्बिल्वामलाम्बुजैः।
यथाशक्ति ह्यसंख्यैस्तु अयुतायुतसंख्यया ॥ 21 ॥
View Verse
ददाति दर्शनं (तत्र B. G.)शक्र होमान्ते परमेश्वरी।
पुत्र सिद्धास्मि ते ब्रूहि यत्ते मनसि चेप्सितम्(चेष्टितम् A. B. C.) ॥ 22 ॥
View Verse
कुरु कार्याण्यभीष्टानि मन्मन्त्रेणाखिलानि च।
अद्य प्रभृति निःशङ्को द्वन्द्वोपद्रववर्जितः ॥ 23 ॥
View Verse
एवमुक्त्वा तु सा देवी याति यत्रागताशु वै।
ततः कर्माणि वै कुर्याल्लक्ष्म्या अनुमते मम ॥ 24 ॥
View Verse
स एष तुष्टोऽभीष्टं तु श्रियं दद्याद्यथार्थिनाम्।
संक्रुद्धो निर्धनं कुर्याद्वाङ्मात्रेण धनेश्वरम् ॥ 25 ॥
View Verse
शुल्बं कुर्यात् सकृद्ध्यायन् मन्त्रजापाच्च हाटकम्।
पूरयित्वाम्भसा कुम्भं क्षीरेण मधुनाथवा ॥ 26 ॥
View Verse
निधाय दक्षिणे हस्ते वामं तदुपरि न्यसेत्।
शतमष्टाधिकं मन्त्रं जपेद्ध्यानसमन्वितम् ॥ 27 ॥
View Verse
रसेन्द्राभिनिवेशस्थो ह्येकचित्तः समाहितः।
रसेन्द्रत्वं समायाति तत्कुम्भे त्वाहृतं जलम् ॥ 28 ॥
View Verse
सरसो लक्षवेधी स्याच्छस्रादीनां पुरंदर।
करोति कायममरं जरारोगविवर्जितम् ॥ 29 ॥
View Verse
अङ्गुष्ठाकारमात्रं तु पुरा पाषाणमाहरेत्।
दक्षिणोदरहस्तेन वामेन बदरीसमम् ॥ 30 ॥
View Verse
अभिमन्त्र्य तु तौ मुष्टी द्वे शते षोढशाधिके।
दक्षिणस्थं तु पाषाणं रत्नत्वमुपयाति च ॥ 31 ॥
View Verse
वामे मुक्ताफलत्वं च महामूल्ये तु ते उभे।
यद्यदिच्छति जात्या वै तत्तद्रत्नं भवेत्तदा ॥ 32 ॥
View Verse
शतार्धं मन्त्रितं कृत्वा (प्राणयुक्तं भवेद्धि तत् A. G.)प्रवालत्वं प्रयाति तत्।
शताभिमन्त्रितं कृत्वा त्रपु सीसं तथायसम् ॥ 34 ॥
View Verse
जायते कलधौतं तु रजतं वातिनिर्मलम्।
यद्यद् गृहीत्वा देवेन्द्र यं यं धातुं समीहते ॥ 35 ॥
View Verse
क्रुद्धो वा परितुष्टस्च तत्तत् कुर्यात्तु सोऽन्यथा।
एवमश्ममयानां तु अन्यत्वमुपपद्यते ॥ 36 ॥
View Verse
या या मनसि वै यस्य विभूतिः प्रतिभाति च।
तां तां ददाति तस्याशु धनधान्यगवादिकाम् ॥ 37 ॥
View Verse
लिखित्वा भूर्जपत्रे तु (G. omits this and the next quarter.)यागन्यासक्रमेण तु।
रोचनाकुङ्कुमाभ्यां तु संधारयति यः सदा ॥ 38 ॥
View Verse
सुवर्णवेष्टितं चाङ्गे लक्ष्मीमन्त्रं शतक्रतो।
तस्यायुषो भवेद् वृद्धिः सर्वत्र विजयी महान् ॥ 39 ॥
View Verse
प्राप्नुयान्महतीं पूजां यत्र यत्र च संविशेत्।
इदमाराधनं प्रोक्तं श्रीकामानां विशेषतः।
लक्ष्म्यास्त्रिदशशार्दूल मम या प्रथमा तनुः ॥ 40 ॥
View Verse

Chapter - 47

सप्तचत्वारिंशोऽध्यायः - 47
श्रीः---
व्यूहानां प्रथमा लक्ष्मी र्मत्संज्ञैवोदिता हि या।
तस्याः सिद्धिरियं प्रोक्ता द्वितीयाया निशामय ॥ 1 ॥
View Verse
न्यासोपायं पद्मयागं सर्वं विद्धि पुरोदितम्।
पूर्वोक्तं मण्डलं कृत्वा सितपीतं तदन्तरे ॥ 2 ॥
View Verse
किंतु वै पङ्कजं कुर्याद्विन्यसेत्तदनन्तरम्।
विभोरुत्सङ्गगां कीर्तिं हृदादीनि यथा पुरा ॥ 3 ॥
View Verse
क्रमाद्ध्यानं सखीनां च यथा तदवधारय।
द्विभुजा हेमवर्णा च (G. omits this and the next quarter.)कीर्तिरूपा स्मितानना ॥ 4 ॥
View Verse
सुपुस्तकं करे वामे दक्षिणे चामरं करे।
ध्यायेत् किंशुकवर्णाभं कान्तरूपं मनोरमम्(हरम् C.) ॥ 5 ॥
View Verse
तत्रानुगचतुष्कं तु चतुर्हस्तं सिताम्बरम्।
वामदक्षिणहस्ताभ्यां मुख्याभ्यां तेषु चिन्तयेत् ॥ 6 ॥
View Verse
शङ्खमिन्दुशताभं च कदम्बाख्यं महाद्रुमम्।
सपुष्पं षट्‌पदोपेतमपराभ्यां निबोध मे ॥ 7 ॥
View Verse
पूर्णचन्द्रोपमं वामे दर्पणं दक्षिणे करे।
मयूरव्यजनं शुभ्रं ध्यात्वैवं दर्शयेत्ततः ॥ 8 ॥
View Verse
मुद्राः सर्वाः प्रतिस्वं याः साधकः पूजयेत्ततः।
अर्घ्यपुष्पादिना सम्यग्जप्त्वा शक्त्याथ होमयते ॥ 9 ॥
View Verse
तिलानि चाज्यसिक्तानि गन्धशाल्यन्वितानि च।
देवीरूपं तु होमान्ते कृत्वा पुष्पाञ्जनाम्बरैः ॥ 10 ॥
View Verse
एकान्ते विजने स्थित्वा मौनी मूलफलाशनः।
जपेल्लक्षत्रयं (मन्त्री B. F.)मन्त्रं जपान्ते होममाचरेत् ॥ 11 ॥
View Verse
लक्षैकसंख्यं देवेन्द्र तण्डुलैस्तिलमिश्रितैः।
कापिलेन घृतेनैव तादृक्क्षीरयुतेन च ॥ 12 ॥
View Verse
एकैकं च हृदादीनां सहस्रं चाथ होमयेत्।
दद्यात्पूर्णाहुतिं पश्चात् क्षीरेणाज्यान्वितेन च ॥ 13 ॥
View Verse
पतितायां तु पूर्णायामायाति परमेश्वरी।
साधु साध्विति वै ब्रूते स्थित्वाग्रे साधकस्य तु ॥ 14 ॥
View Verse
एह्येहि परमं धाम त्यजेदं भौतिकं पुरम्।
उपभुङ्क्ष्वामरान् भोगान् मर्त्यमध्यगतोऽपि च ॥ 15 ॥
View Verse
मदीयेनाखिलं कर्म मन्त्रेण कुरु साधक।
एवमुक्त्वा तु सा देवी गगनं च व्रजेत्ततः ॥ 16 ॥
View Verse
साधकः कीर्तिमन्त्रेण कुर्यात् कर्म यथेप्सितम्।
ददाति यस्य यत्किंचित्तत्तस्याप्यक्षयं भवेत् ॥ 17 ॥
View Verse
वक्ति संसदि वा किंचित् प्राप्नुयाद्विपुलं यशः।
अभिभूय जनान् सर्वानुत्कृष्टत्वं प्रपद्यते ॥ 19 ॥
View Verse
जप्त्वा सिद्धान्नभाण्डं तु स्वल्पकालेऽन्नसंकटे।
यदेच्छति जनानां तु यथेच्छमशनं भवेत् ॥ 20 ॥
View Verse
ददाति चाक्षयं तस्य सप्ताहमनिशं यदि।
प्राप्नुयान्महतीं कीर्तिं यावदाभूतसंप्लवम् ॥ 21 ॥
View Verse
सुभिक्षे लवमात्रं तु आदाय कनकस्य च।
परिजप्य सहस्रं तु विधिना परितः स्थितम् ॥ 22 ॥
View Verse
प्रयाति तत् प्रभूतत्वं दीयतेऽर्थिजनस्य च।
अव्युच्छिन्नं द्विसप्ताहं संशयं नाधिगच्छति ॥ 23 ॥
View Verse
तेनासौ महतीं कीर्तिं प्राप्नुयाल्लोकसत्कृताम्(विश्रुताम् B. F.)।
आदाय तोयकलशं नागेन्द्रभवनह्रदात् ॥ 24 ॥
View Verse
प्रयायान्मरूभूमिं वै तत्र निम्ने तु भूतले।
निक्षिपेत् पर्वताग्रे वा सहस्रपरिमन्त्रितम् ॥ 25 ॥
View Verse
स पन्नगेश्वरस्तत्र परिवारसमन्वितः।
रक्षन्नुदकमातिष्ठेद्यावत्तिष्ठति मेदिनी ॥ 26 ॥
View Verse
तेनासौ महतीं लोके कीर्तिमाप्नोति वासव।
काले तु बीजरोही च यदि देवो न वर्षति ॥ 27 ॥
View Verse
आदाय मृत्कणं हस्ते तटाकजलमर्दितम्।
तन्मध्यस्थं च वा (कुम्भं B.)क्लिन्नं परिजप्य शतत्रयम् ॥ 28 ॥
View Verse
मुखवातैस्तु संतप्तं कृत्वा कीर्तिमनुं स्मरेत्(कीर्तिमनुस्मरेत् B. F.)।
प्रक्षिपेद्गगने तद्वै मघत्वं प्रतिपद्यते ॥ 29 ॥
View Verse
वर्षंस्तदुपयोग्यं च यावत् संपद्यते जलम्(अखिलम् G.)।
तेनासौ महतीं कीर्तिं प्राप्नुयाच्च त्रिलोकगाम् ॥ 31 ॥
View Verse
संपादयति तत्तस्य यस्य यन्मनसेप्सितम्।
प्रभावं मन्त्रराजस्य कीर्त्याख्यस्य सुरोत्तम ॥ 32 ॥
View Verse
लिखितं पूर्ववद्बद्ध्वा हस्ते वा दक्षिणे करे।
प्राप्नुयान्महतीं कीर्तिं (F. omits eight quarters from here.)पूजामृद्धिं सरस्वतीम् ॥ 33 ॥
View Verse
एतत् संक्षेपतः प्रोक्तं कीर्तेर्मन्त्रस्य वासव।
द्वितीयाया विधानं मे तन्वास्तनुभृतां वर ॥ 34 ॥
View Verse
एतद्विधानमातिष्ठन् कीर्तिमन्त्रस्य शोभनम्।
प्राप्नुयाद्विमलां कीर्तिं संततेरपि भूतिदाम् ॥ 35 ॥
View Verse

Chapter - 48

अष्टचत्वारिंशोऽध्यायः - 48
श्रीः---
विधिं तृतीयतन्वा मे जयाया वृत्रसूदन।
शृणु सिद्धिप्रकारं च सिद्धसंघैरभिष्टुतम् ॥ 1 ॥
View Verse
कृत्वा तु पूर्ववन्न्यासमिष्ट्वा च हृदये जयाम्।
मण्डलं पूर्ववत् कृत्वा तन्मध्ये पङ्कजं लिखेत् ॥ 2 ॥
View Verse
नीलोत्पलाभतुल्येन रजसा च सुपत्रकम्।
तत्रोत्सङ्गातां विष्णोर्हृदयाद्योजयेज्जयाम् ॥ 3 ॥
View Verse
कर्णिकोपरि मन्त्रांश्च न्यसेत् पूर्वक्रमेण तु।
किंतु ध्यानानि सर्वेषां यथावदवधारय ॥ 4 ॥
View Verse
नीलनीरदवर्णाश्च प्रसन्नवदनेक्षणाः।
पीताम्बरधराः सर्वाः सख्यः कनककुण्डलाः ॥ 5 ॥
View Verse
सितचामरहस्ताश्च चित्रवेत्रलतोद्यताः।
निरीक्षमाणा वदनं जयाया अजितस्य च ॥ 6 ॥
View Verse
कुन्दकुड्‌मलवर्णाभाः प्रसन्नमुखपङ्कजाः।
रक्ताम्बरधराश्चैव चतुर्हस्ता महाबलाः ॥ 7 ॥
View Verse
धनुर्बाणकराश्चैव गदाचक्रकरान्विताः।
चत्वारोऽनुचरा ध्येयाः पुष्पाभरणभूषिताः ॥ 8 ॥
View Verse
सर्वाश्च दर्शयेन्मुद्राः प्रतिस्वं याः प्रकीर्तिताः।
पूजयेच्च ततो भक्त्या होमं कुर्यादनन्तरम् ॥ 9 ॥
View Verse
तिलैः सिद्धार्थकोपेतैर्हविषा (गुग्गुलेन F.)गुल्गुलेन च।
होमावसाने मन्त्री स्वं कृत्वा रूपं जयात्मकम् ॥ 10 ॥
View Verse
जयाहमिति वै बुद्ध्वा चेतसोपस्थितं महत्।
तीरस्थानं समासाद्य निःशङ्कं जनवर्जितम् ॥ 11 ॥
View Verse
प्रणिपत्य हरिं भक्त्या प्राक् स्वमन्त्रेण वासव।
एकान्तशीलो लघ्वाशी मौनी ध्यानपरायणः ॥ 13 ॥
View Verse
जपेल्लक्षचतुष्कं तु जपान्ते होममाचरेत्।
समित् प्रादेशमात्रा तु रक्तचन्दनसंभवा ॥ 14 ॥
View Verse
तासामयुतमव्यग्रो घृताक्तानां तु होमयेत्।
सिद्धार्थैर्नियुते द्वे च मधुमिश्रैर्महामते ॥ 15 ॥
View Verse
अयुतं नियुतं चाथ जुहुयादसितैस्तिलैः।
मधुत्रितयसंयुक्तैरन्ते पूर्णाहुतित्रयम् ॥ 16 ॥
View Verse
मधुक्षीरघृतैः शक्र क्रमेण परिहोमयेत्।
ततो भगवती देवी समायाति जया स्वयम् ॥ 17 ॥
View Verse
सिद्धास्मीति च ते पुत्र मन्मन्त्रेण समाचर।
यदभीष्टं तु वै कार्यं निःशङ्को विगतज्वरः ॥ 18 ॥
View Verse
इत्युक्त्वादर्शनं याति शक्तिर्नारायणात्मिका।
ततः कर्माणि कुर्वीत विविधानि त्वनेकशः ॥ 19 ॥
View Verse
लोकेऽस्मिन् यान्यभीष्टानि स्वात्मनश्च परस्य वा।
तत्राप्युद्देशतो वक्ष्ये शृणु तत्त्वेन वज्रधःत् ॥ 20 ॥
View Verse
ज्वालावद्रसनां ध्यायेद्देवीमन्त्रेण साधकः।
उद्‌ग्राहयति वै यस्य यस्मिन् यस्मिन् हि वस्तुनि ॥ 21 ॥
View Verse
विजित्य न्यायतस्तं वै जयमाप्नोत्ययत्नतः।
गजाश्वशस्त्रभृत्पूर्णमपि सैन्यं बलान्वितम् ॥ 22 ॥
View Verse
दृष्ट्वान्यस्य (समायान्तं A. F. G.)समायुक्तं हन्तुमभ्युद्यतं(अब्युत्थितं B.) रणे।
परिजप्य धनुः खड्‌गं खेटकं बाणपञ्चकम् ॥ 23 ॥
View Verse
प्रेरयेद्यस्य वै दत्त्वा स गत्वा तु चमूमुखम्।
विदारयति चैकाकी जयमाप्नोति शाश्वतम् ॥ 24 ॥
View Verse
द्यात्वा दक्षिणपाणिस्थं त्रिकोणं चाग्निमण्डलम्।
तन्मध्ये चिन्तयेद्देवीं परिवारसमन्विताम् ॥ 25 ॥
View Verse
मत्तेबसिंहसर्पाणामशनीनां च दर्शने।
क्षिप्रं पराङ्‌मुखा यान्ति दृष्ट्वा हस्ततलं तु तत् ॥ 26 ॥
View Verse
खादिरं मुसलं स्पृष्ट्वा चादाय शतमन्त्रितम्।
कृत्वा गत्वा बिलद्वारं चतुर्वर्णं जयान्वितम् ॥ 27 ॥
View Verse
मुसलाहननान्यष्टौ दद्यात् तत्र शनैः शनैः।
देवीमन्त्रेण देवेश स्वास्त्रसंपुटितेन तु ॥ 28 ॥
View Verse
फट्‌कारान्तेन तु ततो बिलयन्त्रं यजेदथ।
समस्तजनसंयुक्तो विशेत् साधकसत्तमः ॥ 29 ॥
View Verse
भित्त्वा यन्त्राण्यनेकानि जित्वा दानवपुंगवान्।
जनानां योजनं तत्र कृत्वा कान्तागणैः सह ॥ 30 ॥
View Verse
पीत्वा तु सात्त्विकं पानं स्वहस्तेन महाबलः।
स निर्याति स्वमार्गेण तेनैव स्वनिवेशनम् ॥ 31 ॥
View Verse
करोति यदि देवेश मतिं मन्त्री जगत्त्रये।
जयं प्रत्यविचारेण गदाचक्रकरोद्यतः ॥ 32 ॥
View Verse
पाशाङ्कुशधरो वाथ जयं प्राप्नोति नान्यथा।
लिखेद्रोचनया भूर्जे कुङ्कुमेन घनेन च ॥ 33 ॥
View Verse
संपुटीकृत्य वै नाम निधाय जनमध्यगम्।
तदा सुजयमाप्नोति दिव्यैः सर्वैस्तु लीलया ॥ 34 ॥
View Verse
विलिख्य चन्दनेनैव पयसा कुङ्कुमेन च।
धारयेद्यो गले वक्त्रे(वस्रे A. C. G.) करे वामेऽथ दक्षिणे ॥ 35 ॥
View Verse
सर्वदा तु जयं शक्र संप्राप्नोत्यविचारतः(अनिवारितः F.)।
जयार्थं त्रिदशेशान मन्त्रं वै यत्र कुत्रचित् ॥ 36 ॥
View Verse
मन्त्री प्रयोजयेच्छश्वत् तत्र तत्राप्नुयाज्जयम्।
जया नाम तृतीया मे या तनुः परिकीर्तिता।
तस्या विधानमित्येतत् तव शक्र प्रदर्शितम् ॥ 37 ॥
View Verse

Chapter - 49

एकोनपञ्चाशोऽध्यायः - 49
श्रीः---
चतुर्थी या तनुर्मान्त्री मायाख्या मम वासव।
तस्या विधानमधुना शृणु मन्त्रक्रियान्वितम् ॥ 1 ॥
View Verse
मूर्त्यङ्गसखिदासाख्यां मायीयां मन्त्रसंततिम्।
स्वहस्ते पूर्ववन्न्यस्य विग्रहे तदनन्तरम् ॥ 2 ॥
View Verse
हृदयान्तर्गतां चेष्ट्वा भोगैः सर्वैश्च पूर्ववत्।
बाह्ये तु मण्डलं कृत्वा मध्ये च कमलं शुभम् ॥ 3 ॥
View Verse
तत्रोत्सङ्गगतां विष्णोर्हृदयादवतार्य च।
आराधयेत्ततो मायामङ्गसख्यादिसंयुताम् ॥ 4 ॥
View Verse
चामराङ्कुशहस्ताश्च बद्धपद्मासनस्थिताः।
मायामयादयो ध्येयाश्चत्वारोऽनुचरास्तथा ॥ 6 ॥
View Verse
संपूर्णसर्वावयवाः स्निग्धालिकुलसंनिभाः।
चतुर्भुजा महाकायाः सौम्यवक्त्राः स्मिताननाः ॥ 7 ॥
View Verse
केयूराभरणोपेताः पीताम्बरधरास्तथा।
हारनूपुरसंयुक्ता नानाकुसुममण्डिताः ॥ 8 ॥
View Verse
तुषारधूलिधवलाः खड्‌गपाशकरोद्यताः।
बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये ॥ 9 ॥
View Verse
दर्शयित्वा तथा मुद्रा यस्य यस्य हि याः स्मृताः।
होमं तदनु कुर्वीत तिलैः सिद्धार्थकान्वितैः ॥ 10 ॥
View Verse
ततो नियममाश्रित्य कृत्वा तदनु वासव।
देवीरूपं स्वमात्मानं भावेनाव्यभिचारिणा ॥ 11 ॥
View Verse
प्रयायाद्विजनस्थानं(विजयस्थानं I.) प्रौढोत्तरसहायवान्।
जपेल्लक्षाणि वै सप्त पूर्वोक्तविधिना व्रती ॥ 12 ॥
View Verse
क्षीरमूलफलाहारो देशकालवशात्तु वै।
अयाचितैकभिक्षाशी यावकेनापि वर्तयन् ॥ 13 ॥
View Verse
स्वशिष्यसाधितं वान्नं मन्त्रपूतमसैन्धवम्(पूतं सुतण्डुलम् B. G.)।
तैलमांसविनिर्मुक्तं संध्याकाले ह्युपस्थिते ॥ 14 ॥
View Verse
बलां मोटां तथा मांसीं चक्राङ्गीं नागकेसरम्।
चन्दनं कुङ्कुमक्षोदं रजनीचूर्णमेव च ॥ 16 ॥
View Verse
मेलयेत् सुघृतानां च तिलानां(तिलान्नं C.; तिलांस्तान् I.) मधुना ततः।
भावयेत् सघृतेनैव(स्वधितान्नं च I.) त्रिलक्षं जुहुयात् ततः ॥ 17 ॥
View Verse
मध्यमानामिकाभ्यां च साङ्गुष्ठाभ्यां पुरंदर।
अन्तेऽयुतत्रयं चैव समिधां परिहोमयेत ॥ 18 ॥
View Verse
प्राग्राजार्कतरूत्थानां खादिराणां ततः परम्।
सुरदारुमयीनां च तृतीयमयुतं ततः ॥ 19 ॥
View Verse
दद्यात् पूर्णाहुतिं सम्यक् सुशुद्धेनान्तरात्मना।
पतितायां तु पूर्णायामायाति गगनान्तरात् ॥ 20 ॥
View Verse
परिवारान्विता माया भाषते साधु साध्विति।
कुरु कार्यमभीष्टं च मन्मन्त्रेणाधुना व्रज ॥ 21 ॥
View Verse
प्रारभेताञ्जसा शक्र यान्यभीष्टानि चेतसा।
आत्मार्थे वा परार्थे वा लेशतस्तानि मे शृणु ॥ 23 ॥
View Verse
प्रजप्यामलकं बिल्वं सकृन्नृपगृहं(भूपगृहं C.) विशेत्।
कोशस्याग्रे विनिक्षिप्य यत्र यत्र स्थितः स तु ॥ 24 ॥
View Verse
गगनात् प्रपतेत् तूर्णं यद्यद्वित्तं समीहते।
यद्यच्चाभरणं श्लाघ्यं यद्यद्वा वसनं शुभम् ॥ 25 ॥
View Verse
एवं वै व्रीहिगुलिकां(गुलिकं A. I.) तथैव तिलतण्डुलम्।
क्षिपेद्धान्यकुले पूर्णए गोष्ठागारेऽथ खातके ॥ 26 ॥
View Verse
राजकीये तथात्मीये यत्र यत्र स्थितस्ततः।
यद्यत् समीहते घान्यं सस्यं वा तण्डुलान्वितम् ॥ 27 ॥
View Verse
तत्तदग्रेऽथ गगनात् पतत्येव यथेप्सितम्।
एवमेव तु सिद्धान्नगुलिकां परिजप्य च ॥ 28 ॥
View Verse
क्षिप्त्वा महानसोद्देशे सिद्धान्नं कर्षयेत् क्षणात्।
गुलिकां गोमयेनैव कृत्वा तु बदरीसमाम् ॥ 29 ॥
View Verse
निक्षिप्य गोव्रजस्यान्तः सप्तवाराभिमन्त्रिताम्।
ध्यानमात्रात् क्षणस्यान्ते दधिक्षीराज्यपूरितान् ॥ 30 ॥
View Verse
भाण्डांस्च पृष्ठतः पश्येद्यत्र यत्र स्थितो व्रती।
प्रजप्य बदरं सम्यक् फलमन्यत्तु वा क्वचित् ॥ 31 ॥
View Verse
क्षिपेन्मधुवने राज्ञः फलाकृष्टिं करोति च।
सुपुष्पवाटिकायां तु पुष्पमेकं विनिर्दिशेत् ॥ 32 ॥
View Verse
जप्त्वा वारत्रयं मन्त्री पुष्पाण्याकर्षयेत् क्षणात्।
यत्र यत्र तदङ्गोत्थं सप्तजप्तं विनिक्षिपेत् ॥ 33 ॥
View Verse
तत्र तत्र तु तत् तिष्ठेते संकल्पे तु कृते सति।
यथेच्छं(यथेष्टं C.)तु समाकृष्टं तत्र तत्र तु तद्‌ व्रजेत् ॥ 34 ॥
View Verse
न चापि साधकवरः सऋणो(जीर्णो B. C.) जायते क्वचित्।
कृत्वाङ्गारकणं चैव शतं जप्तं समाहितः(समाहितम् C.) ॥ 35 ॥
View Verse
क्षिपेत् सलिलमध्ये तु ज्वलत् तद् दृश्यते जलम्।
कुशाग्रस्थं जलकणं शतवाराभिमन्त्रितम् ॥ 36 ॥
View Verse
कृत्वा हुताशराशौ तु ज्वलमाने विनिक्षिपेत्।
भवेत् पानीयमिव च स वह्निर्दृश्यते क्षणात् ॥ 37 ॥
View Verse
वालुकापरिपूर्णं चाप्यरण्यं तु तृणोज्झितम्।
दृष्ट्वा तत्र विनिक्षिप्य तृणं द्विशतमन्त्रितम् ॥ 38 ॥
View Verse
पुष्पपत्रसमाकीर्णं पत्रपल्लवसंकुलम्।
कुर्यान्नन्दनतुल्यं तत् तोयराशिसमावृतम् ॥ 39 ॥
View Verse
गेयवेदध्वनियुतं ललनाभिश्च शोभितम्।
नृपाणामेतदाश्चर्यं(आचर्यं B.) दर्शनीयं सदैव हि ॥ 41 ॥
View Verse
करोति मन्त्रितैर्लोष्टैर्गोमयेनाष्टसंख्यया।
अरिवर्गे गृहीतास्त्रे संमुखे सति तिष्ठति ॥ 43 ॥
View Verse
क्रोधाच्चैव तथोद्युक्त एकाकी यदि तिष्ठति।
जपमानस्तु वै मन्त्रं संकल्प्य मनसा महत् ॥ 44 ॥
View Verse
आत्मीयं च बलं पत्तिस्यन्दनाश्वगजाकुलम्।
तस्य संपद्यते क्षिप्रं चमूर्घोरपराक्रमा ॥ 45 ॥
View Verse
दृष्ट्वा तां विमुखं याति हतौजस्कं रिपोर्बलम्।
करोति शक्र यत्किंचिन्मनसा मन्त्रमुच्चरन् ॥ 46 ॥
View Verse
जपमानो महामन्त्रं (स्यात्स I.)स स्यात् पुष्पफलाकुलः।
पत्रपुष्पफलोपेतं पाणिभ्यां मन्त्रमुच्चरन् ॥ 48 ॥
View Verse
पीढयेत् पादपं मन्त्री स शोषमधिगच्छति।
पर्वताग्रस्थितो मन्त्रं (नाशार्थाय I.)तन्नाशार्थं जपेद्यदि ॥ 49 ॥
View Verse
पतेदधस्ताच्छैलस्तु यावदिच्छति साधकः।
तुष्टः प्रोत्थापयेत् पश्चात् पातालात् पर्वतोत्तमम् ॥ 50 ॥
View Verse
चान्दनेन रसेनैव मन्त्रं पद्मोदरे न्यसेत्।
पत्रेष्वङ्गानि चालिख्य सुशुभे दिवसे ततः ॥ 51 ॥
View Verse
पूजयित्वाथ पुष्पाद्यैर्वेष्टनैर्वेष्टयेत्तथा।
पूर्ववद् धारयेद्यन्त्रं तस्य सर्वा विभूतयः(हि सिद्धयः G.) ॥ 52 ॥
View Verse
मूर्तेश्चतुर्थ्या वृत्रारे प्रबावोऽयं महाद्भुतः।
लेशतो दर्शितस्तस्याः साकल्य मम दुर्वचम् ॥ 54 ॥
View Verse
देवीचतुष्टयस्यैष सिद्धिसंघः समासतः।
किंचित्तु लेशतः प्रोक्तः साधकानां हिताप्तये ॥ 55 ॥
View Verse
तेब्यो दिव्यानि भौतानि प्रयच्छति शुभानि च
विमलां च मनःशुद्धिमन्ते च परमं पदम् ॥ 56 ॥
View Verse
प्रकाशयति भक्तानां वैष्णवं चाविनाशितम्।
विस्तीर्णामिति मां लक्ष्मीमियतीभिर्विभूतिभिः ॥ 57 ॥
View Verse
भजेत विविधैर्भावैः क्षेमं कृत्वा मनःस्थितम्।
शक्रः---
नमो देवादिदेव्यै ते नमो वैकुण्ठवल्लभे ॥ 58 ॥
View Verse
कस्मिन् लक्षे मनः कृत्वा भजेयं त्वां सरोरुहे।
श्रीः---
एको नारायणो हंसः षाड्‌गुण्यामृतवारिधिः ॥ 59 ॥
View Verse
तस्याहं परमा शक्तिर्विष्णोरनपगामिनी(श्रीरनपायिनी B. G.)।
साहमङ्कस्थिता तस्य यथा ते पूर्वमीरिता ॥ 60 ॥
View Verse
लक्षं तदेव ते शक्र मनसः स्थैर्यकारणम्।
सर्वलक्षणसंपन्नां सुवर्णरजतादिभि- ॥ 61 ॥
View Verse
निर्माय मां विभोरङ्कस्थायिनीं शास्त्रदर्शनात्।
प्रतिष्ठाप्य विधानेन तैस्तैर्भावैर्भजस्व माम् ॥ 62 ॥
View Verse
शक्रः---
नमस्ते जगदावासे मनोनयननन्दिनि।
युवयोः स्थापनं कीदृग्बिम्बे षाड्‌गुण्यनिर्मिते ॥ 63 ॥
View Verse
श्रीः---
सर्वभूतो यथा विष्णुर्देवः षाड्‌गुण्यविग्रहः।
सर्वभूतात्मभूतस्था तादृश्येवाहमद्भुता(महाद्भुता F.) ॥ 64 ॥
View Verse
प्रतिष्ठितायाः सर्वत्र मम नारायणस्य च।
वस्तुतः का प्रतिष्ठा स्यात् सर्वं यद्वैष्णवं यशः ॥ 65 ॥
View Verse
तमिमं वास्तवं भावमारूढं मानसं यतेः।
अर्चा प्रतिष्ठा चेत्येते विकल्पाः प्रविजृम्भिताः ॥ 66 ॥
View Verse
शृणु तत्र प्रतिष्ठां मे यथावद्बलसूदन।
यया विहितया देही कृतार्थत्वं प्रपद्यते ॥ 67 ॥
View Verse
निर्माप्य शास्त्रतः सम्यग्योगोक्तं रूपमावयोः।
सूक्ताभ्यां सपवित्राभ्यां स्नापयेत् तीर्थवारिणा ॥ 68 ॥
View Verse
आच्छाद्य नववस्रेण विप्रैरध्यापयेत् सह।
विमलैर्धर्मतत्त्वज्ञैस्रयीसात्त्वतशास्त्रयोः ॥ 69 ॥
View Verse
तारकं तारिकां चैव तथैवाप्यनुतारिकाम्।
सूक्तं च शाकुनं चैवाप्यधीयीरन् पवित्रवत् ॥ 70 ॥
View Verse
सूर्यस्यास्तमयं प्राप्य तद्बिम्बं वस्रवेष्टितम्।
ऋतं चेत्यादिसूक्तेन तथा सारस्वतेन च ॥ 71 ॥
View Verse
ऋग्भिर्हिरण्यवर्णाभिः कुर्याद्वार्यधिवासनम्।
उद्गते विमले सूर्ये कुर्याद्दिक्स्थापनं ततः ॥ 72 ॥
View Verse
उत्तिष्ठ ब्रह्मण इति प्रापयेयुश्च वेदिकाम्।
अपनीय ततो वस्त्रं स्नापयेच्छुद्धवारिणा ॥ 73 ॥
View Verse
याम्ये च वेदिभागे तु मृद्वास्तरणशोभिते।
बिम्बं पूर्वशिरस्कं तु शाययेज्जपपूर्वकम्(पूर्ववत् B.) ॥ 74 ॥
View Verse
पूरयेन्मधुसर्पिर्भ्यां तत्पात्रे च प्रदर्शयेत्।
सालंकारं धेनुयुग्मं तस्मिन् काले निवेदयेत् ॥ 77 ॥
View Verse
नयनोन्मीलनीयं तत् सर्वं दद्यात्तु शिल्पिने।
ततः सितेन सूत्रेण बद्ध्वा राजीः सुवाससि(वाससी I.) ॥ 78 ॥
View Verse
बध्नीयात्तारया तस्य कौतुकं दक्षिणे करे।
भद्रपीठे समारोप्य तथा बिम्बं तु सुस्थिरे ॥ 79 ॥
View Verse
आधारादिक्रमोपेत् सम्यग्भावेन पूजिते।
ततो बिम्बं निरीक्षेत धिया(तावत् I.) षाड्‌गुण्यपूरितम् ॥ 80 ॥
View Verse
ताडयित्वास्त्रमन्त्रेण कवचेनावकुण्ठ्य च।
सर्वौषध्युदकेनैव स्नापयेत् केवलेन च ॥ 81 ॥
View Verse
संमृज्याहतवस्रेण कौतुकं मोचयेत्ततः।
मन्त्रविच्चक्रमन्त्रेण दद्यादर्घ्यं तु मूर्धनि ॥ 82 ॥
View Verse
भावयित्वा ततो बिम्बं बिम्बं चारुरुचेरिव।
पूजितैर्मन्त्रितैः शुद्धैः कलशैर्द्रव्यपूरितैः ॥ 83 ॥
View Verse
षोडशच्छदपद्मोत्थपत्रषोडशकस्थितैः।
प्रथमं पञ्चगव्येन गोमूत्रेण द्वितीयकम् ॥ 84 ॥
View Verse
तृतीयं गोमयाम्भोभिस्तुर्यं त्रेताग्निभस्मना।
गजगोवृषशृङ्गाग्रवल्मीकोर्व्यम्बुना परम् ॥ 85 ॥
View Verse
शालिक्षेत्रनदीपद्मवनाद्युर्व्यम्बुना परम्।
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ॥ 86 ॥
View Verse
क्षीरेण नवमं दध्ना दशमं सर्पिषा परम्।
द्वादशं मधुना सर्वबीजाम्भोभिस्रयोदशम् ॥ 87 ॥
View Verse
फलैः परं परं धान्यैः (सुसुगन्धैस्तु I.)सुगन्धाद्भिस्तु षोडशम्।
अभिमन्त्र्य हृदा पूर्णमेकैकं कलशं पुरा ॥ 88 ॥
View Verse
स्नापयेन्मूलमन्त्रेण तैः षोडशभिरादरात्।
उदकान्तरितैः सार्घ्यपुष्पधूपप्रदीपकैः ॥ 89 ॥
View Verse
ततः सूक्ष्मां ततः स्थूलां स्थानेष्वेषु क्रमात् सुधीः।
मूर्ध्नि वक्त्रेऽसयोः कर्णे हृदि नाभौ तु पृष्ठतः ॥ 91 ॥
View Verse
कटिमूले तथोर्वोश्च जानुगुल्फेऽथ पादयोः।
तारकं विन्यसेदेवं तथैवाप्यनुतारिकाम् ॥ 92 ॥
View Verse
कुर्याच्च होतृविन्यासं यथा प्रोक्तं यजुर्मये।
एवं विन्यस्य पुरुषे मयि पश्चात् समाचरेत् ॥ 94 ॥
View Verse
विन्यस्य पूर्वं श्रीसूक्तं शिरो मे श्रीर्यजूंषि च।
ततश्च होतृविन्यासं विधायैवं तनुद्वये ॥ 95 ॥
View Verse
कुण्‍डे पूर्वविधानान्ते जुहुयात् सर्वशान्तये।
उक्ताश्च वर्तमानाश्च यावन्त्यो मन्त्रजातयः ॥ 96 ॥
View Verse
जुहुयात् तावतीभिस्तु सर्वदोषप्रशान्तये।
ऋचः पूर्वदिशाभागे दक्षिणस्यां यजूषि च ॥ 97 ॥
View Verse
प्रतीच्यां चैव सामानि सौम्य आथर्वणानि च।
समीपे सात्त्वतान्मन्त्रानेवमध्यापयेद् द्विजान् ॥ 98 ॥
View Verse
पूर्वं षोडशपत्राब्जकर्णिकास्थैश्चतुर्दिशम्।
कलशैः स्नापयेन्मन्त्रैस्तारतारानुतारवत् ॥ 99 ॥
View Verse
वसवस्त्वेति मन्त्रेण पुष्पाम्भःकलशेन तु।
रुद्रास्त्वा गन्धतोयेन स्वर्णाम्भःकलशेन तु ॥ 100 ॥
View Verse
अदित्यास्त्वेति विश्वेति रत्नोदकलशेन तु।
तारतारानुताराभिरभिषिञ्चेच्च मन्त्रवित् ॥ 101 ॥
View Verse
ततः शुद्धोदमादाय परादित्रिविधात्मना।
तारया त्वभिषिच्याथ तथार्घ्यं मूर्ध्नि निक्षिपेत् ॥ 102 ॥
View Verse
समालभ्य ततो बिम्बं चन्दनाद्यनुलेपनैः।
वासः प्रभृतिभिर्भोगैः प्रापणान्तैः समर्चयेत् ॥ 103 ॥
View Verse
मुद्रां बद्ध्वार्चयेत् पश्चात् पीठं ब्रह्मशिलान्वितम्।
समस्ताद्वमयं पीठं ध्यायेद्वैष्णवमुज्ज्वलम् ॥ 104 ॥
View Verse
पृथग्विनिर्मिते ते च कुर्यात्तु शयनोत्तरे।
शयनं स्थिरबिम्बस्य वक्ष्यमाणं विधीयते ॥ 106 ॥
View Verse
प्रासादगमनं चैव पीठब्रह्मशिलास्थितिः।
तत्प्रतिष्ठापनं चैव बिम्बस्यावाहनं ततः ॥ 107 ॥
View Verse
चलबिम्बप्रतिष्ठां च चतुष्कलशसेचने।
आराध्यावाहनं कुर्याद्यथा तदवधारय ॥ 109 ॥
View Verse
परातीते गुरुः स्थित्वा पुनः स्वहृदयाम्बुजे।
शक्तिं सत्तामयीं विष्णोरनुरूपामनुस्मरेत् ॥ 111 ॥
View Verse
यद्बिम्बं संस्कृतं पूर्वं तन्मयं तदनुस्मरेत्।
अग्नीषोममयौ बावौ स्वदेहस्थावनुस्मरेत् ॥ 112 ॥
View Verse
ऊर्ध्वाधोव्यापकत्वेन स्थितौ परमभास्वरौ।
यथात्मनि तथा बिम्बे यथा बिम्बे तथात्मनि ॥ 113 ॥
View Verse
दक्षिणेन ततो यायादग्निमार्गेण देहतः।
प्रविशेद्वाममार्गेण बिम्बस्य हृदयं धिया ॥ 114 ॥
View Verse
यथात्मनात्मा हृदये स्वानुभूतो ह्यनूपमः।
तथा तद्धृदयान्तः स्थमात्मानमनुसंस्मरेत् ॥ 115 ॥
View Verse
दृष्ट्वा स्वरश्मिखचितमानन्दापूरितं महः।
तस्मिंस्तस्मिन् परब्रह्मण्यैकध्यं(एक्तवं I.) तस्य चिन्तयेत् ॥ 116 ॥
View Verse
एवमेकार्णवीकृत्य वैष्णवं तत् परं महः।
तिष्ठेत् समादधानस्तदस्पन्दं स्वमनो दधत् ॥ 117 ॥
View Verse
मनसि(मनस्वी F.) स्पन्दमानेऽथ स्मृत्वा तं स्वं धिया(द्विधा A. G.) पुनः।
बिम्बाद् दक्षिणमार्गेण बहिर्निष्क्रम्य मेधया ॥ 118 ॥
View Verse
संविशेद्वामभागेन स्वमेव हृदयाम्बुजम्।
योगोऽयं द्रव्यबिम्बस्य (नाडीबिम्ब A.; नानाबिम्ब I.)नाडीबृन्दप्रवर्तकः ॥ 119 ॥
View Verse
योगान्तरमथातिष्ठेत् तस्य सर्वेशिताप्तये।
ध्यायीतातो हृदम्भोजात् तारिकां तारिणीं गृणन् ॥ 120 ॥
View Verse
यायादूर्ध्वप्रवाहेण परं पदमनामयम्।
ततः स्मरेत् परं(पदं I.) तच्च (क्षोभं I.)भोगं प्राप्तं स्वयेच्छया ॥ 121 ॥
View Verse
ततस्तत्स्पन्दमादाय विज्ञानैश्वर्यशक्तिमत्।
अनाकुलं पुनर्यायात् पथा तेन हृदम्बुजम् ॥ 122 ॥
View Verse
दक्षिणेन विनिष्क्रम्य परस्परसहायवान्।
तद्बिम्बहृदयाम्भोजं वामेनैव तु संविशेत् ॥ 123 ॥
View Verse
ध्यात्वा पूर्ववदेकत्वं विनिष्क्रम्योर्ध्वमार्गतः।
द्वाशान्तं समाविश्य पूर्ववत् स्पन्दमेत्य च ॥ 124 ॥
View Verse
यथाबिम्बं हृदम्भोजं तेनैव प्रविशेत् सुधीः।
ततोऽग्निना विनिष्क्रम्य सव्येन हृदयं विशेत् ॥ 125 ॥
View Verse
स्मरेत् स्पन्दमथैश्वर्यं स्वचक्षुर्द्वयगोलकम्।
परस्परं निरीक्ष्याथ तन्वानावेकतामिव ॥ 126 ॥
View Verse
अन्योन्यालोकनाब्यां तावनुविद्धावनुस्मरेत्।
एतदीश्वरसंधानं नाम योगोऽनुवर्णितः ॥ 127 ॥
View Verse
येन सर्वेषु बिम्बेषु सर्वेशित्वं सदा भवेत्।
अथ शब्दानुसंधानं मन्त्रबिम्बैकता हि या(अभिधा I.) ॥ 128 ॥
View Verse
सा (सत्ता G. I.)स्मृता वैष्णवी सूक्ष्मा शक्तिर्विष्णोर्निरञ्जना।
तत्सामानय्मयो भूत्वा तस्मिन् स्वं लोपयेद् ध्वनिम् ॥ 129 ॥
View Verse
ततः शब्दार्थसंस्कारसार्धस्पन्दोद्यमो हि यः।
तत् स्मरेत् परमं सूक्ष्मं पश्यन्तीपदमुन्मिषत् ॥ 131 ॥
View Verse
संकल्पपदवीरूढस्तत्तत्संस्काररञ्जितः।
स्वकं वाच्यं पृथक्कृत्य तदुद्दिश्योदयो हि यः ॥ 132 ॥
View Verse
शाब्दं तन्मध्यमं रूपं स्मरेद्धृत्पद्ममध्यगम्।
नानास्थानप्रयत्नोत्थैः करणश्वसनेरितैः ॥ 133 ॥
View Verse
बोधशब्दात्मकं तस्मात् परसूक्ष्मादिभेदवत्।
वपुरित्यनुसंधाय तद्बिम्बं भावयेत् ततः ॥ 135 ॥
View Verse
शब्दसंहारयोगेन स्वं वपुस्तच्च बिम्बकम्।
निष्कम्पबोधशब्दात्म(शब्दार्थौ F.) स्मृत्वा तद्‌द्वितयं तथा ॥ 136 ॥
View Verse
पूर्वोक्तक्रमयोगेन शब्दब्रह्म ह्यनाहतम्।
पश्यन्त्यादिक्रमेणैव शब्दबिम्बमयं(ब्रह्ममयं G.) स्मरेत् ॥ 137 ॥
View Verse
एवं शब्दानुसंधानं कृत्वा मन्त्रानुसंहितम्।
आरभेत सुधीः कर्म तस्य योगोऽयमुच्यते ॥ 138 ॥
View Verse
अनाहतं परं नाभौ पश्यन्तीपदमागतम्।
नालसूत्रमिवान्तःस्थं मध्यमे हृदयाम्बुजे ॥ 139 ॥
View Verse
स्थित्वा तद्वैखरीद्वारा बिम्बान्तः संविशत् स्मरेत्।
स्फुरन्नादस्वरूपं च मन्त्रैर्व्याप्तं तथाखिलैः ॥ 140 ॥
View Verse
आवाहनं ततः कुर्याद् बिम्बेऽस्मिन् हरिमेधसः।
पूर्वमावाहयामीति तथा सर्वाङ्गमन्त्रतः ॥ 142 ॥
View Verse
प्रवेशनिर्गमौ लक्ष्म्याः स्मरेद्देवस्य देहतः।
ऋग्भिः पञ्चभिराद्याभिस्तस्या आवाहनं स्मृतम् ॥ 143 ॥
View Verse
द्वादशाङ्गकलान्यासं देवन्यासवदाचरेत्।
भवतं नः सुमनसाविति द्वावनुसान्त्वयेत् ॥ 144 ॥
View Verse
एतावती चले बिम्बे प्रतिष्ठान्यत्र तु स्थिरे।
कुर्यात् पूर्वोक्तमार्गेण सात्त्वतादिविधानवित् ॥ 145 ॥
View Verse
यदेतदनुसंधानत्रितयं(तृतीयं B.) पूर्वमीरितम्।
एतदेव (प्रतिष्ठायां I.)प्रतिष्ठानमुभयत्रेति मे मतिः ॥ 146 ॥
View Verse
इत्थं संस्कारसंपन्ने तद्बिम्बद्वितये सुधीः।
लक्ष्मीं लक्ष्मीपतिं चैव धिया पश्यन्नुपस्थितौ ॥ 147 ॥
View Verse
तन्मनाश्चैव तद्भक्तस्तद्याजी तज्जपोद्यतः।
तद्योगी सततं भूत्वा तावेवान्ते प्रपद्यते ॥ 148 ॥
View Verse
प्रतिष्ठेयमिति प्रोक्ता साक्षाज्ज्ञानमयी परा।
ज्ञानं विना न चैवान्यन्नराणां तारकं (मतम् I.)स्मृतम् ॥ 149 ॥
View Verse

Chapter - 50

पञ्चाशोऽध्यायः - 50
शक्रः---
विश्वारणे नमस्तुभ्यं नमो विश्वविभूतये।
सर्वासामपि सिद्धीनां नमस्ते मूलहेतवे ॥ 1 ॥
View Verse
आदिदेवात्मभूतायै नारायणकुटुम्बिनि।
समस्तजगदाराध्ये नमस्ते पद्मयोनये ॥ 2 ॥
View Verse
त्वत्प्रसादाच्छ्रुता मन्त्रास्त्वदीयाः सिद्धयो मया।
आराधनं च सर्वेषां यथावदवधारितम् ॥ 3 ॥
View Verse
इदानीं श्रोतुमिच्छामि त्वद्वक्त्राम्बुजनिः सृतम्।
त्वत्सूक्तस्य विधिं कृत्स्नमुपसन्नोऽस्म्यधीहि भो ॥ 4 ॥
View Verse
श्रीः(श्रीरुवाच B. F. I.)---
देवो नारायणो नाम जगतस्तस्थुषस्पतिः।
आत्मा च सर्वलोकानां षाड्‌गुण्यानन्दविग्रहः ॥ 5 ॥
View Verse
तमसां तेजसां चैव भासकः स्वप्रकाशतः।
अन्तर्यामी नियन्ता च भावाभावविभावितः(विभावनः A. B. C.) ॥ 7 ॥
View Verse
शक्तिमान् सकलाधारः सर्वशक्तिर्मदीश्वरः।
तस्याहं परमा शक्तिरेका श्रीर्नाम शाश्वती ॥ 8 ॥
View Verse
निरस्तनिखिलावद्या सर्वकामदुघा विभोः।
आत्मभित्तिसमुन्मीलच्छुद्धाशुद्धाध्ववर्गिणी ॥ 9 ॥
View Verse
अनुव्रता हृषीकेशं सर्वतः समतां गता।
तावावां परमे व्योम्नि पितरौ जगतः परौ ॥ 10 ॥
View Verse
अनुग्रहाय लोकानां स्थितौ स्वः परया श्रिया।
कदाचित्कृपयाविष्टौ जीवानां हितकाम्यया ॥ 11 ॥
View Verse
मथ्नीवः स्मातिगम्भीरं शब्दब्रह्ममहोदधिम्।
मथ्यमानात्ततस्तस्मात् सामर्ग्यजुषसंकुलात् ॥ 13 ॥
View Verse
तत् सूक्तमिथुनं दिव्यं दध्नो घृतमिवोत्थितम्।
अनाहतमसंदिग्धमनस्पष्टमनश्वरम् ॥ 14 ॥
View Verse
सर्वैश्वर्यगुणोपेतमनाकुलपदाक्षरम्(अनाकुलमनातुरम् I.)।
आद्योस्तथान्तयोः शश्वदन्योन्याक्षरमिश्रितम् ॥ 15 ॥
View Verse
स्वीचकारारविन्दाक्षः स्वमहिम्नि प्रतिष्ठितम्।
तत्र स्रीलक्षणं सूक्तं सद्‌ब्रह्मगुणभूषितम् ॥ 17 ॥
View Verse
स्वीचकाराहमव्यग्रा स्वमहिम्नि प्रतिष्ठितम्।
ते एते परमे सूक्ते महर्षिगणसेविते ॥ 18 ॥
View Verse
अघोराण्यमराध्यक्ष तानि तानि सहस्रशः।
तत्र संप्रति (मत्सूक्ते B.)मत्सूक्तविधानं विहितं शृणु ॥ 20 ॥
View Verse
मामेवास्य(आद्यं I.) मुनिं विद्याच्छन्दः श्रीर्नाम कथ्यते।
देवता सकलाधारा विष्णुपत्न्यहमीश्वरी ॥ 21 ॥
View Verse
विनियोगोऽस्य सूक्तस्य लक्ष्मीनारायणार्चने।
अङ्कस्थां भावयेल्लक्ष्मीं विष्णोर्मां परमेश्वरीम् ॥ 22 ॥
View Verse
अथ मामर्चयेदृग्भिः प्रयतः परमेश्वरीम्।
वामोत्सङ्गनिषण्णां मां देवदेवस्य शार्ङ्गिणः ॥ 24 ॥
View Verse
कुर्यात् प्रथमया चर्चा त्वावाहनमतन्द्रितः।
द्वितीययासनं दद्याद् देवदेवस्य शार्ङ्गिणः ॥ 25 ॥
View Verse
तृतीययार्घ्यमीशाने (पश्चात्पाद्यं I.)पाद्यं चापि प्रकल्पयेत्।
चतुर्थ्याचमनं चैव पञ्चम्या चोपहारकम् ॥ 26 ॥
View Verse
षष्ठ्या स्नानं प्रकुर्वीत सह नौ साधकोत्तमः।
सप्तम्या वाससी दद्यादष्टम्या भूषणानि च ॥ 27 ॥
View Verse
गन्धं दद्यान्नवम्या तु दशम्या सुमनश्चयम्।
पराभ्यां (दीपधूपौ B.)धूपदीपौ तु परया मधुपर्ककम् ॥ 28 ॥
View Verse
प्रापणं च चतुर्दश्या पञ्चदश्या नमस्क्रियाः।
तारिकामनुतारं च प्रयुञ्जीयादथान्ततः ॥ 29 ॥
View Verse
प्रत्यृचं नियतो मन्त्री जपेच्छक्त्या यथाविधि।
सूक्तस्य विलयं पश्चात्तारिकायामनुस्मरेत् ॥ 30 ॥
View Verse
तारिकास्थौ च नौ ध्यात्वा स्मरेत् सर्वगतिं च नौ।
ऋग्भिश्चतसृभिर्यद्वा पूर्वमावाहनक्रिया ॥ 31 ॥
View Verse
पञ्चम्या तु प्रपद्येत श्रियं मां शुद्धचेतसा।
आप इत्यनया कुर्यादर्घ्यपाद्याचमक्रियाः ॥ 32 ॥
View Verse
आर्द्रामिति च मत्स्नानं कर्दमेनेति चाम्बरम्।
गन्धद्वारेति(द्वारेण C. F. I.) गन्धाः स्युरुपैतु स्यादलंकृतिः ॥ 33 ॥
View Verse
कां सोस्मि (दीपधूपौ B.)धूपदीपौ च षष्ठ्या चैवोपहारकम्।
मनसः काममित्येवं मधुपर्कं प्रकल्पयेत् ॥ 34 ॥
View Verse
क्षुत्पिपासामिति ह्येषा प्रापणप्रतिपादिका।
अन्त्यया तु नमस्कारः शिष्टं पूर्ववदाचरेत् ॥ 35 ॥
View Verse
सूक्तेऽस्मिन् मम नामानि पञ्चाशत् त्रीणि चाप्युत।
तेषां निरुक्तिं मत्तस्त्वं शृणु जम्भनिषूदन ॥ 36 ॥
View Verse
निहिता सर्वभूतेषु रणे(व्रणे C.) भृङ्गवधूरिव।
जनयन्ती परं नादं तैलधारावदच्युतम् ॥ 37 ॥
View Verse
निमेषोन्मेषयोर्मध्ये सूर्याचन्द्रमसोः स्थिता।
मूलमाधारमारभ्य द्विषट्‌कान्तमुपेयुषी ॥ 38 ॥
View Verse
वैखरीस्थानमासाद्य तत्राष्टस्थानवर्तिनी।
वर्णानां जननी भूत्वा भोगान् प्रश्नौमि गौरिव ॥ 40 ॥
View Verse
हिरण्यवर्णेत्येवं मां प्रजापतिरुदारधीः।
स्तुत्वा तु(अथ I.) मत्प्रसादात् स योगानां धर्ममूचिवान् ॥ 41 ॥
View Verse
प्रणवादिर्नमोऽन्तोऽयं मन्त्रो मम नवाक्षरः।
शब्दब्रह्ममयः साक्षाद्योगिनां योगसाधकः ॥ 42 ॥
View Verse
दूराद्‌ दूरतरं यामि हरिणी योगिमानसात्।
भक्त्या बध्नन्ति निजया योगिनो मां यतव्रताः ॥ 43 ॥
View Verse
षष्टिरष्टौ सहस्राणि योगिनो मत्परायणाः।
हरिणीं मामनुध्याय प्रत्याहारं परं गताः ॥ 44 ॥
View Verse
हरिणाजिनसंवीतां हरिणाजिनसंस्तराम्।
हरिणाश्लिष्टमध्यां तां हरिणायतलोचनाम् ॥ 45 ॥
View Verse
सदा हरिणभासाहं हारिणी दुरितं सताम्।
प्रणवादिर्नमोऽन्तश्च मन्त्रोऽयं मे षडक्षरः ॥ 47 ॥
View Verse
सर्वार्थसाधकः साक्षाद्योगसाधनमुत्तमम्।
सौवर्णैः कल्पिता नित्यं मम माला सरोरुहैः ॥ 48 ॥
View Verse
सृजामि शोभनान् वर्णान् (स्रष्टुं A. G.)सुष्ठु विश्वं वृणामि वा।
सृताश्चापि मयाजस्रं बद्धमुक्तादयो ह्यजाः ॥ 49 ॥
View Verse
सुवर्णस्रजमित्येवं गुह्यकानामधीश्वरः।
मेरौ चिरमुपस्थाय धनेशत्वमवाप्तवान् ॥ 50 ॥
View Verse
अष्टाक्षराविमौ मन्त्रौ (सतार A. B.)सतारौ नमसा युतौ।
जपार्चनहुतध्यानादभीष्टं साधयिष्यतः ॥ 53 ॥
View Verse
चंक्रम्यमाणा भक्तानां द्रावयामि च दुष्कृतम्।
चन्द्रवत् सततं चित्तं भक्तानां द्रावयामि च ॥ 54 ॥
View Verse
उदेमि योगिनामन्तरानन्दस्पन्दलक्षणा।
चतुर्थीं तु दशां तेषां चन्द्रवद्भासयामि च ॥ 55 ॥
View Verse
योगान्तरायनिहतो वसिष्ठः परमो मुनिः।
अन्तस्चन्द्रमयीं शुद्धां चिदानन्दमहोदधिम् ॥ 56 ॥
View Verse
भवदावाग्निदग्धानां निर्वृतिं प्रकरोत्ययम्।
आधाराब्जाद् द्विषट्‌कान्तं सूर्यभासा हिरण्मयी ॥ 58 ॥
View Verse
उदेमि सततं प्रोक्ता शब्दसंकल्पकोरकैः।
प्रकृतेश्च परे व्योम्नि मण्डले च त्रयीमये ॥ 59 ॥
View Verse
हिरण्मयेऽवतिष्ठेऽहं हिताय जगतां सदा।
तां मां हिरण्मयीत्येवं मुनयो वेदपारगाः ॥ 60 ॥
View Verse
स्तुत्वा समाप्रुवन् कामं योगिनो योगमुत्तमम्।
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामार्थसाधकः ॥ 61 ॥
View Verse
साक्षिणी सर्वभूतानां लक्षयामि शुभाशुभम्।
लक्ष्मीश्चास्मि हरेर्नित्यं लक्ष्यं सर्वमितेरहम् ॥ 62 ॥
View Verse
ददती क्षेपणी चास्मि नित्या त्रिप्रेरणी तथा।
तथा ज्ञानस्वरूपाहं लक्षणीया मितौ मितौ ॥ 63 ॥
View Verse
लये निवासे निर्माणे प्रेरणी प्रकृतेरहम्।
लक्षणाख्यस्य भावस्य कलाकाष्ठादिरूपिणी ॥ 64 ॥
View Verse
अव्यक्तव्यक्तसत्त्वस्था प्रेरयित्री सदास्म्यहम्।
लक्षं नयामि चात्मानं लामि चान्ते क्षिपामि च ॥ 65 ॥
View Verse
क्षिपामि क्षपयाम्येका क्षिणोमि दुरितं सताम्।
क्षमे क्षमा हि भूतानां मिमे मन्ये च मामि च ॥ 66 ॥
View Verse
पञ्चाक्षरो ह्ययं मन्त्रः पातालगतिसाधनः।
दिव्यान्तरिक्षभौमानां भोगानामुपपादनः ॥ 68 ॥
View Verse
तनुर्ज्ञानमयी सा मे (विष्णोरिव विवर्तते I.)विष्णोर्हृदि च वर्तते।
आत्मज्ञानमिदं पुण्यं (योगरूपसमन्वितम् I.)योगज्ञानमिदं परम् ॥ 69 ॥
View Verse
अपश्चाहमयाम्येका द्रवो भूत्वा गुणो महान्।
अपावाहयमादौ च मुनिं भूत्वा सरस्वती ॥ 71 ॥
View Verse
सारस्वते जले पूर्वं (विश्वामित्रे सितात्मनि I.)विश्वामित्रोदिता सती।
अपोवाह वसिष्ठं तं सत्यसन्धा सरस्वती ॥ 72 ॥
View Verse
ऋषयः प्राहुरेवं मां वसिष्ठे स्रोतसा हृते।
सत्ये सत्यप्रियं पाहि वसिष्ठं शात्रवादिति ॥ 73 ॥
View Verse
साहं सरस्वती भूत्वा तमपोवाह शात्रवात्।
ऋषयो नाम चक्रुर्मे तदा ह्यनपगामिनीम् ॥ 74 ॥
View Verse
नवाक्षरो ह्ययं मन्त्रः सर्वापद्विनिवारणः।
अश्वा पूर्वाहनी चास्मि वसामि च पुरे सदा ॥ 75 ॥
View Verse
बुद्धिप्राणशरीराख्ये त्रिविधे त्रिविधात्मना।
अश्वानां (हेषणानादं I.)हेषवन्नादं योगारम्भे सरोमि च ॥ 76 ॥
View Verse
नाडीमध्यं समायाता करोमि रथवद् ध्वनिम्।
व्योमरन्ध्रमनुप्राप्ता हस्तिनादविनादिनी ॥ 77 ॥
View Verse
योगिनो यतमाना मां त्रिधैवं प्रतिपेदिरे।
आद्यावष्टाक्षरौ मन्त्रावन्त्य एकादशाक्षरः ॥ 78 ॥
View Verse
अभीप्सितप्रदा ह्येते त्रयो मन्त्रा हि मन्मयाः।
शृणोमि करुणां वाचं शृणामि दुरितं सताम् ॥ 79 ॥
View Verse
शृणामि च गुणैर्विश्वं शरणं चास्मि शाश्वतम्।
शरीरं च हरेरस्मि श्रद्धया (सेविता F. I.)चेप्सिता सुरैः ॥ 80 ॥
View Verse
शान्ताधारपदस्थास्मि (विश्वतन्त्री I.)पश्या रन्ती च नाभिजा।
प्रेरणी च धियां मद्या सृष्टिर्वक्त्रे तथार्णसाम् ॥ 81 ॥
View Verse
चतुःस्थानस्थिता चैवं शान्तापश्यादिभेदिनी।
श्रयामि श्रयणीयास्मि शक्तिभी(शक्नोमि A.) रेमि रामि च ॥ 82 ॥
View Verse
शक्तेरुज्ज्वलिनी चास्मि शंतमा रतिरीप्सिता।
इति त्रय्यन्ततत्त्वज्ञाः श्रियं मां विदुरञ्जसा ॥ 83 ॥
View Verse
एकैकशो द्विशो वापि त्रिशो वा सर्व एव वा।
जप्तार्चितहुतध्याताः साधयेयुरभीप्सितम् ॥ 86 ॥
View Verse
प्रयत्नेनैव गोप्यं तदेतद्रत्नचतुष्टयम्।
अन्योन्यफलितं सर्वैरशेषैरदिकं गुणै ॥ 87 ॥
View Verse
आत्मवच्चेप्सितात्यर्थमतो मां मद्विदो विदुः।
पञ्चाक्षरो ह्ययं मन्त्रः सर्वकामफलप्रदः ॥ 89 ॥
View Verse
प्रदात्री सर्वकामानामवित्री सर्वकर्मणाम्।
देवस्य दयिता चास्मि देवीं मां मुनयो विदुः ॥ 90 ॥
View Verse
पञ्चाक्षरो ह्ययं मन्त्रो भुक्तिमुक्तिफलप्रदः।
शब्दाये सर्वभूतानामन्तःस्था चिन्मयी सदा ॥ 91 ॥
View Verse
काये च निखिलैर्वेदरैन्विष्ये केति चाखिलैः।
ब्रह्मरूपधरा चाहं जटामण्डलधारिणी ॥ 92 ॥
View Verse
सृजामि विविधान् (सर्वान् A. B. C.)भावान्स्वाध्यायाद्यायतत्परान्।
अतः कामिति मां प्राहुर्मुनयो वेदपारगाः ॥ 93 ॥
View Verse
पञ्चाक्षरो ह्ययं मन्त्रः स्वाध्यायफलदायकः।
उदिति ब्रह्मणो नाम विकस्तिस्तस्य तु स्मितम् ॥ 94 ॥
View Verse
मय्यायत्ता विकस्तिः सा सोस्मितां मां ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रो विकस्तिं भूयसीं वहेत्(सहेत् A. B. C.) ॥ 95 ॥
View Verse
हिता च रमणीया च मदीया प्रकृतिः परा।
तां सत्त्वरूपामालम्ब्य तरन्ति मुनयस्तमः ॥ 96 ॥
View Verse
आरादशेषदोषाणां द्राविणी मामुपेयुषाम्।
अधोमुखाच्छिरःपद्मात् स्रुतयामृतथारया ॥ 98 ॥
View Verse
अभिषिक्ता सदार्द्रास्मि दययार्द्रान्तरास्मि च।
ज्वलामि (भूतगगने पराच्च I.)सर्वभूतान्तर्गगने परमे सदा ॥ 99 ॥
View Verse
शुद्धा निरञ्जना सत्या भासयन्ती जगत् त्विषा।
अशिखा त्रिशिखा चाहं पञ्चपञ्चशिखावती ॥ 100 ॥
View Verse
सप्तधा च पुनस्रेधा ज्वलामि वपुषि स्थिता।
षडक्षराविमौ मन्त्रौ निर्वृत्यौज्ज्वल्यदायकौ ॥ 101 ॥
View Verse
हरौ प्रीतिमती नित्यं तृप्ता भक्तेषु नित्यदा।
प्राकृतैश्च विना भोगैर्नित्यतृप्तास्म्यहं स्वतः ॥ 102 ॥
View Verse
तां मां तृप्तामनुध्याय मुनयो (योग F. G. I.)वेदपारगाः।
ज्ञानमूलां परां तृप्तिं नित्यां प्राप्ताः सुधामयीम् ॥ 103 ॥
View Verse
षडक्षरो ह्य यं मन्त्रस्तर्पयत्यखिलं जगत्।
तर्पयामि गुणैर्विष्णुमात्मानं तद्‌गुणैरपि ॥ 104 ॥
View Verse
द्विसप्तत्या सहस्रेण नाडीनां देहसागरम्।
तर्पयामि रसैर्नित्यं (प्राणायामवशात् सदा I.)प्राणानां प्रेरणावशात् ॥ 105 ॥
View Verse
आत्मबिम्बसमुद्भूतैः परमार्थैः सुधारसैः।
चिन्मयैस्तर्पयाम्यन्तर्योगिनां सत्त्वमुत्तमम् ॥ 107 ॥
View Verse
प्रकृत्यादि विशेषान्तं परिणामोन्मुखं सदा।
कार्यभावं समापन्नमक्षिण्वन्ती निजैर्बलैः ॥ 108 ॥
View Verse
आपगाभिरिवाम्भोधिं प्राणाधानेन(प्राणदानेन B. C. F. I.) तर्पये।
स्नेहेनेव सदा दीपं प्राणिनां करणानि च ॥ 109 ॥
View Verse
निजसंविद्रसेनैव तर्पयाम्यक्षयात्मना।
तर्पयन्तीति मां प्राहुर्योगिनो योगपारगाः ॥ 110 ॥
View Verse
सप्ताक्षरो ह्ययं मन्त्रस्तर्पयत्यखिलं(अनिशं A. B. I.) जगत्।
पद्यमानं (मनोतीति A. B.)मिनोतीति कालं पद्मं प्रचक्षते ॥ 111 ॥
View Verse
कालमप्यखिलं शश्वत् कलयन्ती स्थिता सदा।
स्तुत्वा त्वनेन नाम्ना मां कालातीतः कृती भवेत् ॥ 112 ॥
View Verse
पुंप्रधानेश्वरान्नित्यं वर्णयाम्यात्मतेजसा।
पद्माकारैस्च वर्णैर्मे भूषिता तनुरुत्तमैः ॥ 113 ॥
View Verse
पद्मवर्णेति मां स्तुत्वा शास्त्रवैशद्यमाप्नुयात्।
उद्गतः प्रथमो योंऽशुः क्षरसागरमन्थने ॥ 114 ॥
View Verse
चन्द्राख्यः स मदीयोंऽशुरुद्गच्छन्त्याः पुरःसरः।
ऋषयो मत्प्रभावज्ञा मां तु चन्द्रां प्रचक्षते ॥ 115 ॥
View Verse
यः स चन्द्रो मदंशूनां कोटिकोट्यंशकोटिजः।
षडक्षरो ह्ययं मन्त्रो मनोवैमल्यदायकः ॥ 116 ॥
View Verse
प्रकृष्यमाणा बासो मे सर्वावस्थासु सर्वदा।
येनेच्छति तिरोधातुं तन्मे भासा तिरोहितम् ॥ 117 ॥
View Verse
यथा हि स्वशिरश्छाया स्वपदा नैव लङ्‌घ्यते।
सा पदादप्रतो याति येन लङ्घनमिच्छति ॥ 118 ॥
View Verse
नित्योदितचिदानन्दा मत्प्रभाः सततोज्जवलाः।
श्रद्धां सोममपोऽन्नं च वीर्यं हविरिति क्रमात् ॥ 119 ॥
View Verse
भोग्यशक्तिप्रभा एता अस्यन्ती षट्‌सु वह्निषु।
प्रभासा मुनिभिः प्रोच्ये तन्त्रवेदान्तपारगैः ॥ 120 ॥
View Verse
सप्ताक्षरो ह्ययं मन्त्रस्तेजःसंततिसाधकः।
यशो यदुज्ज्वलं लोके विद्यादानादिसंभवम् ॥ 121 ॥
View Verse
मदीयं तद्यशस्तच्च नानारूपं विभज्यते।
मामेव भाजनं विद्धि यशसस्तेजसः श्रियः ॥ 122 ॥
View Verse
अतो यशस्विनीं तां मां यशसेति विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रो (यशस्तेजःप्रदो C.)यशोदो जपतो भवेत् ॥ 123 ॥
View Verse
स्वर्गपर्जन्यभू पुंस्रीवैश्वानरविभागतः।
आददाना हविः प्राप्तं श्रद्धासोमादिसंज्ञितम् ॥ 124 ॥
View Verse
षोढात्मानं विभज्याहमग्निभावमुपागता।
ज्वलन्ती मुनिभिर्गीता भोक्तृशक्तिप्रभोज्जवला ॥ 125 ॥
View Verse
अग्नीषोमविभागेन विश्वमेवं (भवाम्यहम् A. B. G.)भजाम्यहम्।
मन्त्रेणानेन मां स्तुत्वा साधयेद्यदभीप्सितम् ॥ 126 ॥
View Verse
देवेन हरिणा जुष्टा सदा देवैश्च सेविता।
देवाश्च मामुपाश्रित्य विषयान् प्रत्यवस्थिताः(प्रत्यवस्थितान् A. B.) ॥ 127 ॥
View Verse
परिणामविशेषत्वात् प्रकृतेस्ते ह्यचेतनाः।
अतो मच्छक्तिमादाय शुद्धसंवित्क्रियामयीम् ॥ 128 ॥
View Verse
सर्वशक्तिप्रदामन्तर्देवजुष्टामबस्थिताम्।
शश्वन्मामनुसंचिन्त्य देवान्‌ विजयतेऽखिलान् ॥ 130 ॥
View Verse
मत्त एवोद्गतानीह विज्ञानानि महर्षिणाम्।
शक्तयश्च क्रियाश्चैव यास्ता उच्चावचा नृणाम् ॥ 131 ॥
View Verse
विशृङ्खलेष्टदां चापि मामुदारां विदुर्बुधाः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वमिष्टं प्रयच्छति ॥ 132 ॥
View Verse
पञ्चाक्षरो ह्ययं मन्त्रस्तनोति शुभविस्तृतिम्।
प्रकृतिं पुरुषं चैव नयामि स्वेन तेजसा ॥ 134 ॥
View Verse
कालाच्चापि बहिर्भूत्वा पद्मनेमीं ततो विदुः।
सप्ताक्षरो ह्ययं मन्त्रः सर्वसंपत्समृद्धिदः ॥ 135 ॥
View Verse
प्रकाशयन्ती सर्वार्थानतीतानागतानपि।
पितृदेवमनुष्याणां चक्षुरस्मि सनातनम् ॥ 137 ॥
View Verse
आदिभूतश्च वर्णो मे तारः प्रथमवाचकः।
तत्र शान्तोदितानन्दा नन्दाम्यात्मानमात्मना ॥ 138 ॥
View Verse
तैलधारावदच्छिन्ना दीर्घघण्टानिनादिनी(विनादिनी F.)।
प्रणवस्य शिखा सूक्ष्मा सा मे शब्दमयी तनुः ॥ 139 ॥
View Verse
तत्र ब्रह्मणि निष्णातो मां द्रागधिगमिष्यति।
आदित्यवर्णजातं मे शब्दमय्या उपस्थितम् ॥ 140 ॥
View Verse
शान्तापश्यादिरूपेण वैखरी वर्णनादिनी।
दुहाना सकलानर्थान् धेनुः कामदुघा स्थिता(दुघास्मि सा A. B.) ॥ 141 ॥
View Verse
एतानादित्यवर्णेति (I. omits six quarters from here.)मय्यर्थानृषयो विदुः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामप्रपूरकः ॥ 142 ॥
View Verse
किरन्ती किरणान् लोके (किरती A. B.)किरन्ती चोत्तरोत्तरम्।
वायुना देवमित्रेण मणिनाधारवह्निना ॥ 143 ॥
View Verse
शनैर्विश्रम्य विश्रम्य पत्रेषु जलजन्मनाम्।
द्वादशानां ततश्चोर्ध्वं भजामि द्वादशान्तिमम् ॥ 144 ॥
View Verse
कीर्तयन्ति ततः कीर्तिं मुनयो मां मनीषिणः।
पञ्चाक्षरो ह्ययं मन्त्रो योगवैमल्यदायकः ॥ 145 ॥
View Verse
गन्धादयः पृथिव्याद्या द्वाराणि मम वेदने।
सर्वेषां पुण्यगन्धानां द्वारभूतास्मि शाश्वती ॥ 148 ॥
View Verse
गन्धद्वारेति मां प्राहुर्विप्रा वेदान्तपारगाः।
दुराधर्षास्मि सर्वेषां दैत्यदानवरक्षसाम् ॥ 149 ॥
View Verse
शुद्धा संवित् क्रिया चाहं नार्हा कैरपि बाधितुम्।
सर्वेषामात्मभूताया मम संवित्क्रियात्मनः ॥ 150 ॥
View Verse
ज्ञातृत्वमपि कर्तृत्वं यो नामापनिनीषति।
ज्ञाता कर्ता निषेधस्य स निर्वक्ष्यति तत् कथम् ॥ 151 ॥
View Verse
शक्तो धर्षयितुं कश्चिन्नैव संविद्गतिं मम।
तदभावा विचिन्त्यैवं ह्यभावे संविदेव सा ॥ 152 ॥
View Verse
दुराधर्षेति मां प्राहुः सांखयज्ञानविचक्षणाः।
अष्टाक्षरो ह्ययं मन्त्रस्तमोगतिविमोचनः(भीतिविमोचनः I.) ॥ 153 ॥
View Verse
सैव पुष्णाति विषयानजडाभिर्जडात्मनः।
नित्यपुष्टां तु मां प्राहुः सिद्धाः संविद्विचक्षणाः ॥ 155 ॥
View Verse
अष्टाक्षरो ह्ययं मन्त्रो नित्यं पुष्णाति संविदम्।
करिणो नाम कर्तारस्रिशुद्धास्त्रिक्रियापराः ॥ 156 ॥
View Verse
तानिच्छामि सदा द्रष्टुं मनसा (धारितान् B.)यामि तान् सदा।
हिमशैलेन्द्रसंकाशा गजेन्द्रा मम वाहनाः ॥ 157 ॥
View Verse
तैरीश्वरा सदा यामि कर्त्री चान्तवती(अन्नवती I.) सदा।
करीषिणीति मां तेन तत्त्वज्ञाः संप्रचक्षते ॥ 158 ॥
View Verse
सप्ताक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः।
भूतानामीश्वरा चास्मि (प्रिया चेशेन I.)प्रियेणेशेन सर्वदा ॥ 159 ॥
View Verse
वरदा भुवनेशाना वनिता(भुवनेशानामीडिता I.) च सदाखिलैः।
वृद्धिदा वर्धमाना च क्षपणी च सदांहसाम् ॥ 160 ॥
View Verse
ईश्वरीत्येव मे नाम तेन वेदे निरूपितम्।
षडक्षरो ह्ययं मन्त्रः सर्वैश्वर्यसमृद्धिदः ॥ 161 ॥
View Verse
भौमान्तरिक्षदिव्याख्या ये चाप्यप्राकृताः परे।
सदानन्दमयास्त्वेते सर्वे कामा मयि श्रिताः ॥ 162 ॥
View Verse
मनोरथानां सर्वेषां पराहं विभ्रमस्थली।
विष्णोश्च मनसः कामः साहं सर्वातिशायिनी ॥ 163 ॥
View Verse
मनसः काम इत्येव तेन मां तुष्टुवुः सुराः।
नवाक्षरो ह्ययं मन्त्रः सर्वकामसमृद्धिदः ॥ 164 ॥
View Verse
लौकिक्योऽप्यथ वैदिक्यस्तथा बाह्यागमोद्भवाः।
निर्घोषा घोषवत्यश्च या वाचः परिकीर्तिताः ॥ 165 ॥
View Verse
मामभिप्रेत्य सर्वासां तासामुच्चारणक्रिया।
मामभिप्रयते सर्वो जनः सर्वात्मना स्थिताम् ॥ 166 ॥
View Verse
तेन तेन प्रकारेण वाचामुच्चारणक्रमे।
आकूतिर्वचसां तेन वेदज्ञैरस्मि भाविता ॥ 167 ॥
View Verse
अष्टाक्षरो ह्ययं मन्त्रः सर्वशब्दार्थसिद्धिदः।
सच्च त्यच्च जगद्‌ द्वेधा यत् प्रमाणेन दृश्यते ॥ 168 ॥
View Verse
तत् सर्वमहमस्मीति सत्यं मामृषयोऽब्रवन्।
षडक्षरो ह्ययं मन्त्रः सर्वसत्यफलप्रदः ॥ 169 ॥
View Verse
पश्यन्ति पशवो जीवा विधाभिस्तिसृभिः स्थिताः।
तेषां रूपं तु यच्छक्र चैतन्यं हेयवर्जितम् ॥ 170 ॥
View Verse
तद्रूपमहमेवास्मि चिद्धनानन्दरूपिणी।
मच्छक्तिलेशास्ते सर्वे जीवाश्चिच्छक्तिसंज्ञकाः ॥ 171 ॥
View Verse
आग्नेयी या हि मच्छक्तिः सा हि जाता तथा तथा।
पशूनां रूपमित्येवं सांख्या मां संप्रचक्षते ॥ 172 ॥
View Verse
नवाक्षरो ह्ययं मन्त्रः सम्यग्ज्ञानफलप्रदः।
त्रैगुण्यं (षाड्‌गुणोत्थं B. F.)षड्‌गुणोत्थं च द्विधान्नं परिकीर्तितम् ॥ 173 ॥
View Verse
त्रैगुण्यमनुबद्धानामितरेषामथेतरत्।
द्विविधस्यापि चान्नस्य यद्यशो रूपमुत्तमम् ॥ 174 ॥
View Verse
तदहं सर्वभूतात्मा तत्त्वज्ञैः परिकीर्तिता।
प्राकृताप्राकृता भोगा मच्छक्तिप्रविजृम्भिताः ॥ 175 ॥
View Verse
सोमशक्तिर्मदीया या सा हि जाता तथा तथा।
अन्नस्य यश इत्येव मां विदुस्तत्त्वचिन्तकाः ॥ 176 ॥
View Verse
नवाक्षरो ह्ययं मन्त्रो भोगसर्वस्वदायकः।
मिमे षडध्वनो व्यग्रा मीये मानैस्तथाखिलैः ॥ 177 ॥
View Verse
मितिश्च सक्वमानानां माति चान्तर्ममाखिलम्।
तारयामि जगत् सर्वमपारं(सर्वं परमं I.) भवसागरम् ॥ 178 ॥
View Verse
उत्तीर्णा सर्वदोषाब्देः प्लवे भूतेषु चेतसा।
प्लावयामि जगद्विश्वं(सर्वं I.) पयसा मेघतां गता ॥ 179 ॥
View Verse
प्रियं हितं च सर्वेषां चिन्तयामि करोमि च।
तेन मां सर्वभूतानां मातरं योगिनो विदुः ॥ 180 ॥
View Verse
पञ्चाक्षरो ह्ययं मन्त्र सर्वभोगसमृद्धिदः।
सुषुम्ना नाम या नाडी नाडीचक्रस्य नायिका ॥ 181 ॥
View Verse
मुक्तियानं महायानं योगियानमिति श्रुता।
शक्तिर्या वैष्णवी सूक्ष्मा मन्मयी परिकीर्तिता ॥ 182 ॥
View Verse
संकल्पविषयः सर्वो यामालम्ब्यावतिष्ठते।
ऊर्ध्वं चाधस्च या भित्त्वा प्रतिजीवं (पुनर्गतिम् B. F.)वपुर्गतिम् ॥ 183 ॥
View Verse
व्याप्ता परममाकाशं सा सुषुम्नेति गीयते।
मुक्तयेऽखिलजीवानां संसाराखिलखेदिनाम् ॥ 184 ॥
View Verse
साहं सुषुम्नारूपेण वर्ते देहेषु देहिनाम्।
आ वस्तिशीर्षादा मूर्ध्नस्तस्यां शक्तौ पुरंदर ॥ 185 ॥
View Verse
आधाराख्यानि पद्मानि द्वात्रिंशत् संस्थितानि वै।
पद्मानां मालया व्याप्ता ततोऽहं पद्ममालिनी ॥ 186 ॥
View Verse
प्रकृतिं पुरुषं चैव कालं चैव सनातनम्।
धारयामि स्वरूपेण ततोऽहं पद्ममालिनी ॥ 187 ॥
View Verse
अष्टाक्षरो ह्ययं मन्त्रः सर्वकर्मफलप्रदः।
पोष करोमि सर्वेषां रूपेण यशसा श्रिया ॥ 188 ॥
View Verse
पुष्करं च नयाम्येका कालाख्यं पद्मरूपकम्।
तेन पुष्करिणीत्येवमृषयो मां प्रचक्षते ॥ 189 ॥
View Verse
सप्ताक्षरो ह्ययं मन्त्रः सर्वपोषफलप्रदः।
इष्टास्मि सर्वदेवानां संगता हरिणा सदा ॥ 190 ॥
View Verse
दात्री च सर्वकामानामखिलस्यावलम्बनम्।
मामालम्ब्यावतिष्ठन्ते प्रधानपुरुषादयः ॥ 191 ॥
View Verse
यष्टिरित्येवमृषयो मां ततः संप्रजक्षते।
षडक्षरो ह्ययं मन्त्रः सर्वयोगफलप्रदः ॥ 192 ॥
View Verse
पिङ्गलास्मि स्वया भासा प्रतप्तकनकाभया।
पिङ्गाय चाप्यदां पूर्वं यक्षेशाय महाश्रियम् ॥ 193 ॥
View Verse
यक्षेशो मां पुरा शक्र पिङ्गलेत्येवमूचिवान्।
सप्ताक्षरो ह्ययं मन्त्रो योगतेजःसमृद्धिदः ॥ 194 ॥
View Verse
तोषयामि गुणैर्विष्णुं तुष्यामि च हरेर्गुणैः।
मयि तुष्टिः समस्तानामीडितायां स्वकर्मभिः ॥ 195 ॥
View Verse
तुष्टिर्निरूपिता तेन साहं योगाब्धिपारगैः।
पडक्षरो ह्ययं मन्त्रो मनःसंतोषदायकः(कारकः I.) ॥ 196 ॥
View Verse
सुवर्णयामि संसिद्धानपरं परमेव वा।
अनिदंप्रथमा वर्णाः शोभना मम वाचकाः ॥ 197 ॥
View Verse
नित्या सरस्वती भूत्वा शोभनं वर्णयाम्यहम्।
सुवर्णेति ततो विप्रैस्तत्त्वज्ञैः परिकीर्तिता ॥ 198 ॥
View Verse
धारयामि धरा भूत्वा वेधसः स्थितिसिद्धये।
तुष्टाव मां पुरा तेन विरिञ्चो हेममालिनीम् ॥ 200 ॥
View Verse
अष्टाक्षरो ह्ययं मन्त्रो मानवानां धृतिप्रदः।
हिताय सर्वजीवानां प्रसूये तत्त्वपद्धतिम् ॥ 201 ॥
View Verse
रमयामि पुनस्तत्र भुक्त्या मुक्त्या यथार्हतः।
नियच्छामि तथा कालैः सजीवां तत्त्वपद्धतिम् ॥ 202 ॥
View Verse
सूरिभ्यश्च हिता नित्यं सूर्यरूपार्कमण्डले।
सूर्येति सूरिभिः प्रोक्ता ततोऽहं तत्त्वचिन्तकैः ॥ 203 ॥
View Verse
षडक्षरो ह्ययं मन्त्रो भोगमोक्षफलप्रदः।
इति नाम्नां त्रिपञ्चाशत् सूक्तस्थानां प्रकीर्तिता ॥ 204 ॥
View Verse
कृतार्थयन्ति मां प्राप्य धीराः स्वैः स्वैरभीप्सितैः।
यद्यप्येषां मया प्रोक्ता व्यवस्था फलगोचरा ॥ 205 ॥
View Verse
नामावली यतो ह्यस्याः श्रीरहं देवता परा।
नक्षत्राणि यथा व्योम्नि यथा रत्नानि वारिधौ ॥ 207 ॥
View Verse
वसुधायां यथा भोगा यथा कामाः सुरद्रुमे।
महिमानो यथा गोषु तेजांसि ब्राह्नणे यथा ॥ 208 ॥
View Verse
यथानन्ता गुणा दिव्या देवदेवे जनार्दने।
महिमानो ह्यसीमानस्तथास्मिन् सूक्तके मम ॥ 209 ॥
View Verse
यावान् हि भगवान् कालः कलाकाष्ठादिलक्षणः।
तावता नैव शक्नोमि वक्तुं सूक्तगुणानहम् ॥ 210 ॥
View Verse
सैषा वेदविदां निष्ठा सैषा (मन्त्र I.)तन्त्रविदां गतिः।
मां प्रपद्येत सततं सूक्तेनानेन मानवः ॥ 211 ॥
View Verse
सूक्तार्थमनुसंस्मृत्य चिरं सूक्तमधीत्य च।
लब्धे चित्तप्रसादे तु मां प्रपद्येत वै गतिम् ॥ 212 ॥
View Verse
प्रपद्यमानो मां नित्यं देवं वा पुरुषोत्तमम्।
इत्येवमनुसंदध्याच्छ्रद्दधानो जितेन्द्रियः ॥ 213 ॥
View Verse
प्रातिकूल्यं परित्यक्तमानुकूल्यं च संश्रितम्।
मया सर्वेषु भूतेषु यथाशक्ति यथामति ॥ 214 ॥
View Verse
अपायेभ्यो निवृत्तोऽस्मि पातकेभ्यो भवोदधौ।
तथाप्यत्र प्रवृत्तिर्या त्वत्स्मृतेः (साधु I.)सापि नश्यतु ॥ 215 ॥
View Verse
अलसस्याल्पशक्तेश्च यथावच्चाविजानतः।
उपायाश्चोदिताः शास्त्रैर्न मे स्युस्तारकाश्रयः ॥ 216 ॥
View Verse
तथाप्यत्र प्रवृत्तिर्या त्वदाज्ञापालनं तु(हि I.) तत्।
ततोऽहमनुपायत्वात् कृपणोऽकिंचनोऽगतिः ॥ 217 ॥
View Verse
छायामाश्रित्य वर्तेऽहं त्वदीयां तापहारिणीम्।
निरुपाधिः स्वतन्त्रा च स्वामिनी नः कृपानिधिः ॥ 218 ॥
View Verse
त्वमेव सर्वशास्त्रेषु शरणत्वेन गीयसे।
आत्मात्मीयं च यत्किंचिद् दुस्त्यजं दुर्भरं मतम् ॥ 219 ॥
View Verse
उपायो भव मे देवि शरणं भव मेऽम्बुजे।
प्लुष्य मेदुरितं सर्वं पुष्य मे त्वद्गतां धियम् ॥ 221 ॥
View Verse
इत्येवमनुसंधाय मां प्रपद्येत वै गतिम्।
आदिदेवं जगन्नाथमीशं वा पुरुषोत्तमम् ॥ 222 ॥
View Verse
परं स्वस्त्ययनं शक्र सर्वालक्ष्मीनिबर्हणम्।
श्रावयेत् कर्मकालेषु मत्सूक्तस्य विधिं नरः ॥ 223 ॥
View Verse
समर्थयति कर्माणि श्रोतारं पोषयत्युत।
निर्णुदत्यखिलां मायामलक्ष्मीं च मलैः सह ॥ 224 ॥
View Verse
एतदभ्यस्यमानं हि कर्मणा मनसा गिरा।
त्रायते महतः पापाच्छ्रियं चावहति ध्रुवम् ॥ 225 ॥
View Verse
इति ते कथितं शक्र तन्त्रमेतदनुत्तमम्।
यत्र सर्वाणि वर्तन्ते विज्ञानानि विपश्चिताम् ॥ 226 ॥
View Verse
मोक्षशास्त्रं यथा श्रेष्ठं रत्नानां कौस्तुभो यथा।
द्विपदां ब्राह्नणः श्रेष्ठो यथा गौश्च चतुष्पदाम् ॥ 227 ॥
View Verse
लोहानां कनकं श्रेष्ठं रत्नानां कौस्तुभो यथा।
माता श्रेष्ठा गुरूणां च पुत्रः प्रवदतां यथा ॥ 228 ॥
View Verse
आक्षमाणां गृहस्थश्च वसिष्ठो जपतां यथा।
तत्त्वानां सर्वसंन्यासो धीर्लाभानां यथोत्तमा ॥ 230 ॥
View Verse
श्रीवासाभिधसंयमीन्द्रवरिवस्यासादिताध्यात्मधीराम्नायान्तनितान्तचिन्तनरतः श्रीकृष्णनामा सुधीः।
लक्ष्मीतन्त्रमनाविलेन सुपथा व्याचष्ट सत्प्रितये प्रीणातु प्रियभक्तरक्षणविधादक्षा मुकुन्दप्रिया॥
View Verse
तथोत्तममिदं तन्त्रं तन्त्राणां तत्त्ववादिनाम्।
भगवान् वासुदेवोऽस्मिन् विष्णुर्नारायणो गुरुः ॥ 231 ॥
View Verse
अहं च कीर्तितौ सम्यक् स्वरूपगुणवैभवैः।
अस्यां हि मन्मतौ सक्ता विशुद्धज्ञाननिश्चयाः ॥ 232 ॥
View Verse
एतां निक्षेणिकां गृह्य ह्यारोहन्ति परं पदम्।
तन्त्राणां (मे परं तन्त्रं मन्त्रितं I.)परमं तन्त्रं मुद्रितं मत्समाख्यया ॥ 233 ॥
View Verse
नाव्रतस्नायिने देयं न (व्रत I.)कृतघ्नाय वै तथा।
न चातन्त्रविदे नित्यं नासूयादूषिताय च ॥ 234 ॥
View Verse
नावासुदेवभक्ताय न चाभक्तिमते मयि।
देवयमेतत् सुशीलाय सुस्नाताय तपस्विने ॥ 235 ॥
View Verse
शुचिव्रताय दक्षाय सदनुष्ठानशीलिने।
एतत्ते कथितं सर्वं यत्पृष्टाहमिह त्वया॥
View Verse

Chapter - 51

नित्यानि पञ्च कृत्यानि कादाचित्कानि चैव ते।
चर्यापादक्रियापादौ पादौ च ज्ञानयोगयोः ॥ 2 ॥
View Verse
इति नानाविधं तन्त्रं चतुष्पादोपबृंहितम्।
पुराकृत्या पुराकल्पैरितिहासैश्च संमितम् ॥ 3 ॥
View Verse
रहस्यानेकसंभेदं नानावाक्योपशोभितम्।
लक्ष्मीतन्त्राह्वयं सम्यक् सद्यः प्रत्यायकं नृणाम् ॥ 4 ॥
View Verse
मया समाहितैनैव यथावदवधारितम्।
अस्य विस्तृतरूपत्वात् सम्यक्कालविपर्ययात् ॥ 5 ॥
View Verse
चेतसोऽल्पबलत्वाच्च यथावन्नैव भासते।
अस्मान्महार्णवाद्देवि त्वज्ज्ञानपरिपूरितात् ॥ 6 ॥
View Verse
सर्वतः सारमुद्धृत्य लोकानां हितकाम्यया।
तन्त्रसंक्षेपमाख्याहि नमस्ते प्दमसंभवे ॥ 7 ॥
View Verse
नारदः---
इति संचोदिता देवी वत्सेनेव पयस्विनी।
स्निह्यता मनसा पद्मा पाकशासनमब्रवीत् ॥ 8 ॥
View Verse
श्रीः---
साधु संबोधिता सम्यग् वत्स वृत्रनिषूदन।
शृणु संक्षेपमाख्यामि तन्त्रादस्मात् समुद्धृतम् ॥ 9 ॥
View Verse
अहंता सर्वभूतानामहमस्मि सनातनी।
आरोहेणावरोहेण विश्वसिद्धिकरी स्मृता ॥ 10 ॥
View Verse
परमं यदहंताख्यं तुर्यातीतं तदुच्यते।
परं ब्रह्म परं धाम लक्ष्मीनारायणं तु तत् ॥ 11 ॥
View Verse
न तत्र प्रविबागो नौ भवद्भावव्यवस्थितौ।
उन्मेषस्तत्र यो नाम यथा चन्द्रोदयेऽम्बुधौ ॥ 12 ॥
View Verse
अहं नारायणी शक्तिः सिसृक्षालक्षणा तथा।
तुर्यावस्था च सा मे स्यात् परिणामोद्भवात्मिका ॥ 13 ॥
View Verse
शुद्धाशुद्धमयो भावः सर्वोऽप्यन्तर्गतस्तदा।
व्यूहाश्च विभवाश्चैव तथा व्यूहान्तरादिकाः ॥ 14 ॥
View Verse
अयं शुद्धमयो भावो यच्चान्यद्भगवन्मयम्।
व्यूहे च विभवे चैव तथा व्यूहान्तरादिके ॥ 15 ॥
View Verse
सुषुप्ताद्या अवस्था मे प्रत्येकं चैवमुन्नयेत्।
अव्यक्तमहदाद्याश्च तथा वैकारिकं जगत् ॥ 16 ॥
View Verse
शुद्धेतरस्त्वयं भावस्तिस्रोऽवस्थाश्च तत्र वै।
प्रत्येकमुन्नयेच्चैवं तत्र तत्र दिवस्पते ॥ 17 ॥
View Verse
भूते स्थिते च विज्ञेया दसा एताश्चतुर्विधाः।
अपरोऽस्ति क्रमस्त्वेवं शुद्धाशुद्धमयेऽध्वनि ॥ 18 ॥
View Verse
प्रमातृकरणज्ञेयेष्वारोहेषु मदात्मके।
शून्यप्राणादिभेदेन क्रमान्मातृगणा दश ॥ 19 ॥
View Verse
करणं द्विविधं विद्धि बाह्यमाभ्यन्तरं तथा।
उभयोरपि तावद्धि तूष्णींभावादिके क्रमे ॥ 20 ॥
View Verse
ज्ञेयं बहुविधं प्रोक्तं तत्राप्येवं समुन्नयेत्।
तुर्यातीतत्वमेतेषां भगवद्भाववेदनम् ॥ 21 ॥
View Verse
अवरोहोऽयमुद्दिष्ट आरोहमपि मे शृणु।
चरमां कोटिमारभ्य मदन्तोऽभूद्व्यवस्थितः ॥ 22 ॥
View Verse
आरोहः स तु विज्ञेयः शुद्धाशुद्धमयेऽध्वनि।
आरोहमवरोहं च संततं भावयन्नरः ॥ 23 ॥
View Verse
मच्चित्तो मद्गतप्राणो मद्भावं समुपाश्नुते।
आकारकालदेशान्मे परिच्छेदोऽस्ति नैव च ॥ 24 ॥
View Verse
मयैव ज्ञानरूपिण्या व्याप्तास्ते पाकशासन।
आत्मभित्तौ जगत् सर्वमिच्छयोन्मीलयाम्यहम् ॥ 25 ॥
View Verse
तद्रूपतारतम्येन ग्राह्यग्राहकसंस्थितिः।
वाच्यात्मपरिणामोऽयं लेशतस्ते प्रदर्शितः ॥ 26 ॥
View Verse
वाचकात्मानमस्य त्वं समाहितमनाः शृणु।
शुद्धसंविन्मयी पूर्वं विवर्ते प्राणरूपतः ॥ 27 ॥
View Verse
तत्तत्स्थानप्रसङ्गेन विवर्ते शब्दतस्तथा।
शान्ता सूक्ष्मा तथा मध्या वैखरीति विवेकिनी ॥ 28 ॥
View Verse
चतूरूपं चतूरूपवाचि वाच्यं स्वनिर्मितम्।
शान्ता विवर्तमानाहं प्रपद्ये सूक्ष्मसंस्थितिम् ॥ 29 ॥
View Verse
शक्तिर्नाद इति द्वेधा सूक्ष्मरूपव्यवस्थितिः।
सूक्ष्मा विवर्तमानाहं प्रपद्ये मध्यमां स्थितिम् ॥ 30 ॥
View Verse
बिन्दुसंस्कारसंपत्तिः सावस्थाक्षरसंततेः।
मध्या विवर्तमानाहं प्रपद्ये वैखरीस्थितिम् ॥ 31 ॥
View Verse
पञ्चाशदादिभेदेन सावस्थाक्षरसंततेः।
आरोहमवरोहं च संततं भावयन्निमौ।
शब्दब्रह्मणि निष्णातः शब्दातीतं प्रपद्येत् ॥ 32 ॥
View Verse

Chapter - 52

द्विपञ्चाशोऽध्यायः - 52
श्रीः---
अथ मन्त्रमयं मार्गं शृणु वत्स पुरंदर।
प्रकाशानन्दरूपाहं पूर्णाहंता हरेरहम् ॥ 1 ॥
View Verse
मन्त्रमातेति मां विद्धि प्राणाख्यां शुद्धचिन्मयीम्।
उद्यन्ति मत्त एवैते यान्ति चास्तं मयि ध्रुवम् ॥ 2 ॥
View Verse
अहं च बलमेतेषां मद्रूपत्वं विदन्ति ते।
एकधा च द्विधा चैव त्रिधा चैवाहमूर्जिता ॥ 3 ॥
View Verse
चतुर्धा पञ्चधा षोढा सप्तधा चाष्टधा तथा।
तथा षोडशधा चैव पञ्चविंशतिधा तथा ॥ 4 ॥
View Verse
पञ्चाशद्धा पुनश्चैव पुनश्चाहं त्रिषष्टिधा।
उदेमि बहुधा चैव चिन्तामणिरिवेश्वरी ॥ 5 ॥
View Verse
स्वराश्च व्यञ्जनाश्चैव स्वरव्यञ्जनसंहतिः।
अक्षराणि पदान्येवं वाक्यप्रकरणैः सह ॥ 6 ॥
View Verse
आह्निकाध्याययोश्चैव शास्त्रतन्त्रव्यवस्थितिः।
आगमा बहुधा चैव बाह्याबाह्यव्यवस्थितिः ॥ 7 ॥
View Verse
लौकिका वैदिकाश्चैवं भाषाश्च विविधास्तथा।
मन्त्ररूपमिदं विद्धि सर्वं मद्रूपवेदिनाम् ॥ 8 ॥
View Verse
भावनातारतम्येन ग्राह्यग्राहकसंस्थितिः।
आसत्तिविप्रकर्षौ च भावनातारतम्यतः ॥ 9 ॥
View Verse
बीजं पिण्डं पदं संज्ञेत्येवं मन्त्राश्चतुर्विधाः।
तेषां प्रधानतो विद्धि पञ्च रत्नानि वासव ॥ 10 ॥
View Verse
मत्सूक्ते तानि बीजानि दध्नि सर्पिरिवाहितम्।
सूर्यसोमाग्निखण्डोत्थं नादवत् पाकशासन ॥ 11 ॥
View Verse
यदत्र सूर्यरूपं तज्जाग्रत्पदमुदाहृतम्।
वह्निः स्वाप्नं सुषिप्तिश्च सोमो माया पराह्वया ॥ 12 ॥
View Verse
खण्डं यदिन्दुखण्डाख्यं तुर्यं नादस्ततः परम्।
शक्तिः शान्तात्मिकावस्था नादस्यैव तु संस्थितिः ॥ 13 ॥
View Verse
ततः परं तु यद्‌ ब्रह्म लक्ष्मीनारायणं तु तत्।
स्वराणां षट्‌चतुःषट्‌कं सूर्याग्नीन्दुसमुद्गतम् ॥ 14 ॥
View Verse
शेषा वर्णाः स्वरोत्पन्ना इतीयं वर्णसंस्थितिः।
इतीदं परमं बीजं सर्वकामफलप्रदम् ॥ 15 ॥
View Verse
पुत्रदं पुत्रकामानां राज्यकामस्य राज्यदम्।
भूतिदं भूतिकामानां मोक्षकामस्य मोक्षदम् ॥ 16 ॥
View Verse
विध्वंसयति शत्रूंश्चाप्याकर्षयति वाञ्छितम्।
चिन्तामणरिदं नाम नैव चिन्तामणिर्मणिः ॥ 17 ॥
View Verse
तस्यैव चानुगं बीजं शकाद्यं सर्वकामदम्।
युग्मैर्मायाक्षरादेशैराद्यन्तस्वरषट्‌कयोः ॥ 18 ॥
View Verse
अङ्गक्लृप्तिरियं कार्या जातिमुद्रासमन्विता।
शिष्टबीजचतुष्कस्याप्येवमेव व्यवस्थितिः ॥ 19 ॥
View Verse
पूर्णाहंतासमावेशादादिबीजसमन्वयात्।
नानाविधो मन्त्रगणो मदीयत्वं प्रपद्यते ॥ 20 ॥
View Verse
मन्त्राणां देवता या सा सा मच्छक्त्यधिनिष्ठिता।
मद्भावभाविनी चैव तस्माद्ध्येयास्मि तत्र वै ॥ 21 ॥
View Verse
तां तां वै देवतां तत्र नारीरूपामनुस्मरेत्।
तत्तद्वर्णायुधाकारभूषणादिसमन्विताः ॥ 22 ॥
View Verse
मदीयत्वं समासाद्य ताः शीघ्रफलदास्तथा।
इति ते मन्त्रमार्गोऽयं लेशतः शक्र वर्णितः ॥ 23 ॥
View Verse

Chapter - 53

त्रिपञ्चाशोऽध्यायः - 53
श्रीः---
क्रियापादं प्रवक्ष्यामि संक्षेपेण पुरंदर।
परिच्युतमलः स्नातो यथावच्छास्त्रदर्शनात् ॥ 1 ॥
View Verse
एकान्तं स्थानमासाद्य स्थानशुद्धिपुरःसरम्।
ज्ञानभावनया शक्र भूतशुद्धिं समाचरेत् ॥ 2 ॥
View Verse
पृथिव्यादि प्रकृत्यन्तं यत् प्रकृत्यष्टकं विदुः।
स्थूलसूक्ष्मविभेदेन तत्र रूपद्वयं स्मृतम् ॥ 3 ॥
View Verse
चक्षुर्गोचरसंस्थानं स्थूलरूपं तु वर्ण्यते।
कारणाकारता तत्र सूक्ष्मं तन्मात्रमुच्यते ॥ 4 ॥
View Verse
स्थूलसूक्ष्मविभेदेन तत्त्वमेतद् द्विरष्टकम्।
विषयेन्द्रियवृत्तीस्तु तत्र तत्र निवेशयेत् ॥ 5 ॥
View Verse
उपस्थघ्राणगन्धादिपञ्चकेषु त्रयं त्रयम्।
पृथिव्यादिमहाभूतपञ्चकैस्तत्क्रमान्नयेत् ॥ 6 ॥
View Verse
मनोऽभिमान इत्येतदहंकारे शमं नयेत्।
प्राणमध्यवसायं च बुद्धितत्त्वे निगूहयेत् ॥ 7 ॥
View Verse
सत्त्वं रजस्तमश्चापि मूलाव्यक्ते शमं नयेत्।
द्विरष्टके तु वर्गेऽस्मिन् मूलाष्टकमनुस्मरेत् ॥ 8 ॥
View Verse
तत्तत्संज्ञा ध्रुवाद्या हुंफडन्ताः पाकशासन।
मांसं मेदस्तथासृक् च रेतो व्योमाक्षरत्रयम् ॥ 9 ॥
View Verse
परं परं बिन्दुयुतं सूक्ष्माष्टकमनुस्मरेत्।
अस्मिन् बीजाष्टके मायामिन्दुखण्डेन संयुताम् ॥ 10 ॥
View Verse
मन्त्रानिमान् विजानीयाच्छक्त्यष्टकगतान् बुधः।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ 11 ॥
View Verse
शान्त्यतीताभिमाना च प्राणा गुणवती तथा।
पृथिव्यादिप्रकृत्यन्ताः शक्तीरेताः स्मरेद्‌ बुधः ॥ 12 ॥
View Verse
बीजाष्टके तु तत्रैव वह्निमायार्धचन्द्रकान्।
संयोज्य मन्त्रान् जानीयादधिष्ठातृगतानिमान् ॥ 13 ॥
View Verse
कालाग्न्यर्कसहस्राभां निर्धूमाङ्गारसंनिभाम।
मां स्मृत्वा मन्मुखोत्थेन वह्निना निर्दहेद् भुवम् ॥ 14 ॥
View Verse
सोमायुताभमद्वक्त्रजेन सिञ्चेतेतथाम्बुना।
स्थानशुद्धिर्भवेदेवं भूतशुद्धिमतः शृणु ॥ 15 ॥
View Verse

Chapter - 54

चतुष्पञ्चाशोऽध्यायः - 54
श्रीः---
चतुरश्रां समां पीतां वज्रचिह्नां वसुंधराम्।
मन्त्रेणाकृष्य देहान्तः स्वस्थाने च लयं नयेत् ॥ 1 ॥
View Verse
गन्धमात्रे ततस्तच्च स्वबीजेनास्तमानयेत्।
स्वबीजेन निवृत्तौ तां स्वमन्त्रेणास्तमानयेत् ॥ 2 ॥
View Verse
मय्यधिष्ठानभूतायां मां च बाह्येऽम्भसि क्षिपेत्।
मन्त्रेणार्धेन्दुसंकाशं पद्माङ्कं तच्च देहतः ॥ 3 ॥
View Verse
स्वस्थानस्थं लयं नीत्वा रसमात्रे स्वमन्त्रतः।
मन्त्रेण तत्प्रतिष्ठायां तच्च मय्यानयेल्लयम् ॥ 4 ॥
View Verse
मां च वह्निमनावृत्त्या प्रकृत्या च ततः क्रमात्।
सर्वत्र नैकं बुध्येत मच्छक्तेर्विलयं बुधः ॥ 5 ॥
View Verse
यथा हि सर्पिरासिञ्चेत् क्षीरे तन्मथनोद्भवम्।
सर्पिरन्यत्र च क्षीरे तत्सर्पिरपि चान्यकम् ॥ 6 ॥
View Verse
एवमा प्रकृतेः शक्तिमधिष्ठात्रीं स्मरेद् बुधः।
एवं मां परमां शक्तिं शक्तिसप्तकसंयुताम् ॥ 7 ॥
View Verse
द्वादशान्तान्तमुन्नीय मन्त्रमय्यां मयि क्षिपेत्।
अग्नीषोमार्ककोट्याभा सर्वतोऽक्षिशिरोमुखी ॥ 8 ॥
View Verse
सर्वजीवोपकाराय सा मे मन्त्रमयी तनुः।
शक्रः---
कानि स्थानानि देहेऽस्मिन् यत्र कार्यो लयः क्रमात् ॥ 9 ॥
View Verse
कीदृशानि च बिम्बानि भूरादीनां वदाम्बुजे।
श्रीः---
आ जानुतो भुवः स्थानमा कट्याः पयसः स्मृतम् ॥ 10 ॥
View Verse
आ नाभेस्तेजसः स्थानं वायोः स्थानं तदा हृदः।
आ कण्ठान्नभसः स्थानमा बिलाच्चाप्यहंकृतेः ॥ 11 ॥
View Verse
आ भ्रुवोर्महतः स्थानमाकाशे तु परं स्मृतम्।
चतुरश्रं भवेद्बिम्बं वज्राङ्कं पार्थिवं महत् ॥ 12 ॥
View Verse
अर्धेन्दुसदृशं शुक्लं पद्माङ्कं पयसः स्मृतम्।
त्रिकोणं स्वस्तिकाङ्कं च रक्तं तेजस उच्यते ॥ 13 ॥
View Verse
धूम्रं षड्‌बिन्दुसंयुक्तं वृत्तं वायव्यमुच्यते।
अञ्चनाभं तथाकाशं बिम्बमात्रं स्मृतं पदम् ॥ 14 ॥
View Verse
एवं तत्त्वोपसंहारे कृते हृत्कोटरोद्गतम्।
ज्ञानरज्ज्ववलम्बं च सुषुम्नामध्यमार्गगम् ॥ 15 ॥
View Verse
ऊर्ध्वमात्मन उन्नीय शक्तिसोपानपङ्‌क्तिभिः।
द्वादशान्तं महापद्ममध्यस्थायां मयि क्षिपेत् ॥ 16 ॥
View Verse
द्वादशान्तं महापद्मं सहस्रदलसंयुतम्।
सूर्यकोटिसहस्राभमिन्दुकोट्ययुतप्रभम् ॥ 17 ॥
View Verse
अग्नीषोमद्वयान्तःस्था महानन्दमयी तनुः।
अनिर्देश्योपमा संविन्माया सा मामिका तनुः ॥ 18 ॥
View Verse
अंशतः प्रसरन्त्यस्या जीवानन्दा सरिद्वरा।
स्वानन्दमेनमानीय महानन्दमयीं नयेत् ॥ 19 ॥
View Verse
ततो लवणकूटाभं पिण्डमस्मन्मुखोद्गतैः।
महाज्वालावलीजालैश्चिन्मयैः परितौ दहेत् ॥ 20 ॥
View Verse
रक्ततामरसः षष्ठो बिन्दुमान् देहपावकः।
सोममय्या ममास्योत्थैः पीयूषैः प्लावयेत्ततः ॥ 21 ॥
View Verse
सिसृक्षाया ममोद्यन्त्या संवित्प्र णोपगूढया।
प्रेरितास्ताः स्मरेच्छक्तीर्मन्त्रमय्यां तनौ स्थिताः ॥ 22 ॥
View Verse
तत्सताभिः स्वशक्तीभिश्चोदनद्वारपूर्वकम्।
प्रकृत्यादि विशेषान्तं निर्मितं संस्मरेत् क्रमात् ॥ 23 ॥
View Verse
ततः पिण्डसमुत्पत्तिं कारणव्यञ्जनोज्ज्वलम्।
एवं पिण्डं समुत्पाद्य शुद्धलक्ष्मीमयं महत् ॥ 24 ॥
View Verse
पूर्वोक्तगतिमार्गेण व्युत्क्रमेणानयेद्धृदि।
महानन्दात् स्वमात्मानं संविदानन्दलक्षणम् ॥ 25 ॥
View Verse
ततः करशरीरेषु मन्त्रन्यासं समाचरेत्।
अङ्गुष्ठादिकनिष्ठान्तमङ्‌गुलीस्थेषु पर्वसु ॥ 26 ॥
View Verse
तलयोः पृष्ठयोश्चैव करयोरुभयोरपि।
नाभितश्चाङ्‌घ्रिपर्यन्तं नाभेरा मूर्धतस्तथा ॥ 27 ॥
View Verse
न्यस्य संधिषु मद्बीजं हृदाद्यङ्गानि च न्यसेत्।
पुनर्हृदादिषट्‌केन नाभिपृष्टकरोरुषु ॥ 28 ॥
View Verse
जङ्घापदोश्च ज्ञानादि षाड्‌गुण्यं विन्यसेद् बुधः।
एवमुत्पादिते देहे शुद्धे लक्ष्मीमये शुभे।
आधारषट्‌कविन्यासं ज्ञानदृष्ट्या समाचरेत् ॥ 29 ॥
View Verse

Chapter - 55

पञ्चपञ्चाशोऽध्यायः - 55
श्रीः---
आधारान् संप्रवक्ष्यामि शृणु त्वं पाकशासन।
अथ मेढ्रान्तरे मेढ्रे नाभिमध्ये धनाधिप ॥ 1 ॥
View Verse
हृदि कूपे भ्रुवोर्मध्ये षट्‌ पद्मानि स्मरेद्‌ बुधः।
वेदै रसैः प्रजानाथैरर्कैश्चैव विकारकैः ॥ 2 ॥
View Verse
अश्विब्यां च दलैर्युक्तान् सूर्यकोटिसमप्रभान्।
कादितान्तैः स्वरैः सूर्यवर्णान्ताभ्यां च संयुतान् ॥ 3 ॥
View Verse
पङ्कजेष्वेषु मां देवीं रत्नदीपाकृतिं स्मरेत्।
यत्र यत्र भवेद्वाञ्छा तत्रस्थो योगमभ्यसेत् ॥ 4 ॥
View Verse
प्रथमाधारमारभ्य द्वादशान्ताम्बुजातताम्।
एकां दीपाकृतिं ध्यायेद्देहस्थामादिकां पराम् ॥ 5 ॥
View Verse
क्रमोत्क्रमाभ्यां स्मरतस्तामिमां चिन्मयीं पराम्।
यदा लयं मनो याति सा सत्ता वैष्णवी परा ॥ 6 ॥
View Verse
देहबन्घे च वाञ्छा चेद्देहं त्वं मामकं शृणु।
एकस्मिन् हृदये तोयं माहेन्द्रं मण्डपं स्मरेत् ॥ 7 ॥
View Verse
चतुर्द्वारयुतं तत्र संस्मरेद् द्वारपालिकाः।
बलाकिनीं पुरः श्यामां वनमालां तथापरे ॥ 8 ॥
View Verse
श्वेतां विबीषिकां पश्चादुक्तवर्णामनुस्मरेत्।
उत्तरे शांकरीं शक्र धूम्रवर्णामनुस्मरेत् ॥ 9 ॥
View Verse
तत्र मण्डपमध्ये तु सहस्रादित्यसंनिभम्।
अष्टपत्रं स्मरेत् पद्मं कर्णिकाकेसरोज्ज्वलम् ॥ 10 ॥
View Verse
पूर्वे दले वासुदेवं संकर्षं चैव दक्षिणे।
प्रद्युम्नं पश्चिमे पत्रे त्वनिरुद्धमथोत्तरे ॥ 11 ॥
View Verse
शङ्खचक्रधरान् सर्वान् वनमालाविभूषितान्।
युगानुसारिकान्तींश्च स्मरेदभिमुखान् मम ॥ 12 ॥
View Verse
गुल्गुलुं च गुरुण्यं च मदनं शललं तथा।
गजेन्द्रान् संस्मरेत् कोणे सुधां मामभिषिञ्चतः ॥ 13 ॥
View Verse
कर्णिकाबीजमध्यस्थां सर्वलोकमहेश्वरीम्।
मां स्मरेत्तप्तहेमाभां पङ्कजद्वयधारिणीम् ॥ 14 ॥
View Verse
वरदाभयहस्तां च सर्वाभरणभूषिताम्।
अनिर्देश्यामनौपम्यां विष्णुपत्नीमनिन्दिताम् ॥ 15 ॥
View Verse
स्मितज्योत्स्नानुगैर्दिव्यैरसितापाङ्गसंभवैः।
सिञ्चन्तीं किरणैः शीतैस्तप्ततप्तं जगत्त्रयम् ॥ 16 ॥
View Verse
उत्पाद्य ज्ञानतो भोगांस्तैर्यजेत् परमेश्वरीम्।
ब्रह्मानन्दमयैः सम्यङ् मन्मयैर्दोषवर्जितैः ॥ 17 ॥
View Verse
यद्वा नारायणाङ्कस्थां तत्सङ्गाह्लादभूषिताम्।
करेण दक्षिणेनेशमाश्लिष्यन्तीं निरन्तरम् ॥ 18 ॥
View Verse
प्रतिपत्तिस्तु कर्तव्या तदा वैमानिकी तनौ।
दांपत्यं तदमीमांस्यमावयोः श्रुतिगह्वरम् ॥ 19 ॥
View Verse

Chapter - 56

. . . . को देवः स्थितिकर्ता च भावगा।
त्रिमूर्तिस्त्वधिका शक्तिरित्ययं परमो जपः ॥ 1 ॥
View Verse
शब्दार्थप्रविभागेन द्विधा लक्ष्मीः प्रवर्तते।
शान्ता पश्याथ मध्या च वैखरी चेति संज्ञया ॥ 2 ॥
View Verse
शब्दोन्मेषश्चतुर्धायमर्थोन्मेषस्तथाविधः।
प्रत्यस्तमितसंस्कारा स्वरवर्णादिवर्जिता ॥ 3 ॥
View Verse
शाब्दी या संस्थितिः प्राच्या सा शान्ता शान्तसाधना।
अर्थबोधकरूपं यच्छब्दशक्तेरसंस्कृतम् ॥ 4 ॥
View Verse
केवलो यः समुन्मेषः पश्यन्ती सा प्रकीर्तिता।
अर्थबोधकरूपं यत् स शब्दः परिकीर्तितः ॥ 5 ॥
View Verse
न हिंसयन्ति संस्कारा यदा मध्याथ सा तदा।
एवं संस्कारसंपन्ना विकल्पशतशालिनी ॥ 6 ॥
View Verse
विविधं रमते वैषु यतो न प्राकृतीष्वथ।
रूपं शकलशः कृत्वा स्थानेष्वष्टसु सा तदा ॥ 7 ॥
View Verse
वैखरी नाम सा वाच्या विविधं वक्ति वर्णिनी।
शान्ता नाम परा या सा सर्वत्र समतां गता ॥ 8 ॥
View Verse
कोटिकोटिसहस्रांशस्तस्या वागथ मद्यमा।
कोटिकोटिसहस्रांशस्तस्या वागथ वैखरी ॥ 9 ॥
View Verse
वर्णाः पदानि वाक्यानि त्रिविधा वैखरीगतिः।
संकोचं क्रमशो याति सेयं वर्णादिवर्त्मना ॥ 10 ॥
View Verse
इयं चतुर्विधा शक्तिः प्रतिलोमानुलोमजा।
चतुर्धा सोदयं याति शान्तापश्यादिभिः क्रमात् ॥ 11 ॥
View Verse
चतुर्धास्तमयं याति वैखरीमध्यमादिभिः।
व्यक्ता व्यक्तसमाव्यक्ता सा विज्ञेया त्रिधा पुनः ॥ 12 ॥
View Verse
व्यक्ता प्राणिशरीरस्था योदेत्यस्तमुपैति च।
वीणावेणुमृदङ्गाद्यैर्व्यक्ता तद्व्यज्यते हि या ॥ 13 ॥
View Verse
विवक्षाकरणोद्योगैः प्राणिभिः साथ तत्समा।
मरुदाघट्‌टनात् सिन्धुसरिद्गिरिदरीमुखैः ॥ 14 ॥
View Verse
व्यज्यते शब्दशक्तिर्या सा त्वव्यक्ता समीरिता।
उदयेऽस्तमये चासां पूर्वोक्तौ व्युत्क्रमोत्क्रमौ ॥ 15 ॥
View Verse
वाच्यं चतुर्विधं ज्ञेयं शान्तादिप्रविभागवत्।
एवं व्यवस्थिता शक्तिस्तारिकेति निरूपणम् ॥ 16 ॥
View Verse
जपोऽसौ मध्यमो नाम परितो वर्णवर्णनम्।
वर्णरूपा च शक्तिर्या या च संयोगसंभवा ॥ 17 ॥
View Verse
शक्तिनद्धानुविद्धा या विवक्षासंभवा च या।
एतच्छक्तिचतुष्कं तद्विनिर्णयपुरःसरम् ॥ 18 ॥
View Verse
अर्थाध्यासस्तु शब्दे यस्चरमोऽसौ प्रकीर्तितः।
वाच्यं बुद्ध्वा पृथग् बुद्ध्वा तां त्रिधाकारसंस्थिताम् ॥ 19 ॥
View Verse
तत्संबोधो हि यो मन्त्रैः स जपस्तु परावरः।
लक्ष्मीतन्त्रे समुद्दिष्टा त्वग्नीषोममयी हि या ॥ 20 ॥
View Verse
तत्तद्रूपमतिक्रम्य वाच्यवाचकसंज्ञितम्।
लक्ष्मीमयीं निशां तीर्त्वा तारिकारूपरूपिणीम् ॥ 21 ॥
View Verse
निस्तरङ्गमहानन्दसंवित्तारामहोदधौ।
विशोध्य सकलान् मन्त्रास्तद्भावन्याससंयुतः ॥ 22 ॥
View Verse
तानुपास्य ततस्तस्यां तत्तदाप्यायनोज्ज्वलान्।
तत्सामान्यविशेषाभ्यां भावयेन्मन्त्रदेवताम् ॥ 23 ॥
View Verse
तथा युक्तो जपेन्मन्त्रान् नित्योऽयं पूजितो जपः।
तत्तच्छास्त्रोक्तसंस्थानसंस्कारक्रमशालिनीः ॥ 24 ॥
View Verse
तैस्तैर्भावैः समेताश्च भावयन्मन्त्रदेवताः।
जपेत सर्वदर्शी यज्जपोऽयं परमः स्मृतः ॥ 25 ॥
View Verse
इदं रहस्यं परमं नापात्रे देयमित्युत।
उक्त्वा विद्युदिवाकाशे सादर्शनमुपेयुषी ॥ 26 ॥
View Verse
इत्युक्त्वा भगवान् भद्रे नारदो विरराम ह ॥ 27 ॥
पूजिता पुरुहूतेन सुभगा श्रीर्वरानने।
इन्द्रोऽपि विस्मितः शश्वद्ब्रह्मणः सदनं ययौ ॥ 28 ॥
View Verse
पृष्टश्च ब्रह्मणा तस्मै प्रोवाच विधिवत्तदा।
ब्रह्मा प्रजापतिभ्यश्च पृष्टः प्रोवाच तत्तववित् ॥ 29 ॥
View Verse
मुनयो नारदेनाथ श्राविता मलयाचले।
अङ्गिराः श्रावयामास पावकं तन्त्रमुत्तमम् ॥ 30 ॥
View Verse
कात्यायनं पावकश्च स च गौतममाश्रमे।
गौतमोऽथ भरद्वाजं स च गर्गं महामुमनिम् ॥ 31 ॥
View Verse
असितं देवलं गर्गो जैगीषव्यं मुनिं स च।
स मुनिः श्रावयामास पितॄन् भेजेऽथ लोभजित् ॥ 32 ॥
View Verse
एकाञ्जनानान्नपिको (?) मानसी दुहिता च या।
सा सुतं श्रावयामास पाराशर्यं महामुनिम् ॥ 33 ॥
View Verse
पाराशर्यः सुतं चापि शुकं योगिनमुत्तमम्।
श्रावयामास च शुकः स्वर्भान्वाख्यं प्रजापतिम् ॥ 34 ॥
View Verse
वसिष्ठोऽरुन्धतीं प्राज्ञां नारदस्य शशास सा।
तन्त्रं लक्ष्म्यास्ततः प्रापुर्योगिनः कपिलादयः ॥ 35 ॥
View Verse
पार्वतीं श्रावयामास शंकरश्चन्द्रशेखरः।
हिरण्यगर्भो योगानां वक्ता चापि सरस्वतीम् ॥ 36 ॥
View Verse
पतिव्रता हि या देव्यो देवब्रह्मर्षियोगिनाम्।
तासां पारायणं शश्वल्लक्ष्मीतन्त्रमिति स्मृतम् ॥ 37 ॥
View Verse
सकाशाद्ब्रह्मणः श्रुत्वा मया ते कथितं बुधे।
इष्टासि मे प्रिया चेति न किंचिदवशेषितम् ॥ 38 ॥
View Verse
भूयस्त्वं शृणु संक्षेपमनसूयेऽनसूयया।
श्रुत्वा च कुरु यत्नेन रक्ष चाप्यप्रमादिनी ॥ 39 ॥
View Verse
लक्ष्मीनारायणाकारा भवित्री ते मनःस्थितिः।
अपायान् संपरित्यज्य पातकान् भवसागरे ॥ 40 ॥
View Verse
दैवाद्वा यदि वा मोहादपायस्य परिप्लवे।
भजमाना तथा चैव लक्ष्मीनारायणावुभौ ॥ 41 ॥
View Verse
शश्वच्चाशु कृतान् सर्वानपायान् जहती स्वयम्।
अलुब्धा करणे तेषां लोकसंग्रहणे रता ॥ 42 ॥
View Verse
आकिंचन्यं समारोप्य बुद्ध्यैव दृढया स्वयम्।
सर्वदा सर्वदेशेषु सर्वावस्थासु सर्वथा ॥ 43 ॥
View Verse
रक्षिष्यति हरिः श्रीमानाश्रितानिति निश्चयात्।
आत्मात्मीयं परं सर्वं निक्षिप्य श्रीपतेः पदे ॥ 44 ॥
View Verse
उपायं वृणु लक्ष्मीशं तमुपेयं विचिन्तय।
इति ते सकलं भद्रे शास्त्रशास्त्रार्थतत्फलम् ॥ 45 ॥
View Verse
दर्शितं परमं तत्त्वं सावधानेन चेतसा।
सरहस्यं ससंक्षेपं लक्ष्मीतन्त्रमिदं परम् ॥ 46 ॥
View Verse
नावासुदेवभक्ताय त्वया देयं कथंचन।
लक्ष्मीर्लक्ष्मीपतिश्चैव चेतसोऽनपगामिनौ ॥ 47 ॥
View Verse
यस्य तस्मै त्वया वाच्यं यत्तदेतदनुत्तमम्।
नास्तिकानां समीपे तु नैवाध्येयमिदं भवेत् ॥ 48 ॥
View Verse
नाव्रतस्नायिनां तद्वन्न मातापितृविद्विषाम्।
नानाशास्त्रद्विषां चैव न गुरुद्वेषिणां तथा ॥ 49 ॥
View Verse
दांपत्यविद्विषां चैव वनिताविद्विषां तथा।
यो हि वेदव्रतस्नातो मातापितृगुरुप्रियः ॥ 50 ॥
View Verse
अनिन्दकश्च शास्त्राणां परापरविधानवित्।
आस्तिकः श्रद्दधानस्च लक्ष्मीलक्ष्मीपतिप्रियः ॥ 51 ॥
View Verse
क्रियायज्ञविभागज्ञ्सतन्त्रान्तरविधानवित्।
साङ्गयोगविधानज्ञः सर्वशास्त्रार्थतत्त्ववित् ॥ 52 ॥
View Verse
वेदवेदाङ्गतत्त्वज्ञो वेत्ता पशुपतेर्मतम्।
ऊहापोहविधानज्ञो मानतर्कपदार्थवित् ॥ 53 ॥
View Verse
सर्वाद्यात्मिकशास्त्रार्थतत्त्ववित् प्राप्तुमर्हति।
ओं नमो वासुदेवाय तस्मै श्रीर्यस्य सा प्रिया ॥ 54 ॥
View Verse
ओं नमो विष्णुपत्न्यै च यस्या नारायणः प्रियः।
नमो नित्यानवद्याय जगतः सर्वहेतवे।
ज्ञानाय निस्तरङ्गाय लक्ष्मीनारायणात्मने ॥ 55 ॥
View Verse