Śrīkoṣa

Śrī Viṣvaksena Samhitā

By Unknown

Composed in Unknown

39 chapters3852 verses

Filter Content

Display Mode

Chapter - 1

प्रथमो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि भूपरीक्षाविधिं परम् ।
कर्षयेच्छोधयेद्भूमिं प्रागुदक्प्रवणां शुभाम् ॥ १।१ ॥
View Verse
अस्थिकेशादिरहितां कपालाङ्गरवर्जिताम् ।
सरीसृपाद्या व्याघ्राद्या ये चान्ये दुष्टजन्तवः ॥ १।२ ॥
View Verse
यस्यां भूमौ प्रदृश्यन्ते तां भूमिं वर्जयेत् सदा ।
आरम्भे श्वशृगालैश्च सङ्कीर्णा बन्धुनाशिनी ॥ १।३ ॥
View Verse
पुरीषभूमिःसर्वेषां कर्तुर्दुःखप्रदा सदा ।
तुषभस्मास्थिकेशैश्च काष्ठलोष्टकपालकैः ॥ १।४ ॥
View Verse
क्रिमिकीटपतङ्गैश्च शर्करैश्च समन्विता ।
अशुभाश्रीकरी भूमिः तस्माद्यत्नात् परीक्षयेत् ॥ १।५ ॥
View Verse
एवं दुर्लक्षणैश्चान्यैर्युक्तां यत्नेन वर्जयेत् ।
ब्राह्मणस्य सिता भूमिः रक्ता वै क्षत्रियस्य तु ॥ १।६ ॥
View Verse
पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कीर्तिता ।
ब्राह्मणी घृतगन्धा स्यात् क्षत्रिया रक्तगन्धिनी ॥ १।७ ॥
View Verse
मूत्रगन्धा तु या वेश्या शूद्रा विष्ठानुगन्धिनी ।
मधुरा ब्राह्मणी प्रोक्ता कषाया क्षत्रिया स्मृता ॥ १।८ ॥
View Verse
रि(ति?)क्ता वैश्या तु कटुका शूद्रा चेति प्रकीर्तिता ।
एवं परीक्ष्य यत्नेन वर्णगन्धरसादिभिः ॥ १।९ ॥
View Verse
खातयेद्रत्निमात्रं तु पांसुमुद्धृत्य पूरयेत् ।
पांसुरप्यधिको यत्र सा भूमिः सर्वकामदा ॥ १।१० ॥
View Verse
उत्तमा यत्र वै पांसुः समो ह्यर्धफलप्रदा ।
मध्या पांसुर्यत्र नृन सारिष्टा फलदाधमा ॥ १।११ ॥
View Verse
तृ(उ?)प्तानि सर्वबीजानि प्ररोहन्ति हि यत्र वै ।
त्रिरात्राभ्यन्तरेणैव सा भूमिश्चोत्तमा मता ॥ १।१२ ॥
View Verse
मध्यमा पञ्चरात्रेण अधमा सप्तरात्रिका ।
यस्यां तु न प्ररोहन्ति तां प्रयत्नेन वर्जयेत् ॥ १।१३ ॥
View Verse
सस्यानां फलकाले तु गवां तृप्तिं च कारयेत् ।
ततस्तु लोकपालांस्तु पूजयेत् साधकोत्तमः ॥ १।१४ ॥
View Verse
अन्नैरपूपैर्लाजैस्तु मध्यरात्रे शचीपते ।
एवं बलिं प्रकुर्वीत पृथग्वा समयोगतः ॥ १।१५ ॥
View Verse
तत्क्षेत्रं खातयेत्पश्चात् चतुरश्रं समन्ततः ।
पुरुषद्वयं खनित्वा तु तदर्धं वापि खातयेत् ॥ १।१६ ॥
View Verse
पुरुषार्धप्रमाणं वा खड्गमानप्रमाणतः ।
एवं क्षितिं खनित्वा तु तन्मध्ये से च(पूर?)येज्जलम् ॥ १।१७ ॥
View Verse
तन्मध्ये तु विधिं पूज्य ब्रह्मबीजेन मन्त्रवित् ।
गन्धपुष्पैरलङ्कृत्य घण्टाशब्दसमन्वितम् ॥ १।१८ ॥
View Verse
शङ्खादिघोषसंयुक्तं वीणावेणुसमन्वितम् ।
एवं विधिं समभ्यर्च्य अधिवासनमारभेत् ॥ १।१९ ॥
View Verse
तस्य दक्षिणपार्श्वे तु पश्चिमे चोत्तरे ऽपि वा ।
वस्वादीनां तु तन्मध्ये मण्डपं कल्प्य साधकः ॥ १।२० ॥
View Verse
पूर्णकुम्भं न्यसेन्मध्ये पक्वबिम्बफलाकृतिम् ।
द्रोणद्वयेन सम्पूर्णं त्रिसूत्रैःसमलङ्कृतम् ॥ १।२१ ॥
View Verse
गन्धतोयेन सम्पूर्य गन्धपुष्पसमन्वितम् ।
द्रोणाष्टशालीनास्तीर्य पद्ममष्टदलं लिखत् ॥ १।२२ ॥
View Verse
कर्णिकायां न्यसेत्कुम्भं वस्त्रयुग्मेन वेष्टितम् ।
नवरत्नसमायुक्तं सौवर्णायुधपञ्चयुक् (?) ॥ १।२३ ॥
View Verse
वासुदेवस्य मन्त्रेण स्थापयेद्देशिकोत्तम्ः ।
सर्वायुधसमायुक्तं सर्वदेवावृतं ततः ॥ १।२४ ॥
View Verse
हिरण्यं सर्वभूतज्ञं सर्वभूतहृदि स्थितम् ।
आत्मानमन्तरात्मानं परमात्मानमव्ययम् ॥ १।२५ ॥
View Verse
नारायणमणीयांसं सृष्टिसंहारविक्रमम् (कारणम्?) ।
एवं हि पुरुषं विष्णुं ध्यायेत् कुम्भोदमध्यमे ॥ १।२६ ॥
View Verse
एवं ध्यात्वा समभ्यर्च्य गन्धाद्यैः सुमनोरमैः ।
प्रत्येकं द्रोणशाल्यूर्ध्वे विद्येशान् परितो न्यसेत् ॥ १।२७ ॥
View Verse
पूर्ववद्द्रव्यसंयुक्तान् घटेष्वभ्यर्च्य साधकः ।
स्वैः स्वैर्मन्त्रैश्च गन्धाद्यैरुपचारैर्मनोहरैः ॥ १।२८ ॥
View Verse
एवं सम्पूज्य विद्येशान् होमसंस्कार(कर्म स?)मारभेत् ।
कुम्भस्य पूर्वदिग्देशे कुण्डं च चतुरश्रकम् ॥ १।२९ ॥
View Verse
वृत्तं वा शिल्पिना कुर्यात् स्थण्डिले वा समाचरेत् ।
प्रासादारम्भकाले तु मध्यरात्रे शचीपते ॥ १।३० ॥
View Verse
शङ्खतूर्यादिसंयुक्तं स्वस्तिसूक्तसमन्वितम् ।
सर्वविघ्नोपशमनं पालाशं गृह्य देशिकः ॥ १।३१ ॥
View Verse
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ।
नारसिंहेन मन्त्रेण मध्यमे जुहुयात् सकृत् ॥ १।३२ ॥
View Verse
ओदुम्बरसमिद्भिर्वा[प्यटष्टाविंशतिसङ्ख्यया ।
प्रत्येकं मूलमन्त्रेण तथैवाज्यं समाचरेत् ॥ १।३३ ॥
View Verse
चरुं पुरुषसूक्तेन षोडशाहुतिमुत्तमाम् ।
जुहुयात् कुण्डमध्ये तु सर्वसम्पत्सुखावहम् ॥ १।३४ ॥
View Verse
एवं कृत्वा विधानेन पूर्णाहुतिमथाचरेत् ।
स्रुचा मूलेन मन्त्रज्ञो द्वादशाक्षरसञ्ज्ञया ॥ १।३५ ॥
View Verse
कुडुबं वा तदर्धं वा तस्यार्धं वा शचीपते ।
कपिलाज्यमथाज्यं वा सङ्गृह्य जुहुयात् क्रियाम्(क्रमात्?) ॥ १।३६ ॥
View Verse
परिधिप्रभृतीन् दग्ध्वा दक्षिणामाददेत्ततः ।
दक्षिणान्ते शचीनाथ शङ्खाद्यैर्घोषयेत् क्रमात् ॥ १।३७ ॥
View Verse
नृत्तगीतादिसंयुक्तं सुपुण्याहपुरःसरम् ।
वेदाध्ययनसंयुक्तमधिवासनमाचरेत् ॥ १।३८ ॥
View Verse
एवं समाप्य होमान्तं पूर्वरात्रे ऽधिवासयेत् ।
प्रभातायां तु शर्वर्यां स्नात्वाचार्यः समाहितः ॥ १।३९ ॥
View Verse
पूर्ववत् पूजयेत् कुम्भान् प्रोक्षयेत् क्षितिमध्यमे ।
स्वैः स्वैर्मन्त्रैस्तु मतिमान् सीमायां सर्वदिक्षु च ॥ १।४० ॥
View Verse
भूतक्रूरबलिं दद्यात् अष्टदिक्षु समन्ततः ।
दिग्बन्धं कारयेत् पश्चात् अस्त्रमन्त्रेण मन्त्रवित् ॥ १।४१ ॥
View Verse
कुम्भोदकादशेषं तु क्षितिमध्ये नयेत् क्रमात् ।
ततो ऽवटं क्रमात् पूर्य मृद्भिः सिकतसंयुतम् ॥ १।४२ ॥
View Verse
कारयेनमुद्गरैःसम्यक् वैष्णवैर्वेदपारगैः ।
सूत्रशङ्कून् खनित्वा तु चैत्रे मासे शुभे दिने ॥ १।४३ ॥
View Verse
सूत्रेण सूत्रयेत् पश्चाच्छिल्पिना कुशलेन वै ।
प्रासादं कारयेत् पश्चात् आचार्यः शिल्पिभिः सह ॥ १।४४ ॥
View Verse
साधको मन्त्रयोग्यस्तु स्थपतिःकर्मयोग्यतः (कः?) ।
यदिदं भूमिशुद्ध्यर्थं प्रोक्षणं परमं शुभम् ॥ १।४५ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं प्रासादार्थं शचीपते ।
अनेनैव विधानेन यः कुर्यात् पुण्यकर्मभाक् ॥ १।४६ ॥
View Verse
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।
राष्ट्रवृद्धिकरं पुण्यमायुरारोग्यवर्धनम् ॥ १।४७ ॥
View Verse
धनधान्यानि वर्धन्ते राजराष्ट्रादि वर्धते ।
आचार्यं पूजयेत् पश्चात् वस्त्रैराभरणैरपि ॥ १।४८ ॥
View Verse
शिल्पिनं पूजयेत् तत्र वस्त्रैः कनककुण्डलैः ।
दैवज्ञं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकैः ॥ १।४९ ॥
View Verse
सदस्यान् पूजयेत् पश्चात् मुखवासनपूर्वकम् ।
एवङ्क्रमेण सम्पूज्य वस्त्राभरणसंयुतम् ॥ १।५० ॥
View Verse
ततस्तु कारयेद्गेहं शिल्पिना कुशलेन तु ।
सुमुहूर्ते सुलग्ने तु बालस्थानमथारभेत् ॥ १।५१ ॥
View Verse
बालस्थानं पुराकल्प्य पश्चान्मूलालयं क्रमात् ।
कारयेत्तु विशेषेण रत्नन्याससमन्वितम् ॥ १।५२ ॥
View Verse
हस्तमात्रं खनित्वा तु ब्रह्मस्थाने शचीपते ।
सहस्रं शतनिष्कं वा तस्यार्धं वार्धमेव च ॥ १।५३ ॥
View Verse
विन्यसेत् क्षितिमध्ये तु तप्तकाञ्चनमुत्तमम् ।
मरकतादीनि रत्नानि सङ्गृह्यास्त्रेण साधकः ॥ १।५४ ॥
View Verse
ब्रह्मादीशावसानं तु विन्यसेत् स्वस्वमन्त्रतः ।
मध्यरात्रे सुगुप्तेन यजमानेन संयुतः ॥ १।५५ ॥
View Verse
शङ्खादिघाषसंयुक्तं गर्भाधानं समाचरेत् ।
ताम्रेण फेलकां कृत्वावटमाच्छाद्य पूरयेत् ॥ १।५६ ॥
View Verse
शिलाभिरिष्टकाभिर्वा तु प्रच्छाद्यावटं क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य घण्टाशब्दसमन्वितम् ॥ १।५७ ॥
View Verse
ब्रह्मबीजेन तत्सर्वं साधयेत् साधकोत्तमः ।
पश्चाद्देवीं समभ्यर्च्य श्रियार्थं परमां शुभाम् ॥ १।५८ ॥
View Verse
वासुदेवस्य (वं स्व?) मन्त्रेण पश्चात् सम्पूजयेत् क्रमात् ।
एवं सङ्क्षेपतः प्रोक्ता भूपरीक्षा ह्यनुत्तमा ॥ १।५९ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां भूपरीक्षाविधिर्नाम प्रथमो ऽध्यायः ॥
View Verse

Chapter - 2

द्वितीयो ऽध्यायः
विष्वक्सेनः---
अथातःसम्प्रवक्ष्यामि मण्डपादिक्रियां क्रमात ।
मण्डपश्चैव कुण्डानि स्रुक्स्रुवं(वौ?)चाष्टमङ्गलम् ॥ २।१ ॥
View Verse
तोरणं चैव तन्नाम तेषां पूजाविधिं क्रमात् ।
द्वारपालपताकाश्च तेषां न्यासविधिं क्रमात् ॥ २।२ ॥
View Verse
शचीपते विविक्तेन गुह्याद्गुह्यविधिं क्रमात् ।
मण्डपं पूर्वदिग्भागे पुष्टिश्रीवर्धनं भवेत् ॥ २।३ ॥
View Verse
सर्वविघ्नोपशमनं याम्ये चैव यशस्करम् ।
जयदं वारुणे भागे धनदं चोत्तरे दिशि ॥ २।४ ॥
View Verse
आग्नेये नैऋते वापि वायव्यैशा(शे?)शचीपते ।
कल्पयेन्मण्डपं चैवं पूर्वपूर्वा गरीयसी ॥ २।५ ॥
View Verse
यजमानेच्छया कुर्यात् अन्यदेशे न कारयेत् ।
मण्डपं त्रिविधं प्रोक्तं हीनं मध्यममुत्तमम् ॥ २।६ ॥
View Verse
हीने हीनं तु कर्तव्यं मध्यमे मध्यमं पुनः ।
उत्तमे चोत्तमं चैव मण्डपं विधिना पुनः ॥ २।७ ॥
View Verse
पञ्चोत्तरदशं(?)वापि दशहस्तमथापि वा ।
षोडशस्तम्भसंयुक्तं मण्डपं कारयेत् क्रमात् ॥ २।८ ॥
View Verse
अधमं तद्विजानीयात् मध्यमं शृणु सुव्रत ।
षोडशं द्वादशं(?)वापि मध्यमं मण्डपं विदुः ॥ २।९ ॥
View Verse
चतुर्विंशतिहस्ताच्च विंशद्धस्तान्तमेव वा ।
उत्तमं तद्विज्ञानीयात् सूत्रपातविधिं शृणु ॥ २।१० ॥
View Verse
प्रासादमण्डपाद्वापि प्राकारात् पीठतो ऽपि वा ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा शचीपते ॥ २।११ ॥
View Verse
विसृज्य देशिकः कुर्यात् प्रतिष्ठामण्डपं शुभम् ।
सर्वलक्षणसंयुक्तं आचार्येच्छानुरूपतः ॥ २।१२ ॥
View Verse
पातयेद्ब्रह्मसूत्रं तु यावन्मण्डपगोचरम् ।
त्रिभागीकृत्य सूत्रेण रेखाश्चत्वारि(?)कारयेत् ॥ २।१३ ॥
View Verse
पूर्वपश्चिमतश्चैव तथा वै दक्षिणोत्तरम् ।
त्रिकूटं कारयित्वा तु भागं तत्र तु कारयेत् ॥ २।१४ ॥
View Verse
कोणेषु चैव सर्वेषु कोणस्तम्भान् प्रकल्पयेत् ।
सूत्रसन्धिषु सर्वेषु स्तम्भानन्यान् प्रकल्पयेत् ॥ २।१५ ॥
View Verse
मण्डपाङ्गानि सर्वाणि चान्यानि तु शचीपते ।
युक्त्या युक्तिविशेषेण कारयेत्तु यथाविधि ॥ २।१६ ॥
View Verse
चतुर्द्वारसमायुक्तं वितानाद्यैर्विभूषितम् ।
एवं तु मण्डपं कृत्वा सप्ताहात्पूर्वमेव तु ॥ २।१७ ॥
View Verse
मण्डपस्यानुरूपेण मध्ये वेदिं तु कारयेत् ।
आमेष्टकाभिः पक्वाभिः वेदिकां कारयेत् क्रमात् ॥ २।१८ ॥
View Verse
उत्तमे ऽप्युत्तमां कुर्यान्मध्यमे मध्यमां कुरु ।
अधमे ऽप्यधमां कृत्वा तन्माने पुटमानतः(?) ॥ २।१९ ॥
View Verse
द्विताकोच्छ्रायसंयुक्तां दर्पणोदरसन्निभाम् ।
वेदिकां क्रमशः कृत्वा कुण्डानि परिकल्पयेत् ॥ २।२० ॥
View Verse
त्रितालं वेदिकायां तु दूरीभूतानि सर्वशः ।
चतुस्तालं द्वितालं वा विसृज्य परितः क्रमात् ॥ २।२१ ॥
View Verse
(त्रितालं वेदिकायास्तु विसृज्य परितः क्रमात् ।
चतुस्तालं द्वितालं वा दूरीभूतानि सवर्शः?) ॥ २।२१* ॥
View Verse
कारयेद्वह्निकुण्डानि तुर्याश्रादीनि साधकः ।
प्राक्पूर्वं॥॥॥॥॥॥॥॥॥प्रत्यक्संस्थितमन्ततः ॥ २।२२ ॥
View Verse
तस्यामास्फालयेत् पश्चादायतं दक्षिणोत्तरम् ।
एकहस्तं द्विहस्तं वा ज्ञात्वा मानं तु लाञ्छयेत् ॥ २।२३ ॥
View Verse
द्वाभ्यां द्वाभ्यामथैकैकं लाञ्छयेत् कोणमत्स्यकम् ।
दिक्सूत्राणि क्रमात्तेषु प्रसार्यास्फाल्य यत्नतः ॥ २।२४ ॥
View Verse
चतुरश्रीकृतं क्षेत्रं चतुष्कोणसमं शुभम् ।
चतुरभ्यधिकं विंशदङ्गुलं चतुरश्रकम् ॥ २।२५ ॥
View Verse
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम् ।
तस्यार्धं वा खनित्वा तु शिल्पिना कुशलेन तु ॥ २।२६ ॥
View Verse
कारयेच्चतुरश्रादिकुण्डानि विधिवत् क्रमात् ।
तालमानेन सर्वत्र कुण्डानि परितः क्रमात् ॥ २।२७ ॥
View Verse
कारयेच्चतुरश्रादि विस्तारायामतादृशम् (तः समम्?) ।
सूत्रेण सूत्रयित्वा तु क्षेत्रं तावत् खनेत् क्षितिम ॥ २।२८ ॥
View Verse
खातस्य मेखलाः कार्याःत्यक्त्वा चैवाङ्गुलिद्वयम् ।
प्रथमा सात्विकी प्रोक्ता द्वितीया राजसी मता ॥ २।२९ ॥
View Verse
तृतीया तामसी पूर्वा द्वादशाङ्गुलमुच्छ्रिता ।
अष्टाङ्गुला द्वितीया तु तृतीया चतुरङ्गुला ॥ २।३० ॥
View Verse
चतुरङ्गुलविस्ताराः सर्वाः कार्यास्तु सन्ततम् ।
योनिर्दशाङ्गुला रम्या षट्चतुद्वर्यङ्गुलाग्रका ॥ २।३१ ॥
View Verse
योनिर्योनिरिवा(समा?)कारा गजोष्ठसदृशापि(शी तु?)वा ।
क्रमान्निम्ना तु कर्तव्या चतुरङ्गुलमायता ॥ २।३२ ॥
View Verse
मूलं तु त्र्यङ्गुलं ज्ञेयमग्रं तस्य षडङ्गुलम् ।
एकहस्तादि(स्तस्य?)कुण्डस्य लक्षणं कथितं त्विदम् ॥ २।३३ ॥
View Verse
द्विहस्ते द्विगुणं प्रोक्तं नाभिश्चैव तु मेखला ।
एकमेखलकं वापि कुण्डं सङ्क्षेपकर्मणि ॥ २।३४ ॥
View Verse
कुण्डार्धं कोणभागार्धं दिशि चोत्तरतो बहिः ।
पूर्वपश्चिमतो यत्नात् लाञ्छयित्वा तु मध्यतः ॥ २।३५ ॥
View Verse
सर्वतो भ्रामितं कुण्डमर्धचन्द्रं भवेत् स्फुटम् ।
तत्कुण्डं सर्वसिद्ध्यर्थं सर्वसम्पद्विवर्धनम् ॥ २।३६ ॥
View Verse
सर्वविघ्नोपशमनं दक्षिणे कारयेद बुधः ।
कुण्डाद्येवं(द्यव?)स्थितं सूत्रं कोणे यदतिरिच्यते ॥ २।३७ ॥
View Verse
तदर्थं दिशि संस्थाप्य भ्रामितं वर्तुलं भवेत् ।
वृत्तं तु परमं ज्ञेयं सर्वदुःखनिवारणम् ॥ २।३८ ॥
View Verse
अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा ।
पद्माकारं तु सर्वत्र मेखलायां तु वर्तुलम् ॥ २।३९ ॥
View Verse
प्रत्येकैकं शचीनाथ मेखलोपरि साधकः ।
द्वादशं वा दलं लिख्य चाष्टपत्रं सकर्णिकम् ॥ २।४० ॥
View Verse
तत्कुण्डं पद्ममित्युक्तं सर्वशास्त्रविशारदैः ।
ब्रह्मवृद्धिकरं ज्ञेयं यज्ञस्वाध्यायवृद्धिदम् ॥ २।४१ ॥
View Verse
तथैव चतुरश्रं तु इति शास्त्रस्य निश्चयः ।
त्रिकोणं वाब्जकुण्डं वा साधकेच्छानुरूपतः ॥ २।४२ ॥
View Verse
सोमे तु कारयेद्धीमान् सर्वविघ्नोपनाशनम् ।
पञ्चत्रिंशाङ्गुलं वापि द्वादशाङ्गुलमेव वा ॥ २।४३ ॥
View Verse
सङ्गृह्याचार्यतःसूत्रं प्रसार्यास्फाल्य यत्नतः ।
नैऋते ह्यनिले चैव लाञ्छयेत् कोणमत्स्यकम् ॥ २।४४ ॥
View Verse
तथैव लाञ्छयेदैन्द्रे तत्त्रिकोणं भवेच्छुभम् ।
कारयेदवटं धीमान् शिल्पिना कुशलेन तु ॥ २।४५ ॥
View Verse
तत्तुद्रूपेण कुण्डेषु मेखलां परितः क्रमात् ।
कारयेत्तु शचीनाथ साधकः परमार्थवित् ॥ २।४६ ॥
View Verse
एतत्त्रिकोणमुद्दिष्टं शेषं साधारणं भवेत् ।
कुण्डपङ्क्तिः समाख्याता प्रकृतिस्त्रिगुणात्मिका ॥ २।४७ ॥
View Verse
सा योनिः सर्वभूतानां सिद्ध्यर्थं तु शचीपते ।
विद्यामन्त्रगणानां तु विमुक्तेश्चैव कारणम् ॥ २।४८ ॥
View Verse
प्राच्यां शिरःसमाख्यातं बाहू कोणे व्यवस्थितौ ।
ऐशान्याग्नेयसञ्ज्ञे तु यङ्घा वायव्यनैऋते ॥ २।४९ ॥
View Verse
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।
मेखलात्रितयं चैव गुणत्रयमुदाहृतम् ॥ २।५० ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं कुण्डानां लक्षणं क्रमात् ।
स्रुक्स्रुवौ मङ्गलांश्चैव (लान्यष्टौ?)तोरणानि तथैव च ॥ २।५१ ॥
View Verse
प्रवक्ष्याम्यधुना चैव तेषां लक्षणमुच्यते ।
अश्वत्थखदिराद्यैर्वा चतुर्विंशद्भि (?)रङ्गुलैः ॥ २।५२ ॥
View Verse
प्रतिष्ठाद्युत्सवे चैव होमार्थं कारयेत् स्रुवम् (चम्?) ।
सप्तपञ्चाङ्गुलं वापि विस्तारं चतुरश्रकम् ॥ २।५३ ॥
View Verse
त्रिभागेन भवेद्गर्तं मध्ये वृत्तं सुशोभनम् ।
तिर्यगूर्ध्वं समं वापि तदर्धं वा खनेत् स्रुवम् (चम्?) ॥ २।५४ ॥
View Verse
अङ्गुलस्य चतुर्थांशं व्यपोह्यान्ते ऽवटस्य तु ।
तस्यान्ते मेखलां सम्यक् गर्तं वै परितः क्रमात् ॥ २।५५ ॥
View Verse
कारयेन्मेखलामेकामुत्सेधं तु तथैव च ।
मेखलायास्तु परितः लिखेदब्जदलाकृतिम् ॥ २।५६ ॥
View Verse
द्वादशाष्टदलं वापि कारयेन्मेखलाधरे ।
कर्णिकां गर्तमध्ये तु लिखेच्छिल्पप्रमाणतः ॥ २।५७ ॥
View Verse
दलान्ते वलयं कुर्यात् चतुरश्रं समन्ततः ।
तदङ्गुलार्धविस्तारं कलाबिन्दुविभूषितम् ॥ २।५८ ॥
View Verse
सर्वालङ्कारसंयुक्तं द्विरेखायुक्समाचरेत् ।
द्वादशाष्टकमेवं वा यथारुचि लेखित् क्रमात् ॥ २।५९ ॥
View Verse
कण्ठं त्रिभागविस्तारं सार्धाङ्गुलसमायतम् ।
द्विरङ्गुलायतं वापि तदग्रे तु मुखं भवेत् ॥ २।६० ॥
View Verse
चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ।
त्रिकं द्व्यङ्गुलमात्रं स्यान्मध्ये धारां सुशोभनाम् ॥ २।६१ ॥
View Verse
सुषिरं कण्ठदेशे स्यात् प्रविशेच्छिबिक(?) यथा ।
धाराया दक्षिणे वामे मुखे वृत्तं समालिखेत् ॥ २।६२ ॥
View Verse
कण्ठोर्ध्वे तु लिखेदास्यं सुशोभनमतः परम् ।
नासिकामुखमेकं वा वराहाननमेव च ॥ २।६३ ॥
View Verse
व्याघ्रगोमुखमेव स्यात् यथारुचि समाचरेत् ।
स्रुक्पृष्ठं शोधयित्वा तु परितो ऽष्टदलं लिखेत् ॥ २।६४ ॥
View Verse
वृत्तापादं ततो बाह्ये न्यसेद्द्व्यङ्गुलमेव तु ।
तथैव दण्डमूले तु पदन्यासं यथाविधि ॥ २।६५ ॥
View Verse
अङ्गुष्ठाङ्गुलमानेन तद्वृत्ताङ्घ्रिं समाचरेत् ।
दण्डद्वितीयमध्यान्ते तृतीयस्याधरे ऽम्बुजम् ॥ २।६६ ॥
View Verse
अष्टपत्रसमायुक्तमालिखेत् फलकायुतम् ।
घृतादिमध्यमे भागे कारयेत् परितः क्रमात् ॥ २।६७ ॥
View Verse
दण्डमूले ऽब्जमुकुलं त्रिलेखायुक्समाचरेत् ।
चतुरभ्यधिकं विंशदङ्गुलं तच्छचीपते ॥ २।६८ ॥
View Verse
स्रुवं तु कारयेत्पश्चात् आननेन समन्वितम् ।
चर(ष?)कं द्व्यङ्गुलं वृत्तं कर्तव्यं तु सुशोभनम् ॥ २।६९ ॥
View Verse
गोष्पदं तु यथामग्नमल्पपङ्के तथा भवेत् ।
स्रुव(स्रुचो?) मूले मुखाद्ये च त्रिरेखा यवमानतः ॥ २।७० ॥
View Verse
कारयेत्तु शचीनाथ सा च स्रुक् सर्वसिद्धिदा ।
मुखादित्र्यङ्गुलं हित्वा तदन्ते ऽङ्घ्रिं समाचरेत् ॥ २।७१ ॥
View Verse
वृत्तं सुशोभनं पृष्ठे तद्देहाङ्गुलमानतः ।
तथैव स्रुवमूले ऽङ्घ्रिं विस्तारायामतादृशम् ॥ २।७२ ॥
View Verse
पद्मस्य मुकुलाकारं स्रुवमूले ऽथ कारयेत् ।
परस्याक्ष्यङ्घ्रिहीनेन(?) कारयेद्वाथ स्रुक्स्रुवौ ॥ २।७३ ॥
View Verse
एतत् स्रुक्स्रुवमाख्यातं मङ्गलाष्टकमुच्यते ।
लोहजान्येव कुर्वीत अलाभे काष्ठजानि च ॥ २।७४ ॥
View Verse
अश्वत्थं वा पलाशं वा खदिरं वटमेव वा ।
पञ्चविंशाङ्गुलायामं द्वादशाङ्गुलविस्तृतम् ॥ २।७५ ॥
View Verse
द्व्यङ्गुलं तु घनं ज्ञेयं पीठं तु चतुरङ्गुलम् ।
तस्योपरि लिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ २।७६ ॥
View Verse
शङ्खं चक्रं पताकं च श्रीवत्सं दर्पणं वृषम् ।
मत्स्ययुग्मं च कुम्भं च मङ्गलाष्टकमिष्यते ॥ २।७७ ॥
View Verse
द्वादशाङ्गुलमायामं शङ्खादीनां प्रचक्षते ।
तत्तद्रूपानुसारेण विस्तारं कारयेद्बुधः ॥ २।७८ ॥
View Verse
चामरे च महादीपे तेषां पार्श्वेषु कल्पयेत् ।
शङ्खादिमङ्गलानां तु छत्रं चोपरि विन्यसेत् ॥ २।७९ ॥
View Verse
अधुना तोरणानां तु वक्ष्यते लक्षण क्रमात् ।
अश्वत्थतोरणं प्राच्यां ऋग्वेदश्चैन्द्रदैवतः ॥ २।८० ॥
View Verse
औदुम्बरं तथा याम्ये यजुश्च यमदैवतम् ।
न्यग्रोधं तु प्रतीच्यां वै सामं(?)वरुणदैवतम् ॥ २।८१ ॥
View Verse
उत्तरे सोमदैवत्यः प्लक्षश्चाथर्वणो भवेत् ।
अश्वत्थं वाप्यभावे तु पूर्वादि चतुरोदिशि ॥ २।८२ ॥
View Verse
कल्पयेत् स्वस्वनाम्ना तु तत्तद्वृक्षस्वरूपकम् ।
सप्तहस्तसमायुक्तं पञ्चहस्तमथापि वा ॥ २।८३ ॥
View Verse
चतुर्हस्तायतं वापि यथारुचि समाचरेत् ।
तदर्धं पट्टिका तिर्यक् त्रित्रिशूलसमन्वितम् ॥ २।८४ ॥
View Verse
शूलायामं द्वितालं वा पादोनं वा शचीपते ।
पादशूलं मया प्रोक्तं नाहमेकादशाङ्गुलम् ॥ २।८५ ॥
View Verse
नवाङ्गुलं वा देवेन्द्र यथारुचि समाचरेत् ।
पादौ तौ पट्टिका तिर्यक् द्वाभ्यां द्वाविंशदङ्गुलम् ॥ २।८६ ॥
View Verse
वत्तं वा चतुरश्रं वा युक्त्या कुर्याद्यथाविधि ।
तोरणान् स्थापयेद्द्वारे स्वस्थाने च स्ववृक्षजान् ॥ २।८७ ॥
View Verse
खात्वा भूमौ द्वितालं तु मण्डपे मूलविद्यया ।
अथैकतालमानं वा खातयेदवटं धराम् ॥ २।८८ ॥
View Verse
तत्तद्गर्तेषु संस्थाप्य तोरणानि यथाक्रमम् ।
सुशोभनं तु पूर्वं स्यात् सुभद्रं नाम दक्षिणे ॥ २।८९ ॥
View Verse
सुबन्धुं वारुणे चैव सुहोत्रं नाम चोत्तरे ।
एतत्स्वनाममन्त्रेण पूजयेद्देशिकोत्तमः ॥ २।९० ॥
View Verse
कुमुदः कुमुदाक्षश्च प्राच्यां दौवारिकौ स्मृतौ ।
दक्षिणद्वारपालाख्यौ पुण्डरीको ऽथ वामनः ॥ २।९१ ॥
View Verse
शङ्कुकर्णः सर्पनेत्रः प्रतीच्यां द्वारपालकौ ।
उत्तरद्वारपालौ तु सुमुखः सुप्रतिष्ठितः ॥ २।९२ ॥
View Verse
तोरणाभ्यन्तरे स्थाप्य यथाष्टौ च यथादिशि ।
रक्ते पताके पूर्वस्यां दक्षिणस्यां तु पीतके ॥ २।९३ ॥
View Verse
पश्चिमे ऽञ्जनसङ्काशे शुक्लवर्णे तथोत्तरे ।
कुमुदाद्यांश्च भूतेशान् ध्वजेषु परिकीर्तितान् ॥ २।९४ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं मण्डपादि च स्रुक्स्रुवम् ।
पताकान्तं शचीनाथ दारुसङ्ग्रहणं शृणु ॥ २।९५ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मण्डपादिलक्षणविधिर्नाम द्वितीयो ऽध्यायः
View Verse

Chapter - 3

तृतीयो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि दारुसङ्ग्रहणं परम् ।
ब्राह्मणान् भोजयित्वा तु आचार्यःशुद्धमानसः ॥ ३।१ ॥
View Verse
आचार्यःसमलङ्कृत्य नववस्त्राङ्गुलीयकैः ।
यजमानः शचीनाथ शुद्धान्तःकरणःशुचिः ॥ ३।२ ॥
View Verse
शिल्पिनं पूजयित्वा तु गन्धपुष्पाम्बरादिभिः ।
वैष्णवान् समलङ्कृत्य भोजनाच्छादनादिभिः ॥ ३।३ ॥
View Verse
कुठारादीनि सङ्गृह्य वैष्णवैःसह मन्त्रवित् ।
शुचिर्नवाम्बरधरः सोत्तर्यो(?)ष्णीषवान् क्रमात् ॥ ३।४ ॥
View Verse
निर्गच्छेद्वृक्षमासाद्य शिल्पिभिःसह साधकः ।
अष्टाक्षरं महामन्त्रं जप्त्वा चाष्टोत्तरं शतम् ॥ ३।५ ॥
View Verse
कुशहस्तः प्रणम्याथ दारुं पश्येत् समाहितः ।
शुचौ तले विविक्ते तु केशाङ्गारविवर्जिते ॥ ३।६ ॥
View Verse
स्थापितं वृक्षमुद्वीक्ष्य तं प्रणम्य हरिं स्मरन् ।
तद्वृक्षं मनसा गृह्य कण्टकं परिवर्जयेत् ॥ ३।७ ॥
View Verse
कार्तिक्याद्यष्टमासेषु दारुसङ्ग्रहमुत्तमम् ।
उक्तकाले महाप्राज्ञो निरीक्ष्य शुभवृक्षकम् ॥ ३।८ ॥
View Verse
कण्टकात् खदिरं ग्राह्यमसारं परिवर्जयेत् ।
वृक्षानुक्रमणं वक्ष्ये सङ्क्षेपात् सारमुत्तमम् ॥ ३।९ ॥
View Verse
खदिरो देवदारुश्च बदरी चन्दनद्वयम् ।
शिंशुपा राजवृक्षश्च बिल्वयूपवनस्तथा ॥ ३।१० ॥
View Verse
मधुको लोहितश्चैव स्वन्दनस्वन्दकस्तथा ।
तुम्बकं चैव शामल्यं शालवृक्षस्तथैव च ॥ ३।११ ॥
View Verse
असनो वकुलश्चैव शिरीषामलकस्तथा ।
सर्वे च याज्ञिका वृक्षाः प्रतिमार्थमुदाहृताः ॥ ३।१२ ॥
View Verse
सारवन्तश्च ये चान्ये कृमिकीटविवर्जिताः ।
दग्धो ऽग्निना स्वयं शुष्कः पतितश्च स्वयं तथा ॥ ३।१३ ॥
View Verse
तथा चाशनिनार् दधः स्फुटितो भिन्न एव च ।
दक्षिणप्रवणश्चैव वर्जिता अन्यदेशजाः ॥ ३।१४ ॥
View Verse
सङ्कल्प्य प्रतिमामेकां शिलायां वृक्ष एव वा ।
क्रमेण परिगृह्णीयात् कर्तव्यैकैवमत्र तु ॥ ३।१५ ॥
View Verse
नान्यत्र प्रतिमां कुर्यात् क्रिया भवति निष्फला ।
शिलादार्वोस्तु वक्ष्यामि अधिवासबलिक्रमम् ॥ ३।१६ ॥
View Verse
तस्याधस्ताद्धरां पश्चादाशायां मण्डलं कुरु ।
सम्प्रोक्ष्य गन्धतोयेन विष्णुगायत्रिया बुधः ॥ ३।१७ ॥
View Verse
तद्वृक्षमूले मन्त्रज्ञो परिगृह्य नवाम्बरम् ।
आचार्यश्च चतुर्दिक्षु पताकास्तत्र लम्बयेत् ॥ ३।१८ ॥
View Verse
तत्र विष्णुं समावाह्य रविमध्यगतं हरिम् ।
सूक्तेन पुरुषेणैव पूजयेत् पुरुषोत्तमम् ॥ ३।१९ ॥
View Verse
शिलाग्रहणदेशे ऽपि गोमयेनानुलेपयेत् ।
पूर्ववत् समलङ्कृत्य छादयेन्नववस्त्रकैः ॥ ३।२० ॥
View Verse
अत्र पूर्वोक्तमार्गेण पूजयेद्धरिमव्ययम् ।
तत्पूर्वभागे तन्त्रज्ञः सायाह्ने चाधिवासयेत् ॥ ३।२१ ॥
View Verse
चतुर्दिक्षु महादीपं प्रज्वाल्याक्षतधूपकैः ।
अलङ्कृत्य जनान् सर्वानूर्ध्वपुण्ड्रधरोन्मुखान् ॥ ३।२२ ॥
View Verse
आचार्यः कुम्भमादाय निर्देषं सूत्रवेष्टितम् ।
अश्वत्थपल्लवैर्युक्तं सरत्नं तोयसंयुतम् ॥ ३।२३ ॥
View Verse
वस्त्रयुग्मेन संवेष्ट्य धान्यराशौ विनिक्षिपेत् ।
तस्मिन् ब्रह्माणमभ्यर्च्य परितो ऽष्टघटान् न्यसेत् ॥ ३।२४ ॥
View Verse
सापिधानान् सवस्त्रांश्च धान्यराशौ पृथङ्न्यसेत् ।
इन्द्रादीशानपर्यन्तं दिक्पतीनर्चयेत् क्रमात् ॥ ३।२५ ॥
View Verse
पूर्वादिसोमपर्यन्तं होमकर्म समाचरेत् ।
वासुदेवादिमूर्तीनां स्वनाम्ना च पृथक्पृथम् ॥ ३।२६ ॥
View Verse
समिदाज्यचरूंश्चैव अष्टात्तरशतं क्रमात् ।
जुहुयाद्वह्निजिह्वायां वासुदेवादिविद्यया ॥ ३।२७ ॥
View Verse
पूर्णाहुतिं ततो हुत्वा शेषमस्मिन्न विद्यते ।
उत्तरे ऽस्मिन्महामन्त्रे(तन्त्रे?)वैष्णवीकरणं क्रमात् ॥ ३।२८ ॥
View Verse
सम्प्रोक्तं नारदस्यैव तद्वदुत्पादयेदिह ।
उत्पाद्य वैष्णवाग्निं तु तदग्नौ होममाचरेत् ॥ ३।२९ ॥
View Verse
अथवा पूर्वभागे तु चतुर्मूर्तिमनुस्मरन् ।
कारयेद्धोमकर्माणि पूर्वाग्नौ पूर्ववत् क्रमात् ॥ ३।३० ॥
View Verse
परितो बलिदानं तु भूतक्रूरबलिं क्षिपेत् ।
पायसान्नं गुडोपेतं सघण्टास्वरसूक्ष्मयुक् ॥ ३।३१ ॥
View Verse
पुण्याहं वाचयित्वा तु आदावन्ते तु च क्रमात् ।
कुठारं नववस्त्राद्यैरलङ्कृत्याधिवासयेत् ॥ ३।३२ ॥
View Verse
द्रोणतण्डुलमध्ये तु पद्मष्टदलं लिखेत् ।
तन्मध्ये शाययेदस्त्रमन्त्रेणाष्टाक्षरेण वा ॥ ३।३३ ॥
View Verse
नववस्त्रेण सञ्छाद्य साधको मन्त्रवित्तमः ।
गन्धपुष्पादिनाभ्यर्च्य मन्त्रेणास्त्रेण मन्त्रवित् ॥ ३।३४ ॥
View Verse
आचार्यः सुस्थितो भूत्वा इमं मन्त्रमुदीरयेत् ।
ॐ नमः सर्वलोकाय विष्णवे प्रभविष्णवे ॥ ३।३५ ॥
View Verse
विश्वाय विश्वरूपाय स्वप्नाधिपतये नमः ।
रक्षः पिशाचा नागाश्च ये ऽत्र तिष्ठन्ति नित्यशः ॥ ३।३६ ॥
View Verse
व्यपगच्छन्तु ते सर्वे सन्निधत्तां सदा हरिः ।
हत्युक्त्वा स्वप्नमाकाङ्क्षन् पश्चिमे शाययेन्निशि ॥ ३।३७ ॥
View Verse
शुभाशुभं निरीक्ष्यात्र स्वप्नाध्याये प्रकीर्तितम् ।
अदर्शने ऽपि गृह्णीयात् विपरीते निवर्तयेत् ॥ ३।३८ ॥
View Verse
आचार्यः प्रातरुत्थाय विधिवत् स्नानमाचरेत् ।
वृक्षमूले शिलायां वा कुम्भमादाय मन्त्रवित् ॥ ३।३९ ॥
View Verse
अभिषिच्यास्त्रमन्त्रेण सुदर्शनमनुत्तमम् ।
सहस्रारेति सङ्कीर्त्य हुङ्कारं तदनन्तरम् ॥ ३।४० ॥
View Verse
फट्कारान्तं महाहेतिं सुदर्शनमखण्डितम् ।
अस्त्रराजस्य मन्त्रो ऽयं श्रीकीर्तिजयदं परम् ॥ ३।४१ ॥
View Verse
अभिषिच्य त्रिराचम्य परिधाय(प्य?) नवाम्बरैः ।
अर्चयेद्गन्धपुष्पाद्यैः सान्त्वनं तु समाचरेत् ॥ ३।४२ ॥
View Verse
वृक्ष लोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् ।
देवत्वं यास्यते तत्र दाहच्छेदविवर्जितः ॥ ३।४३ ॥
View Verse
जलपुष्पप्रदानेन सुधूपैर्बलिभिस्तथा ।
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ॥ ३।४४ ॥
View Verse
एवं तु सान्त्वनं कृत्वा वृक्षमूलस्थितो मुखः(?) ।
शिलायामपि कर्तव्यं सान्त्वनं तु शचीपते ॥ ३।४५ ॥
View Verse
शिलानाम समुच्चार्य सान्त्वनं तु शिला भवेत् (?) ।
कुठारं तु नमस्कृत्य मन्त्रेणास्त्रेण साधकः ॥ ३।४६ ॥
View Verse
तं समादाय हस्ताभ्यां वृक्षं छिद्य(त्वा?)पुनः पुनः ।
एवं दारुमयं गृह्य वने वनचरैः सह ॥ ३।४७ ॥
View Verse
शङ्खतूर्यादिनादैस्तु पटहैस्तालनिस्वनैः ।
गेयनृत्तसमायुक्तमालयं तु व्रजेत् क्रमात् ॥ ३।४८ ॥
View Verse
यदा दारुमयं गृह्य तदा प्रभृति नित्यशः ।
प्रतिमां कारयेत्तत्र तत्कर्मान्तं हविष्यभुक् ॥ ३।४९ ॥
View Verse
कर्मान्तरं न कुर्वीत यजमानःसमाहितः ।
शिल्पाचार्यस्य वंश्यश्च शास्त्रप्रामाण्यकोविदः ॥ ३।५० ॥
View Verse
सारासारं परीक्ष्यात्र शिल्पिना कुशलेन तु ।
तस्याभावे शचीनाथ दारुसङ्ग्रहणं शृणु ॥ ३।५१ ॥
View Verse
ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्र एव वा ।
तान् समानीय मन्त्रज्ञो मूलविद्याः प्रदापयेत् ॥ ३।५२ ॥
View Verse
तं गृहीत्वा रचीनाथ वृक्षार्थं तु व्रजेद्वने ।
वैष्णवान् भगवद्भक्तान् बलिनः कर्मतत्परान् ॥ ३।५३ ॥
View Verse
निर्गच्छेद्वनमासाद्य छित्वा वृक्षं हरिं स्मरन् ।
तद्वृक्षं शिरसि स्थाप्य स्मरन्नारायणं प्रभुम् ॥ ३।५४ ॥
View Verse
ततो यागगृहं गच्छेच्छङ्खतूर्यादिभिः सह ।
मूलालयस्य पूर्वे तु पूर्णकुम्भं निधापयेत् ॥ ३।५५ ॥
View Verse
अश्वत्थपल्लवैर्युक्तं सापिधानं सवस्त्रकम् ।
सतोयं रत्नसंयुक्तं स्थापयेद्धान्यराशिषु ॥ ३।५६ ॥
View Verse
तत्कुम्भे चानयेन्मन्त्रान् मूलमन्त्रादिकान् क्रमात् ।
नारायणोपनिषदं सृष्ट्यादिप्रतिपादिकाम् ॥ ३।५७ ॥
View Verse
तथा पुरषसूक्तं तु जपेद्वै वैष्णवैः सह ।
कुम्भान्तरगताम्भःसु विष्णुं सकलमव्ययम् ॥ ३।५८ ॥
View Verse
ध्यात्वा गन्धादिनाभ्यर्च्य सूक्तेन पुरुषेण च ।
कुम्भस्य पूर्वभागे तु गोमयेनानुलेपयेत् ॥ ३।५९ ॥
View Verse
द्रोणद्वयं तदर्धं वा विकिरेत्तण्डुलान् क्रमात् ।
तन्मध्ये ऽष्टदलं पद्मं लिख्यानामिकयापि च ॥ ३।६० ॥
View Verse
अष्टाक्षरं महामन्त्रं कर्णिकादिषु योजयेत् ।
तत्र मध्ये तु कुम्भस्य सम्प्रोक्ष्यास्त्रेण मन्त्रतः ॥ ३।६१ ॥
View Verse
प्रोक्षयेन्मूलमन्त्रेण कम्बूदरजलैः पुनः ।
पुनः पुनस्त्रिधा प्रोक्ष्य विष्णुरूपमनुस्मरन् ॥ ३।६२ ॥
View Verse
पञ्चोपनिषदैर्मन्त्रैः पुनः प्रोक्ष्य समाहितः ।
सम्प्रोक्ष्य मूलमन्त्राभ्यां कुम्भातोयेन साधकः ॥ ३।६३ ॥
View Verse
पूर्वाधिवासितैर्मन्त्रैः स्नापयेद्दारुमुत्तमम् ।
सुधूपगन्धपुष्पाद्यैरर्चयेत् पूर्ववत् क्रमात् ॥ ३।६४ ॥
View Verse
नववस्त्रेण सञ्छाद्य परितो बलिमाचरेत् ।
सुदर्शनेन मन्त्रेण पूर्वादिक्रमयोगतः ॥ ३।६५ ॥
View Verse
हविषा बलिदानं तु सर्वशान्त्यर्थमेव च ।
तद्बलिं शुभदं ऋद्धिं(विद्धि?)सर्वविघ्ननिवारणम् ॥ ३।६६ ॥
View Verse
तस्मात्सर्वप्रयत्नेन बलिमस्मिन् समाचरेत् ।
प्रभातायां तु शर्वर्यामालयं तु परिभ्रमेत् ॥ ३।६७ ॥
View Verse
शङ्खतूर्यादिसंयुक्तं गृहीत्वा वृक्षमुत्तमम् ।
वैष्णवैःसह शिष्यैस्तु आचार्यो मन्त्रवित्तमः ॥ ३।६८ ॥
View Verse
गर्भगेहे तु संस्थाप्य कवाटं बन्धयेत् पुनः ।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥ ३।६९ ॥
View Verse
नवरात्रं तु वा चास्मिन् कवाटं न विमोचयेत् ।
अङ्कुरार्पणमारभ्य तद्रात्रौ तु शचीपते ॥ ३।७० ॥
View Verse
आलयेशानभागे तु दक्षिणे चोत्तरे ऽथ वा ।
मण्डपं वाथ कूटं वा प्रपां वाकल्प्य साधकः ॥ ३।७१ ॥
View Verse
वितानवस्त्रसञ्छन्नमलङ्कारैरलङ्कृतम् ।
मुक्तादामसमायुक्तं पुष्पमाल्यैरलङ्कृतम् ॥ ३।७२ ॥
View Verse
पालिका चाङ्कुरो(ङ्कुरको?)पेतमष्टदिग्दीपसंयुतम् ।
नालिकेरुलैर्युक्तं चामरैरुपशोभितम् ॥ ३।७३ ॥
View Verse
एवं लक्षणसंयुक्तं मण्डपं चानयेत्तरुम् ।
अपराह्णे शचीनाथ वैष्णवैःसह मन्त्रवित् ॥ ३।७४ ॥
View Verse
शङ्खतूर्यादिसंयुक्तं नृत्तगेयसमन्वितम् ।
गर्भगेहं समासाद्य कवाटं प्रविमोचयेत् ॥ ३।७५ ॥
View Verse
दारुमभ्यर्च्य गन्धाद्यैः मूलमन्त्रमनुस्मरन् ।
सम्प्रोक्ष्य गन्धतोयेन पुण्याहं कारयेत् सुधीः ॥ ३।७६ ॥
View Verse
मण्डपे मध्यभागे तु खानयेवदवटं क्रमात् ।
द्विहस्तं वा तदर्धं वा तस्यार्धं वा शचीपते ॥ ३।७७ ॥
View Verse
प्रधानतरुमादाय मन्त्रेणास्त्रेण साधकः ।
स्थापयेन्मूलमन्त्रेण दक्षिणे तु श्रियं न्यसेत् ॥ ३।७८ ॥
View Verse
उत्तरे तु न्यसेत् पुष्टिं तत्तन्मूलं यथाक्रमम् ।
संवत्सरसहस्रायुर्गतं स्मृत्य तरुं परम् ॥ ३।७९ ॥
View Verse
तन्मूले सलिलं न्यस्य पुण्डरीकाक्षविद्यया ।
तत्तन्मूलेन वा पश्चाज्जलदानं यथारुचि ॥ ३।८० ॥
View Verse
सितपुष्पैः समाराध्य तस्मात्सकलमव्ययम् ।
मन्त्रहीनं क्रियाहीनं सर्वं वै क्षन्तुमर्हसि ॥ ३।८१ ॥
View Verse
एवमुक्त्वा नमस्कृत्य दारुमूलं तु मन्त्रवित् ।
एवं कृत्वा ततो दारुसङ्ग्रहं पुनरारभेत् ॥ ३।८२ ॥
View Verse
अधिवासादिसर्वाणि चास्मिन् पूर्ववदाचरेत् ।
शिल्पिनं पूजयित्वा तु दारुं छिद्य (त्वा?) पनुः पुनः ॥ ३।८३ ॥
View Verse
तेनैव (तैरेव?) वैष्णवैर्युक्तो मूलमूर्तिमनुस्मरन् ।
अन्यथा फलमाप्नोति ग्रामनाशो धनक्षयः ॥ ३।८४ ॥
View Verse
स्थाननाशो भवेत्तत्र सम्भवेन्नात्र संशयः ।
एवं दारुमयं गृह्य पुनःसंस्कारवत् क्रमात् ॥ ३।८५ ॥
View Verse
शिल्पशास्त्रानुसारेण कारयेन्मूलमुत्तमम् ।
आचार्यं पूजयेत् पश्चात् हेमवस्त्राङ्गुलीयकैः ॥ ३।८६ ॥
तथैव शिल्पिनं पूज्य शिलाग्रहणमारभेत् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दारुसङ्ग्रहणविधिर्नाम तृतीयो ऽध्यायः ॥
View Verse

Chapter - 4

चतुर्थो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि शिलाग्रहणमुत्तमम् ।
द्विविधा तु शिला ग्राह्या पर्वतेषु धरासु च ॥ ४।१ ॥
View Verse
पर्वतान् प्रथमं वक्ष्ये येषु शैलेषु गृह्यते ।
त्रिकूटो हेमकूटश्च कैलासो गिरिसत्तमः ॥ ४।२॥
View Verse
मन्दरो माल्यवांश्चैव निषधो नीलपर्वतः ।
मेरुः सह्यश्च विन्ध्यश्च किष्किन्धो गिरिसत्तमः ॥ ४।३ ॥
View Verse
वेङ्कटो दर्दरश्चैव श्रीगिरिश्चित्रकूटकः ।
एवम्भूतान् समन्वीक्ष्य पुरतः प्रणमेत् सदा ॥ ४।४ ॥
View Verse
पत्रं पुष्पं समादाय निक्षिपेद्गिरिमूलके ।
नमस्कृत्य हरिं ध्यात्वा पर्वतं पापनाशनम् ॥ ४।५ ॥
View Verse
अधिवासनानिसर्वाणि(कर्माणि?)अस्मिन् पूर्ववदाचरेत् ।
भूगता याः शिलाः प्रोक्ताः तासां लक्षणमुच्यते ॥ ४।६ ॥
View Verse
वारुणी चैव माहेन्द्री आग्नेयी वायवी तथा ।
चतुर(चतस्र?)स्तु शिलाः प्रोक्ताः तासांलक्षणमुच्यते ॥ ४।७ ॥
View Verse
या पुष्पवनसङ्कीर्णा जलाशयसमायु(वृ?)ता ।
सा क्षितिर्वारुणी ज्ञेया शिला तत्र तु वारुणी ॥ ४।८ ॥
View Verse
यस्याश्चोत्तरसंस्थायाः व्रीहिक्षेत्रं तु दक्षिणे ।
पश्चिमे क्षीरवृक्षाश्च सा माहेन्द्री प्रकीर्तिता ॥ ४।९ ॥
View Verse
पलाशाः खदिरा वृक्षाः काश्मर्यः पुष्पर्(-यश्चैव?)दक्षिणे ।
तित्तिर्यश्च कपोताश्च गृध्राश्चैव वसाशनाः ॥ ४।१० ॥
View Verse
भ्रमराश्च वराहाश्च दृश्यन्ते यत्र सन्ततमद्म् ।
तोयमन्तर्गतां(तं?)स्वल्पां(ल्पं?)तामाग्नेयीम्प्रचक्षते ॥ ४।११ ॥
View Verse
बिल्वश्लेष्मातकाकीर्णा तथा स्नुहिविभीतके ।
सृगाला यत्र दृश्यन्ते तथैव मृगतृष्णिका ॥ ४।१२ ॥
View Verse
तृणोदकविहीना च शर्करोषरसंयुता ।
वायवी सा क्षितिः प्रोक्ता शिलां तत्र तु वर्जयेत् ॥ ४।१३ ॥
View Verse
नदीतीरे ह्रदतटे लवणोदपरिप्लुते ।
ग्राममध्ये श्मशाने च तथा चैव चतुष्पथे ॥ ४।१४ ॥
View Verse
अमेध्यभूमौ वल्मीके ऊषरे शवदूषिते ।
वायुसूर्याग्निदग्धे च न ग्राह्यास्तु शिलाःसदा ॥ ४।१५ ॥
View Verse
वर्जिताभिः शिलाभिर्यः प्रतिमां लोभमोहितः ।
कुर्याद्वा कारयेद्वापि तस्य स्यादाभिचारिकम् ॥ ४।१६ ॥
View Verse
प्रमिमार्थं तु निर्गच्छेदाचार्यः शिल्पिभिःसह ।
ब्राह्मणान् भोजयित्वादौ तैः कृत्वा स्वस्तिवाचनम् ॥ ४।१७ ॥
View Verse
अयः कुठादिसङ्गृह्य प्राङ्मुखो वाप्युदङ्मुखः ।
निर्गतस्तु शिलां पश्येत् तदा प्रभृति नित्यशः ॥ ४।१८ ॥
View Verse
प्रतिमाकर्म कुर्वीत तत्कर्मान्तं हविष्यभुक् ।
दारुसङ्ग्रहणाध्याये सम्प्रोक्तं चाधिवासनम् ॥ ४।१९ ॥
View Verse
तस्मिन् सर्वं प्रयोक्तव्यं विशेषं कथयामि ते ।
शिल्पिभिश्च भुवं खात्वा शिलां पश्येत् समाहितः ॥ ४।२० ॥
View Verse
दक्षिणोत्तरमायामं तथा वै पूर्वपश्चिमम् ।
शान्तिदा दक्षिणग्रीवा पूर्वग्रीवाजयप्रदा ॥ ४।२१ ॥
View Verse
श्रीकरी पश्चिमग्रीवा कर्तुर्भवति नित्यदा ।
पुष्टिदा चोत्तरग्रीवा कोणं तु परिवर्जयेत् ॥ ४।२२ ॥
View Verse
उत्पाट्यमाने दृश्यन्ते स्फुलिङ्गा यत्र चाग्निवत् ।
नादाश्च कांस्यघण्टावच्छिलायाश्च शिरो मतम् ॥ ४।२३ ॥
View Verse
कांस्यवन्मध्यभागे तु मूले वै कांस्यतालवत् ।
ध्वनिर्यस्याः शिलायास्तु सा पुमानिति कीर्तिता ॥ ४।२४ ॥
View Verse
तस्मात्किञ्चिद्विहीना तु छिद्रायाश्च ध्वनिर्भवेत् ।
सा शिला स्त्रीति विज्ञेया तद्धीना स्यान्नपुंसकम् ॥ ४।२५ ॥
View Verse
पुल्लिङ्गे प्रतिमा प्रोक्ता स्त्रीलिङ्गे पादपीठिका ।
रत्नन्यासादधस्तात्तु नपुंसकमुदाहृतम् ॥ ४।२६ ॥
View Verse
तत्र गर्भं परीक्षेत छेदने भेदने ऽपि च ।
मण्डला यत्र दृश्यन्ते तत्र गर्भं विनिर्दिशेत् ॥ ४।२७ ॥
View Verse
माञ्जिष्ठवर्णसदृशे दर्दुरस्तत्र सम्भवे ।
पीतके मण्डले गोष्णा (गोधा?)कृष्णे कृष्णाहिरेव च ॥ ४।२८ ॥
View Verse
कपिले मूषिकः प्रोक्तः कृकलासस्तथारुणे ।
गुलवर्णे तु पाषाणः कर्बुरेगृहगौलिका ॥ ४।२९ ॥
View Verse
कु(अ?)म्भः कृपाणसदृशे वालुकाः पद्मसन्निभे ।
विचित्रे वृश्चिको ज्ञेयो नीलपीते पतङ्गकः ॥ ४।३० ॥
View Verse
मधुवर्णे तु खद्योतः मण्डले निर्दिशेद्बुधः ।
गर्भदर्शनदोषांस्तु पुनर्वक्ष्ये यथातथम् ॥ ४।३१ ॥
View Verse
दर्दुरे स्यादनारोग्यं गोधायां दुर्गतो(तिः?) भवेत् ।
विषेण म्रियते सर्पे अनपत्यस्तु मूषिके ॥ ४।३२ ॥
View Verse
कृकलासे य(त?)थाल्पायुः पाषाणे ऽशनिना वधः ।
गौलिकायां धनापायो जले वै गर्भनाशनम् ॥ ४।३३ ॥
View Verse
सिकातासु जलाभावो वृश्चिके कलहस्तथा ।
शलभे राष्ट्रनाशः स्यात् खद्योते च कुलक्षयः ॥ ४।३४ ॥
View Verse
तस्माद्यत्नात् परीक्षेत नित्यं गर्भमतन्द्रितः ।
गर्भेण सहितां लोभात् प्रतिमां कुरुते यदि ॥ ४।३५ ॥
View Verse
तन्मण्डलाधिपो राजा कारकः स्थापकस्तथा ।
उन्मूमिला भवन्त्येते तस्माद्गर्भं विशोधयेत् ॥ ४।३६ ॥
View Verse
मणिजा लोहजाश्चैव दारुजा वा शचीपते ।
गर्भागर्भमवेक्षेत नित्यं वृद्धिशुभप्रदा ॥ ४।३७ ॥
View Verse
अस्मिन् तन्त्रोत्तरे भागे प्रमिमालक्षणं क्रमात् ।
नारदस्य(दाय?)मया प्रोक्तं गुह्याद्गुह्यमनुत्तमम् ॥ ४।३८ ॥
View Verse
तस्मात्पूर्वोत्तरं ज्ञात्वा प्रमिमां कारयेत्क्रमात् ।
एवं शैलविधिः प्रोक्तः सारात्सार अनुत्तमः ॥ ४।३९ ॥
इति श्रीपाञ्चरात्र विष्वक्सेनसंहितायां शिलासङ्ग्रहणविधिर्नाम चतुर्थो ऽध्यायः ॥
View Verse

Chapter - 5

पञ्चमो ऽध्यायः
विष्वक्सेनः---
अथातःसम्प्रवक्ष्यामि शूलस्थापनमुत्तमम् ।
स्थापयेत् प्रतिमाशूलं रत्नन्यासस्य चो(स्तथो?)परि ॥ ५।१ ॥
View Verse
खदिरादीनि गृह्णीयात् याज्ञिकानि विशेषतः ।
तल्लक्षणं प्रवक्ष्यामि शृणु पूर्वं शचीपते ॥ ५।२ ॥
View Verse
पञ्चोत्तरद्विपञ्चाशत् सपादं(अङ्गुलं?)शूलमुच्पते ।
रहितं वृक्षदोषैस्तु मितमङ्गुलिभिः क्रमात् ॥ ५।३ ॥
View Verse
द्विषट्कद्व्यङ्गुलयुतं मुखं प्रोक्तं प्रमाणतः ।
भागः सपादकं वा स्यादधस्तात् सप्तविंशतिः ॥ ५।४ ॥
View Verse
नाभेरधोमुखं प्रोक्तमर्धाङ्गुलिसमायुतम् ।
ऊरुदण्डस्य चायामः पञ्चविंशाङ्गुलो भवेत् ॥ ५।५ ॥
View Verse
भागःसपादं जानुः स्यात् जङ्घा चोरुसमायुता ।
गोलकद्वयमुद्दिष्टमधस्ताद्द्व्यन्तरं तथा ॥ ५।६ ॥
View Verse
वक्षोदण्डस्य विस्तारः पञ्चविंशाङ्गुलो भवेत् ।
कटिदण्डस्य विस्तारः षोडशाङ्गुल उच्यते ॥ ५।७ ॥
View Verse
आयामो बाहुदण्डस्य पञ्चविंशाङ्गुलो भवेत् ।
आयामो ऽपरबाह्वोस्तु भवेत् सप्तदशाङ्गुलम् ॥ ५।८ ॥
View Verse
मणिबन्धः कलायामो बन्धकान् प्रतिमस्करम् ।
आयामो मध्यमाङ्गुल्यां पञ्चाङ्गुल इति स्मृतः ॥ ५।९ ॥
View Verse
एतत्प्रमाणं शूलं स्यात् उक्तमन्यन्निरीक्ष्यते(तु?) ।
देवीनां तु शचीनाथ शूलानुक्तान् प्रयोजयेत् ॥ ५।१० ॥
View Verse
शिल्पशास्त्रानुसारेण कारयेच्छूललक्षणम्(मुत्तमम्?) ।
शूलमृत्पटरज्वादिजीर्णं चेत्तु शचीपते ॥ ५।११ ॥
View Verse
पुनरन्यत् समुत्पाद्य पूर्वोक्तेनैव कारयेत् ।
हीनाधिकं न कर्तव्यं जीर्णदण्डवदाचरेत् ॥ ५।१२ ॥
View Verse
एवमेतन्मया प्रोक्तम्, जीर्णोद्धारणकर्मणि ।
युक्त्या युक्तिविशेषेण क्रियते ऽस्मिन्नतन्द्रितैः ॥ ५।१३ ॥
View Verse
शूलाधिवासनादीनि प्रवक्ष्यामि शचीपते ।
शृणुष्वैकाग्रचित्तेन विविक्तेन मयाधुना(?) ॥ ५।१४ ॥
View Verse
प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ ५।१५ ॥
View Verse
वितानवस्त्रसञ्छन्नमलङ्कारैरलङ्कृतम् ।
पञ्चोत्तरशतं हस्तं विस्तारं तावदेव तु ॥ ५।१६ ॥
View Verse
तन्मध्ये वेदिकां कृत्वा दशतालप्रमाणतः ।
दशहस्तं भवेद्वापि द्वादशं वा शचीपते ॥ ५।१७ ॥
View Verse
तन्मण्डपं(द्वेदिकां?)त्रिधा कृत्वा मध्ये वेदिं तु कारयेत् ।
दशतालविहीनेन (प्रमाणेन) कारयेद्वेदिमुत्तमाम् ॥ ५।१८ ॥
View Verse
तालद्वयोच्छ्रितां वेदिं दर्पणोदरसन्निभाम् ।
वेदिकां क्रमशः कृत्वा सम्यक्कुण्डानि कल्पयेत् ॥ ५।१९ ॥
View Verse
चतुस्तालं त्रितालं वा दूरीभूतानि सर्वशः ।
वेदिकायां तु परितः चतुरश्रादि कल्पयेत् ॥ ५।२० ॥
View Verse
स्थण्डिले वा प्रकर्तव्यं शूलस्थापनकर्मणि ।
कृत्वैवं मण्डपं सम्यक् प्रपां वास्मिन् समाचरेत् ॥ ५।२१ ॥
View Verse
अङ्कुरार्पणपूर्वं तु स्थापयेच्छूलमुत्तमम् ।
शुलादि देवदेवीत्वाप्यूहं कृत्वा क्रमेण तु ॥ ५।२२ ॥
View Verse
त्रिरात्रमेकरात्रं वा जलवासं प्रकल्पयेत् ।
जलाधिवासनं गुह्यं शृणु शक्र शचीपते ॥ ५।२३ ॥
View Verse
नद्यां वाथ तटाके वा निर्झरे वा शचीपते ।
समुद्रगामिनी नद्यां(?)जलवासं समाचरेत् ॥ ५।२४ ॥
View Verse
तस्मिन्मनोरमे तीरे संस्थाप्य हरिमव्ययम् ।
शूलमध्ये हरिं ध्यात्वा साधकः परमार्थवित् ॥ ५।२५ ॥
View Verse
केवलं लोहबिम्बं वा स्थापयेत् साधकोत्तमः ।
अर्घ्यपाद्यादिनाभ्यर्च्य न्यासकर्म समारभेत् ॥ ५।२६ ॥
View Verse
अष्टाक्षरं महामन्त्रं ज्ञात्वा मन्त्रविचक्षणः ।
न्यासं कृत्वा स्वदेहे तु पश्चाद्देवे न्यसेत् क्रमात् ॥ ५।२७ ॥
View Verse
सृष्टिन्यासं न्यसेत्तस्मिन् संहारं न स्मरेदिह ।
षडक्षरं न्यसेद्धीमान् स्थितिन्यासं न्यसेत् क्रमात् ॥ ५।२८ ॥
View Verse
देवाग्रे तु ततो भूमिं गोमयेनानुलेपयेत् ।
तन्मध्ये शालीनास्तीर्य चाष्टपत्राब्जकं लिखेत् ॥ ५।२९ ॥
View Verse
पञ्चगव्यं न्यसेन्मध्ये कर्णिकायां शचीपते ।
पूर्वे गन्धोदकं न्यस्य दक्षिणे पुष्पतोयकम् ॥ ५।३० ॥
View Verse
पश्चिमे नालिकेराम्भः चोत्तरे तु कुशोदकम् ।
आग्नेय्यां दधि विन्यस्य नैऋते क्षीरमेव च ॥ ५।३१ ॥
View Verse
वायव्ये मङ्गलोदं तु ऐशाने तु यवोदकम् ।
एवं तु नवकं चाब्जमध्ये संस्थापयेत् क्रमात् ॥ ५।३२ ॥
View Verse
पद्मस्य परितश्चाष्टौ लोकपालान् प्रकल्पयेत् ।
प्रत्येकं कलशस्यान्तः तोयं संस्थापयेत्क्रमात् ॥ ५।३३ ॥
View Verse
नववस्त्रैश्च सञ्छाद्य कलशानां तथोपरि ।
प्रत्येकैकं त्रिभिर्वापि नववस्त्रं शचीपते ॥ ५।३४ ॥
View Verse
पुण्याहं वाचयित्वा तु स्वस्तिसूक्तं तथोच्चरेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तमः ॥ ५।३५ ॥
View Verse
स्मरन् नारायणं पश्चात् स्नापयेत् क्रमयोगतः ।
पञ्चगव्यादिकलशान् पूर्ववत् परमेष्ठिना ॥ ५।३६ ॥
View Verse
पुष्पमाल्यैरलङ्कृत्य चित्रवस्त्रैस्तु वेष्टयेत् ।
गन्धपुष्पादिनाभ्यर्च्य स्मरन् नारायणं प्रभुम् ॥ ५।३७ ॥
View Verse
जलमध्ये प्रपां कृत्वा वितानैरुपशोभिताम् ।
सप्तहस्तसमां वापि पञ्चहस्तसमां तु वा ॥ ५।३८ ॥
View Verse
दर्भसूत्रैस्तु संवेष्ट्य पुनर्माल्यैस्तु वेष्टयेत् ।
चतुर्हस्तं तु देवेन्द्र विस्तारायामतादृशम्(तः समम्?) ॥ ५।३९ ॥
View Verse
दर्भमालासमायुक्तं मुक्तादामैरलङ्कृतम्(मभिरन्वितम्?) ।
पुष्पमाल्यैरलङ्कृत्य पताकैरुपशसोभितम् ॥ ५।४० ॥
View Verse
एवं प्रपामलङ्कृत्य तन्मध्ये चासनं न्यसेत् ।
चतुष्पादसमायुक्तं काष्ठासनमनुत्तमम् ॥ ५।४१ ॥
View Verse
तन्मध्ये देवमावाह्य क्षीरार्णवमनुस्मरन् ।
शाययेत्तु शचीनाथ मूर्तिमन्त्रेण मन्त्रवित् ॥ ५।४२ ॥
View Verse
प्राक्शीर्षं वा[पिटदेवेन्द्र दक्षिणे वाथ शाययेत् ।
पञ्चोपनिषदं ज्ञात्वा आचार्यस्तन्त्रपारगः ॥ ५।४३ ॥
View Verse
पुरुषेण ततो गन्धपुष्पाद्यैरर्चयेद्धरिम् ।
लोकपालाष्टकलशान् देवस्य परितो न्यसेत् ॥ ५।४४ ॥
View Verse
स्वनाम्ना पूजयेत् सर्वानिन्द्रादिक्रमयोगतः ।
प्रणवादिनमोन्तेन घण्टाशब्दसमन्वितम् ॥ ५।४५ ॥
View Verse
गन्धा(अर्घ्या?)दिदीपपर्यन्तं साधकः परमार्थवित् ।
तां प्रपां परितश्चाष्टदिग्बलिं कारयेत् क्रमात् ॥ ५।४६ ॥
View Verse
अनेन लोकपालांस्तु स्मरंस्तन्त्रविदां वरः ।
गन्धपुष्पादिनाभ्यर्च्य उक्तमन्येन (न्यच्च?)कारयेत् ॥ ५।४७ ॥
View Verse
शचीपते मया प्रोक्तो जलवासविधिः क्रमात् ।
अपरे ऽहनि देवेन्द्र अपराह्णे समाहितः ॥ ५।४८ ॥
View Verse
जलादुत्तीर्य तन्त्रज्ञः शङ्खभेर्यादिभिः सह ।
सम्पूजयेत्तयो देवमलङ्कृत्य स्रगादिभिः ॥ ५।४९ ॥
View Verse
मण्डपेशानभागे तु स्थापयेत् स्नानमण्डपे ।
स्नपनं विधिवत् कृत्वा गन्धाद्यैरर्चयेत् क्रमात् ॥ ५।५० ॥
View Verse
उत्तरे ऽस्मिन् मया प्रोक्तं तन्त्रे तु स्नपनं क्रमात् ।
तत्क्रमं स्नापयित्वा तु कल्पयेच्छयनं क्रमात् ॥ ५।५१ ॥
View Verse
शयनं कल्पयित्वा तु शाययेच्छूलसञ्चयम् ।
तन्मध्ये देवशूलं तु देवीशूलं तु पार्श्वयोः ॥ ५।५२ ॥
View Verse
वस्त्रैः सञ्छादयेच्छूलान् गन्धपुष्पैः समर्चयेत् ।
सूक्तेन पु(पौ?) रुषेणैव सृष्टिन्यासं ततो न्यसेत् ॥ ५।५३ ॥
View Verse
संहारो नेष्यते तस्मिन् तत्वानि विनियोजये ।
मूलप्रकृतिमहदहङ्काराकाशवायुवह्णिवारिवसुन्धरावाक्पाणिपादपायूपस्थ
श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणमनःप्राणापानव्यानोदानसमानजीवाः पञ्चविंशतितत्त्वानि ।
एवं तत्त्वानि विन्यस्य तन्नामानि नियोजयेत् ॥ ५।५४ ॥
View Verse
ततस्तु वेदिकायां तु पूर्वादिक्रमयोगतः ।
स्थापयेत् पूर्णकुम्भांस्तु धान्यराशौ समाहितः ॥ ५।५५ ॥
View Verse
वराहादीन् समभ्यर्च्य स्वनाम्नाष्टदले(घटे) षु च ।
नेष्यते वेदिकायां तु ब्रह्मकुम्भाधिवासनम् ॥ ५।५६ ॥
View Verse
न्यासभेदानि सर्वाणि अनुक्तं न स्मरेदिह ।
अर्घ्यपाद्यादिनाभ्यर्च्य स्मरन्नारायणं हरिम् ॥ ५।५७ ॥
View Verse
वासुदेवादिमूर्तीनां पूर्वादिक्रमयोगतः ।
कुण्डे वा स्थण्डिले वापि जुहुयुर्मूर्तिपाः पृथक् ॥ ५।५८ ॥
View Verse
समिदाज्येन चरुणा अष्टोत्तरशतं क्रमात् ।
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ॥ ५।५९ ॥
View Verse
सूक्तेन पौरुषणैव पूर्वादिक्रमयोगतः ।
कुण्डे कुण्डे तु कर्तव्यं (कुर्याच्च?) प्रत्येकं षोडशाहुतीः ॥ ५।६० ॥
View Verse
पूर्णाहुतिं ततो हुत्वा होममस्मिन् समापयेत् ।
पायसं कृसरं गौऌयं देवेशाय निवेदयेत् ॥ ५।६१ ॥
View Verse
शङ्खदुन्दुभिनिर्घोषं तस्मिन् काले नियोजयेत् ।
रक्षार्थं हविषास्त्रेण चाष्टदिग्बलिमाचरेत् ॥ ५।६२ ॥
View Verse
घण्टाशब्दसमोपेतं शङ्खदुन्दुभि घोषयेत् ।
ततस्तु नववस्त्रैश्च वेष्टयेदुपरि क्रमात् ॥ ५।६३ ॥
View Verse
गन्धपुष्पं विनिक्षिप्य प्रणम्याञ्जलिमुद्रया ।
रात्रिशेषं नयेत् गेयनृत्तवीणादिभिः क्रमात् ॥ ५।६४ ॥
View Verse
प्रभातायां तु शर्वर्यामाचार्यः स्नानमाचरेत् ।
ऊर्ध्वपुण्ड्रं क्रमात् कृत्वा वस्त्रालङ्कारभूषितः ॥ ५।६५ ॥
View Verse
मूर्तिपैःसह चोत्थाय शूलमूलमनुस्मरन् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हाविरस्मिन्न (स्मैप्र?) दापेयत् ॥ ५।६६ ॥
View Verse
वेश्वमप्रदक्षिणं कुर्वन् गर्भागारं प्रवेशयेत् ।
आचार्यः स्थापयेच्छूलं ततस्तु परमेष्ठिना ॥ ५।६७ ॥
View Verse
देवीशूलं तु संस्थाप्य स्वनाम्नास्मिन् श्रियादिना ।
वेदान् सस्वरमुद्धृत्य काले तस्मिन् समुच्चरेत् ॥ ५।६८ ॥
View Verse
वाराहादीनि चावाह्य शूलाग्रे सेचयेत् क्रमात् ।
आसनं च ततः पुंसा विश्वेन शयनं ततः ॥ ५।६९ ॥
View Verse
निवृत्या यानकं चापि सिञ्चेत्तन्मूर्ध्नि(र्ति?) धारकः ।
मूर्धादिपादपर्यन्तं वाराहादीननुक्रमात् ॥ ५।७० ॥
View Verse
विन्यसेच्छूल (लं?) देहे तु स्वनाम्ना च पृथक्पृथम् ।
सहैव स्थापयेच्छूलं श्रीपुष्ट्योर्देवपार्श्वयोः ॥ ५।७१ ॥
View Verse
चित्रार्धं शेलदारुभ्यां साङ्गोपाङ्गसमायुतम् ।
कारयेत् प्रतिमां तत्र स्थापयेच्छूलवत् पुरा ॥ ५।७२ ॥
View Verse
वस्त्रं तत्र नवं स्निग्धं नीलरोमादिवर्जितम् ।
सङ्गृह्य प्रणवेनैव छादयेत् प्रतिमोपरि ॥ ५।७३ ॥
View Verse
वर्णं तत्कारयेद्विद्वान् यद्यत् पूर्वानुरूपतः ।
पुनःसंस्थापनं कृत्वा स्थापनाशास्त्रतः क्रमात् ॥ ५।७४ ॥
View Verse
शूलमस्थिमवेत्तस्मिन् रज्जुस्तत्र सिरा भवेत् ।
मृण्मासं त्वक्पटं तत्र शरीरवदिदं स्मृतम् ॥ ५।७५ ॥
View Verse
यथा शरीरे सङ्कल्प्य चतुष्षष्टि सिरास्तथा ।
नारिकेले(ल?)त्वचःसारं गृह्णीयाद्रज्जुकर्मणि ॥ ५।७६ ॥
View Verse
शूले पाशाः प्रकर्तव्याः तत्कर्मकशलैः शुभैः ।
एवं रज्जुमयं कृत्वा सर्वाङ्गेषु सुवेष्टयेत् ॥ ५।७७ ॥
View Verse
सङ्क्षेपात् कथितं रज्जुबन्धनं परमं शुभम् ।
एवं कृत्वा यथान्यायं शूलस्थापनमुत्तमम् ॥ ५।७८ ॥
View Verse
आचार्यं पूजयेत् पश्चात् धनैःकनककुण्डलैः ।
शिल्पिनं पूजयेत् पश्चात् तथैव नववस्त्रकैः ॥ ५।७९ ॥
View Verse
दैवज्ञं पूजयेत् पूर्वं वस्त्रहेमाङ्गुलीयकैः ।
ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ॥ ५।८० ॥
एवं संस्थापनं प्रोक्तं सङ्क्षेपाच्छूलमुत्तमम् (?) ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां शूलस्थापन- विधिर्नाम पञ्चमो ऽध्यायः ॥
View Verse

Chapter - 6

षष्ठो ऽध्यायः
विष्वक्सेनः---
मृत्संस्कारमथो वक्ष्ये शृणुष्वैक मनाधुना (!) ।
पक्वापक्वे(क्वा?)द्विधा प्रोक्ता भूसुरादीननुक्रमात् ॥ ६।१ ॥
View Verse
सर्वलोका न शंसन्ति प्रतिमां दग्धमृण्मयीम् ।
अपक्वा प्रतिमा शस्ता सैव कार्या विचक्षणैः ॥ ६।२ ॥
View Verse
सुधया नैव कुर्याद्वा नाश्मचूर्णैः कदाचन ।
मृदैव मृण्मयं कुर्यात् यथावर्णानुरूपतः ॥ ६।३ ॥
View Verse
ब्राह्मणस्य सिता मृद्वै क्षत्रियस्यारुणा स्मृता ।
विशां पीता भवेन्मृद्वै कृष्णा शूद्रस्य कीर्तिता ॥ ६।४ ॥
View Verse
मृदं वर्णानुपूर्व्येण गृह्णीयात् क्षेत्रसम्भवाम् ।
दधिसर्पिःपयोभिश्च अतसीस्नेहसंयुतैः ॥ ६।५ ॥
View Verse
शर्करा(रां?)लोहपाषाणैः चूर्णं कृत्वा तु पूर्वशः ।
समभागानि चूर्णानि मृत्तिकायां नियोजयेत् ॥ ६।६ ॥
View Verse
खादिरेण कषायेण अर्जुनेन च पेषयेत् ।
श्रीवेष्टकं सज्जरसं कुङ्कुमं कोष्ठमेव च ॥ ६।७ ॥
View Verse
कुन्दुरुश्च रसा ह्येते सर्वे सर्वरसान्विताः ।
नदीसङ्गमतीरेषु पुण्योद्यानेषु वै पुनः ॥ ६।८ ॥
View Verse
आदाय मृत्तिकां तत्र स्नेहचूर्णसमायुताम् ।
मासं पर्युषितं कृत्वा कारयेत् प्रतिमां ततः ॥ ६।९ ॥
View Verse
त्रिरात्रं पेषिता(चोषिता?)सा तु शिलामयसमा भवेत् ।
मृत्संस्कारं मया प्रोक्तं तेनैव प्रतिमां क्रमात् ॥ ६।१० ॥
View Verse
कारयेत् सुदृढं सम्यक् शास्त्रदृष्ट्या च शिल्पिना ।
साङ्गोपाङ्गसमायुक्तां प्रतिमां सुमनोरमाम् ॥ ६।११ ॥
View Verse
नवाम्बरं तु सुस्निग्धं प्रतिमोपरि वेष्टयेत् ।
तस्योपरि लिखेत् स्निगधं वर्णानुक्रमणेन तु ॥ ६।१२ ॥
View Verse
अतस्तत्सम्प्रवक्ष्यामि वर्णानुक्रमण क्रमात् ।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च ॥ ६।१३ ॥
View Verse
पञ्चवर्णा इमे प्रोक्ताः पृथिव्याद्यधिदेवताः ।
उत्तमा धातुजा प्रोक्ता मध्यमा वृक्षसम्भवा ॥ ६।१४ ॥
View Verse
संयोगजावरा ज्ञेया त्रिविधो वर्णसङ्ग्रहः ।
वर्णं चाप्यनुवर्णं च सङ्करं च तथैव च ॥ ६।१५ ॥
View Verse
त्रिविधो वर्णसंयोगः शास्त्रे ऽस्मिन्नुच्यते मया ।
वर्णा इत्युच्यते शुद्धा राजवार्तादिनाकरोत्(?) ॥ ६।१६ ॥
View Verse
अनाक(का?)रेषु ये वर्णाः प्रायःशुद्धिविवर्जिताः ।
अनुवर्णा इमे प्रोक्ताः सङ्करान् कथयाम्यहम् ॥ ६।१७ ॥
View Verse
शुक्लो रक्तश्च कृष्णश्च नीलश्चेति चतुर्विधः ।
शङ्खगोक्षीरवर्णाभः शुक्ल इत्यभिधीयते ॥ ६।१८ ॥
View Verse
हरितश्चैव पीतश्च पीतवर्णो द्विधा भवेत् ।
मनःशिला हरीतालो हरितः सम्प्रकीर्तितः ॥ ६।१९ ॥
View Verse
हरिद्राकुङ्कुमाभस्तु पीत इत्यभिधीयते ।
ततस्तु श्यामवर्णश्च कृष्णवर्णो द्विधा मतः ॥ ६।२० ॥
View Verse
दूर्वामरकताभस्तु इन्द्रनीलनिभो ऽपरः ।
शुक्लेन मिश्रितो रक्तो हरिरित्यभिसञ्ज्ञितः ॥ ६।२१ ॥
View Verse
शुक्लेन मिश्रितः पीतो गौर इत्यभिधीयते ।
रक्तेन मिश्रितमपि कपिलं परिभाशितम् ॥ ६।२२ ॥
View Verse
शुक्लेन मिश्रितः कृष्णो धूम्र इत्यभिसञ्ज्ञितः ।
पीतेन मिरितः कृष्ण काल इत्यभिसञ्ज्ञितः ॥ ६।२३ ॥
View Verse
पीतकृष्णयुतःशुक्लो गौर इत्यभिधीयते ।
पीतरक्तयुतःशुक्लः कर्बुरः समुदाहृतः ॥ ६।२४ ॥
View Verse
पीतकृष्णयुतो वर्णो हरिवर्णः प्रकीर्तितः ।
एवं सङ्करतो वर्णः तत्कालं स्थीयते दृढम् ॥ ६।२५ ॥
View Verse
यन्निभा कथिता मूर्तिः तन्निभं वर्णयोजनम् ।
अदृष्टदेशसम्भूता मध्यमा कालसम्भवा ॥ ६।२६ ॥
View Verse
एवं वर्णविभागस्तु क्रमशः परिकीर्तितः ।
वासुदेवं सङ्कर्षणं प्रद्युम्नं चनिरुद्धकम् ॥ ६।२७ ॥
View Verse
कलौ युगे शचीनाथ श्यामवर्णेन कारयेत् ।
तद्बिम्बं शुभदं ऋद्धिं(विद्धि?)राजराष्ट्रविवर्धनम् ॥ ६।२८ ॥
View Verse
तस्मात्सर्वप्रयत्नेन कलौ श्यामेन कारेयत् ।
अन्यथाशुभमाप्नोति राजराष्ट्रविनाशकृत् ॥ ६।२९ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां मृत्संस्कारविधिर्नाम षष्ठो ऽध्यायः
View Verse

Chapter - 7

सप्तमो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि स्वप्नाध्यायं शचीपते ।
विविक्तेन परं गुह्यं क्रमाच्छृणु शचीपते ॥ ७।१ ॥
View Verse
स्वप्नस्तु प्रथमे यामे संवत्सरविपाकदः ।
द्वितीये चाष्टमासे तु त्रिभिर्मासैस्त्रियामके ॥ ७।२ ॥
View Verse
अरुणोदयवेदालायां दशाहेन फलं भवेत् ।
अत ऊर्ध्वं प्रवक्ष्यामि पुण्यापुण्यं तु वै शृणु ॥ ७।३ ॥
View Verse
आरोहणे गोवृषकुञ्जराणं प्रासादशैलाग्रवनस्पतीनाम् ।
विष्टानुलेपो कथितः स्वप्नेष्वगम्यागमनं प्रशस्तम् ॥ ७।४ ॥
View Verse
यस्तु पश्यति स्वप्नान्ते राजानं कुञ्जरं हयम् ।
सुवर्णं वृषभं गावं(गां वा?)कुटुम्बं तस्य वर्धते ॥ ७।५ ॥
View Verse
क्षीरिणं फलिनं वृक्षं एकाकी यो ऽधिरोहति ।
तत्रस्थो यदि बुध्येत धनं शीघ्रमवाप्नुयात् ॥ ७।६ ॥
View Verse
प्रासादस्थो ऽपि यो भुङ्क्ते समुद्रं तरते तु यः ।
अपि दासकुले जातः सो ऽपि राजा भविष्यति ॥ ७।७ ॥
View Verse
दीपमन्नं फलं पद्मं कन्यां छत्रं ध्वजं तथा ।
स्वप्नान्ते यो लभेन्मन्त्रं स श्रियं यायितं ध्रुवम् ॥ ७।८ ॥
View Verse
मानुषाणि तु मांसानि स्वप्नान्ते यस्तु भक्षयेत् ।
हरितानि सुपक्वानि शृणु वक्ष्यामि तत्फलम् ॥ ७।९ ॥
View Verse
पादभक्षे शतं लाभः सहस्रं बाहुभक्षणे ।
राज्यं शतसहस्रं वा शिरसो भक्षणे लभेत् ॥ ७।१० ॥
View Verse
उपानहौ तु छत्रं च लब्ध्वा यः प्रतिबुध्यति ।
असिंवानिर्मलं तीक्ष्णं तस्याध्वानं(?)विनिर्दिशेत् ॥ ७।११ ॥
View Verse
नावमारोहयेद्यस्तु नदीश्चापि समुत्तरेत् ।
प्रवासं निर्दिशेत्तस्य शीघ्रं च पुनरागमम् ॥ ७।१२ ॥
View Verse
दन्ता यस्य विशीर्यन्ते स्वप्नान्ते तु पतन्ति वा ।
धनानि नाशयेत्तस्य पीडा वापि शरै रणे ॥ ७।१३ ॥
View Verse
अभ्यञ्जते यस्तैलेन पयसा तु घृतेन वा ।
स्नेहेन वा (यः?)तथान्येन व्याधिं तस्य विनिर्दिशेत् ॥ ७।१४ ॥
View Verse
अभिद्रवन्ति यं स्वप्ने शृङ्गिणो दंष्ट्रिणो ऽपि वा ।
वानरो वा वराहो वा भवेद्राजकुलाद्भयम् ॥ ७।१५ ॥
View Verse
रक्ताम्बरधरा नारी रक्तगन्धानुलेपना ।
अवगृह्णन्ति(ह्णाति?)यं स्वप्ने ब्रह्महत्यां विनिर्दिशेत् ॥ ७।१६ ॥
View Verse
शुक्लाम्बरधरा नारी शुक्लगन्धानुलेपना ।
अवगृह्णन्ति(ह्णति?)यं स्वप्ने तस्य श्रीः सर्वतोमुखी ॥ ७।१७ ॥
View Verse
आदित्यमण्डलं स्वप्ने चन्द्रं वा यदि पश्यति ।
व्याधितो मुच्यते रोगादरोगः श्रियमाप्नुयात् ॥ ७।१८ ॥
View Verse
बडबां क्रकरीं क्रौञ्चीं लब्ध्वा यः प्रतिबुध्यति ।
क्रोशादाहृत्य लभते भार्यां स प्रियवादिनीम् ॥ ७।१९ ॥
View Verse
निगलैर्यस्तु मुच्येत बाहुपाशैस्तथैव च ।
पुत्रो वा जायते तत्र प्रतिष्ठां वा विनिर्दिशेत् ॥ ७।२० ॥
View Verse
यस्तु श्वेतेन सर्पेण दश्यते दक्षिणे शुभे(करे?) ।
सहस्रं लभते वित्तं सम्पूर्णे दशमे ऽहनि ॥ ७।२१ ॥
View Verse
अन्त्रैस्तु वेष्टितं स्वप्ने ग्रामं नागरमेव वा ।
ग्रामे मण्डलराजेन्द्रो नगरे वाधिपो भवेत् ॥ ७।२२ ॥
रुधिरं पिबति स्वप्ने सुरां वापि कदाचन ।
ब्राह्मणो लभते विद्यामितरश्च(स्तु?)धनं लभेत् ॥ ७।२३ ॥
View Verse
क्षीरं च पिबति स्वप्ने सफेनं दोहने गवाम् ।
सोमपानं भवेत्तस्य अन्ते च क्रतुमेदिनीम्(?) ॥ ७।२४ ॥
View Verse
दधि दृष्ट्वा भवेत्प्रीतिः गोधूमं च धनागमः ।
यवैराज्यागमं विद्यात् सिद्धार्थकेषु च (तथा?) ॥ ७।२५ ॥
View Verse
यस्तु मध्ये तटाकस्य भुञ्जीत मधुपायसम् ।
निषण्णं पद्मिनीपत्रे तं विद्याद्धरणीपतिम् ॥ ७।२६ ॥
View Verse
लिङ्गमभ्यर्च्य तं(तद्?)दृष्ट्वा देवानपि विशेषतः ।
व्यवहारे जयस्तस्य(जयं चैव?)धनं च विपुलं भवेत् ॥ ७।२७ ॥
View Verse
पुष्पिते पुष्पितं विद्यात् फलिते बुद्धिरुत्तमा ।
धूमायन्तमपायं तं प्रज्वलन्तं श्रियावहम् (?) ॥ ७।२८ ॥
View Verse
आसने शयने याने शरीरे वाहने गृहे ।
ज्वलमाने विबुध्येत तस्य श्रीः सर्वतोमुखी ॥ ७।२९ ॥
View Verse
देवताश्च द्विजा गावः पितरो लिङ्गिनस्तथा ।
यद्वदन्ति नरं स्वप्ने तत्तथैव विनिर्दिशेत् ॥ ७।३० ॥
View Verse
सर्वाणि शुक्लान्यभिनन्दितानि कार्पासभस्मास्थिस(क?)तक्रवर्जम् ।
सर्वाणि कृष्णानि न शोभनानि गोहस्तिदेवद्विजवाजिवर्जम् ॥ ७।३१ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां स्वप्नविधिर्नाम सप्तमो ऽध्यायः ॥
View Verse

Chapter - 8

अष्टमो ऽध्यायः
क्षीराब्धेरुत्तरे पारे तपस्यन्तं हिरण्यमयम् ।
नारदो वाहिनीनाथं विष्णोर्लीलाचले मुनिः ॥ ८।१ ॥
View Verse
दृष्ट्वा प्रणम्य सम्पूज्य विष्णुभक्तिबलात्कृतः ।
पप्रच्छ भगवान् भक्तेरिव मूर्तिमवस्थितम् ॥ ८।२ ॥
View Verse
पूर्वं तु परमात्मादिमूर्तीनां लक्षणं तथा ।
मन्त्राणां लक्षणं चैव छन्दांसि च ऋषींस्तथा ॥ ८।३ ॥
View Verse
एवमादीनि चान्यानि सद्मादीनि यथाक्रमम् ।
वक्तुमर्हसि सेनाप यद्यनुग्रहभागहम् ॥ ८।४ ॥
View Verse
विष्वक्सेनः---
शृणु देवमुनिश्रेष्ठ यत् प्रष्टु(पृष्ट?)मखिलं त्वया ।
वक्ष्याम्यहमशेषेण क्रमादवहितो भव ॥ ८।५ ॥
View Verse
श्रुतिमूलमिदं तन्त्रं प्रमाणं कल्पसूत्रवत् ।
प्रमाणमिदमेवैकमागमेष्वप्यवस्थितम् ॥ ८।६ ॥
View Verse
आयुरारोग्यदं नॄणां कीर्तिश्रीपुत्र(ष्टि?)वधनम् ।
पापक्षयं महापुण्यं योगसाधनमेव च ॥ ८।७ ॥
View Verse
तस्मात्तत्रोत्तरं भागं नित्यमृद्धिशुभप्रदम् ।
आद्येष्टकाविधानादि सर्वकामप्रदं सदा ॥ ८।८ ॥
View Verse
अथातःसम्प्रवक्ष्यामि इष्टकालक्ष्णं परम् ।
कर्षणं च गवां वासं(सो?)भूमिशुद्धिस्तथैव च ॥ ८।९ ॥
View Verse
पूर्वमेव मया प्रोक्तं(क्ताः)तन्त्रे ऽस्मिन् पूर्वभागके ।
अङ्कुरार्पणपूर्वं तु पूर्वरात्रे ऽधिवासयेत् ॥ ८।१० ॥
View Verse
पूर्ववन्मण्डपं कृत्वा गोमयेनानुलेपयेत् ।
अष्टद्रोणसमायुक्तं शालिभिःसमलङ्कृतम् ॥ ८।११ ॥
View Verse
साधिताः पूर्वरात्रे तु चतस्रः प्रथमेष्टकाः ।
शिलामया मृण्मया वा कुर्याल्लक्षणसंयुताः ॥ ८।१२ ॥
View Verse
शिला दोषविनिर्मुक्ताः विस्तारद्विगुणायताः ।
सुविस्तारेष्टकाः प्रोक्ताः षट्पञ्चचतुरङ्गुलाः ॥ ८।१३ ॥
View Verse
उत्तमादिक्रमादेताः विस्तारद्विगुणायताः ।
विस्तारार्धधनं प्रोक्तं इष्टकास्तु प्रमाणतः ॥ ८।१४ ॥
View Verse
पञ्चगव्येन सम्प्रोक्ष्य परिस्तीर्य कुशैस्तथा ।
पुण्याहं वाचयित्वा तु प्रोक्षयेच्च कुशाम्भसा ॥ ८।१५ ॥
View Verse
हैमैः कौतुकसूत्रं तु बन्धयेन्मूलविद्यया ।
वस्त्रैः प्रत्येकमाच्छाद्य तदग्रे स्थापयेद्बुधः ॥ ८।१६ ॥
View Verse
कलशान् स्थापयेत् पश्चात् सवस्त्रान् सापिधानकान् ।
मध्युकुम्भं च सुदृढं पञ्चरत्नसमन्वितम् ॥ ८।१७ ॥
View Verse
मूलमन्त्रेण कुम्भं तु साधयेत् साधकोत्तमः ।
विद्येश्वरसमायुक्तान् पूरयेत् कलशान् क्रमात् ॥ ८।१८ ॥
View Verse
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
जामदग्न्यं च रामं च वामनं वासुदेवकम् ॥ ८।१९ ॥
View Verse
एवं विद्येश्वरान् प्रोक्तान् क्रमात् कुम्भेषु पूजयेत् ।
वाराहे मुक्तकं न्यस्य नारसिंहे प्रवालकम् ॥ ८।२० ॥
View Verse
मरकतं श्रीधरे न्यस्य वैडूर्यं हयशीर्षके ।
इन्द्रनीलं न्य सेद्रामे माणिक्यं वामनैऋते ॥ ८।२१ ॥
View Verse
वामने पुष्यरागं च शङ्खं वै वासुदेवके ।
एषामलाभे सौवर्णं तदलाभे तु मौक्तिकम् ॥ ८।२२ ॥
View Verse
सकूर्चं साधयेद्विद्वान् सर्वालङ्कारशोभितम् ।
प्रभाते पूजयित्वाथ स्थपतिं तक्षकैः सह ॥ ८।२३ ॥
View Verse
स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः ।
साधकश्चेष्टकास्तत्र स्नापयेन्मूलविद्यया ॥ ८।२४ ॥
View Verse
ततो गन्धादिनाभ्यर्च्य दैवज्ञं पूजयेत्ततः ।
आचार्यं पूजयेत्तत्र हेमवस्त्राङ्गुलीयकैः ॥ ८।२५ ॥
View Verse
तक्षकं पूजयित्वाथ इष्टकाधानमारभेत् ।
द्वारस्य दक्षिणे पार्श्वे स्थानमेतत् प्रचक्षते ॥ ८।२६ ॥
View Verse
सुमुहूर्ते न्यसेद्विद्वान् इष्टकाः परितः क्रमात् ।
विन्यसेच्च चतुर्दिक्षु वासुदेवादिविद्यया ॥ ८।२७ ॥
View Verse
पश्चाच्छिल्पिनमलङ्कृत्य वस्त्रहेमाङ्गुलीयकैः ।
तेनैव सह संस्थाप्य इष्टकाश्च चतुर्दिशि ॥ ८।२८ ॥
View Verse
तेषां मध्ये तथा गर्ते पूरयेदुदकेन तु ।
शुभं वै दक्षिणावर्तं वामावर्तमशोभनम् ॥ ८।२९ ॥
View Verse
वामावर्ते तथा कुर्यात् मूलेन शतमाहुतीः ।
तदैव नवरत्नानि विन्यसेदनुपूर्वशः ॥ ८।३० ॥
View Verse
वज्रमौक्तिकवैडूर्यशङ्खस्फटिकपुष्यकम् ।
चन्द्रकान्तं महानीलं माणिक्यं च क्रमान्न्यसेत् ॥ ८।३१ ॥
View Verse
गजदन्ते ऽथवा शङ्खे वल्मीके कर्कटालये ।
वृषशृङ्गे ह्रदे नद्यां नीर्थे वै पर्वते तथा ॥ ८।३२ ॥
View Verse
समुद्रे च मृदं गृह्य पूरयेदवटं तथा ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥ ८।३३ ॥
View Verse
एतद्विमाने प्रथमे सर्वमेतदतन्द्रितः ।
मण्डपे रत्नहीनं स्यात् रत्नहीनं तु वप्रके(?) ॥ ८।३४ ॥
View Verse
एवं कृतं चेन्मेधावी(?) सर्वसम्पत् समृद्धिदम् ।
यद्येवं न कृतं चेत्तत् पिशाचादि समाविशेत् ॥ ८।३५ ॥
View Verse
कर्तुः कारयितुश्चापि महान् दोषो भविष्यति ।
तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ॥ ८।३६ ॥
View Verse
यः पूर्वमारभेत् कर्म तक्षकैः स्थापकैः सह ।
यजमानुमत्या च कर्षणादि महामुने ॥ ८।३७ ॥
View Verse
जीर्णस्योद्धरणं वापि चित्रादिकमथापि वा ।
तेनैव कारयेद्विद्वान् नान्येन तु कदाचन ॥ ८।३८ ॥
View Verse
तैक्ष्ण(तक्ष्णा?)मानादि निर्वृत्तं तक्ष्णैव पुनरुद्धृतम् (?) ।
तक्षणै(तक्षके?)नैव कार्यं स्यादिति शास्त्रस्य निश्चयः ॥ ८।३९ ॥
View Verse
तस्मात् सर्वप्रयत्नेन स्थापकैस्तक्षकैर्न्यसेत् ।
मोहाद्वा यदि वा लोभात् स्थापकात्तक्षकादृते ॥ ८।४० ॥
View Verse
यः कारयीत कुर्याद्वा राजराष्ट्रं विनाशयेत् ।
एवं परीक्ष्य बहुधा मतिमान् साधकोत्तमः ॥ ८।४१ ॥
View Verse
प्रशान्तमानसो भूत्वा कुर्वीताद्येष्टकाविधिम् ।
प्रथमेष्टकावसाने तु प्रासादं चारभेत् क्रमात् ॥ ८।४२ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रथमेष्टकाविधिर्नामाष्टमो ऽध्यायः
View Verse

Chapter - 9

नवमो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि बालस्यानविधिं परम् ।
प्रथमं च द्वितीयं च (?) सङ्क्षेपाच्छृणु नारद ॥ ९।१ ॥
View Verse
महाविमानाभिमुखं नातिदूरसमीपगम् ।
प्रासादस्याग्रतः कुर्यात् देवस्य तरुणालयम् ॥ ९।२ ॥
View Verse
महागेहाभिमुखो (गेहमुखं यद्वा?) पूर्वद्वारे तु कल्पयेत् ।
प्रासादाभिमुखाभावे दक्षिणे चैव कल्पयेत् ॥ ९।३ ॥
View Verse
उत्तरे वा मुनिश्रेष्ठ सोमेशानान्तरे ऽथ वा ।
ईशाने वाप्यभावे तु कल्पयेत्तरुणालयम् ॥ ९।४ ॥
View Verse
राष्ट्रवृद्धिकरं पूर्वे धनधान्यसुखप्रदम् ।
ग्रामराष्ट्रस्य वृद्धिः स्याद्दक्षिणे मुनिसत्तम ॥ ९।५ ॥
View Verse
ब्रह्मऋद्धिकरं सोमे पुत्रपौत्रसुखावहम् ।
दुर्भिक्षभयनाशार्थं सोमेशानान्तरे मुने ॥ ९।६ ॥
View Verse
ईशाने तु भवेत्तस्मिन्(त्तच्च?)ग्रामायतनऋद्धिकृत् ।
प्रासादे पश्चिमद्वारे बालस्थानं तु पश्चिमे ॥ ९।७ ॥
View Verse
दक्षिणादिक्रमं तस्मिन् (?) सर्वं पूर्ववदाचरेत् ।
मूलस्थानस्य देशं च गृहीत्वा तदनन्तरम् ॥ ९।८ ॥
View Verse
प्रथमं स्यान्मुनिश्रेष्ठ कल्पयेत्तरुणालयम् ।
इष्टकाभिर्मृदा वापि कारयेच्छास्त्रचोदितम् ॥ ९।९ ॥
View Verse
षट्पञ्चसप्तहस्तं वा नवहस्तमथापि वा ।
सञ्ज्ञात्वा साधकस्तस्मिन् यजमानेच्छया कुरु (?) ॥ ९।१० ॥
View Verse
गर्भमानत्रिभागैकं द्वारमाम्न प्रशस्यते ।
द्वारविस्तारमानस्य द्विगुणं तु तथोच्छ्रितम् ॥ ९।११ ॥
View Verse
कूटाकारं तु वा कुर्यात् मण्डपाकारमेव वा ।
कारयेत् बालगेहं तु आचार्यः शिल्पिभिः सह ॥ ९।१२ ॥
View Verse
आद्येष्टकाविधानादि कारयेदिह पूर्ववत् ।
मण्डपं चाग्रतः कृत्वा सप्राकारं सुरक्षितम् ॥ ९।१३ ॥
View Verse
गर्भन्यासं तु कुर्याच्च रत्नन्यासं तु नेष्यते ।
पीठं कृत्वा तु तन्मध्ये काष्ठैर्वा चेष्टकै(?)स्तथा ॥ ९।१४ ॥
View Verse
मृदा वा सुदृढं स्निग्धं काष्ठासनसमन्वितम् ।
एकहस्तोच्छ्रितां वेदिं साष्टपत्रं सकर्णिकम् ॥ ९।१५ ॥
View Verse
कृत्वैवं बालगेहं तु साधकेच्छानुरूपतः ।
एवं कृत्वा विधानेन तरुणालयमुत्तमम् ॥ ९।१६ ॥
परमात्मादिमूर्तीनां लक्षणं चाधुना शृणु ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां बालस्थानविधिर्नाम नवमो ऽध्यायः ॥
View Verse

Chapter - 10

दशमो ऽध्यायः
नारदः---
प्रतिमालक्षण किं वा मूर्तिभेदस्य लक्षणम् कथं वा ।
सूर्यविन्यासो (?) वद मे वदतां वर ॥ १०।१ ॥
View Verse
विष्वक्सेनः---
साधु साधु महाप्राज्ञ प्रश्नमेतज्जगद्धितम् (?) ।
आदरात् प्रतिमां यत्नात् शृणुष्वावहितो भवा ॥ १०।२ ॥
View Verse
परमात्मा भवेदादौ (द्यः?) द्वितीये (यो?) वासुदेवकः ।
सङ्कर्षणस्तृतीयः स्यात् प्रद्युम्नस्तु चतुर्थकः ॥ १०।३ ॥
View Verse
पञ्चमस्त्वनिरुद्धस्तु एताश्चैवादिमूर्तयः ।
चतूर्मूर्तिक्रमाच्चोक्ताः दशमूर्तिक्रमं शृणु ॥ १०।४ ॥
View Verse
मत्स्यः कूर्मो वराहश्च नारसिंहो ऽथ वामनः ।
जामदग्न्यश्च रामश्च बलः कृष्णः सुरार्चितः ॥ १०।५ ॥
View Verse
कल्किर्वि (ल्की वि?) ष्णुरिति प्रोक्तः दशमूर्तिक्रमस्तव ।
भेदं द्वादशमूर्तीनां कथयामि तवानघ ॥ १०।६ ॥
View Verse
केशवः प्रथमस्तेषां मुने नारायणः परम् ।
माधवो ऽन्यो ऽथ गोविन्दो विष्णुः स्यान्मधुसूदनः ॥ १०।७ ॥
View Verse
त्रिविक्रमो भवेन्नाम्ना वामनः श्रीधरस्तथा ।
हृषीकेशो भवेदन्यः पद्मनाभस्ततः परम् ॥ १०।८ ॥
View Verse
अतः स्मृतं(परं?) भवेद्ब्रह्ममूर्तिरस्मिन् महामुने ।
दामोदर इमं तत्वं श्रीमूर्तिं वदतः शृणु ॥ १०।९ ॥
View Verse
विश्वरूपो भवेदेको यज्ञमूर्तिर्द्वितीयकः ।
तृतीयो वेदमूर्तिः स्यादिति मूर्तित्रयं भवेत् ॥ १०।१० ॥
श्रियादिमूर्तिभेदं ते वक्ष्यामि मुनिसत्तम ।
श्रीमूर्तिः प्रथमोद्दिष्टा पुष्टिमूर्तिस्ततः परम् ॥ १०।११ ॥
View Verse
मेधासरस्वतीदुर्गाविघ्नेशाश्च श्रियादिषट् ।
श्रियादिभेदमेवं स्याद्वक्ष्याम्यङ्गुलिमानतः ॥ १०।१३ ॥
View Verse
तिलाष्टकं यवः प्रोक्तो यवाष्टावङ्गुली स्मृता ।
व्रीहित्रयोच्छ्रितं वापि यवाष्टौ तिर्यगेव वा ॥ १०।१४ ॥
View Verse
अथवाङ्गुलिमानं तु शृणु मत्तस्तपोधन ।
देशिकाङ्गुलिमध्यस्य मध्यरेखासमा मुने ॥ १०।१५ ॥
View Verse
मध्यं मध्यकरस्याथ करमध्याङ्गुलेस्ततः ।
मध्यपर्वसमावृत्तिर्मुने मात्राङ्गुलं च तत् ॥ १०।१६ ॥
View Verse
इति त्रिधा (?)ङ्गुलिः प्रोक्ता तास्विष्टाङ्गुलिना मुने ।
विमानस्यापि बेरस्य मानं कार्यं तथाधुना ॥ १०।१७ ॥
View Verse
अथाष्टमङ्ग्रलानां च स्रुक्स्रुवयोस्तोरणस्य वा ।
वेद्यामण्डपकुण्डस्य विधाने समिधश्च वै ॥ १०।१८ ॥
View Verse
स्नपनस्य चैवमादैतान् विधौ देशिकः सुपरि(?) ।
शुद्धमात्राङ्गुलप्रमाणैर्मेधा विधिना प्रयत्नतो मतिमान् (?) ॥ १०।१९ ॥
View Verse
अथवा वै हि देवर्षे मानमार्गविधानतः ।
अष्टमङ्गलकादीनां मानार्थं वदतो मुने(?) ॥ १०।२० ॥
View Verse
आचार्यहस्तस्य कनिष्ठिकाद्यैः चतुर्भिरेवाङ्गुलिभिर्महर्षे ।
मध्यमाङ्गुलेर्मध्यमपर्वभागे तिर्यग्विसर्पद्भिरिहेव मेयम् ॥ १०।२१ ॥
View Verse
द्वादशाङ्गुलमानं हि तालमित्यभिधीयते ।
तालद्वयं भवेद्धस्तमिति मानविदो विदुः ॥ १०।२२ ॥
View Verse
इत्युक्तं त्रिविधं मानमङ्गुलीनां प्रभेदतः ।
प्रतिमालक्षणं वक्ष्ये शृणुष्वावहितः सदा ॥ १०।२३ ॥
View Verse
बेरमानं विमानाद्वा द्वारमानेन वा पुनः ।
गर्भमानेन वा ज्ञेयं मूलबेरप्रमाणतः ॥ १०।२४ ॥
View Verse
मूलप्रासादविस्तारं यद्बाह्येषु प्रमाणतः ।
तस्यार्धं श्रेष्ठमित्युक्तं तदर्धं मध्यमं स्मृतम् ॥ १०।२५ ॥
View Verse
तदर्धमधमं प्राहुः प्रतिमोत्सेधमत्र वै ।
एवं प्रासादमानं तु द्वारमानमतः शृणु ॥ १०।२६ ॥
View Verse
द्वारात् पादाधिकं श्रेष्ठं द्वारमानं तु मध्यमम् ।
द्वारस्य पादहीनं यदधमं प्रतिमोच्छ्रयम् ॥ १०।२७ ॥
View Verse
गर्भमानं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
त्रिपादद्वयदीर्घर्ं (घा?)वा प्रतिमा सोत्तमा स्मृता ॥ १०।२८ ॥
View Verse
पञ्चभागसमोत्तुङ्गं(ङ्गा?) प्रतिमा मध्यमा तु सा ।
गर्भगेहार्धतुङ्गा या सावरा प्रतिमोच्छ्रया ॥ १०।२९ ॥
View Verse
गर्भमानमिति प्रोक्तं चित्रं चाप्यर्धचित्रकम् ।
चित्राभासविधिश्चेति शृणु नारद साम्प्रतम् ॥ १०।३० ॥
View Verse
कालयोगप्रमाणेन कर्तव्या प्रतिमा शुभा ।
चित्रं चाप्यर्धचित्रं च चित्राभासं तथैव च ॥ १०।३१ ॥
View Verse
त्रिविधं प्रतिमाकर्म शास्त्रज्ञाः सम्प्रचक्षते ।
दृश्यते ऽवयवा यत्र प्रतिमायां समन्ततः ॥ १०।३२ ॥
View Verse
मानोन्मानप्रमाणाभिः(द्यैः?)तच्चित्रमिति पठ्यते ।
शिलागताया यस्यास्तु पृष्ठभागो न दृश्यते ॥ १०।३३ ॥
View Verse
मानप्रमाणसंयुक्ता सार्धचित्रमिति स्मृता ।
या स्थितालेख्यरूपेण लिखितापि(चैव?)शिल्पिभिः ॥ १०।३४ ॥
View Verse
मानप्रमाणसंयुक्ता सा चित्राभास उच्यते ।
उत्तमं तु फलं चित्रं मध्यमं चार्धचित्रकम् ॥ १०।३५ ॥
View Verse
आलेख्यमधमं प्रोक्तं प्रतिष्ठा(मा?)कर्मणि क्रमात् ।
इत्युक्तं प्रतिमाकर्म शृणु पीठविधिं मुने ॥ १०।३६ ॥
View Verse
बेरोच्छ्रायं त्रिधा कृत्वा भागैकं पीठिकोच्छ्रयम् ।
चतुर्भागैकभागं तु चासने स्थानकोच्छ्रयम् ॥ १०।३७ ॥
View Verse
अथवा पीठमेवं वा शृणु नारद साम्प्रतम् ।
पादपद्मं भवेत्फुल्लमष्टपत्रं सकर्णिकम् ॥ १०।३८ ॥
View Verse
द्वारात् पादांशविस्तारं तावदुत्सेधसंयुतम् ।
तस्य नालं भवेद्वृत्तं चतुरश्रं तु वा पुनः ॥ १०।३९ ॥
View Verse
वृत्तं शिव इति प्रोक्तं चतुरश्रं पितामहः ।
हस्तमात्रं तदायामं तन्मानं नाह उच्यते ॥ १०।४० ॥
View Verse
स्थानकस्येदमाख्यातमासनस्याधुनोच्यते ।
गर्भद्वारयुगांशं तु पादपद्मोच्छ्रयं भवेत् ॥ १०।४१ ॥
View Verse
तावदायामविस्तारः पूर्ववच्छेषमुच्यते ।
एतद्याने न शयने कार्यं नैव कदाचन ॥ १०।४२ ॥
View Verse
इत्युक्तं मूलबेरादिबिम्बानां लक्षणं मुने ।
लक्षणं चासनस्यापि तवेदानीं प्रदर्शितम् ॥ १०।४३ ॥
View Verse
अत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चायास्तु लक्षणम् ।
मूलबेरस्य दीर्घस्य त्रिभागैकं तु कौतुकम् ॥ १०।४४ ॥
View Verse
वेदभागैकभागं वा भूतभागैकभागकम् ।
श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥ १०।४५ ॥
View Verse
वेदभागैकभागं वा भूतभागैकभागकम् ।
श्रेष्ठमध्यमहीनं तु त्रिविधं कौतुकं भवेत् ॥ १०।४५ ॥
View Verse
अथवा कुरु कर्मार्चां मूलबेरस्य साम्प्रतम् ।
मूलबेरायतार्धे तु भूतभागैकभागकम् ॥ १०।४६ ॥
View Verse
उत्सवप्रतिमायामं स्नपनस्य तथा भवेत् ।
तद्गुणांशैकभागं तु बलिबेरोच्छ्रयं भवेत् ॥ १०।४७ ॥
View Verse
कर्मार्चायाः प्रमाणं वा कुर्याद्वा लक्षणं भवेत् ।
उक्तैर्लोहैः कृता पुण्यानुक्तैर्लोहैः कृताशुभा ॥ १०।४८ ॥
View Verse
त्रिगुणाष्टाङ्गुलोत्सेधमथवाष्टदशाङ्गुलम् ।
षोडशाङ्गुलकं वापि द्वादशाङ्गुलमेव वा ॥ १०।४९ ॥
View Verse
अथवाष्टाङ्गुलोत्सेधं बलिबिम्बमथोच्यते ।
पादाधिकदशैकं तु (?) [द्विरट ष्टाङ्गुलिना मुने ॥ १०।५० ॥
View Verse
बलिबिम्बोच्छ्रयं कृत्वा चोत्तमं परिकीर्तितम् ।
एकादशाङ्गुलोत्सेधं मध्यमं बलिकौतुकम् ॥ १०।५१ ॥
View Verse
अष्टाङ्गुलं वा कुर्वीत बलिबिम्बाधमं स्मृतम् ।
तीर्थबिम्बं तथैव स्यादिति शास्त्रस्य निश्चयः ॥ १०।५२ ॥
View Verse
हीनमानं न कर्तव्यं मूलबिम्बात् कदाचन ।
षडङ्गुलायता चैव नैव कार्या विजानता ॥ १०।५३ ॥
View Verse
मूलबेरत्रिभागैकमुत्सवप्रतिमा भेवत् ।
उत्सवप्रतिमायामां स्नपनार्चां तु कारयेत् ॥ १०।५४ ॥
View Verse
इति कर्मार्चनादीनां विविधि मानमीरितम् ।
विध्याचारविधानेन यथायोगं समाचरेत् ॥ १०।५५ ॥
View Verse
अत ऊर्ध्वं प्रवक्ष्यामि स्वार्थार्चायास्तु लक्षणम् ।
लोहजा मणिजा वापि राजता ताम्रनिर्मिता ॥ १०।५६ ॥
View Verse
एताः प्रशस्ता विप्राणां क्षत्रियस्य सुवर्णजा ।
राजता वापि वैश्यस्य राजता ताम्रका शुभा ॥ १०।५७ ॥
View Verse
शूद्रस्य ताम्रकैर्वा स्यात् सर्वेषां वापि ताम्रजा ।
लोहजाः प्रतिमाः प्रोक्ताः निर्देषाः समुदाहृताः ॥ १०।५८ ॥
View Verse
रत्नजास्त्रिविधाः प्रोक्ताः सौम्याग्नेयी समेति च ।
शशिकान्तमयी सौम्या सूर्यकान्तमयी परा ॥ १०।५९ ॥
View Verse
स्फटिकेति समा प्रोक्ता पूर्वा पूर्वोत्तमोत्तमा ।
द्व्यङ्गुलं तु यदुत्सेधमथवा चतुरङ्गुलम् ॥ १०।६० ॥
View Verse
अङ्गुलित्रयमानेन मणिबिम्बमिहोच्यते ।
एवमात्मार्थबिम्बानां लक्षणं विद्धि पूर्वकम् ॥ १०।६१ ॥
View Verse
पूर्वं कर्मार्चनादीनामुत्तमादित्रि(वि?) भेदतः ।
उक्तं हि लक्षणं तेन चात्मार्थे ऽपि भवेद्विधिः ॥ १०।६२ ॥
View Verse
फलकायां पटे कुड्ये लिखितानां तु लक्षणम् ।
कर्मार्चालक्षण यद्वत्तद्वदुक्तं प्रमाणकम् ॥ १०।६३ ॥
View Verse
अत्र किञ्चि(कश्चि?) द्विशेषो ऽस्ति क्रमुकाद्येन वा पुनः ।
पालाशेन तु बिल्वेन खादिरेण तु वा पुनः ॥ १०।६४ ॥
View Verse
उदुम्बरेण वा पश्चात् वकुलेन महामुने ।
पनसेन द्रुमेष्वेषु लब्धेन तु विशेषतः ॥ १०।६५ ॥
View Verse
द्व्यङ्गुलं तु घनं चैव चतुरङ्गुलमायतम् ।
चतुरश्रं तु वा वृत्तं मेखलात्रयसंवृ(यु?) तम् ॥ १०।६६ ॥
View Verse
तस्यो(?)परि लिखेदब्जमष्टपत्रं तु वा पुनः ।
दलैर्द्वादशभिर्युक्तं सर्वशोभासमन्वितम् ॥ १०।६७ ॥
View Verse
कर्णिकायां न्यसेत् तस्य नवरत्नं विशेषतः ।
तस्मिन् वा कर्णिकाग्रे वा फलकादिषु कर्णिकाम् ॥ १०।६८ ॥
View Verse
आवाह्य पूजयेद्देवमात्मार्थयजनं प्रति ।
मूलबेरादिबिम्बानां स्थानभेदं मुने शृणु ॥ १०।६१ ॥
View Verse
प्रासादस्य तु गर्भांशे सप्तभागं गी?) कृते मुने ।
पुटा(पदा?) न्येकोनपञ्चाशत्तन्मध्यं ब्राह्ममुच्यते ॥ १०।७० ॥
View Verse
तद्बाह्ये देवभागः स्यात् (दैवतं स्थानं?) तद्बाह्ये मानुषं भवेत् ।
पैशाचं तद्बहिर्ज्ञेयं स्थानभेदमुदीरितम् ॥ १०।७१ ॥
View Verse
ब्राह्मे स्यादर्चनं पीठमिति बेरं (मेकबेरे?) तथा मुने ।
बहुबेरप्रतिष्ठा च (ष्ठायां?) पीठिका चामरांशके ॥ १०।७२ ॥
View Verse
मानुषे परिवाराश्च पैशाचे हेतयः स्मृताः ।
आसने यदि कर्तव्ये मानुषे (षं?) किञ्चिदाश्रयेत् ॥ १०।७३ ॥
View Verse
दैवे च मानुषे चैव कुर्वीत शयनक्रियाम् ।
उक्तस्थानं विना तत्र यदि कुर्यात् प्रमादतः ॥ १०।७४ ॥
View Verse
मण्डलेशस्य राज्ञश्च स्थापकश्च (स्य) विपद्ध्रुवम् ।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥ १०।७५ ॥
View Verse
यजमानस्य पुत्रो वा म्रियते नात्र संशयः ।
दुर्भिक्षं जायते घोरं सर्वं राष्ट्रं विनश्यति ॥ १०।७६ ॥
View Verse
तस्मात् सर्वप्रयत्नेन स्थापयेत् प्रतिमादिकम् ।
नित्योत्सवादिबिम्बानां स्थानं नारद कथ्यते ॥ १०।७७ ॥
View Verse
स्थापयेद्बलिबिम्बं तु कर्मार्चादक्षिणे सुधीः ।
स्नानबिम्बं तु यत्नेन बलिबिम्बस्य दक्षिणे ॥ १०।७८ ॥
View Verse
उत्सवप्रतिमास्थानं कर्मार्चावामपार्श्वतः ।
उत्सवप्रतिमावामे यात्रा (तीर्थ?) बिम्बस्य चैव हि ॥ १०।७९ ॥
View Verse
संस्थापयेत् क्रमेणैव देशिकस्तन्त्रवित्तमः ।
अन्यथास्थापिते कर्ता महद्भयमवाप्नुयात् ॥ १०।८० ॥
View Verse
राजा कलहमाप्नोति ग्रामश्चापि विनश्यति ।
इति नित्योत्सवाद्यर्चास्थानभेदः प्रदर्शितः ॥ १०।८१ ॥
View Verse
अथ वा मूलबेरादिबिम्बानां लक्षणं शृणु ।
मूलबेरं तु कर्मार्चा नित्योत्सवमतः परम् ॥ १०।८२ ॥
View Verse
महोत्सवं तु देवर्षे स्नपनार्चा तथैव च ।
तरुणालयमित्युक्तं प्रतिमाषट्कमीरितम् ॥ १०।८३ ॥
View Verse
इत्यमीषां प्रमाणानि शृणु नारद साम्प्रतम् ।
षण्णवत्यङ्गुलायामो उत्तमस्योच्छ्रयो भवेत् ॥ १०।८४ ॥
View Verse
इतः पक्षाङ्गुलैर्हीनो मध्यमस्योच्छ्रयो भवेत् ।
एकपञ्चाशदित्युक्तः अधमस्योच्छ्रयो भवेत् ॥ १०।८५ ॥
View Verse
इत्युक्तमादिबेराणामुत्सेधो त्रिविधस्त्विति ।
एकबेरप्रतिष्ठायामधमं बेरमुच्यते ॥ १०।८६ ॥
View Verse
कर्मार्चा नोत्तमं मानमुक्तं तन्मानतो भवेत् (?) ।
इति शैलमयी यत्र स्थाप्यते प्रतिमा मुने ॥ १०।८७ ॥
View Verse
एकबेरविधानेन तत्रायं विधिरुचयते ।
इत्येकबहुबेराणामुक्तमुत्सेधलक्षणम् ॥ १०।८८ ॥
View Verse
उत्सेधस्यानुरूपेण कार्यं विस्तारकं मुने ।
बहुबेरप्रतिष्ठायां देवीनां लक्षणं शृणु ॥ १०।८९ ॥
View Verse
देवस्य बाहुमूलान्तं देवीनामिति चोच्छ्रयम् ।
स्तनान्तं वा मुनिश्रेष्ठ चोच्छ्रयं परिपठ्यते ॥ १०।९० ॥
View Verse
देवीनां दक्षिणे हस्ते पद्मं मुकुलकं न्यसेत् ।
पद्मं तु वामहस्ते स्यात्(चेत्?) महद्भयमवाप्नुयात् ॥ १०।९१ ॥
View Verse
राजा कलहमाप्नोति तस्माद्यत्नेन वर्जयेत् ।
इत ऊर्ध्वं प्रवक्ष्यामि कर्मार्चादेरथोच्छ्रयम् ॥ १०।९२ ॥
View Verse
चतुर्विंशतिमानं तु (-र्विंशाङ्गुलायामं?)उत्तमं विद्धि नारद ।
द्वादशाङ्गुलमायामं मध्यमं बेरमेव वै ॥ १०।९३ ॥
View Verse
अष्टाङ्गुलायतं यत्तदधमं परिकीर्तितम् ।
नित्योत्सवस्य बिम्बस्य द्वादशाङ्गुलमायतम् ॥ १०।९४ ॥
View Verse
अष्टाङ्गुलमथो वापि चतुरङ्गुलमेव वा ।
एवं ज्ञात्वा मुनिश्रेष्ठ कारयेद्बलिकोतुकम् ॥ १०।९५ ॥
View Verse
महोत्सवस्य द्वाविंशच्चै(त्ये?)कं वा दीर्ध उच्यते ।
अध्यर्धाङ्गुलहीनं वा अङ्गुलद्वयहीनकम् ॥ १०।९६ ॥
View Verse
त्रयाङ्गुलवि (अङ्गुलत्रय?)हीनं वा चोत्सवस्य महामुने ।
इत ऊर्ध्वं तु(न?) कर्तव्यं हीनाधिक्यं तु नारद ॥ १०।९७ ॥
View Verse
तीर्थार्थं स्नपनार्थं चैवो (चाप्यु?) त्सवार्थं तथैव च ।
मूर्त्यभावे मुनिश्रेष्ठ बिम्बेनैकेन चाप्यलम् ॥ १०।९८ ॥
View Verse
अस्य बिम्बस्य वक्ष्यामि लक्षणं शृणु नारद ।
विंशत्यङ्गुलमानं यदुत्तमं परिकीर्तितम् ॥ १०।९९ ॥
View Verse
षोडशाङ्गुलमानं यत् मध्यमं सम्प्रचक्षते ।
द्वादशाङ्गुलमानं यदधमं परिचक्षते ॥ १०।१०० ॥
View Verse
अत ऊर्ध्वं शृणुष्वान्यत् तरुणालयमुत्तमम् (बेरकम्?) ।
षोडशाङ्गुलमानं यदुत्तमं बेरमुच्यते ॥ १०।१०१ ॥
View Verse
द्वादशाङ्गुलमानं यन्मध्यमं बेरमुच्यते ।
अष्टसप्ताङ्गुलिर्वापि चतुरङ्गुलिरेव वा ॥ १०।१०२ ॥
View Verse
कारयेल्लक्षणोपेतमधमं परिचक्षते ।
इत ऊर्ध्वं प्रवक्ष्यामि शृणु नारद साम्प्रतम् ॥ १०।१०३ ॥
View Verse
मूलबेरादिबिम्बानां स्वरूपं मुनिसत्तम ।
अष्टबाहुं चतुर्बाहुं द्विबाहुं वाथ नारद ॥ १०।१०४ ॥
View Verse
यजमानेच्छया कार्या मूलबेरादयस्त्विति ।
स्थानयानासनं वापि शयनं वा प्रकल्पयेत् ॥ १०।१०५ ॥
View Verse
अत्र कश्चिद्विशेषो ऽस्ति शयने मुनिसत्तम ।
अनिरुद्धं तथा पद्मनाभमूर्तिमथापि वा ॥ १०।१०६ ॥
View Verse
सञ्ज्ञात्वा लक्षणोपेतं शाययेद्विधिचोदितम् ।
यत् कृत्वा मूलबेरं तु द्विभुजं चेद् द्विजोत्तम ॥ १०।१०७ ॥
View Verse
कर्मार्चनादिबिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
मूलबेरं तु (च?) कर्मार्चा द्विभुजं चेन्मुनीश्वर ॥ १०।१०८ ॥
View Verse
बालादीनां तु बिम्बानां लक्षणं वा च (स्याच्च?) तुर्भुजम् ।
महोत्सवस्य बिम्बस्य द्विभुजं वा चतुर्भुजम् ॥ १०।१०९ ॥
View Verse
शयनस्य मया प्रोक्तो विशेषो मुनिसत्तम ।
एवमुक्तप्रकारेण प्रतिमां कारयेत् क्रमात् ॥ १०।११० ॥
View Verse
मूलार्चा चाष्टबाहुश्चेत् कर्मार्चादिचतुर्भुजम् ।
द्विभुजं यदि चेत्तत्र सर्वसंहारकारणम् ॥ १०।१११ ॥
View Verse
तस्मात् सर्वप्रयत्नेन द्विभुजं न प्रकल्पयेत् ।
अष्टबाह्वोस्तु बिम्बस्य शयनं न प्रकल्पयेत् ॥ १०।११२ ॥
View Verse
तथा मत्स्यादिमूर्तीनां शयनं तु न कारयेत् ।
श्रियादिविघ्नपर्यन्तमूर्तीनां च तथाविधि ॥ १०।११३ ॥
View Verse
इदं तु तव वक्ष्यामि गुह्याद्गुह्यतरं मुने ।
यो ऽसौ नारायणः साक्षात् स हि विघ्नेश उच्यते ॥ १०।११४ ॥
View Verse
यो ऽसौ विघ्नेश इत्युक्तः सो हि नारायणः स्मृतः ।
वासुदेवमयत्वाच्च ह्यावृतत्वान्महामुने ॥ १०।११५ ॥
View Verse
नैव जानन्ति तद्भेदं मुनयस्तत्वदर्शिनः ।
इदं तु नावमं मन्ये गुह्यादेकं तु नारद ॥ १०।११६ ॥
View Verse
देवैरभिहितज्ञानं तव स्नेहात् प्रदर्शितम् ।
तस्मात् श्रियं च दुर्गां च वाणीं विघ्नेशमेव च ॥ १०।११७ ॥
View Verse
स्वातन्त्र्येणार्चयेद्धीमान् सर्वकामार्थसिद्धये ।
श्रियादीनां तु बोद्धव्यं लक्षणं तन्त्रवित्तमैः ॥ १०।११८ ॥
View Verse
तस्माच्छ्रियादिमूर्तीनां स्वातन्त्र्ये तु परार्थके ।
उक्तमात्मार्थपूजायां पूर्ववल्लक्षणं भवेत् ॥ १०।११९ ॥
View Verse
मूलबेरस्य बाह्वन्त उत्सेधो लक्ष्मणस्य तु ।
भरतस्य तथोत्सेध इति तन्त्रे विदुर्बुधाः ॥ १०।१२० ॥
View Verse
लक्ष्मणस्यापि बाह्वन्तः शत्रुघ्नस्योच्छ्रयो भवेत् ।
आत्मार्थयजनं वक्ष्ये शृणु नारद तत्वतः ॥ १०।१२१ ॥
View Verse
षोडशाङ्गुलमु (को?) त्सेध उत्तमं सम्प्रचक्षते ।
मध्यमं तु तदर्धं स्यात् द्व्यङ्गुलं तु कनीयसम् ॥ १०।१२२ ॥
View Verse
सुवर्णादिकृतानां च (वा?) लेख्यानां फलकादिषु ।
मानमेवं विजानीयादात्मार्थमिति कीर्तितम् ॥ १०।१२३ ॥
View Verse
उक्तोत्सेधानुरूपेण कार्यं विस्तारलक्षणम् ।
सुवर्णादीनि वस्तूनि शृणुष्वैषां फलानि च ॥ १०।१२४ ॥
View Verse
हेमरूप्यश्च ताम्रं च रीतिशैलं च धातवः ।
दारुश्च मृत्प्रश्स्तानि प्रतिमाप्रतिपादने ॥ १०।१२५ ॥
View Verse
दद्यात् सुवर्णजाप्यासां पुष्टिकीर्तिसुखं नृणाम् ।
रौप्यलोहमयी सा तु सुखं सर्वत्र यच्छति ॥ १०।१२६ ॥
View Verse
ताम्रजा प्रतिमा दद्यात् पुत्रपौत्रधनं तु वे ।
राजताखिलपापानि क्लेशदुःखानि निर्दहेत् ॥ १०।१२७ ॥
View Verse
शैलजा प्रतिमा साक्षात् सौभाग्यायुः सुखानि च ।
दारुजा प्रतिमा दद्यात् बलारोग्ययशांसि च ॥ १०।१२८ ॥
View Verse
मृण्मयी सर्वकामानां फलदात्री विशेषतः ।
इति भेदानि वस्तूनि फलान्येषां च नारद ॥ १०।१२९ ॥
View Verse
प्रतिमाकरणे प्रोक्तं (-णोक्तानि?) तव स्नेहान्महामुने ।
अत ऊर्ध्वं प्रवक्ष्यामि शिलासङ्ग्रहणं तव ॥ १०।१३० ॥
View Verse
दारुसङ्ग्रहणं चैव शूलस्य स्थापनं मुने ।
मृत्संस्कारादि यत्सर्वमेवमाद्यं महामुने ॥ १०।१३१ ॥
View Verse
पूर्वभागे यथोद्दिष्टं तथा वै पञ्च(?) कारयेत् ।
अथवा मुनिशार्दूल श्रुणुष्व प्रतिमाविधिम् ॥ १०।१३२ ॥
View Verse
पद्मोद्भवपुराणोक्तविधानेन शिलाग्रहः ।
शिलाग्रहणपूर्वं यत् मृत्संस्कारान्तमेव तत्(च) ॥ १०।१३३ ॥
View Verse
विश्वकर्मविधानोक्तं शिल्पलक्षणलक्षितम् ।
साधकस्याज्ञया शिल्पी कर्म कुर्यात् समाहितः ॥ १०।१३४ ॥
View Verse
सर्वलक्षणसंयुक्तं सर्वावयवशोभितम् ।
सर्वाभरणसंयुक्तं प्रभामण्डलमण्डितम् ॥ १०।१३५ ॥
View Verse
पादाद्यवयवसंयुक्तं (-वैर्युक्तं?) भूषणैर्मकुटेन च ।
विराजमानं कुर्वीत साधकः शिल्पिना सह ॥ १०।१३६ ॥
View Verse
क्रियते दर्शनार्थं यद्भक्तानां बिम्बमुत्तमम् ।
तत्तस्य लक्षणं ब्रूहि (विप्र?) वक्तुं सर्वं न शक्यते ॥ १०।१३७ ॥
View Verse
नारदः---
देवदेव जगन्नाथ ज्ञातं सर्वं त्वयोदितम् ।
छिन्धि संशयमद्य त्वं यन्मे मनसि वर्तते ॥ १०।१३८ ॥
View Verse
एकत्र स्थापितं बिम्बं किमन्यत्रोचितं न वा ।
एतत् कथय मे तेन कृतार्थाः स्मो वयं प्रभो ॥ १०।१३९ ॥
View Verse
विष्वक्सेनः---
शृणु नारद वक्ष्यामि साधूक्तं यत् त्वयाधुना ।
गुह्याद्गुह्यतरं चैव न प्रकाश्यं तपोधन ॥ १०।१४० ॥
View Verse
पञ्चरात्रेण यत्पूर्वं (विधिना?) विमाने (नं)यत्प्रतिष्ठितम् ।
तत्रार्चा यार्चनाहीना सा स्यात्तच्छास्त्रनिर्मिते ॥ १०।१४१ ॥
View Verse
अनन्यत्र (अन्यतन्त्र?)कृते धाम्नि तत्रार्चा मन्दिरान्तरे ।
अन्यतन्त्रकृते न स्यादिति शास्त्रस्य निश्चयः ॥ १०।१४२ ॥
View Verse
यत्र यत्र विमाने वै एकतन्त्रप्रतिष्ठिते ।
तत्र तत्र भवेदर्चा न तन्त्रान्तरसम्भवा ॥ १०।१४३ ॥
View Verse
एकतन्त्रार्चिते बिम्बे मन्दिरे वा कदाचन ।
तन्त्रान्तरार्चना न स्याद्यदि कुर्यान्महद्भयम् ॥ १०।१४४ ॥
View Verse
यत्र यत्र मुने नात्रा (चार्चा?) तन्त्रसङ्करसम्भवा ।
तत्र तत्र महान् दोषो राजा राष्ट्रं च नश्यति ॥ १०।१४५ ॥
View Verse
तस्मात् सर्वप्रयत्नेन सर्वलोकहितैषिणा ।
येन न स्यात्तथा कुर्यात् तन्त्रदोषसमुद्भवः ॥ १०।१४६ ॥
View Verse
नारदः---
एतानि वर्जितैः सर्वैः कृतं चेत् तत्फलं प्रभो ।
वर्ज्यबिम्बार्चितेर् (चने?) किं वा वदस्व वदतां वर ॥ १०।१४७ ॥
View Verse
विष्वक्सेनः---
मोहाद्वाथ भयाल्लोभात् वर्जि(गर्हि?) ताभिः शिलादिभिः ।
निर्मितेनैव बिम्बादीन् अर्चयेन्नोदितैरपि ॥ १०।१४८ ॥
View Verse
शिलाद्याभिः निषिद्धाभिः कुर्याद्वा कारयेद्यदि ।
उत्सन्नं याति तद्ग्रामं बिम्बं तद्यावदास्थितम् ॥ १०।१४९ ॥
View Verse
राज्ये ऽपि कलहं ब्रूयात् राजाप्यत्र विनश्यति ।
तस्मात् सर्वप्रयत्नेन निषिद्धं वर्जयेत् सुधीः ॥ १०।१५० ॥
View Verse
इति सङ्क्षेपतः प्रोक्तं प्रतिमालक्षणं तव ।
अत ऊर्घ्वं प्रवक्ष्यामि परमात्मादिभेदनम् ॥ १०।१५१ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रतिमालक्षणादिविधिर्नाम दशमो ऽध्यायः ॥
View Verse

Chapter - 11

एकादशो ऽध्यायः
विष्वक्सेनः---
वर्णादींश्चायुधानां तु विन्यासं मुनिसत्तम ।
परमात्मात्मभावार्थं प्रथमं शृणु नारद ॥ ११।१ ॥
View Verse
श्वेतपर्वतसन्निभं त्रिदशं गरुत्मति संस्थितम् सर्वदेवनमस्कृतं कमलासनाद्यभिपूजितम् ।
सर्वभूषणभूषितं द्विचतुर्भुजं द्विपदं मुने स्वात्मदेहविराजितं कनकप्रभमं(प्रभां?)बरमादधत् ॥ ११।२ ॥
View Verse
इति ध्यायेन्मुनिश्रेष्ठ सर्वदेवमयं ततः ।
ध्यायन्नुत्पद्यते तस्य सम्यग्ज्ञानं तु नारद ॥ ११।३ ॥
View Verse
इति ते दर्शितं साक्षात् मूर्तं तु परमात्मनः ।
अस्य मूर्तस्य वक्ष्यामि विन्यासं चायुधस्य च ॥ ११।४ ॥
View Verse
अस्य दक्षिणहस्ताग्रे चक्रं चाधः स्थितस्य तु ।
स्वागतावस्थितो हस्त पद्मं वा हरि नारद ॥ ११।५ ॥
View Verse
अधःस्थितस्य हस्ताग्रे चाक्षमालां तु विन्यसेत् ।
एवं दक्षिणहस्तानां वामपार्श्वस्य चोच्यते ॥ ११।६ ॥
View Verse
वामपार्श्वस्य हस्तानां चोर्ध्वे शङ्खं वरप्रदम् ।
सगदाकटिहस्तं स्यात् इत्थं तु परमात्मनः ॥ ११।७ ॥
View Verse
वासुदेवस्य वक्ष्यामि रूपं वै चायुधानि ते ।
गोक्षीरस्फटिकाकारं श्यामाकृतिमथापि वा ॥ ११।८ ॥
View Verse
पीतवस्त्रधरं वापि रक्ताम्बरधरं तु वा ।
शङ्खचक्रगदाहस्तं सर्वाभरणभूषितम् ॥ ११।९ ॥
View Verse
सर्वावयवसम्पूर्णं चतुर्बाहुविराजितम् ।
सर्वालङ्कारसंयुक्तं वासदेवं विचिन्तयेत् ॥ ११।१० ॥
View Verse
वक्ष्याम्यस्य तु हेतीनां विन्यासं ते महामुने ।
अस्य दक्षिणहस्ताग्रे चक्रं चाधःस्थिते ऽम्बुजम् ॥ ११।११ ॥
View Verse
वामोर्ध्वे शङ्खमन्यस्मिन् गदा चास्याप्यधोमुखम् ।
श्रियं तु दक्षिणे पार्श्वे वामे पुष्टिं तु विन्यसेत् ॥ ११।१२ ॥
View Verse
तुष्टिं वा वामपार्श्वे तु कारयेन्मुनिसत्तम ।
एवं जनार्दनस्यापि मूर्तं कर्तव्यमेव तु ॥ ११।१३ ॥
View Verse
इत्युक्तं वासुदेवस्य शृणु सङ्कर्षणस्य तु ।
बालसूर्यप्रतीकाशः सङ्कर्षण इति स्मृतः ॥ ११।१४ ॥
View Verse
पीतवस्त्रधरः साक्षात् चतुर्बाहुविराजितः ।
सर्वावयवसंयुक्तः सर्वाभरणभूषितः ॥ ११।१५ ॥
View Verse
सर्वालङ्कारसंयुक्तः शङ्खचक्रधरः सदा ।
इति सङ्कर्षणं(णे?)रूपमस्य वै दक्षिणे करे ॥ ११।१६ ॥
View Verse
ऊर्ध्वे चक्रं त्वधो हस्ते मुसलं विन्यसेत् सुधीः ।
वामोर्ध्वे शङ्खमित्युक्तं पुण्डरीकं त्वधः करे ॥ ११।१७ ॥
View Verse
दक्षिणे तु श्रियं वामे पुष्टिं संस्थापयेद्बुधः ।
इति सङ्कर्षणश्चोक्तः प्रद्युम्नं शृणु नारद ॥ ११।१८ ॥
View Verse
पीताम्बरं चतुर्बाहुं सर्वावयवसंयुतम् ।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ॥ ११।१९ ॥
View Verse
सर्वालङ्कारसंयुक्तमित्थं प्रद्युम्नरूपकम् ।
दक्षिणोर्ध्वकरे पद्ममधः कौमोदकीं न्यसेत् ॥ ११।२० ॥
View Verse
वामोर्ध्वाधः स्थिते हस्ते शङ्खचक्रं तु विन्यसेत् ।
इत्थं प्रद्युम्नमूर्तं ते देवर्षे वर्णितो ऽधुना (तं मया?) ॥ ११।२१ ॥
View Verse
अनिरुद्धं वदामो ऽत्र (म्यत्र?) शृणु नारद तत्त्वतः ।
नीलजीमूतसङ्काशं कालाञ्जनचयोपमम् ॥ ११।२२ ॥
View Verse
शङ्खचक्रधरं देवं पीतवस्त्रं चतुर्भुजम् ।
सर्वाभरणसंयुक्तं सर्वावयवशोभितम् ॥ ११।२३ ॥
View Verse
सर्वालङ्कारसंयुक्तमनिरुद्धमितीरितम् ।
अस्य वामकरे चोर्ध्वे शङ्खमन्यकरे गदाम् ॥ ११।२४ ॥
View Verse
दक्षिणोर्ध्वे न्यसेच्चक्रमन्यत्राभयमिष्यते ।
अनिरुद्धं जगन्नाथमनन्तोपरि शायिनम् ॥ ११।२५ ॥
View Verse
श्रियं दक्षिणतः पार्श्वे पुष्टिं वामे ऽस्य विन्यसेत् ।
शयने सति मूलार्चा द्विभुजं वा चतुर्भुजम् ॥ ११।२६ ॥
View Verse
कल्पयेन्मुनिशार्दूल सर्वसम्पत् सुखावहम् ।
देवस्य पादपार्श्वे तु श्रियं पुष्टिं तु विन्यसेत् ॥ ११।२७ ॥
View Verse
अथ वा कल्पयेद्देवमौलिपार्श्वे श्रियं मुने ।
चित्रं वाप्यर्धचित्रं वा चित्राभासं तु वा मुने ॥ ११।२८ ॥
View Verse
यजमानेच्छया कुर्यात् देवीनां लक्षणं क्रमात् ।
इत्थं श्रियादिमूर्तीनां पूर्वपूर्वा गरीयसी ॥ ११।२९ ॥
View Verse
अनिरुद्ध इति प्रोक्तो मत्स्यादीन् शृणु नारद ।
शतपत्रमयस्याथ पुण्डरीकस्य मध्यमे ॥ ११।३० ॥
View Verse
पद्मासनस्थं मत्स्याष्टपरीतं कनकप्रभम् ।
त्रिणेत्रं द्विभुजं चैव प्राङ्मुखं पद्मधारिणम् ॥ ११।३१ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
मत्स्याभिमानिनं(नो?)मूर्र्तिं(तं)इत्थमुक्तं च नारद ॥ ११।३२ ॥
View Verse
पद्मपूर्वदले मत्स्यं सौवर्णं विन्यसेद् बुधः ।
आग्नेयदिग्दले मत्स्यं राजतं चाथ विन्यसेत् ॥ ११।३३ ॥
View Verse
याम्यदिग्दलमध्ये तु मत्स्यं ताम्रनिभं न्यसेत् ।
नैऋत्यदिग्दले मत्स्यं कृष्णवर्णं तु विन्यसेत् ॥ ११।३४ ॥
View Verse
वारुणे दिग्दले मत्स्यं रक्तवर्णं तु विन्यसेत् ।
वायव्यदिग्दले मत्स्यं श्यामवर्णं तु विन्यसेत् ॥ ११।३५ ॥
View Verse
सौम्यदिग्दलमत्स्यं तु धूम्रवर्णं तु विन्यसेत् ।
ईशानदिग्दले मत्स्यमग्निवर्णं तु विन्यसेत् ॥ ११।३६ ॥
View Verse
इत्यष्टदिग्दलस्थैस्तु मत्स्यैरभिमृखीकृतम् ।
मत्स्याभिमानिनं (नो?) मूर्तं तव स्नेहात् प्रदर्शितम् ॥ ११।३७ ॥
View Verse
अस्य दक्षिणपार्श्वे तु श्रियं पुष्टिं परत्र च ।
विन्यसेन्मत्स्यरूपं वै कूर्मरूपं ततः शृणु ॥ ११।३८ ॥
View Verse
कालाञ्जनगिरिप्रख्यं त्रिणेत्रं स्वाङ्गशोभितम् ।
चतुर्बाहुयुतं चैव सर्वाभरणभूषितम् ॥ ११।३९ ॥
View Verse
अञ्जनमृत्सन्निभमूर्तिः द्वादशपत्रे वर्तितमब्जे ।
पद्मसमाख्यस्वासनयुक्तः कूर्मशरीरी विष्णुरिहास्ते ॥ ११।४० ॥
View Verse
प्राक्क्रमतो ऽब्जद्वादशपत्रारूढशरीरैर्द्वादशकूर्मैः ।
अञ्जनवर्णप्रख्यशरीरेरावृतमूर्तिःस्वाभिमुखस्थैः ॥ ११।४१ ॥
View Verse
शङ्खचक्रधरश्चैव पद्महस्तस्तथैव च ।
ततो द्वादशकूर्मा हि (कूर्मैर्हि?) देवो ऽप्यभिमुखीकृतः ॥ ११।४२ ॥
View Verse
अस्य दक्षिणहस्तोर्ध्वे चक्रपद्मो(चक्रं पद्मं?)करान्तरे ।
वामोर्ध्वे शङ्खमित्युक्तं पद्मं चाधःस्थिते करे ॥ ११।४३ ॥
View Verse
अस्य दक्षिणपार्श्वे तु श्रियं विन्यस्य बुद्धिमान् ।
पुष्टिं वामे न्यसेदेवं कूर्ममूर्तिरुदाहृता ॥ ११।४४ ॥
View Verse
वाराहं शृणु वक्ष्यामि राजावर्तनिभं मुने ।
शङ्खवर्णं तु वा श्यामं सर्वलक्षणलक्षितम् ॥ ११।४५ ॥
View Verse
नवयौवनसम्पूर्णां सर्वावयवसुन्दरीम् ।
नारीणामुत्तमां देवीं सुकेशां पङ्कजाननाम् ॥ ११।४६ ॥
View Verse
विद्युल्लताप्रभां वापि श्यामां वापि कृताञ्जलिम् ।
सर्वालङ्कारसंयुक्तां निमग्नां जगतीं शुभाम् ॥ ११।४७ ॥
View Verse
वामदोष्णा समालिङ्ग्य प्रोद्धृत्यालिङ्ग्य सुस्थिताम् ।
वामेन बाहुनाश्लिष्य जिघ्रन् देवीमुखं प्रभुः ॥ ११।४८ ॥
View Verse
वामेनालिङ्ग्य हस्तेन तस्याः स्कन्धं तपोनिधे ।
गृहीत्वोरुं दृढं तस्याः दक्षिणेन करेण च ॥ ११।४९ ॥
View Verse
सूकराङ्गं चतुर्बाहुं शङ्खचक्रधरं प्रभुम् ।
दक्षिणे तु न्यसेत् चक्रं वामे शङ्खं तु विन्यसेत् ॥ ११।५० ॥
View Verse
इत्थं वराहरूपं ते प्रथमं परिपठ्यते ।
अथ वा क्रोडवक्त्रं च महाकायं सुदंष्ट्रकम् ॥ ११।५१ ॥
View Verse
सर्वलक्षणसम्पन्नं श्रीवत्साङ्कितवक्षसम् ।
तिर्यक्संस्थितसूत्रं च रूपं वै यन्महात्मनः ॥ ११।५२ ॥
View Verse
वाराहं मध्यमं प्रोक्तं सङ्क्षेपात्तु तपोनिधे ।
अथ वा शृणु वक्ष्यामि रूपं वाराहरूपिणः ॥ ११।५३ ॥
View Verse
उद्धृत्य नासिकातुल्यं वामहस्तस्य को(कूर्?)परम् ।
वामपार्श्वार्धभागे तु निरीक्षन् को(कूर्?)परं सदा ॥ ११।५४ ॥
View Verse
कटिप्रदेशमालम्ब्य पाणिना दक्षिणेन तु ।
एवं रूपं महाविष्णोः शङ्खचक्रधरस्य च ॥ ११।५५ ॥
View Verse
अस्य दक्षिणहस्ताग्रे चक्रं शङ्खं परे च हि ।
इति वाराहमूर्तस्य त्रिधा रूपं तु दर्शितम् ॥ ११।५६ ॥
View Verse
एवमुक्तस्य रूपस्य त्रिधाकारस्य नारद ।
इत्थं रूपं तु कर्तव्यं नृसिंहस्य ततः शृणु ॥ ११।५७ ॥
View Verse
गलादधस्तान्नररूपधारी परत्र सिंहाननभृत्स्वरूपः ।
बिभर्ति नेत्राणि हुताशनार्कप्रभा- ञ्चितान्येव विभीषणानि ॥ ११।५८ ॥
View Verse
शङ्खचक्रधरश्चैव सर्वाभरणभूषितः ।
सर्वावयवसम्पूर्णः सर्वसिद्धिकरःशुभः ॥ ११।५९ ॥
View Verse
चक्रं च दक्षिणे हस्ते शङ्खं वामे न्यसेद्बुधः ।
श्वेतपर्वतसङ्काशं सर्वदुःखविनाशनम् ॥ ११।६० ॥
View Verse
रक्तचन्दनदिग्धाङ्गं कालाभ्रोद्दामनिः स्वनम् ।
शरदिन्दुकलादंष्ट्रं क्रुद्धं हाटकताटकम् ॥ ११।६१ ॥
View Verse
सुफुल्लवदनं शश्वत् दुष्टानामतिभीषणम् ।
एवं रूपं नृसिंहस्य कृत्वा पूर्वं मृदा (मुदा?) मुने ॥ ११।६२ ॥
View Verse
पर्यङ्ककल्पितं कृत्वा आसीनं विष्टरे शुभे ।
हस्तयोःको(कूर्?)परे तस्य जान्वोरुपरि विन्यसेत् ॥ ११।६३ ॥
View Verse
इत्थं नृसिंहरूपं ते वर्णितं वणतोचितम्(?) ।
वामनस्य वदामो ऽत्र (म्यत्र?) रूपं श्रुणु महामुने ॥ ११।६४ ॥
View Verse
सुस्मितं पद्मनाभेन(?)वामनं वामनाकृतिम् ।
बालकुञ्जरसङ्काशं बृहत्स्कन्धं महाभुजम् ॥ ११।६५ ॥
View Verse
श्यामलं नीरजाक्षं तु आयतामललोचनम् ।
क्षोणीतलं पदन्यासैः डोलयन्निव नारद ॥ ११।६६ ॥
View Verse
जटाटवीसमायुक्तं सर्वेषां च मनोहरम् ।
द्विभुजं सव्यहस्तेन मुष्टिना दण्डधारिणम् ॥ ११।६७ ॥
View Verse
आकुञ्चितं वामपादं स्वागतं दक्षिणं भुजम्(?) ।
हारकुण्डलकेयूरभूषणैर्भूषितं मुने ॥ ११।६८ ॥
View Verse
लम्बयज्ञोपवीतेन मेखलानां त्रयेण च ।
संयुक्तं युक्तरूपं तु काश्यपं ब्रह्मचारिणम् ॥ ११।६९ ॥
View Verse
कौपीनधारिणं वापि पीतवाससमेव च ।
रक्षार्थं विष्टापानां तु वामनत्वमुपागतम् ॥ ११।७० ॥
View Verse
एवं सुलक्षणोपेतं रूपं कार्यं महामुने ।
जामदग्न्यस्य रामस्य रूपं वक्ष्याम्यतः परम् ॥ ११।७१ ॥
View Verse
तस्य वर्णं सुवर्णाभं द्विभुजं श्वेतरक्तकम् ।
आसीनं तु प्रसन्नास्यं ब्रह्मलक्ष्मीसमावृतम् ॥ ११।७२ ॥
View Verse
सर्वलक्षणसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वालङ्कारसंयुक्तं जटामण्डलमण्डितम् ॥ ११।७३ ॥
View Verse
परशुं दक्षिणे हस्ते वामे चापं सपत्रिणम् ।
वामे कमण्डलुं वापि चाक्षसूत्रं तु दक्षिणे ॥ ११।७४ ॥
View Verse
इत्थं रूपं मुने तुभ्यं जामदग्न्यस्य वर्णितम् ।
रामस्याथ वदामो ऽत्र(म्यत्र?)रूपं दाशरथेस्तव ॥ ११।७५ ॥
View Verse
अतीवरूपसम्पन्नौ नीलवेल्लितमूर्धजौ ।
व्यूढोरस्कौ नतांसौ च केयूराङ्गदचित्रितौ ॥ ११।७६ ॥
View Verse
दीर्घबाहू श्रियोपेतौ सौम्यौ प्रहसिताननौ ।
कर्णान्तलोचनौ साक्षात् प्रथमे वयसि स्थितौ ॥ ११।७७ ॥
View Verse
सौन्दर्यामृततोयैश्च सिञ्चन्ताविव विश्वतः ।
खङ्गहस्तौ धनुष्पाणी भुजविख्यातविक्रमौ ॥ ११।७८ ॥
View Verse
बद्धगोधाङ्गुलित्राणौ मुने वैश्रवणोपमौ ।
औदार्यरूपसम्पद्भिः नृणां चित्तापहारिणौ ॥ ११।७९ ॥
View Verse
कौसल्यायाः सुमित्रायाः प्रीतिदौ वीर्यवत्तरौ ।
राक्षसध्वान्ततिग्मांशू शूरौ दशरथात्मजौ ॥ ११।८० ॥
View Verse
नरनारायणाख्यातौ तावुभौ रघुनन्दनौ ।
जगतां पालनार्थाय मनुष्यत्वमुपागतौ ॥ ११।८१ ॥
View Verse
पुण्डरीकविशालाक्षौ तावुभौ पीतवाससौ ।
भुजान्ते बद्धतूणीरौ बाणपाणी महामुने ॥ ११।८२ ॥
View Verse
निवसन्तौ श्रिया साकं वाल्मीकेः कवि(काव्य?)सागरे ।
रक्षसां मृत्युसङ्काशौ रावणस्यातिरावणौ ॥ ११।८३ ॥
View Verse
नृपसूनू रघुश्रेष्ठौ भ्रातरौ रामलक्ष्मणौ ।
सर्वैश्च लक्षणैर्युक्तौ स्थापयेत्तन्त्रवित्तमैः ॥ ११।८४ ॥
View Verse
समस्तलक्षणोपेतां सीतां रामस्य वल्लभाम् ।
नैऋतानां विनाशाय जातां शुद्धामयोनिजाम् ॥ ११।८५ ॥
View Verse
त्रिगुणात्ममयीं मायां मूलप्रकृतिसंस्थिताम् ।
व्यक्तरूपेण सञ्ज्ञापि साक्षादव्यक्तरूपिणीम् ॥ ११।८६ ॥
View Verse
पतिव्रतां महाभागां स्त्रीणामप्युत्तमां श्रियम् ।
रक्तपद्मकरां देवीं पद्मां पद्मोपमाननाम् ॥ ११।८७ ॥
View Verse
यौवनोद्दामदिव्याङ्गीं सीतां जनकनन्दिनीम् ।
पातिव्रत्यगुणोपेतां सीतां रामस्य वल्लभाम् ॥ ११।८८ ॥
View Verse
सर्वालङ्कारसंयुक्तां नीलालकशिरोरुहाम् ।
मालानिबद्धधम्मिल्लां मदविभ्रान्तलोचनाम् ॥ ११।८९ ॥
View Verse
कालपीताम्बरधरा स्थापयेद्रामपार्श्वतः ।
सव्यमुष्टिं(ष्टौ?) ललाटान्तं कृतोर्ध्वमुखमन्तरम् ॥ ११।९० ॥
View Verse
तस्मिन् त्र्यवनतं चापं बाणौघजधनं(?)दृढम् ।
वासवास्त्रं वामबाहौ कारयेनमुनिसत्तम ॥ ११।९१ ॥
View Verse
सायकं कटिसूत्रे तु वामपाणिं(?)तु दक्षिणे ।
कालाग्निसदृशं बाणं पौलस्त्यान्तकरं दृढम् ॥ ११।९२ ॥
View Verse
अन्तरे ऽस्य मुखं कृत्वा गोलकं चोल्बणं भवेत् (?) ।
मर्दन्तं रावणपुरं स्वबलं (सबलं?) चायुषं तथा ॥ ११।९३ ॥
View Verse
निहत्य रामहस्तस्थं (?) स्थापयेद्दक्षिणे करे ।
वसुतालेन वा विद्वान् नवतालक्रमेण वा ॥ ११।९४ ॥
View Verse
बेरस्य चानुरूपेण चरेत् सर्वायुधानि वै ।
कुञ्चितं वामपादं तु सुस्थितं दक्षिणं पदम् ॥ ११।९५ ॥
View Verse
कनिष्ठिकाङ्कितस्थाने त्वङ्गुष्ठस्य स्थितिर्भवेत् ।
स्तोककुञ्चितजानुश्च पादो वामस्थितो भवेत् ॥ ११।९६ ॥
View Verse
मुखे शरीरे कट्यां च त्रिष्वङ्गेष्वेषु नारद ।
त्रिभङ्गित्वान्मुनिश्रेष्ठ त्रिभङ्गीति प्रपठ्यते ॥ ११।९७ ॥
View Verse
मुखं दक्षिणतो भङ्गं तनुमध्यं तु वामतः ।
दक्षिणे कटिभङ्गस्तु भङ्गत्रयमुदाहृतम् ॥ ११।९८ ॥
View Verse
वामहस्तः सचापः स्याद्दक्षिणःसशिलीमुखः ।
लक्ष्मणस्य भवेदेवं लक्षणं भरतस्य तु ॥ ११।९९ ॥
View Verse
शत्रुघ्नस्याप्यथैवं स्यादिति तन्त्रेषु निश्चितम् ।
संस्थाप्य मध्यमे रामं वामपार्श्वे ऽस्य लक्ष्मणम् ॥ ११।१०० ॥
View Verse
दक्षिणे स्थापयेद्देवीं सीतां जनकनन्दिनीम् ।
शत्रुघ्नभरतौ कार्यावुत्तरे दक्षिणे क्रमात् ॥ ११।१०१ ॥
View Verse
चामरासक्तबाहू तौ परिवारविधावपि ।
इति स्वतन्त्रे निर्दिष्टं परतन्त्रे वदाम्यहम् ॥ ११।१०२ ॥
View Verse
लोहैश्च निर्मिते बेरे चोत्तमादिक्रमैर्मुने ।
ललाटपट्टपर्यन्तं पादाङ्गुष्ठात् समुच्छ्रयम् ॥ ११।१०३ ॥
View Verse
द्वात्रिंशदङ्गुलं विद्धि उत्तमं कौतुकं द्विज ।
अस्मात् सप्ताङ्गुलैर्हीनं मध्यमं बेरमुच्छ्रयम् ॥ ११।१०४ ॥
View Verse
अस्मात् नवाङ्गुलैर्हीनमधमं परिकीर्तितम् ।
इति दाशरथेर्मूर्तमुत्सेधं मुनिसत्तम ॥ ११।१०५ ॥
View Verse
सीतालक्ष्मणयोश्चापि भरतस्यापि साम्प्रतम् ।
शत्रुघ्नस्यापि देवर्षे वदाम्यायाममद्य ते ॥ ११।१०६ ॥
View Verse
देवस्य बाहुमूलान्तं देव्युत्सेधं प्रचक्षते ।
लक्ष्मणस्योच्छ्रयश्चापि रामस्यास्यान्तमीरितम् ॥ ११।१०७ ॥
View Verse
लक्ष्मणस्य भुजान्तं स्यात् शत्रुघ्नस्योच्छ्रयो भवेत् ।
इति दीर्घप्रमाणोक्तं शेषं पूर्ववदाचरेत् ॥ ११।१०८ ॥
View Verse
स्वतन्त्रे परतन्त्रे च लक्षणं तव भाषितम् ।
बलरामस्य वक्ष्यामि शृणु नारद लक्षणम् ॥ ११।१०९ ॥
View Verse
बलभद्रः निभा (सिता?) भिख्यः कुन्देन्दुधवलप्रभः ।
पङ्कजाक्षो ऽङ्गनावक्त्रः सर्वावयवशोभितः ॥ ११।११० ॥
View Verse
सर्वालङ्कारसंयुक्तः सर्वाभरणभूषितः ।
सर्वावयवसम्पूर्णः प्रभामण्डलमण्डितः ॥ ११।१११ ॥
View Verse
अस्य दक्षिणबाहौ तु मुसलं वामके करे ।
हलं तु विन्यसेद्धीमान् बलरामस्य मन्त्रवित् ॥ ११।११२ ॥
View Verse
दक्षिणे तु श्रियं देवीं सौम्ये तु गरुडं न्यसेत् ।
पीतं कृताञ्जलिं त्वेवं बलरामस्त्वथेरितः ॥ ११।११३ ॥
View Verse
अतः परं प्रवक्ष्यामि कृष्णं कृष्णाञ्जनप्रभम् ।
स्थापनं कार्यमस्यैव स्थानकं तु विशेषतः ॥ ११।११४ ॥
View Verse
त्रिभङ्ग्या सम्मितं तं तु स्थितं पीठे महामुने ।
क्रीडायष्टिसमायुक्तं देव्या च परमं हरिम् ॥ ११।११५ ॥
View Verse
स्थापयेद्दैविके स्थाने सर्वज्ञं सर्वकारणम् ।
एवं सङ्क्षेपतः प्रोक्तं विविक्तेनाधुना मुने ॥ ११।११६ ॥
View Verse
अतः(?)श्यामनिभं वापि पीताम्बरसमन्वितम् ।
वासुदेवं गुडाकेशं सर्वाभरणभूषितम् ॥ ११।११७ ॥
View Verse
क्रीडायष्टिधरं देवं त्रिभङ्गस्थितिसंयुतम् ।
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ॥ ११।११८ ॥
View Verse
वामपादतलं तिर्यक् क्रमेणैव तु कारयेत् ।
तत्कनिष्ठाङ्गुलिस्थाने चाङ्गुष्ठस्थितिमाचरेत् ॥ ११।११९ ॥
View Verse
किञ्चित्कुञ्चितजानुश्च वामपादस्थितिर्भवेत् ।
वक्त्रे चैव तथा गात्रे कटियन्त्रे तथैव च ॥ ११।१२० ॥
View Verse
त्रिषु मार्गेषु(भागेषु?)भङ्गित्वात् त्रिभङ्गित्वं विधीयते ।
वक्त्रं दक्षिणतो भङ्गे मध्यकायं तु वामतः ॥ ११।१२१ ॥
View Verse
कटिदक्षिणतो भङ्गे भङ्गत्रयमुदाहृतम् ।
कारयेद्दक्षिणं हस्तं सुयष्टिं कटकान्वितम् ॥ ११।१२२ ॥
View Verse
वामं देवीभुजासक्तं वामहस्तमधोमुखम् ।
वामं करतलं चैव नाभिसूत्रेण योजयेत् ॥ ११।१२३ ॥
View Verse
दक्षिणं कटिहस्तं तु वक्त्रसूत्रेण योजयेत् ।
त्रिभागमानमायामं मुखं मूर्ध्नि त्रिगोलकम् ॥ ११।१२४ ॥
View Verse
हनुग्रीवं त्रिमात्रार्धमर्धमात्रं गलं स्मृतम् ।
हिक्कानाभिमुखे चैव मध्यकायं प्रतिष्ठितम् ॥ ११।१२५ ॥
View Verse
मेढ्रं नाभिमुखं नाहस्तस्मादूरूमुखद्वयम् ।
मानं सङ्क्षेपतः प्रोक्तं शेषं साधारणं स्मृतम् ॥ ११।१२६ ॥
View Verse
देव्यौ तत्पार्श्वयोश्चैव स्थापयेत् क्रमयोगतः ।
देवस्य दक्षिणे कुर्यात् रुक्मिणों रुक्मसन्निभाम् ॥ ११।१२७ ॥
View Verse
सत्यभामां च वामे तु कारयेच्छ्यामसन्निभाम् ।
पूर्ववत् कमलं गृह्यं सात्विकेन समायुतम् ॥ ११।१२८ ॥
View Verse
स्वतन्त्रे चैवमुक्तं तु परतन्त्रे वदामि ते ।
लोहेन मुनिशार्दूल उत्तमादिक्रमेण तु ॥ ११।१२९ ॥
View Verse
सम्प्रोक्तं राघवस्यैवं तद्वदुत्पादयेदिह ।
लक्षणं यादवेन्द्रस्य उत्सेधादिक्रमं मुने ॥ ११।१३० ॥
View Verse
नवनीतार्थनृत्तं च सर्पनृत्तमथापि वा ।
इत्येवमादि मूर्तीनां लक्षणं मुनिसत्तम ॥ ११।१३१ ॥
View Verse
यजमानेच्छया तस्मिन् कारयेत् स्वस्वलीलया ।
युक्त्या युक्तिविशेषेण प्रतिमां कारयेत् क्रमात् ॥ ११।१३२ ॥
View Verse
इति यादवसिंहस्य लक्षणं परिकीर्तितम् ।
सङ्क्षेपेण मुनिश्रेष्ठ कल्कि(ल्की?)विष्णोरतः शृणु ॥ ११।१३३ ॥
View Verse
अतिशोणव(णित?) सङ्काशो त्रिणेत्रो भीमरूपवान् ।
शङ्खचक्रगदापाणिश्चतुर्बाहुः किरीटधृक् ॥ ११।१३४ ॥
View Verse
वनमालासमायुक्तः सर्वाभरणभूषितः ।
सर्वालङ्कारसंयुक्तः पीतवस्त्रसमन्वितः ॥ ११।१३५ ॥
View Verse
एवं कल्किर्मया प्रोक्तो हेतिन्यासं वदामि ते ।
दक्षिणोर्घ्वकरे चक्रं वामोर्ध्वे शङ्खमेव तु ॥ ११।१३६ ॥
View Verse
वामस्याधरहस्ते तु पाशं कृष्णनिभं न्यसेत् ।
कारयेद्दक्षिणे हस्ते कालदण्डं त्वधोमुखम् ॥ ११।१३७ ॥
View Verse
श्रियं दक्षिणपार्श्वे तु वामे पुष्टिं न्यसेद्बुधः ।
द्बितीयावरणे चाष्टपरिवारसमन्वितम् ॥ ११।१३८ ॥
View Verse
एवं सञ्चिन्त्य कल्किं तु पूजयेत्तु विधानतः ।
कलौ युगे विशेषेण कल्किं सम्पूजयेद् द्विज ॥ ११।१३९ ॥
View Verse
नृपो वा नृपमात्रो वा पूजयेत्तु दिने दिने ।
सर्वान् कामानवाप्नोति जयलक्ष्मीं स गच्छति ॥ ११।१४० ॥
View Verse
विशेषं चा(षश्चा?)त्र सम्प्रोक्तं(क्तः?)शेषं साधारणं स्मृतम् ।
एवं कल्केर्मया प्रोक्तं लक्षणं सर्वसिद्धिदम् ॥ ११।१४१ ॥
View Verse
मूर्तीनां लक्षणं वक्ष्ये शास्त्रभेदेन चिह्नितम् ।
अदिमूर्तिः परो देवो वासुदेवः सनातनः ॥ ११।१४२ ॥
View Verse
द्वितीया तु परा मूर्तिः सङ्कर्षण इति स्मृतः ।
प्रद्युम्नाख्या तृतीया तु मूर्तिरेषा सनातनी ॥ ११।१४३ ॥
View Verse
चतुर्थी तु भवेन्मूर्तिः अनिरुद्धेतिसञ्ज्ञिता ।
चतस्रो मूर्तयस्त्वेताः प्रतिष्ठायाः पृथक् पृथक् ॥ ११।१४४ ॥
View Verse
वासुदेवः परा मूर्तिः स्थापनीया द्विजोत्तमैः ।
द्वितीया स्थाप्यते मूर्तिः क्षत्रियैर्मोक्षकाङ्क्षिभिः ॥ ११।१४५ ॥
View Verse
प्रद्युम्नाख्या तु विप्रेन्द्र वैश्यैः स्थाप्या मुमुक्षुभिः ।
शूद्रैः संस्थाप्यते मूर्तिरनिरुद्धो जगद्गुरुः ॥ ११।१४६ ॥
View Verse
भेदैस्त्रिभिस्त्रिभिर्विप्र एकैका भिद्यते पुनः ।
वर्णास्त्रन्यासभेदेन भेदाश्च परिकीर्तिताः ॥ ११।१४७ ॥
View Verse
मूर्तीनां केशवादीनां विविक्तेन शृणु क्रमात् ।
शङ्खकुन्दनिभं वापि ह्यथवा श्याममेव च ॥ ११।१४८ ॥
View Verse
शङ्खचक्रगदापाणिं श्रीवत्साङ्कितवक्षसम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।१४९ ॥
View Verse
पीताम्बरसमायुक्तं चतुर्बाहुं किरीटिनम् ।
एवं ध्यायेन्मुनिश्रेष्ठ भुक्तिमुक्तिप्रदं हरिम् ॥ ११।१५० ॥
View Verse
अस्त्रविन्यासभेदं च प्रवक्ष्यामि शृणु क्रमात् ।
दक्षिणोर्ध्वकरे चक्रं वामोर्ध्वे शङ्खमुद्वहन् ॥ ११।१५१ ॥
View Verse
गदां वामाधरे हस्ते नीरजं दक्षिणाधरे ।
आदिमूर्तेस्तु भेदो ऽयं केशवाख्यं मुने शृणु ॥ ११।१५२ ॥
View Verse
नारायणमथो वक्ष्ये शृणु नारद सत्तम ।
कुन्दपुष्पनिभं वापि श्यामं वा रक्तमेव वा ॥ ११।१५३ ॥
View Verse
शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम् ।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ॥ ११।१५४ ॥
View Verse
सर्वावयवसंयुक्तं सर्वालङ्कारशोभितम् ।
सर्वदेवमयं सूक्ष्मं त्रैलोक्याधिपतिं हरिम् ॥ ११।१५५ ॥
View Verse
एवं रूपं तु सञ्चिन्त्य हेतिन्यासमथो शृणु ।
दक्षिणे तु करे चोर्ध्वे पद्मं मुकुलकं न्यसेत् ॥ ११।१५६ ॥
View Verse
अस्याधरे तु चक्रं स्यात् कालाग्निसदृशं मुने ।
वामोर्ध्वे तु गदां न्यस्य ह्यधोहस्ते ऽम्बुजं न्यसेत् ॥ ११।१५७ ॥
View Verse
एवं चायुधविन्यासो माधवं चाधुना शृणु ।
शङ्खपुष्पदलप्रख्यं शङ्खचक्रगदाधरम् ॥ ११।१५८ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वालङ्कारशोभितम् ।
सर्वाभरणसम्पूर्णं चतुर्बाहुं किरीटिनम् ॥ ११।१५९ ॥
View Verse
माधवस्त्वधुना प्रोक्तः मधुकैटभनाशनः ।
अस्त्रविन्यासभेदं तु शृणु चास्य महामुने ॥ ११।१६० ॥
View Verse
वामपार्श्वोर्ध्वहस्ते तु शङ्खं धवलकं न्यसेत् ।
अधोहस्ते न्यसेद्रक्तं पद्मं च दशपत्रकम् ॥ ११।१६१ ॥
View Verse
दक्षिणोर्ध्वकरे चक्रमधस्ताल्लकुटं न्यसेत् ।
तृतीया तु भवेन्मूर्तिः माधवाख्या तु नारद ॥ ११।१६२ ॥
View Verse
वासुदेवस्य भेदो ऽयं वक्ष्ये सङ्कर्षणस्य ते ।
तरुणार्कनिभं वापि श्यामं वाभ्रनिभं तु वा ॥ ११।१६३ ॥
View Verse
पीतवस्त्रं चतुर्बाहुं सर्वाभरणभूषितम् ।
सर्वावयवसंयुक्तं गोविन्दं गोकुलालमय् ॥ ११।१६४ ॥
View Verse
एवं ध्यायेन्मुनिश्रेष्ठ सर्वकामप्रदं हरिम् ।
अस्यास्त्रन्यासभेदं तु श्रुणु नारद सत्तम ॥ ११।१६५ ॥
View Verse
दक्षिणोर्ध्वकरे तस्य गदां चक्रमधो न्यसेत् ।
वामपार्श्वोर्ध्वहस्ते ऽब्जं शङ्खमन्ये तु विन्यसेत् ॥ ११।१६६ ॥
View Verse
गोविन्द एवं सम्प्रोक्तः विष्ण्वाख्यमधुना शृणु ।
रक्तपद्मदलप्रख्यं श्यामं वा रक्तमेव वा ॥ ११।१६७ ॥
View Verse
कृष्णं वा मुनिशार्दूल सर्वलक्षणसंयुतम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।१६८ ॥
View Verse
शङ्खचक्रगदापाणिं पीतवस्त्रं चतुर्भुजम् ।
सर्वालङ्कारसंयुक्तं ध्यायेद्विष्णुं सनातनम् ॥ ११।१६९ ॥
View Verse
प्रथमे तु करे पद्मं ह्यधस्तात् कारयेद्गदाम् ।
वामे शङ्खं न्यसेत्तस्य ह्यधश्चक्रं विराजितम् ॥ ११।१७० ॥
View Verse
अथ वा मुनिशार्दूल शृणु विष्णुं सनातनम् ।
ऋजुस्थितं सुसौम्यं यत्कटिहस्तसमन्वितम् ॥ ११।१७१ ॥
View Verse
शङ्खचक्राभयोपेतं पीताम्बरसमन्वितम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।१७२ ॥
View Verse
सर्वालङ्कारसंयुक्तं ध्यायेद्विष्णुमनुत्तमम् ।
द्विप्रकारं मया प्रोक्तं विष्णुं सकलमव्ययम् ॥ ११।१७३ ॥
View Verse
एवं ध्यायेन्मुनिश्रेष्ठ कर्तुरिच्छावशात् कुरु ।
रक्तोत्पलदलप्रख्यं पीतवस्त्रं चतुर्भुजम् ॥ ११।१७४ ॥
View Verse
शङ्खचक्रगदापाणिं सर्वावयवशोभितम् ।
सर्वालङ्कारसंयुक्तं सर्वाभरणभूषितम् ॥ ११।१७५ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वालङ्कारसंयुक्तं सर्वसिद्धिप्रदं परम् ॥ ११।१७६ ॥
View Verse
प्रथमे तु करे शङ्गमधस्ताच्चक्रकं न्यसेत् ।
पद्मं वामोर्ध्वहस्ते तु गदां चाधः करे न्यसेत् ॥ ११।१७७ ॥
View Verse
मधुसूदनमूर्तस्य लक्षणं विद्धि नारद ।
सङ्कर्षणस्य भेदो ऽयं त्रिविक्रममथ शृणु ॥ ११।१७८ ॥
View Verse
तप्तहाटकसङ्काशं श्यामं वग्निनिभं तु वा ।
सर्वालङ्कारसंयुक्तं सर्वावयवशोभितम् ॥ ११।१७९ ॥
View Verse
सर्वाभरणसंयुक्तं पीतवस्त्रं चतुर्भुजम् ।
शङ्खचक्रगदापाणिं सर्वदेवैः नमस्कृतम् ॥ ११।१८० ॥
View Verse
त्रिविक्रमस्य सम्प्रोक्तं लक्षणं च समृद्धिदम् ।
गदां प्रथमहस्ते तु ह्यधस्ताच्चक्रमुद्वहन् ॥ ११।१८१ ॥
View Verse
वामे पद्ममधःशङ्खं दृश्यते यत्र कुत्रचित् ।
यथाकामं तु वा चास्त्रविन्यासं मुनिसत्तम ॥ ११।१८२ ॥
View Verse
एवं चायुधविन्यासो प्रोक्तो वामन उच्यते ।
कर्णिकारदलप्रख्यं रक्तवर्णं चतुर्भुजम् ॥ ११।१८३ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वालङ्कारसंयुक्तं सर्वसिद्धिप्रदं परम् ॥ ११।१८४ ॥
View Verse
प्रथमे तु करे चक्रं अधःशङ्खश्च दृश्यते ।
गदा च वामहस्ते तु ह्यधः पद्मं च शोभते ॥ ११।१८५ ॥
View Verse
वामनाख्यस्तु विप्रेन्द्र विज्ञेयःशुभलक्षणः ।
तप्तजाम्बूनदप्रख्यं श्रीवत्साङ्कितवक्षसम् ॥ ११।१८६ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
पीतवस्त्रं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ११।१८७ ॥
View Verse
श्रीधरस्य मया प्रोक्तं लक्षणं भुक्तिमुक्तिदम् ।
ऊर्ध्वे चक्रमधः पद्मं दक्षिणे तु करे न्यसेत् ॥ ११।१८८ ॥
View Verse
वामे चैव गदा ज्ञेया ह्यधःशङ्खं विराजितम् ।
तथा श्रीधरमूर्तिस्तु विज्ञेया देशिकोत्तमैः ॥ ११।१८९ ॥
View Verse
एवं प्रद्युम्नभेदस्तु अनिरुद्धाख्य उच्यते ।
नीलोत्पलदलप्रख्यं चतुर्बाहुं किरीटिनम् ॥ ११।१९० ॥
View Verse
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ।
श्रीवत्सवक्षसोपेतं हृषीकेशं सनातनम् ॥ ११।१९१ ॥
View Verse
दक्षिणे ऽस्य महाचक्र गदां च तदधःस्थिताम् ।
वामहस्ते महापद्ममधस्ताच्छङ्खमेव च ॥ ११।१९२ ॥
View Verse
सा मूर्तिस्तु तदा ज्ञेया हृषीकेशेति(शस्य?)नारद ।
पद्मनाभस्य वक्ष्ये ऽहं लक्षणं भुक्तिमुक्तिदम् ॥ ११।१९३ ॥
View Verse
नीलवर्णनिभं वाथ श्यामं वा मुनिसत्तम ।
सञ्ज्ञात्वा लक्षणं तत्र सर्वज्ञं सर्वकारणम् ॥ ११।१९४ ॥
View Verse
कारयेन्मुनिशार्दूल शिल्पिभिः सह साधकः ।
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ॥ ११।१९५ ॥
View Verse
सर्वावयवसम्पूर्णं चतुर्बाहुं किरीटिनम् ।
शङ्खचक्रगदापाणिं पीताम्बरसमन्वितम् ॥ ११।१९६ ॥
View Verse
श्रीवत्सवक्षसोपेतं पद्मनाभमवै(वे?) हि तम् ।
प्रथमे ऽस्य करे पद्ममधस्ताच्छङ्ख एव तु ॥ ११।१९७ ॥
View Verse
वामे च दृश्यते चक्रं गदा च तदधः स्थिता ।
सा मूर्तिः पद्मनाभेति नमस्कार्या विचक्षणैः ॥ ११।१९८ ॥
View Verse
विन्यसेद्वा यथाकामं शस्त्रविन्यासमत्र तु ।
अथ वा पद्मनाभस्य लक्षणं शृणु सुव्रत ॥ ११।१९९ ॥
View Verse
द्विभुजं पङ्कजाक्षं तु श्यामं वाग्निनिभं तु वा ।
ध्यायेत्तस्मिन् मुनिश्रेष्ठ कारयेल्लक्षणैर्युतम् ॥ ११।२०० ॥
View Verse
शयने सति सम्प्रोक्तं पद्मनाभस्य नारद ।
अत्र कर्मार्चनादीनां लक्षणं वक्ष्यते ऽधुना ॥ ११।२०१ ॥
View Verse
योगमुद्रासमायुक्तं शङ्खचक्रसमन्वितम् ।
कारयेत्तु मुनिश्रेष्ठ कर्मार्चां पूर्ववत्तु वा ॥ ११।२०२ ॥
View Verse
इत्येवं पद्मनाभस्य लक्षणं परिकीर्तितम् ।
भित्तिपार्श्वे ऽस्य नाभ्यूर्ध्वे रक्तपद्मं सुनालकम् ॥ ११।२०३ ॥
View Verse
कारयेत् सुमनोरम्यं शतपत्रं सकर्णिकम् ।
तदर्धं वार्धकं वापि दलं पद्मस्य नारद ॥ ११।२०४ ॥
View Verse
कर्णिकाग्रे विधिं ध्यायेत् लक्षणैःसह नारद ।
तल्लक्षणं प्रवक्ष्यामि शृणु भुक्तिशुभप्रदम् ॥ ११।२०५ ॥
View Verse
पद्मासनसमायुक्तं विधिं कनकसन्निभम् ।
चतुर्भुजं समासीनं चतुर्वक्त्रं सनातनम् ॥ ११।२०६ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
सर्वदेवमयं सूक्ष्मं सृष्टिस्थितिलयात्मकम् ॥ ११।२०७ ॥
View Verse
एवं रूपं ततो ध्यायेत् ब्रह्माणं कमलोद्भवम् ।
ब्रह्मणो दक्षिणे हस्ते स्रुक्स्रुवाक्षांश्च विन्यसेत् ॥ ११।२०८ ॥
View Verse
वामहस्ते न्यसेत् पद्मं ऊर्ध्वे चैव कमण्डलुम् ।
अभयं वरदं वापि वामहस्ताधरं मुने ॥ ११।२०९ ॥
View Verse
एवं रूपं तु सञ्चिन्त्य ब्रह्माणं कमलासनम् ।
अथ वा कारयेन्न्यासं शृणु गुह्योपरि क्रमात् ॥ ११।२१० ॥
View Verse
विपरीतेन हस्ताभ्यामूरुमूले तु संस्पृशेत् ।
अङ्गुल्यग्रे मुनिश्रेष्ठ योगमुद्रे ऽयमुच्यते ॥ ११।२११ ॥
View Verse
योगमुद्रा मया प्रोक्ता सर्वयोगेषु योजयेत् ।
अस्य दक्षिणपार्श्वे तु मेधां वामे सरस्वतीम् ॥ ११।२१२ ॥
View Verse
विन्यसेच्च स्वतन्त्रे तु परतन्त्रे तयोर्विना ।
एवं कृत्वा विधानेन ब्रह्माणं कमलासनम् ॥ ११।२१३ ॥
View Verse
पद्मनाभस्य मूर्ताङ्गं परतन्त्रमिति (?)स्मृतम् ।
स्वतन्त्रे मुनिशार्दूल शिल्पिभिः सह मन्त्रवित् ॥ ११।२१४ ॥
View Verse
कल्पयेद्विधिवत् पद्मं संस्थाप्य कमलासनम् ।
ब्रह्मस्थाने ऽथवा पूर्वे दक्षिणे पश्चिमे ऽथ वा ॥ ११।२१५ ॥
View Verse
ग्रामस्योत्तरपार्श्वे वा कल्पयेदास्पदं क्रमात् ।
नदीतीरे तटाकस्य तीरे वा मुनिसत्तम ॥ ११।२१६ ॥
View Verse
यजमानेच्छया कल्प्यो प्रासादो विधिवत् क्रमात् ।
तद्ब्राह्मे दैविके वापि कारयेत् कमलासनम् ॥ ११।२१७ ॥
View Verse
षङ्बेरं वा त्रिबेरं वा स्थापयेत्तु विधानतः ।
सम्पूजयेत्ततो भक्त्या वैष्णवैर्वेदपारगैः ॥ ११।२१८ ॥
View Verse
पञ्चरात्रसमायुक्तैरूहापोहसमर्थकैः ।
स्वतन्त्रेणैव वा तत्र ब्रह्मसूक्तेन वा मुने ॥ ११।२१९ ॥
View Verse
पुरुष(नर?)सूक्तेन वा ब्रह्मन् पूजयेत्तु विधानतः ।
एवं सम्पूजयेत्तत्र शेषं साधारणं स्मृतम् ॥ ११।२२० ॥
View Verse
ब्रह्मणो ऽग्रे विमाने च हंसं तस्य पदे मुने ।
कारयेद्वाहनार्थं वा यथाकामं विचित्रितम् ॥ ११।२२१ ॥
View Verse
गर्भागारे प्रवक्ष्यामि परिवारविशेषकम् ।
पैशाचे द्वारदेशे च शृणु गुह्यमनुत्तमम् ॥ ११।२२२ ॥
View Verse
कपिलः काश्यपो दक्षो दक्षिणं पक्षमाश्रितः ।
रुद्रो वह्निर्मरुच्चापि वामपार्श्वं समाश्रिताः ॥ ११।२२३ ॥
View Verse
भृगुश्च नारदश्चापि विमानद्वारपालकौ ।
चन्द्रादित्यौ मुनिश्रेष्ठ द्वितीयद्वारपालकौ ॥ ११।२२४ ॥
View Verse
शङ्खपद्मनिधी चैव तृतीयद्वारपालकौ ।
तत्पूजा मुनिशार्दूल यज्ञस्वाध्यायकर्मकृत् ॥ ११।२२५ ॥
View Verse
ब्रह्मऋद्धिकरं पुंसां सर्वसम्पत्सुखावहम् ।
सर्वदुःखविनाशं तत् राजराष्टविवृद्धिदम् ॥ ११।२२६ ॥
View Verse
तस्मात्सर्वप्रयत्नेन विधिं विधिवदर्चयेत् ।
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं स्मृतम् ॥ ११।२२७ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं स्वतन्त्रार्चाविधानकम् ।
ब्रह्मणो मुनिशार्दूल दामोदरमथो शृणु ॥ ११।२२८ ॥
View Verse
नीलजीमूतसङ्काशं पीतवस्त्रं चतुर्भुजम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।२२९ ॥
View Verse
सर्वालङ्कारसंयुक्तं श्रीवत्साङ्कितवक्षसम् ।
शङ्खचक्रगदापाणिं वनमालाविराजितम् ॥ ११।२३० ॥
View Verse
एवं ध्यायेत् स्वरूपं तु दोमोदरमनामयम् ।
प्रथमे ऽस्य करे शङ्ख अधस्तात् पद्ममेव हि ॥ ११।२३१ ॥
View Verse
वामे चैव गदा तस्य ह्यधस्ताच्चक्रमेव हि ।
अनिरुद्धस्य भेदो ऽयं दामोदर इति स्मृतः ॥ ११।२३२ ॥
View Verse
चतसृणां च मूर्तीनां भेदाः सम्परिकीर्तिताः ।
आदिमूर्ति प्रतिष्ठाख्या नित्यमर्चा युगे युगे ॥ ११।२३३ ॥
View Verse
त्रेतायां तु द्वितीया तु तृतीया द्वापरे तथा ।
कलौ युगे ऽनिरुद्धस्तु सर्वे सर्वेषु वा पुनः ॥ ११।२३४ ॥
View Verse
परमेष्ठ्यादिमन्त्रैस्तु स्थापयेत्तु यथाक्रमम् ।
एवं द्वादशमूर्तीनां लक्षणं परिपठ्यते ॥ ११।२३५ ॥
View Verse
किंशुकारं(?) समप्रख्यं त्रिणेत्रं भीमरूपिणम् ।
सहस्रं वा तदर्धं वा ह्यष्टोत्तरशतं तु वा ॥ ११।२३६ ॥
View Verse
अथ वाष्टभुजं वापि कारयेत्सुमनोरमम् ।
पीताम्बरसमायुक्तं सर्वाभरणभूषितम् ॥ ११।२३७ ॥
View Verse
सर्वालङ्कारसंयुक्तं सर्वप्रहरणान्वितम् ।
एवं रूपं तु सञ्चिन्त्य विश्वरूपमयं हरिम् ॥ ११।२३८ ॥
View Verse
दक्षिणोर्ध्वकरे चक्रं मुसलं चापरे भुजे(करे?) ।
तस्याधरे तु पाशःस्यात् अङ्कुशं चापरे न्यसेत् ॥ ११।२३९ ॥
View Verse
चक्रं वामाधरे हस्ते तस्योर्ध्वे लकुटं न्यसेत् ।
लकुटस्योर्ध्वहस्ते तु शङ्खं गोक्षीरसन्निभम् ॥ ११।२४० ॥
View Verse
शङ्खोर्ध्वे सशरं चापमेवं प्रहरणं न्यसेत् ।
शेषाण्यस्त्राणि सर्वाणि यथाकामं न्यसेत् करे ॥ ११।२४१ ॥
View Verse
विश्वरूपस्य सम्प्रोक्तं लक्षणं जयवृद्धिदम् ।
शुद्धस्फटिकसङ्काशं त्रिपादं सप्तहस्तकम् ॥ ११।२४२ ॥
View Verse
वेदशृङ्गं द्विवदनं त्रिणेत्रं पीतवाससम् ।
शङ्खचक्रगदापाणिं सर्वाभरणभूषितम् ॥ ११।२४३ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वालङ्कारशोभितम् ।
एवं सङ्क्षेपतो प्रोक्तं यज्ञेशं चाघनाशनम् ॥ ११।२४४ ॥
View Verse
दक्षिणे ऽस्य करे चोर्ध्वे चक्रं कालाग्निसन्निभम् ।
लकुटं चापरे न्यस्य वामोर्ध्वे शङ्खमुद्वहन् ॥ ११।२४५ ॥
View Verse
अस्याधरे ऽभयं हस्तं वरदं वा स्मरेन्मुने ।
हविर्भागग्रहीतारं त्रिहस्तेन समाहितम् ॥ ११।२४६ ॥
View Verse
एवं ध्यायेतत्त्रिसन्ध्यायां यज्ञेशं परमं हरिम् ।
त्रिसन्ध्यमेकसन्ध्यं वा यज्ञेशं पूजयेद् द्विजः ॥ ११।२४७ ॥
View Verse
सर्वान् कामानवाप्नोति सर्वयज्ञफलं लभेत् ।
ध्यानेनोत्पद्यमानेन सम्यग्ज्ञानमवाप्यते ॥ ११।२४८ ॥
View Verse
तस्मात्सर्वप्रयत्नेन यज्ञेशं पूजयेद् द्विजः ।
यज्ञेशस्त्वधुना प्रोक्तो वेदमूर्तिमथो शृणु ॥ ११।२४९ ॥
View Verse
श्यामं पर्वतसङ्काशं चतुर्बाहुं किरीटिनम् ।
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ॥ ११।२५० ॥
View Verse
शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम् ।
पीताम्बरसमायुक्तं सर्वापलङ्कारसंयुतम् ॥ ११।२५१ ॥
View Verse
सर्ववेदमयं सूक्ष्मं गुह्याद्गुह्यमनुत्तमम् ।
वेदमूर्तिर्मया प्रोक्ता हेतिन्यासमथो शृणु ॥ ११।२५२ ॥
View Verse
अस्य दक्षिणहस्तोर्ध्वे चक्रं कालानलप्रभम् ।
चापं चाधरहस्ते तु विन्यसेत्तु महामुने ॥ ११।२५३ ॥
View Verse
सव्यपार्श्वोर्ध्वहस्ते तु पाञ्चजन्यमधो गदाम् ।
एवं चायुधविन्यासं श्रियादीनामथ शृणु ॥ ११।२५४ ॥
View Verse
तप्तजाम्बूनदमयीं चतुर्हस्तसमन्विताम् ।
सर्वावयवसम्पूर्णां सर्वाभरणभूषिताम् ॥ ११।२५५ ॥
View Verse
सर्वशक्तिसमोपेतां मकुटादिविराजिताम् ।
सर्वालङ्कारसंयुक्तां सर्वरत्नविराजिताम् ॥ ११।२५६ ॥
View Verse
रक्तपद्मधरां देवीं रक्ताम्बरसमन्विताम् ।
पद्मासनसमायुक्तां साक्षाद्देवीं हरिप्रियाम् ॥ ११।२५७ ॥
View Verse
सर्वालङ्कारसंयुक्तां सर्वरत्नविराजिताम् ।
शङ्खचक्राम्बुजधरां लक्ष्मीमेवं तु चिन्तयेत् ॥ ११।२५८ ॥
View Verse
दक्षिणोर्ध्वकरे चक्रमधः पद्मं विराजितम् ।
वामे शङ्खमधः पद्मं वरदं वाभयं तु वा ॥ ११।२५९ ॥
View Verse
एवं ध्यायेन्मुनिश्रेष्ठ स्वतन्त्रार्चाविधानके ।
परतन्त्रे तु वक्ष्यामि लक्षणं पुष्टिसंयुतम् ॥ ११।२६० ॥
View Verse
शङ्खचक्रं व्यपोह्यैव श्रियं पुष्टिं तु कल्पयेत् ।
द्विभुजां कनकाभासां श्रियं विन्यस्य दक्षिणे ॥ ११।२६१ ॥
View Verse
पुष्टिं वामे न्यसेत्तस्याः लक्षणं शृणु नारद ।
दूर्वाश्यामां सुरक्तां वा द्विभुजां पङ्कजाननाम् ॥ ११।२६२ ॥
View Verse
सर्वावयवसम्पूर्णां मकुटादिविराजिताम् ।
रक्तपद्मोर्ध्वगां देवीं सर्वाभरणभूषिताम् ॥ ११।२६३ ॥
View Verse
दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम् ।
रक्तपद्मकरां देवीं ध्यायेत् पुष्टिं हरिप्रियाम् ॥ ११।२६४ ॥
View Verse
एवं ध्यात्वा मुनिश्रेष्ठ कारयेत् सुमनोरमाम् ।
एवं पुष्टिं तु सञ्चिन्त्य सर्वदुःखाघनाशिनीम् ॥ ११।२६५ ॥
View Verse
मेधामूर्तिमथो वक्ष्ये सर्वविद्याप्रदायिनीम् ।
रक्तपद्मदलप्रख्यां पद्मासनगतां शुभाम् ॥ ११।२६६ ॥
View Verse
सर्वलक्षणसम्पन्नां सर्वाभरणभूषिताम् ।
द्विभुजां द्विदृशां(शं?) देवीं मेधां मकुटधारिणीम् ॥ ११।२६७ ॥
View Verse
मेधा चैव मया प्रोक्ता वाग्देवीमधुना शृणु ।
शुद्धस्फटिकसङ्काशां श्वेतपद्मगतां शुभाम् ॥ ११।२६८ ॥
View Verse
पद्मासनसमोपेतां चतुर्हस्तसमन्विताम् ।
श्वेताम्बरसमायुक्तां मुक्ताभरणभूषिताम् ॥ ११।२६९ ॥
View Verse
त्रिदृशां(शं?)द्विदृशां(शं?) वापि ह्यक्षमालाधरां शुभाम् ।
व्याख्यानपुस्तकायुक्तां वाग्देवीं मकुटान्विताम् ॥ ११।२७० ॥
View Verse
एवं सरस्वतीं ध्यायेत् सर्वदेवीमयीं पराम् ।
परतन्त्रविधानं चेत् प्रवक्ष्यामि सरस्वतीम् ॥ ११।२७१ ॥
View Verse
सर्वलक्षणसम्पन्नां सर्वावयवशाभिताम् ।
सर्वाभरणसंयुक्तां द्विभुजां द्विदृशां(शं?) पराम् ॥ ११।२७२ ॥
View Verse
विशेषश्चात्र सम्प्रोक्तः शेषं पूर्ववदाचरेत् ।
इत्येवं परतन्त्रे तु लक्षणं परिपठ्यते ॥ ११।२७३ ॥
View Verse
गणनावलयं चोर्ध्वे वामस्योर्ध्वे कमण्डलुम् ।
पुस्तकं चाधरे हस्ते सर्वविद्यार्णवामृतम् ॥ ११।२७४ ॥
View Verse
प्रतिपादनमुद्रां च दक्षिणाधरहस्तके ।
परतन्त्रे मुनिश्रेष्ट पद्महस्तां शुभाननाम् ॥ ११।२७५ ॥
View Verse
अङ्घ्रिपार्श्वेंऽशुकं गृह्य एवं वाणीं प्रकल्पयेत् ।
एवं सङ्क्षेपतः प्रोक्तं दुर्गामूर्तिमथो शृणु ॥ ११।२७६ ॥
View Verse
श्यामाद्रिशिखराकारां त्रिणेत्रां पङ्कजाननाम् ।
द्विनेत्रां वा मुनिश्रेष्ठ चतुर्हस्ताष्टकं तु वा ॥ ११।२७७ ॥
View Verse
सर्वावयवसम्पूर्णां मकुटादिविराजिताम् ।
शङ्खचक्राभयभुजां(करां?)पद्मस्योपरि संस्थिताम् ॥ ११।२७८ ॥
View Verse
दुर्गां चैवं मया प्रोक्तां हेतिन्यासमथो शृणु ।
दक्षिणोर्ध्वकरे चक्रमभयं चापरे करे ॥ ११।२७९ ॥
View Verse
वामोर्ध्वे कम्बु विन्यस्य ह्यधस्तात् कटिहस्तकम् ।
एवं चतुर्भुजे प्रोक्त अष्टहस्ते त्वथो शृणु ॥ ११।२८० ॥
View Verse
तस्य दक्षिणहस्तोर्ध्वे चक्रं कालाग्निसन्निभम् ।
अस्याधरे तु शङ्खः स्यात् खङ्गं चाधरदोष्णि तु ॥ ११।२८१ ॥
View Verse
स(त्रि?) शूलं विद्रुमप्रख्यं विन्यसेदपरे शुभे(करे?) ।
एवं दक्षिणपार्श्वे तु प्रोक्तं वामे त्वथ शृणु ॥ ११।२८२ ॥
View Verse
चापो वामोर्ध्वहस्ते स्यात् ह्यधस्ताच्छङ्ख एव तु ।
परिघोप्यधरे हस्ते गदा चैवापरे करे ॥ ११।२८३ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तां महिषान्तकरी शुभा ।
अत्र कश्चिद्विशेषो ऽस्ति दुर्गापूजाविधिक्रमे ॥ ११।२८४ ॥
View Verse
संहितां तु करे गृह्य पूजयेद्विधिचोदितम् ।
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं स्मृतम् ॥ ११।२८५ ॥
View Verse
विघ्नेशं वैष्णवं वक्ष्ये सर्वविघ्नोपनाशनम् ।
उत्पत्तिलक्षणं चास्य सङ्क्षेपाच्छृणु नारद ॥ ११।२८६ ॥
View Verse
नारायणांशकं साक्षादाकाशात्मकमव्ययम् ।
हस्तिवक्त्रसमायुक्तं लीलयाग्नौ समुद्भवम् ॥ ११।२८७ ॥
View Verse
दुष्टप्रध्वंसनार्थाय यागाग्नौ परमं हरिम(?) ।
अतस्तल्लक्षणं वक्ष्ये विविक्तेन शृणु क्रमात् ॥ ११।२८८ ॥
View Verse
श्वेतं कृष्णं तथा श्यामं रक्तं वा मुनिसत्तम ।
सञ्ज्ञात्वा लक्षणोपेतं कारयेद्धस्तिवक्त्रकम् ॥ ११।२८९ ॥
View Verse
सर्वावयवसम्पूर्णं सर्वाभरणभूषितम् ।
चतुर्बाहुं द्विनेत्रं च त्रिणेत्रं वात्र कारयेत् ॥ ११।२९० ॥
View Verse
नागयज्ञोपवीताङ्गं श्वेताम्बरसमन्वितम् ।
शङ्खचक्रसमायुक्तं वरदं रशनाङ्कुशम्(?) ॥ ११।२९१ ॥
View Verse
विन्यसेन्मुनिशार्दूल कर्तुरिच्छावशात् क्रमात् ।
कारयेद्यागविघ्नस्य नाशार्थं विघ्ननायकम् ॥ ११।२९२ ॥
View Verse
दक्षिणे ऽस्य न्यसेच्चक्रमभयं त्वपरे भुजे(करे?) ।
वामे शङ्खं न्यसेदूर्ध्वे ह्यधस्ताल्लकुटं न्यसेत् ॥ ११।२९३ ॥
View Verse
एवं चक्रादिसम्प्रोक्तमपरं चाधुना शृणु ।
दक्षिणे परशुं न्यस्य ह्यधः पाशाङ्कुशं न्यसेत् ॥ ११।२९४ ॥
View Verse
अक्षमालां न्यसेद्वामे पाशं चाधरदोषणि ।
विन्यसेन्मुनिशार्दूल हस्तिवक्त्राग्रके फलम् ॥ ११।२९५ ॥
View Verse
द्विप्रकारं मया प्रोक्तं विघ्नेशायुधकं भवेत् ।
विन्यसेन्मुनिशार्दूल साधकेच्छानुरूपतः ॥ ११।२९६ ॥
View Verse
स्वतन्त्रे परतन्त्रे च रूपमेवं तु चिन्तयेत् ।
आखुस्तद्वाहनं प्रोक्तं गरुडं वाग्रतः स्मरेत् ॥ ११।२९७ ॥
View Verse
नारायणांशकत्वाच्च प्रोक्तस्तत्र खगेश्वरः ।
गणानां तु त्र्यृचा तत्र विघ्नेशं योर्ऽचयेद् द्विजः ॥ ११।२९८ ॥
View Verse
सर्वान् कामानवाप्नोति राज्ञस्तु विजयो भवेत् ।
अत्र कश्चिद्विशेषो ऽस्ति शृणु त्वं मुनिपुङ्गव ॥ ११।२९९ ॥
View Verse
विमानलक्षणं चैव प्रतिमाद्रव्यमेव च ।
प्रतिमालक्षणं चैव परिवारस्य लक्षणम् ॥ ११।३०० ॥
View Verse
पूजनादीनि सर्वाणि मूर्तीनां मुनिपुङ्गव ।
साधारणक्रमं ज्ञात्वा आदिमूर्तिवदाचरेत् ॥ ११।३०१ ॥
View Verse
परमात्मादिमूर्तीनां विघ्नेशान्तं महामुने ।
स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया ॥ ११।३०२ ॥
View Verse
वामनं विघ्नराजं च स्वतन्त्रं चेन्मुनीश्वर ।
श् एकबेरं तु संस्थाप्य पूजयेत्तु दिने दिने ॥ ११।३०३ ॥
View Verse
षङ्बेरं वा त्रिबेरं वा संस्थाप्य विधिना मुने ।
नेष्यन्ते ऽत्र श्रियादीनि शक्तिस्थापनकं परम् ॥ ११।३०४ ॥
View Verse
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं भवेत् ।
लक्ष्मीं पुष्टिं च वाग्देवीं मेधां दुर्गां च तत्र वै(?) ॥ ११।३०५ ॥
View Verse
स्वतन्त्रे परतन्त्रे च पूजयेत् स्वस्वविद्यया ।
विशेषश्चात्र सम्प्रोक्तः पूजाभेदमतः शृणु ॥ ११।३०६ ॥
View Verse
मूर्तीनां तु प्रवक्ष्यामि प्रासादादीनि पूर्ववत् ।
परमात्मादिमूर्तीनां पूजाभेदविशेषकम् ॥ ११।३०७ ॥
View Verse
शयने सति मूलार्चा कर्मार्चा चासनं भवेत् ।
स्थानकं वापि कुर्वीत तद्बेरं तु चतुर्भुजम् ॥ ११।३०८ ॥
View Verse
बलिबेरं तथा कुर्यादुत्सवे(वं?) स्नपने(नं?) तथा ।
स्थानकस्यैवमेव स्यात् यानकं वापि कारयेत् ॥ ११।३०९ ॥
View Verse
आसीने तु महाबेरे सर्वमासीनमेव वा ।
स्थानकं वापि कुर्वीत सर्वमेवं चतुर्भुजम् ॥ ११।३१० ॥
View Verse
मत्स्यादिदशमूर्तीनां पूजाबिम्बं चतुर्भुजम् ।
मूलबेरे तु यत्(यथा?) प्रोक्तं तथैव मुनिसत्तम ॥ ११।३११ ॥
View Verse
अवतारे ऽथ वा कुर्यादर्चनाबेरमत्र वै ।
अत्र कश्चिद्विशेषो ऽस्ति मत्स्यादीनां तु नारद ॥ ११।३१२ ॥
View Verse
प्रवक्ष्यामि मुनिश्रेष्ठ शृणु मत्स्यादिकान् क्रमात् ।
बहिरावरणे कुर्यात् अवतारालयं बुधः ॥ ११।३१३ ॥
View Verse
मण्डपे गोपुरे वापि प्राकारे वा स्वतन्त्रके ।
सर्वकामप्रदं पुण्यमायुरारोग्यवर्धनम् ॥ ११।३१४ ॥
View Verse
जयलक्ष्मीविवृद्ध्यर्थं स्वतन्त्रपरतन्त्रयोः ।
अवतारार्चनफलं लोकेषु परिपठ्यते ॥ ११।३१५ ॥
View Verse
पर्वते वा वने वापि ग्रामे वा नगरे ऽपि वा ।
कारयेल्लक्षणोपेतान् यथावत्तत्क्रमान्मुने ॥ ११।३१६ ॥
View Verse
स्वतन्त्रेणैव वा चास्मिन् परतन्त्रेण वा मुने ।
कारयेत् प्रतिमां तत्र पूर्वोक्तद्रव्यसंयुतम् ॥ ११।३१७ ॥
View Verse
संस्थाप्य विधिवत्तेषां(त्ताश्च?) पूजयेत्तु दिने दिने ।
स्वतन्त्रार्चाविधाने तु मूर्तिभेदविधिं शृणु ॥ ११।३१८ ॥
View Verse
बलिबिम्बोत्सवादींश्च वासुदेवादिकान् नयेत् (न्यसेत्?) ।
मूलमूर्त्यनुसारं तु न कुर्याद्वावतारके ॥ ११।३१९ ॥
View Verse
यजमानेच्छया चास्मिन् यथाकामं समाचरेत् ।
परिवाराणि सर्वाणि पूर्ववत् क्रमयोगतः ॥ ११।३२० ॥
View Verse
कल्पयेदवताराणं स्वतन्त्रार्चाविधानके ।
द्वाराद्यावरणान् सर्वान् कुर्याच्चैव स्वतन्त्रके ॥ ११।३२१ ॥
View Verse
युक्त्या युक्तिविशेषेण क्रियते(कुर्याद्वै?) चात्र बुद्धिमान् ।
एवमुक्तप्रकारेण प्रतिमां कुरुते यदि ॥ ११।३२२ ॥
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [वर्णायुधविन्यासविधिर्नाम] एकादेशो ऽध्यायः
View Verse

Chapter - 12

द्वादशो ऽध्यायः
विष्वक्सेनः---
शृणु देवमुनिश्रेष्ठ मन्त्रानुक्रमणं परम् ।
सोद्धारणं ऋषिश्छन्दो दैवं वर्णादिमेव च ॥ १२।१ ॥
View Verse
सङ्क्षेपेण प्रवक्ष्यामि यथामति महामुने ।
अन्यं तथागताद्यं स्यादग्निमायुधसंहृतिः ॥ १२।२ ॥
View Verse
परमात्मा द्वितीयं तु तृतीयं वासुदेवकम् ।
सङ्कर्षणं ततो मन्त्रं प्रद्युम्नस्य तथैव च ॥ १२।३ ॥
View Verse
अनिरुद्धस्य विद्या च मत्स्यमन्त्रमनन्तरम् ।
कूर्मविद्या ततः क्रोडं दशमं नारसिंहकम् ॥ १२।४ ॥
View Verse
पश्चाद्वामनमन्त्रं च जामदग्न्यमतः परम् ।
विद्या दाशरथेरूर्ध्वं बलराममनन्तरम् ॥ १२।५ ॥
View Verse
कृष्णं च कल्कीविष्णोश्च केशवस्य पुनः पुनः ।
नारायणस्य विद्यां तां माधवस्य पुनः क्रमात् ॥ १२।६ ॥
View Verse
गोविन्दस्यापि विष्णोश्च मधुसूदनविद्यया ।
त्रैविक्रमं वामनं च श्रीधराख्यमथो मुने ॥ १२।७ ॥
View Verse
हृषीकेशं च मन्त्रं च पद्मनाभमतः परम् ।
ब्रह्ममन्त्रं तथा चैव दामोदरमनुक्रमात् ॥ १२।८ ॥
View Verse
विश्वरूपस्य मन्त्रं च यज्ञमूर्तेरतः परम् ।
वेदमूर्तेरथो मुद्रामन्त्रं श्रीमन्त्रमेव च ॥ १२।९ ॥
View Verse
पुष्टिविद्या तथा मेधाविद्या सरस्वती तथा ।
दुर्गाविघ्नेशयोश्चापि विद्या या परमेष्ठिनः ॥ १२।१० ॥
View Verse
पुरुषस्य च विद्या च विश्वमन्त्रमतः परम् ।
निवृत्तिसर्वैश्वर्ययोर्मन्त्रं मन्त्रविदां वर ॥ १२।११ ॥
View Verse
यथोक्तमुद्धरिष्यामि भक्तानां हितकाम्यया ।
मन्त्रोद्धारं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ १२।१२ ॥
View Verse
शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
विष्णुपञ्चकमुद्धृत्य भानुमन्तमतः परम् ॥ १२।१३ ॥
View Verse
यजुषामान्तलान्तं च सान्तमान्तेन योजयेत् ।
प्रणवेन पुटीकृत्य द्वितीयं बिन्दुना युतम् ॥ १२।१४ ॥
View Verse
नमसा भगवानेकादशयुक्तं परः परम् ।
णान्तमान्तात्मने विश्वेशान्तणान्तं सलान्तकम् ॥ १२।१५ ॥
View Verse
एकादशद्वितीयेन वासुदेवात् समुद्धरेत् ।
सेनायुताद्यलान्तेन यनाङ्घ्रिमनेर्युताम् ॥ १२।१६ ॥
View Verse
मन्त्राद्यामुद्धरेद्विद्वान् गुह्यं गुह्यार्थसाधकम् ।
आद्यन्तं प्रणवं कृत्वा नमः शब्दमनन्तरम् ॥ १२।१७ ॥
View Verse
प्रथमान्तं तथा मादि मकारान्तं कलान्तकम् ।
तुरीयादि सहैहारं सचूडामणिषान्तकम् ॥ १२।१८ ॥
View Verse
वर्गादिमन्यकारेण शान्तणोनन्तरं तथा ।
मान्तमान्तं तथाकारमुद्धरेत् साधकोत्तमः ॥ १२।१९ ॥
View Verse
अमित्याद्युपरतं मे कुर्यान्नमः शब्दमनन्तरम् ।
भगवन्तं चतुर्थ्यन्तं पञ्चमानिलमातियुक् ॥ १२।२० ॥
View Verse
चतुर्थस्य तृतीयेन वायुपञ्चमभेदितम् ।
पञ्चमान्तं चतुर्थ्यन्तं द्विकलं वायुमादिना ॥ १२।२१ ॥
View Verse
सविसर्गमकारं च प्रणवं च नमस्तथा ।
पञ्चमं च चतुर्थं च प्रथमस्य तृतीयकम् ॥ १२।२२ ॥
View Verse
लान्तं तु तुर्यपूर्वा च स्वरैकादशसंयुतम् ।
विष्णुं च तुर्यवर्गान्तं तृतीयं स्वरभूषितम् ॥ १२।२३ ॥
View Verse
पञ्चमस्वरयुक्त्या तु तुरीयं त्रिचतुर्थकम् ।
आन्तान्तमनिलं पश्चात् षोडशस्वरमुद्धरेत् ॥ १२।२४ ॥
View Verse
अनिलादिमथाद्धृत्यानलमौकारमेव च ।
पिबन्तं तु नमः शब्दं स्वैः पूर्वैः समस्वरम् ॥ १२।२५ ॥
View Verse
कान्तान्तलान्ततेवी च यषथादिचतुर्थकम् ।
एकादशं द्वितीयेन लान्तं पञ्चमयोजितम् ॥ १२।२६ ॥
View Verse
वान्तदेवायमत्पूर्वं षान्तवायुं तथायकः ।
ततो वायुं च रूपाय मन्त्रादींश्च ततोद्धरेत् ॥ १२।२७ ॥
View Verse
द्वितीयं बिन्दुशीर्षेण लान्तो नाथोपरि न्यसेत् ।
नमसा भगवच्छब्दं विष्णुशब्दं च पूर्ववत् ॥ १२।२८ ॥
View Verse
षट्शिखं कं च वह्निं च मकारेणाथ कूर्परम् ।
षष्ठस्वरं च पान्तेयमुद्धरेन्मन्त्रवित्तमः ॥ १२।२९ ॥
View Verse
निकामादिबकारान्तं षष्ठस्वरविभूषितम् ।
सविसर्गं नमः शब्दं भगवच्छब्दमुद्धरेत् ॥ १२।३० ॥
View Verse
एकारान्तं शकारादि मकारान्तं च यान्तकम् ।
सान्तं द्वितीयसंयुक्तं वायुमान्तं च भूरिति ॥ १२।३१ ॥
View Verse
आन्तायं मुखमुद्धृत्य लान्तं बिन्दुचतुर्दशैः ।
यथामतौ तथान्तेपि नमो भगवते तथा ॥ १२।३२ ॥
View Verse
प्रथमेन तु यान्तानि वियदादीनि बिन्दुयुक् ।
द्वितीयेन वियच्चापि वायुसादिमथो ऽम्बरे ॥ १२।३३ ॥
View Verse
अनलादि तुरीयान्तं बिन्दुनादविभूषितम् ।
त्रयोदशान्तं स्वान्तादि वान्तं गवमतः परम् ॥ १२।३४ ॥
View Verse
एकादशे च णान्तं च णान्तं शान्तं च वै परम् ।
एकादशद्वितीयेन लान्तं भान्तमनन्तरम् ॥ १२।३५ ॥
View Verse
नान्तं मान्तं समुद्धृत्य चरमे प्रथमं लिखेत् ।
मन्त्रस्यास्य मुनिश्रेष्ठ जामदग्न्यमथो शृणु ॥ १२।३६ ॥
View Verse
यान्तमीश्वरबिन्दू च आदावन्ते नमस्तथा ।
भगवद्विष्णुशब्दौ च तुर्यान्तौ[तु]पुनः पुनः ॥ १२।३७ ॥
View Verse
वान्तं भूतलकायुक्तमनलं भास्करं तथा ।
द्वितीयया प्रथमया कलया वायुमुद्धरेत् ॥ १२।३८ ॥
View Verse
पञ्चमान्तेन सहितं रान्तं समणियोजितम् ।
पादे च शिखरे चैव नमश्च सकलं तथा ॥ १२।३९ ॥
View Verse
लोकाय श्रिया राममनिलानललान्तकान् ।
प्रथमद्वितीयवाद्येन णान्तं कान्तयकं तथा ॥ १२।४० ॥
View Verse
रक्षात्मजायां सर्वं च रक्षोघ्नायेत्यनन्तरम् ।
तस्य सन्धाय विश्वापि शाणान्तेन वे प्रभात् ॥ १२।४१ ॥
View Verse
परतो विषताङ्घ्रश्च सहैकादशकलं तथा ।
लान्तं न्यसेन्मुनिश्रेष्ठ बलविद्योद्धृतिं शृणु ॥ १२।४२ ॥
View Verse
ॐ पदं प्रथमं कृत्वा विधाय तच्छ्रिया पुनः ।
वाभ्रं तयादावन्ते च नमो भगवते पुनः ॥ १२।४३ ॥
View Verse
गानाद्यं तु नाद्येन वहिमानं च वायुयुक् ।
उद्धरेत् कृष्णविद्याया संशृणुतः परम् ॥ १२।४४ ॥
View Verse
ॐ आं ॐ नमो भगवते परमात्मने विष्णवे वासुदेवाय सर्वात्मने ॐ ॐ ।
अं ॐ नमो भगवते वासुदेवाय । १२।४४,३ ।
View Verse
ॐ आं ॐ नमो भगवते सङ्कर्षणाय। आं ॐ । १२।४४,४ ।
View Verse
ॐ नमो भगवते प्रद्युम्नाय । १२।४४,५ ।
View Verse
आं ॐ ॐ नमो भगवते अनिरुद्धाय । १२।४४,६ ।
अं ॐ कैं नमो भगवते वासुदेवाय मत्स्याय मत्स्य---
रूपाय क्रेन्द ॐ । १२।४४,७ ।
View Verse
ॐ नमो भगवते विष्णवे कूर्मरूपाय वां ॐ । १२।४४,८ ।
View Verse
ॐ नमो भगवते वराहाय । १२।४४,९ ।
View Verse
ॐ क्षैं नमो भगवते नारसिंहाय क्षैं ॐ । १२।४४,१० ।
View Verse
ॐ ईषिनमो भगवते वामनाय धी ॐ । १२।४४,११ ।
View Verse
रिं नमो भगवते विष्णवे परशुरामाय रीं ॐ । १२।४४,१२ ।
View Verse
ॐ लूं नामः सकललोकाय श्रीरामाय रावणान्तकाय दशरथात्मजाय सर्वरक्षोघ्नायय सत्यसन्धाय विष्णवे प्रभविष्णवे । १२।४४,१३ ।
View Verse
ॐ ह्रीं नमो भगवते बलीरामाय ह्रीं ॐ । १२।४४,१४ ।
View Verse
ॐ कृतं नमो भगवते विष्णवे वासुदेवाय देवकीपुत्राय कुं ॐ।
त्रायकं ॐ । १२।४४,१५ ।
View Verse
ॐ गैं नमः पुरुषोत्तमा विष्णवे वासुदेवाय कल्की---
विष्णवे नमः ह्रां ॐ । १२।४४,१६ ।
View Verse
ॐ ॐ नमो भगवते केशवाय। आं ॐ । १२।४४,१७ ।
View Verse
ॐ नमो भगवते नारायणाय ॐ । १२।४४,१८ ।
View Verse
ॐ नमः पुरुषाय माधवाय विष्णवे वासुदेवाय क्षुं ॐ । १२।४४,१९ ।
View Verse
आं ॐ नमो भगवते गोविन्दाय आं ॐ । १२।४४,२० ।
View Verse
नमो भगवते विष्णवे भूं ॐ । १२।४४,२१ ।
View Verse
आं ॐ नमो भगवते मधुसूदनाय आं ॐ । १२।४४,२२ ।
View Verse
ॐ अं नमो भगवते॥।देवाय इतीद उपरिव्रताय त्रिविक्रमाय अं नम ॐ । १२।४४,२३ ।
View Verse
ॐ अं नमो भगवते विष्णवे वामनाय अं ॐ । १२।४४,२४ ।
View Verse
ॐ अं भगवते विष्णवे वासुदेवाय श्रीधराय अं ॐ । १२।४४,२५ ।
View Verse
ॐ अः ॐ नमो भगवते विष्णवे हृषीकेशाय अं ॐ । १२।४४,२६ ।
View Verse
ॐ नमो भगवते विष्णवे पद्मनाभाय पद्महस्ताय ॐ आम् । १२।४४,२७ ।
View Verse
अः ॐ नमो भगवते दामोदराय अं ॐ । १२।४४,२८ ।
View Verse
ॐ तत्सत् नमो ब्रह्मणे तत्स ॐ । १२।४४,२९ ।
View Verse
ॐ खं नमो भगवते विष्णवे वासुदेवाय विश्वरूपाय सर्वाय सर्व अने सर्वभूतव्यवस्थिताय ॐ ।३०।
View Verse
ॐ ॐ नमो भगवते विष्णवे वासुदेवाय यज्ञाय यज्ञनेत्राय यज्ञभोक्त्रे नमो नमः । १२।४४,३१ ।
View Verse
ॐ नमस्त्वनन्ताय सहस्रमूर्तये विष्णवे वासुदेवाय वेदाय मूर्तये नमः। ॐ । १२।४४,३२ ।
View Verse
ॐ नमः सर्वमुद्राभ्यः । १२।४४,३३ ।
View Verse
ॐ कमलवासिन्यै नमः । १२।४४,३४ ।
View Verse
ॐ भुं पुष्ट्यै नमः । १२।४४,३५ ।
View Verse
ॐ ह्रीं मेधायै नमः ह्रीं ॐ । १२।४४,३६ ।
View Verse
ॐ सं सरस्वत्यै नमः सं ॐ । १२।४४,३७ ।
View Verse
ॐ ह्रीं ह्रीं सं ॐ ह्रीं दुर्गायै नमः।
View Verse
ॐ ह्रीं ॐ ह्रीं सन्दे नमः ॐ । १२।४४,३८ ।
View Verse
ॐ गणपतये विघ्ननायकाय नमः ॐ । १२।४४,३९ ।
View Verse
ॐ क्षौं नमः पराय परमेष्ठ्यात्मने नमः । १२।४४,४० ।
View Verse
ॐ यां नमः पराय पुरुषात्मेन नमः । १२।४४,४१ ।
View Verse
ॐ रां नमः पराय विश्वात्मेन नमः । १२।४४,४२ ।
View Verse
ॐ वां नमः पराय निवृत्यात्मने नमः । १२।४४,४३ ।
View Verse
ॐ लां नमः पराय सर्वात्मने नमः । १२।४४,४४ ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मन्त्रानुक्रमणविधिर्नाम] द्वादशो ऽध्यायः ॥
View Verse

Chapter - 13

त्रयोदशो ऽध्यायः
विष्वक्सेनः---
मन्त्राणां प्रणवादीनां सर्वविद्याविधानकम् (कान्?) ।
ऋषिछन्दादि(?)वक्ष्यामि सर्वमेव यथातथम् ॥ १३।१ ॥
View Verse
अन्तर्यामी मुनिश्छन्दो देवीगायत्रमेव च ।
परमात्मामरो वर्णः वेदाद्यास्वस्मितं स्मृतः ॥ १३।२ ॥
View Verse
विश्वामित्रमुनिर्विष्णुः देवता परमात्मनः ।
परमात्मैव छन्दस्तु वर्णस्तस्य सितः स्मृतः ॥ १३।३ ॥
View Verse
जामदग्न्यमुनिश्छन्दो वासुदेवश्च देवता ।
अनुष्टुब् वासुदेवस्य सितवर्ण उदाहृतः ॥ १३।४ ॥
View Verse
छन्दो ऽनुष्टुप् भरद्वाजो मुनिः सङ्कर्षणो मतः ।
सङ्कर्षणस्य विद्याया रक्तो वर्ण इहोच्यते ॥ १३।५ ॥
View Verse
प्रद्युम्नस्य मुनिश्छन्दो गौतमः पङ्क्तिरेव च ।
प्रद्युम्नो देवता वर्णः कनकाभ इति स्मृतः ॥ १३।६ ॥
View Verse
अनिरुद्धस्य विद्याया मुनिश्छन्दो ऽत्रिरेव च ।
त्रिष्टुप् देवो ऽनिरुद्धस्तु नीलजीमूतवर्णकः ॥ १३।७ ॥
View Verse
वसिष्ठो मत्स्यमन्त्रस्य छन्दस्तु जगती स्मृता ।
वासुदेवस्तु देवः स्यात् नीलो वर्ण इहोच्यते ॥ १३।८ ॥
View Verse
कूर्मस्य काश्यपं विद्यान्मुनिं च्छन्दो विराजते ।
देवो नारायणः श्यामः विद्याया वर्ण उच्यते ॥ १३।९ ॥
View Verse
अगस्त्यो वाराहविद्याया देवीगायत्रमुच्यते ।
मुनिश्छन्दो ऽमरो विष्णुः श्यामवर्णं निगद्यते ॥ १३।१० ॥
View Verse
नारदो नारसिंहस्य विद्यायास्तु हरिः(?) स्मृतः ।
ऋषिश्छन्दो नृसिंहस्तु देवता सितवर्ण[कः?] ॥ १३।११ ॥
View Verse
॥।मने मङ्कणं विद्यात् ऋषिश्छन्दो मुनिस्तथा (?) ।
मन्त्रे ऽस्मिन् वामनं दैवं अञ्जनं वर्ण उच्यते ॥ १३।१२ ॥
View Verse
भार्गवे भार्गवं विद्यात्॥।दैवस्तु कथ्यते ।
मुनिं तु भार्गवं देवं पीताभो वर्ण उच्यते ॥ १३।१३ ॥
View Verse
वाल्मीकीं रामविद्यायाः निझ्र्चृत्टगायत्रमुच्यते ।
मुनिश्छन्दस्तु देवस्तु परमात्मा पयोनिभः ॥ १३।१४ ॥
View Verse
बृहस्पतिः बलं(ले?) विद्यात् सुप्रतिष्ठामुनिः स्मृतः ।
छन्दस्तु वायुदेवस्य देवः कनकवर्णकः ॥ १३।१५ ॥
View Verse
भृगुः कृष्णस्य विद्याया मुनिश्छन्दस्तु दैवतम् ।
परमात्मा प्रतिष्ठा तु रजतो वर्ण उच्यते ॥ १३।१६ ॥
View Verse
कल्किविष्णोस्तु मुनी यो याज्ञवल्क्यो मुनिःस्मृतः ।
छन्दो देवं तु गायत्रं विष्णोस्ताभ्रस्तु वर्णकम् ॥ १३।१७ ॥
View Verse
शातातपो मुनिः पङ्क्तिश्छन्दः केशवदैवतम् ।
केशवस्य तु विद्याया रीतिका वर्ण उच्यते ॥ १३।१८ ॥
View Verse
नारायणस्य मन्त्रस्य देवीगायत्रमुच्यते ।
अन्तर्यामिनः स्वात्मा वर्णे मरकतो भवेत् ॥ १३।१९ ॥
View Verse
माधवस्य तु संवर्तो माधवो देवता स्मृतः ।
मुनिश्छन्दस्तु जगती वर्णः स्फटिकसन्निभः ॥ १३।२० ॥
View Verse
गोविन्दस्य मुनिर्व्यासो विराट्छन्दश्च दैवतम् ।
गोविन्द एव वर्णस्तु वज्रसन्निभ उच्यते ॥ १३।२१ ॥
View Verse
मुनिः सनत्कुमारः स्याद्विष्णुमन्त्रस्य देवता ।
विष्णुरेव विराट्छन्दः पद्मरागस्तु वर्णकः ॥ १३।२२ ॥
View Verse
मधुसूदनविद्याया मुनिर्दक्षस्तु दैवतम् ।
मधुसूदनस्त्वनुष्ठुप्छन्दो वर्णः प्रवालकः ॥ १३।२३ ॥
View Verse
त्रिविक्रमस्य माणिक्यं(?) संवर्तो मुनिरुच्यते ।
छन्दस्तु बृहती वर्णं(?) देवता तु त्रिविक्रमः ॥ १३।२४ ॥
View Verse
पराशरो वामनस्य मुनिः त्रिष्टुबिति स्मृतम् ।
छन्दस्तु वामनो देवो मुक्ताभो वर्ण उच्यते ॥ १३।२५ ॥
View Verse
श्रीधरस्य मुनिः कण्वः छन्दस्तूष्णिगिझ्र्ती?टष्यते ।
देवता श्रीधरस्तज्ज्ञैः वर्णो वैडूर्यसन्निभः ॥ १३।२६ ॥
View Verse
अङ्गिरास्तु हृषीकेशे मुनिश्च जगती स्मृता ।
छन्दः कौकिशि(?)नीलाभो हृषीकेशस्तु दैवतम् ॥ १३।२७ ॥
View Verse
पद्मनाभस्य तु मुनिः वैशम्पायन उच्यते ।
छन्दः त्रिष्टुबिति ज्ञेयं वर्णो राजतसन्निभः ॥ १३।२८ ॥
View Verse
शुकश्च ब्रह्मविद्याया बृहती मुनिरुच्यते ।
छन्दो ब्रह्माधिदैवं तु वर्ण इन्दुसमप्रभः ॥ १३।२९ ॥
View Verse
दामोदरस्य विद्याया मार्कण्डेयो मुनिर्भवेत् ।
अनुष्टुप् पद्मसङ्काशो वर्णो दामोदरो ऽमरः ॥ १३।३० ॥
View Verse
विश्वरूपस्य वर्णस्तु च्यवनो रविसन्निभः ।
तिसृगायत्रिक(?)च्छन्दो वासुदेवो ऽमरो मुनिः ॥ १३।३१ ॥
View Verse
यज्ञमूर्तेः पुलस्त्यः स्यात् तिस्रः च्छन्दो ऽधिदैवतम् ।
पीतवर्णस्तु विद्याया मुनिः सङ्कर्षणः स्मृतः ॥ १३।३२ ॥
View Verse
ऐतरेयो मुनिर्वेदमूर्तेश्छन्दो विराट् स्मृतम् ।
शातकुम्भनिभो वर्णः प्रद्युम्नो ऽमर उच्यते ॥ १३।३३ ॥
View Verse
पिप्पलादो मुनिर्मुद्राविद्यायाश्छन्द उच्यते ।
प्रतिष्ठा अग्निवर्णः स्यादनिरुद्धो ऽधिदैवतम् ॥ १३।३४ ॥
View Verse
ऋषिर्दक्षो विराट्छन्दः कमला देवता स्मृता ।
वर्णो दीपनिभः पद्मविद्याया मुनिसत्तम ॥ १३।३५ ॥
View Verse
कण्वस्तु पुष्टिविद्यायाः छन्दो गायत्रमिष्यते ।
देवता पुष्टिरुक्ता स्यात् मुनिर्वर्णः सितः स्मृतः ॥ १३।३६ ॥
View Verse
मेधामन्त्रस्य संवर्तमुनिः त्रिष्टुबुदीरितम् ।
छन्दो मेधाधिदेवं तु शङ्खवर्ण इहोच्यते ॥ १३।३७ ॥
View Verse
मैत्रेयस्तु सरस्वत्या विद्याया जगती स्मृता ।
छन्दः सरस्वती दैवं वर्णो गोक्षीरसन्निभः ॥ १३।३८ ॥
View Verse
काश्यपस्तु मुनिश्छन्दः त्रिष्टुब् दुर्गैव दैवतम् ।
वर्णस्तु श्यामलःप्रोक्तः विघ्नेशस्य ततः शृणु ॥ १३।३९ ॥
View Verse
गाणकस्तु मुनिश्छन्दः त्रिष्टुब् गणपतिः स्मृतः ।
देवता धवलो वर्णः विद्याया गणपतेस्तथा ॥ १३।४० ॥
View Verse
आदितः(त्यः?)स्यादृषिः नीलो वर्णः गायत्रमुच्यते ।
सदाविष्णुस्तथा दैवं छन्दस्तु परमेष्ठिनः ॥ १३।४१ ॥
View Verse
पुरुषस्य मुनिः सूतः श्वेतो वर्णश्च दैवतम् ।
वासुदेवस्तथा छन्दो गायत्रमिति कथ्यते ॥ १३।४२ ॥
View Verse
रविर्मुनिः स्याद्विश्वस्य तरुणार्कनिभस्तथा ।
सङ्कर्षणस्तथा दैवं उष्णिक् छन्दो निगद्यते ॥ १३।४३ ॥
View Verse
निवृत्ते राजतो वर्णः प्रद्युम्नो ऽमर उच्यते ।
मुनिस्तथानुमान् छन्दो गायत्रमिति पठ्यते ॥ १३।४४ ॥
View Verse
मार्तण्डः सर्वविद्याया मुनिः ना(नी?)रदवर्णकः ।
उष्णिक् छन्दो ऽनिरुद्धश्च देवतेत्यभिभाष्यते ॥ १३।४५ ॥
View Verse
येषामनुक्तमन्त्रे ऽस्मिन् ऋष्यादि मुनिसत्तम ।
तेषां सामान्यतो विद्यात् ऋषिरादित्य एव च ॥ १३।४६ ॥
View Verse
गायत्रमेव छन्दः स्यात् सदाविष्णुश्च दैवतम् ।
बीजानां बीजवर्णं च छन्दो दैवतमेव च ॥ १३।४७ ॥
View Verse
मुनिं चाजानतार्चायां सा (चेत्?) कृताप्यकृता भवेत् ।
तस्मात् क्रमेण विज्ञाय विद्यादीन् साधकोत्तमः ॥ १३।४८ ॥
View Verse
यथोक्तमर्चयेन्नित्यं लब्धविद्यः शुचिर्मुने ।
अन्यथार्चति यो मोहादघ(-द्धन?)नाशं कुलक्षयम् ॥ १३।४९ ॥
View Verse
कुरुते नृपनाशं च नात्र कार्या विचारणा ।
अतःक्लेशेन विज्ञाय मन्त्रादीनर्चयेद्बुधः ॥ १३।५० ॥
View Verse
विद्यानामतिगुह्यानां सर्वव्रतविवृद्धये ।
अतःपरं प्रवक्ष्यामि सूक्तस्य पुरुषस्य च ॥ १३।५१ ॥
View Verse
अनुष्टुबस्य सूक्तस्य त्रिष्टुबन्तस्य(?)देवता ।
छन्दो मुन्यादि सङ्क्षेपाच्छृणु नारद सत्तम ॥ १३।५२ ॥
View Verse
पुरुषो यो जगद्बीजं ऋषिर्नारायणः स्मृतः ।
उक्तं हि समुदायस्य प्रत्यृचं शृणु नारद ॥ १३।५३ ॥
View Verse
प्रथमस्य मुनिर्वासुदेवो उष्णिक् छन्द उच्यते ।
परमात्मामरो वर्णं शुक्लमित्यभिधीयते ॥ १३।५४ ॥
View Verse
सङ्कर्षणो मुनिश्छन्दो ऽनुष्टुप् देवो ऽस्य मत्स्यकः ।
द्वितीयस्य मुनिश्रेष्ठ वर्णो धूम्र उदाहृतः ॥ १३।५५ ॥
View Verse
तृतीयो देवीगायत्रं छन्दो वर्णःस्मृतोरुणः ।
प्रद्युम्न ऋषिरित्याहुः देवता कूर्म उच्यते ॥ १३।५६ ॥
View Verse
अतिरुद्धस्तुरीयस्य मुनिश्छन्दो विराडिति ।
देवतास्य तु वाराहो नीलो वर्ण उदाहृतः ॥ १३।५७ ॥
View Verse
पञ्चमस्य मुनिश्छन्दः उष्णिक् केशव उच्यते ।
देवता नरसिंहस्तु वर्णो गोक्षीरसन्निभः ॥ १३।५८ ॥
View Verse
नारायणो ऋषिश्छन्दो निचृत्गायत्र उच्यते ।
देवता मान(-ध?)वो विद्यात् षष्ठस्यैव तु धूम्रकः ॥ १३।५९ ॥
View Verse
सप्तमस्य मुनिर्वर्णः माधवो ऽस्य सितःस्मृतः ।
रामं तद्दैवतं विद्यात् उष्णिक् छन्द उदाहृतः ॥ १३।६० ॥
View Verse
गोविन्दश्चाष्टमस्यैव ऋषिश्छन्दोष्णिगेव(?) च ।
दैवं दाशरथी रामो वर्णः कालाग्निसन्निभः ॥ १३।६१ ॥
View Verse
नवमस्य मुनिर्विष्ण१ः बलरामो ऽस्य दैवतम् ।
गायत्रीछन्दसो(?)वर्णः गोक्षीराकृतिरुच्यते ॥ १३।६२ ॥
View Verse
मधुसूदनो मुनिःस्याद्देवीगायत्र उच्यते ।
दशमस्याधिदैवं तत् (तु?) कल्किरग्निनिभो भवेत् ॥ १३।६३ ॥
View Verse
त्रिविक्रमो मुनिश्छन्दो विराडग्निनिभो भवेत् ।
दैवतं विश्वरूपो ऽयं एकान्तं दशमस्य तु ॥ १३।६४ ॥
View Verse
द्वादशस्य मुनिं विद्यात् वामनं वह्निसन्निभम् ।
विराट् छन्दो ऽमरो यज्ञमूर्तिस्तु परिपठ्यते ॥ १३।६५ ॥
View Verse
त्रयोदशस्योष्णिक् छन्दः श्रीधरो मुनिरेव च ।
वैकुण्ठो दैवतं वर्णः तप्तहाटकसन्निभः ॥ १३।६६ ॥
View Verse
चतुर्दशस्य गायत्री देवीपूर्वाञ्जनाकृतिः ।
हृषीकेशो मुनिर्देवो महाविष्णुरिति स्मृतः ॥ १३।६७ ॥
View Verse
पञ्चोत्तरदशस्यैव पद्मनाभो मुनिः स्मृतः ।
वेदमूर्त्यधिदैवं तु उष्णिक्छन्दो सितः स्मृतः ॥ १३।६८ ॥
View Verse
षोडशस्य ऋषिश्चैव दामोदर इति स्मृतः ।
हयग्रीवो महर्षिश्च छन्दो ऽग्निर्देवसन्निभः (?) ॥ १३।६९ ॥
View Verse
एवं पुरुषसूक्तस्य ऋष्यादि परिकीर्तितम् ।
ऋचां ऋषिं च वर्णं च दैवतं छन्द एव च ॥ १३।७० ॥
View Verse
अज्ञानादर्चयेन्मोहात् सुकृतो ऽप्यकृतो भवेत् ।
तस्मात्सर्वप्रयत्नेन ऋष्यादीन् ज्ञापयेत् क्रमात् ॥ १३।७१ ॥
View Verse
अथर्वणस्य सूक्तस्य सृष्ट्यादिप्रतिपादकम् ।
नारायण ऋषिश्छन्दो देवीगायत्रमेव च ॥ १३।७२ ॥
View Verse
परमात्मामरोवर्णः शुक्ल इत्यभिधीयते ।
येषामनुक्तमन्त्रे ऽस्मिन् ऋष्यादि मुनिसत्तम ॥ १३।७३ ॥
View Verse
तेषां सामान्यतो विद्यात् ऋषिर्नारायणः स्मृतः ।
गायत्रमेव छन्दः स्यात् परमात्माधिदैवतम् ॥ १३।७४ ॥
View Verse
पीतो वर्ण ऋचां चैवमेतद्गुह्यं मयोदितम् ।
ऋचामेवमुनक्तानां ऋष्यादि परिकीर्तितम् ॥ १३।७५ ॥
सङ्क्षेपात् कथितं गुह्यं साधकानां हिताय वै ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्मन्त्राणां ऋषिछन्द- देवतादिकथनं नामट त्रयोदशो ऽध्यायः ॥
View Verse

Chapter - 14

चतुर्दशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि चरुपाकविधिं परम् ।
शृणु नारद सर्वज्ञ व्रीहिक्षेत्रादिकान् क्रमात् ॥ १४।१ ॥
View Verse
न चोषरधरायां च चण्डालादिगृहान्तिके ।
न श्मशानान्तिके भूम्यां धान्यसङ्ग्रहणं भवेत् ॥ १४।२ ॥
View Verse
शुभक्षेत्रोद्भवं धान्यं त्र्यहाब्दं (त्र्यब्दं वा?) वत्सरं तु वा ।
षण्मासं वा त्रिमासं वा सम्यक् पर्युषितं शुभम् ॥ १४।३ ॥
View Verse
रक्तशालिं ततो (तु वा?) श्वेतं कृष्णशालिं तथैव च ।
सङ्ग्रहे ऽस्मिन् मुनिश्रेष्ठ तण्डुलं श्वेतमुत्तमम् ॥ १४।४ ॥
View Verse
कुन्देन्दुमुक्तासङ्काशैः तत्कृतैः (?) शालितण्डुलैः ।
पाचयेद्धरिवेश्मस्य (-गेहस्य?) आग्नेय्यां पचनालये ॥ १४।५ ॥
View Verse
मन्त्रज्ञो वंशसम्पन्नः प्रातःस्नानपरायणः ।
हविषां पाकयोग्यस्तु बलवान् कर्मतत्परः ॥ १४।६ ॥
View Verse
मानादि चाधुना वक्ष्ये शृणु गुह्यमनुत्तमम् ।
द्विशतैः पञ्चविंशद्भिः व्रीहिभिश्चैव पूरितम् ॥ १४।७ ॥
View Verse
शुक्तिमात्रमिति ख्यातं मानं तेनैव कल्पयेत् ।
तद्द्वयं तलमित्युक्तं प्रकुब्जं (-ञ्चः?)स्यात्तलद्वयम् ॥ १४।८ ॥
View Verse
तद्द्वयं प्रसृतिः प्रोक्ता कुडुम्बं(-बं?)प्रसृतिद्वयम् ।
अञ्जलिस्तद्द्वयं प्रोक्तं प्रस्थः स्यादञ्जलिद्वयम् ॥ १४।९ ॥
View Verse
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेत् ।
तद्द्वयं शिवमित्युक्तं द्रोणं विद्याच्छिवद्वयम् ॥ १४।१० ॥
View Verse
द्रोणद्वयं भवेत् खारी भारं खारित्रयं भवेत् ।
मानमेवं मया प्रोक्तं पात्रशुद्धिमथो शृणु ॥ १४।११ ॥
View Verse
चरुपात्रद्वयं प्रोक्तं ताम्रं मृण्मयमेव वा ।
ताम्राभावे मुनिश्रेष्ठ मृण्मयं वाथ कारयेत् ॥ १४।१२ ॥
View Verse
दिने दिने नवं गृह्यं साधयेत् साधकोत्तमः ।
पात्राणि च शरावाणि सङ्गृह्य परिचारकः ॥ १४।१३ ॥
View Verse
शुद्धतोयेन सङ्क्षाल्य विष्णुगायत्रिया पुनः ।
प्रोक्षयेद्गन्धतोयेन पञ्चोपनिषदैः क्रमात् ॥ १४।१४ ॥
View Verse
पात्रशुद्धिरिह प्रोक्ता हविःसङ्ख्या(?)प्रचक्षते ।
उत्तमोत्तममित्युक्तमष्टद्रोणैस्तु पूरितम् ॥ १४।१६ ॥
View Verse
षड्द्रोणैस्तण्डुलैःसिद्धं भवेदुत्तममध्यमम् ।
द्रोणहीनं भवेत्तत्र उत्तमाधममुच्यते ॥ १४।१७ ॥
View Verse
मध्यमोत्तममित्युक्तं खारिद्वयसमन्वितम् ।
द्रोणद्वयेन नैवेद्यं भवेन्मध्यममध्यमम् ॥ १४।१८ ॥
View Verse
मध्यमाधममित्युक्तं द्रोणद्वयसमद्वयम् (?) ।
द्रोणं चैव तदर्धं च तस्यार्धमधमत्रयम् ॥ १४।१९ ॥
View Verse
तण्डुलैराढकैर्हीनं नैवेद्यं न प्रकल्पयेत् ।
चरुःप्रस्थद्वयः प्रोक्तः हविराढकमुच्यते ॥ १४।२० ॥
View Verse
तस्मिन् (तत्तु?)श्रियादिदेवीनामाढकं वार्धमेव वा ।
निवेदयेन्मुनिश्रेष्ठ तण्डुलानां विधिं शृणु ॥ १४।२१ ॥
View Verse
द्वितीयावरणे चैव तृतीयावरणे ऽपि वा ।
कुर्याद्धान्यावघातस्य शालामीशानगोचरे ॥ १४।२२ ॥
View Verse
दक्षिणे वाथ वायव्ये नैरृते वान्तरे तथा ।
शालां च भूषयित्वा तु वितानाद्यैर्मनोहरैः ॥ १४।२३ ॥
View Verse
गोमयेन समालिप्य शालिपिष्टैर्विचित्रयेत् ।
ब्राह्मणी तु सुशीला च ब्राह्मण्येन समन्विता ॥ १४।२४ ॥
View Verse
धान्यावघातं तत्रैव कुर्यादाममनुत्तमम् ।
उलूखलादि सम्प्रोक्ष्य हरिरित्युच्चरन् क्रमात् ॥ १४।२५ ॥
View Verse
घातयेत् सर्वधान्यानि पश्चात्तण्डुलमेव च ।
आमं वाप्यथवा पक्वमेवमेव दिने दिने ॥ १४।२६ ॥
View Verse
संस्कृत्य तण्डुलान् सर्वान् सङ्गृह्य प्रणवेन तु ।
निरीक्ष्य तण्डुलान् पश्चात् शर्करादीनि सर्वशः ॥ १४।२७ ॥
View Verse
हरिस्मृत्या क्रमेणैव शुचिर्भूत्वा समहितः (ता?) ।
परार्थे विष्णुपूजायां सच्छूद्रो वैष्णवो मुने ॥ १४।२८ ॥
View Verse
न स्पृशेत् पक्वमामं॥।कुर्याद्यथारुचि ।
तदभावे मुनिश्रेष्ठ वैष्णवानां गृहे गृहे ॥ १४।२९ ॥
View Verse
दिने दिने तु कर्तव्यास्तण्डुलाः शूद्रकैर्विना ।
अस्मिन् (यस्तु?)शुद्रगृहे मोहाल्लेभाद्वा मुनिसत्तम ॥ १४।३० ॥
View Verse
तण्डुलं कुरुते पूजा निष्फला सा भविष्यति ।
सर्वनाशमवाप्नोति तस्माद्यत्नेन वर्जयेत् ॥ १४।३१ ॥
View Verse
स्वार्थार्चने यथाकामं भक्त्या देवाय दापयेत् ।
अभिन्नास्तण्डुला ग्राह्या अखिन्नाश्च तथैव च ॥ १४।३२ ॥
View Verse
अतुषाश्चाप्यपाषाणाः कृमिकीटविवर्जिताः ।
अकणाश्च रजोपेताः पांसुस्पर्शनवर्जिता (?) ॥ १४।३३ ॥
View Verse
अपक्वास्तण्डुलाश्चान्याः न निवेद्याः कथञ्चन ।
पक्वमेव चरुं दद्यात् अपक्वं तु विवर्जयेत् ॥ १४।३४ ॥
View Verse
वर्जितं च चरुं मोहात् निवेदयति चेन्मुने ।
राक्षसाश्च पिशाचाश्च हृष्टा गृह्णान्ति तच्चरुम् ॥ १४।३५ ॥
View Verse
कुप्यते(?)तु हरिश्चापि नात्र कार्या विचारणा ।
तस्मात् सर्वप्रयत्नेन वर्जितं वर्जयेत् सदा ॥ १४।३६ ॥
View Verse
उद्धरेत् सर्वपात्राणि प्रणवेन महामुने ।
पुरा पात्राणि प्रक्षाल्य पूर्वोक्तेन विधानतः ॥ १४।३७ ॥
View Verse
अष्टाक्षरेण मन्त्रेण आज्येनैव तु लेपयेत् ।
स्पृशेच्च तण्डुलान् पश्चात् द्वादशाक्षरविद्यया ॥ १४।३८ ॥
View Verse
क्षिपेद्द्वादशमुष्टिं तु क्रमाद्द्वादशनामभिः ।
नमस्कारान्तसंयुक्तं ध्यात्वा तु हृदये हरिम् ॥ १४।३९ ॥
View Verse
ततश्च चतुरो मुष्टीन् प्रक्षिपेन्मूर्तिनामभिः ।
षड्भिः(?)प्रक्षालनं कृत्वा बीजेन परमेष्ठिना ॥ १४।४० ॥
View Verse
चुल्यामारोपयेत् पश्चाद्बीजेन पुरुषात्मना ।
अग्निं समेधयेत् पश्चाद्विश्वबीजेन साधकः ॥ १४।४१ ॥
View Verse
निवृत्या अभिघार्याथ सर्वेणैवावतारयेत् ।
मूर्तिमन्त्रेण वा सर्वान् मूलमन्त्रेण वा मुने ॥ १४।४२ ॥
View Verse
कारयेन्मुनिशार्दूल नित्ये नैमित्तिके क्रमात् ।
चरुपाकविधाने ऽस्मिन् मन्त्रान् सर्वान महामुने ॥ १४।४३ ॥
View Verse
नमस्कारविहीनेन(-नांस्तु?) योजयेन्मन्त्रवित्तमः ।
हविरादिषु वक्ष्यामि वर्ज्यावर्ज्यविधिं क्रमात् ॥ १४।४४ ॥
View Verse
नीलितं वर्जयेद्धव्यमतिपक्वं तथैव च ।
तथाप्यपाकसम्पूर्णमर्धतण्डुलमेव च ॥ १४।४५ ॥
View Verse
वर्णान्तरगतं चैव गन्धदुष्टं च धूपितम् ।
द्विपक्वं स्थापितं चैवाघ्रातं निष्वितनकम्(?) ॥ १४।४६ ॥
View Verse
अपक्षुतं श्वासहतं मुखवायुहतं तथा ।
परस्पृष्टं शुनादृष्टमदीक्षितनिरीक्षितम् ॥ १४।४७ ॥
View Verse
स्वेदबिन्दुहतं चापि धामहस्तगतं (वामहस्तहतं?) तथा ।
लङ्घितं शीतमत्युष्णं भिन्नपात्रगतं तथा ॥ १४।४८ ॥
View Verse
कृमिकेशादिसहितं कोष्ठ(काष्ठ?)लोष्ठादिपाति(संयु)तम् ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनमतोषितम् (?) ॥ १४।४९ ॥
View Verse
अर्कपात्रगतं चापि वर्जयेद्यत्नतश्चरुम् ।
फलानि यत्नपक्वानि वर्जनीयानि सर्वशः ॥ १४।५० ॥
View Verse
कदलीफलमेकं तु यत्नपक्वेषु गृह्यते ।
अपक्वम(-क्वं त्व?)ग्निनाशस्तं फलमत्र निवेदयेत् ॥ १४।५१ ॥
View Verse
एवमुक्तं तु शुद्धान्नं पायसं त्वधुनोच्यते ।
यजमानेच्छया तस्मिंस्तण्डुलं गृह्य साधकः ॥ १४।५२ ॥
View Verse
तण्डुलद्विगुणं क्षीरं मुद्गसारः समो भवेत् ।
पाचितं पायसं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १४।५३ ॥
View Verse
तण्डुलस्य चतुर्थांशांस्तिलान् प्रक्षिप्य चूर्णितान् ।
तच्चतुर्थं घृतं क्षिप्त्वा पाचयित्वा यथाविधि ॥ १४।५४ ॥
View Verse
कृसरान्नमिति प्रोक्तं गौल्यान्नं त्वधुना शृणु ।
पायसं पूर्ववत् कृत्वा तण्डुलेन समं गुलम् ॥ १४।५५ ॥
View Verse
गुलार्धं प्रक्षिपेदाज्यं कदल्यादिफलं क्षिपेत् ।
गुलान्नमिति सम्प्रोक्तं मुद्गान्नमधुनोच्यते ॥ १४।५६ ॥
View Verse
तण्डुलेन समं मुद्गं नालिकेरुलान्वितम् ।
मुद्गान्नमिति सम्प्रोक्तं हरिद्रान्नमिहोच्यते ॥ १४।५७ ॥
View Verse
मरीचिरजनीयुक्तं जीरकैः सर्षपैर्युतम् ।
उच्यते पाचितं ह्येतत् हरिद्रान्नं यथाविधि ॥ १४।५८ ॥
View Verse
तद्विधिं चाधुना वक्ष्ये शृणु भागोत्तरं (पाकक्रमं?) मुने ।
द्रोणतण्डुलमादाय कुन्देन्दुधवलप्रभम् ॥ १४।५९ ॥
View Verse
पूर्ववत् पाचयित्वा तु मरीच्यादीनि विन्यसेत् ।
मरीचं प्रस्थपादं च त्रिगुणं(णां?) रजनीं क्षिपेत् ॥ १४।६० ॥
View Verse
सर्षपं द्विगुणं चैव तदर्धं जीरकं क्षिपेत् ।
द्रोणस्यैवं मया प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ १४।६१ ॥
View Verse
इति भागोत्तरं प्रोक्तं हरिद्रान्नस्य ते मया ।
उपदंशान् प्रवक्ष्यामि शृणुष्व मुनिसत्तम ॥ १४।६२ ॥
View Verse
गन्धवर्णरसोपेतं वस्त्रपूतं घृतं नवम् ।
द्वात्रिंशदंशमाज्यं स्यात् गृह्णीयादत्र गोघृतम् ॥ १४।६३ ॥
View Verse
षोडशांशं तु गुल्माषं तदर्धं गुलमिष्यते ।
पक्वयुक्फलमूलं च सर्वं लवणमिश्रितम् ॥ १४।६४ ॥
View Verse
घृतेन पाचयेत् सम्यक् तप्तकाञ्चनवन्मुने ।
मरीचै रजनीमिश्रैः सर्षपैश्च महामुने ॥ १४।६५ ॥
View Verse
पाचयित्वोपदंशानि देवेशाय निवेदयेत् ।
शेषाणिं चोपदंशानि यजमानेच्छया पचेत् ॥ १४।६६ ॥
View Verse
दधिखण्डरसैर्युक्तमष्टांशकमुदाहृतम् ।
सूपं चैव तथा कुर्यात् यथावित्तानुसारतः(?) ॥ १४।६७ ॥
View Verse
अतस्तत् परिमाणं तु वक्ष्यामि मुनिसत्तम ।
यजमानेच्छया तस्मिन् गोदधि गृह्य साधकः ॥ १४।६८ ॥
View Verse
तदर्धं तु गुलं क्षिप्त्वा तथा खण्डरसं क्षिपेत् ।
तस्याभावे तु सर्पिः स्यात् मरीचं निशि(?)चूर्णकम् ॥ १४।६९ ॥
View Verse
विन्यसेत् पाचितं ह्येतत् सूपं तत्र यथाविधि ।
कदलीपनसाम्राणां परिपक्वफलानि च ॥ १४।७० ॥
View Verse
आम्रं चैवोपदंशं स्यात् शृणु पक्वोपदंशकान् ।
कदलीपनसं चैव कारवल्लीद्वयं तथा ॥ १४।७१ ॥
View Verse
कर्कवल्लीद्वयं चैव कूष्माण्डोर्वारुकं तथा ।
बृहतीं कृष्णबृहतीं करवर्तं तथैव च ॥ १४।७२ ॥
View Verse
कर्करीं क्षुद्रबृहतीमलसन्तीद्वयं तथा ।
तथा कृष्णालसन्ती च ग्राह्याणि मधुराणि च ॥ १४।७३ ॥
View Verse
मधुरेषु च सर्वेषु तालमेकं तु वर्जयेत् ।
कदलीपनसाद्येषु(-द्यानां?)सारमुद्धृत्य नारद ॥ १४।७४ ॥
View Verse
पात्रे निक्षिप्य देवाय दद्याच्चर्मादि वर्जयेत् ।
वर्जितं वर्जयेद्यत्नान्निवेदयति चेन्मुने ॥ १४।७५ ॥
View Verse
तत्पूजा निष्फला याति सर्वरोगविवृद्धिकृत् ।
तस्माच्चर्मादि यत्नेन वर्जयेद्वर्जितं सदा ॥ १४।७६ ॥
View Verse
कुलुत्थमाषनिष्पावं वर्जयेद्द्वे(-द्द्वि?) दलेषु च ।
मुद्गद्वयं च शीबं च तथा कृष्णालसन्ति च (-काम्?) ॥ १४।७७ ॥
View Verse
शर्कराद्वयसंयुक्तं सम्यक्पक्वं सुशीतलम् ।
अन्नोपरि विनिक्षिप्य देवदेवं निवेदयेत् ॥ १४।७८ ॥
View Verse
कोशातकीमलाबुं च पत्रजातीश्च वर्जयेत् ।
फलानि कथितान्यत्र मूलानि शृणु तत्परम् ॥ १४।७९ ॥
View Verse
वल्ली चैव महावल्ली वनवल्ली तथैव च ।
पिण्डा चैव महापिण्डा क्षुद्रपिण्डा तथैव च ॥ १४।८० ॥
View Verse
सुगन्धोत्पलकन्दं च देवेशस्य प्रियं शुभम् ।
ग्राह्याणि मूलान्येतानि देवदेवं निवेदयेत् ॥ १४।८१ ॥
View Verse
अलाभे शेष (सर्व?) मूलानि (-नां?) वर्जयेद्वनसूरणम् ।
तथैव नित्यपूजायां सूरणं मुनिसत्तम ॥ १४।८२ ॥
View Verse
लोभान्मोहान्निवेद्यं चेत् (?) तत्पूजा निष्फला भवेत् ।
तस्मात् प्रयत्नतो वर्ज्यं सूरणं परिवर्जयेत् ॥ १४।८३ ॥
View Verse
काम्ये महोत्सवे चैव महान्ने तु महामुने ।
यजमानेच्छया तस्मिन् (?) सूरणं तु निवेदयेत् ॥ १४।८४ ॥
View Verse
विष्णुश्चैव महाविष्णुस्तथैव च महामुने ।
तृप्यत्व(न्त्य?)त्र महान्नेन हृष्टा गृह्णन्ति तच्चरुम् ॥ १४।८५ ॥
View Verse
कटुकाश्च तथाम्लाश्च तिक्ताश्चेति विशेषतः ।
यथालाभोपदंशेन पाचयेल्लक्षणैर्युतम् ॥ १४।८६ ॥
View Verse
मरीचिं निशिचूर्णं च तन्मध्ये कुडुबं क्षिपेत् ।
आम्लोपदंशमित्याहुः सर्वसम्पत् सुखावहम् ॥ १४।८७ ॥
View Verse
कथितानि निवेद्यानि नान्यानि तु कथञ्चन ।
पात्राणि च शरावाणि बाह्यशुद्धिश्च कारयेत् ॥ १४।८८ ॥
View Verse
सर्वपात्रेषु बाह्येषु ऊर्ध्वपुण्ड्रं च भस्मना ।
कारयेन्मूर्तिमन्त्रेण पूर्वादिषु यथाक्रमम् ॥ १४।८९ ॥
View Verse
शरावे विष्णुमन्त्रेण पूर्वपात्रे (-भागे?) तु लाच्छयेत् ।
महानसं समारभ्य गर्भगेहावसानकम् ॥ १४।९० ॥
View Verse
प्रथमेन जलैः प्रोक्ष्य भाण्डानुत्थापयेत् क्रमात् ।
तेन मन्त्रेण मतिमान् सर्वानुत्थापयेत् क्रमात् ॥ १४।९१ ॥
View Verse
एतस्मिन्नेव काले तु शङ्खं दध्मु (?) स्त्रिभिः पृथक् ।
द्वारस्योत्तरपार्श्वे तु न्यसेत् पात्राणि सर्वशः ॥ १४।९२ ॥
View Verse
सौवर्णं राजतं ताम्रमथवा कदलीदलम् ।
शुद्धकांस्येन वा कुर्यात् पात्रं शतपलेन तु ॥ १४।९३ ॥
View Verse
तदर्धं वा मुनिश्रेष्ठ द्वात्रिंशत् पलेन (-लकेन?) वा ।
यथावित्तानुसारेण (?) पात्रं सङ्गृह्य साधकः ॥ १४।९४ ॥
View Verse
दर्वीघनं (?) समादाय आज्येनैवाभिघारयेत् ।
अन्नेन पूरयेत् पात्रं गुल्माषेण गुडेन च ॥ १४।९५ ॥
View Verse
पलेनाज्येन दध्ना च सोपदंशं निवेदयेत् ।
चतुर्धास्मिन् विभज्यैकं भागं देवाय कल्पयेत् ॥ १४।९६ ॥
View Verse
देवार्थं कल्पितं भागं देवेशाय निवेदयेत् ।
निवेद्य काले तन्त्रज्ञः अर्घ्यपाद्यादिकं ददेत् ॥ १४।९७ ॥
View Verse
पुष्पं दत्वा नमस्कृत्य हरेः पादौ तु साधकः ।
हस्तप्रक्षालनं कृत्वा देवस्यास्त्रेण मन्त्रवित् ॥ १४।९८ ॥
View Verse
परिषेकं ततः कृत्वा पूर्ववत् साधकोत्तमः ।
कृत्वा सु(स्व?)पाणी प्रक्षाल्य मूलमन्त्रेण संस्पृशेत् ॥ १४।९९ ॥
View Verse
शेषं तु पूर्ववत् कृत्वा हविराद्यं महामुने ।
स्वस्तिकासनसंयुक्ते देशिकोपेन्द्रतो मुखः ॥ १४।१०० ॥
View Verse
दक्षिणे करशाखासु पञ्चोपनिषदं न्यसेत् ।
निवेदयेद्धविस्तस्मिन् पञ्चधा परमेष्ठिना ॥ १४।१०१ ॥
View Verse
नमस्कृत्य जपेत् पश्चात् पञ्चोपनिषदा मुने ।
पाणिं प्रक्षाल्य यत्नेन पृथक् पात्रे निवेदयेत् ॥ १४।१०२ ॥
View Verse
शङ्खदुन्दुभिसुयङ्क्तं नृत्तगेयसमन्वितम् ।
देवदेवस्य देवर्षे नित्ये नैमित्तिके पुनः ॥ १४।१०३ ॥
View Verse
धूपं सुधूपितं भक्त्या पुनर्दधि निवेदयेत् ।
पानीयं च पुनर्दत्वा केलिपात्रे ऽमले शुभे ॥ १४।१०४ ॥
View Verse
तर्पणं पुनराचामं दत्वा तत्तत्प्रतिग्रहे ।
गन्धपिष्टैःसमुद्वर्त्य पाणिं सुश्वेतवाससा ॥ १४।१०५ ॥
View Verse
आच्छाद्य गन्धकल्केन पुनराचमनं ददेत् ।
मुखवासं ततो दत्वा विधिवत् साधकोत्तमः ॥ १४।१०६ ॥
View Verse
पुनर्द्वितीयभागेन हविषा मूलविद्यया ।
जुहुयादग्निकुण्डे तु समिदाज्यपुरःसरम् ॥ १४।१०७ ॥
View Verse
तृतीयेन बलिं दद्यात् प्राड्मुखो वाप्युदङ्मुखः ।
पुनर्दत्वा जलं सम्यक् नमस्कृत्य प्रदक्षिणम् ॥ १४।१०८ ॥
View Verse
दत्वा तद्बलिशेषं तु बलिपीठे विनिक्षिपेत् ।
तुर्यभागं तु सङ्गृह्य आचार्यो मन्त्रवित्तमः ॥ १४।१०९ ॥
View Verse
प्राशयेत् प्राङ्मुखो भूत्वा पात्रशेषमनुत्तमम् ।
तच्छेषं सर्वपापघ्नं सर्वरोगनिकृन्तनम् ॥ १४।११० ॥
View Verse
सर्वतीर्थप्रदं तस्माद्भक्षयेच्छेदषमुत्तमम् ।
आलयस्योत्तरे वापि नैरृते वापि मन्त्रवित् ॥ १४।१११ ॥
View Verse
भुक्त्वा चैव मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ।
नित्यपूजाविधौ ब्रह्मन् चरुपाकविधौ क्रमात् ॥ १४।११२ ॥
View Verse
एवमुक्तप्रकारेण कारयेत्तु दिने दिने ।
महाहविर्विधिं वक्ष्ये ह्यष्टद्रोणं कनीयसम् ॥ १४।११३ ॥
View Verse
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चाधमोत्तमम् ।
चतुः पञ्चगुणं षट्कं मध्यमस्य त्रयं विदुः ॥ १४।११४ ॥
View Verse
सप्ताष्टनवमं प्रोक्तमुत्तमस्य त्रयं विदुः ।
पूर्ववत् पाचयित्वा तु सर्वानुत्थापयेत् पृथक् ॥ १४।११५ ॥
View Verse
मण्डपस्योत्तरे भागे न्यसेद्भाण्डान्यथ क्रमात् ।
नैरृते वारुणे वापि विन्यसेच्च महाहविः ॥ १४।११६ ॥
View Verse
मण्डपं चतुरश्रं तु कृत्वालङ्कृत्य चाक्षतैः ।
पिष्टचूर्णैरलङ्कृत्य पद्मं कुर्यात् सकर्णिकम् ॥ १४।११७ ॥
View Verse
पटेनाच्छाद्य भूमिं तु रम्भापत्राणि चोपरि ।
स्नानादिदेवकर्माणि पूर्ववत् कारयेत् क्रमात् ॥ १४।११८ ॥
View Verse
देवस्नय पुरतः कृत्वा कार्यं विज्ञापयेच्छनैः ।
पीठादुत्थाप्य देवेशं पादुकाभ्यामुपासकः ॥ १४।११९ ॥
View Verse
शङ्खध्वनिसमायुक्तमानयेद्भोजनासनम् ।
पाद्यार्घ्याचमनं दत्वा गन्धपुष्पैः प्रपूजयेत् ॥ १४।१२० ॥
View Verse
प्रोक्षयित्वाभिघार्याथ चरुपात्राणि चैव हि ।
पायसं कृसरं गौल्यं मुद्गान्नं च यथाक्रमम् ॥ १४।१२१ ॥
View Verse
शुद्धान्नं चैव सूपान्नं द(दा?)धिकं च महाहविः ।
आज्यं च गुडखण्डं च कदल्यादिफलत्रयम् ॥ १४।१२२ ॥
View Verse
आज्यपक्वोपदंशं च पात्रे सर्वं निवेदयेत् ।
परिषेकं ततः कृत्वा ह्यन्नसूक्तेन संस्पृशेत् ॥ १४।१२३ ॥
View Verse
दद्यात्तद्दक्षिणे हस्ते हविः प्राशनमुद्रया ।
सुगन्धं स्वादुतोयं च दत्वा पानीयमुत्तमम् ॥ १४।१२४ ॥
View Verse
पुनराचमनं दत्वा वस्त्रेण प्रमृजेत् करौ ।
गन्धकल्केन सम्मृज्य ततः पीठान्तरं नयेत् ॥ १४।१२५ ॥
View Verse
पूर्वमालां विमुक्त्वा तु (-च्याथ?)वेष्टयेन्मालया पुनः ।
पुनराचमनं दत्वा हस्तौ संशोध्य वाससा ॥ १४।१२६ ॥
View Verse
पृथुकान्युपहाराणि अपूपान्तं निवेदयेत् ।
नालिकेरफलं दत्वा पानीयाचमनं ततः ॥ १४।१२७ ॥
View Verse
पुनराचमनं दत्वा मुखवासं निवेदयेत् ।
क्रमुकस्तु फलं भिन्नमपक्वं पक्वमेव वा ॥ १४।१२८ ॥
View Verse
कर्पूरतैलैः संसिक्तमसिक्तं वा मुनीश्वर ।
ताम्बूलवल्लीपत्रैश्च सहितं क्षालितं क्रमात् ॥ १४।१२९ ॥
View Verse
एलाकक्कोलजातीश्च कर्पूरसहितं क्रमात् ।
मातुलुङ्गफलैर्युक्तं नालिकेरुलान्वितम् ॥ १४।१३० ॥
View Verse
शिला(सिता?)चूर्णेन संयुक्तं कर्पूरसहितेन च ।
संस्कृतं प्रणवेनैव मुखवासं निवेदयेत् ॥ १४।१३१ ॥
View Verse
दत्वा च राजवत् सम्यक् पितृवत् पूजयेद्धरिम् ।
पीठादुत्थाप्नय देवेशं प्रासादं तु परिभ्रमेत् ॥ १४।१३२ ॥
View Verse
शङ्खदुन्दुभिसंयुक्तं स्वस्तिसूक्तसमन्वितम् ।
प्रासादं तु परिभ्राम्य गर्भागारं प्रवेशयेत् ॥ १४।१३३ ॥
View Verse
महाहविर्विधिः प्रोक्तः सङ्क्षेपेण महामुने ।
विशेषतः प्रवक्ष्यामि महान्नस्य विधिं क्रमात् ॥ १४।१३४ ॥
View Verse
गुह्याद्गुह्यं मुनिश्रेष्ठ शृणु नारद सत्तम ।
चरुपाकविधानोक्तैः पूर्वोक्तैर्हव्यवृद्धिदानैश्च ॥ १४।१३५ ॥
View Verse
समुपेतं शालीनां दशशतकैस्तण्डुलप्रस्थैः ।
सिद्धं महाहविः स्यात्तु तदर्धं मध्यमं स्मृतम् ॥ १४।१३६ ॥
View Verse
तस्याप्यर्धकृतं यत्तदधममुक्तं महाहविसतज्ज्ञैः ।
दुग्धानां तु गवां स्यादाढकषटकं गुणं चतुष्षष्टि ॥ १४।१३७ ॥
View Verse
फलं सर्पिस्तथाढकं स्यात्पञ्चप्रस्थमुद्गान्नम् ।
(पलसर्पिराढकं स्यात् पञ्चप्रस्थं च मुद्गान्नम्?) ।
दलितानां शुद्धानां तोयं स्यादाढकद्वितयम् ॥ १४।१३८ ॥
View Verse
कंसद्वितयं (?) शाल्यास्तण्डुलमिष्टं पयोगुलान्नविधौ ।
एतद्वरमस्यार्धं मध्यममस्यार्धमधमं स्यात् ॥ १४।१३९ ॥
View Verse
पायसमेतद्विधिना गुलसर्पिभ्यां विना पक्वम् ।
समुद्गसारपक्वं शाल्यन्नं मुद्गसारान्नसमम् ॥ १४।१४० ॥
View Verse
गुलपिष्टं सिद्धं सर्पिभ्यामपूपमुद्दिष्टम् ।
कक्कोलैर्जातिफलैः पूगफलैः श्वेतभुजगपत्रैः ॥ १४।१४१ ॥
View Verse
पाषाणचूर्णमिश्रं समातुलुङ्गदलनालिकेरफलम् ।
कर्पूरतैलमिश्रं संस्वङ्गं कथ्यते मुखवाससम् ॥ १४।१४२ ॥
View Verse
एलाचम्पककेतक्या वासितं तु पानीयम् ।
कथितं यत्त्रिदशमुने महानिवेद्यादि तन्निखिलम् ॥ १४।१४३ ॥
View Verse
सिद्धं देवगृहे वा तत्पार्श्वे वा[पि]मन्त्रयोग्यं स्यात् ।
यो मोहादन्यगृहे सिद्धं देवाय मन्त्रेण ॥ १४।१४४ ॥
View Verse
हविराद्यं तु हि दद्यात् स किल्बिषी राष्ट्रनाशी स्यात् ।
भक्तैरन्यत्रापि क्वापि पक्वं समागतं यद्यत् ॥ १४।१४५ ॥
View Verse
बिम्बस्याग्रे तत्तत् प्रदर्श्य दद्याद्धि पक्वेभ्यः ।
एतत् कृत्वा सम्यङ्महाहविः प्रियतमं तु हरेः ॥ १४।१४६ ॥
View Verse
भक्तःसामीप्यं मध्यमकृत् ॥॥॥॥। ।
सारूप्यं चाधमं च सालोक्यं परमम् ॥ १४।१४७ ॥
View Verse
पयोदिगुलान्नं निवेद्य भक्त्या हरैति शान्तिम् (?) ।
परमांशश्च मध्यमं ह्येति सर्वकामानि (?) ॥ १४।१४८ ॥
View Verse
विशेषश्चात्र सम्प्रोक्तः महान्नादिविधौ मुने ।
शेषं साधारणं कुर्या(विद्या?)दिति शास्त्रस्य निश्चयः ॥ १४।१४९ ॥
View Verse
महाहविविधौ चात्र द्विविधं मानमीरितम् ।
द्विप्रकारं तु तन्त्रज्ञो यथायोगं समाचरेत् ॥ १४।१५० ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां चरुपाकविधिर्नाम चतुर्दशो ऽध्यायः ॥
View Verse

Chapter - 15

पञ्चदशो ऽध्यायः
नारदः---
ब्रूहि मे हरिसेनेश मूलमन्त्रेण विस्तरात् ।
होमक्रमं कृपाधार शुश्रूषोर्भक्तवत्सल ॥ १५।१ ॥
View Verse
विष्वक्सेनः---
शृणु नारद तत्त्वेन पूर्वभागे यथामुने ।
कुण्डानि स्रुक्स्रुवं (वौ?)चैव प्रस्पष्टं प्रोक्तवानहम् ॥ १५।२ ॥
View Verse
तत्क्रमेण विना वापि सह वा मूलविद्यया ।
होमं कुर्याद्यथाशक्ति सिद्धं(द्धिं?)विन्देत सर्वथा ॥ १५।३ ॥
View Verse
वैष्णवैः करणैर्युक्तमतस्तं प्रथमं शृणु ।
पिप्पलं च शमीगर्भमरणिं परिकल्पयेत् ॥ १५।४ ॥
View Verse
मथित्वा वैष्णवैरग्निमथवा रत्नसम्भवम् ।
लौकिकं वा समानीय प्रोक्षयेद्द्वादशाक्षरैः ॥ १५।५ ॥
View Verse
आचार्यो ऽग्निं समादाय स्वात्मन्येवोपसंहरेत् ।
तेन बीजेन मतिमान् तर्जन्यङ्गुष्ठया मुने ॥ १५।६ ॥
View Verse
अञ्जलिमुद्रया चाग्निं नमस्कृत्य पुनः पुनः ।
कुण्डं वा स्थण्डिलं वापि चतुरश्रं तु कारयेत् ॥ १५।७ ॥
View Verse
वैष्णवीकरणार्थाय अग्नेर्हस्त(?)मतन्द्रितः ।
चतुरङ्गुलमानेन खानयेदवटं धराम् ॥ १५।८ ॥
View Verse
खाताद्धि द्व्यङ्गुलं हित्वा मेखलां परिकल्पयेत् ।
चतुरङ्गुलविस्तारमुत्सेधं तु तथैव च ॥ १५।९ ॥
View Verse
कारेयन्तमुनिशार्दूलद मेखलैका समन्ततः ।
इत्येकमेखलाकुण्डं तन्त्रे ऽस्मिन् परिकीर्तितम् ॥ १५।१० ॥
View Verse
वैष्णवानलकुण्डस्य वलयं योनिकल्पनम् ।
यथाकामं प्रकर्तव्या योनिः पिप्पलपत्रवत् ॥ १५।११ ॥
View Verse
कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ।
वैष्णवीकरणार्थाय सम्प्रोक्तं कुण्डलक्षणम् ॥ १५।१२ ॥
View Verse
सम्प्रोक्ष्याभ्युक्ष्म शा(चा?) स्त्रेण साधको मुनसित्तम ।
उपलिप्योल्लिखेद्रेखामर्गलां(?) यज्ञनामिकाम् ॥ १५।१३ ॥
View Verse
सौम्याग्रां प्रथमां तस्या रेखे पूर्वाग्रिके तयोः ।
मध्ये तिस्रस्तथारूपाः दक्षिणादिक्रमेण तु ॥ १५।१४ ॥
View Verse
एवमुल्लिख्य चाभ्युक्ष्य प्रणवेनैव मन्त्रवित् ।
शय्यां तु चिन्तयेत् पूर्वं कुण्डमध्ये तु देशिकः ॥ १५।१५ ॥
View Verse
धर्मादिपादं(दान्?)विन्यस्य तथाधर्मादिकत्रयम् ।
अनन्तं विन्यसेन्मध्ये ततः पाशास्त्रयो गुणाः ॥ १५।१६ ॥
View Verse
ततः प्रोक्तविधानेन मूलमन्त्रेण साधकः ।
पृथिव्यादीनि भूतानि करणादीनि कर्तृके(?) ॥ १५।१७ ॥
View Verse
परिस्तरणसञ्छन्नां धूपामोदसुधूपिताम् (?) ।
ध्यायेच्च लक्ष्मीं तन्मध्ये प्रकृतिं त्रिगुणात्मिकाम् ॥ १५।१८ ॥
View Verse
तस्मिन् शयनमध्ये तु सम्प्राप्तनवयौवनाम् ।
अतीव रूपसम्म्पन्नां मदघूर्णितलोचनाम् ॥ १५।१९ ॥
View Verse
सर्गशक्तिसमोपेतां वैष्णवीं शुभविग्रहाम् ।
दिव्यमाल्याम्बरधरां दिव्यरत्नविराजिताम् ॥ १५।२० ॥
View Verse
दिव्यगन्धानुलिप्ताङ्गीं दिव्याभरणभूषिताम् ।
साभिलाषामृतुस्नातां प्रार्थयन्तीं हरिं प्रति ॥ १५।२१ ॥
View Verse
एवं रूपां च सञ्चिन्त्य देवीं पङ्कजधारिणीम् ।
गन्धमाल्योदकादीनि मुखवासान्तकानि च ॥ १५।२२ ॥
View Verse
यानि क्रीडोपचाराणि तानि ध्यात्वा समन्ततः ।
अतीव रूपसम्पन्नं प्रथमे वयसि स्थितम् ॥ १५।२३ ॥
View Verse
मकुटाङ्गदचित्राङ्गं नीलकुञ्चितमूर्धजम् ।
दिव्यमाल्याम्बरधरं दिव्यरत्नविराजितम् ॥ १५।२४ ॥
View Verse
श्रीवत्सेनाङ्कितोरस्कं वनमालाविराजितम् ।
सर्वरत्नप्रभाजालकौस्तुभेन विराजितम् ॥ १५।२५ ॥
View Verse
अन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ।
आजानुबाहुं श्रीमन्तं सौम्यं प्रहसिताननम् ॥ १५।२६ ॥
View Verse
लावण्यामृततोयेन सिञ्चन्तमिव सर्वतः ।
चतुर्भुजमनुध्यायेत् शङ्खचक्रगदाधरम् ॥ १५।२७ ॥
View Verse
एवं रूपं ततो ध्यात्वा देवीं देवं तथैव च ।
अर्चयेद्गन्धपुष्पाद्यैरुपचारैर्मनोरमैः ॥ १५।२८ ॥
View Verse
सम्पूजयेत्ततो भक्त्या स्वयं तु विगतस्पृहः ।
एकशय्यागतौ ध्यात्वा समालिङ्ग्य व्यवस्थितौ ॥ १५।२९ ॥
View Verse
पश्चात्तु ग्राम्यधर्मेण परं हर्षमुपागतौ ।
देवस्य शुक्लमध्यस्थं वह्निबीजं तु साधकः ॥ १५।३० ॥
View Verse
तेन बीजेन मतिमान् न्यसेदग्निमनुत्तमम् ।
गर्भशय्यां प्रतिष्ठाप्य तद्रत्नेन समन्वितम् ॥ १५।३१ ॥
View Verse
देवं विसर्जयेत् पश्चात् गर्भाधाने कृते सति ।
अग्निं समेधयेत् पश्चात् शुष्ककाष्ठैरनन्तरम् ॥ १५।३२ ॥
View Verse
प्रादेशमात्राःसमिधः कृत्वाधानं ततः पुनः ।
परिसमूह्य ततो दर्भैः परिस्तीर्य त्रिधा त्रिधा ॥ १५।३३ ॥
View Verse
अग्रैराच्छादयेद्यद्वत् मूलं पूर्वादितः क्रमात् ।
पात्राण्यासादयेत्तस्मिन् इध्मबर्हिद्वयं तथा ॥ १५।३४ ॥
View Verse
स्रुक्स्रुवौ च प्रणीतेन(च?)क्ष(स्था?) पयित्वात्र साधकः ।
प्रोक्षणी च प्रणीते द्वे आज्यस्थालीमुखं(द्वयम्) तथा ॥ १५।३५ ॥
View Verse
युग्मं युग्मं व्यवस्थाप्य अन्यदप्युपयोगि यत् ।
तत्सर्वं प्रोक्षायित्वा तु गृहीत्वा प्रोक्षणीं ततः ॥ १५।३६ ॥
View Verse
अद्भिः सम्पूर्य चोत्पूय पवित्रान्तर्हिते करे ।
अवस्थाप्य च तत्तोयं प्रोक्षयित्वात्र साधकः ॥ १५।३७ ॥
View Verse
प्रोक्षण्यामेव तत्कृत्वा ध्यात्वा ज्योतिषमव्ययम् ।
पूर्ववत् स्थापयेदग्नेः(ग्निं?) संस्कृत्यान्तर्जलेन तु ॥ १५।३८ ॥
View Verse
त्रिःसम्प्रोक्ष्य ततःसर्वं इध्मं विस्रस्य साधकः ।
गन्धपुष्पाक्षतयुतां पवित्रान्तर्जलेन तु ॥ १५।३९ ॥
View Verse
प्रणीतामग्रतः कृत्वा तस्यां साङ्गं न्यसेद्धरिम् ।
गन्धादिभिःसमभ्यर्च्य सर्वरक्षाकरं प्रभुम् ॥ १५।४० ॥
View Verse
ध्यात्वा नीत्वोत्तरे भागे स्थापयित्वार्चयेद् बुधः ।
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय तु ॥ १५।४१ ॥
View Verse
सम्प्लवोत्प्लवनाभ्यां तु कुर्यादाज्यस्य संस्कृतिम् ।
आखण्डिताग्रौ निहतौ कुशौ प्रादेशमात्रकौ ॥ १५।४२ ॥
View Verse
ताभ्यामुत्तानपाणिभ्यामङ्गुष्ठानामिकेन तु ।
तानन्तयोस्तु सङ्गृह्य त्रिर्नीत्वा त्रिरथानयेत् ॥ १५।४३ ॥
View Verse
स्रुक्स्रुवौ चापि सम्मृज्य पुनः प्रक्षाल्य चैव हि ।
निष्टप्य स्थापयित्वा तु प्रणवेनैव साधकः ॥ १५।४४ ॥
View Verse
तेन बीजेन मतिमान् गर्भाधानादि होमयेत् ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ॥ १५।४५ ॥
View Verse
जातकर्मनामकरणान्नप्राशनमेव च ।
चौलं तथोपनयनं प्राजापत्यं तु सोमकम् ॥ १५।४६ ॥
View Verse
वैश्वदेवं च शुक्रियं समावर्तनमेव च ।
विवाह इति विज्ञेयो मुने ऽतः परमेव हि ॥ १५।४७ ॥
View Verse
संस्कारानुक्रमः प्रोक्तस्तत्क्रिया वक्ष्यते ऽधुना ।
अग्निं समर्च्य गन्धाद्यैः गर्भाधानादि होमयेत् ॥ १५।४८ ॥
View Verse
आचार्यो ऽनलजिह्वासु सप्तस्वेवारभेन्मुने ।
अन्यथाकृततुल्यं स्यात् विपरीतफलप्रदम् ॥ १५।४९ ॥
View Verse
नारदः---
ब्रूहि यत्कथितं पूर्वं श्रवणीयं मया यदि ।
जिह्वा सप्तेति किं नाम किं पदं किं गुणं मुने ॥ १५।५० ॥
View Verse
विष्वक्सेनः---
शृणु वक्ष्याम्यहं सम्यक् रहस्यं परमं मुने ।
जिह्वाख्यां स्थानरूपे च विनियोगमतः परम् ॥ १५।५१ ॥
View Verse
जिह्वाग्नेः प्रथमा काली कराली तदनन्तरा ।
मनोजवा या तृतीया तु तुर्या लोहिता भवेत् ॥ १५।५२ ॥
View Verse
सुधूम्रा पञ्चमी षष्ठ स्फलिङ्गिन्यभिशब्दिता ।
सप्तमी विश्वरूपाख्या सप्तजिह्वाः प्रकीर्तिताः ॥ १५।५३ ॥
View Verse
काल्यास्तु मध्यमं स्थानं कराल्याः पूर्वदिग् भवेत् ।
मनोजवायाः कीनाशं वारुणी(-णं?) लोहितापदम् ॥ १५।५४ ॥
View Verse
सूधूम्रा सोमनीलाय (-निलया?)स्फुलिङ्गिन्यनलालया ।
विश्वरूपी(-पे?)शवसतिरेवं स्थानं क्रमान्मुने ॥ १५।५५ ॥
View Verse
आसां काल्यां विवाहान्तं गर्भाधानादि कारयेत् ।
वैष्णवानलरूपे तु प्रणेवन हुनेद् घृतम् ॥ १५।५६ ॥
View Verse
एकैकमष्टाहुतिभिः संस्काराणि विशेषतः ।
स्मरंस्तत्तद्भावनया साधकः प्रौढमानसः ॥ १५।५७ ॥
View Verse
षोडशेध्मान् समादाय सकृत् प्रणवमुच्चरन् ।
जुहुयात् कुण्डमध्ये तु काल्यां चान्नावसानके(कम्?) ॥ १५।५८ ॥
View Verse
पुनराज्याहुतिं हुत्वा प्रणवेनाष्टधात्र तु ।
चरुं हुत्वाक्षमात्रेण प्रत्येकैकाहुतिं क्रमात् ॥ १५।५९ ॥
View Verse
अष्टाक्षरेण मन्त्रेण अ(-णाप्य?)ष्टाविंशतिसङ्ख्यया ।
पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधकः ॥ १५।६० ॥
View Verse
वौषडन्तेन मन्त्रेण प्लुतं प्रणवमुच्चरेत् ।
गन्धपुष्पादिनाभ्यर्च्य नमस्कृत्याग्निमन्त्रतः ॥ १५।६१ ॥
View Verse
कुण्डादग्निं समादाय पूर्वकुण्डे नियोजयेत् ।
ततस्तु दक्षिणे न्यस्य पश्चिमे तदनन्तरम् ॥ १५।६२ ॥
View Verse
उत्तरे ऽग्निं विनिक्षिप्य मूलमन्त्रेण साधकः ।
अथवात्र मुनिश्रेष्ठ सर्वं वै प्रथमेन तु ॥ १५।६३ ॥
View Verse
कुण्डे कुण्डे विनिक्षिप्य पावकं परमार्थवित् ।
एवं संस्कृत्य विधिना पावकं पावनं हरेः ॥ १५।६४ ॥
View Verse
एवं तथाग्निसंस्कारं सर्वयागेषु कीर्तितम् ।
वैष्णवीकरणे चैवं वैष्णवाग्निस्ततो भवेत् ॥ १५।६५ ॥
View Verse
परिधिप्रभृतीन् दग्ध्वा प्रणवेन तु साधकः ।
एतत्क्रमेण चोत्पाद्य वैष्णवाग्निं तु नारद ॥ १५।६६ ॥
View Verse
कारयेद्विधिवत् सर्वं कर्षणादिक्रियादिषु ।
अथवा मुनिशार्दूल पूर्वकुण्डे तु कारयेत् ॥ १५।६७ ॥
View Verse
वैष्णवीकरणं सर्वं शेषं साधारणं भवेत् ।
कुण्डे वा स्थण्डिले वापि वैष्णवीकरणं कुर१ ॥ १५।६८ ॥
View Verse
अन्यदेशे तु यो मोहादग्निमुत्पादयेद्यदि ।
तत्क्रिया निष्फला ज्ञेया सस्यादिनिधनं भवेत् ॥ १५।६९ ॥
View Verse
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
चतुरश्रादिकुण्डानि सम्प्रोक्ष्यास्त्रेण मन्त्रतः ॥ १५।७० ॥
View Verse
विन्यसेन्न्यासमार्गेण शशाङ्काद्यक्षरैः क्रमात् ।
तत्र न्यासक्रमं वक्ष्ये शृणु कुण्डेषु नारद ॥ १५।७१ ॥
View Verse
कुण्डे वा स्थण्डिले वापि प्रणवाभ्युक्षणे कृते ।
प्रोक्षयेद्वसुसूत्रेण दक्षिणाद्युत्तरान्तकम् ॥ १५।७२ ॥
View Verse
पश्चिमादीन्द्रपर्यन्तं कोष्ठं कृत्वा विभज्य च ।
तन्मध्यकोष्ठं प्रस्तीर्य शालिना कुडुबेन च ॥ १५।७३ ॥
View Verse
तण्डुलेनाक्षतेनात्र चन्द्रमण्डलमालिखेत् ।
तन्मध्ये बीजमालिख्य पूर्वादष्टाक्षरं लिखेत् ॥ १५।७४ ॥
View Verse
तद्बहिर्वसुकोष्ठेषु आऋकारान्तमालिखेत् ।
इन्द्रादीशानपर्यन्तं तद्बहिः स्वरकोष्ठके (?) ॥ १५।७५ ॥
View Verse
पूर्वादीन्द्रेशपर्यन्तं जान्तरप्रभृतीन् न्यसेत् ।
तद्बहिस्तत्त्वकोष्ठेषु झादिसान्तमथो लिखेत् ॥ १५।७६ ॥
View Verse
पूर्वाद्युत्तरपूर्वान्तं ततो वै मेखलासु च ।
पूर्वादिसोमपर्यन्तं पठन्तं च सुदर्शनम् ॥ १५।७७ ॥
View Verse
योनिमध्ये तु विप्रेन्द्र विष्णुबीजमनुत्तमम् ।
विन्यसेत् पञ्चधा तस्मिन्ननामिक्या तु साधकः ॥ १५।७८ ॥
View Verse
एवं न्यासं क्रमात् कृत्वा साधकानां हिताय तु ।
न्यासहीने ऽग्निकार्यं स्यात् तत्क्रिया निष्फला भवेत् ॥ १५।७९ ॥
View Verse
तद्ग्रामो निधनं याति तत्स्थानां निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन न्यासं कुर्याद्विचक्षणः ॥ १५।८० ॥
View Verse
कुण्डे कुण्डे मुनिश्रेष्ठ स्थण्डिले वाप्यतन्द्रितः ।
गन्धादिदीपपर्यन्तमभ्यर्च्याञ्जलिमुद्रिकाम् ॥ १५।८१ ॥
View Verse
दर्शयित्वा यथान्यायं कुर्यात् पञ्चशतं (?) क्रमात् ।
तथैव मेखलायां तु पूजयेद्योनिमेव च ॥ १५।८२ ॥
View Verse
अतः परं प्रवक्ष्यामि होमानुक्रममुत्तमम् ।
कर्षणादिषु सर्वासु क्रियासु मुनिसत्तम ॥ १५।८३ ॥
View Verse
आचार्यः प्रक्रमेद्धोमं बर्हिंषि समिधस्तथा ।
परिधिस्रुक्स्रुवान्नं चाप्याज्यं लाजं तिलं तथा ॥ १५।८४ ॥
View Verse
तदिन्धनबलिद्रव्यं गन्धं पुष्पं सुधूपकम् ।
दीपं वर्धनीं गन्धोदं प्रोक्षणीपात्रकं तथा ॥ १५।८५ ॥
View Verse
प्रणीताज्यमथान्यच्च हस्तमुत्सृज्य विन्यसेत् ।
उत्तरेणानिलस्थानात् युग्मं युग्मेन साधकः ॥ १५।८६ ॥
View Verse
प्रोक्षण्यां वर्धनीनीरमासिच्य प्रोक्ष्य विद्यया ।
मूलया साधनद्रव्यमाहूयाग्निं ततो मुने ॥ १५।८७ ॥
View Verse
अनलं पूर्ववत् प्रोक्ष्य अ(चा?)ग्निमूर्तिमनुस्मरेत् ।
अग्निं प्रोक्ष्यावटस्थं तं सानुस्वारे तु बीजके ॥ १५।८८ ॥
View Verse
हस्ताभ्यामनलं स्थाप्य पूर्वोक्तेन विधानतः ।
एधांसि ज्वालयित्वोक्ष्य परिस्तीर्याग्निमध्यमे ॥ १५।८९ ॥
View Verse
पद्ममष्टदलं ध्यात्वा तत्र वै मूलबेरतः ।
आवाहयित्वा देवेशमर्चयेद्विधिचोदितम् ॥ १५।९० ॥
View Verse
अत्र कश्चिद्विशेषो ऽस्ति होमकर्मणि नारद ।
देवं श्वेताद्रिसङ्काशं त्रिपादं सप्तबाहुकम् ॥ १५।९१ ॥
View Verse
वेदशृङ्गं द्विवदनं पीताम्बरधरं हरिम् ।
शङ्खचक्रगदापाणिं सप्तजिह्वं सुभूषणम् ॥ १५।९२ ॥
View Verse
सौम्यं[च] सर्वाभरणैर्दिव्यैः परिवृतं बुधः ।
अग्नौ वह्निस्वरूपेण स्थितमर्चामुखं स्मरेत् ॥ १५।९३ ॥
View Verse
तस्मादर्ध्यादि दत्वा च दक्षिणे ऽग्नेर्विधिं न्यसेत् ।
तं पूज्य विधिवत् पश्चात् होमद्रव्याणि मध्यमे ॥ १५।९४ ॥
View Verse
प्रणीताभाजनं न्यस्य तत्र साङ्गं न्यसेद्धरिम् ।
देवमभ्यर्च्य गन्धाद्यैः होमकर्म समाचरेत् ॥ १५।९५ ॥
View Verse
नित्ये नैमित्तिके काम्ये समिदाज्यैर्यथाक्रमम् ।
समित्(?) पालाशखदिरबिल्वोदुम्बरपिप्पलाः ॥ १५।९६ ॥
View Verse
सद्वृक्षा विदुषा ग्राह्यास्तन्मानं द्वादशाङ्गुलम् ।
कनिष्ठिकाघना वक्रग्रन्धिन्यासान्यवृत्ततः ॥ १५।९७ ॥
View Verse
परिधिर्हस्तमात्रःस्यात् स्थण्डिले कुण्ड एव वा ।
मध्यमेखलया तुल्यमङ्गुष्ठानां घनं विदुः(?) ॥ १५।९८ ॥
View Verse
देवानां परिधीन् दिक्षु चतसृष्वपि कारयेत् ।
विष्णुयागे विशेषेण द्विजानामग्निकर्मणि ॥ १५।९९ ॥
View Verse
त्रिष्वेव तु मुने बुद्धि होमान्तं पश्चिमादिकम्(?) ।
विष्णोर्मखे महेन्द्रादिदर्भान् सर्वासु चोभयोः ॥ १५।१०० ॥
View Verse
निशाचराणां रक्षायै विशेषं मुनिसत्तम ।
महेन्द्रप्रभृतीनां तु होमद्रव्यापहारिणाम् ॥ १५।१०१ ॥
View Verse
एवं ज्ञात्वा मुनिश्रेष्ठ इध्माद्यैर्हेममाचरेत् ।
कराल्यां समिधो हुत्वा मूलमन्त्रेण मन्त्रवित् ॥ १५।१०२ ॥
View Verse
मनोजवायामाज्येन वेदाद्येनैव देशिकः ।
लोहितायां तथान्नेन जुहुयान्मूर्तिमन्त्रतः ॥ १५।१०३ ॥
View Verse
सुधूम्रायां तथा लाजान् विधायाथ द्वितीयया ।
तृतीयेन तु मन्त्रेण स्फुलिङ्गिन्यां तिलं तथा ॥ १५।१०४ ॥
View Verse
विश्वरूप्यां चतुर्थेन तत्तद्द्रव्यं दिने दिने ।
अधोमुखाङ्गुष्ठसहितानामिका सहमध्यमा ॥ १५।१०५ ॥
View Verse
आमध्यपर्व गृह्णाति क्रियां तेनैव कारयेत् ।
होमद्रव्येण होमं तु सर्पिषा शुक्तिकाहुतिम् ॥ १५।१०६ ॥
View Verse
प्रायश्चित्ताहुतिं पूर्णां परिध्यादि तथा (ततः?) परम् ।
अनुक्तस्थानकं सर्वं काल्यां तु जुहुयात् पुनः ॥ १५।१०७ ॥
View Verse
समिदादितिलान्तं च द्रव्यमष्टोत्तरं शतम् ।
प्रायश्चित्ताहुतिं कुर्यादेकां मूलेन विद्यया ॥ १५।१०८ ॥
View Verse
पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधकः ।
वौषडन्तेन मन्त्रेण द्वादशाक्षरसञ्ज्ञया ॥ १५।१०९ ॥
View Verse
परिधिप्रभृतीन् सर्वान् वौषडन्तं तथा हुनेत् ।
स्वाहान्तं मूलमन्त्रेण मुष्ट्याज्येन च पूरणम् ॥ १५।११० ॥
View Verse
आहुतीश्च यथाशास्त्रं जुहुयात् साधकोत्तमः ।
पूर्णाहुत्यवसाने तु मूलेनाष्टोत्तरं जपेत् ॥ १५।१११ ॥
View Verse
परिधीनुत्सवान्ते च दाहयेदुत्सवे मुने ।
नित्याग्नौ च यथाकामं सर्वं नैमित्तिकं तथा ॥ १५।११२ ॥
View Verse
उत्सवानुत्सवाग्नौ वा कुर्यान्नैमित्तिकं बुधः ।
आचार्येभ्यो यथाकामं दक्षिणामाददेत्ततः ॥ १५।११३ ॥
View Verse
दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव हि ।
तस्मादाचार्यतृप्त्यर्थं राजराष्ट्रविवृद्धये ॥ १५।११४ ॥
View Verse
आचार्यं पूजयेच्छिष्यं भूषणाच्छादनैरपि ।
धान्यैश्चैव धनैश्चैव यजमानेन सत्कृतः ॥ १५।११५ ॥
View Verse
दक्षिणां गुरवे दद्यात् यजमानो यथाबलम् ।
अन्यथाकृतमेतच्चेत् सर्वं राष्ट्रं विनश्यति ॥ १५।११६ ॥
View Verse
तस्मात् सर्वप्रयत्नेन विधानोक्तं समाचरेत् ।
कुण्डस्थ पूजयेद्देवमुपचारेण यत्नतः ॥ १५।११७ ॥
View Verse
अनन्तरं प्रविश्याथ मुद्रामञ्जलिसञ्ज्ञिताम् ।
उद्वासयेत्ततः कुण्डात् मूलबेरे विधानवित् ॥ १५।११८ ॥
View Verse
कर्षणाद्युत्सवे काले नित्योत्सवविधावपि ।
एवमुक्तप्रकारेण होमं कुर्याद्विचक्षणः ॥ १५।११९ ॥
View Verse
हरेरतिप्रियाशेषलोकान् समविकारयेत् (?) ।
नित्यहोमे तु परिधीन् बर्हींषि च न दाहयेत् ॥ १५।१२० ॥
View Verse
एतद्रहस्यं कथितं मुने होमविधिक्रमम् ।
हरेरतिप्रियकरं यः कुर्यात् कारयेदपि ॥ १५।१२१ ॥
भक्त्या गुरोरशेषं (?) स्यात् स हरिर्नात्र संशयः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्होमविधिर्नामट पञ्चदशो ऽध्यायः ॥
View Verse

Chapter - 16

षोडशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि प्रतिष्ठालक्षणं परम् ।
सर्वलक्षणसंयुक्तमल्पकायं चतुर्भुजम् ॥ १६।१ ॥
View Verse
तत्तन्मूर्त्यनुसारेण कारयेत् सुमनोहरम् ।
प्रथमं च द्वितीयं च सङ्क्षेपाच्छृणु सुव्रत ॥ १६।२ ॥
View Verse
प्रतिष्ठायाः क्रमं चास्मिन् साधकानां हिताय तु ।
कृत्वाङ्कुरार्पणं सम्यक् पञ्चसप्तदिनात् पुरा ॥ १६।३ ॥
View Verse
जलाधिवासनं कृत्वा यथा वै तत्र चोदितम् ।
पूर्वोक्तमण्डपे मध्ये वेदिं कृत्वा यथाविधि ॥ १६।४ ॥
View Verse
कारयेत् सर्वकर्माणि शास्त्रदृष्ट्या समाहितः ।
तदलाभे मुनिश्रेष्ठ शृणु मण्डपलक्षणम् ॥ १६।५ ॥
View Verse
पञ्चोत्तरशतं(?)वापि हस्तद्वादशकं तु वा ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ १६।६ ॥
View Verse
वितानवस्त्रसञ्छन्नमलङ्कारैरलङ्कृतम् ।
कार्पासकैर्नवैर्वस्त्रैः स्तम्भान् सम्परिवेष्टयेत् ॥ १६।७ ॥
View Verse
तोरणान् कलशांश्चापि मध्ये वेदिं तु कारयेत् ।
दशतालस्तु विस्तार एकहस्तसमुच्छ्रयः ॥ १६।८ ॥
View Verse
वेदिकायास्तु (-यां तु?)परितः चतुर्दिक्षु यथाविधि ।
कारयेदग्निकुण्डानि चतुरश्रादि नारद ॥ १६।९ ॥
View Verse
स्थण्डिले वाप्यभावे तु कारयेत् तरुणालये ।
जलाधिवासादुत्थाप्य मण्डपे चानयेद्धरिम् ॥ १६।१० ॥
View Verse
सुवर्णसूच्या तत्रैव नेत्रोन्मीलनमाचरेत् ।
तच्चक्षुरिति वामं च चित्रं देवेति दक्षिणम् ॥ १६।११ ॥
View Verse
धेनुद्वयं दर्शयित्वा ततः स्नपनमाचरेत् ।
एकाशीतिक्रमेणैव स्नपनं त्वधमोत्तमम् ॥ १६।१२ ॥
View Verse
कलशैः पञ्चविंशैर्वा ततःसप्तदशैस्तु वा ।
द्वादशैर्नवकैर्वापि यथासम्भवमाचरेत् ॥ १६।१३ ॥
View Verse
पुण्याहं वाचयित्वैव शयनं कल्पयेत्ततः ।
पञ्चभारप्रमाणैश्च शालींस्तत्रैव विक्षिपेत् ॥ १६।१४ ॥
View Verse
तदर्धं तण्डुलं चैव शाल्योपरि विनिक्षिपेत् ।
तस्योपरि लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ १६।१५ ॥
View Verse
तस्य मध्ये तु तन्त्रज्ञः छादयेत् कम्बलेन तु ।
शयनं त्रिविधं प्रोक्तं क्षौमं कार्पासकं तु वा ॥ १६।१६ ॥
View Verse
ऊर्णामयं च तत्सर्वं व्याघ्रचर्मोत्तरच्छदम् ।
चित्रवस्त्रत्रयं वापि नववस्त्रत्रयं तु वा ॥ १६।१७ ॥
View Verse
यथावित्तानुसारेण(?)मार्गेणैकेन कल्पयेत् ।
शिरोपधानसंयुक्तं पादगण्डूलसंयुतम् ॥ १६।१८ ॥
View Verse
वामदक्षिणभागाभ्यां सुकपोलस्थलद्वयम् ।
शयनं कल्पयित्वैवं गन्धपुष्पैःसमर्चितम् ॥ १६।१९ ॥
View Verse
वस्त्रैराभरणैर्माल्यैरलङ्कृत्य जनार्दनम् ।
आचार्यो मूर्तिपैःसार्धं स्वस्तिवाक्यसमन्वितम् ॥ १६।२० ॥
View Verse
छत्रचामरसंयुक्तं शयने सन्निवेशयेत् ।
द्वादशाक्षरमन्त्रेण शाययेद्दक्षिणाशिरः ॥ १६।२१ ॥
View Verse
वैष्णवीकरणं कुर्यात् पूर्वं मूर्तिधरो मुने ।
मन्त्रन्यासं ततः कुर्यात् मूर्तिमन्त्रेण साधकः ॥ १६।२२ ॥
View Verse
नृत्तगीतसमायुक्तं वेदाध्ययनसंयुतम् ।
प्राङ्मुखोदङ्मुखो भूत्वा वेदिकोपरि दक्षिणे ॥ १६।२३ ॥
View Verse
प्राणायामान् क्रमात् कृत्वा प्रणवेनैव देशिकः ।
सृष्टिन्यासं स्थितिन्यासं संहृतिन्यासमेव च ॥ १६।२४ ॥
View Verse
तद्बिम्बे मुनिशार्दूल यथातथ्येन विन्यसेत् ।
पञ्चविंशतितत्त्वानि प्रतिमायां न्यसेत्ततः ॥ १६।२५ ॥
View Verse
पञ्चोपनिषदैर्न्यस्य प्रणवैःसह मन्त्रवित् ।
अथवा देवदेवस्य मन्त्रन्यासं शृणु क्रमात् ॥ १६।२६ ॥
View Verse
चतुरभ्यधिकं विंशत् सूक्तं नारायणं क्रमात् ।
देवस्य पादौ संस्पृष्ट्वा आचार्यः सूक्तमुच्चरन् ॥ १६।२७ ॥
View Verse
तस्यान्ते पौरुषं ब्रह्मन् षोडषं सूक्तमुच्चरेत् ।
ततस्त्वथर्ववेदे च सृष्ट्यादिप्रतिपादकम् ॥ १६।२८ ॥
View Verse
नारायणोपनिषदं त्रिः पठेत् पदसंस्पृशेत् ।
आत्मा यादि(?) नमोन्तं यन्मन्त्रमष्टशतं जपेत् ॥ १६।२९ ॥
View Verse
पूजायामधिवासे च प्रतिष्ठायां षडक्षरम् ।
न्यासमेषु प्रकुर्वीत तद्बिम्बहृदि देशिकः ॥ १६।३० ॥
View Verse
अन्यथा निष्फलं सर्वं नात्र कार्या विचारणा ।
तस्मात् सर्वप्रयत्नेन षडक्षरजपान्तर(-क?)म् ॥ १६।३१ ॥
View Verse
यद्यत् प्रोक्तं मुनिश्रेष्ठ तत्तत् कुर्वीत बुद्धिमान् ।
एवं न्यासं क्रमात् कृत्वा वेष्टयेन्नववस्त्रकैः ॥ १६।३२ ॥
View Verse
पुष्पाञ्जलिर्नमस्कृत्य पूजयेत् पुरुषोत्तमम् ।
शङ्खदुन्दुभिनिर्घोषैः नृत्तगेयैश्च पूजयेत् ॥ १६।३३ ॥
View Verse
आवाहयेत् ततो देवं मूर्ध्नि मूलेन मन्त्रवित् ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥ १६।३४ ॥
View Verse
तत्तन्मूर्त्यनुसारेण ध्यायेद्देवं सनातनम् ।
पाद्यार्घ्याचमनीयं च गन्धपुष्पादिभिः क्रमात् ॥ १६।३५ ॥
View Verse
गौल्यं पायसमुद्गान्नं सोपदंशं घृताप्लुतम् ।
निवेदयित्वां देवस्य दाधिकं तु निवेदयेत् ॥ १६।३६ ॥
View Verse
पानीयाचमनीयं च मुखवासं निवेदयेत् ।
ततस्तु शाययेद्देवं नमस्कृत्य तु देशिकः ॥ १६।३७ ॥
View Verse
गन्धतोयेन सम्पूर्णान् सूत्रत्रयसुवेष्टितान् ।
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ॥ १६।३८ ॥
View Verse
पक्वबिम्बफलाकारान् मृद्घटान् लक्षणान्वितान् ।
पञ्चरत्नसमायुक्तान् हेमपञ्चायुधान्वितान् ॥ १६।३९ ॥
View Verse
सौवर्णं चापि श्रीवत्सं सौवर्णगरुडान्वितम् ।
शङ्खं चक्रं च कूर्मं च संस्मरेन्मूलविद्यया ॥ १६।४० ॥
View Verse
सकूर्चं सापिधानं च वस्त्रयुग्मेन वेष्टितम् ।
देवस्य दक्षिणे पार्श्वे विन्यसेद्धान्यराशिषु ॥ १६।४१ ॥
View Verse
प्रधानकुम्भमादाय प्राङ्मुखो वाप्युदङ्मुखः ।
पञ्चमूर्तिमनुध्यायेत् तत्कुम्भे ऽवाह्य नारद ॥ १६।४२ ॥
View Verse
ब्रह्मबीजेन तत्कुम्भं गन्धपुष्पैः समर्चयेत् ।
कर्मार्चा चोत्सवं स्नानं बलिर्यात्रा च पञ्चमम् ॥ १६।४३ ॥
View Verse
स्नाने प्रतिष्ठाधिवासे कालमेकं(?)तु कारयेत् ।
देवेन सह संयोज्य देवीनां मुनिसत्तम ॥ १६।४४ ॥
View Verse
विद्यश्वराष्टकुम्भांश्च अष्टदिक्ष्वथ विन्यसेत् ।
हेमरत्नयुतांश्चैव वस्त्रसंवेष्टितान् शुभान् ॥ १६।४५ ॥
View Verse
इन्द्रादीशानपर्यन्तं वाराहादींश्च विन्यसेत् ।
स्वनाम्ना पूजयेत्तांश्च शङ्खादीन् मङ्गलान्(?)न्यसेत् ॥ १६।४६ ॥
View Verse
गन्धपुष्पाक्षतांश्चैव वस्त्रेण परिवेष्टितान् ।
एवं कृत्वा विधानेन मूर्तिहोमं समाचरेत् ॥ १६।४७ ॥
View Verse
ऋगादिवेदसंयुक्तं दिक्षु पूर्वादिषु द्विज ।
शङ्खादिघोषसंयुक्तं नृत्तगीतसमन्वितम् ॥ १६।४८ ॥
View Verse
वीणावेणुसमायुक्तं होमकर्म समाचरेत् ।
वैष्णवाग्निं समादाय कुण्डेष्वग्निं निधापयेत् ॥ १६।४९ ॥
View Verse
पालशाखादिरं चैव बिल्वमौदुम्बरं तथा ।
समिदष्टशतं प्रोक्तं पृथक् पूर्वादि कल्पयेत् ॥ १६।५० ॥
View Verse
पालाशखादिराभावे बिल्वैरेव तु कारयेत् ।
बिल्वाभावे मुनिश्रेष्ठ औदुम्बरमथाचरेत् ॥ १६।५१ ॥
View Verse
पूर्वादि चाग्निकुण्डेषु समिधः परिकीर्तिताः ।
आज्यं चरुवदुद्दिष्टं तत्सङ्ख्या च पृथक्पृथक् ॥ १६।५२ ॥
View Verse
अग्निमध्ये तथा पद्मं ध्यायेत् केसरपत्रकम् ।
तत्रस्था देवता ध्यात्वा होमं कुर्याद्विचक्षणः ॥ १६।५३ ॥
View Verse
जुहुयुः प्राङ्मुखाः सर्वे सोत्तरीयाः स्वलङ्कृताः ।
भोजयेद्ब्राह्मणान् रात्रौ भक्तान् द्वादश पायसम् ॥ १६।५४ ॥
View Verse
वेदाध्ययनमेवात्र चतुर्दिक्षु च कारयेत् ।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम् ॥ १६।५५ ॥
View Verse
पूर्वादि चोत्तरान्तं तु यथासंरव्यं प्रकल्पयेत् ।
शान्तिहोमं ततः कृत्वा होमान्ते च यथाक्रमम् ॥ १६।५६ ॥
View Verse
मधुना पयसा दध्ना हूयतेन (जुहुयाच्च?) घृतेन च ।
पौरुषेण च सूक्तेन प्रत्येकं षोडशाहुतीः ॥ १६।५७ ॥
View Verse
पूर्वादि चोत्तरान्तं तु कुण्डे चैव यथाक्रमम् ।
हुत्वा हुत्वा स्पृशेयुस्ते प्रतिमां मूलविद्यया ॥ १६।५८ ॥
View Verse
मधु हुत्वा स्पृशेत् पादं क्षीरं हुत्वोदरं स्पृशेत् ।
दधि हुत्वा च वदनं हुत्वाज्यं शिरसि स्पृशेत् ॥ १६।५९ ॥
View Verse
पलाशशाखया प्राच्यां सिञ्चेत्तन्मूर्तिधारकः ।
दक्षिणस्यां ततः सिञ्चेत् खादिरस्य तु शाखया ॥ १६।६० ॥
View Verse
सिञ्चेत्तन्मूर्तिधारस्तु प्रतीच्यां बिल्वशाखया ।
उदुम्बरेण चोदीच्यां सिञ्चेत्तन्मूर्तिधारकः ॥ १६।६१ ॥
View Verse
आचार्यः कोणदेशे तु सिञ्चेद्वेतसशाखया ।
पुष्पाञ्जलिं(-लिः?)नमस्कृत्य आचार्यो मूलविद्यया ॥ १६।६२ ॥
View Verse
उत्तराग्नौ तु जुहुयात् आचार्यो मधुरत्रयम् ।
गुलाज्यमधुसम्मिश्रं मधुरत्रयमुच्यते ॥ १६।६३ ॥
View Verse
मूलमन्त्रेण जुहुयात् प्रत्येकाष्टाहुतीः क्रमात् ।
नृत्तगेयैश्च वाद्यैश्च वेदाध्ययनसत्कथाम् (-संयुतैः) ॥ १६।६४ ॥
View Verse
अनिर्वाणप्रदीपैश्च रात्रिशेषं समापयेत् ।
प्रभातायां तु शर्वर्यां स्नात्वाचार्यः प्रयत्नवान् ॥ १६।६५ ॥
View Verse
द्वारस्य दक्षिणे पार्श्वे स्थण्डिले चतुरश्रके ।
कारयेद्वास्तुहोमं तु समिदाज्यचरूनपि ॥ १६।६६ ॥
View Verse
अपामार्गस्य समिधः शम्याश्च खदिरस्य च ।
यक्षरक्षः पिशाचानां शान्त्यर्थं जुहुयात् पृथक् ॥ १६।६७ ॥
View Verse
प्रणवादिस्वमन्त्रैश्च जुहुयान्मन्त्रवित्तमः ।
दिशाहोमांश्च कुर्वीत प्रासादस्य समन्ततः ॥ १६।६८ ॥
View Verse
स्थण्डिलेष्वेवमेवाग्निं जुहुयाद्दिक्पतीन् क्रमात् ।
ध्यात्वा ध्यात्वा स्वमन्त्रेण समिदादि यथाक्रमम् ॥ १६।६९ ॥
View Verse
पलाशखदिराश्वत्थप्लक्षन्यग्रोधबिल्वजाः ।
उदुम्बरश्च काश्मर्यः समिधो ऽष्टौ प्रकीर्तिताः ॥ १६।७० ॥
View Verse
ऐन्द्रादीशानपर्यन्तं समिदाज्यचरूनपि ।
एवं समाप्य विधिवत् वास्तुहोमादिकान् क्रमात् ॥ १६।७१ ॥
View Verse
कारयेन्मुनिशार्द्वल पश्चात् पूर्णाहुतिं हुनेत् ।
वौषडन्तेन मन्त्रेण आचार्यः पश्चिमे ऽनले ॥ १६।७२ ॥
View Verse
द्वादशाक्षरमन्त्रेण स्रुचा पूर्णाहुतिं हुनेत् ।
गन्धपुष्पादिनाभ्यर्च्य घण्टाशब्दसमन्वितम् ॥ १६।७३ ॥
View Verse
पूर्णाहुतिं क्रमात् कृत्वा त्रिधा मन्त्रमनुस्मरन् ।
गोमयेन समालिप्य बालस्थानं समन्ततः ॥ १६।७४ ॥
View Verse
मूलस्थानं तु वा तत्र मूलमन्त्रेण मन्त्रवित् ।
अष्टदिक्षु यथान्यायं कारयेद्यत्नतो ध्वजान् ॥ १६।७५ ॥
View Verse
तोरणान् शास्त्रविहितान् चतुर्दिक्षु निवेशयेत् ।
दर्भमालादिसंयुक्तं मुक्तादामैर (-माद्य?) लङ्कृतम् ॥ १६।७६ ॥
View Verse
सर्वालङ्कारसंयुक्तं पुष्पमालाविभूषितम् ।
पुण्याहं वाचयित्वा तु पूजनीयांश्च पूजयेत् ॥ १६।७७ ॥
View Verse
वस्त्राभरणकं सम्यगाचार्यय प्रदापयेत् ।
आचार्यमनसः प्रीतिरतिसम्पत्तिकारिणी ॥ १६।७८ ॥
View Verse
सौवर्णं ब्रह्मसूत्रं तु सौवर्णं कर्णभूषणम् ।
अङ्गुलीवलयं चैव प्रकोष्ठवलयं तथा ॥ १६।७९ ॥
View Verse
अलङ्कृत्यैवमाचार्यं दक्षिणां तस्य दापयेत् ।
पञ्चविंशतिनिष्कं तु सुवर्णं दक्षिणोत्तमम् ॥ १६।८० ॥
View Verse
तदर्धं मध्यमं चैव तदर्धमधमं भवेत् ।
एवमेव तु कर्तव्य उत्सवे दक्षिणाक्रमः ॥ १६।८१ ॥
View Verse
उत्तमादिक्रमात् प्रोक्ता दक्षिणा मुनिसत्तम ।
यथा (-द्वै?)वित्तानुसारेण दद्याद्वा(-द्वै?)दक्षिणां मुने ॥ १६।८२ ॥
View Verse
अत्रोपयुक्तं यद्द्रव्यं देवतालङ्कृतिं विना ।
आचार्याय प्रदातव्यं वस्त्रव्रीह्यादिकं तथा ॥ १६।८३ ॥
View Verse
आचार्यदक्षिणार्धांशतुल्या स्थापकदक्षिणा ।
तदर्धं मूर्तिपानां तु वास्तुशान्तिकृतस्तथा ॥ १६।८४ ॥
View Verse
होतॄणां दक्षिणार्धं स्याद् अध्येतॄणां तु दक्षिणा ।
सर्वेषां चैव दातव्यं वस्त्रयुग्मं नवं शुभम् ॥ १६।८५ ॥
View Verse
दैवज्ञं पूजयेत् पश्चात् सुमुहूर्तप्रदो हि सः ।
गेयनृत्तकरांश्चैव पूजयेद्वैष्णवांस्ततः ॥ १६।८६ ॥
View Verse
मूहूर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया ।
सूर्यमण्डलमध्यस्थं देवं नारायणं प्रभुम् ॥ १६।८७ ॥
View Verse
कुम्भे पञ्चप्रतीके च आवाह्य प्रणवेन तु ।
अर्घ्यपाद्यापदिनाभ्यर्च्य एकमूर्तिमनुस्मरेत् ॥ १६।८८ ॥
View Verse
पूजयित्वा मुनिश्रेष्ठ स्वयं तु विगतस्पृहः ।
श्रियं पुष्टिं तथा कुम्भमध्ये सम्पूजयेत्ततः ॥ १६।८९ ॥
View Verse
प्रणवादि स्वनाम्ना तु साधको मन्त्रवित्तमः ।
तत्कुम्भान्तर्गतं देवं स्थापयेत् साधकोत्तमः ॥ १६।९० ॥
View Verse
स्थापकश्चोद्धरेत् कुम्भमाचार्यो वा मुनीश्वर ।
उत्तर्योष्णीषसंयुक्तमुद्धरेत् कुम्भमुत्तमम् ॥ १६।९१ ॥
View Verse
तथैव समलङ्कृत्य स्थापकं मुनिसत्तम ।
आचार्यो मूर्तिपैर्युक्तः प्रतिमामुद्धरेत् क्रमात् ॥ १६।९२ ॥
View Verse
मङ्गलानु(-न्यु?)द्धरेयुश्च दिशाहोमकरास्तथा ।
शङ्खदुन्दुभिघोषैश्च स्वस्तिवाचनसंयुतम् ॥ १६।९३ ॥
View Verse
नृत्तगेयसमायुक्तं धूपदीपसमन्वितम् ।
पुष्पवृष्टिसमायुक्तं वितानध्वजसंयुतम् ॥ १६।९४ ॥
View Verse
ततस्तु समलङ्कृत्य देवाग्रे वैष्णवान् शुभान् ।
गन्धतोयेन सम्पूर्णान् सूत्रत्रयसुवेष्टितान् ॥ १६।९५ ॥
View Verse
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ।
वर्धनीं गृह्य तन्त्रज्ञो देवाग्रे ऽच्छिन्नधारया ॥ १६।९६ ॥
View Verse
गेहं प्रदक्षिणं कृत्वा बालस्थानं प्रवेशयेत् ।
प्रतिमां मूर्तिमन्त्रेण स्थापयेन्मन्त्रवित्तमः ॥ १६।९७ ॥
View Verse
ततश्च पञ्चमन्त्राणां (-न्त्रांश्च?) स्थापयेद्विहितेन च ।
तस्याग्रे स्थापयेत् कुम्भमाचार्यस्तन्त्रवित्तमः ॥ १६।९८ ॥
View Verse
तत्तोयं प्रतिमामूर्ध्नि मूलमन्त्रेण सेचयेत् ।
श्रियादीनां(?)स्वमन्त्रैस्तु सेचयेद्देववत् क्रमात् ॥ १६।९९ ॥
View Verse
कर्मार्चनादि मूर्तीनां(?) सेचयेन्मूलबेरवत् ।
कुम्भाच्छेषोदकं गृह्य तच्छरावे निषिच्य च ॥ १६।१०० ॥
View Verse
शलाकमात्रया चैव धारयाच्छिन्नया पुनः ।
परितः परिषेकं च कुर्यान्मूलेन मन्त्रवित् ॥ १६।१०१ ॥
View Verse
अञ्जलिं दर्शयित्वा तु सर्वमन्त्रांश्च(-मन्त्रं च?)संस्मरेत् ।
द्वारस्योत्तरपार्श्वे तु न्यासहोमं स्वमन्त्रतः ॥ १६।१०२ ॥
View Verse
स्थण्डिले मुनिशार्दूल पञ्चरात्रविशारदैः ।
कारयेत् समिदाद्यैस्तु प्रत्येकैकाहुतिं क्रमात् ॥ १६।१०३ ॥
View Verse
मन्त्रन्यासं ततः कुर्यात् पूर्ववत् साधकोत्तमः ।
तथैव कारयेत्तस्मिन् स्थापको न्यासमुत्तमम् ॥ १६।१०४ ॥
View Verse
पश्चाद्देवं समालम्ब्य पूजयेत् साधकोत्तमः ।
गन्धपुष्पादिनाभ्यर्च्य प्रणम्य च जनार्दनम् ॥ १६।१०५ ॥
View Verse
सन्निधानं कुरुष्वेति प्रणमेत् दण्डवत् क्षितौ ।
तस्मिन् काले महाप्राज्ञो वेदाध्ययनमाचरेत् ॥ १६।१०६ ॥
View Verse
पुष्पाञ्जलिर्नमस्कृत्य आचार्यो मन्त्रमुच्चरेत् ।
सर्वं न्यूनातिरिक्तं च मया पूर्वं च यत्कृतम् ॥ १६।१०७ ॥
View Verse
तत्सर्वं देवदेवेश क्षन्तुमर्हसि मे प्रभो ।
ततस्तु मुनिशार्दूल प्रासादं प्रोक्षयेद्बुधः ॥ १६।१०८ ॥
View Verse
कुम्भोदकादशेषं तु बहिरन्तश्च सर्वशः ।
पौरुषेणैव सूक्तेन प्रोक्षणादेव शुद्ध्यति ॥ १६।१०९ ॥
View Verse
पायसं कृसरं गौल्यं मुद्गान्नं च निवेदयेत् ।
ताम्बूलं मुखवासं च परिवारांश्च(?)कल्पयेत् ॥ १६।११० ॥
View Verse
होमपूर्वेण मन्त्रज्ञो ह्यन्तर्बहिरनुक्रमात् ।
लोकपालान् मुनिश्रेष्ठ कल्पयेत्तु यथाक्रमम् ॥ १६।१११ ॥
View Verse
अन्यावरणदेवांश्च बालगेहे न कल्पयेत् ।
दिने दिने तु कर्तव्यो होमूपर्वो बलिक्रमः ॥ १६।११२ ॥
View Verse
चण्डादीशावसानं तु बलिं दद्यात् पृथक्पृथक् ।
महापीठार्धमानं तु विस्तरायामतादृशम् ॥ १६।११३ ॥
View Verse
बालगेहस्य पूर्वे तु कल्पयेत् पीठमुत्तमम् ।
पीठोपरि मुने पद्ममष्टपत्रं सकर्णिकम् ॥ १६।११४ ॥
View Verse
पूर्ववत् पार्षदान् सर्वान् तिष्ठन्तौ(-तो?)बलिपीठकौ(-के?) ।
बलिशेषं न्यसेद्धीमान् पूर्ववन्मन्त्रसंयुतम् ॥ १६।११५ ॥
View Verse
उत्सवस्नपनादीनि कारयेच्छास्त्रचोदितम् ।
शेषं साधारणं कुर्यात् बालस्थाने मुनीश्वर ॥ १६।११६ ॥
View Verse
बालस्थानं विना पूर्वं मूलस्थानं न कारयेत् ।
यदि कुर्यान्महादोषः कर्तृदेशविनाशनः ॥ १६।११७ ॥
View Verse
बालगेहार्चनाबिम्बं मूलागारे न पूजयेत् ।
पूजयेद्यदि तद्बिम्बं कर्ता राष्ट्रं च नश्यति ॥ १६।११८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन मूलागारे न पूजयेत् ।
प्रतिष्ठान्ते मुनिश्रेष्ठ उत्सवं कारयेत् क्रमात् ॥ १६।११९ ॥
View Verse
पञ्चसप्तनवाहं वा यथावित्तानुसारतः(?) ।
ध्वजं चैवोत्सवारम्भे सद्यः कुर्यात्तु तद्दिने ॥ १६।१२० ॥
View Verse
तीर्थान्ते स्नपनं कुर्यात् पूर्वोक्तेन विधानतः ।
पुष्पयागविधानं तु नेष्यते ऽस्मिन् महामुने ॥ १६।१२१ ॥
View Verse
इति सङ्क्षेपतः प्रोक्तो बालस्थानविधिर्मुने ।
एवमेव द्वितीयस्य प्रतिष्ठालक्षणं परम् ॥ १६।१२२ ॥
View Verse
विशेषं चात्र वक्ष्याभि द्वितीयस्य मुहामुने ।
प्रतिष्ठार्क्षस्य पूर्वेद्युः मध्यरात्रे ऽल्पगेहके ॥ १६।१२३ ॥
View Verse
स्थण्डिलं चतुरश्रं च हस्तमात्रं समन्ततः ।
कारयित्वा मुनिश्रेष्ठ पश्चाद्देवं नयेद्बुधः ॥ १६।१२४ ॥
View Verse
बिम्बाग्रे स्थण्डिले मध्ये मूलमन्त्रमनुस्मरन् ।
कुम्भं संस्थाप्य विधिवत् तत्कुम्भे कल्पयेद्धरिम् ॥ १६।१२५ ॥
View Verse
आनयेन्मूर्तिमन्त्रेण गन्धपुष्पादिनार्चयेत् ।
कुम्भस्यान्तर्गतं देवं रविमध्ये नयेत् क्षणात् ॥ १६।१२६ ॥
View Verse
पश्चाद्देवं समावाह्य महाकुम्भे महामुने ।
तत्कुम्भान्तर्गतं देवं मूलबेरे न्येद्बुधः ॥ १६।१२७ ॥
View Verse
पूर्ववत् प्रोक्षयेन्मूलस्थानं तन्त्रविचक्षणः ।
परिवारानशेषांस्तु कल्पयेच्छास्त्रचोदितम् ॥ १६।१२८ ॥
View Verse
दिग्देवान् विधिवत् स्थाप्य पूजयेत्तद्दिने दिने ।
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं भवेत् ॥ १६।१२९ ॥
View Verse
युक्त्या युक्तिविशेषेण कारयेदिह नारद ।
प्रथमे च द्वितीये च क्रियासु मुनिसत्तम ॥ १६।१३० ॥
View Verse
एवं कृते तु विधिवत् तद्राज्ञो राष्ट्रवासिनाम् ।
कर्तुः कारयितुश्चैव आयुः श्रीश्चापि वर्धते ॥ १६।१३१ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रतिष्ठाविधिर्नाम षोडशो ऽध्यायः ॥
View Verse

Chapter - 17

सप्तदशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि जङ्गमस्थापनं परम् ।
अप्रधानं च बिम्बं तु जङ्गमं बिम्बमुत्तमम् ॥ १७।१ ॥
View Verse
पृथक् चेत् सर्वकर्माणि बिम्बशुद्ध्यर्थमेव च ।
कारयेन्मुनिशार्दूल स्नानादिप्रतिमाक्रियाम् ॥ १७।२ ॥
View Verse
स्नानोत्सवादिकार्यार्थं काले ऽस्मिन् वर्तते सति (?) ।
जलवासं क्रमात् कृत्वा मण्डपे चाधिवासनम् ॥ १७।३ ॥
View Verse
कृत्वा तु पूर्ववद्धोमं तिलहोमं विना द्विज ।
स्नपनं विधिवत् कृत्वा रत्नन्यासं विना मुने ॥ १७।४ ॥
View Verse
मन्त्रन्यासं विना तस्मिन् तत्त्वन्यासं समाचरेत् ।
मध्यसूत्रं परित्यज्य प्रासादे परमेष्ठिना ॥ १७।५ ॥
View Verse
पौरुषं सूक्तमुच्चार्य स्थापयेन्मतिमान् पृथक् ।
मूर्तीनां स्थानभेदस्तु बिम्बाध्याये प्रदर्शितः ॥ १७।६ ॥
View Verse
तत्तत्स्थाने स्वमन्त्रेण संस्थाप्यार्चादि नारद ।
यद्रुपं मूलबेरस्य यच्चिह्नैश्चिह्नितं पुरा ॥ १७।७ ॥
View Verse
या मूर्तिः स्थापिता पूर्वं मूलार्चेति महात्मभिः ।
यथा चायुधविन्यासः कथं(कृतो?)बुद्धिमतां वरैः ॥ १७।८ ॥
View Verse
कर्मार्चादिषु बेरेषु तत्सर्वं कारयेत्तथा ।
न विधिः शयितस्यैषः स्थापनादि प्रकीर्तितम् ॥ १७।९ ॥
View Verse
शयितस्य तु कर्मार्चा स्थानकं त्वासनं तु वा ।
संस्थाप्य वासुदेवाख्यं न सङ्कर्षणमिष्यते ॥ १७।१० ॥
View Verse
तथा सङ्कर्षणं स्थाप्य प्रद्युम्नं नार्चयेत् सुधीः ।
प्रद्युम्नस्थापनार्चायां कर्मार्चा नानिरुद्धका ॥ १७।११ ॥
View Verse
कर्मार्चा सर्वथा कार्या मूलबिम्बानुसारिणी ।
विशेषश्चात्र सम्प्रोक्तः शेषं पूर्ववदाचरेत् ॥ १७।१२ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं जङ्गमस्थापनं मुने ।
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥ १७।१३ ॥
View Verse
स्थापनं सम्प्रवक्ष्यामि चित्राभासार्धचित्रके ।
आभासं त्रिविधं प्रोक्तं भित्तौ च फलके पटे ॥ १७।१४ ॥
View Verse
अर्धचित्रं तथा भित्तौ शिलायां दारुके ऽपि च(?) ।
विद्यते यदि कर्मार्चाप्येतेषां(स्यादेषां?)लोहजाकृतिः ॥ १७।१५ ॥
View Verse
कर्मार्चायां तु सकलां क्रियां कृत्वा तु पूर्ववत् ।
मूलार्चायां तु कर्तव्यो मन्त्रन्यासो द्विजोत्तम ॥ १७।१६ ॥
View Verse
अधिवासनकुम्भस्थतोयेन प्रोक्षयेद्बुधः ।
ततः पुरुषसूक्तेन पञ्चोपनिषदैरपि ॥ १७।१७ ॥
View Verse
अत्रैव षोडशन्यासो नेष्यते तन्त्रपारगैः ।
फलके च पटे चैव विशेषं कथयाम्यहम् ॥ १७।१८ ॥
View Verse
मण्डपं पूर्ववत् कृत्वा वेदिं कृत्वा तु पूर्ववत् ।
कृत्वा सुलोचने दिव्ये शयने सन्निवेशयेत् ॥ १७।१९ ॥
View Verse
जलाधिवासनं चैव नेष्यते स्नपनं बुधैः ।
मूर्तिहोमं ततः कृत्वा दिशाहोमविवर्जितम् ॥ १७।२० ॥
View Verse
विद्येशानपि सम्पूज्य वेदिकाकलशेष्वथ ।
प्रलयं च निसर्गं च क्रमात् कृत्वा तु देशिकः ॥ १७।२१ ॥
View Verse
प्रोक्षयेत् स्वेन मन्त्रेण ब्रह्मकुम्भस्थवारिणा ।
युक्त्या युक्तिविशेषेण शेषं पूर्ववदाचरेत् ॥ १७।२२ ॥
View Verse
भित्तिस्थप्रतिमायां तु स्थानं कथयाम्यहम् ।
भित्तौ सम्यक्पटे चित्रे वर्णालङ्कारभूषिते ॥ १७।२३ ॥
View Verse
आभासे चार्धचित्रे वा पटे सम्यक्सुलोचने (?) ।
देवस्य पुरतः कृत्वा मण्डपं सपरिच्छदम् ॥ १७।२४ ॥
View Verse
वेदिकां तत्र कुर्वीत पूर्वोक्तेन विधानतः ।
द्विकरां त्रिकरां वापि शिल्पिना कुशलेन तु ॥ १७।२५ ॥
View Verse
ततस्तु वेदिकामध्ये विन्यसेच्छालिसञ्चयम् ।
शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥ १७।२६ ॥
View Verse
ततस्तु द्रोणसम्पूर्णं ब्रह्मकुम्भं सुवर्चसम् ।
वस्त्रपूतैर्जलैः पूर्णं सकूर्चं सापिधानकम् ॥ १७।२७ ॥
View Verse
ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।
अष्टशक्तिसमोपेतं सौवर्णायुधपञ्चयुक् ॥ १७।२८ ॥
View Verse
अश्वत्थपल्लवैर्युक्तं गन्धपुष्पाक्षतार्चितम् ।
तत्कुम्भं प्रणवेनैव पद्ममध्ये तु विन्यसेत् ॥ १७।२९ ॥
View Verse
ततः पद्मदलेष्वष्टघटांस्तु परितो न्यसेत् ।
पूर्ववत्तोयसम्पूर्णान् सहिरण्यान् सवस्त्रकान् ॥ १७।३० ॥
View Verse
सपिधानान् सकूर्चांस्तु मुखे चाश्वत्थपल्लवान् ।
अर्चयेद्गन्धपुष्पैश्च दीपैरन्यैर्विचित्रकैः ॥ १७।३१ ॥
View Verse
अर्चयेन्मूलमन्त्रेण नारायणमनामयम् ।
विश्णुमक्लिष्टकर्माणं परमं मध्यमे घटे ॥ १७।३२ ॥
View Verse
वासुदेवं न्यसेत् पूर्वे सङ्कर्षणं तु दक्षिणे ।
प्रद्युम्नं पश्चिमे न्यस्य अनिरुद्धं तु चोत्तरे ॥ १७।३३ ॥
View Verse
आग्नेय्यां विन्यसेल्लक्ष्मीं नैरृत्यां तु सरस्वतीम् ।
वायव्ये तु रतिं न्यस्य शान्तिमीशानगोचरे ॥ १७।३४ ॥
View Verse
एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ।
अथवात्र मुनिश्रेष्ठ परितः कलशान् न्यसेत् ॥ १७।३५ ॥
View Verse
तन्मध्ये चानयेदष्टविद्येशान् साधकोत्तमः ।
वाराहं पूर्वभागे तु नारसिंहं तु दक्षिणे ॥ १७।३६ ॥
View Verse
श्रीधरं पश्चिमे देशे उत्तरे हयशीर्षकम् ।
आग्नेये भार्गवं रामं नैरृत्यां राममेव च ॥ १७।३७ ॥
View Verse
वामनं चापि वायव्ये वासुदेवं तथेशके ।
स्वनाम्ना पूजयित्वैतान् कलशेषु पृथक् पृथक् ॥ १७।३८ ॥
View Verse
एवं सम्पूजयित्वा तु होमकर्म समाचरेत् ।
पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥ १७।३९ ॥
View Verse
वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके ।
अर्धचन्द्राग्निदुण्डे तु याम्य सङ्कर्षणं यजेत् ॥ १७।४० ॥
View Verse
वारुणे वृत्तकुण्डे तु प्रद्युम्नं तु यजेद्बुधः ।
उत्तरे पद्मकुण्डे तु अनिरुद्धमथो यजेत् ॥ १७।४१ ॥
View Verse
पालाशं खादिरं चैव बैलवमौदुम्बरं तथा ।
अष्टोत्तरशत हुत्वा पूर्वादि च पृथक् क्रमात् ॥ १७।४२ ॥
View Verse
समिदाज्यचरून् लाजान् जुहुयुर्मूर्तिपाः क्रमात् ।
अथवात्र मुनिश्रेष्ठ पूर्वाग्नौ साधकात्तमः ॥ १७।४३ ॥
View Verse
समिदाज्येन चरुणा होममेकेन(?)चाप्यलम् ।
कुण्डे वा स्थण्डिले वापि आचार्यो जुहुयाद्बुधः ॥ १७।४४ ॥
View Verse
रात्रौ होमः प्रकर्तव्यः जलसम्प्रोक्षणं दिवा ।
न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ॥ १७।४५ ॥
View Verse
तस्मात् सर्वप्रयत्नेन रात्रौ होमं तु कारयेत् ।
मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥ १७।४६ ॥
View Verse
कुम्भस्थितेन तोयेन प्रोक्षयेत् परमेष्ठिना ।
आवाहयेत्ततो देवं नारायणमनामयम् ॥ १७।४७ ॥
View Verse
शङ्खचक्रधरं देवं पीताम्बरधरं हरिम् ।
यद्रुपं चिन्तितं भित्तौ तथा ध्यायेज्जगद्गुरुम् ॥ १७।४८ ॥
View Verse
एवं कृत्वा महाविष्णुं प्रोक्षयेद्गन्धवारिणा ।
ततः पुरुषसूक्तेन प्रोक्षयेत् प्रतिमां पुनः ॥ १७।४९ ॥
View Verse
पूजयेदर्घ्यपाद्यैश्च चरुभिर्विविधैरपि ।
यथावित्तानुसारेण(?) दद्यादाचार्यदक्षिणाम् ॥ १७।५० ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं स्थापनं भित्तिसंश्रितम् ।
ततःसुपीठिकां कृत्वा पीठस्य(पीठं च?)परितःक्रमात् ॥ १७।५१ ॥
View Verse
सङ्कल्प्य परिवारांश्च तत्रावाह्य तु पूजयेत् ।
दिने दिने मुनिश्रेष्ठ त्रिसन्ध्यैकमथापि वा ॥ १७।५२ ॥
एवं सङ्क्षेपतः प्रोक्तो (क्ता?) भित्तिबिम्बस्य संस्थितिः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (जङ्गमबिम्बादिस्थापनविधिर्नाम) सप्तदशो ऽध्यायः ॥
View Verse

Chapter - 18

अष्टादशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि देवीनां स्थापनं परम् ।
तयोर्विवाहं होमं च शृणु गुह्यमनुक्रमात् ॥ १८।१ ॥
View Verse
देवं पूर्वं प्रतिष्ठाप्य तत्काले प्रोक्षयेन्मुने ।
श्रियादीनां(?)स्वमन्त्रेण महाकुम्भस्थवारिणा ॥ १८।२ ॥
View Verse
पृथक् चेन्मुनिशार्दूल देवीस्थापनमाचरेत् ।
मण्डपं पूर्ववत् कृत्वा दशहस्तसमन्वितम् ॥ १८।३ ॥
View Verse
वेदिकां पूर्ववत् कृत्वा मण्डपस्थानुरूपतः ।
हस्तमात्रं तदर्धं वा कुण्डानि परितः क्रमात् ॥ १८।४ ॥
View Verse
कारयेत्तद्विधानेन शिल्पिभिः सह साधकः ।
चतुरश्राणि सर्वाणि कीर्तितानि श्रियः क्रमात् ॥ १८।५ ॥
View Verse
भूमेर्वृतानि(?)कुण्डानि तदङ्गानां तथैव च ।
शान्तिं लक्ष्मीं च वाग्देवीं रतिं पूर्वादि चाग्निषु ॥ १८।६ ॥
View Verse
श्वेतां पद्मोत्पलश्यामां ध्यात्वा तु जुहुयात् क्रमात् ।
लक्ष्मीं सरस्वती चैव रतिः प्रीतिस्थथैव च ॥ १८।७ ॥
View Verse
कीर्तिः शान्तिस्तथा तुष्टिः पुष्टिश्चैव यथादिशम् ।
पूर्वादिकलशानां तु वेदिकायां तु देवताः ॥ १८।८ ॥
View Verse
महामुम्भं तु संस्थाप्य तच्छक्तिं मध्यमे नयेत् ।
सर्वशक्तिसमोपेतां सर्वाङ्गां सर्वकारिणीम् ॥ १८।९ ॥
View Verse
सम्पूजयेत् स्वमन्त्रेण गन्धाद्यैःसुमनोरमैः ।
ध्वजानां तोरणानां च कलशानां च देवताः ॥ १८।१० ॥
View Verse
पूर्वोक्ताः पूजनीयाश्च क्रमेणैवात्र चैव हि ।
तोरणद्वारकलशान् वेदिकाकलशानपि ॥ १८।११ ॥
View Verse
पालिकावेदिकायां तु तथा चैवाष्टमङ्गलान्(?) ।
वस्त्रैः क्रमेण सञ्छाद्य गन्धपुष्पैश्च पूजयेत् ॥ १८।१२ ॥
View Verse
तत्तत्स्वरूपं सौवर्णं कलशेषु विनिक्षिपेत् ।
स्नपनं शयनं चैव अधिवासनमेव च ॥ १८।१३ ॥
View Verse
पूर्वोक्तं सकलं कुर्याद्देवीमावाह्य यत्नतः ।
पूजां च महतीं कुर्यात् काले प्राप्ते सुशोभने ॥ १८।१४ ॥
View Verse
विशेषमत्र वक्ष्यामि सर्वलोकशुभप्रदम् ।
सर्वेषां भक्तिजननमायुःश्रीकीर्तिवधनम् ॥ १८।१५ ॥
View Verse
कर्तॄणां पुष्टिजननं ग्रामस्यैव विशेषतः ।
सर्वदुःखहरं पुंसां सर्वकामफलप्रदम् ॥ १८।१६ ॥
View Verse
क्रमाद्वैवाहिकं होमं कारयेत्तन्त्रपारगः ।
वैष्णव्यः शक्तयः प्रोक्ता मानुष्यो याश्च शक्तयः ॥ १८।१७ ॥
View Verse
तासां वै यत्र शक्तीनां पूर्वा लक्ष्म्याःपरा क्षितिः(तेः?) ।
भूमेरंशावतारं तत्(-रस्तु?)पुष्टिर्नाम महामुने ॥ १८।१८ ॥
View Verse
क्षितिं वाप्यथवा पुष्टिं सव्यपार्श्वे तु योजयेत् ।
देव्योर्विवाहमेकस्मिन् काले तु समुपस्थिते ॥ १८।१९ ॥
View Verse
लक्ष्म्याः पूर्वं ततो भूमेः कारयित्वा विचक्षणः ।
लग्नस्यातिक्रमे कृत्वा जलदानं यथाविधि ॥ १८।२० ॥
View Verse
तस्मिन् क्रमेण शेषं तु साधकः साधयेत् पुनः ।
कारयेत् क्रमयोगेन चैकस्मिन् स्थण्डिले पुनः ॥ १८।२१ ॥
View Verse
वस्त्रयुग्मेन देवेशं देवीं चैव यथाक्रमम् ।
भूषणैश्चैव विविधैरलङ्कृत्य प्रयत्नतः ॥ १८।२२ ॥
View Verse
देवीं देवासने नीत्वा होमकर्म समारभेत् ।
पुण्याहं कारयित्वा तु ब्राह्मणैः स्वस्तिसंयुतम् ॥ १८।२३ ॥
View Verse
सर्वोपचारसंयुक्तं जलदानं तु कारयेत् ।
स्थण्डिलं पुरतः कृत्वा देवस्य पुरतः स्थितः ॥ १८।२४ ॥
View Verse
विज्ञाप्यैवं कृतानुज्ञो होमं कुर्याद्विचक्षणः ।
पञ्चविंशतिमादाय समिधो ऽक्तास्तु सर्पिषा ॥ १८।२५ ॥
View Verse
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन सकृत् क्षिपेत् ।
आज्याहुतिशतं हुत्वा गायत्र्या विष्णुसञ्ज्ञया ॥ १८।२६ ॥
View Verse
आचार्यो ऽग्निं परिक्रम्य यथा राज्ञां पुरोहितः ।
तथा लाजैस्तु जुहुयात् प्रणवेनाहुतित्रयम् ॥ १८।२७ ॥
View Verse
मध्ये मध्ये परिक्रम्य पावकं पावनं हरेः ।
शान्तिहोमं तु कुर्वीत सर्पिषां प्रणवेन तु ॥ १८।२८ ॥
View Verse
प्रत्येकैकं मुनिश्रेष्ठ षोडशाहुतिमुत्तमम् ।
होमं समाप्य विधिवत् नृत्तगेयादि कारयेत् ॥ १८।२९ ॥
View Verse
एवं वैवाहिकं कृत्वा पूजयेत् पुरुषोत्तमम् ।
अनेनैव विधानेन प्रतिष्ठामात्रया(?)पि वा ॥ १८।३० ॥
View Verse
देवेन सह संयोज्य पूजयेत् तन्त्रवित्तमः ।
लोहबिम्बस्य देवीनां सम्प्रोक्तं मुनिसत्तम ॥ १८।३१ ॥
View Verse
लक्ष्म्यादिक्रमयोगेन पूजयेत्तु दिने दिने ।
सर्वासामेव देवीनां एष एव विधिर्भवेत् ॥ १८।३२ ॥
View Verse
मूलबेरस्य देवीनां प्रतिष्ठामात्रया(-म?) प्यलम् ।
विवाहादिक्रमस्तत्र नेष्यते मुनिसत्तम ॥ १८।३३ ॥
View Verse
स्वबीजैरेव कर्तव्यं स्थापनं मुनिसत्तम ।
मेधा सरस्वतीदुर्गेत्येवमादिषु मूर्तिषु ॥ १८।३४ ॥
View Verse
एवमादुषु कर्तव्यः प्रतिष्ठादिक्रमो मुने ।
प्रोक्षयेत् स्वस्वमन्त्रैस्तु ब्रह्मकुम्भस्थवारिणा ॥ १८।३५ ॥
View Verse
स्वैः स्वैर्मन्त्रैस्तु संस्थाप्य पूजयेत्तु विधानतः ।
एवं सङ्क्षेपतः प्रोक्तः देवीनां स्थापनक्रमः ॥ १८।३६ ॥
View Verse
एवं यः कारयेद्भक्त्या शक्तीनां स्थापनं परम् ।
आयुरैश्वर्यपुत्रादीन् सर्वान् कामानवाप्नुयात् ॥ १८।३७ ॥
View Verse
इह लोके सुखं लब्ध्वा परलोके तथैव च ।
राज्यलक्ष्मीं परां प्राप्य पुनः प्राज्ञो भविष्यति ॥ १८।३८ ॥
View Verse
अत्र कश्चिद्विशेषो ऽस्ति श्रीवत्सस्य हरिप्रियम् ।
लक्षणं स्थानभेदं च मन्त्रमाराधनं तथा ॥ १८।३९ ॥
View Verse
एवमादीनि चान्यानि विशेषाणि(!)महामुने ।
सङ्क्षेपतः प्रवक्ष्यामि शृणु गुह्यमनुत्तमम् ॥ १८।४० ॥
View Verse
सर्वसम्पत्समृद्ध्यर्थं सर्वकामशुभप्रदम् ।
सुवर्णरजतेनापि तथा ताम्रमयेन तु ॥ १८।४१ ॥
View Verse
उत्तमदिक्रमेणैव कारयेत् फलकास्पदम् ।
षडङ्गुलं तथायामं तस्य विस्तारमेव च ॥ १८।४२ ॥
View Verse
पञ्चाङ्गुलायतं वापि तन्मध्ये तत्समं भवेत् ।
द्व्यङ्गुलं तस्य विस्तारं मौलेरेकाङ्गुलं तु वा ॥ १८।४३ ॥
View Verse
एवं ज्ञात्वा मुनिश्रेष्ठ कुर्यादास्पदमुत्तमम् ।
एवं हि लक्षणं प्रोक्तं उत्तमं फलकाकृतेः ॥ १८।४४ ॥
View Verse
एकाङ्गुलविहीनं तु मध्यमं परिपठ्यते ।
द्व्यङ्गुलं तद्विहीनं तु कनीयसमुदाहृतम् ॥ १८।४५ ॥
View Verse
त्र्यङ्गुल(-लेन?)विहीनं तत् कुर्यात्तस्याधमाधमम् ।
मध्यमाधमकार्ये ऽस्मिन् अधमाधममेव च ॥ १८।४६ ॥
View Verse
तस्यानुरूपतः कुर्यात् विस्तारं मुनिसत्तम ।
तन्मध्ये चिन्तचित्वा तु साधकः परमार्थवित् ॥ १८।४७ ॥
View Verse
साधयेत् कमलां देवीं तप्तकाञ्चनसन्निभाम् ।
सर्वलक्षणसंयुक्तां पद्मासनसमन्विताम् ॥ १८।४८ ॥
View Verse
पद्महस्तां श्रियं देवीं पद्मनाभप्रियां शुभाम् ।
मणिमौक्तिकसंयुक्तां सर्वाभरणभूषिताम् ॥ १८।४९ ॥
View Verse
एवं सञ्चिन्त्य तां देवीं श्रियं त्रैलोक्यनायकीम् ।
हरेर्वक्षसि पार्श्वे तु दक्षिणे मुनिसत्तम ॥ १८।५० ॥
View Verse
स्थापयेत्तां श्रियं देवीं जगत्संरक्षणार्थकम् ।
सर्वसम्पत्समृद्ध्यर्थमिति शास्त्रस्य निश्चयः ॥ १८।५१ ॥
View Verse
जलाधिवासने चास्मिन् विशेषं कथयामि ते ।
भारद्वयेन सम्पूर्णं जलभाजनमुत्तमम् ॥ १८।५२ ॥
View Verse
सङ्गृह्य मुनिशार्दूल तस्मिन् पात्रे ऽधिवासयेत् ।
पूर्वोक्तजलमानीय पूरयित्वा तु भाजनम् ॥ १८।५३ ॥
View Verse
गन्धपुष्पैस्तु सम्पूज्य संस्मरेदमृतार्णवम् ।
तन्मध्ये पूर्ववत् कुर्यात् जलवासं विधानतः ॥ १८।५४ ॥
View Verse
एतत् क्रमेण वा कुर्यात् अच्युतस्य महामुने ।
दर्पणे संस्थिते बेरे चित्रादीनां विशेषतः ॥ १८।५५ ॥
View Verse
ह्रस्तं लोहजबिम्बस्य मुने स्वार्थपरार्थयोः ।
कारयेज्जलवासं तत् कनीयसमुदाहृतम् ॥ १८।५६ ॥
View Verse
जलाधिवासने प्रोक्तो विशेषो मुनिसत्तम ।
द्विप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ॥ १८।५७ ॥
View Verse
मूलबेरात्तु तां देवीमावाह्यात्रैव योजयेत् ।
मूलमन्त्रेण मतिमान् कुम्भतोयेन हस्तयोः ॥ १८।५८ ॥
View Verse
संयोज्यात्रैव मन्त्रेण साधकः परमार्थवित् ।
मन्त्रकोशे मया प्रोक्तस्तन्त्रे ऽस्मिन् मुनिसत्तम ॥ १८।५९ ॥
View Verse
सम्प्रोक्तं परमं मन्त्रं गुह्यद्गुह्यं वरप्रदम् ।
तेनैव प्रोक्षयेद्देवीं महाकुम्भस्थवारिणा ॥ १८।६० ॥
View Verse
तद्देहे न्यासमार्गेण विन्यसेत्तन्त्रवित्तमः ।
पञ्चविंशतितत्त्वानि तत्पञ्चाक्षरमेव च ॥ १८।६१ ॥
View Verse
शङ्खचक्राब्जमुद्रां तु दर्शयेत्तन्त्रवित्तमः ।
ततस्त्वाराधयेद्देवीमर्ध्याद्यष्टोपचारकैः ॥ १८।६२ ॥
View Verse
अर्घ्यं पाद्यं तथाचामं गन्धपुष्पं तथैव च ।
धूपदीपं निवेद्यं च पायसं गुलसंयुतम् ॥ १८।६३ ॥
View Verse
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम् ।
कारयेद् बलिदानं तु सर्वकामप्रदं शुभम् ॥ १८।६४ ॥
View Verse
बिल्वपत्राक्षतैर्युक्तं पद्मं पालाशमुत्पलम् ।
करवीरादिसंयुक्तं पूजयेत् कमलालयाम् ॥ १८।६५ ॥
View Verse
दिने दिने मुनिश्रेष्ठ एवमेव समर्चयेत् ।
पायसान्नङ्ग गुलोपेतं बिल्वपत्राङ्कुरैर्युतम् ॥ १८।६६ ॥
View Verse
चन्दनोदकसंयुक्तं बलिद्रव्यमिहोच्यते ।
एवमुक्तप्रकारेण घण्टादुन्दुभिसंयुतम् ॥ १८।६७ ॥
View Verse
कारयेद्बलिदानं तु सर्वकर्म(-काम ?) प्रदं शुभम् ।
बिल्वमूलस्य पालाशं मूलाश्वत्थस्य वा मुने ॥ १८।६८ ॥
View Verse
चतुरश्रं तु वृत्तं वा पीठं कृत्वा तु मन्त्रवित् ।
तन्मध्ये पूजयेल्लक्ष्मीं लक्ष्मयै नम इति ब्रुवन् ॥ १८।६९ ॥
View Verse
प्रणवादिसमायुक्तं पञ्चाक्षरमिति स्मृतम् ।
तस्याग्रे तु बलिं कुर्यात् पूवोक्तेन विधानतः ॥ १८।७० ॥
View Verse
गन्धपुष्पसमायुक्तं धूपदीपसमन्वितम् ।
एवं सम्पूजयित्वा तु मुखवासं प्रदापेयत् ॥ १८।७१ ॥
View Verse
बल्यन्ते तु मुनिश्रेष्ठ श्रीसूक्तं तु पठेत् त्रिधा ।
श्रीमन्त्रं तत्स्तुतिं वापि पठेत्तन्त्रविचक्षणः ॥ १८।७२ ॥
View Verse
ततः पञ्चमहाशब्दं घोषयेच्च पुनः पुनः ।
पूर्ववत् पूजयेद्देवीं सायाह्ने मुनिसत्तम ॥ १८।७३ ॥
View Verse
पूजान्ते कारयेद्धोमं समिदाज्यचरूनपि ।
बिल्वाद्यन्यतमस्याथ पद्मकुण्डे यथेच्छया ॥ १८।७४ ॥
View Verse
सङ्कल्प्यैकं मुनिश्रेष्ठ तन्मध्ये होममाचरेत् ।
बिल्वपालाशसमिधः प्रत्येकं षोडशाहुतीः ॥ १८।७५ ॥
View Verse
जुहुयान्मूलमन्त्रेण कपिलाज्येन होमयेत् ।
तथैव पायसं ब्रह्मन् जुहुयात् षोडशाहुतीः ॥ १८।७६ ॥
View Verse
तथैव बिल्वपत्रैश्च पद्मैरेकदलैरपि ।
साक्षतैः करवीरैस्तु जुहुयात्तु पुनः पुनः ॥ १८।७७ ॥
View Verse
होमं कृत्वा तु विधिवत् कुण्डाद्देवीं समुद्धरेत् ।
तद्धोमः परमो गुह्यः ग्रामराज्ञोर्विवृद्धिकृत् ॥ १८।७८ ॥
View Verse
सर्वरोगविनिर्मुक्तर्ं(-मोक्ता?)सर्वकामप्रदः शुभः ।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं समाचरेत् ॥ १८।७९ ॥
View Verse
होमान्ते दक्षिणां दद्यात् यथावित्तामुसारतः(?) ।
आचार्यं पूजयेत् पश्चाद्धेमवस्त्राङ्गुलीयकैः ॥ १८।८० ॥
View Verse
ब्राह्मणान् पूजयेत् पश्चाद्दैवज्ञमनुपूजयेत् ।
उक्तलक्षणहीनेन यदि कुर्यात् प्रमादतः ॥ १८।८१ ॥
View Verse
ग्रामराज्ञोश्च राष्ट्रस्य यजमानस्य नाशनम् ।
न फलन्ति क्रियास्तत्र नात्र कार्या विचारणा ॥ १८।८२ ॥
View Verse
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
इति सङ्क्षेपतः प्रोक्तमात्मार्थस्य परस्य च ॥ १८।८३ ॥
विशेषश्चात्र सम्प्रोक्तः शेषं पूर्वावदाचरेत् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [देवीस्थापनादिविधिर्नामट अष्टादशो ऽध्यायः ॥
View Verse

Chapter - 19

एकोनविंशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि चाङ्गन्यासादिलक्षणम् ।
शृणु गुह्यमना भूत्वा साधकानां हिताय वै ॥ १९।१ ॥
View Verse
अङ्गन्यासक्रमं चैव मुद्राया लक्षणं तथा ।
फलानि विविधान्यत्र सर्वविद्याप्रकाशकम् (?) ॥ १९।२ ॥
View Verse
आचार्यः प्रयतो भूत्वा प्राङ्मुखो वाप्युदङ्मुखः ।
पङ्कजं वासनं बद्ध्वा स्वस्तिकं वा यथेच्छया ॥ १९।३ ॥
View Verse
पूजारम्भे ऽञ्जलिं कृत्वा नमस्कृत्य यथाविधि ।
उत्ताने वामहस्ताग्रे तिर्यग्दक्षिणमञ्जसा ॥ १९।४ ॥
View Verse
मण्डलाकृति संस्पृश्य(?)वामान्तमितरेण तु ।
वामाङ्गुष्ठं ततो बद्ध्वा मुष्ट्योर्ध्वाङ्गुष्ठया मुने ॥ १९।५ ॥
View Verse
मुष्टिं कृत्वा गतो धाम ध्यात्वा मन्त्रं समाहितः ।
संस्पृश्य हृदयं देवं त्रिमात्रे शिरसा तथा ॥ १९।६ ॥
View Verse
प्रणम्य पाणिव्यत्यासं बद्ध्वा मुद्रां तथा पुनः ।
प्रविश्याञ्जलिमुद्रां तु पूजामन्त्रेण मन्त्रवित् ॥ १९।७ ॥
View Verse
नमो ऽन्तं हृदयं मूर्ध्नि शिखायां कवचे तथा ।
अस्त्रे नेत्रे ततो ध्यात्वा तच्चिह्नेन न्यसेद्बुधः ॥ १९।८ ॥
View Verse
मुद्राया लक्षणं चापि निरुक्तं च ततः शृणु ।
लब्धया तु यया यस्मात् साधको देववैरिणाम् ॥ १९।९ ॥
View Verse
द्रावयीत मुदं तस्मात् मुद्रा तल्लक्षणं शृणु ।
बद्धायास्तु बहिर्मुष्ट्या ऋजुमङ्गुष्ठमायतम् ॥ १९।१० ॥
View Verse
कृत्वातो मध्यमायां तु तन्मूलं हृदये स्पृशेत् ।
आहृत्य तर्जनीं सम्यक् बद्ध्वाङ्गुष्ठेन मुष्टिकम् ॥ १९।११ ॥
View Verse
अथाङ्गुष्ठललाटान्ते शिखोर्ध्वमहतीं तथा (?) ।
बृहदग्रद्वयेनैव क्षुद्रमुद्रस्य(?) बन्धनम् ॥ १९।१२ ॥
View Verse
हस्ताभ्यामूर्ध्वमायम्य कृत्वा चानाभिमण्डलम् ।
कवचस्य धिया न्यस्य कवचस्य तु मुद्रिका ॥ १९।१३ ॥
View Verse
अपरास्त्रस्य मुद्रैषा कथ्यते दक्षिणाग्रकम् ।
मुष्टिं बद्ध्वा ततस्तर्जन्यग्रमङ्गुष्ठरेखया ॥ १९।१४ ॥
View Verse
स्पृष्ट्वा स्फोटमुदक्षेपः पूर्वादि दशदिक्ष्वपि ।
कनिष्ठानामिके बद्ध्वा नहता तलमध्यगे ॥ १९।१५ ॥
View Verse
तर्जनीमध्यमाग्राभ्यां नेत्रयोर्नेत्रमुद्रिका ।
मध्यमुत्थापितं कृत्वा हस्तं सङ्कोच्य यत्नतः ॥ १९।१६ ॥
View Verse
कनीयसं तु संहृत्य शेषयोरुभयोरपि ।
अथो वक्त्रमुखां शेषाङ्गुलिना वामकेन तु (?) ॥ १९।१७ ॥
View Verse
करेण दक्षिणं स्पृष्ट्वा भ्रामयेद्दीपमुद्रिका ।
ललाटे हृदि वा सम्यक् सम्पुटो ऽञ्जलिरूर्ध्वगः ॥ १९।१८ ॥
View Verse
नाम्ना मुद्रेयं विज्ञेया प्रणामे ऽञ्जलिमुद्रिका ।
उक्तानामिह वान्येष्वप्यनुक्तानां प्रयत्नतः ॥ १९।१९ ॥
View Verse
प्रदर्शने ऽप्यशक्तः सन् अञ्जलिं तु प्रदर्शयेत् ।
अञ्जलिर्नाम मुद्रेयं सर्वमुद्रामया प्रिया ॥ १९।२० ॥
View Verse
विष्णोः प्रणाममुद्रैषा सर्वकामान् प्रदापयेत् ।
एताभिर्न्यस्तसर्वाङ्गो जपहोमादिकान् मुने ॥ १९।२१ ॥
View Verse
यः करोति स्वरक्षां च दीर्घमायुर्यशस्करम् ।
सुखमैश्वर्यबलतां कल्प्यतां च लभेत् पराम् ॥ १९।२२ ॥
View Verse
विद्या हि विविधां श्रेष्ठां भुक्तिमुक्तिस्तथैव च ।
राष्ट्रो यस्योदितानां तु विद्यानामेकया मुने ॥ १९।२३ ॥
View Verse
मूर्तिमन्त्रप्रकारेण साधकः सकृदर्चयेत् ।
तस्य सर्वमभिप्रायं सिद्ध्यत्येव न संशयः ॥ १९।२४ ॥
View Verse
अनावृष्टिभयं नास्ति अतिवृष्टिभयं तथा ।
व्याधिदुर्भिक्षचोरादि पीडाकालमृतिस्तथा ॥ १९।२५ ॥
View Verse
बहुनात्र प्रलापेन किं सर्वान् साधयिष्यति ।
यद्यत् कामयते स्वस्य समृद्धं पुरुषो भुवि ॥ १९।२६ ॥
View Verse
तत्तदेव लभेत् सम्यक् हरेस्तस्य निवेदयेत् ।
साधकश्चापि वा भक्त्या प्रयतः सम्यगर्चयेत् ॥ १९।२७ ॥
View Verse
तत्तत्सर्वं लभेदेवं मृष्टान्नं नात्र संशयः ।
नृपो वा नृपमात्रो वा वेदमन्त्रैस्तथा मुने ॥ १९।२८ ॥
View Verse
मूर्तिमन्त्रैरशक्तो वा स्वद्रव्यैरर्चनादिकान् ।
कारयीत मुनिश्रेष्ठ साधकेन यथाविधि ॥ १९।२९ ॥
सफलं सुकृतं प्राप्य विष्णुसारूप्यमृच्छति ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [अङ्गन्यासादि- विधिर्नाम] एकोनविंशो ऽध्यायः ॥
View Verse

Chapter - 20

विंशो ऽध्यायः
विष्वक्सेनः---
शृणु नारद तत्त्वेन साधकानां हिताय वै ।
पूजाभेदं प्रवक्ष्यामि परमात्मादिमूर्तिषु ॥ २०।१ ॥
View Verse
पूते मनोरमे देशे वने पुण्यतमे ऽपि वा ।
तीर्थे वा क्षेत्रवर्ये वा ग्रामे वा नगरे ऽपि वा ॥ २०।२ ॥
View Verse
खर्वटे खेटके वापि पत्तने वा तटे तटे(?) ।
महाग्रामे विशेषेण पश्चिमे मध्यमे ऽपि वा ॥ २०।३ ॥
View Verse
कारयेन्मन्दिरं सम्यक् सौम्यं सुमनसां प्रभोः ।
विष्णोः पूर्वोक्तमार्गेण कल्पयेद्बहुबेरकम् ॥ २०।४ ॥
View Verse
लक्षणं पूर्वमुक्तेन तत्र यद्येकबेरकम् (?) ।
रामत्रयादिकानां तु कल्ययेद्बहुबेरकम् ॥ २०।५ ॥
View Verse
आत्मार्थबेरमेकं वा स्वतन्त्रपरतन्त्रयोः ।
पूजाभेदः सुरमुने किञ्चि(कश्चि?)दस्ति तदुच्यते ॥ २०।६ ॥
View Verse
आवाहनं विसर्गं च स्वतन्त्रे त्रिषु सन्धिषु ।
अग्निकार्यं बलिं चैव परतन्त्रेषु तैर्विना ॥ २०।७ ॥
View Verse
आत्मर्थे फलकायां वा पटे वालिख्य यत्नतः ।
पूर्वोक्तलक्षणोपेतं प्रतिष्ठायाः क्रमेण च ॥ २०।८ ॥
View Verse
सम्प्रोक्ष्य नवरत्नान्वा आवाह्यभ्यर्चयेत वा ।
स्थण्डिले प्रतिमायां वा लौह्यामिच्छानुरूपतः(?) ॥ २०।९ ॥
View Verse
इन्द्रनीलं मरतकं स्फटिकं वज्रमेव च ।
पद्मरागं प्रवालं च वैडूर्यं मुक्तमेव च ॥ २०।१० ॥
View Verse
माणिक्कमिति रत्नानि नव तेषां यथाक्रमम् ।
कालं वक्ष्ये तथार्चायाः प्रातर्मध्याह्न एव च ॥ २०।११ ॥
View Verse
सायाह्नश्च प्रदोषश्चाप्यर्धरात्रमुषस्तथा ।
इति षट्कं परार्थे तु पूजायामुत्तमं स्मृतम् ॥ २०।१२ ॥
View Verse
मध्यमाराधने सायमुषश्च परिवर्जयेत् ।
अधमे चार्धरात्रं च सायाह्नं च विवर्जयेत् ॥ २०।१३ ॥
View Verse
प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ।
नान्येषूत्तमपूजायामपि वा मध्यमार्चने ॥ २०।१४ ॥
View Verse
बलिहीने तु काले तु पूजाभेदमथो शृणु ।
आह्वानमर्घ्यपाद्यं च आचामं गन्धपुष्पकम् ॥ २०।१५ ॥
View Verse
धूपो दीपो निवेद्यं च मुखवासविसर्जने ।
इति कर्मोत्तमादीनां नाडीकालः प्रवक्ष्यते ॥ २०।१६ ॥
View Verse
प्रथमा सप्तनाडी स्यात् मध्यमा पञ्चनाडिका ।
कनीयसी त्रिनाडी स्यात् इति शास्त्रस्य निश्चयः ॥ २०।१७ ॥
View Verse
दिवाकरोदयात् पूर्वमाचार्यः स्नानमाचरेत् ।
अर्कोदये मुनिश्रेष्ठ पूजाकर्म समाचरेत् ॥ २०।१८ ॥
View Verse
स्नानपूर्वाः क्रियाःसर्वाः फलसंसिद्धिहेतवः ।
अतस्तान्(-स्तत्?)प्रथमं वक्ष्ये साधकानां हिताय वै ॥ २०।१९ ॥
View Verse
समुद्रगामिन्यो वापि ह्रदे नद्यां जलादिषु ।
तटाके निर्झरे वापि स्नानं कुर्वीत साधकः ॥ २०।२० ॥
View Verse
ब्राह्मे मुहूर्ते चोत्थाय धर्ममोक्षार्थचिन्तकः ।
प्रागुदग्दिशमासाद्य साधकः स्नानमाचरेत् ॥ २०।२१ ॥
View Verse
प्राच्युत्तरे नीरराशौ स्नानं कुर्याद्विचक्षणः ।
वायव्ये नैरृताग्नेय्यां वरुणायां विसर्जयेत् ॥ २०।२२ ॥
View Verse
वर्जिते देशनीरे तु यो मोहात् स्नानमाचरेत् ।
तत् स्नानं निष्फलं याति पुनःस्नानं समाचरेत् ॥ २०।२३ ॥
View Verse
प्रातरुत्थाय मूर्तीनां यां मूर्तिं स्वयमर्चति ।
तन्मूर्त्यर्चनमन्त्रेण साधकः स्नानमाचरेत् ॥ २०।२४ ॥
View Verse
विष्णुमन्त्रेण वा साङ्गमथवा मूलविद्यया ।
अवगाह्य जले मध्ये त्रिराचम्य च मन्त्रतः ॥ २०।२५ ॥
View Verse
विसृज्यार्द्राम्बरं चान्यत् वस्त्रयुग्मेन वेष्टयेत् ।
सपवित्रकरेणैव मन्त्राचमनमाचरेत् ॥ २०।२६ ॥
View Verse
सुवार्णाद्यङ्गुलीयैवा(-यं वा?)धारयेद्दक्षिणे भुजे (करे?) ।
आपोहिष्ठेति मन्त्रेण प्रोक्षयेत् स्वशिरोपरि ॥ २०।२७ ॥
View Verse
तर्पयेत् स्वस्वमन्त्रेण स्नानकर्म समाचरेत् ।
अशक्तः पुनराचम्य प्रोक्तां विद्यामनुस्मरन् ॥ २०।२८ ॥
View Verse
सम्प्रोक्ष्य स्नानकार्याणि कृत्वा कार्यं विशेद्बुधः ।
प्रविश्य कृतसच्छौचः पूजामन्त्रेण मन्त्रवित् ॥ २०।२९ ॥
View Verse
कवाटोद्घाटनं कृत्वा मन्त्रेणाद्येन वा मुने ।
वायुमन्त्रेण वा द्वारं कवाटोद्धाटनं क्रमात् ॥ २०।३० ॥
View Verse
तद्द्वारं तु द्विधा कृत्वा साधको मन्त्रवित्तमः ।
सूत्रस्योत्तरपार्श्वे तु प्रतिशेद्दक्षिणाङ्घ्रिणा ॥ २०।३१ ॥
View Verse
प्रणम्य साधको मन्त्रं षडक्षरमनुस्मरन् ।
नित्यदीपं ततो ज्वाल्य विष्णुमन्त्रेण मन्त्रवित् ॥ २०।३२ ॥
View Verse
सूत्रस्य दक्षिणे पार्श्वे उत्तराभिमुखः स्वयम् ।
समे शुचौ प्रदेशे तु कृष्णाजिनकुशास्तरे ॥ २०।३३ ॥
View Verse
फलके वा समासीनः स्वस्थान्तःकरणःशुचिः ।
पद्मं वा स्वस्तिकं वापि बद्ध्वा स्वेच्छानुरूपतः ॥ २०।३४ ॥
View Verse
तेन मन्त्रेण दिग्बन्धमष्टदिक्षु निवेशयेत् ।
रक्षार्थं यागदेशं तदिति तत्त्वार्थदर्शिनः ॥ २०।३५ ॥
View Verse
एवं कृत्वा तु दिग्बन्धं प्राणायाममथारभेत् ।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ॥ २०।३६ ॥
View Verse
प्राणानायम्य यस्तिस्रः प्राणायामोत्तमः स्मृतः ।
पञ्चविंशतिकृत्वान्तः प्राणानायम्य मानसः ॥ २०।३७ ॥
View Verse
अभ्यासो ऽष्टाक्षरस्यैकः प्राणायामः स मध्यमः ।
प्राणो वायुः शरीरस्थः तस्यायामो निरोधकः ॥ २०।३८ ॥
View Verse
पूरकं कुम्भकं चैव रेचकं त्रिविध स्मृतम् ।
जानुं प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ॥ २०।३९ ॥
View Verse
क्रियते चाङ्गुलिस्फोटः सा(?)मात्रा परिकीर्तितः ।
तथा द्वादशमात्राभिः पूरकं क्रियते क्रमात् ॥ २०।४० ॥
View Verse
तस्माद्द्विगुणमात्राभिः कुम्भकं क्रियते बुधैः ।
तथैव रेचकं कृत्वा बुधास्तत्त्वार्थदर्शिनः ॥ २०।४१ ॥
View Verse
प्राणायाममिदं प्रोक्तमधमं मुतिसत्तम ।
त्रिप्रधाने विधाने ऽत्र यथासम्भवमाचरेत् ॥ २०।४२ ॥
View Verse
प्राणायामत्रयं कृत्वा पञ्च वा सप्त वाथवा ।
प्राणायामं प्रकुर्वीत प्राणायामविदां वर ॥ २०।४३ ॥
View Verse
ततस्तु कायशुद्ध्यर्थं वर्णं धूम्रादि विन्यसेत् ।
शब्दःस्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ॥ २०।४४ ॥
View Verse
अहङ्कारमनो बुद्धियुक्तमात्मानमानयेत् ।
सदाविष्णौ तु संयोज्य धातुदेहं सुशोधयेत् ॥ २०।४५ ॥
View Verse
यद्बीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकम् ।
विशोषयेदशेषं तु ध्यायेद्देहस्थकल्मषम् ॥ २०।४६ ॥
View Verse
क्षौमं हृत्पद्ममध्यस्थं बीजं तेजोमयं स्मरेत् ।
अथोर्ध्वतिर्यगाभिश्च ज्वालाभिः कल्मषं दहेत् ॥ २०।४७ ॥
View Verse
शशाङ्काकृतिवद्धायन्नम्बरस्थं सुधाम्बुधिम् ।
हृत्पद्मव्यापिभिर्देहं स्वकर्म भ्रामयेत् सुधीः ॥ २०।४८ ॥
View Verse
सुषुम्ना योगमार्गेण सर्वनाडीविसर्पिभिः(?) ।
पश्चाच्छब्दादिविषयान् योजयेन्मूर्ध्निमध्यमे ॥ २०।४९ ॥
View Verse
एवं चामृतरूपं तु मया प्रोक्तं तु नारद ।
यद्बीजं तु न्यसेन्नाभौ अनामिक्या तु नारद ॥ २०।५० ॥
View Verse
अङ्गुष्ठानामिकाभ्यां तु क्षौमबीजं हृदि न्यसेत् ।
सर्वासामङ्गुलीनां तु मूर्ध्नीमं (?) बीजमुत्तमम् ॥ २०।५१ ॥
View Verse
यकारादि वकारान्तं धूम्रमव्यारुणासितम् ।
एवं संशोध्य देहं तु ऊर्ध्वपुण्ड्रं समाचरेत् ॥ २०।५२ ॥
View Verse
ऊर्ध्वपुण्ड्रविधिं वक्ष्ये शृणु नारद तत्त्वतः ।
सर्वाघनाशनं पुण्यं सर्वतीर्थफलप्रदम् ॥ २०।५३ ॥
View Verse
स्वमूर्त्यर्चनमन्त्रेण ललाटादि ककुत्परम् ।
चन्दनं श्वेतमृद् बिल्वतुलसीमूलतोयकैः ॥ २०।५४ ॥
View Verse
ऊर्ध्वपुण्ड्रं लिखेद्विद्वाननामिक्या तु साधकः ।
द्वादश (-शैः ?) द्वादशैर्मासैर्नामभिर्वा विशुद्धये ॥ २०।५५ ॥
View Verse
एवं पूतो भवेदूर्ध्वपुण्ड्राणां धारणान्मुने ।
सृष्टिस्थित्यादिवशतो हस्ताङ्गन्यासयोर्द्वयोः ॥ २०।५६ ॥
View Verse
विनाभ्य(-प्यर्?)चा फलवती मूर्तिमन्त्रप्रभावतः ।
आराधनक्रमं वक्ष्ये द्वारपूजादि नारद ॥ २०।५७ ॥
View Verse
साधकःसिद्धसर्वाङ्गः सुभगो रोगवर्जितः ।
कुष्ठापस्माररहितो द्वारपूजां समाचरेत् ॥ २०।५८ ॥
View Verse
चण्डप्रचण्डगरुडाः चतुर्थ्यन्तं नमो ऽन्तकम् ।
दक्षिणोत्तरपूर्वे तु(-पूर्वेषु?) द्वारे च प्रणवैः सह ॥ २०।५९ ॥
View Verse
चण्डाधरे तु चक्रं स्यात् प्रचण्डस्याधरे ऽम्बुजम् ।
गन्धपुप्पादिभिर्द्वारपूजामेवं समाचरेत् ॥ २०।६० ॥
View Verse
अथवा द्वारपूजायाः क्रमं शृणु महामुने ।
चण्डादीन् पूर्ववत् पूज्य चक्रादिरहितेन तु ॥ २०।६१ ॥
View Verse
धातारं पूजयेद्वामे विधातारं तु दक्षिणे ।
सूत्रस्य दक्षिणे स्थित्वा आचार्यो मन्त्रवितमः ॥ २०।६२ ॥
View Verse
अधोभागे तु भूमिः स्यादुपर्यङ्गं पूजयेच्छ्रियम् ।
दुर्गा गणपती चैव कवाटस्थौ प्रपूजयेत् ॥ २०।६३ ॥
View Verse
शङ्गपद्मनिधी चैव शाखयोर्मूलदेशतः ।
गङ्गां च यमुनां चैव कवाटाधारके न्यसेत् ॥ २०।६४ ॥
View Verse
उत्कर्षणीं कर्षणीं च अन्तर्यन्त्रे ह्यधोपरि ।
गन्धपुष्पाक्षतैर्धूपैः दीपाद्यैर्द्वारमर्चयेत् ॥ २०।६५ ॥
View Verse
अथ चण्डं प्रचण्डं च गरुडान्तं(-डं च?)समर्चयेत् ।
प्रणवादि स्ननाम्ना च मन्त्रमित्यभिधीयते ॥ २०।६६ ॥
View Verse
पूर्ववत् पूजयेद्द्वारदेवांस्तन्त्रविचक्षणः ।
त्रिप्रकारं मया प्रोक्तं यथायोगं समाचरेत् ॥ २०।६७ ॥
View Verse
प्रणवादिस्वनाम्ना च पूजयेदिह नारद ।
एवं सङ्क्षेपतः प्रोक्तः द्वारपूजाविधिक्रमः ॥ २०।६८ ॥
View Verse
कांस्यघण्टाध्वनिं कृत्वा द्वारमाच्छाद्य वाससा ।
प्रविशेद्देवपार्श्वे तु साधकः संयतेन्द्रियः ॥ २०।६९ ॥
View Verse
पूवोक्तमासनं कृत्वा देवस्यासनमारभेत् ।
सौवर्णे राजते वाथ ताम्रे वाथ महामुने ॥ २०।७० ॥
View Verse
कुशेन वाथ पुष्पेण कल्पयेदासनं हरेः ।
देवस्य पुरतः कृत्वा ह्यासनं संयतेन्द्रियः ॥ २०।७१ ॥
View Verse
आधारः प्रणवो ज्ञेयः शक्तिर्वागीश्वरी तथा ।
कन्दं च पृथिवीं स्मृत्य(-त्वा?)नालमाकाशरूपकम् ॥ २०।७२ ॥
View Verse
नालस्याग्रे स्मरेत् पद्मं हृत्पद्मं परमालयम् ।
आधारादीनि सर्वाणि ह्यासनस्य महामुने ॥ २०।७३ ॥
View Verse
अज्ञानात् कल्पयेन्मोहात् निष्फलं स्यान्न संशयः ।
तस्मात् सर्वप्रयत्नेन आधारादीनि कल्पयेत् ॥ २०।७४ ॥
View Verse
आधारं प्रथमं न्यस्य शक्तिं चैव ततः परम् ।
शक्त्योपरि न्यसेद्धीमान् कन्दं चैव महामुने ॥ २०।७५ ॥
View Verse
कन्दस्योपरि विन्यस्य नालमाकाशरूपकम् ।
नालस्याग्रे तु विन्यस्य धर्मादीनि यथाक्रमम् ॥ २०।७६ ॥
View Verse
धर्मादीनां तु तन्मध्ये पद्मं श्वेताष्टपत्रकम् ।
धर्मं ज्ञानं च वैराग्यं ऐश्वर्यं च चतुष्टयम् ॥ २०।७७ ॥
View Verse
चत्वार्येतानि कोणेषु आग्नेयादिषु विन्यसेत् ।
मध्ये तु रुद्रं विन्यस्य नालमूलस्य मध्यमे ॥ २०।७८ ॥
View Verse
अधर्माज्ञान (-ना?) वैराग्यानैश्वर्यं च चतुष्टयम् ।
विन्यसेच्च चतुर्दिक्षु पूर्वादिषु यथाक्रमम् ॥ २०।७९ ॥
View Verse
धर्मादीनि न्यसेदादौ मन्त्रेणाद्येन संयुतम् ।
स्वनाम्ना चैव सर्वेषां मन्त्रमित्यभिधीयते ॥ २०।८० ॥
View Verse
अधर्मादीनि सर्वेषां स्वस्वनाम्ना च साधकः ।
विन्यसेच्च चतुर्दिक्षु पूर्वादिक्रमयोगतः ॥ २०।८१ ॥
View Verse
एवं न्यासं क्रमात् कृत्वा ह्याधारादि महामुने ।
नारदः---
धर्मज्ञानादिरूपाणि श्रोतुमिच्छाम्यहं प्रभो ॥ २०।८२ ॥
View Verse
आयुधानि च सर्वेषां यथावद्वक्तुमर्हसि ।
विष्वक्सेनः---
शृणु नारद तत्त्वज्ञ विष्णुपादपरायण ॥ २०।८३ ॥
View Verse
धर्मादीनां स्वरूपाणि प्रवक्ष्याम्यायुधानि च ।
चतुर्वक्त्रं चतुर्बाहुं द्विपादं चासिताननम् ॥ २०।८४ ॥
View Verse
शङ्खचक्रधरं सौम्यं पीताम्बरसमन्वितम् ।
जातिपुष्पदलप्रख्यं सर्वाभरणभूषितम् ॥ २०।८५ ॥
View Verse
धर्ममूर्तिरिति ख्यातं ज्ञानमूर्तिं ब्रवीमि ते ।
द्विपादं च चतुर्बाहुं चतुर्वक्त्रं सनातनम् ॥ २०।८६ ॥
View Verse
नीलोत्पलदलप्रख्यं शङ्कचक्रगदाधरम् ।
ज्ञानमूर्तिरिति ख्यातं वैराग्यस्य वदाम्यहम् ॥ २०।८७ ॥
View Verse
रक्ताक्षित्रयसंयुक्तं चतुर्वक्त्रं चतुर्भुजम् ।
पीताम्बरधरं सौम्यं शङ्खचक्रधरं सदा ॥ २०।८८ ॥
View Verse
कर्णिकारदलप्रख्यं वायव्यं दिशमाश्रितम् ।
वैराग्यस्ये(-मि?)ति निर्दिष्टं ऐश्वर्यस्य वदामि ते ॥ २०।८९ ॥
View Verse
रक्तोत्पलदलप्रख्यं चतुर्वक्त्रं चतुर्भुजम् ।
पीताभ्बधरं सौम्यं शङ्खचक्रधरं सदा ॥ २०।९० ॥
View Verse
सिताननसमायुक्तं मुक्ताहारसमन्वितम् ।
ऐश्वर्यस्येति निर्दिष्टमीश्वरस्य वदामि ते ॥ २०।९१ ॥
View Verse
कुन्देन्दुमुक्त(?)सङ्काशं द्विपादं च चतुर्भुजम् ।
रक्ताक्षित्रयसंयुक्तं जटामकुटधारिणम् ॥ २०।९२ ॥
View Verse
पीताम्बरधरं सौम्यं परशुं(ईश्वरं?)शूलधारिणम् ।
सर्वाभरणसंयुक्तं सर्वशोभितशोभनम् ॥ २०।९३ ॥
View Verse
इत्थं हरस्य रूपं तु देवर्षे विद्धि नारद ।
एवं सङ्क्षेपतः प्रोक्तं धर्मज्ञानादिरूपकम् ॥ २०।९४ ॥
View Verse
अधर्मादीनि गात्राणि (?) वक्ष्यामि शृणु नारद ।
रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥ २०।९५ ॥
View Verse
एकवक्त्रं बृहत्कुक्षिं नेत्रत्रयसमन्वितम् ।
रक्ताम्बरधरं रौद्रं खङ्गमुद्गरधारिणम् ॥ २०।९६ ॥
View Verse
अधर्मसयैवमुक्तं तु अज्ञानस्य वदामि ते ।
पीतवर्णं बृहत्कुक्षिं महाकायं चतुर्भुजम् ॥ २०।९७ ॥
View Verse
शूलखङ्गधरं रौद्रं सर्वाभरणभूषितम् ।
एतदज्ञानरूपं स्यादवैराग्यं वदामि ते ॥ २०।९८ ॥
View Verse
दूर्वाश्यामनिभं ब्रह्मन् द्विपादं च चतुर्भुजम् ।
परशुपाशधरं रौद्रं रक्ताम्बरधरं सदा ॥ २०।९९ ॥
View Verse
अक्षित्रयसमोपेतं जटामकुटधारिणम् (-धारकम्?) ।
अवैराग्यस्य रूपं स्यात् अनैश्वर्यं वदामि ते ॥ २०।१०० ॥
View Verse
धूम्राकारं बृहत्कुक्षिं चतुर्बाहुं महाहनुम् ।
एकवक्त्रं महाकायं मुक्तकेशसमन्वितम् ॥ २०।१०१ ॥
View Verse
अश्रीकरमसौम्यं च अक्षित्रयसमन्वितम् ।
अनैश्वर्यस्य रूपं तु निर्दिष्टमधुना मुने ॥ २०।१०२ ॥
View Verse
धर्मादिपञ्चपादानि अधर्मादीनि नारद ।
तेषां रूपं स्मरेन्नित्यं न्यसेत्तस्मिन् यथाक्रमम् ॥ २०।१०३ ॥
View Verse
अन्यथा कल्पयेन्मोहात् आधारादिनिरूपकम्(?) ।
तत्पूजा निष्फला याति ग्रामस्याग्निभयं भवेत् ॥ २०।१०४ ॥
View Verse
तस्मात् सर्वप्रयत्नेन स्मरेद्रूपाणि साधकः ।
न्यसेदष्टदलं पद्मं तेषामुपरि नारद ॥ २०।१०५ ॥
View Verse
तत्रार्कसोमवह्नींश्च उपर्युपरि वन्यिसेत् ।
वृत्ताकारं तु रक्ताभमर्कमण्डलकं न्यसेत् ॥ २०।१०६ ॥
View Verse
तत्रोपरि न्यसेद्ध्यात्वा श्वेतं वृत्तं शशाङ्ककम् ।
अग्निमग्निनिभं ध्यात्वा त्रिकोणं मण्डलोपरि ॥ २०।१०७ ॥
View Verse
एवं रूपं तु सञ्चिन्त्य मण्डलार्कादि नारद ।
मण्डलोपरि विन्यस्य तामसादि गुणत्रयम् ॥ २०।१०८ ॥
View Verse
तामसं राजसं चैव सात्विकं च यथाक्रमम् ।
तामसं कृष्णरूपं तु राजसं रक्तरूपकम् ॥ २०।१०९ ॥
View Verse
सात्विकं श्वोतवर्णं तु वर्णान्येतानि संस्मरेत् ।
तत्र तद्वर्णकं चिन्त्य मण्डलोपरि विन्यसेत् ॥ २०।११० ॥
View Verse
तामसादिनि विन्यस्य न्यसेदात्मद्वयं बुधः ।
आत्मानं चान्तरात्मानं वासुदेवपरायणौ ॥ २०।१११ ॥
View Verse
आत्मा तु श्वेतवर्णः स्यादन्तरात्मा तथैव च ।
श् तेषां वर्णं तु सञ्चिन्त्य न्यसेदात्मान्तरात्मके ॥ २०।११२ ॥
View Verse
आधाराद्यन्तरात्मान्तं न्यासक्रममथो शृणु ।
आधारं प्रथमं न्यस्य श्वेतवर्णं त्रिमूर्तियुक् ॥ २०।११३ ॥
View Verse
शक्तिन्यासं द्वितीये तु कन्दन्यासमतः परम् ।
नालमाकाशरूपं स्यात्तमोवर्णं चतुर्थकम् ॥ २०।११४ ॥
View Verse
नालस्याग्नेयकोणे तु धर्ममूर्तिं तु पञ्चमम् ।
षष्ठं तु नैरृते न्यस्य ज्ञानमूर्तिं तु नारद ॥ २०।११५ ॥
View Verse
सप्तमे तु न्यसेद्विद्वान् वैराग्यं वायुगोचरे ।
ऐश्वर्यमष्टमं न्यस्य ईशाने तन्त्रवित्तमः ॥ २०।११६ ॥
View Verse
नवमं नालमूले तु रुद्रमूर्तिं सदाशिवम् ।
दशमं नालस्याग्रे तु पूर्वे ऽधर्मं तु विन्यसेत् ॥ २०।११७ ॥
View Verse
एकादशे तु विन्यस्य दक्षिणे ऽज्ञानरूपकम् ।
पश्चिमे तु न्यसेत् पश्चादवैराग्यं तु नारद ॥ २०।११८ ॥
View Verse
उदीच्यां विन्यसेद्देवमनैश्वर्यं त्रयोदश ।
नालस्याग्रे स्मरेद्विद्वान् पद्मं तत्परमालयम् ॥ २०।११९ ॥
View Verse
एतत् पद्मासनं प्रोक्तं त्रिदशैः पूजितं सदा ।
तत्रोपरि न्यसेत् पश्चात् मण्डलार्कादि नारद ॥ २०।१२० ॥
View Verse
गुणत्रयं न्यसेन्मध्ये तामसादि यथाक्रमम् ।
गुणमध्ये न्यसेद्धीमानात्मानं चान्तरात्मकम् ॥ २०।१२१ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्त आसनस्य क्रमो मया ।
आसनस्यार्चनं वक्ष्ये सङ्क्षेपाद्विधिपूर्वकम् ॥ २०।१२२ ॥
View Verse
आधाराद्यन्तरात्मान्तं मूर्तीनां मुनिसत्तम ।
व्यस्तैःसम्पूजयेत् सर्वं समस्तैर्वा समाहितः ॥ २०।१२३ ॥
View Verse
अर्चयेद्गन्धपुष्पाद्यैः पूजयेत्तं मनोरमैः ।
तेषां स्वनामकैर्मन्त्रैर्दद्यात् सर्वं यथाक्रमम् ॥ २०।१२४ ॥
View Verse
एतत् कल्प्यं मुनिश्रेष्ठ आह्वानं च वदाम्यहम् ।
स्वर्णाद्यन्यतमं पात्रं कुडुबद्वयपूरितम् ॥ २०।१२५ ॥
View Verse
इत्थं हि लक्षणं प्रोक्तं सर्वपात्राणि नारद ।
आवाहनादि पात्रं तत् पञ्चषट्सप्त एव वा ॥ २०।१२६ ॥
View Verse
पूजकस्याग्रतः स्थाप्य प्रोक्षयेन्मूलविद्यया ।
एतेषामप्यलाभे तु शङ्खशुक्तिमथापि वा ॥ २०।१२७ ॥
View Verse
क्षालयेत् सर्वपात्राणि विष्णुगायत्रिया मुने ।
आढकद्वयसम्पूर्णां पक्वबिम्बफलाकृतिम् ॥ २०।१२८ ॥
View Verse
वर्धनीं वामपार्श्वे तु विन्यस्यापूरयेद्बुधः ।
गालितैरुदकैर्यस्यां गन्धपुष्पयुतां न्यसेत् ॥ २०।१२९ ॥
View Verse
शेषं दक्षिणपार्श्वे तु परितो वाग्रतो ऽपि वा ।
स्थापयेत्तु क्रमेणैव पूजाद्रव्यं समस्तकम् ॥ २०।१३० ॥
View Verse
तत् पात्रेष्वेकपात्रं तु सङ्गृह्य मुनिसत्तम ।
षडक्षरेण मन्त्रेण सम्प्रोक्ष्य तु पुनः पुनः ॥ २०।१३१ ॥
View Verse
तत्पात्रं तु पुनः प्रोक्ष्य गन्धोदेन प्रपूरयेत् ।
तस्मिन् शिरसि (?) पुष्पं च न्यसेत्तोयं सपुष्पकम् ॥ २०।१३२ ॥
View Verse
उद्धृत्य पूजामन्त्रेण ध्यात्वात्र महामुने ।
यद्रूपं चिन्तितं सम्यक् तद्रूपं चिन्त्य(?) साधकः ॥ २०।१३३ ॥
View Verse
अवतीर्णं महाबेरादागच्छान्तेन मूर्ध्नि च ।
प्रोक्ष्य चैवासनं दद्यात् केवलेन जगद्गुरोः ॥ २०।१३४ ॥
View Verse
प्रक्षिप्य वादमूले तु पुष्पमुष्टिं ततः परम् ।
नमस्कृत्याञ्जलिं पश्चात् दर्शयेन्मुनिसत्तम ॥ २०।१३५ ॥
View Verse
अर्ध्यं पाद्यं तथाचामं दत्वा देवाय मन्त्रवित् ।
ततस्तु परिवाराणि पात्रशेषेण कल्पयेत् ॥ २०।१३६ ॥
View Verse
परिवारक्रमं वक्ष्ये यथातत्त्वेन (यथातथ्येन?) नारद ।
आवाहनांशतोयेन कल्पेयत्तु यथाक्रमम् ॥ २०।१३७ ॥
View Verse
पूर्वे तु वासुदेवं तु शुद्धस्फटिकसन्निभम् ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥ २०।१३८ ॥
View Verse
सङ्कर्षणं न्यसेद्याम्ये शशिबालार्कसन्निभम् ।
शङ्खचक्रसमोपेतं चतुर्बाहुविराजितम् ॥ २०।१३९ ॥
View Verse
प्रद्युम्नं पश्चिमे न्यस्य शातकुम्भनिभं मुने ।
शङ्खचक्रगदापाणिं पीताम्बरविभूषितम् ॥ २०।१४० ॥
View Verse
अनिरुद्धं न्यसेत्तस्मिन्नुत्तरे नीलरूपिणम् ।
शङ्खचक्रसमायुक्तं पीतवस्त्रं चतुर्भुजम् ॥ २०।१४१ ॥
View Verse
श्रियं सुवर्णवर्णाभां श्वेतरूपां सरस्वतीम् ।
रक्तवर्णां रतिं पश्चात् शान्तिं कुङ्कुमसन्निभाम् ॥ २०।१४२ ॥
View Verse
आग्नेयादिषु कोणेषु विन्यसेच्छक्तिरूपकम् ।
पैशाचे तु न्यसेत् पश्चात् शङ्खादीनां तु नारद ॥ २०।१४३ ॥
View Verse
पूर्वे शङ्ख नियुञ्जीत श्वेतवर्णं स(च?)नादयुक् ।
कालाग्निसदृशाकारं दक्षिणे चक्रमुत्तमम् ॥ २०।१४४ ॥
View Verse
पश्चिमे तु गदां न्यस्य हरिद्राभामनुत्तमाम् ।
रक्तवर्णनिभं पद्ममुत्तरे तु न्यसेद्बुधः ॥ २०।१४५ ॥
View Verse
मुसलं कृष्णवर्णं तु आग्नेय्यां दिशि विन्यसेत् ।
नैरृतायां न्यसेत्तत्र खङ्गमाकाशसन्निभम् ॥ २०।१४६ ॥
View Verse
पञ्चवर्ण तथा शार्ङ्गं वायव्ये तन्त्रवित्तमः ।
सर्ववर्णमयाकारां वनमालां तथैशके ॥ २०।१४७ ॥
View Verse
एतद्द्ब्रिजीयावरणं गर्भागारे प्रकीर्तितम् ।
द्वारस्य दक्षिणे चण्डं कृष्णवर्णं चतुर्भुजम् ॥ २०।१४८ ॥
View Verse
शङ्खचक्रगदापाणिं त्रिणेत्रं रक्तलोचनम् ।
एवं रूपं तु सञ्चिन्त्य प्रचण्डं तु ततः शृणु ॥ २०।१४९ ॥
View Verse
शङ्खचक्रगदापाणिं रक्तवर्णं चतुर्भुजम् ।
द्वारस्योत्तरपार्श्वे तु त्रिणेत्रं भीमरूपिणम् ॥ २०।१५० ॥
View Verse
पुरतो वैनतेयं च सुवर्णाभं कृताञ्जलिम् ।
करण्डमकुटं नीलवाससं प्रियदर्शनम् ॥ २०।१५१ ॥
View Verse
नीलाग्रनासिकायुक्तं नागाभरणभूषितम् ।
एवं तु गरुडं चिन्त्य बलरामस्य मूर्तिवत् ॥ २०।१५२ ॥
View Verse
यो भक्त्या देवमभ्यर्चेत् तथैव गरुडं यजेत् ।
भगवत्प्रमुखं पश्चाद्गरुत्मन्तं नियोजयेत् ॥ २०।१५३ ॥
View Verse
रक्तवर्णं चतुर्बाहुं द्विबाहुं वा मुनीश्वर ।
सर्वाभरणसंयुक्तं सर्वशोभनशोभितम् ॥ २०।१५४ ॥
View Verse
कालाग्निसदृशाकारं चक्रधृङ्मकुटान्वितम् ।
एवं चक्राधिदैवं तु पूजयेद्द्वारपार्श्वके ॥ २०।१५५ ॥
View Verse
शङ्खाभं सौम्यरूपं तु सर्वाभरणभूषितम् ।
उपवीतयुतं श्वेतं शङ्खधृङ्मकुटान्वितम् ॥ २०।१५६ ॥
View Verse
चतुर्बाहुं द्विबाहुं वा ध्यायेद्द्वारस्य वामके ।
धातारं पीतवर्णं विधातारमरुणप्रभम् ॥ २०।१५७ ॥
View Verse
श्यामवर्णा तु भूमिः स्यात् रक्तवर्णां हरिप्रियाम् ।
दुर्गां च कोमलश्यामां श्वेतरूपं विनायकम् ॥ २०।१५८ ॥
View Verse
शङ्खपद्मनिधी चैव श्वेतरक्तनिभौ मुने ।
गङ्गां च यमुनां चैव श्वेतकृष्णनिभे मुने ॥ २०।१५९ ॥
View Verse
उत्कर्षणीं तु रक्तां वै कर्षणीं रक्तवर्णकाम् ।
एवं द्वारे तु सञ्चिन्त्य त्रिसन्ध्यायां(-सु?) प्रपूजयेत् ॥ २०।१६० ॥
View Verse
नार्चयेदुपसन्ध्यायां चण्डादीन् द्वारपालकान् ।
अज्ञानादर्चयेन्मोहात् स्थाननाशो भविष्यति ॥ २०।१६१ ॥
View Verse
दुर्भिक्षं जायते राष्ट्रं धनधान्यविनाशकृत् ।
तस्मात् सर्वप्रयत्नेन विधिनोक्तं समाचरेत् ॥ २०।१६२ ॥
View Verse
विमानाग्नेययाम्ये तु तन्मध्ये गणनायकम् ।
पूर्ववद्वर्णकं चिन्त्य हस्तिवक्त्रं चतुर्भुजम् ॥ २०।१६३ ॥
View Verse
विमाने दक्षिणे कुर्यात् दक्षिणामूर्तिमीश्वरम् ।
अक्षमालाधरं देवमष्टाक्षरपरायणम् ॥ २०।१६४ ॥
View Verse
त्रिणेत्रं श्वेतसङ्काशं सौम्यं सोमार्धधारिणम् ।
नारदाद्यृषिसङ्घैश्च सेवितं दक्षिणामुखम् ॥ २०।१६५ ॥
View Verse
एवं रहस्यरूपं ते सङ्क्षेपेण विधीयते ।
तस्य दक्षिणपाश्वे तु मातॄणामुत्तरामुखम् ॥ २०।१६६ ॥
View Verse
कल्पयेन्मुनिशार्दूल सर्वसम्पत्सुखावहम् ।
आलयस्योत्तरे मातॄः कल्पयेद्बा मुनीश्वर ॥ २०।१६७ ॥
View Verse
तेषां नाम क्रमाद्गुह्यं शृणुष्वावहितो ऽधुना ।
वागीश्वरीक्रियाकीर्तिः लक्ष्मीसृष्टिस्तथैव च ॥ २०।१६८ ॥
View Verse
विद्याकान्तिश्च सप्तैताः कथिता विष्णुमातरः ।
उत्तरे पश्चिमे चैव हयास्यः श्रीधरस्तथा ॥ २०।१६९ ॥
View Verse
वीरभद्रगणेशौ वा मातॄणां द्वारपालकौ ।
साधकेच्छानुरूपेण कल्पयेद्विष्णुमातरः ॥ २०।१७० ॥
View Verse
मातरश्च सुवर्णाभाः श्रीधरः श्याम एव च ।
हयशीर्षःसुवर्णाभो वर्णा एताः (-ते?) प्रकीर्तिताः ॥ २०।१७१ ॥
View Verse
तथैव वीरभद्रादि वर्णं तु परिपठ्यते ।
विमानपृष्ठभागे तु अनन्तमथ साधकः ॥ २०।१७२ ॥
View Verse
पञ्चास्यपन्नगोर्ध्वे तु पञ्चवक्त्रैः(?)समावृतम् ।
चतुर्भुजं समासीनं शङ्खचक्रगदाधरम् ॥ २०।१७३ ॥
View Verse
इत्थं हि लक्षणोपेतं सर्वदेवैर्नमस्कृतम् ।
सौम्यास्येशानयोर्मध्ये दुर्गां श्यामनिभां यजेत् ॥ २०।१७४ ॥
View Verse
तस्योत्तरे तु विन्यस्य मम रूपं चमूपतेः ।
श्यामलं पिङ्गलाक्षं तु पिङ्गश्मश्रुः सनातनम् ॥ २०।१७५ ॥
View Verse
शङ्खचक्रगदापाणिं चतुर्बाहुं किरीटिनम् (?) ।
पीताम्बरधरं सौम्यं विवृत्ताक्षिसमन्वितम् ॥ २०।१७६ ॥
View Verse
तर्जयन् वामतर्जन्या नासाग्रासन्नया जगत् ।
एवं हि मम रूपं ते (तु?) पठ्यते मुनिसत्तम ॥ २०।१७७ ॥
View Verse
परिवारविधानोक्तमथ बाह्येषु विन्यसेत् ।
द्वारस्य शङ्खचक्रे तु दक्षिणोत्तरतः स्मरेत् ॥ २०।१७८ ॥
View Verse
दक्षिणे शङ्खवर्णं तु शङ्खचक्रगदाधरम् ।
चतुर्भुजं त्रिणेत्रं तु मूर्ध्नि शङ्खं न्यसेत् सदा ॥ २०।१७९ ॥
View Verse
वामपार्श्वे न्यसेच्चक्रमग्निरूपं चतुर्भुजम् ।
त्रिणेत्रं भीमसङ्काशं शङ्खचक्रगदाधरम् ॥ २०।१८० ॥
View Verse
तन्मूर्ध्नि विन्यसेच्चक्रं नीलाम्बरकिरीटिनम् ।
एवं तु लक्षणं प्रोक्तं शङ्चक्रादिरूपकम् (?) ॥ २०।१८१ ॥
View Verse
इन्द्रादीशानपर्यन्तं स्वेषु स्थानेषु योजयेत् ।
वज्रहस्त्तं सहस्राक्षं सौम्यं तु श्यामलाकृतिम् ॥ २०।१८२ ॥
View Verse
सौन्दर्यमिन्द्रदैवत्यं ध्यायेदिन्द्रं किरीटिनम् ।
त्रिशिखं रक्तवर्णाभं रक्तमाल्यैरलङ्कृतम् ॥ २०।१८३ ॥
View Verse
त्रिपादं चाष्टबाहुं च रक्तनेत्रत्रयं मुने ।
रक्तकेशनखश्मश्रुवह्निरूपं सशक्तिकम् ॥ २०।१८४ ॥
View Verse
धर्मराजं ततो ध्यायेत् सर्वलक्षणलक्षितम् ।
कालमेघनिभाकारं द्विभुजं दण्ण्डपाणिनम् ॥ २०।१८५ ॥
View Verse
किरीटहारकेयूरमकुटादिविभूषितम् ।
सर्वप्रेताधिनाथस्य लक्षणं कथितं मया ॥ २०।१८६ ॥
View Verse
ततस्तु रक्षसामीशं निरृतिं रक्तमूर्धजम् ।
खङ्गबाहुं महाकायं रक्तवक्त्रं त्रिणेत्रकम् ॥ २०।१८७ ॥
View Verse
एतत्तु लक्षणं प्रोक्तं राक्षसाधिपतेस्ततः ।
सर्वलक्षणसंयुक्तं सर्वालङ्कारभूषितम् ॥ २०।१८८ ॥
View Verse
श्यामलं पाशहस्तं च जलेशं पङ्कजासनम् ।
धूम्रवर्णनिभाकारं ध्वजयुक्तं महाभुजम् ॥ २०।१८९ ॥
View Verse
द्विपादं च द्विहस्तं च सर्वेषां प्राणसञ्ज्ञितम् ।
इत्थं ते मुनिशार्दूल लक्षणं परिपठ्यते ॥ २०।१९० ॥
View Verse
ध्यायेत् सौम्ये तु मतिमान् यक्षेश्वरमनुत्तमम् ।
तप्तहाटकसङ्काशं सर्वलक्षणलक्षितम् ॥ २०।१९१ ॥
View Verse
द्विपादं च द्विहस्तं च दण्डपाणिं धनेश्वरम् ।
श्वेताद्रिशिखराकारं द्विपादं च चतुर्भुजम् ॥ २०।१९२ ॥
View Verse
वृषध्वजं त्रिणेत्रं च शूलपाणीन्दुमौलिनम् ।
एवं ध्यायेत् क्रमात् सर्वान् स्वनाम्ना पूजयेत् पृथक् ॥ २०।१९३ ॥
View Verse
एतत्तृतीयावरणे द्वारपार्श्वेन्दुसूर्ययोः ।
रक्तवर्णं महाकायं कम्बुग्रीवं चतुर्भुजम् ॥ २०।१९४ ॥
View Verse
शङ्खचक्रगदापाणिं त्रिणेत्रं भीमरूपिणम् ।
चिन्तचेद्दक्षिणे पार्श्वे तृतीयद्वारके रविम् ॥ २०।१९५ ॥
View Verse
कुन्दपुष्पनिभाकारं शङ्खचक्रगदाधरम् ।
चतुर्भुजं त्रिणेत्रं च पीतवस्त्रं च चिन्तयेत् ॥ २०।१९६ ॥
View Verse
द्वारस्य वामपार्श्वे तु शशाङ्काकृतिमुत्तमम् ।
मौलिपृष्ठस्य सूर्यादौ चिन्तयेन्मण्डलाकृतिम् ॥ २०।१९७ ॥
View Verse
एवं शशिं रविं ध्यात्वा तृतीयद्वारपार्श्वयोः ।
कुमुदादीनि सर्वाणि न्यसेत् पूर्वादिषु क्रमात् ॥ २०।१९८ ॥
View Verse
कुमुदः कुमुदाक्षश्च पुण्डरीको ऽथ वामनः ।
शङ्कुकर्णःसर्पनेत्रः सुमुखः सुप्रतिष्ठितः ॥ २०।१९९ ॥
View Verse
एतेषां लक्षणं प्रोक्तं ध्यायेदस्मिन् महोत्सवे ।
तद्वत् ज्ञात्वात्र भूतेशान् पूजयेत् साधकोत्तमः ॥ २०।२०० ॥
View Verse
पुरतः स्थापयेत् सर्वान् विष्णुपारिषदान् बहून् ।
सर्ववर्णधराःसर्वे सर्वे शस्त्रास्त्रपाणयः ॥ २०।२०१ ॥
View Verse
महापीठे तु संस्मृत्य सर्वान् भूतगणान्वितान् ।
पूजाकाले ततो ध्यायेत् स्वरूपं पूजकः क्रमात् ॥ २०।२०२ ॥
View Verse
स्वनाम्ना परिवाराणां प्रणवादिनमोन्तकम् ।
अर्घ्यपाद्यादिभिर्वापि गन्धाद्यैर्वा मुनीश्वर ॥ २०।२०३ ॥
View Verse
अर्चयेन्नित्यपूजायां प्रणवादिमनुस्मरन् ।
अस्मिन् तन्त्रे मया प्रोक्तं चण्डाद्यावरणार्चनम् ॥ २०।२०४ ॥
View Verse
उत्सवे परिवाराणामर्चनाविधिरुत्तमः ।
तथैवाभ्यर्च्य मतिमान् परिवारानतन्द्रितः ॥ २०।२०५ ॥
View Verse
एवमभ्यर्च्य भूतेशान् पश्चात् पूजां समाचरेत् ।
क्षालयेत् सर्वपात्राणि पूर्वोक्तेन विधानतः ॥ २०।२०६ ॥
View Verse
सर्वद्रव्याणि सम्प्रोक्ष्य निरीक्ष्याद्येन मन्त्रतः ।
आवाहनादिभिः सर्वैरुपचारक्रमेण तु ॥ २०।२०७ ॥
View Verse
देवदेवं समभ्यर्च्य स याति परमां गतिम् ।
उपचारक्रमं वक्ष्ये यथावदनुपूर्वशः ॥ २०।२०८ ॥
View Verse
पूर्वमावाहनं कुर्यात् पुनरासनमेव च ।
तृतीयं पुष्पविक्षेपं तुरीयं तु नमस्कृतिम् ॥ २०।२०९ ॥
View Verse
पञ्चमो ऽञ्जलिमुद्रा च (स्यात्?) षष्ठमर्ध्यं तथैव च ।
पाद्यं तु सप्तमं कुर्यात् तथाचमनमष्टमम् ॥ २०।२१० ॥
View Verse
स्नपनं नवमं विद्याद्दशमो वसनं भवेत् ।
एकादशो भूषणं स्यात् द्वादशस्तूपवीतकम् ॥ २०।२११ ॥
View Verse
त्रयोदशश्चाचमनं गन्धश्चैव चतुर्दशः ।
पुष्पं पञ्चदशश्चैव षोडशो धूप एव च ॥ २०।२१२ ॥
View Verse
दीपः सप्तदशश्चैव मुद्राष्टादश उच्यते ।
हविरेकोनविंशश्च पानीयं विंशकस्तथा ॥ २०।२१३ ॥
View Verse
एकविंशस्तथाचामः ताम्बूलं च द्वाविंशकः ।
उपचारस्त्रयोविम्श आचामस्तदनन्तरम् ॥ २०।२१४ ॥
View Verse
मुखवासः पञ्चविंशः षड्विंशो गेयमुच्यते ।
पुराणं सप्तविंशश्च नृत्तहोममतः परम् ॥ २०।२१५ ॥
View Verse
बलिभ्रमणमेकोनत्रिम्श अर्ध्यमतः परम् ।
पुष्पं वा मुनिशार्दूल दद्यादिच्छानुरूपतः ॥ २०।२१६ ॥
View Verse
एकत्रिंशो मुखवासश्चोद्वासनमतः परम् ।
द्वात्रिंशदुपचाराणामुक्तमेवं महामुने ॥ २०।२१७ ॥
View Verse
वक्ष्ये कलोपचाराणि (-रांस्तु?) शृणुष्वावहितो भव ।
आद्य आवाहनं पश्चात् आसनं तदनन्तरम् ॥ २०।२१८ ॥
View Verse
पाद्यं तृतीय अर्ध्यं स्यादाचामं पञ्चमः स्मृतः ।
षष्ठं तु स्नपनं विद्यात् सप्तमो वसनं भवेत् ॥ २०।२१९ ॥
View Verse
अष्टमस्तूपवीतं स्यान्नवमं गन्ध उच्यते ।
दशमः पुष्पविन्यासः धूप एकादशो भवेत् ॥ २०।२२० ॥
View Verse
दीपस्ततः परं विद्यात् चरुणस्तु (चरोश्चैव?) निवेदनम् ।
चतुर्दश्यञ्जलिमुद्रा प्रदक्षिणमतः परम् ॥ २०।२२१ ॥
View Verse
उद्वासनं षोडशः स्यादित्येवमपरःक्रमः ।
एवं षोडशधा प्रोक्ता उपचाराणि(-रांस्तु?)नारद ॥ २०।२२२ ॥
View Verse
एकादशोपचाराणां क्रमं शृणु महामुने ।
आवाहनं तु प्रथमः द्वितीयश्चासनं भवेत् ॥ २०।२३३ ॥
View Verse
अर्घ्य चानन्तरं विद्यात् पाद्यं चैव ततः परम् ।
देवस्याचमनं विद्यात् पञ्चमं तु विचक्षणः ॥ २०।२२४ ॥
View Verse
गन्धं चानन्तरं विद्यात् सप्तमं पुष्पमेव च ।
धूपं तु चाष्टमं विद्यात् दीपस्तु नवमः स्मृतः ॥ २०।२२५ ॥
View Verse
दशमस्तु निवेद्यं स्यादुद्वासनमतः परम् ।
मुख्यगौणक्रमेणैव विनियोगं ततः शृणु ॥ २०।२२६ ॥
View Verse
यत्र पूजोत्तमा तत्र कुर्यान्मुख्योपचारकम् ।
मध्यमाराधनं यत्तु त्रकृध्यमप्रयोजयेत् ॥ २०।२२७ ॥
View Verse
अर्चा कनीयसी यत्र तत्रैवैकादशेन तु ।
प्रयोज्यमिति शास्त्रस्य निश्चयः साधकोत्तमैः ॥ २०।२२८ ॥
View Verse
सर्वे सर्वत्र वा पूजा देशकालानुरूपतः ।
साधकेच्छानुरूपेण कुर्याद्वा मुनिपुङ्गव ॥ २०।२२९ ॥
View Verse
अनि(आरि?)राधयिषुर्मूत्रा यद्यद्वै साधकोत्तमः ।
तत्तद्वै मूर्तिमन्त्रेण कुर्यात् सर्वोपचारकम् ॥ २०।२३० ॥
View Verse
स्नपने मन्त्रभेदो ऽस्ति मूर्तीनां मुनिसत्तम ।
नित्ये नैमित्तिके वापि विष्णोर्नुकमथावपि ॥ २०।२३१ ॥
View Verse
नारायणोपनिषदं द्वादशाक्षरमेव च ।
नारायणं ब्राह्मणं(?)वा अतो देवी(-वे?)ति वा पुनः ॥ २०।२३२ ॥
View Verse
सहस्रशीर्षं देवमष्टाक्षरमथापि वा ।
सहस्रशीर्षा पुरुषो मन्त्रं वा परमेष्ठिनः ॥ २०।२३३ ॥
View Verse
एतेष्वन्यतमं वापि स्नपनं साधकः शुचिः ।
कुर्वन् स्वराष्ट्रमुद्धृत्य विष्णुलोकमवाप्नुयात् ॥ २०।२३४ ॥
View Verse
केवलं मूलमन्त्रेण पूजकः पुरुषोत्तम ।
आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ॥ २०।२३५ ॥
View Verse
सुगुणो वंशसम्पन्नो निर्देषो रोगवर्जितः ।
आवाहनादि कर्माणि सर्वाण्येतानि सर्वदा ॥ २०।२३६ ॥
View Verse
अष्टाक्षरेण वा कुर्यात् मूर्तीनां मुनिसत्तम ।
पूजकस्योत्तमत्वाच्च निर्देषत्वान्महामुने ॥ २०।२३७ ॥
View Verse
केवलं पुष्पमात्रेण देवेशस्तृप्यते ऽत्र तु ।
सा पूजा सफलं याति वृद्धिकृत् ग्रामराज्योः ॥ २०।२३८ ॥
View Verse
एवं यः कारयेद्भक्त्या स याति परमां गतिम् ।
यतिर्वा ब्रह्मचारी वा पूजको मुनिसत्तम ॥ २०।२३९ ॥
View Verse
द्विगुणं फलमाप्नोति नात्र कार्या विचारणा ।
एवं सम्पूजयेद्भक्त्या विष्णुं सकलमव्ययम् ॥ २०।२४० ॥
View Verse
इह लोके श्रियं प्राप्य परलोके तथैव च ।
सर्वान् कामानवाप्नोति सर्वयज्ञफलं भवेत् ॥ २०।२४१ ॥
View Verse
विशेषमत्र वक्ष्यामि आत्मार्थस्य परस्य च ।
उपचारक्रमं सर्वं साधकानां हिताय तु ॥ २०।२४२ ॥
View Verse
अर्घ्यादिमुखवासन्तं क्रमाद्देवाय कल्पयेत् ।
अर्घ्यं पाद्यं तथाचामः मधुपर्कः पुनश्च तत् ॥ २०।२४३ ॥
View Verse
ताम्बूलं गन्धपुष्पं च अक्षतो धूप एव च ।
दीपो ह्यञ्जलिमुद्रा तु निवेद्यं तु महामुने ॥ २०।२४४ ॥
View Verse
पानीयाचमनीयं च मुखवासस्तथैव च ।
एवं क्रमो मुनिश्रेष्ठ तत्क्रमेणाथवार्चयेत् ॥ २०।२४५ ॥
View Verse
क्षालयेत् सर्वपात्राणि पूर्ववत्तन्त्रवित्तमः ।
तत्तत् पात्रेषु तद्द्रव्यं निक्षिप्यापूर्य पुष्पकम् ॥ २०।२४६ ॥
View Verse
अर्घ्यतोयं स्वमन्त्रेण मुखमालेपयद्धरेः ।
पाद्यं देवस्य पादे च दीयते(दद्याद्वै?)स्वस्वविद्यया ॥ २०।२४७ ॥
View Verse
देवस्य दक्षिणे हस्ते ह्याचामं मधुपर्ककम् ।
पुनराचामताम्बूलं तथैव च पुनः पुनः ॥ २०।२४८ ॥
View Verse
जातिश्रीकण्ठ(-खण्ड?)मादाय पेषयेत् पिष्ठपङ्कवत् ।
कर्पूरेण समायुक्तं कुडुबद्वयपूरितम् ॥ २०।२४९ ॥
View Verse
केवलं चन्दनं वापि गन्धं षण्मुष्टिमात्रकम् ।
पुष्पप्रस्थचतुष्कैस्तु मूर्तीनां तु पृथक्पृथक् ॥ २०।२५० ॥
View Verse
दापयेत्तु प्रयत्नेन साधकः परमार्थवित् ।
धूपं सुरभिणा व्याप्तं प्राप्तज्वालोच्छ्रितोज्ज्ञितम् ॥ २०।२५१ ॥
View Verse
बहुरेखमनारग्न्यं दशमात्रं प्रदापेयत् (?) ।
दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम् ॥ २०।२५२ ॥
View Verse
धूपं तु दापयेद्गन्धं नासिकायां तु दक्षिणे ।
दद्याद्यथाक्रमं सर्वं वासुदेवाय भक्तितः ॥ २०।२५३ ॥
View Verse
कलमादीनि (?) सर्वाणि शेषाङ्गं मर्दयेद्बुधः ।
वामहस्तेन मन्त्रज्ञः पुष्पं गृह्य समाहितः ॥ २०।२५४ ॥
View Verse
दक्षिणेन करेणैव दद्याद्देवस्य पादयोः ।
मुष्टिमात्रं प्रदद्यात्तु त्रिवारेण (-रं च?) स्वविद्यया ॥ २०।२५५ ॥
View Verse
मध्यमानामिकामध्ये चाङ्गुष्ठेन समन्वितम् ।
अक्षतं तु ततो दद्यात् तथैव च पुनः पुनः ॥ २०।२५६ ॥
View Verse
देवस्य वामनासौ च(-नासायां?) धूपं दद्यात् समाहितः ।
दक्षिणे देवदृक्पार्श्वे दीपं दद्यात्तु मन्त्रवित् ॥ २०।२५७ ॥
View Verse
त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणादृशि ।
कपिलाज्येन संस्राव्य ह्यन्नसुक्तेन संस्पृशेत् ॥ २०।२५८ ॥
View Verse
परिषिच्यादि मन्त्रेण पाणिं दद्यात्तु पाणिना (?) ।
दद्यात्तद्दक्षिणे हस्ते हविःप्राशनमुद्रया ॥ २०।२५९ ॥
View Verse
पानीयाचमनीयं च मुखवासं तथैव च ।
एवं षोडशधा प्रोक्तं विशेषेणोपचारकम् ॥ २०।२६० ॥
View Verse
दद्याद्यथाक्रमं सर्वं भक्तिपूतेन चेतसा ।
ततस्तु साधकः सम्यक् प्रणम्याञ्जलिमुद्रया ॥ २०।२६१ ॥
View Verse
देवस्य पादौ हस्ताभ्यां संस्पृशेत्तत् समाहितः ।
ततस्त्वथर्ववेदे तु शौनकायां तु शाखया ॥ २०।२६२ ॥
View Verse
नारायणोपनिषदं उच्चार्य च पुनः पुनः ।
त्रिभिः काण्डैःसमुच्चार्य मन्त्रेणैव महामुने ॥ २०।२६३ ॥
View Verse
देवेशस्तृप्यते चैव नात्र कार्या विचारणा ।
राजराष्ट्रविवृद्धिः स्यात् ग्रामादिषु तथैव च ॥ २०।२६४ ॥
View Verse
अर्चयेन्नान्यथा मोहादाभिचारकरो भवेत् ।
सा पूजा निष्फला चैव रोगवृद्धिर्भविष्यति ॥ २०।२६५ ॥
View Verse
तस्मात् सर्वप्रयत्नेन त्रिभिः काण्डैः समर्चयेत् ।
अग्निकार्यं तु पूर्वोक्तं कुर्यात्तन्त्रविचक्षणः ॥ २०।२६६ ॥
View Verse
समिधो मूलमन्त्रेण आज्यमाज्येन मन्त्रतः ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुतीः ॥ २०।२६७ ॥
View Verse
हुत्वा हुत्वाग्निमध्ये तु साधको मन्त्रवित्तमः ।
शेषद्रव्याणि सर्वाणि पूर्वोक्तेनैव कारयेत् ॥ २०।२६८ ॥
View Verse
अग्निकार्यं समाप्यैवं बलिदानमथोच्यते ।
बलिदानक्रमः सर्वः सङ्क्षेपाद्वक्ष्यते ऽधुना ॥ २०।२६९ ॥
View Verse
नित्ये नैमित्तिके चैव सर्वसम्पत् सुखावहम् ।
स्वर्णादीनां तु पात्राणां लक्षणं कथ्यते ऽधुना ॥ २०।२७० ॥
View Verse
तालं तु कर्णिका प्रोक्तं तत्पादार्धतलं तथा ।
पादं तु तद्बहिः कुर्यात् तदन्ते वलयं भवेत् ॥ २०।२७१ ॥
View Verse
बलिपात्रं समाख्यातं ताम्रराजतहैमकम् ।
उत्तमाधममध्यं स्यात् विभवस्यानुरूपतः ॥ २०।२७२ ॥
View Verse
कारयेद्बलिपात्रं तु एकद्रव्येण शिल्पिना ।
आचार्यो ऽलङ्कृतः सम्यक् पात्रमादाय मण्डले ॥ २०।२७३ ॥
View Verse
साधितं प्रोक्षितं पश्चात् गालितेनोदकेन तु ।
तस्मिन्मध्ये तु कुर्वीत सुदृढं हविषासनम् ॥ २०।२७४ ॥
View Verse
कर्णिकारपरीमाणं यत्तावद्विस्तारमुच्यते ।
चतुरङ्गुलमुत्सेधमन्नपीठस्य नारद ॥ २०।२७५ ॥
View Verse
लक्षणं चात्र सम्प्रोक्तं नित्यपूजोत्सवस्य तु ।
महोत्सवे न कुर्वीत चान्नपीठस्य चोपरि ॥ २०।२७६ ॥
View Verse
कारयेच्छिबिकाद्येषु बलिभ्रमणमुत्तमम् ।
कल्पयेत् सपरीवारमन्तरावरणस्थितम् ॥ २०।२७७ ॥
View Verse
तस्मिन् पात्रोपरि न्यस्य स्वनाम्ना मुनिसत्तम ।
अन्नोपरि पटं न्यस्य पुष्पैरन्यैः प्रकीर्य च ॥ २०।२७८ ॥
View Verse
वस्त्रैराभरणैश्चित्रैः गन्धैः पुष्पैरलङ्कृतम् ।
सुवर्णकुसुमैश्चित्रैः प्रभावासितसंयुतम् (?) ॥ २०।२७९ ॥
View Verse
वासिकाद्याभिर्मालाभिः (?)भूषितं सुमनोरमम् ।
सौवर्णं राजतं वापि ताम्रं वातीव सुन्दरम् ॥ २०।२८० ॥
View Verse
तस्मिन् तिष्ठापयेद्बिम्बं स्वस्वमूर्त्यनुसारतः ।
अलाभे काञ्चने वापि राजतं ताम्रमेव वा ॥ २०।२८१ ॥
View Verse
तण्डुलं च चरुं पुष्पं प्रातर्मध्याह्न एव च ।
प्रदोषे च बलिं कुर्यात् यथायोगक्रमेण तु ॥ २०।२८२ ॥
View Verse
अर्घ्यादि चाष्टमं दद्यात् मुखवासान्तमेव वा ।
दीपान्तं वा प्रदातव्यं स्वेन मन्त्रेण देशिकः ॥ २०।२८३ ॥
View Verse
अन्यपात्रे तु मन्त्रज्ञः चान्नं तोयसमन्वितम् ।
गन्धपुष्पसमायुक्तं स्वस्तिवाचनसंयुतम् ॥ २०।२८४ ॥
पीठे पीठे मुनिश्रेष्ठ बलिदानं समाचरेत् ।
शङ्खघोषसमायुक्तं धूपदीपसमन्वितम् ॥ २०।२८५ ॥
View Verse
वितानध्वजसंयुक्तं छत्रचामरशोभितम् ।
तूर्यवादित्रघोषैश्च जयशब्दसमन्वितम् ॥ २०।२८६ ॥
View Verse
शिष्यमभ्यर्च्य गन्धाद्यैः गरुडं संस्मरेत् स्वयम् ।
विद्यानामादिमन्त्रेण पात्रमुत्थापयेद्गुरुः ॥ २०।२८७ ॥
View Verse
स्थापयेन्मूर्ध्नि शिष्यस्य बलिपात्रमनुत्तमम् ।
तत्पात्रे स्थापयेद्देवं गच्छमानं (-न्तं च?) प्रकल्पयेत् ॥ २०।२८८ ॥
View Verse
शनैः शनैर्मुनिश्रेष्ठ शङ्खाद्यैर्गेयसंयुतम् ।
बलिभ्रमणकाले तु बिम्बाग्रे बलिमाचरेत् ॥ २०।२८९ ॥
View Verse
यो मोहाद्बिम्बहीने तु बलिकर्मणि चेन्मुने (?) ।
तत्स्थानं निधनं याति तत्रस्था नरकं व्रजेत् ॥ २०।२९० ॥
View Verse
तस्मात् सर्वप्रयत्नेन बिम्बाग्रे बलिमाचरेत् ।
प्रतिमाचार्ययोर्मध्ये गमनं वर्जयेत्ततः ॥ २०।२९१ ॥
View Verse
गमनं यदि चेत्तत्र स्नपनं पञ्चगव्यकैः ।
तदन्ते गन्धतोयेन स्नापयेत्तेन मूर्तिना (?) ॥ २०।२९२ ॥
View Verse
पुण्याहघोषसंयुक्तं स्वस्तिसूक्तरवैर्युतम् ।
मन्त्राणामादिमन्त्रेण मूर्तिमन्त्रेण वा मुने ॥ २०।२९३ ॥
View Verse
समिदाज्येन चरुणा प्रत्येकैकाहुतिं क्रमात् ।
हुत्वा स्वे स्वे तु जुहुयात् स्वाहान्तेन यथाक्रमम् ॥ २०।२९४ ॥
View Verse
पश्चात् पूर्णाहुतिं हुत्वा शेषकर्म समाचरेत् ।
आद्यं प्रदक्षिणं कृत्वा नृत्तगेयसमन्वितम् ॥ २०।२९५ ॥
View Verse
द्वितीयं च परिभ्रम्य गेयतूर्यसमन्वितम् ।
तृतीयं तु परिभ्रम्य तूर्यैर्नानाविधैर्युतम् ॥ २०।२९६ ॥
View Verse
चण्डप्रचण्डप्रभृति महापीठान्तमेव च ।
अर्घ्यपाद्यादिनाभ्यर्च्य गन्धाद्यैर्जलसंयुतम् ॥ २०।२९७ ॥
View Verse
परिवारान् समभ्यर्च्य यथापूर्वं प्रकल्पितम् ।
बलिभ्रमान्तं कृत्वा तु महापीठप्रदक्षिणम् ॥ २०।२९८ ॥
View Verse
तृतीयसवने गत्वा पुनः कुर्यात् प्रदक्षिणम् ।
शङ्खशब्दत्रयं कुर्यात् गोपुरे निःस्वनं गता(?) ॥ २०।२९९ ॥
View Verse
विमानद्वारमासाद्य आर्घ्यं वा पुष्पमेव वा ।
दत्वा तन्मूर्तिमन्त्रेण गर्भागारे(-रं?) प्रवेशयेत् ॥ २०।३०० ॥
View Verse
पीठस्य दक्षिणे पार्श्वे बलिबिम्बं प्रसादयेत् ।
पाद्यादि चतुरो दद्यात् कर्मार्चायां तथैव च ॥ २०।३०१ ॥
View Verse
बलिपात्रस्थितं पुष्पं ममाग्रे निक्षिपेद्बुधः ।
अन्नपीठं सतोयं च महापीठे विनिक्षिपेत् ॥ २०।३०२ ॥
View Verse
प्रक्षाल्य पादौ हस्तौ च आचम्य विधिना पुनः ।
न्यासं कृत्वा विधानेन मूर्तिमन्त्रेण पूर्ववत् ॥ २०।३०३ ॥
View Verse
ककुदन्तं ललाटादि न्यसेद्देहे यथाक्रमम् ।
सहस्रं वा शतं वापि अष्टाविंशमथापि वा ॥ २०।३०४ ॥
View Verse
स्वेन स्वेन तु मन्त्रेण यथाशक्ति जपेत् क्रमात् ।
नमस्कारं क्रमात् कृत्वा तन्मूर्तिस्तुतिभिः क्रमात् ॥ २०।३०५ ॥
View Verse
जपेन्मन्त्री स्वमन्त्रेण देवदेवस्य सन्निधौ ।
अस्मिन् काले तु देवेशस्तृप्यते(?)नात्र संशयः ॥ २०।३०६ ॥
View Verse
सर्वान् कामानवाप्नोति ग्रामराज्ञोश्च वृद्धिकृत्(?) ।
अन्यथा देवदेवेशः कुप्यते(?)नात्र संशयः ॥ २०।३०७ ॥
View Verse
तस्मात् सर्वप्रयत्नेन जपेन्मूर्तिस्तुतिं बुधः ।
पुष्पं दत्वा नमस्कृत्य मूलबेरे नयेद्धरिम् ॥ २०।३०८ ॥
View Verse
आवाहनं यथापूर्वं तद्वदुद्वासनं कुरु ।
आलोक्य दत्तमित्याहुः बलिदानोत्तमं परम् ॥ २०।३०९ ॥
View Verse
सङ्क्षेपेण मया प्रोक्तं वक्ष्ये दत्तावलोकनम् ।
अथवा परिवाराणां बलिदानविधिक्रमम् ॥ २०।३१० ॥
View Verse
प्रवक्ष्यामि मुनिश्रेष्ठ गुह्याद्गुह्यतरं शृणु ।
झल्लरीमद्दलैर्युक्तं नानावाद्यसमन्वितम् ॥ २०।३११ ॥
View Verse
नित्योत्सवस्य पूर्वे तु बलिदानं समाचरेत् ।
सर्वालङ्कारसंयुक्तं वितानध्वजसंयुतम् ॥ २०।३१२ ॥
View Verse
नृत्तगीतसमायुक्तं पश्चाद्बिम्बं परिभ्रमेत्(?) ।
मध्यमं बलिदानं तच्चण्डादिभ्यो ह्यतन्द्रितः ॥ २०।३१३ ॥
View Verse
दत्तावलोक्यकं(-कनं?) नाम राज्ञो राष्ट्रस्य वृद्धिकृत् ।
एवं दिने दिने कुर्यात् परिवारबलिक्रमम् ॥ २०।३१४ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तो नित्योत्सवबलिभ्रमः ।
विशेषं चात्र वक्ष्यमि परार्थे बलिकर्मणि ॥ २०।३१५ ॥
View Verse
शृणुष्वावहितो भूत्वा गुह्याद्गुह्यतरं मुने ।
इन्द्रादिलोकपालान् वा कल्ययेत् क्रमयोगतः ॥ २०।३१६ ॥
View Verse
एकावरणमार्गं चेत् परिवारबलिक्रमम् ।
प्रथमावरणे कुर्यात् विघ्नेशादीन् विवर्जयेत् ॥ २०।३१७ ॥
View Verse
चण्डादिशर्वपर्यन्तं संस्थाप्य बलिमाचरेत् ।
पश्चाद्बलिं महापीठे संस्थाप्य प्रथमं मुने ॥ २०।३१८ ॥
View Verse
शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ।
नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ॥ २०।३१९ ॥
View Verse
पश्चाद्देवं महाभागो नीत्वार्घ्याद्यैःसमर्चयेत् ।
शङ्खादिगेयसंयुक्तं द्वितीयं भ्रामयेद्धरिम् ॥ २०।३२० ॥
View Verse
नानावाद्यसमायुक्तं तृतीयं भ्रामयेद्धरिम् ।
पश्चाद्देवं महाभागो नीत्वार्घ्याद्यैः समर्चयेत् ॥ २०।३२१ ॥
View Verse
पाद्योदकं गृहीत्वा तु भक्तान् सम्प्रोक्ष्य मन्त्रवित् ।
एवं बलिविधिः प्रोक्तो एकावरणपूजने ॥ २०।३२२ ॥
View Verse
पुनः प्राकारमत्रैव कल्पितश्चेन्मुनीश्वर (?) ।
चण्डादीशावसानं तु प्रथमावरणे न्यसेत् ॥ २०।३२३ ॥
View Verse
शेषाणि परिवाराणि द्वितीये च तृतीयके ।
इन्द्रादि सुप्रतिष्ठान्तं पुनःसंस्थाप्य मन्त्रवित् ॥ २०।३२४ ॥
View Verse
पूर्वोक्तेन विधानेन बलिदानं समाचरेत् ।
सा पूजा सफला भूत्वा वर्धते श्रीर्दिने दिने ॥ २०।३२५ ॥
View Verse
राज्ञो राष्ट्रस्य वृद्धिः स्यात् आलयस्य तथैव च ।
एवं दिने दिने कुर्यात् तृतीयावरणावृतम्(?) ॥ २०।३२६ ॥
View Verse
एवमेव बलिं कुर्यात् द्वितीयावरणालये ।
अर्घ्यावसानं पूवोक्तमार्गेण प्रथमे न्यसेत् ॥ २०।३२७ ॥
View Verse
विध्नेशादि(?)मुनिश्रेष्ठ प्रथमं(मे?) बलिमाचरेत् ।
प्रथमावरणे पश्चात् इन्द्रादीनां बलिं हरेत् ॥ २०।३२८ ॥
View Verse
तृतीयावरणे पश्चात् कुमुदादिबलिं हरेत् ।
तं बलिं मध्यममिदं पूर्वा पूर्वा गरीयसी (?) ॥ २०।३२९ ॥
View Verse
अन्यथाफलमाप्नोति दुर्भिक्षानर्थदा भवेत् ।
तस्मात् कुर्यात् प्रयत्नेन बलिं विणोर्विधानतः ॥ २०।३३० ॥
View Verse
वृक्षमूले ऽद्रिमूले वा कुड्ये वात्र गुहान्तरे ।
किञ्चिदस्मिन् विशेषो ऽस्ति तत्क्रमं शृणु नारद ॥ २०।३३१ ॥
View Verse
देवाग्रे पूर्ववत् कल्प्य मण्डपं सपरिच्छदम् ।
तत्रोपलिप्य विधिवत् हस्तमात्रं समन्ततः ॥ २०।३३२ ॥
View Verse
तन्मध्ये शक्तिमावाह्य पात्रे पादुकसंयुते ।
अर्घ्यादिसप्तमं दत्वा पृथक् पाद्यादिभिः क्रमात् ॥ २०।३३३ ॥
View Verse
मण्डपं परितः कल्प्य परिवारान् विशेषतः ।
एकावरणमार्गेण मण्डपं भ्रामयेत् क्रमात् ॥ २०।३३४ ॥
View Verse
मत्स्यादीनां तु देवर्षे एवमेव समाचरेत् ।
बलिदानं मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ॥ २०।३३५ ॥
View Verse
अन्यथाफलमाप्नोति कर्ता भर्ता च नश्यति ।
केवलं बलिदानं तु प्रवक्ष्यामि शृणु क्रमात् ॥ २०।३३६ ॥
View Verse
होमोत्सवविहीनं चेत् साधको मुनिसत्तम ।
पञ्चोत्तरदशान् सर्वान् चण्डादिद्वारपालकान् ॥ २०।३३७ ॥
View Verse
पूजयेन्मुनिशार्दूल गन्धपुष्पादिभिः क्रमात् ।
तद्द्वारे बलिरित्याहुरधमः परिपठ्यते ॥ २०।३३८ ॥
View Verse
उत्तमे ऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ।
अधमे ऽप्यधमं कुर्यात् विभवस्यानुरूपतः ॥ २०।३३९ ॥
View Verse
नित्योत्सवस्य पूर्वे तु कारयेत्तु विशेषतः ।
बलिदानं मुनिश्रेष्ठ पश्चाद्देवं परिभ्रमेत् ॥ २०।३४० ॥
View Verse
अधमाधममित्याहुः परिवारविहीनतः ।
दत्तावलोक्यकं नाम तद्ग्रामस्यैव वृद्धिकृत् ॥ २०।३४१ ॥
View Verse
अलङ्काराणि सर्वाणि चास्मिन् पूर्ववदाचरेत् ।
इत्युत्तमादि सम्प्रोक्तो बलिकर्मविधिर्मया ॥ २०।३४२ ॥
View Verse
एवं सक्षेपतः प्रोक्तो नित्योत्सवविधिर्मुने ।
साधकेच्छानुरूपेण कारयेदेकधात्र तु ॥ २०।३४३ ॥
View Verse
आत्मार्थं वैदिकेनैव तान्त्रिकेणैव वा मुने ।
परार्थे तान्त्रिकेणैव मिश्रितं वा हरिं परम् ॥ २०।३४४ ॥
View Verse
अर्चयेत् पूर्ववद्धीमान् राज्ञो राष्ट्रस्य वर्धनम् ।
परार्थे वैदिकेनैव न कुर्यात्तु कथञ्चन ॥ २०।३४५ ॥
View Verse
तस्मात् सर्वप्रयत्नेन मिश्रितं तान्त्रिकेण तु ।
स्वार्थ आवाहनं कुर्यात् फलकाद्वा पटादपि ॥ २०।३४६ ॥
View Verse
सूर्यमण्डलमध्याद्वा परार्थे मूलबेरकात् ।
एकबेरं तु सन्त्यज्योद्वासनावाहनेन तु ॥ २०।३४७ ॥
View Verse
कुर्यात् स्वार्थे परार्थे च शैलबिम्बे विशेषतः ।
तथैव बालगेहस्य बिम्बस्य मुनिसत्तम ॥ २०।३४८ ॥
View Verse
आवाहनं विसर्गं तु न स्मरेच्छेषमाचरेत् ।
अशक्तो ऽनधिकारी वा स्वार्थं यः कारयत्यपि ॥ २०।३४९ ॥
View Verse
परेण तत्कुलं सर्वं स्वकुलं तारयिष्यति ।
विष्णोर्निवेदितं सर्वं ममापि प्रियमेव च ॥ २०।३५० ॥
View Verse
हस्तयोरङ्गुलीनां तु स्वाङ्गुष्ठानामिकेन तु ।
निर्माल्यं मोचयित्वा तु प्राणानायम्य मानसः(?) ॥ २०।३५१ ॥
View Verse
तेन(?) माल्यं च तद्द्रव्यं मम प्रीतिकरं शुभम् ।
तन्माल्यं चैव तद्द्रव्यं भक्तानां चैव दापयेत् ॥ २०।३५२ ॥
View Verse
मत्पूजा तद्विमाने तु विना चेन्मुनिसत्तम ।
सा पूजा निष्फला भूयात् ग्रामस्यानर्थकृद्भवेत् ॥ २०।३५३ ॥
View Verse
काकश्वानादि(?)जन्तूनां पाषण्डीनां तथैव च ।
वेदविक्रयकानां च वेदनिन्दकमेव च (?) ॥ २०।३५४ ॥
View Verse
शूद्रान्नतत्पराणां च नास्तिकानां विशेषतः ।
एवमादीनि जातीनां(?) भक्षणार्थं न दापयेत् ॥ २०।३५५ ॥
View Verse
अविचारेण वा मोहात् दत्वा रौरवमाप्नुयात् ।
न लङ्घयीत निर्माल्यं ममापि पुरुषोत्तम ॥ २०।३५६ ॥
View Verse
यश्चेत्तु लङ्घयेत्(-ते?)मोहात् महान् दोषो भविष्यति ।
महारौरवमायाग्नौ निमग्नस्तत्र दोषभाक् ॥ २०।३५७ ॥
View Verse
द्विजात्यादित्रिवर्णान्तं वैष्णवानां विशेषतः ।
त्रेताग्नीनां व्रतस्थानं यतीनां शान्तचेतसाम् ॥ २०।३५८ ॥
View Verse
दीक्षितानां तपस्वीनां वन्ध्यादिषु तथैव च ।
एवमादीनि भक्तानां(?)दापयेद्देवसन्निधौ ॥ २०।३५८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन वर्जितानां न दापयेत् ।
एवं यः कारयेद्भक्त्या विष्णुपूजामनुत्तमाम् ॥ २०।३६० ॥
View Verse
मोक्षदं मोक्षमिच्छूनां धनदं धनकामिनाम् ।
अन्नदं चान्नमिच्छूनां सर्वकामप्रदं शुभम् ॥ २०।३६१ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाभेदकथनं नाम] विंशोध्यायः ॥
View Verse

Chapter - 21

एकविंशो ऽध्यायः
नारदः---
भगवन्ननयार्चनया सदृशं परमाप्तिकरं न हि पुम्स इति ।
अतिचापलगद्गदापि (-दयापि?) गिरा स्तुतिरस्ति किमभियत् स्वपराम् (?) ॥ २१।१ ॥
View Verse
विष्वक्सेनः---
शृणु नारद मूर्तिनुतिं परमां परमेण ममाभिहितां गुरुणा ।
तव भक्तिमतः कथयिष्यामि (-याम्यधुना?) इह (त्विह?) तृप्यति को हि शुभेषु नरः ॥ २१।२ ॥
View Verse
विनतासुतवाहनमादरत- स्त्रिदशं कनकाङ्गदमष्टभुजम् ।
धवलाद्रिनिभं द्विपदं सुमुखं परमात्मगुरुं प्रणतो ऽस्मि सदा ॥ २१।३ ॥
View Verse
जलजारिगदाम्बुजहस्तधरं सकलाभरणं तुहिनाद्रिमुषम् ।
चतुराननसेवितपादयुगं परनामधरं प्रणतो ऽस्मि सदा ॥ २१।४ ॥
View Verse
तरुणार्कनिभं त्रिदशेध्य (-ड्य?) पदं सुकुमारदृशं मुसलप्रहरम् ।
अरुणाम्बरमप्रतिमं हलिनं शशिवक्त्रसमं प्रणतो ऽस्मि सदा ॥ २१।५ ॥
View Verse
चतुरङ्ग(?)सुपीवरदीर्घभुजं हरिवर्णकृताञ्जलिनोपकृतम् (?) ।
गरुडेन च दक्षिणतो ऽम्बुज- योत्तरतः प्रहरं प्रणतो ऽस्मि सदा (?) ॥ २१।६ ॥
View Verse
अत्र कश्चिद्विशेषो ऽस्ति मूर्तीनामर्चनाविधौ ।
मत्स्यादिदशमूर्तीनामिह लोके फलं लभेत् ॥ २१।७ ॥
View Verse
तत्फलं ते प्रवक्ष्यामि अधुना शृणु नारद ।
आयुरारोग्यदं(-कं?) चैव सायुज्यं लभते ध्रुवम् ॥ २१।८ ॥
View Verse
उक्तक्रमेण(?)यो मत्स्यं भक्तिपूर्वं समर्चयेत् ।
सर्वान् कामानवाप्नोति विष्णुलोकं स गच्छति ॥ २१।९ ॥
View Verse
कूर्मं भक्त्या समाराध्य नरो निर्धूतकल्मषः ।
सर्वान् कामाननुप्राप्य विष्णुसायुज्यमाप्नुयात् ॥ २१।१० ॥
View Verse
भक्त्या वराहमभ्यर्च्य क्रमेणानेन बुद्धिमान् ।
पापरोगविनिर्मुक्तः स याति परमां गतिम् ॥ २१।११ ॥
View Verse
नारसिंहं समाराध्य भक्त्या परमया युतः ।
समस्तकामसंसिद्धो जयलक्ष्मीं समृच्छति ॥ २१।१२ ॥
View Verse
भक्त्यार्च्य वामनं ज्ञानी विष्णुसालोक्यमश्नुते ।
भार्गवं राममाराध्य विष्णुसारूप्यमाप्नुयात् ॥ २१।१३ ॥
View Verse
अर्च्य दाशरथिं राममायुः कीर्तिं सुखं यशः ।
अवाप्य काममखिलं विष्णुलोके महीयते ॥ २१।१४ ॥
View Verse
बलरामं समाराध्य बलारोग्यधनं लभेत् ।
कृष्णमभ्यर्च्य सकलं इष्टमिष्टफलं लभेत् ॥ २१।१५ ॥
View Verse
ज्ञानमूर्तिं च कल्किं तु(?) लक्ष्म्यायुः कीर्तिमेव च ।
अवाप्य विष्णुसालोक्यं मोदते विष्णुपार्षदैः ॥ २१।१६ ॥
View Verse
दशमूर्त्यर्चनं पुण्यं गुह्याद्गुह्यतरं मुने ।
साधकानां हितार्थाय तव भक्तस्य धीमतः ॥ २१।१७ ॥
View Verse
फलश्रुतिर्मया प्रोक्ता मत्स्यादीनां विशेषतः ।
तन्त्राणां परमं गुह्यं विनियोगमतः शृणु ॥ २१।१८ ॥
View Verse
उक्तं च नोपदेष्टव्यमभक्ताय कदाचन ।
न मानिने डम्भिने च नास्तिकाय शठाय च ॥ २१।१९ ॥
View Verse
न चाशुश्रूषवे दद्यात् शुचये च कृपालवे ।
देवतागुरुभक्ताय न हि चेद्गुरुदोषभाक् ॥ २१।२० ॥
View Verse
जानकीं रुक्मिणीं लक्ष्म्या पुष्ट्या भामां तु विद्यया ।
लक्ष्मणं भरतं वापि शत्रुघ्नं च महामुने ॥ २१।२१ ॥
View Verse
प्रणवादिस्वनाम्नैव चतुर्थ्यन्तं नमो ऽयुजा ।
अर्चयेत मुनिच्छन्दो दैवं राघवमन्त्रवित् ॥ २१।२२ ॥
View Verse
सर्वेषां परिवाराणां मन्त्रमेवं प्रयोजयेत् ।
आभिर्हेमः प्रयोक्तव्यः स्वाहान्तं सकलं मुने ॥ २१।२३ ॥
View Verse
अभ्यन्तरोपचारेण(-षु?) आगच्छान्तं मुखीकृतौ ।
क्षमस्वान्तं विसर्गे तु नमो ऽन्तं चान्मकर्मणि ॥ २१।२४ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [मत्स्याद्यर्चनफलकथनं नाम] एकविंशो ऽध्यायः ॥
View Verse

Chapter - 22

द्वाविंशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि स्नपनस्य विधिं परम् ।
प्रासादाग्रे मुनिश्रेष्ठ मण्डपं कारयेत् क्रमात् ॥ २२।१ ॥
View Verse
त्रिंशद्धस्तायतं ब्रह्मन् तदर्धं विस्तृतं भवेत् ।
एवं ज्ञात्वा मुनिश्रेष्ठ मण्डपं तु शुभं परम् ॥ २२।२ ॥
View Verse
शिल्पशास्त्रानुसारेण शेषमस्मिन् समाचरेत् ।
यथासम्भवतो वापि चाग्रे मण्डपमाचरेत् ॥ २२।३ ॥
View Verse
मण्डपं तु त्रिधा कृत्वा तन्मध्ये कलशान् न्यसेत् ।
पश्चिमस्यां तृतीये तु भागे तु स्नानवेदिकाम् ॥ २२।४ ॥
View Verse
कारयेच्छास्त्रदृष्टेन (-दृष्ट्या तु?) तत्क्रमं चाधुना शृणु ।
द्विहस्तमेकहस्तं वा सञ्ज्ञात्वा मानमत्र तु ॥ २२।५ ॥
View Verse
कारयेद्वेदिकां पूर्वं विस्तारायामतादृशम् ।
हस्तोद्धृतं तदर्धं वा वेदिकालक्षणं मुने ॥ २२।६ ॥
View Verse
चतुरङ्गुलमुत्सेधं घनं तादृशमुच्यते ।
वेदिकायां तदूर्ध्वे तु मेखलां परितो न्यसेत् ॥ २२।७ ॥
View Verse
कर्णिकासहितं मध्ये चाष्टपत्रकमुत्तमम् ।
कारयेदुत्तरे तस्य स्नानकुल्यं यथाक्रमम् ॥ २२।८ ॥
View Verse
तालमानेन कर्तव्यं स्नानकुल्यं समेखलम् ।
पूर्ववन्मेखलां कुर्यात् मध्ये धारां समाचरेत् ॥ २२।९ ॥
View Verse
उत्तरे वेदिकायां तु स्नानश्वभ्रं तु कारेयत् ।
शिलाभिरिष्टकाभिर्वा मृदा वा वेदिमाचरेत् ॥ २२।१० ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं विशेषं कथयामि ते ।
नित्ये नैमित्तिके चैव सर्वसम्पत्सुखावहम् ॥ २२।११ ॥
View Verse
सौवर्णं राजतं वापि ताम्रं वा रीतिकां तथा ।
मिश्रलोहमयं वापि सङ्गृह्यास्त्रेण नारद ॥ २२।१२ ॥
View Verse
कारयेद्वेदिकां तत्र चतुर्गात्रसमन्विताम् ।
कारयेच्छिल्पिभिः सम्यक् आचार्यानुज्ञया मुने ॥ २२।१३ ॥
View Verse
पेवौक्तेन विधानेन काष्ठैर्वा वेदिमाचरेत् ।
एवं सङ्क्षेपतः प्रोक्तं सूत्रपातविधिं शृणु ॥ २२।१४ ॥
View Verse
प्राक्प्रत्यग्ब्रह्मसूत्रं तु कारयेत् प्रथमं मुने ।
मध्यभागं समाश्रित्य तत्सूत्रं ब्रह्मवृद्धिदम् ॥ २२।१५ ॥
View Verse
क्षत्रियस्य जयार्थ तत् वैश्यस्य सुखवृद्धिदम् ।
शूद्रः सद्गतिमाप्नोति तस्मात्तत्सूत्रमाचरेत् ॥ २२।१६ ॥
View Verse
प्रागग्रानुदगग्रान् भास्करसूत्रान् सुशालिपिष्टाक्तान् ।
पद्मातो तमिस्राषः (?) पार्श्वस्थाःसर्वतस्त्यक्त्वा ॥ २२।१७ ॥
View Verse
चतस्रोली (?) वीथ्यर्थं प्रमृज्य पङ्क्त्यापि पार्श्वयोः ।
सूत्रं व्यूहानां तव नवपदकाङ्गुलायामान् ॥ २२।१८ ॥
View Verse
कृत्वा विभजेत् पश्चात् प्रणवेनाभ्युक्ष्य पदशुद्ध्यै ।
प्रत्येकं प्रस्थेनापूर्य कलशानि शालीनाम् ॥ २२।१९ ॥
View Verse
प्रस्थाप्य कूर्चयुक्तान्यथ सर्वद्रव्याणि सापिधानम् ।
शुद्धान्याढकपूर्णापूर्णान्यथ गन्धाद्यर्च्यदिवसान्तम् ॥ २२।२० ॥
View Verse
प्रतियूपं नववस्त्रैरावेष्ट्य पुनस्तु पाद्यादि यवोदकम् ।
॥॥॥रामं कुर्यात् स्नपनं शास्त्रार्थतत्त्वज्ञः ॥ २२।२१ ॥
View Verse
एतल्लक्षणहीनान् देवान् मानुषाद्वापि विरोधात् ।
तत्स्थानस्यानुपपत्या सूत्रपाते ऽप्यकौशल्यात् ॥ २२।२२ ॥
View Verse
नारदः--- प्रत्यासन्ने स्नपने किं कर्तव्यं त्रिभिर्हरेर्भक्तैः ।
स्नपनं प्रश्नमिमं लोकहितार्थ ब्रवीतु भगवान् ॥ २२।२३ ॥
View Verse
विष्वक्सेनः--- वक्ष्याम्युत्तरमस्य शृणु भक्तानां हिताय तव साधो ।
॥॥॥॥॥॥तत्स्थाने व्रीहिर्नास्ति यत्र तत्रापि ॥ २२।२४ ॥
View Verse
व्रीहिस्थाने विलिखेत् विष्णुबीजं सबिन्दुनामिकया ।
प्रणवं जपन् प्रसन्नस्तदुपरि संस्थाप्य कलशानि ॥ २२।२५ ॥
View Verse
अष्टाक्षरेण कुर्यात् स्नपनं सर्वार्थसाधको भवति ।
इत्युक्तं मम गुरुणा स्नपनमिदं सारतस्तवोद्दिष्टम् ॥ २२।२६ ॥
View Verse
द्रव्याणां परिमाणं द्रव्याख्यानामाढकं (?) कथितम् ।
तदलाभेर्ऽधं वापि नि त्रिदशमुने त्रीणि रणानाम् ॥ २२।२७ ॥
View Verse
॥। इध्मानां शुष्कानामेतत्त्रिगुणं तथात्राणाम् (?) ।
सुस्निग्धं तनुसूत्रपञ्चरत्न्यायतं नवं वस्त्रम् (?) ॥ २२।२८ ॥
View Verse
स्नपनान्ते पूर्वोक्तं पङ्कजमालिख्य तत्र हरिबीजम् ।
कूर्चस्योपरि कुर्यात् रजनीचूर्णमाढकपूर्णम् ॥ २२।२९ ॥
View Verse
सम्प्रोक्ष्य प्रागुक्ताभावेर्ऽधाढकं वापि ।
प्रणवं जपन् मथित्वा कूर्चेनाधोमुखं तदेवात्र ॥ २२।३० ॥
View Verse
प्रक्षिप्य सापिधानं पूज्य यथापूर्वमभिषेकम् ।
कृत्वार्धस्नपनं वालुकवृक्षाम्रकशुक्लोदैः ॥ २२।३१ ॥
View Verse
आच्छाद्यांशुकमुख्यैरर्घ्याद्यभ्यर्च्य दीपान्तम् ।
निवेद्य हविर्महता त्रिदशमुने साधकः सिद्धः (?) ॥ २२।३२ ॥
View Verse
द्रव्याणां देवतानां च लक्षणं कथयामि ते ।
सङ्क्षेपेण मुनिश्रेष्ठ स्नपने ऽस्मिन् यथाक्रमम् ॥ २२।३३ ॥
View Verse
आढकेन तु सम्पूर्णं कपिलाज्यमनुत्तमम् ।
सङ्गृह्य मुनिशार्दूल देवेशमभिषेचयेत् ॥ २२।३४ ॥
View Verse
शुद्धतोयं तु सङ्गृह्य क्षीरवृक्षोद्भवेन्धनैः ।
सिद्धं देवगृहे सम्यक् उष्णोदकमनुत्तमम् ॥ २२।३५ ॥
View Verse
वज्रं च मौक्तिकं चैव मणिवैडूर्यमेव च ।
प्रवालं स्फटिकं चैव कदलीफलमेव च ॥ २२।३६ ॥
View Verse
बिल्वमामलकं चैव कदलीफलमेव च ।
नारिकेलं च हव्यं च तथा वै बीजपूरकम् ॥ २२।३७ ॥
View Verse
पनसाम्रं तथाष्टाङ्गं फलाम्भः परिकीर्तितम् ।
सुवर्णं रजतं ताम्रं रीतिमायसमेव च ॥ २२।३८ ॥
View Verse
त्रपुकं लोहतोयस्य चाङ्गानि परिपठ्यते ।
रजनी सहदेवी च शिरीषं सूर्यवर्तनी ॥ २२।३९ ॥
View Verse
कुशाग्राणि सदद्राभ (सदाभद्रं?) मार्जनद्रव्यमुच्यते ।
कुङ्कुमं चागरुं चैव चन्दनोशीरमेव च ॥ २२।४० ॥
View Verse
हरिबेरं (ह्रीबेरं च?) मुरं चैव कोष्ठं मांसीते पठ्यते ।
गन्धद्रव्यमिति प्रोक्तमक्षतोदकमुच्यते ॥ २२।४१ ॥
View Verse
क्षालितं शुद्धतोयेन पञ्चमन्त्रैः क्रमान्मुने ।
प्रस्थस्यार्धाक्षतं चैव कलशे निक्षिपेद्बुधः ॥ २२।४२ ॥
View Verse
पञ्चविंशतिभिर्वापि तस्यार्धं वार्धमेव वा ।
यवं गृह्य मुनिश्रेष्ठ तोयमध्ये विनिक्षिपेत् ॥ २२।४३ ॥
View Verse
श्यामाकं विष्णुपर्णी च दूर्वा चाम्बुजमेव च ।
पाद्यद्रव्यमिति प्रोक्तं समासेन महामते ॥ २२।४४ ॥
View Verse
घृतवद्दधि सङ्गृह्य मन्त्रेणाद्येन मन्त्रवित् ।
पूरयेत् कलशे मध्ये चार्घ्यद्रव्यमिहोच्यते ॥ २२।४५ ॥
View Verse
एवं गन्धं फलं पुष्पं सिद्धार्थाक्षतमेव च ।
कुशाग्राणि तिलं चैव अष्टाङ्गं चार्घ्यमुच्यते ॥ २२।४६ ॥
View Verse
क्षीरमाज्येन संयुक्तं मध्यमे कलशे न्यसेत् ।
अक्षतं जातिकक्कोलं लवङ्गं तिलमेव च ॥ २२।४७ ॥
View Verse
द्रव्याण्याचमनीयार्थपात्रतोये विनिक्षिपेत् ।
वृक्षोद्भवं नवं गृह्य मधु चाढकमेव च ॥ २२।४८ ॥
View Verse
तस्यालाभे तु सर्पिः स्यात् इत्थं लक्षणमुच्यते ।
प्रस्थपादं घृतं चैव दधि तद्द्विगुणं भवेत् ॥ २२।४९ ॥
View Verse
त्रिगुणं क्षीरसंयुक्तं गोमयं तु चतुर्गुणम् ।
षड्गुणं चैव गोमूत्रं पञ्चगव्यस्य लक्षणम् ॥ २२।५० ॥
View Verse
पलाशखदिराश्वत्थबिल्वमौदुम्बरं तथा ।
वैकङ्कतशमीजालां (-जम्बू?)कषायाङ्गमिति स्मृतम् ॥ २२।५१ ॥
View Verse
कपिलाज्यस्याभावे तु चान्यद् गोघृतमुच्यते ।
उष्णोदकस्याभावे तु पुष्पतोयं प्रशस्यते ॥ २२।५२ ॥
View Verse
रत्नानामप्यलाभे तु मुक्तमेकं (?) प्रशस्यते ।
फलानामप्यलाभे तु कदलीफलमुत्तमम् ॥ २२।५३ ॥
View Verse
लोहानामप्यलाभे तु सुवर्णं शस्यते परम् ।
मार्जने सहदेवी च शेषालाभे प्रशस्यते ॥ २२।५४ ॥
View Verse
गन्धद्रव्ये तथोशीरं शेषालाभे प्रशस्यते ।
अभावे चाक्षतस्यैव यथासम्भवमाचरेत् ॥ २२।५५ ॥
View Verse
यवाभावे तु शाली (-लि?) स्यात् वेणुबीजमथापि वा ।
द्रव्याणामप्यलाभे तु पाद्ये दूर्वा प्रशस्यते ॥ २२।५६ ॥
View Verse
एतेषामप्यलाभे तु अर्घ्ये सिद्धार्थकं परम् ।
शेषालाभे तु कक्कोलं शस्तमाचमनीयके ॥ २२।५७ ॥
View Verse
अभावे पञ्चगव्यस्य गोमयाद्यं प्रशस्यते ।
दधिगोमयदुग्धाज्यं यथालाभं प्रशस्यते ॥ २२।५८ ॥
View Verse
अश्वत्थं च प्रशस्तं स्यात् शेषालाभे कषायके ।
द्रव्याणामप्यलाभे तु पुष्पैरेव प्रकल्पयेत् ॥ २२।५९ ॥
View Verse
नववस्त्राणि सर्वाणि सर्वद्रव्यसमं भवेत् ।
तस्मात् सर्वप्रयत्नेन वस्त्राभावे तु नेष्यते ॥ २२।६० ॥
View Verse
द्रव्याणां लक्षणं प्रोक्तं घृतादि मुनिसत्तम ।
यावद्वस्त्रावसानं हि तावद्द्रव्याणि निक्षिपित् ॥ २२।६१ ॥
View Verse
शेषास्तु कलशाःसर्वे शुद्धोदकसमन्विताः ।
अत्र सप्तदश प्रोक्ताः प्रधानकलशास्तु ये ॥ २२।६२ ॥
View Verse
तान् सर्वान् विष्णुगायत्र्या स्थापयेच्च पृथक्पृथक् ।
शेषानन्यांश्चतुष्षष्टि द्वादक्षाक्षरविद्यया ॥ २२।६३ ॥
View Verse
स्थापयेत् कलशान् सर्वान् प्राङ्मुखो वाप्युदङ्मुखः ।
नववस्त्राणि सर्वाणि मूर्तिमन्त्रमनुस्मरन् ॥ २२।६४ ॥
View Verse
कलशानां तदूर्ध्वे तु प्रागग्रेण तु साधकः ।
तोरणान् कलशान् सर्वान् गन्धपुष्पादिनार्चयेत् ॥ २२।६५ ॥
View Verse
चर्मरोगादिरहितं कृमिकीटविवर्जितम् ।
रजःस्वेन गुहाःशुक्योलूखले क्षिप्य साधकः (?) ॥ २२।६६ ॥
View Verse
पुनःपुनर्मुनिश्रेष्ठ द्वादशाक्षरविद्यया ।
गणिकादीनलङ्कृत्य मङ्गलालापनैर्युतम् ॥ २२।६७ ॥
View Verse
शङ्खभेर्यादिसंयुक्तं घातयेद्वैष्णवैःसह ।
मुसलं सङ्ग्रहेत्तत्र घातयेच्च पुनः पुनः ॥ २२।६८ ॥
View Verse
ततः परागं सङ्गृह्य पूरयेत् कलशं क्रमात् ।
कलशान्ते मुनिश्रेष्ठ देवेशमभिषेचयेत् ॥ २२।६९ ॥
View Verse
एवं द्रव्याणि (द्रव्यं तु?) सम्प्रोक्तमुद्धारणमथो मुने ।
पाद्यं तु प्रथमं दद्यात् द्वितीयं चार्घ्यमुच्यते ॥ २२।७० ॥
View Verse
तृतीयमाचमनीयं पञ्चगव्यं चतुर्थकम् ।
घृतं तु पञ्चमं विद्यात् दधि षष्ठं तथैव च ॥ २२।७१ ॥
View Verse
सप्तमं तु ततः क्षीरं मधु चैव तथाष्टमम् ।
कषायं नवमं चैव उष्णाम्भो दशमं स्मृतम् ॥ २२।७२ ॥
View Verse
एकादश्यां(-शं?) फलाम्भस्तु द्वादश्या(-शं?)मार्जनोदकम् ।
त्रयोदशं च साम्भोजं रत्नतोयं चतुर्दशम् ॥ २२।७३ ॥
View Verse
लोहं पञ्चदशं ज्ञेयं षोडशं गन्धवारि च ।
यवोदकं सप्तदशं एवं चोद्धारणक्रमः ॥ २२।७४ ॥
View Verse
स्वे स्वे च नवके चाष्टौ सह तेन समुद्धरेत् ।
मध्यमं नवकं मुक्त्वा ऐन्द्रादिक्रमयोगतः ॥ २२।७५ ॥
View Verse
मध्यमान् कलशान् सर्वान् विष्णुगायत्रियोद्धरेत् ।
शेषमष्टाक्षरेणैव वासस्तेनैव मोचयेत् ॥ २२।७६ ॥
View Verse
ततः पुरुषसूक्तेन दद्याद्वा मुनिसत्तम ।
देवदेवमनुस्मृत्य दद्यात् पाद्यादिकान् क्रमात् ॥ २२।७७ ॥
View Verse
पाद्यादिनवकान् स्नाप्य उपस्नानं तु कारयेत् ।
वस्त्रं दत्वा तु पाद्यादीन् गन्धादीनपि दापयेत् ॥ २२।७८ ॥
View Verse
नवकानां तथान्ते तु कुर्यादेवं विचक्षणः ।
मध्यमे नवकेप्येवं कलशान्[सण्टप्रदापयेत् ॥ २२।७९ ॥
View Verse
एवं चोद्धारणं प्रोक्तं कथयाम्यधिदैवतम् ।
घृतस्य दैवतं विष्णुरुष्णाम्भस्य(?)दिवाकरः ॥ २२।८० ॥
View Verse
रत्नानां देवतं ब्रह्मा कुबेरश्च फलाम्भसः ।
लोहोदकस्य वसवो विश्वेदेवाश्च मार्जनम्(ने?) ॥ २२।८१ ॥
View Verse
गन्धर्वा गन्धतोयस्य निरृतिश्चाक्षतस्य तु ।
आप्या यवोदकस्यापि पाद्यस्य पितरस्तथा ॥ २२।८२ ॥
View Verse
क्षीरर्घ्यस्य भवेद्देवः सरस्वत्याचमनीयके ।
पञ्चगव्यस्य दक्षस्तु दध्नः शक्रस्तु दैवतम् ॥ २२।८३ ॥
View Verse
पयसो दैवतं सोमो महेन्द्रो मधुनस्तथा ।
कषायस्य यमो देवो [वराहस्तु गुलाम्भसः ॥ २२।८४ ॥
View Verse
तथा चेक्षुरसस्यापि नारसिंहस्तु दैवतम् ।
श्रीधरो नारिकेलस्य हयास्यः शान्तिवारिणः ॥ २२।८५ ॥
View Verse
मूर्तयो वासुदेवाद्याश्चतस्रो मङ्गलाम्भसः] ।
ट शुद्धोदकानां सर्वेषां देव्यः शान्त्यादयः क्रमात् ॥ २२।८६ ॥
View Verse
कलशानां तु सर्वेषामश्विनौ दैवतं परम् ।
चक्रिकाणां तु सर्वेषां दैवतं सप्तमातरः ॥ २२।८७ ॥
View Verse
वासवो(-सां?)देवतं विष्णुः सर्वेषां विष्णुरेव वा ।
मूलमन्त्रेण वा सर्वं कुर्यान्मन्त्रविचक्षणः ॥ २२।८८ ॥
View Verse
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ।
कोणे तु कलशा ये तु द्वात्रिंशच्छुद्धवारयः ॥ २२।८९ ॥
View Verse
तैर्विहीनं तु यत्स्नानं तत्स्यादधममध्यमम् ।
यच्छुद्धवारिकलशैर्हीनं सर्वैर्यथादिशम् ॥ २२।९० ॥
View Verse
केवलं सप्तदशभिः कृतं तदधमाधमम् ।
स्नपनादौ तु कर्तव्यं क्रमात् कौतुकबन्धनम् ॥ २२।९१ ॥
View Verse
ऊर्णासूत्रयुतं सूत्रं साधितं तण्डुलोपरि ।
सौवर्णं रजनीचूर्णमाढकं वाधिकं तु वा ॥ २२।९२ ॥
View Verse
आढकार्धं तदर्धं वा चूर्णं कृत्य (?) यथाविधि ।
स्नपनानां क्रमादन्ते देवमूर्ध्नि निधापयेत् ॥ २२।९३ ॥
View Verse
शुद्धस्नानं ततः कृत्वा अलङ्कृत्यार्चयेद्धरिम् ।
पुनराचमनं दत्वा दर्पणं दर्शयेत् क्रमात् ॥ २२।९४ ॥
View Verse
नृत्तगीतसमायुक्तं वेदाध्ययनसंयुतम् ।
छत्रचामरसंयुक्तं धूपदीपसमन्वितम् ॥ २२।९५ ॥
View Verse
देवस्य शिरसि भ्राम्य चाष्टपिण्डानि दीपयुक् ।
इन्द्रादीशानपर्यन्तं निक्षिपेत् पिण्डमस्त्रतः ॥ २२।९६ ॥
View Verse
महापीठे नयेद्देवं यथायोग्यं प्रवृद्धिकृत् ।
महाहविर्नवेद्याथ पूर्ववद्देशिकोत्तमः ॥ २२।९७ ॥
View Verse
पूर्वे वा चोत्तरे वापि नित्याग्नौ वा तु होमयेत् ।
समिदाज्यचरूणां तु यथाकलशसङ्ख्यया ॥ २२।९८ ॥
View Verse
आचार्यं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकैः ।
अत्रोपयोग(-युक्त?)द्रव्याणि आचार्याय प्रदापयेत् ॥ २२।९९ ॥
View Verse
यवैश्च वेणुबीजैश्च नीवारैर्गौरसर्षपैः ।
नीलैश्च तुलसीपत्रैः भवेद्धात्र्युदकं क्रमात् ॥ २२।१०० ॥
View Verse
एतेषामप्यलाभे तु तुलसीपत्रमुत्तमम् ।
इन्द्रवल्यङ्कुरं चैव अश्वत्थाङ्कुरमेव च ॥ २२।१०१ ॥
View Verse
एकपत्रं(-द्मं?) च पद्मं च भवेद्वै मङ्गलोदकम् ।
एतेषामप्यलाभे तु चाश्वत्थाङ्कुरमुत्तमम् ॥ २२।१०२ ॥
View Verse
तदलाभे मुनिश्रेष्ठ इन्द्रवल्यङ्कुरो भवेत् ।
एकपद्मं च पद्मं च यथासम्भवमाचरेत् ॥ २२।१०३ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं स्नपनं सर्वसिद्धिदम् ।
[नारदः]---
भगवन् विष्णुभूतेश विष्णुपारिषदेश्वर ॥ २२।१०४ ॥
View Verse
स्नपनं श्रोतुमिच्छामि कुम्भोत्तरसहस्रकम् ।
बहुशः स्नपनं पूर्वं श्रुतं विष्णुमुखात् प्रभो ॥ २२।१०५ ॥
View Verse
त्वया च कथितं यद्वै इममेव विधिं प्रति ।
तस्माद्यथा महाबाहो प्रीतिर्यद्यस्ति चेन्मयि ॥ २२।१०६ ॥
View Verse
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि कुम्भोत्तरसहस्रकम् ।
प्रासादाग्रे तु कर्तव्यं मण्डपं च यथाविधि ॥ २२।१०७ ॥
View Verse
द्वात्रिंशद्धस्तमायामं विंशद्धस्तं तु विस्तरम् ।
चत्वारिंशच्च पङ्क्तोना(?)मष्टतालं पृथक्पृथक् ॥ २२।१०८ ॥
View Verse
तद्भागे कलशस्थाने पञ्चविंशतिपङ्क्तिके ।
तस्य मध्यमभागे तु द्वादशं तालसम्मितम् ॥ २२।१०९ ॥
View Verse
चतुस्तम्भसमायुक्तमुत्सेधं तावदेव तु ।
परितः सप्ततालानि द्वादशस्तम्भसंयुतम् ॥ २२।११० ॥
View Verse
तद्बहिः सप्ततालानि विंशतिस्तम्भसंयुतम् ।
पश्चिमे स्नानभागे तु तत्पञ्चादशभागिके ॥ २२।१११ ॥
View Verse
तस्य मध्यमभागे तु द्वादशं तालमिष्यते ।
स्तम्भाष्टदशसंयुक्तं स्नानवेदिं यथाविधि ॥ २२।११२ ॥
View Verse
शेषाणामपि पङ्क्तीनां सप्ततालेन मीयते ।
सर्वेषामपि तालानां चतुष्षष्टिर्यथाक्रमम् ॥ २२।११३ ॥
View Verse
चत्वारिंशत् सुविस्तारं तालानां परिमीयते ।
चतुरुत्तरपञ्चाशत् स्तम्भानां परिकीर्तितम् ॥ २२।११४ ॥
View Verse
भूमिभाग इति प्रोक्तः शेषाणां कथयामि ते ।
चतुस्तालेन विस्तीर्णं तदर्धायामसंयुतम् ॥ २२।११५ ॥
View Verse
तदर्धमुपपीठं तु उपरिष्टादुपानहम् ।
जगतीकुमुदं चैव पट्टिकोपरि शोभितम् ॥ २२।११६ ॥
View Verse
समं स्निग्धं प्रकुर्वीत पीठं तत्र विचक्षणः ।
उत्तरे वेदिकायास्तु स्नानश्वभ्रमं तु कारयेत् ॥ २२।११७ ॥
View Verse
धाराकुल्या च कर्तव्या श्वभ्रं वा वेदिकोपरि ।
मूलमध्याग्रपर्यन्तं नहनं तु प्रमाणतः ॥ २२।११८ ॥
View Verse
पीठिकावलयं कुर्यात् पादपीठस्य चोपरि ।
तत् पात्रं तु ततः कुर्यात् वृत्तं वा चतुरश्रकम् ॥ २२।११९ ॥
View Verse
चतुरङ्गुलमुत्सेधं तावद्विस्तारसंयुतम् ।
कुल्या तदनुयुक्ता स्यादुदकश्वभ्रगोचरम् ॥ २२।१२० ॥
View Verse
पीठिकालक्षणं प्रोक्तं शेषान् वक्ष्याम्यशेषतः ।
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ॥ २२।१२१ ॥
View Verse
चामरैस्तालवृन्तैश्च घण्टा नानापताकयुक् ।
लम्बयेन्मुक्त(?)दामानि द्वारदेशेषु मन्त्रवित् ॥ २२।१२२ ॥
View Verse
अलङ्कृत्य ततः पश्चात् पुण्याहं तत्र कारयेत् ।
मार्जनं विधिना सम्यक् मण्डपालेपनं ततः ॥ २२।१२३ ॥
View Verse
प्रोक्षयेत् पञ्चगव्येन साधको मन्त्रवित्तमः ।
पश्चात्तु पूजयेत् सर्वद्वारेषु द्वारपालकान् ॥ २२।१२४ ॥
View Verse
कुम्भांस्तु पूजयेद्द्वौ द्वौ द्वारदेशविधानतः ।
ततस्तु तोरणान् पूज्य केतूंश्चापि तथैव च ॥ २२।१२५ ॥
View Verse
स्वनाम्ना पूजयित्वा तु गन्धपुष्पादिभिः क्रमात् ।
वेष्टयेत्तोरणस्तम्भानृ क्षौमैः कौशेयकैरपि ॥ २२।१२६ ॥
View Verse
कलशस्थानमासाद्य शालिपिष्टैर्विचित्रयेत् ।
ब्राह्मं तु मध्यमं भागं दैविकं तदनन्तरम् ॥ २२।१२७ ॥
View Verse
तृतीयं मानुषं भागं पदमेवं न्यसेत् क्रमात् ।
ब्रह्मस्थाने पदं कुर्यात् एकाशीतिविधानतः ॥ २२।१२८ ॥
View Verse
घृतमुष्णोदकं चैव रत्नाम्भः फलवारि च ।
लोहाम्भो मार्जनं चैव गन्धाम्भो ऽक्षतमेव च ॥ २२।१२९ ॥
View Verse
यवोदकं च इत्येते मध्यमे नवके न्यसेत् ।
तस्यैव परितः कुर्यात् दिक्ष्वष्टसु समन्ततः ॥ २२।१३० ॥
View Verse
पाद्यार्घ्याचमनीयं च पञ्चगव्यं ततो दधि ।
पयोमधुकषायं च दिक्ष्विन्द्रादिषु विन्यसेत् ॥ २२।१३१ ॥
View Verse
पाद्यादि पञ्चगव्यान्तं महादिक्षु निवेशयेत् ।
दध्यादि च कषायान्तं कोणेषु विनिवेशयेत् ॥ २२।१३२ ॥
View Verse
एवं द्रव्याणि चोक्तानि विन्यसेन्नवकं प्रति ।
मध्ये मध्ये विनिक्षिप्य द्रव्याणां तु यथाक्रमम् ॥ २२।१३३ ॥
View Verse
शेषान् शुद्धोदकान् सर्वान् चतुष्षष्टिं तु कारयेत् ।
ततस्तु दैविके भागे पदं कुर्वीत साधकः ॥ २२।१३४ ॥
View Verse
दिशि चापि तथा कोणे कुर्यात् सप्तदशं क्रमात् ।
मध्ये मध्ये तथा कुर्यात् द्रव्यकुम्भं विचक्षणः ॥ २२।१३५ ॥
View Verse
ऐन्द्रे तु मध्यभागे तु न्यसेच्चन्दनकर्दमम् ।
याम्ये तु मध्यभागे तु न्यसेत् कुङ्कुमकर्दमम् ॥ २२।१३६ ॥
View Verse
वारुणे मध्मभागे तु न्यसेत् कर्पूरकर्दमम् ।
सौम्ये तु मध्यभागे तु न्यसेदौशीरकर्दमम् ॥ २२।१३७ ॥
View Verse
आग्नेये मध्यभागे तु विन्यसेत्तिलतैलकम् ।
नैरृते मध्यभागे तु न्यसेदामलतैलकम् ॥ २२।१३८ ॥
View Verse
वायव्ये मध्यभागे तु न्यसेत् सर्षपतैलकम् ।
ईशाने मध्यभागे तु न्यसेत् कर्पूरतैलकम् ॥ २२।१३९ ॥
View Verse
[चन्दनं कर्दमाम्भयच कुङ्कुमं कर्दमं तथा ।
कर्पूरकर्दमाम्भश्च औशीरं कर्दमं तथा ॥ २२।१४० ॥
View Verse
ऐन्द्रादि सोमपर्यन्तं विन्यसेत्तु विचक्षणः ।
तिलं चामलकं तैलं तथा सर्षपतैलकम् ॥ २२।१४१ ॥
View Verse
तथा कर्पूरतैलं च आग्नेयादिषु विन्यसेत्] ।
पुरुषश्चैव सत्यश्च नरो नारायणो ऽच्युतः ॥ २२।१४२ ॥
View Verse
अनिरुद्धो हरिः कृष्णश्चन्दनाद्यष्टदैवताः ।
शेषान् शुद्धोदकैः सर्वान् अष्टाविंशच्च तत्क्रमात् ॥ २२।१४३ ॥
View Verse
पूरयेत् सर्वतः पश्चादाचार्यः सुसमाहितः ।
तृतीये मानुषे भागे चैन्द्रादीन् षोडश क्रमात् ॥ २२।१४४ ॥
View Verse
प्रत्येकं तु पदं कुर्याच्चत्वारिंशन्नवोत्तरम् ।
तेषां मध्ये तु विन्यस्य द्रव्यकुम्भं विचक्षणः ॥ २२।१४५ ॥
View Verse
गुलं तु विन्यसेत् प्राच्यादि(-मि?)क्षुतोयं तु दक्षिणे ।
प्रतीच्यां नालिकेराम्भः उदीच्यां शान्तिवारि च ॥ २२।१४६ ॥
View Verse
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
गुलाद्यानि च चत्वारि तस्य तस्याधिदैवतम् ॥ २२।१४७ ॥
View Verse
आग्नेयादिषु कोणोषु मङ्गलांश्चोपविन्यसेत्(?) ।
मूर्तयो वासुदेवाद्याश्चतस्रो मङ्गलाम्भसः ॥ २२।१४८ ॥
View Verse
इन्द्राग्न्योर्मध्यभागे तु विन्यसेद्धिमतोयकम् ।
धर्मपावकयोर्मध्ये विन्यसेच्च तिलोदकम् ॥ २२।१४९ ॥
View Verse
यमनैरृतयोर्मध्ये विन्यसेत्तण्डुलोदकम् ।
निरृतेर्वरुणस्यापि मध्ये निर्झरवारि च ॥ २२।१५० ॥
View Verse
मध्ये वरुणवाय्वोश्च विन्यसेद्वृष्टितोयकम् ।
वायव्यसोमयोर्मध्ये विन्यसेच्च कुशोदकम् ॥ २२।१४१ ॥
View Verse
ईशानसोमयोर्मध्ये विन्यसेत्तुलसीजलम् ।
तथेशानेन्द्रयोर्मध्ये न्यसेत् सामुद्रकं जलम् ॥ २२।१५२ ॥
View Verse
ततः सप्तदशान् कुम्भान् उत्तराननषष्टिकान् ।
पूरयेत् पूर्ववत् सम्यक् गन्धपुक्तेन वारिणा ॥ २२।१५३ ॥
View Verse
अर्चयेच्च ततः पश्चात् मूलमन्त्रेण मन्त्रवित् ।
अर्चयित्वा यथान्यायं कुम्भान् सर्वान् यथाविधि ॥ २२।१५४ ॥
View Verse
वेष्टयित्वा यथा वस्त्रैः कुम्भान् सर्वान् यथाक्रमम् ।
पाद्यादीनां तु सर्वेषां मन्त्रं पुरुषसूक्तकम् ॥ २२।१५५ ॥
View Verse
मूलमन्त्रेण वा कुर्यादिदं विष्णुरिति त्र्यृचा ।
अर्चयेद्देवदेवेशं द्रव्याणां (द्रव्यैः सं?) स्नापयेद्बुधः ॥ २२।१५६ ॥
View Verse
ततो द्वितीयावरणे स्नापयेच्च विचक्षणः ।
विष्णोरराट मन्त्रेण चन्दनाम्ब्वादि भेदतः ॥ २२।१५७ ॥
View Verse
मूलमन्त्रेण वा कुर्यादिदं विष्णुरिति त्र्यृचा ।
स्नापयेच्च चतुर्दिक्षु चत्वारः क्रमयोगतः ॥ २२।१५८ ॥
View Verse
तिलतैलादि चत्वारि आपोहिष्ठाक्रमादिना ।
एवं द्वितीयावरणे कोणेषु स्नापयेद्बुधः ॥ २२।१५९ ॥
View Verse
पश्चाद्गुलोदकाद्यैस्तु इदं विष्णुरिति मन्त्रतः ।
मङ्गलाम्भांसि चत्वारि विष्णोर्नुकमिति त्र्यृचा ॥ २२।१६० ॥
View Verse
स्नापयेद्दिक्षु चाष्टासु मन्त्रवच्च यथाक्रमम् ।
हिमाद्यम्भांसि चत्वारि आपो अस्मादिति त्र्यृचा ॥ २२।१६१ ॥
View Verse
अग्निमीले तिलाम्ब्वादि चत्वारि स्नापयेत् क्रमात् ।
पाद्यादीनां तु सर्वेषां द्रव्याणां तु सुविस्तरम् ॥ २२।१६२ ॥
View Verse
शृणु गुह्यमना भूत्वा सङ्क्षेपाद्वक्ष्यते ऽधुना ।
तुलसीपद्मदूर्वार्(-वे?) च श्यामाकं विष्णुपर्णिका ॥ २२।१६३ ॥
View Verse
बिल्वपत्रं च इत्येते(-वं?)पडङ्गं पाद्यमुच्यते ।
व्रीहिस्तण्डुलसिद्धार्थर्ं(-थो?)गन्धपुष्पे फलं पयः ॥ २२।१६४ ॥
View Verse
तिला यवाः कुशाश्चैव अर्घ्यस्य दश चोच्यते ।
कर्पूरजातिकक्कोलं(?) पुष्पमेलालवङ्गकम् ॥ २२।१६५ ॥
View Verse
षडङ्गानि तु चैतानि ह्युक्तान्याचमनीयके ।
न्यग्रोधाश्वत्थशम्यश्च प्लक्षजम्बूकपित्थकम् (?) ॥ २२।१६६ ॥
View Verse
खादिरोदुम्बरश्चैव मधूकश्च विकङ्कतम् ।
बिल्वं पलाश इत्येते कषाय(-ये?) द्वादश स्मृतम् ॥ २२।१६७ ॥
View Verse
वज्रं प्रवालं मुक्ता च वैडूर्यं मरकतं मणिः ।
पुष्यकं ब्रह्मरागं च इन्द्रनीलं च गारुडम् ॥ २२।१६८ ॥
View Verse
रत्नोदकस्य द्रव्याणि दशरत्नानि सङ्ग्रहः ।
पनसाम्रकपित्थं च कदल्यामलकं तथा ॥ २२।१६९ ॥
View Verse
बिल्वं हव्यं मातुलुङ्गं नालिकेरं च दाडिमम् ।
बदरीकुटजं चैव फलं द्वादश उच्यते ॥ २२।१७० ॥
View Verse
शिरीषं च कुशाश्चैव राजसूर्यविवर्तनी ।
भूस्तृणं च सदाभद्रा असनं तुलसीद्वयम् ॥ २२।१७१ ॥
View Verse
सहदेवी च इत्येते(-वं?) दशाङ्गानि तु मार्जने ।
उशीरं च तथा कुष्ठं कुङ्कुमं चन्दनं तथा ॥ २२।१७२ ॥
View Verse
अगरुर्देवदारुश्च मांसीरं(?)मुरमेव च ।
हरिबेरश्च कर्पूरं नाटरं मुक्तमेव च (?) ॥ २२।१७३ ॥
View Verse
गन्धोदकस्य इत्येते गन्ध द्वादश उच्यते (?) ।
वैणवं च यवं चैव पालाशं पद्ममेव च ॥ २२।१७४ ॥
View Verse
तुलसीदलनीवारगौरसर्षपमेव च (?) ।
शान्त्युदकस्य चैतानि कथितानि समासतः ॥ २२।१७५ ॥
View Verse
इन्द्रवल्यङ्कुरं चैव वंशकाङ्कुरमेव च ।
अश्वत्थस्याङ्कुरं चैव एकपद्मं तथैव च ॥ २२।१७६ ॥
View Verse
पलाशस्याङ्कुरं चैव पद्मपुष्पं तथैव च ।
एतानि चाङ्कुराण्यष्टौ मङ्गलाम्भसि विन्यसेत् ॥ २२।१७७ ॥
View Verse
सुवर्णं रजतं ताम्रमायसं त्रपुकं तथा ।
फलं कनकचूर्णं च पैत्तलोहं (-लं च?) तथेव च ॥ २२।१७८ ॥
View Verse
अष्टाङ्गानि तु लोहाम्भः कथितानि समासतः ।
नीवारवैणवं चैव यवसर्षपमाषकाः ॥ २२।१७९ ॥
View Verse
प्रियङ्गुतण्डुलं ब्रीहिरक्षताष्टाङ्गमुच्यते ।
पात्रवस्त्रादिके द्रव्ये क्रियाद्रव्यं तु कारयेत् ॥ २२।१८० ॥
View Verse
स्वीकृतो यजमानेन स्नपनाय समारभेत् ।
अन्यथा हि न कर्तव्यं क्रिया भवति निष्फला ॥ २२।१८१ ॥
View Verse
शेषाणामपि वस्तूनामेवं कुर्यात् प्रकीर्तितम् ।
कलशानां तु सर्वेषां देवो नारायणः स्मृतः ॥ २२।१८२ ॥
View Verse
चक्रिकाणां तु सर्वेषां ब्रह्माणं परमेष्ठिनम् (?) ।
शेषाणामपि वस्तूनां देवो विष्णुः सनातनः ॥ २२।१८३ ॥
View Verse
स्नपनं विधिवत् कृत्वा ह्याचार्यस्तन्त्रवित्तमः ।
यच्चूर्णं स्नापेयत् पश्चात् गन्धयुक्तैर्विमिश्रितैः(?) ॥ २२।१८४ ॥
View Verse
चूर्णं तु विमृजेत् पश्चात् स्नापयेद्गन्धवारिणा ।
आराधयेत्ततो देवं वस्त्राभरणमादितः ॥ २२।१८५ ॥
View Verse
मधुपर्कं ततो दद्याद्देवदेवाय भक्तितः ।
चरुभिः पूजयेद्भक्त्या राजवत् पुरुषोत्तमम् ॥ २२।१८६ ॥
View Verse
अन्ते बहुविधैर्भक्ष्यैः पायसौश्च गुलौदनैः ।
विचित्रान्नैश्च विविधैरुपदंशैरनेकशः ॥ २२।१८७ ॥
View Verse
सर्वभक्ष्यैरपूपैश्च स्वादूनि रसवन्ति च ।
सौगन्धिकेन चाज्येन दद्याद्देवाय मन्त्रवित् ॥ २२।१८८ ॥
View Verse
दद्याद्गुलद्वयं चैव कदलीफलमेव च ।
पनसाम्रफलं चैव क्रमेणैवं निवेदयेत् ॥ २२।१८९ ॥
View Verse
दध्योदनं ततो दद्यात् बहिरन्तश्च देशिकः ।
निवेदितं च यद्द्रव्यं पुष्पं फलमथापि वा ॥ २२।१९० ॥
View Verse
ममाग्रे स्थाप्य तन्त्रज्ञो मद्दक्षिणकरे ददेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य स्वनाम्ना मन्त्रवित्तमः ॥ २२।१९१ ॥
View Verse
निवेद्य शेषं सर्वेषां वैष्णवानां तु दापयेत् ।
हुतशेषं तथाचार्यः प्राशयेत् प्राङ्मुखः शुचिः ॥ २२।१९२ ॥
View Verse
कुञ्जरं वा तुरङ्गं वा ग्रामं दासीगणं तथा ।
गाश्चैव विविधं वस्त्रं हिरण्यं वापि शक्तितः ॥ २२।१९३ ॥
View Verse
आचार्याणां तु देयं स्यात् (दद्याद्वै?) यथावित्तानुसारतः(?) ।
एवमुक्तविधानेन सहस्रकलशैःशुभैः ॥ २२।१९४ ॥
स्नाप्य भक्त्या हरिं सम्यक् अश्वमेधफलं लभेत् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [स्नपनविधिर्नाम] द्वाविंशो ऽध्यायः ॥
View Verse

Chapter - 23

त्रयोविंशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि हरेः पूजाङ्गमुत्तमम् ।
पुष्पारामस्य देशं च तस्य संस्कारमेव च ॥ २३।१ ॥
View Verse
एवमादीनि चान्यानि सन्ध्यारक्षावसानकम् ।
शृणु गुह्यमना भूत्वा साधकानां हिताय वै ॥ २३।२ ॥
View Verse
देवालयस्य परितो वायव्यां दिशि वा मुने ।
पूर्वे ऽथ दक्षिणे वापि कुर्यादाराममुत्तमम् ॥ २३।३ ॥
View Verse
पूर्ववद्वैष्णवैर्युक्तं यजमानो विधानतः ।
आचार्यं पूजयित्वा तु ब्राह्मणानामनुज्ञया ॥ २३।४ ॥
View Verse
अङ्गुलीयकवस्त्राद्यैस्तोषयित्वा हरिं स्मरेत् ।
अर्ध्यादिस्नानपर्यन्तं तेनैव मनसाव्ययम् ॥ २३।५ ॥
View Verse
रविमण्डलमध्यस्थं देवं नारायणं प्रभुम् ।
सम्पूजयित्वा तद्भूमौ शङ्खतूर्यादिसंयुतम् ॥ २३।६ ॥
View Verse
वैष्णवैः सह तां भूमिं निरीक्ष्यास्त्रेण मन्त्रवित् ।
कर्षयेल्लाङ्गलैः शूद्रैः वैष्णवैस्तु यथाक्रमम् ॥ २३।७ ॥
View Verse
ततो मृच्छिष्यशस्त्रैस्तु तां भूमिं शिक्षयेद्द्विज (?) ।
यजमानो हरिं स्मृत्वा आचार्यं पूजयेत् पुनः ॥ २३।८ ॥
View Verse
ब्राह्मणान् भोजयित्वा तु पुण्याहं तत्र कारयेत् ।
तस्यां भूम्यां शुभायां तु पुष्पवृक्षादिकान् क्रमात् ॥ २३।९ ॥
View Verse
स्थापयेद्देवदेवस्य पूजार्थं मुनिसत्तम ।
करवीरं तथा जतिर्मल्लिकावकुलं तथा ॥ २३।१० ॥
View Verse
चम्पकं कर्णिकारं तु नन्द्यावर्तं तथैव च ।
तुलसीद्वमेवं च दलैकं पद्ममुच्यते ॥ २३।११ ॥
View Verse
मागधीवृक्षवकुलं(-लौ?) क्रमुकं(-कः?)पनसं(-सः?)तथा ।
कदल्यामलकं(-कौ?)चैव मधुकाम्रं(-म्रौ?)तथैव च ॥ २३।१२ ॥
View Verse
नालिकेरं त(-रस्त?)थोशीरं चन्दनं हरिबेरकम् ।
पुन्नागं वंशपुन्नागं क्षुद्रपुन्नागमेव च ॥ २३।१३ ॥
View Verse
दाडिमं च तथा हव्यं पालाशं पादपं तथा ।
एवमादीनि चान्यानि देवोद्याने तु दर्शकान् ॥ २३।१४ ॥
View Verse
पुष्पारामे क्रमेणैव कुर्यात्तु ब्राह्मणेन वै ।
ब्राह्मणान् ज्ञानसम्पन्नान् वैष्णवान् वेदपारगान् ॥ २३।१५ ॥
View Verse
सङ्गृह्य तानलङ्कृत्य सर्वदुन्दुभिसंयुतम् ।
पूर्वं विघ्नेशमभ्यर्च्य उपहा(-चा?)रसमन्वितम् ॥ २३।१६ ॥
View Verse
ताम्बूलं सूक्ष्मवस्त्रैस्तु ब्राह्मणान् पूज्य मन्त्रवित् ।
एवमादीनि चान्यानि वैष्णवान् प्रणवं स्मरेत् ॥ २३।१७ ॥
View Verse
गन्धादिभिः समभ्यर्च्य ताम्बूम्ल दापयेत् क्रमात् ।
तस्माद्द्विजवरश्रेष्ठैरारामे मुनिसत्तम ॥ २३।१८ ॥
View Verse
बीजानि वापयेद्भूमौ प्रणवाद्यन्तसंयुतम् ।
विष्णुगायत्रिमन्त्रेण विष्णुमन्त्रमनुस्मरन् ॥ २३।१९ ॥
View Verse
अङ्कुरादींस्तथा भूमौ चारामे क्रमयोगतः ।
सर्वा(शक्रा?)दीशानपर्यन्तं करवीरादिकान् क्रमात् ॥ २३।२० ॥
View Verse
स्थापयेत् पूर्ववन्मन्त्री सेचयेत् प्रणवैर्जलम् ।
यन्त्रेणाहृत्य सच्छि(-च्छू?)द्रो वैष्णवैस्तु दिने दिने ॥ २३।२१ ॥
View Verse
तोषयेत् पुष्पवृक्षांश्च पत्राणि विविध नि च ।
एवमादीनि च न्यानि फलवृक्षान्तमेव च ॥ २३।२२ ॥
View Verse
तालं निम्बं तथा राजवृक्षं खदिरमेव च ।
विष्ण्वालये तथारामे स्वृगृहे च विवर्जयेत् ॥ २३।२३ ॥
View Verse
वर्ज्यस्यावर्जनान्यानि(-ने नैव?)वृद्धिः स्यात् कुप्यते हरिः ।
तस्मात् सर्वप्रयत्नेन तालादीनां तु वर्जयेत् ॥ २३।२४ ॥
View Verse
ब्राह्मणाराधने लोके परार्थे विष्णुमव्ययम् (?) ।
ब्राह्मणैरेव कर्तव्यः पुष्पारामो महामते ॥ २३।२५ ॥
View Verse
तथैव नृपविड्भ्यां च विष्णोराराधेन क्रमम् (-मः?) ।
शूद्राराधनदेवस्य शूद्रैर्नन्दवनं मुने ॥ २३।२६ ॥
View Verse
कारयेत् क्रमयोगेन ब्राह्मणानां महत्तपः ।
ब्राह्मणाराधने भूमौ पूर्ववन्नन्दनं मुने ॥ २३।२७ ॥
View Verse
स्थापितं ब्राह्मणेनेव पुष्पवृक्षादिकान् क्रमात् (?) ।
यथाकामं तु मन्त्रेण जलैः शूद्रैस्तु वर्जयेत् ॥ २३।२८ ॥
View Verse
आपुष्पकालमत्रैव तावत् कुर्याद्दिने दिने (?) ।
पुष्पकाले ऽङ्कुरादीनि पत्राणि विविधानि च ॥ २३।२९ ॥
View Verse
हस्तं प्रक्षाल्य तान् छेद्य(छित्वा?)पात्रे शूद्रैस्तु पूरयेत् ।
सपुष्पपात्रमादाय ब्रह्मणो वेदपारगः ॥ २३।३० ॥
View Verse
प्रणवेन समुद्धृत्य सापिधानं हरिं स्मरन् ।
पुष्पमण्डपमासाद्य पुष्पभाण्डे तु पूरयेत् ॥ २३।३१ ॥
View Verse
पश्चाच्छुद्धजलैर्मन्त्रीं सम्प्रोक्ष्यास्मिन् मुखेषु तान् ।
पिधाय तु बहिर्देशे निष्क्रम्यास्त्रेण मन्त्रतः ॥ २३।३२ ॥
View Verse
ततस्तु फलकां तस्मिन् मन्त्री वायुमनुस्मरन् ।
सम्मृज्य कुशबृन्देन प्रोक्षयेत् प्रणवेन तु ॥ २३।३३ ॥
View Verse
सङ्क्षाल्य विष्णुणायत्र्या फलकां गन्धवरिणा ।
हस्तं प्रक्षाल्य तेनैव प्रणवेनाभिमन्त्रयेत् ॥ २३।३४ ॥
View Verse
पुष्पपात्रात् समादाय हस्ताभ्यां प्रणवेन तु ।
पूरयेत् फलकान्तं तु नववस्त्रैस्तु वा मुने ॥ २३।३५ ॥
View Verse
तथैवाङ्कुरपत्रणि सर्वाण्येतानि वै क्रमात् ।
पश्चाद्गन्धजलैस्तस्मिन् प्रोक्षयेत् प्रणवं स्मरेत् ॥ २३।३६ ॥
View Verse
मनसा सततं देवमनुस्मृत्य समाहितः ।
नमस्कारविहीने(-नं?)तु सूत्रेः पुष्पाणि सन्धयेत् ॥ २३।३७ ॥
View Verse
उत्पलादीनि चान्यानि तुलसीद्वयमेव च ।
नानावर्णसमायुक्तं माल्यान्येवं समाचरेत् ॥ २३।३८ ॥
View Verse
ततः प्रणवमुच्चार्य षडक्षरमनुस्मरन् ।
पुष्पपात्रे तु सम्पूर्य प्रणवेनोद्धरेद्बुधः ॥ २३।३९ ॥
View Verse
नमस्कारविहीनेन(-नं तु?) हरिं स्मृत्य शनैः शनैः ।
देवपार्श्वं समासाद्य स्थापयेद्दक्षिणाग्रतः ॥ २३।४० ॥
View Verse
पश्चात्तान्यस्त्रमन्त्रेण प्रोक्षयेत् साधकः क्रमात् ।
ततः प्रणम्य मनसा मूलमन्त्रमनुस्मरन् ॥ २३।४१ ॥
View Verse
निष्क्रम्य तु बहिर्देशे जपेद्वै वैष्णवो द्विजः ।
देवालयाद्बहिर्देशे न कुर्यात् पुष्पमण्डपम् ॥ २३।४२ ॥
View Verse
यो बाह्ये कुरुते मोहात् पुष्पमाल्यादिकान् मुने ।
न पूजाफलमाप्नोति तस्मात्तं परिवर्जयेत् ॥ २३।४३ ॥
View Verse
सच्छूद्रवैष्णवैर्मालामापद्यपि महामुने ।
नित्ये नैमित्तिके चैव न कुर्यात्तु कथञ्चन ॥ २३।४४ ॥
View Verse
ब्राह्मणाराधेन(?) चास्मिन् परार्थे तु विशेषतः ।
आत्मार्थमव्ययं विष्णु यथाकामं समर्चयेत् ॥ २३।४५ ॥
View Verse
सा पूजा भुक्तिमुक्तिः स्यात् तस्मात् स्वार्थं विशिष्यते ।
यो मोहात् कुरुते मालां शूद्रो ब्राह्मणपूजने ॥ २३।४६ ॥
View Verse
आत्मार्थे च परार्थे च सा पूजा निष्फला भवेत् ।
तद्ग्रामं(-मो?)निधनं याति तस्माद्यत्नेन वर्जयेत् ॥ २३।४७ ॥
प्रातर्मध्यप्रदोषेषु सान्ध्याषट्के विशेषतः ।
नित्ये नैमित्तिके चैव ब्राह्मणाराधने मुने ॥ २३।४८ ॥
View Verse
मन्त्रपुष्पादिकान् सर्वान् ब्राह्मणैरेव चोद्धरेत् ।
सम्मार्जनशतं पुण्यं सहस्रमनुलेपनम् ॥ २३।४९ ॥
View Verse
मालाः शतसहस्राणि अनन्तो दीप उच्यते ।
तस्मात्तेषां मुनिश्रेष्ठ दीपमाला विशिष्यते ॥ २३।५० ॥
View Verse
गन्धैः पुष्पैस्तथा धूपदीपैर्माल्यैर्मनोरमैः ।
देवदेवं समभ्यर्च्य सन्ध्यारक्षां समाचरेत् ॥ २३।५१ ॥
View Verse
जगत्संरक्षणार्थाय तद्ग्रामस्य विशेषतः ।
दिने दिने तु कर्तव्यं(?)पात्रे ताम्रादिके बुधैः ॥ २३।५२ ॥
View Verse
पुष्पपात्रैस्तथा दूर्वामालाद्यैस्तिलसर्षपैः ।
सम्पूर्यास्मिन् तदस्त्रेण दीपानष्टदले न्यसेत् ॥ २३।५३ ॥
View Verse
कार्पासतूलगोसर्पिःसतैलेन (तैलेन च?)विमिश्रितम् ।
कर्पूरागरुसंयुक्तमष्टदिग्दीपसंयुतम् ॥ २३।५४ ॥
View Verse
सङ्गृह्य प्रणवेनैव पुष्पैरस्त्रेण पूजयेत् ।
महादीपसमायुक्तं छत्रचामरसंयुतम् ॥ २३।५५ ॥
View Verse
षडक्षरेण मन्त्रेण भ्रामयेत्तच्छिरोपरि ।
तत्पश्चाद्दासदासीभिर्वैष्णवैः सह मन्त्रवित् ॥ २३।५६ ॥
View Verse
नानाशङ्खरवैर्युक्तं नानावाद्यसमन्वितम् ।
पीटाग्रे वाथ बाह्ये वा रक्षादीपं नयेद्बुधः ॥ २३।५७ ॥
View Verse
षडक्षरेण मन्त्रेण प्रणवाद्यन्तसंयुतम् ।
पश्चाद्गर्भगृहाग्रे तु महादीपं विसर्जयेत् ॥ २३।५८ ॥
View Verse
नित्ये नैमित्तिकेप्येवं सन्ध्यारक्षां समाचरेत् ।
सायाने ऽलङ्कृतान्ते वा सन्ध्यारक्षां विशेषतः ॥ २३।५९ ॥
कारयेत् क्रमयोगेन सर्वसम्पत्सुखावहम् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [पूजाङ्गविधिर्नाम] त्रयोविंशो ऽध्यायः ॥
View Verse

Chapter - 24

चतुर्विंशो ऽध्यायः
विष्वक्सेनः---
अथ वक्ष्ये विशेषेण विष्णोराराधनं मुने ।
जलगन्धादिसंस्कारविधिं गुह्यमनुत्तमम् ॥ २४।१ ॥
View Verse
ब्राह्मणान् वेदसंयुक्तान् वैष्णवान् सुकुलोद्भवान् ।
तान् क्रमेणैव संस्कृत्य प्रोक्षयित्वा शिरोपरि ॥ २४।२ ॥
View Verse
मूलमन्त्रेण मन्त्रज्ञः पश्चात्तेनैव कारयेत् ।
गोपुरस्योत्तरे कुर्याद्दक्षिणे वा जलाशयम् ॥ २४।३ ॥
View Verse
याम्ये देवगृहस्यैव चोत्तरे वा प्रमाणतः ।
अलङ्कृत्य तु तत्स्थानं प्रणवं सततं जपेत् ॥ २४।४ ॥
View Verse
गोमयेन् समालिप्य प्रोक्षयेद्गन्धवारिणा ।
द्वादशाक्षरमन्त्रेण प्रणवाद्यन्तसंयुतम् ॥ २४।५ ॥
View Verse
अलङ्कृत्य च गन्धादि धूपदीपैः समन्ततः ।
मुक्तादामसमायुक्तं वितानैरुपशोभितम् ॥ २४।६ ॥
View Verse
पताकमालासंयुक्तं शालिपिष्टैरलङ्कृतम् ।
तत्स्थानं साधकः पश्चाद्द्वादशाक्षरविद्यया ॥ २४।७ ॥
View Verse
सम्प्रोक्ष्य धूपयित्वा च गुग्गुलागरुसंयुतम् ।
तस्मिन् मनोरमे देशे जलभाण्डादिकान् मुने ॥ २४।८ ॥
View Verse
स्थापयेत् प्रणवेनैव प्रत्येकं तं हरिं स्मरन् ।
जलभाण्डं तथा कुम्भं वर्धनीं च बहूनि च ॥ २४।९ ॥
View Verse
स्रग्धूपपात्रसंयुक्तं स्थापयेत्तु समाहितः ।
एवमादीनि चान्यानि तद्भूमौ स्थापयेत् क्रमात् ॥ २४।१० ॥
View Verse
सुगन्धं देवपानीयं स्नानार्थं जलमेव च ।
गन्धद्रव्यं तथोशीरं माञ्जं मलयजं तथा ॥ २४।११ ॥
View Verse
एवमादीनि चान्यानि गन्धद्रव्यादिकान् मुने ।
सङ्गृह्य विष्णुगायत्र्या प्रणवाद्यन्तसंयुतम् ॥ २४।१२ ॥
View Verse
जलभाण्डादिकान् सर्वान् विष्णुगायत्रिया मुने ।
सङ्क्षाल्यान्यान् सुसम्प्रोक्ष्य पूरितान् गालितोदकैः ॥ २४।१३ ॥
View Verse
पूरयेत् प्रणवेनैव तान् पिधाय पृथक् पृथक् ।
एलाचम्पकपुष्पाणि केतकोत्पलमेव च ॥ २४।१४ ॥
View Verse
उशीरमल्लिकाजातिपुष्पं वकुलमेव च ।
एतान् पुष्पान् समादाय विक्षिपेत्तान् पृथक् पृथक् ॥ २४।१५ ॥
View Verse
एतेषामप्यलाभे तु जलेषु मुनिसत्तम ।
यथासम्भवमाहृत्य निक्षिपेद्गन्धपुष्पकम् ॥ २४।१६ ॥
View Verse
त्रिमात्रात्(?)पुष्पमुद्धृत्य प्रणवेन विसर्जयेत् ।
सुसूक्ष्मैः सुदृढैर्वस्त्रैर्वेष्टयेदस्त्रमन्त्रतः ॥ २४।१७ ॥
View Verse
ततश्चन्दनसंयुक्तं कर्पूरं पेषयेद्बुधः ।
तथैव गन्धं मालाकां(?)रजनीं प्रणवैः सह ॥ २४।१८ ॥
View Verse
एवं संस्कृत्य मतिमान् सर्वान् देवाननुस्मरन् ।
वर्धनीं विष्णुगायत्र्या सलक्ष्म्यास्मिन् पृथक् पृथक् ॥ २४।१९ ॥
View Verse
जलभाण्डाज्जलं गृह्य प्रणवेन तु पूरयेत् ।
एवं सम्पूरयित्वा तु पिधाय च सुवस्त्रकैः ॥ २४।२० ॥
View Verse
पूजारम्भे मुनिश्रेष्ठ प्रणवाद्यन्तसंयुतम् ।
विष्णुगायत्रिमन्त्रेण चोद्धरद्वर्धनीं बहून्(?) ॥ २४।२१ ॥
View Verse
मण्डपस्योत्तरे पार्श्वे स्थापयेत् प्रणवं स्मरन् ।
एवं दिने दिने देवपूजार्थं जलमुत्तमम् ॥ २४।२२ ॥
View Verse
तथैव चन्दनादीनि कर्पूरेण विमिश्रितम् ।
दूर्वाक्षताञ्जनं चैव मात्रातण्डुलमेव च ॥ २४।२३ ॥
View Verse
तिलगोहेमदध्याज्यं मधुपर्कोपहारकम् ।
स्नानार्थं रजनीपिष्टं सतैलामलकं तथा ॥ २४।२४ ॥
View Verse
एवमादीनि चान्यानि पूजाद्रव्याणि सर्वशः ।
प्रणवेन तु संस्कृत्य चास्त्रमन्त्रेण चोद्धरेत् ॥ २४।२५ ॥
View Verse
मुखवासं मुनिश्रेष्ठ प्रणवं सततं जपन् ।
संस्कृत्यान्ते विधानेन चोद्धरेद्वाग्यतः शुचिः ॥ २४।२६ ॥
View Verse
शङ्खत्रय(-तूर्य?)समायुक्तं प्रणवेन दिने दिने ।
देवस्य दक्षिणे पार्श्वे स्थापयेदस्त्रमन्त्रतः ॥ २४।२७ ॥
View Verse
प्रातः सन्ध्यादिषट्काले ऽप्येवमेव समाचरेत् ।
नित्ये नैमित्तिके ऽप्येवं संस्कारो मुनिसत्तम ॥ २४।२८ ॥
View Verse
सङ्क्षेपेण मया प्रोक्तो जलगन्धादिकः क्रमात् ।
अन्यथा चेन्महादोषो भविष्यति न संशयः ॥ २४।२९ ॥
View Verse
दुर्भिक्षं जायते चैव धनधान्यक्षयो भवेत् ।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ॥ २४।३० ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (जलगाधादि-संस्कारविधिर्नाम) चतुर्विंशो ऽध्यायः ॥
View Verse

Chapter - 25

पञ्चविंशो ऽध्यायः
नारदः---
भगवन् विष्णुभूतेश विष्वक्सेन नमो ऽस्तु ते ।
ज्ञातुमिच्छाम्यहं सर्वं मङ्गलाङ्कुररोपणम् ॥ २५।१ ॥
View Verse
पालिकालक्षणं चैव घटिकालक्षणं तथा ।
शरावस्तु कथं प्रोक्तं सङ्ख्यानां तु कथं भवेत् ॥ २५।२ ॥
View Verse
तेषां वर्णश्च वै नाम द्रव्याणां च कथं भवेत् ।
तेषां चैवाधिदैवं च अङ्कुराणां शुभाशुभम् ॥ २५।३ ॥
View Verse
एतत्सर्वं समाचक्ष्व परं कौतूहलं हि मे ।
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि मङ्गलाङ्कुरविस्तरम् ॥ २५।४ ॥
View Verse
सौवर्णां पालिकां कुर्यात् राजतीं घटिकाकृतिम् ।
ताम्रैरेव शरावं तु सर्वेषां ताम्रमेव वा ॥ २५।५ ॥
View Verse
मृद्भिर्वाप्यथ सर्वेषां(सर्वाणि?)कारयित्वा विचक्षणः ।
यथावित्तानुसारेण(?)कुर्याद्वा पालिकादिकान् ॥ २५।६ ॥
View Verse
षट्त्रिंशच्चाङ्गुलोत्सेधं विस्तीर्णं तु तदर्धकम् ।
पादं च द्वादशं(!)ज्ञेयं पालिकानां प्रकीर्तितम् ॥ २५।७ ॥
View Verse
चतुर्विंशाङ्गुलोत्सेधं विस्तारं द्वादशं(!)भवेत् ।
पञ्चास्या घटिका कार्या पञ्चाङ्गुलसुविस्तरम्(-रा) ॥ २५।८ ॥
View Verse
पादं चाष्टाङ्गुलं ज्ञेयं घटिकानां प्रकीर्तितम् ।
द्वादशाङ्गुलमुत्सेधं विस्तारं तावदेव तु ॥ २५।९ ॥
View Verse
पादं षडङ्गुलं ज्ञेयं शरावाणां तु सर्वशः ।
तत्तुद्रूपानुसारेण नालं कर्तृवशान् मुने ॥ २५।१० ॥
View Verse
कारयेत् क्रमयोगेन सुश्लक्ष्णं सुषिरान्वितम् ।
यथाकामं तु वा कुर्यात् पालिकादीन् क्रमेण तु ॥ २५।११ ॥
View Verse
एवं ज्ञात्वा मुनिरेष्ठ कारयेदङ्कुरार्पणम् ।
प्रतिष्ठाद्युत्सवे चैव स्नपने यागदर्शने ॥ २५।१२ ॥
View Verse
विषुवे चैव सङ्क्रान्त्यामयने ग्रहणे तथा ।
शुभनक्षत्रयोगे च नामर्क्षेत्वथवा मुने ॥ २५।१३ ॥
View Verse
अङ्कुरार्पणकार्यं तु कारयेत् सर्वकर्मणि ।
अनङ्कुरार्पणं कुर्यादनर्थमशुभावहम् ॥ २५।१४ ॥
View Verse
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् ।
प्रत्येकं षोडश स्युर्वै मङ्लाङ्कुररोपणैः(-णे?) ॥ २५।१५ ॥
View Verse
तेषां चैव तु नामानि वक्ष्यामि मुनिसत्तम ।
सुन्दरो ऽसुन्दरश्चैव विक्रमो मुरशासनः ॥ २५।१६ ॥
View Verse
वीरसेनो विरामश्च सोमदत्तो महाहनुः ।
यज्ञभुक् सर्वभुक् चैव मनुजो मर्दनस्तथा ॥ २५।१७ ॥
View Verse
अग्निग्रीवो हयग्रीवो वायुग्रीवो महाहनुः(?) ।
इत्येते षोडश प्रोक्ताः पालिकानां तु(अत्र?)नामतः ॥ २५।१८ ॥
View Verse
घटिकानां तु वक्ष्यामि याथातथ्यं हि नारद ।
वेगो ऽवेगः सुवेगश्च वायुवेगस्तथैव च ॥ २५।१९ ॥
View Verse
अग्निनाथो वायुनाथो हविर्नाथो हयाम्पतिः ।
सर्वभुक् सर्वधृक् सर्वी सर्वभक्षस्तथैव च ॥ २५।२० ॥
View Verse
सुभुजो दुर्भुजश्चैव भुजगो वह्निजेश्वरः ।
इत्येते षोडश प्रोक्ता घटिकानां तु (-श्चापि?)नामतः ॥ २५।२१ ॥
View Verse
शरावाणां तु नामानि तद्वक्ष्यामि यथाक्रमम् ।
राजराजो विराजश्च सुकेतुः कीर्तिवर्धनः ॥ २५।२२ ॥
View Verse
इन्द्रकर्मा महाकर्मा देवकर्मा मनीषिणः(?) ।
यज्ञनाथो हविर्नाथः सुलग्नः सुरनन्दनः ॥ २५।२३ ॥
View Verse
मणिप्रियो महामायो देवमायः सुखप्रियः ।
इत्येते षोडश प्रोक्ताः शरावाणां तु(-श्चैव?)नामतः ॥ २५।२४ ॥
View Verse
वर्णानां तु (वर्णांश्चापि?)प्रवक्ष्यामि यथावदनुपूर्वशः ।
सुन्दराद्यास्तु चत्वारः शुक्लवर्णाः प्रकीर्तिताः ॥ २५।२५ ॥
View Verse
वीरसेनादयो रक्ताः श्यामा यज्ञभुगादयः ।
शेषास्तु पालिकाः सर्वाः कृष्णवर्णाः प्रकीर्तिताः ॥ २५।२६ ॥
View Verse
पालिकाः षोडश(अथवा?)सर्वाः शुक्लवर्णापि वा मुने ।
एवमेव तु वर्णानि(-श्च?)घटिकानां तु सर्वशः ॥ २५।२७ ॥
View Verse
सितरक्तः शरावाणां सर्वेषां तु प्रकीर्तितः ।
शरावाणां तु सर्वेषां रक्तवर्ण अथापि वा ॥ २५।२८ ॥
View Verse
पालिकाः शुक्लवर्णास्तु घटिकाः कृष्णमेव च (-वर्णकाः?) ।
शरावे षोडशेनैव रक्तवर्णमिति स्मृतम् ॥ २५।२९ ॥
View Verse
उक्तस्तु वर्णविस्तारो बीजन्यासविधिं शृणु ।
प्रासादे मण्डपे वापि प्राकारे मुनिसत्तम ॥ २५।३० ॥
View Verse
तत्रोपलिप्य विधिवत् मण्डलं चतुरश्रकम् ।
तत्रस्थं वै पदं कुर्यादष्टचत्वारिकं क्रमात् ॥ २५।३१ ॥
View Verse
शालिपिष्टं सतोयेन(?) सूत्रं संलिप्य मूलया ।
प्राक् प्रत्यक् नवसूत्रं तु प्रसार्यास्फाल्य भूतले ॥ २५।३२ ॥
View Verse
तथैव कारयेत् सूत्रं द्वादशं मुनिसत्तम ।
दक्षिणाद्युत्तरान्तेन चास्फाल्यास्त्रेण मन्त्रतः ॥ २५।३३ ॥
View Verse
विमृजेत्तु पदान् सम्यक् वीथ्यर्थं मुनिसत्तम ।
द्विपदं द्विपदं त्यक्त्वा तृतीयं मार्जयेत् क्रमात् ॥ २५।३४ ॥
View Verse
सार्धतालप्रमाणं वा तालमानमथापि वा ।
सञ्ज्ञात्वात्र मुनिश्रेष्ठ कारयेत् सुपदान् पृथक् ॥ २५।३५ ॥
View Verse
तत्पदेषु पुनः सम्यक् अर्चयेद्गन्धवारिणा ।
पश्चात्तु पूरयेद्धान्यैस्तण्डुलैः शालिसम्भवैः ॥ २५।३६ ॥
View Verse
त्रिपङ्क्तीकृत्य तान् सर्वान् प्रत्येकं क्रमयोगतः ।
आग्नेयादीशपर्यन्तं विन्यसेद्धान्यपूर्वकम् ॥ २५।३७ ॥
View Verse
स्थापयित्वा तु मन्त्रेण द्वादशार्णेन वै ततः ।
व्यस्तैः पृथक् पृथक् स्थाप्य सर्वानेव यथाक्रमम् ॥ २५।३८ ॥
View Verse
ततस्तु पूरयेत् सम्यक् मृद्वालुककरीषकैः ।
पूरयित्वा समान् सर्वान् अर्चयित्वा ततः क्रमात् ॥ २५।३९ ॥
View Verse
गन्धपुष्पादिभिश्चैव पूजयित्वा विचक्षणः ।
पूजयित्वा ततः पश्चात् बीजानादाय मन्त्रवित् ॥ २५।४० ॥
View Verse
तिलमुद्गं तथा माषनिम्बनिष्पावशालयः ।
यवश्यामाकनीवारकुलुत्थकङ्कुसर्षपाः ॥ २५।४१ ॥
View Verse
एतानि द्वादश प्रोक्ता(?) मङ्गलाङ्कुरकर्मणि ।
पयोभिः क्षालयेत् पूर्वं बीजेन परमेष्टिना ॥ २५।४२ ॥
View Verse
पुनश्च क्षालयेत् पश्चात् बीजेन पुरुषात्मना ।
जितन्त इति मन्त्रेण विन्यसेत्तु शनैः शनैः ॥ २५।४३ ॥
View Verse
आग्नेयादीशपर्यन्तं प्रतिपङ्क्ति यथाक्रमम् ।
ततस्तु दूर्वाङ्कुरयुक् घृतारोपणमाचरेत् ॥ २५।४४ ॥
View Verse
ततस्तु चाहतैर्वस्त्रैर्वेष्टयित्वा पृथक् पृथक् ।
पालिकां क्षेत्रपूर्वे वा चोत्तरे वा तु होमयेत् ॥ २५।४५ ॥
View Verse
समिदाज्यचरूणां तु प्रत्येकं षोडशाहुतीः ।
सम्पाताज्येन सम्प्रोक्ष्य पालिकादीन् विशेषतः ॥ २५।४६ ॥
View Verse
निवाते सम्प्रकुर्वीत मण्डपेशानकोणके ।
नवाहं सप्तरात्रं वा अर्चयेद्गन्धवारिणा ॥ २५।४७ ॥
View Verse
शिरीषाङ्कुरपूर्वैस्तु माल्यैर्वेष्ट्य पृथक् पृथक् ।
दुर्वाङ्कुरैर्मुनिश्रेष्ठ पूर्वे वा वेष्टयेत् पृथक्(?) ॥ २५।४८ ॥
View Verse
पुण्याहूपर्वं सम्पूज्य गन्धाद्यक्षतसंयुतम् ।
बलिं च सर्वतो दद्यादष्टदिक्षु समन्ततः ॥ २५।४९ ॥
View Verse
हविषा गन्धपुष्पैस्तु पूजयेत्तु दिने दिने ।
बीजन्यास इति प्रोक्तः देवतानां ब्रवीमि ते ॥ २५।५० ॥
View Verse
चतस्रो वासुदेवाद्या मूर्तयो दैविकास्तथा ।
शङ्खादीन्यायुधान्यष्टौ पालिकानां तु देवताः ॥ २५।५१ ॥
View Verse
वाराहो नारसिंहश्च श्रीधरो हयशीर्षकः ।
जामदग्न्यश्च रामश्च वामनो यदुनन्दनः ॥ २५।५२ ॥
View Verse
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
मत्स्यः कूर्मश्च तार्क्ष्यश्च अनन्तो भुजगोत्तमः ॥ २५।५३ ॥
View Verse
इत्येते षोडश प्रोक्ताः घटिकानां तु देवताः ।
विष्ण्वाद्या द्वादश ये च हंसो ऽथ बल एव च ॥ २५।५४ ॥
View Verse
कपिलश्च हलश्चैव शरावाणां तु देवताः ।
अपरे चन्द्राग्न्यादित्यदेवतात्रयमेव तु ॥ २५।५५ ॥
View Verse
विष्णुं च ब्रह्मरुद्रौ च अङ्कुराणां मुनीश्वर ।
शुभमाप्नोति पीतेषु शुक्ले देवत्वमाप्नुयात् ॥ २५।५६ ॥
View Verse
कृष्णरक्तावुभौ वर्णौ अशुभं कुर्वते सदा ।
पञ्चत्वमाप्नुयाच्छीघ्रमप्ररूढे सकर्तृकम् ॥ २५।५७ ॥
View Verse
श्यामाङ्कुरो(-राद्?)द्रव्यनाशः कर्तुः कारयितुर्भवेत् ।
एतेषां चापि नीरोगमुत्सवस्य मयेरितम्(?) ॥ २५।५८ ॥
एतत्ते कथितं सम्यगङ्कुराणां सुविस्तरम् ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां अङ्कुर्रापणविधिर्नाम पञ्चविंशोध्यायः ॥
View Verse

Chapter - 26

षड्विंशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि ध्वजोत्थापनमुत्तमम् ।
येनोपसर्गा(?)नश्यन्ति सर्वसम्पत्सुखावहम् ॥ २६।१ ॥
View Verse
अध्वजो विष्णुयागस्तु निष्फलः स्यान्न संशयः ।
तीर्थस्नानदिनात् पूर्वं सप्तविंशतिके ऽहनि ॥ २६।२ ॥
View Verse
एकविंशतिके वा स्यात्(वापि?) ध्वजोत्थापनमाचरेत् ।
अथवारम्भदिवसे सद्यः कालोद्भवो भवेत् ॥ २६।३ ॥
View Verse
आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ।
एकत्र दिवसे यागे न ध्वजोद्धार इष्यते ॥ २६।४ ॥
View Verse
अङ्कुरार्पणपूर्वं तु द्वितीयं परिकीर्तितम् ।
गोपुर(-रा?) स्थानयार्मध्ये ध्वजपीठं प्रकल्पयेत् ॥ २६।५ ॥
View Verse
अथवा बलिपीठस्य वैनतेयस्य वा पुनः ।
हस्तमात्रं परित्यज्य बलिपीठस्य चान्तरे ॥ २६।६ ॥
View Verse
कल्पयेद्ध्वजपीठं तु मानं तस्य प्रचक्षते(?) ।
तस्यार्धं वाप्यपोह्यैव ध्वजपीठं प्रकल्पयेत् ॥ २६।७ ॥
View Verse
चतुर्हस्तं तदर्धं वा विस्तारायामतः समम् ।
हस्तोच्छ्रायं द्विहस्तं वा स्थाप्य स्तम्भस्य मध्यतः ॥ २६।८ ॥
View Verse
एकहस्तं तथा भूमौ गर्तं पीठादधः शुभम् ।
स्तम्भस्य परितः कुर्यात् मेखलात्रितयं बुधः ॥ २६।९ ॥
View Verse
वृत्तं वा चतुरश्रं वा षोडशाष्टाश्रमेव वा ।
अन्तरादि तदुत्सेधमङ्गुलीनां यथाक्रमम् ॥ २६।१० ॥
View Verse
मेखलोच्छ्रायमायाममेकैकं चतुरङ्गुलम् ।
तालमात्रं विसृज्यैव वेदिकायां समन्ततः ॥ २६।११ ॥
View Verse
पश्चात्तु मेखलाः सम्यक् कारयेन्मन्त्रवित्तमः ।
मेखलानामथोर्ध्वे तु वृत्तवेदिं समाचरेत् ॥ २६।१२ ॥
View Verse
चतुरङ्गुलमुत्सेधं तदूर्ध्वे ऽब्जदलं(पद्मकं?)लिखेत् ।
षोडशद्वादशं वापि चाष्टपत्रमथापि वा ॥ २६।१३ ॥
View Verse
द्व्यङ्गुलं तु घनं ज्ञेयं कर्णिकासहितं मुने ।
त्र्यङ्गुलं तु तदुत्सेधं द्व्यङ्गुलं तद्घनं भवेत् ॥ २६।१४ ॥
View Verse
इति पद्मदलं (-विधिः?) प्रोक्त उत्तमाधममध्यतः ।
स्तम्भस्य परितः कुर्यात् सर्वालङ्कारसंयुतम् ॥ २६।१५ ॥
View Verse
एवमुक्तप्रकारेण ध्वजपीठं प्रकल्पयेत् ।
पूर्वं वाप्यथवा पश्चात् कल्पयेत् पीठमुत्तमम् ॥ २६।१६ ॥
View Verse
अन्यथा यदि चेद्वेदिमनर्थमशुभावहम् ।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ॥ २६।१७ ॥
View Verse
ध्वजस्तम्भं प्रवक्ष्यामि विविक्तेन महामुने ।
चन्दनं चम्पकं वापि बिल्वमर्जुनमेव च ॥ २६।१८ ॥
View Verse
तेकवृक्षं च खदिरं सालं तिन्दुकमेव च ।
चम्पकं चाष्टकं चैव क्रमुकं नालिकेरकम् ॥ २६।१९ ॥
View Verse
तालं वेणुं तथैवात्र सम्भवेन तु कारयेत् ।
शततालार्धमर्धं च मुख्यमध्याधमं क्रमात् ॥ २६।२० ॥
View Verse
अशीतितालमिच्छन्ति केचित्तस्यार्धमेव वा ।
गोपुराकृतितुल्यं स्यात् स्तम्भमध्यर्धमेव वा ॥ २६।२१ ॥
View Verse
स्तम्भप्रमाणमथवा तुल्यमध्यर्धमेव वा ।
प्रासादेन समुच्छ्रायं सुषिरादिविवर्जितम् ॥ २६।२२ ॥
View Verse
त्रिंशदङ्गुलनाहं तु मूलदण्डस्य नारद ।
मध्यमं चाष्टविंशत्(?)तदग्रं षड्विंशकं भवेत् ॥ २६।२३ ॥
View Verse
सच्छिद्रयन्त्रत्रियते ह्यधस्ताद्गरुडालयम् ।
लोहं दारुमयं वापि गरुडं तत्र योजयेत् ॥ २६।२४ ॥
View Verse
देवाभिमुखमासीनमल्पकायं कृताञ्जलिम् ।
षोडशाङ्गुलकं वापि द्वादशाङ्गुलकं तथा ॥ २६।२५ ॥
View Verse
अष्टाङ्गुलमथ ज्ञात्वा कल्पयेद्गरुडं मुने ।
तथा वा फलकं (-कां?)कृत्वा यथाकामं मुनीश्वर ॥ २६।२६ ॥
View Verse
तन्मध्ये गरुडं लिख्य स्वस्थाने विनतासुतम् ।
योजयित्वा ततः खेशं स्थापयेत् स्वस्वमन्त्रतः ॥ २६।२७ ॥
View Verse
वेदिकोपरि मन्त्रज्ञः सुप्रपां परिकल्पयेत् ।
दर्भमालासमायुक्तं मुक्तादामसमन्वितम् ॥ २६।२८ ॥
View Verse
प्रपायां पूर्वभागादि पताकास्तत्र योजयेत् ।
दशहस्तं सप्तहस्तं पञ्चहस्तमथापि वा ॥ २६।२९ ॥
View Verse
अन्यामष्टकरां यष्टिं स्तम्भे यन्त्रेषु योजयेत् ।
पटस्य लक्षणं तस्मिन् विशेषं कथय मि ते ॥ २६।३० ॥
View Verse
शृणुष्वावहितो भूत्वा सर्वसम्पत्सुखावहम् ।
द्वादशं(!)दशहस्तं वा नवसप्तपटं भवेत् ॥ २६।३१ ॥
View Verse
आयाममिति सम्प्रोक्तं विस्तारमधुनोच्यते ।
षट्सप्ततालविस्तारं द्वा[र]विस्तारमुच्यते ॥ २६।३२ ॥
View Verse
पुच्छायामं द्वितालं स्यात्तत्समं शिर उच्यते ।
शिरसा तु समौ ज्ञेयौ भूजौ तस्यार्धमेव वा ॥ २६।३३ ॥
View Verse
भुजद्वयविहीनं वा पटमेतद्विशिष्यते ।
क्षुद्रप्रासादरूपं चेत् नवसप्तपटं भवेत् ॥ २६।३४ ॥
View Verse
नवहस्ताच्च नू(न्यू?)नं वै महागेहे तु नेष्यते ।
यो मोहात् कुरुते तस्मिन् क्रिया भवति निष्फला ॥ २६।३५ ॥
View Verse
आलिखेद्गरुडं तत्र सुवर्णाभं सुवर्चसम् ।
ध्रुवदृग्गलनाभ्यन्तं गरुडेत्सेधमिष्यते ॥ २६।३६ ॥
View Verse
नवतालपरिच्छिन्नं मानोन्मानप्रमाणतः ।
किञ्चिदायतवृत्ताक्षं रक्ताक्षं नीलनासिकम् ॥ २६।३७ ॥
View Verse
उत्कुञ्चितं वामपादं दक्षिणं पृष्ठतः स्थितम् ।
गगने गमनारम्भं पक्षविक्षेपणान्वितम् ॥ २६।३८ ॥
View Verse
पुष्पाञ्जलिपुटोपेतं रौद्रं च विनतासुतम् ।
नागाभरणसंवीतं स्मितास्यं कनकाङ्गदम् ॥ २६।३९ ॥
View Verse
करण्डमकुटं नीलवाससं प्रियदर्शनम् ।
सुरक्तपाण्यङ्घ्रितलं दंष्ट्राभ्यामुज्ज्वलाननम् ॥ २६।४० ॥
View Verse
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
तक्षकः कटिसूत्रं तु हारः कर्कोटकस्तथा ॥ २६।४१ ॥
View Verse
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ।
शङ्खः शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे ॥ २६।४२ ॥
View Verse
एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः ।
अनन्तगुलिकौ विप्रौ रक्तौ वह्निसमुद्भवौ ॥ २६।४३ ॥
View Verse
वासुकिः शङ्खपालश्च पीतौ चन्द्रोद्भवौ नृपौ ।
महाक्ष(-ब्ज?) तक्षकौ वेश्यौ शुक्लौ वारिसमुद्भवौ ॥ २६।४४ ॥
View Verse
पद्मकर्कोटकौ शूद्रौ कृष्णौ वायुसमुद्भवौ ।
लिखित्वा गरुडं तत्र छत्रं चोपरि कल्पयेत् ॥ २६।४५ ॥
View Verse
अथो ऽमृतस्य कलशं पद्मं चैवात्र संलिखेत् ।
ताभ्यामुभयतः कुर्यात् दीपौ द्वौ शुभदर्शनौ ॥ २६।४६ ॥
View Verse
चित्राभासप्रतिष्ठां तु कारयेन्मन्त्रवित्तमः ।
छायाधिवासनं कुर्यात् जलं संहृत्य देशिकः ॥ २६।४७ ॥
View Verse
शाययित्वा ततो वेद्यां संहृत्योत्पाद्य तत्त्वतः ।
धान्यराशिं विनिक्षिप्य वेदिमध्ये समन्ततः ॥ २६।४८ ॥
View Verse
वेदिकाकलशेष्वष्टावनन्तादीन् प्रपूजयेत् ।
शङ्खादिमङ्गलानां तु विन्यसेत् परितः क्रमात् ॥ २६।४९ ॥
View Verse
पूर्वे शङ्खं नियुञ्जीत आग्नेये चक्रमेव च ।
याम्ये तु विन्यसेत् केतुं श्रियं वै नैरृते तथा ॥ २६।५० ॥
View Verse
दर्पणं वारुणे भागे वृषभं वायुगोचरे ।
सोमे तु मत्स्ययुग्मं तु कुम्भमीशानगोचरे ॥ २६।५१ ॥
View Verse
एवं तु मङ्गलान्(?)न्यस्य पूर्वादिक्रमयोगतः ।
पूजयेत् कलशेष्वष्टमङ्गलानि यथाक्रमम् ॥ २६।५२ ॥
View Verse
वासोभिर्वेष्टितेष्वेषु निक्षिप्तकनकेषु च ।
वासांसि मध्ये संस्तीर्य गरुडं तत्र शाययेत् ॥ २६।५३ ॥
View Verse
प्रत्यग्ग्रीवं ततो वस्त्रैः सञ्च्छाद्य पतगेश्वरम् ।
तस्य दक्षिणतः कुम्भं विन्यसेत्तण्डुलोपरि ॥ २६।५४ ॥
View Verse
वारिपूर्णं सुसंवीतं सदशेनाहतेन तु ।
शुक्लेनाम्बरयुग्मेन मृदुना सुशुभेन च ॥ २६।५५ ॥
View Verse
सरत्नं हेमसंयुक्तं सापिधानं सकूर्चकम् ।
तस्मिन्नावाहयेद्देवं गरुडं विनतासुतम् ॥ २६।५६ ॥
View Verse
आवाहनविधिं सम्यक् प्रवक्ष्यामि महामुने ।
सौवर्णं राजतं पात्रं ताम्रं मृण्मयमेव वा ॥ २६।५७ ॥
View Verse
आढकेन तु सम्पूर्णं पयोभिर्वारिभिस्तु वा ।
तत्पात्रे देवमावाह्य आकाशान्मन्त्रवित्तमः ॥ २६।५८ ॥
View Verse
एह्येहि खगराजेन्द्र वैनतेय महाबल ।
सान्निध्यं पार्षदैः सार्धं कुरु तुभ्यं नमो नमः ॥ २६।५९ ॥
View Verse
तत्पात्रपतितं देवमानयेत् कुम्भतोयके ।
मूलमन्त्रेण मन्त्रज्ञस्तन्मन्त्रमधुनोच्यते ॥ २६।६० ॥
View Verse
ॐ नमो ऽष्टकुलनागभूषणाय वैनतेयाय नागशोणितदिग्धाङ्गाय सुपर्णाय सप्तपातालवासिने पक्षिराजाय भगवद्वाहनाय गरुडाय त्रैलोक्यक्षोभणाय ब्रह्मादिचतुरक्षरानुसाराय(?)युगान्तबीजाय मातुरर्थे(?) शोकनाशाय हनहन(?)विघ्ननाशाय स्वाहा ।
View Verse
अनेन तु स्वमन्त्रेण स्तुत्वा तु विहगेश्वरम् ।
सान्निध्यं कल्पयेत्तत्र पक्षिराजस्य सर्वदा ॥ २६।६१ ॥
View Verse
एवमाहूय गरुडं ध्वजमुद्रां प्रदर्शयेत् ।
वामस्योपरि संस्थाप्य दक्षिणं तु करं समम् ॥ २६।६२ ॥
View Verse
अङ्गुष्ठं चालयेत्तत्र ध्वजमुद्रां प्रदर्शयेत् ।
एवं मुद्रां प्रकुर्वीत गरुडं सर्पभूषणम् ॥ २६।६३ ॥
View Verse
गन्धादिभिः समभ्यर्च्य धूपदीपान्तमेव हि ।
ततः पटगतं बिम्बं शयानं गरुडस्य तु ॥ २६।६४ ॥
View Verse
लयमार्गेण संहृत्य पुनरुत्पादयेत् क्रमात् ।
पृथिव्यादिनि तत्त्वानि बीजादीने यथाक्रमम् ॥ २६।६५ ॥
View Verse
सवाचकानि विन्यस्य मन्त्रदेहं प्रकल्पयेत् ।
सकलीकरणं कृत्वा ध्यानमार्गेण देशिकः ॥ २६।६६ ॥
View Verse
कुम्भस्थितेन तोयेन प्रोक्षयेत्तं स्वविद्यया ।
पूर्वादिकलशस्थाद्भिरनन्तादीन् स्वनामभिः ॥ २६।६७ ॥
View Verse
प्रणवादिनमोन्तैश्च कुशैः सम्प्रोक्षयेत् क्रमात् ।
सान्निध्यं प्रार्थयित्वा तु यावद्यागावसानकम् ॥ २६।६८ ॥
View Verse
ततः सम्पूजयेत् सर्वैरुपचारैः खगेश्वरम् ।
घृताप्लुतं तु मुद्गान्नं नैवेद्यं परिकल्पयेत् ॥ २६।६९ ॥
View Verse
मुखवासं प्रदायाथ होमकर्म समारभेत् ।
स्थण्डिलं तु चतुर्दिक्षु कृत्वा तत्र विधानतः ॥ २६।७० ॥
View Verse
वैष्णवाग्निं निधायात्र होमकर्म समारभेत् ।
समिदाज्येन चरुणा प्रत्येकं शतमष्ट च ॥ २६।७१ ॥
View Verse
आहुतीर्जुहुयुर्विप्राश्चत्वारः सममेव तु ।
दीक्षिता एव जुहुयुः सोत्तरीयाः स्वलङ्कृताः ॥ २६।७२ ॥
View Verse
चतस्रो मूर्तयः प्रोक्ताः पक्षिराजस्य देशिकैः ।
स्वाहान्तं जुहुयुः सर्वे मूर्तिपाः मूर्तिभाविताः ॥ २६।७३ ॥
View Verse
एवं समाप्य होमं तु स्पृशेयुस्ते खगेश्वरम् ।
पादयोर्जठरे चास्ये मूर्ध्नि चैव यथाक्रमम् ॥ २६।७४ ॥
View Verse
अथवा मूलमन्त्रेण होममेकं तु वा मुने ।
प्राचीं दिशं समासाद्य कारयेत्तन्त्रवित्तमः ॥ २६।७५ ॥
View Verse
विना होमं तु वा कुर्याद्गरुडस्थापनं मुने ।
ध्वजादन्यत्र कर्तव्यं चतुर्हेमं यथाक्रमम् ॥ २६।७६ ॥
View Verse
एवं समाप्य होमं तु स्थापनं गरुडस्य च ।
अथवास्मिन् मुनिश्रेष्ठ अधिवासनमुत्तमम् ॥ २६।७७ ॥
View Verse
प्रवक्ष्यामि समासेन सुपुण्याहपुरःसरम् ।
पुण्याहं कारयित्वा तु ब्राह्मणैः सह मन्त्रवित् ॥ २६।७८ ॥
View Verse
बन्धयेत् कौतुकं पश्चाद्वैनतेयस्य मन्त्रतः ।
वेदिकोपरि धान्यैश्च पूरयेद्भारसम्मितैः ॥ २६।७९ ॥
View Verse
अष्टपत्रं लिखेत् पद्मं वस्त्रेणाच्छादयेत् पुनः ।
तदर्धं तण्डुलं चैव तस्यार्धं तिलमेव च ॥ २६।८० ॥
View Verse
वेदिकायां तु संस्तीर्य वस्त्रैराच्छादयेत् पुनः ।
रक्तपुष्पं तु संस्तीर्य गन्धपुष्पैः समर्चयेत् ॥ २६।८१ ॥
View Verse
तत्रैव शाययेद्देवं पूर्वोक्तेन विधानतः ।
अर्चयेद्गरुडं तत्र धूपदीपान्तमेव हि ॥ २६।८२ ॥
View Verse
देवस्य दक्षिणे पार्श्वे स्थापयेत् कुम्भमुत्तमम् ।
तस्मिन्नावाहयेत् कुम्भे वैनतेयं महाबलम् ॥ २६।८३ ॥
View Verse
आकाशात् पतितं खेशं ध्वजरूपे हि संस्थितम् ।
एहि खेश महाबाहो वैनतेय महाबल ॥ २६।८४ ॥
View Verse
सान्निध्यं कुरु पक्षीश प्रसीदात्र नमो ऽस्तु ते ।
अनेनावाहयित्वा तु मन्त्रेणैव तु देशिकः ॥ २६।८५ ॥
View Verse
गन्धपुष्पादिभिर्द्रव्यैः वीशं कुम्भे ततोर्ऽचयेत् ।
ततस्तु कलशानष्टौ कुम्भस्य परितो न्यसेत् ॥ २६।८६ ॥
View Verse
इन्द्रादीशानपर्यन्तमिन्द्रादींश्च क्रमान्न्यसेत् ।
कलशेष्वर्चयित्वा तु लोकेशान् गन्धपुष्पकैः ॥ २६।८७ ॥
View Verse
तद्बाह्ये विन्यसेदष्टमङ्गलान्(!) परितस्तथा ।
अर्चयित्वा ततो होमं प्राच्यां च स्थण्डिले क्रमात् ॥ २६।८८ ॥
View Verse
समिदाज्यचरून् सम्यग् अष्टोत्तरशतं पृथक् ।
जुहुयाद्वैनतेयस्य मूलमन्त्रेण देशिकः ॥ २६।८९ ॥
View Verse
प्रणवं पूर्वमुच्चार्य नमस्कारं ततः क्रमात् ।
चतुर्विंशतिकं पश्चात् व्यञ्जनं तु तृतीयकम् ॥ २६।९० ॥
View Verse
स्वरेणाद्येन संयुक्तमूनत्रिंशत्तथैव च ।
षोडशं चोच्चरेत् पश्चात् स्वरेणैकादशेन च ॥ २६।९१ ॥
View Verse
वैनतेयपदं पश्चात् चतुर्थ्यन्त समन्वितम् ।
स्वाहाकारसमायुक्तं मूलमन्त्रं विदुर्बुधाः ॥ २६।९२ ॥
View Verse
होमं समाप्य विधिवत् कुम्भादावाहयेत् पटे ।
तं पटं प्रोक्षयित्वा तु हंसः शुचिषदि त्यृचा ॥ २६।९३ ॥
View Verse
मूलमन्त्रेण चावाह्य गरुडं सर्पभूषणम् ।
तद्रात्रौ विधिवत् प्रोक्ष्य पूजयेद्गन्धपुष्पकैः ॥ २६।९४ ॥
View Verse
सक्तुखण्डरसोपेतं(-तैः?) मुद्गान्नैश्च गुलौदनैः ।
भक्ष्यैश्च विविधैश्चान्यैः पूजयेत्तं खगेश्वरम् ॥ २६।९५ ॥
View Verse
मुखवासं ततो दद्यात् स्तुतिमन्त्रेण तोषयेत् ।
पूर्वादीशानपर्यन्तमिन्द्रादींश्चैव पूजयेत् ॥ २६।९६ ॥
View Verse
नेष्यते ऽस्मिन् मुनिश्रेष्ठ प्रलयादिक्रियाक्रमः ।
द्विप्रकारो मया प्रोक्तो अधिवासविधिक्रमः ॥ २६।९७ ॥
View Verse
आचार्येच्छानुरूपेण कारयेदेकधात्र तु ।
ततस्तु देवताह्वानं स्वस्वमन्त्रेण तन्निशि ॥ २६।९८ ॥
View Verse
कारयेन्मुनिशार्दूल जगत्संरक्षणार्थकम् ।
प्रासादस्याग्रभागे तु गरुडाभिमुखं यथा ॥ २६।९९ ॥
View Verse
द्रोणद्वयेन सम्पूर्णं सतोयं रक्तवर्णकम् ।
त्रिसूत्रं तन्तुनावेष्ट्य पञ्चरत्नैः सपल्लवैः ॥ २६।१०० ॥
View Verse
कूर्चद्वयसमायुक्तं रक्तमाल्यैरलङ्कृतम् ।
वस्त्रयुग्मेन संवेष्ट्य गन्धपुष्पैस्तु पूरितम् ॥ २६।१०१ ॥
View Verse
एवं लक्षणसंयुक्ते कुम्भे चावाहयेद्बुधः ।
इन्द्रमग्निं यमं चैव निरृतिं वरुणं तथा ॥ २६।१०२ ॥
View Verse
वायुं सोमं तथेशानं चन्द्रादित्यमरुद्गणान् ।
वसूनष्ट तथा रुद्रानेकादश विनायकम् ॥ २६।१०३ ॥
View Verse
कार्तिकेयं वीरभद्रं द्वादशादित्यसञ्ज्ञकान् ।
त्र्यक्षं पञ्चमुखं देवं नीलकण्ठमुमापतिम् ॥ २६।१०४ ॥
View Verse
भूतेशांश्च तथा सर्वान् सगणानाह्वयेत्ततः ।
मातॄश्चैव तथा दुर्गां ज्येष्ठां चैव सरस्वतीम् ॥ २६।१०५ ॥
View Verse
कान्तिं शान्तिं शुचिं मुद्रामुमां लक्ष्मीं तथैव च ।
सगणैः परिवारैश्च तान् नयेत् कुम्भतोयके ॥ २६।१०६ ॥
View Verse
ततस्त्वावाहयेद्देवान् कुमुदादींश्च नारद ।
तेषां च परिवाराणि प्रयत्नेनानयेद् घटे ॥ २६।१०७ ॥
View Verse
इन्द्रादीशानपर्यन्तमावहेत् कुम्भतोयके ।
कुम्भतोयस्थदेवानामर्चनं गन्धपुष्पकैः ॥ २६।१०८ ॥
View Verse
धूपदीपैः समाप्येवं घण्टाशब्दसमन्वितम् ।
हविर्निवेदयेत् पश्चात् सर्वदेवप्रियार्थकम् ॥ २६।१०९ ॥
View Verse
अन्यथाकृततुल्यं स्यात् महान् दोषो भविष्यति ।
तद्ग्रामनाशकृद्वापि तत्रस्थो नरकं व्रजेत् ॥ २६।११० ॥
View Verse
तस्मात् सर्वप्रयत्नेन तत्कुम्भे पार्षदान् न्यसेत् ।
मण्डपे चैन्द्रभागे तु चतुर्हस्तप्रमाणतः ॥ २६।१११ ॥
View Verse
गोमयेन समालिप्य शालिना वेदिमाचरेत् ।
अष्टद्रोणं तदर्धं वा तस्यार्धं वार्धमेव वा ॥ २६।११२ ॥
View Verse
पूरयेत् स्थण्डिले मध्ये चाष्टपत्राब्जमालिखेत् ।
नववस्त्रेण सञ्छाद्य पद्मं प्रणवमुच्चरन् ॥ २६।११३ ॥
View Verse
दक्षिणादिक्रमेणैव शाययेद्दक्षिणाशिरः ।
तन्मध्ये भेरिकां न्यस्य नवं लक्षणसंयुतम् ॥ २६।११४ ॥
View Verse
उत्तर्योष्णीषसंयुक्त आचार्यो मन्त्रवित्तमः ।
पश्चिमाभिमुखो भूत्वा तां भेरीं पूजयेत् क्रमात् ॥ २६।११५ ॥
View Verse
गन्धादिभिः समभ्यर्च्य हरिं स्मृत्वादिमन्त्रतः ।
यावद्रात्र(-त्र्य?)वसानं तु तावत्तन्निशि ताडयेत् ॥ २६।११६ ॥
View Verse
पश्चात् पञ्चमहाशब्दं नृत्तगीतसमन्वितम् ।
उत्तर्योष्णीषसंयुक्तो यामलाचार्यतः क्रमात् ॥ २६।११७ ॥
View Verse
कारयेत् सर्वपार्षद्यान् वैनतेयादिकान् क्रमात् ।
एवं सङ्घोषयित्वा तु यामलाचार्यसंयुतम् ॥ २६।११८ ॥
View Verse
रात्रान्तकं(आरात्र्यन्तं?)विशेषेण सर्वदेवप्रियार्थकम् ।
कुर्यात् पञ्चमहाशब्दं सदा शुभविवर्धनम् ॥ २६।११९ ॥
View Verse
ग्रामराज्ञोश्च वृद्धिः स्यात् तथैव नगरादिषु ।
तस्मात् सर्वप्रयत्नेन भेरीं तां निशि ताडयेत् ॥ २६।१२० ॥
View Verse
अन्यथा चेन्महादोषो राष्ट्रभ्रंशो भवेद्ध्रुवम् ।
तद्ग्रामं निधनं यति व्याधिभिः पीडनं ध्रुवम् ॥ २६।१२१ ॥
View Verse
एवं कृत्वा विधानेन ध्वजोत्सवमथाचरेत् ।
ततः प्रभाते विमले शङ्खभेरीरवाकुलम् ॥ २६।१२२ ॥
View Verse
सर्वालङ्कारसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
परिभ्रमणवेलायां बलिं कुर्यात् समाहितः ॥ २६।१२३ ॥
View Verse
सलाजं रजनीचूर्णं क्षीरं दधिसमन्वितम् ।
पूर्वमिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्रैव पूजयेत् ॥ २६।१२४ ॥
View Verse
नालिकेरफलं चैव पञ्चद्रव्यसमन्वितम् ।
बल्यन्नमेतैः संयोज्य बलिदानं तु चोत्सवे ॥ २६।१२५ ॥
View Verse
क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ।
ध्वजोत्थानं दिवा कुर्याद्रात्रावाहनमेव च ॥ २६।१२६ ॥
View Verse
स (तद्?)ध्वजे देवताह्वानं मध्याह्ने तु विशेषतः ।
आरोहणं दिवा कुर्यात् केतोर्निश्यङ्कुरार्पणम् ॥ २६।१२७ ॥
View Verse
हविषा बलिदानं तु कृत्वा द्वाराग्रपीठयोः ।
मध्ये हस्तसमां वेदिं मध्ये देवान् समर्चयेत् ॥ २६।१२८ ॥
View Verse
आरम्य बलिदानं तु कुर्याद्ग्रामादिवास्तुषु ।
इन्द्रादि ब्रह्मपर्यन्तं दिग्विदिक्षु क्रमान्न्यसेत् ॥ २६।१२९ ॥
View Verse
तत्कुम्भे देवमावाह्य तत्तोयेन समर्चयेत् ।
पूर्वादिन्द्रादिलक्ष्म्यन्तान् देवांस्तत्र सुपूजयेत् ॥ २६।१३० ॥
View Verse
ततस्तु गणसंयुक्तं कृत्वा ग्रामादिवास्तुषु ।
कुमुदादींश्च देवांश्च पूजयेत्ताननुक्रमात् ॥ २६।१३१ ॥
View Verse
आचार्यो धौतवासास्तु उत्तराभिमुखः स्थितः ।
गन्धपुष्पादिनाभ्यर्च्य ऐन्द्राद्यैशान्तकादिषु ॥ २६।१३२ ॥
View Verse
तेषां नाम समुच्चार्य बलिं दद्याद्विचक्षणः ।
यावद्यागावसानं तु तिष्ठन्ति बलिदेवताः ॥ २६।१३३ ॥
View Verse
अत्र कश्चिद्विशेषो ऽस्ति देवतानां बलिक्रमे ।
ध्वजारोहणकाले वै चोत्सवेषु विशेषतः ॥ २६।१३४ ॥
View Verse
यागावसानं यावत्तु तावदैन्द्रादिकान् मुने ।
यावल्लक्ष्म्यवसानं तु मध्याह्ने क्रमयोगतः ॥ २६।१३५ ॥
View Verse
पूजयेद्गन्धपुष्पाद्यैर्हविषा वेदिमध्यमे ।
बलिं दद्याद्यथालब्धं मध्याह्ने रात्रिषु क्रमात् ॥ २६।१३६ ॥
View Verse
तेषां तु बलिकार्याणि विष्णोः प्रीतिकरं शुभम् ।
अङ्कुरोत्सवकालान्ते उत्सवार्थं महामुने ॥ २६।१३७ ॥
View Verse
कारयेद्यागसिद्ध्यर्थं यागमण्डपपूजनम् ।
तत्पूजान्ते मुनिश्रेष्ठ होमं कुर्याद्यथाविधि ॥ २६।१३८ ॥
View Verse
होमान्ते कुमुदादीनामारभ्य बलिमाचरेत् ।
यावत्तीर्थावसानं तु तावद्ग्रामादिवास्तुषु ॥ २६।१३९ ॥
View Verse
अन्यथावाहनबलिर्ध्वजयागे कृतो भवेत् ।
ध्वजयागविनाशेन उत्सवो निष्फलो भवेत् ॥ २६।१४० ॥
View Verse
उत्सवस्य विनाशेन नित्यपूजा च निष्फला ।
नित्यपूजाविनाशस्तु सर्वसंहारकारणम् ॥ २६।१४१ ॥
View Verse
तस्मात् सर्वप्रयत्नेन आवाहनबलिं कुरु ।
आनीय गरुडं वेश्म कृत्वा चैव प्रदक्षिणम् ॥ २६।१४२ ॥
View Verse
स्मृत्वा कालविधिं पश्चात् कृत्वा पुण्याहघोषणम् ।
पीठस्य याम्यपार्श्वे तु ध्वजदण्डं तु शाययेत् ॥ २६।१४३ ॥
View Verse
तदग्रं दक्षिणे स्थाप्य मूलमुत्तरतो न्यसेत् ।
विमाने पश्चिमद्वारे ऽप्युत्तरे शाययेद्गुरुः ॥ २६।१४४ ॥
View Verse
दक्षिणद्वारमेवं चेत्(-के चेत्तु?)ध्वजस्तम्भं महामुने ।
पीठस्य पूर्वपार्श्वे तु शाययेदैन्द्रशीर्षकम् ॥ २६।१४५ ॥
View Verse
तन्मूलमवटे न्यस्य मूलमन्त्रमनुस्मरन् ।
उत्तरद्वारमेवं स्यात्(?)तद्ध्वजारोहणं प्रति ॥ २६।१४६ ॥
View Verse
अन्यथा चेन्महादोषो ग्रामराज्ञोरवृद्धिकृत् ।
दिने दिने मुनिश्रेष्ठ धर्ममार्गो विनश्यति ॥ २६।१४७ ॥
View Verse
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
महाकुम्भस्थतोयेन स्तम्भं प्रक्षाल्य मन्त्रतः ॥ २६।१४८ ॥
View Verse
तद्ध्वजं तु समादाय प्रोक्षयेन्मन्त्रवित्तमः ।
मूलमन्त्रेण मतिमान् ध्वजयष्ट्या(-ष्टिं?)तु बन्धयेत् ॥ २६।१४९ ॥
View Verse
निश्चलं स्थापयित्वा तु ध्वजदण्डेन चोद्धरेत् ।
यन्त्रेण चोद्धरेद्वापि रज्जुना सह देशिकः ॥ २६।१५० ॥
View Verse
वेदिं कुर्यात्तु पूर्वोक्तां लक्षणेन समन्विताम् ।
वेदिकां तु समालिप्य कृत्वा च स्वस्तिवाचनम् ॥ २६।१५१ ॥
View Verse
यष्ट्यग्राद्दण्डमूलान्तं दर्भानावेष्ट्य साधकः ।
दर्भमालादिनावेष्ट्य दण्डमूलान्तमेव हि ॥ २६।१५२ ॥
View Verse
पाद्याचमनगन्धं च पुष्पं धूपं तथैव च ।
दीपं चैव यथायोगं घण्टानादसमन्वितम् ॥ २६।१५३ ॥
View Verse
अर्चयेद्गरुडं चैव चरुं पश्चान्निवेदयेत् ।
फलसक्तुसमोपेतं मुद्ग्रान्नं च घृताप्लुतम् ॥ २६।१५४ ॥
View Verse
पृथक् पात्रे तु संस्थाप्य गरुडाय निवेदयेत् ।
पानीयाचमनं दत्वा मुखवासं तथैव च ॥ २६।१५५ ॥
View Verse
एवमभ्यर्च्य गरुडं सर्वदेवप्रियं शुभम् ।
दिक्पालान्तमनाद्यन्तं परिवारमथार्चयेत् ॥ २६।१५६ ॥
View Verse
ततस्तु लोकपालांस्तु पूजयेद्वेदिकाधरे ।
पूर्वादिक्रमयोगेन स्वनाम्ना परिपूजयेत् ॥ २६।१५७ ॥
View Verse
एवं दिने दिने कुर्यात् सन्ध्ययोरुभयोरपि ।
निवेदितं च यद्द्रव्यमन्नं पुष्पं फलं तथा ॥ २६।१५८ ॥
View Verse
तत्पिण्डमिति विज्ञेयं स्त्रीणां चैव प्रदापयेत् ।
सुमङ्गली च नारी च सती शुद्धा शुभव्रता ॥ २६।१५९ ॥
View Verse
तत् प्रसादमिति स्मृत्वा स्नात्वोपोष्य शुभानना ।
प्राशयेद्गरुडं ध्यात्वा वन्ध्या पुत्रं प्रसूयते ॥ २६।१६० ॥
View Verse
रोगार्तो मुच्यते रोगात् बद्धो मुच्येत् बन्धनात् ।
भयान्मुच्येत आपन्नः सम्यग् ज्ञानमवाप्नुयात् ॥ २६।१६१ ॥
View Verse
आवाहनार्थं देवानां गरुडं तु पटे न्यसेत् ।
तत्पटे सर्वदेवांश्च आह्वयेत्तु दिने दिने ॥ २६।१६२ ॥
View Verse
लोहं दारुमयं बिम्बं विना वा स्थाप्यते ध्वजम् ।
यदि ध्वजपटे बिम्बं गरुडस्य कृतं भवेत् ॥ २६।१६३ ॥
View Verse
पताकाध्वजसंयुक्तं कृत्वा चित्रमपि ध्वजम् ।
उपरि प्रतिमां कृत्वा स्थापयेद्देशिकोत्तमः ॥ २६।१६४ ॥
View Verse
झ्र्समाप्ते वैष्णवे यागे स्नपनान्ते यथाविधि ।
रात्रौ भूतबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ॥ २६।१६५ ॥
View Verse
कारयेत् पुष्पयागं तु यथाविधिपुरःसरम् ।
(पुष्पयागविधिः प्रोक्तो मया शक्र विधानके ॥ २६।१६६ ॥
View Verse
तद्वन्मण्डलमालिख्य तद्विधानेन पूजयेत्) ।
पुष्पयागविधिं वक्ष्ये समासान्मुनिपुङ्गव ॥ २६।१६७ ॥
View Verse
देवेशयजनं यत्तु मण्डले पुष्पपूरिते ।
पुष्पयाग इति प्रोक्त उत्सवान्ते तु कारयेत् ॥ २६।१६८ ॥
View Verse
प्रासादाग्रे ऽथवा याम्ये वारुणे सौम्यके ऽथवा ।
पूर्वोक्तमण्डपं कृत्वा मण्डपे तु समालिखेत् ॥ २६।१६९ ॥
View Verse
विनोदमण्डपे वाथ यत्र वा रमते मतिः ।
मण्डलं तु महानन्तं चक्राब्जं च तथैव च ॥ २६।१७० ॥
View Verse
भद्रकं वाथ विधिवत् सूत्रपातं तथा भवेत् ।
एकहस्तं द्विहस्तं वा गर्भगेहसमं तु वा ॥ २६।१७१ ॥
View Verse
चतुरश्रं समं कृत्वा सूत्रेणैव तु देशिकः ।
एकविंशतिसूत्राणि प्राक्प्रत्यग्दक्षिणोत्तरम् ॥ २६।१७२ ॥
View Verse
आस्फालयेद्भवन्त्यत्र कोष्टकानि चतुःशतम् ।
मध्ये षोडशकोष्ठानि पद्मक्षेत्रमुदाहृतम् ॥ २६।१७३ ॥
View Verse
बहिः पङ्क्तिं विसृज्याथ त्रिपङ्क्तिं ग्राहयेत्ततः ।
पादगात्रकभेदेन विमृजेत् परितः क्रम त् ॥ २६।१७४ ॥
View Verse
अन्तः षट् च बहिः षट् च मध्ये तु चतुरश्रकम् ।
विसृजेत्तु चतुर्दिक्षु गात्रार्थं तु विचक्षणः ॥ २६।१७५ ॥
View Verse
अन्तः षट् च बहिः पञ्च कोणपादार्धमाचरेत् ।
पङ्क्तिद्वयं तु तद्बाह्ये वीथ्यर्थं परितो मृजेत् ॥ २६।१७६ ॥
View Verse
द्वारकण्ठोपकण्ठं च शोभां बाह्यपदद्वये ।
अन्तर्द्वे चतुरो बाह्ये द्वारार्थं तु चतुर्दिशि ॥ २६।१७७ ॥
View Verse
त्रीण्यन्तर्बहिरेकं स्याद्विपर्यासेन मार्जयेत् ।
अन्तरेको बहिः पञ्च कोणेषु परिमार्जयेत् ॥ २६।१७८ ॥
View Verse
मण्डलं भ्रामयेत् क्षेत्रं पद्मार्थं तु पुरोदितम् ।
पद्मक्षेत्रार्धमानं तु भागं द्वादशमं (-कं?) बहिः ॥ २६।१७९ ॥
View Verse
विसृज्य भ्रामयेच्छीर्षं त्वरक्षेत्रं तु वर्तलम् ।
प्रथमं कर्णिकाक्षेत्रं केसराणां द्वितीयकम् ॥ २६।१८० ॥
View Verse
तृतीयं दलसन्धीनां दलाग्राणां चतुर्थकम् ।
आस्फल्य कोणसूत्राणि कोणदिङ्मध्यमं ततः ॥ २६।१८१ ॥
View Verse
केसराग्रेषु संस्थाप्य दलान्तं भ्रामयेत्ततः ।
दलान्तरालमानं तु सन्धौ सूत्रं तु विन्यसेत् ॥ २६।१८२ ॥
View Verse
दलाग्रं भ्रमयेत्तत्र तस्याग्रां तदनन्तरम् ।
एतत् साधारणं प्रोक्तं चक्राब्जं तु ततः शृणु ॥ २६।१८३ ॥
View Verse
द्विषट्काङ्गुलमानेन अक्षक्षेत्रं परिभ्रमेत् ।
अक्षक्षेत्रसमा नाभिः बाह्यरेखाद्वयं लिखेत् ॥ २६।१८४ ॥
View Verse
एकाङ्गुलप्रमाणेन अरक्षेत्रं ततो बहिः ।
पद्मं पूर्वोक्तवत् कुर्यात् कर्णिकाकेसरैर्युतम् ॥ २६।१८५ ॥
View Verse
अरक्षेत्रस्य विस्तारं नाभ्यक्षक्षेत्रयोः समम् ।
नेमिक्षेत्रान्तवलयमक्षक्षेत्रार्धकं भवेत् ॥ २६।१८६ ॥
View Verse
अराणि कारयेत्तत्र द्वौ द्वौ कुर्याद्दलं प्रति ।
अरक्षेत्रं त्रिधा कृत्वा गुणत्रयविधानतः ॥ २६।१८७ ॥
View Verse
प्रथमं सात्त्विकं चैव द्वितीयं राजसं भवेत् ।
तृतीयं तामसं चैव समं कुर्याद्द्विजोत्तम ॥ २६।१८८ ॥
View Verse
सात्त्विकं कलशाकारं दूर्वाकारं तु राजसम् ।
तामसं को(कूर्?)पराकारं पीठाकारं तथोपरि ॥ २६।१८९ ॥
View Verse
प(पी?)ठस्य पृष्ठतश्चापि मणिबन्धवदाचरेत् ।
अधोवक्त्रं तु कलशं नाभिक्षेत्रं तु मध्यमम् ॥ २६।१९० ॥
View Verse
शिखाकारमरान्तं स्याच्छेषमिच्छानुरूपतः ।
एवमेव प्रकारेण चक्रब्जं परिभाषितम् ॥ २६।१९१ ॥
View Verse
मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम् ।
पञ्चवर्णानि पुष्पाणि पुष्पयागे शुभानि तु ॥ २६।१९२ ॥
View Verse
श्वेतं रक्तं च पीतं च कृष्णं हरितमेव च ।
शुद्धवर्णानि चैतानि मिश्रितान्यपराणि च ॥ २६।१९३ ॥
View Verse
पुष्पेषु पुष्पवर्गेषु छेदयित्वा विचक्षणः ।
पीतेषु कर्णिकां पूर्य रक्तं वै केसराणि च ॥ २६।१९४ ॥
View Verse
कर्णिकावलयं रक्तं हरितं वा द्विजोत्तम ।
केसरान्ते च वलयं श्वेतपुष्पेण पूरयेत् ॥ २६।१९५ ॥
View Verse
दलेषु मूलभागेषु श्वेतरक्तविमिश्रितैः ।
दलाग्रान् रक्तपुष्पेण पूरयेद्देशिकोत्तमः ॥ २६।१९६ ॥
View Verse
दलानां सन्धिदेशे तु श्यामपुष्पेण पूरयेत् ।
दलान्तरेखां विप्रेन्द्र कुसुमैर्हरितेन च ॥ २६।१९७ ॥
View Verse
पूरयेन्नाभिरेखां च सितैः पुष्पैर्मनोरमैः ।
मध्यरेखां मुनिश्रेष्ठ पीतपुष्पेण पूरयेत् ॥ २६।१९८ ॥
View Verse
अन्ता रेखास्तु मन्त्रज्ञः कुसुमै रक्तकैसतथा ।
अरं चोत्तररेखां वै हरितै रक्तकैस्तथा ॥ २६।१९९ ॥
View Verse
नेम्यादिरेखां कृष्णेन नेम्यन्तं(न्तां?)सितपुष्पकैः ।
नेमिं रक्तेन पूर्याथ पीतपुष्पेण वा द्विज ॥ २६।२०० ॥
View Verse
पुष्पमण्डलमुद्दिष्टं पुष्पयागे विशेषतः ।
एवं लक्षणसंयुक्तं चक्राब्जं कारयेत् सुधीः ॥ २६।२०१ ॥
View Verse
ध्वजारोहादिजीर्थान्तं प्रायश्चित्तं तु यद्भवेत् ।
तस्य दोषविघातार्थं पुष्पयागं च कारयेत् ॥ २६।२०२ ॥
View Verse
प्रासादस्याग्रतः कुर्याद्दक्षिणे पश्चिमे ऽपि वा ।
उत्तरे वा द्विजश्रेष्ठ मण्डपं पूर्ववत् क्रमात् ॥ २६।२०३ ॥
View Verse
तस्य मध्ये लिखेद्विद्वान् चक्राब्जं लक्षणान्वितम् ।
द्वारे द्वारे तु घटिका द्वे द्वे चैव तु विन्यसेत् ॥ २६।२०४ ॥
View Verse
शरावं विन्यसेत्तद्वत् पूर्वादिषु यथाक्रमम् ।
ऐन्द्राद्यैशानपर्यन्तं पालिका विन्यसेत् क्रमात् ॥ २६।२०५ ॥
View Verse
तत्पार्श्वे मङ्गलान् न्यस्य(?)शङ्खादींश्च यथाक्रमम् ।
मण्डलं पूरयेत् पुष्पैः कर्णिकादि यथाक्रमम् ॥ २६।०६ ॥
View Verse
प्राच्यादिदिक्चतुष्केषु वासुदेवादिकान् यजेत् ।
श्रियादीन् कोणदेशेषु न्यसेत् पद्मोपरि क्रमात् ॥ २६।२०७ ॥
View Verse
इन्द्रादिपरिवारांश्च दिक्षु चैव यथाक्रमम् ।
विष्वक्सेनं गरुत्मन्तं यजेत्तत्रैव सन्निधौ ॥ २६।२०८ ॥
View Verse
इत्येवं योगयेद्विद्वान् पुष्पविन्यासमण्डले ।
स याति विष्णुसालोक्यं ज्ञानयज्ञेन संयजेत् ॥ २६।१०९ ॥
View Verse
पुष्पयागविधिः प्रोक्तो मया शक्र विधानके ।
तन्मण्डलं समालिख्य तद्विधानेन पूजयेत् ॥ २६।२१० ॥
View Verse
ट भूतक्रूरबलिं कृत्वा क्रमादुद्वास्य पार्षदान् ।
स्नात्वाचम्य शुचिर्भूत्वा समभ्यर्च्य खगेश्वरम् ॥ २६।२११ ॥
View Verse
उद्वसयेद्यथापूर्वमाहूतास्तत्र देवताः ।
नित्ये नैमित्तिके काम्ये ध्वजसंस्थानं मतम् ॥ २६।२१२ ॥
आचार्यं पूजयेत् पश्चात् यथाशक्ति समाहितः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां झ्र्ध्वजारोहणादिविधर्नामट षङ्विशो ऽध्यायः ॥
View Verse

Chapter - 27

सप्तविंशो ऽध्यायः
विष्वक्सेनः--
अथातः सम्प्रवक्ष्यामि उत्सवस्य विधिं परम् ।
सर्वशान्तिकरं पुण्यं सर्वयज्ञफलप्रदम् ॥ २७।१ ॥
View Verse
सर्वपापहरं पुंसां सर्वकर्मशुभावहम् ।
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रैलोक्यभूषणम् ॥ २७।२ ॥
View Verse
उत्सवं त्वेकरात्रं तु त्रिरात्रिकमथापि वा ।
पञ्चरात्रं तु वा विप्र सप्तरात्रमथापि वा ॥ २७।३ ॥
View Verse
नवरात्रं तु वा कुर्यात् उत्सवस्य तु विस्तरम् ।
एकरात्रोत्सवो ब्राह्मः त्रियहः शैव उच्यते ॥ २७।४ ॥
View Verse
पञ्चाहश्चैन्द्र विज्ञेयः सप्ताहश्चार्षको भवेत् ।
नवाहो दैविकः प्रोक्त उत्सवः पञ्चधोच्यते ॥ २७।५ ॥
View Verse
दैविकं सर्वशान्त्यर्थं राज्यवर्धनमार्षकम् ।
ऐन्द्रं दुर्भिक्षनाशार्थं शैवं रोगविनाशनम् ॥ २७।६ ॥
View Verse
ब्राह्मं तु ब्रह्मवृद्धिः स्यात् उत्सवं पञ्चधा फलम् ।
एकाहं त्रियहं वापि सप्ताहं तु नवाहकम् ॥ २७।७ ॥
View Verse
पञ्चाहमादिकालोयमुत्सवं ह्रासयेन्न तु ।
वर्धयेत्तु यथाकामं ह्रासनं राष्ट्रनाशकृत् ॥ २७।८ ॥
View Verse
रातविभ्रमकृच्चापि दुर्भिक्षभयकृद्भवेत् ।
उत्सवानां ततः कुर्यात् कारकस्यानुरूपतः ॥ २७।९ ॥
View Verse
शुभनक्षत्रयोगे च तिथिवारनिरीक्षिते ।
प्रतिष्ठाऋक्षके वाथ नगरग्रामऋके ॥ २७।१० ॥
View Verse
राज्ञः स्वजन्मनक्षत्रे यजमानेच्छया कुरु ।
तत्क्रमं ते प्रवक्ष्यामि हरेः सुरमुने शृणु ॥ २७।११ ॥
View Verse
सवस्त्वमङ्गलं विद्धि तन्निरासात्तदुत्सवः ।
पञ्चोत्तरदशाङ्गं च कथ्यते ताननुक्रमात् ॥ २७।१२ ॥
View Verse
प्रथमं चाङ्कुरावापः पताकारोहणं ततः ।
शुद्धस्नानं तृतीयं स्यात् स्पपनं तु ततः परम् ॥ २७।१३ ॥
View Verse
अङ्कुरस्योत्सवं पश्चात् होमः स्याद्भूषणं ततः ।
अष्टमं तु बलिं विद्यात् नवमं तु महोत्सवम् ॥ २७।१४ ॥
View Verse
तीर्थाधिवासनं पश्चात् तीर्थस्नानमनन्तरम् ।
द्वादशं स्नपनं विद्यात् पुष्पयागमनन्तरम् ॥ २७।१५ ॥
View Verse
दक्षिणासम्प्रदानं च ध्वजस्याप्यवरोहणम् ।
पञ्चोत्तरदशाङ्गो ऽयमुत्सवः परिकीर्तितः ॥ २७।१६ ॥
View Verse
सायम्प्रातः कृतेनैव होमेन च समन्वितम् ।
दक्षिण भिश्च संयुक्तं वैष्णवानां च पूजनम् ॥ २७।१७ ॥
View Verse
आचण्डालान्तमन्नाद्यमुत्सवस्यैष सङ्ग्रहः ।
तद्भूतपितृयक्षाभिः ब्रह्मशैवान्यहानि च (?) ॥ २७।१८ ॥
View Verse
वैष्णवानि च शेषाणि सायं प्रातर्बलिं हरेत् ।
सप्ताहे याज्ञिकैर्द्रव्यैर्बलिं कुर्याद्विचक्षणः ॥ २७।१९ ॥
View Verse
पञ्चाहे ब्रह्मकादिः स्यात् त्रियहे वैष्णवादयः ।
बलिभ्रमणपूर्वं तु होमं कुर्याद्विचक्षणः ॥ २७।२० ॥
View Verse
यात्रा चोत्सवबिम्बस्य द्विकालं पश्चिमं भवेत् ।
एककालमथो वापि कारयेत्तन्त्रवित्तमः ॥ २७।२१ ॥
View Verse
पूर्वाह्णे वाथ मध्याह्ने बलिदानं समाचरेत् ।
बलिभ्रमणवेलायां परिभ्रम्य शनैः शनैः ॥ २७।२२ ॥
View Verse
शङ्ख दिकुम्भपर्यन्तमष्टमङ्गलकान्(!)क्रमात् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थो ऽथ भिक्षुकः ॥ २७।२३ ॥
View Verse
धारयेच्छिरसा विद्वान् वैष्णवान् मङ्गलान् पृथक् ।
एष क्रमो मया प्रोक्तो बलिद्रव्यमथोच्यते ॥ २७।२४ ॥
View Verse
सिताः सुमनसो रजनीपराग- लाजादधिकमलं सितचन्दनेन ।
अहनि ससक्तु मुने ऽथ भूतसञ्ज्ञे प्रथमदिने बलिराह तृप्तिकारी ॥ २७।२५ ॥
View Verse
तिलकुङ्कुमोदाक्षतनीलपुष्पं द्वितीये पयोमिश्रितं वासरे स्यात् ।
बलिस्तृप्तिकारी पितॄणां तदीये मुने कथ्यते तत्तृतीये बलिश्च ॥ २७।२६ ॥
View Verse
रक्तं पुष्पं सर्पिषापूपलाजाः शरादं वा करम्भेण युक्तम् ।
यक्षाणां तत्तृप्तिहेतोर्मुनीन्द्रै- रिष्टैः प्राज्ञैरह्निरेषा बलेः स्यात् ॥ २७।२७ ॥
View Verse
एकोदनीलोत्पलनारिकेल- क्षीरेण शालेरथ पिष्टकं च ।
काकोदराणां दिवसे तुरीये सक्तूनि चाहुर्बलिमार्यवर्याः ॥ २७।२८ ॥
View Verse
कमलमक्षतमुत्पलवासितं जलमथो कमलासनवासरे ।
बलिरयं मुनिभिः परिगीयते कनकसन्निभपुष्पचयैः सह ॥ २७।२९ ॥
View Verse
पाटलसुरभितपूतजलैर्वा वासितकुसुमचयैश्चरुरेषा- ।
पूपगुलयुत इति षष्ठदिने स्यात् पावनचोदितहरिदिनपूजा ॥ २७।३० ॥
View Verse
विष्णोरुत्सवसप्तमे दिनवरे तत्तृप्तिकारी बलिः पुष्पं श्यामलमोदनं च सगुलं सन्मल्लिकागन्धिकम् ।
जातीवासितमम्बुपायसमपि स्यादष्टमे वासरे पुष्पं मेचकमाह नारद महाविष्णोर्दिने स्याद्बलिः ॥ २७।३१ ॥
View Verse
सदाविष्णोस्तृप्तयै कृसरमशिलैर्गन्धनिवहैः सदीपैर्युक्तं शीतं जलमखिलवर्णैश्च कुसुमैः ।
बलिः सक्तूपेतं नवमदिवसे नारदमुने यथावत् कार्यो ऽयं नृपजनविवृद्ध्यै बलिविधिः ॥ २७।३२ ॥
View Verse
कुमुदादीनां तु नामानि तेषां च परिवारकम् ।
प्रवक्ष्यामि मुनिश्रेष्ठ समासेन यथाक्रमम् ॥ २७।३३ ॥
View Verse
कुमुदः कुमुदाक्षश्च पुण्डरीको ऽथ वामनः ।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥ २७।३४ ॥
View Verse
देवाश्च तेषां रिपवो ऽसुराश्च गन्धर्वयक्षाः पितरो भुजङ्गाः ।
यक्षाश्च याश्चापि पिशाचजातिः ये षष्ठको देवगणा ग्रहाख्याः ॥ २७।३५ ॥
View Verse
बलिं तु मण्डले दद्याद्वेद्यादिक्रमयोगतः ।
चतुष्पथेषु कोणेषु त्रिपथैकपथेषु च ॥ २७।३६ ॥
View Verse
देवागारे ऽथ वल्मीके कूपतीरे ऽथ पर्वते ।
तटाके चैत्यवृक्षेषु पर्वतस्य समीपगे (-के?) ॥ २७।३७ ॥
View Verse
एवमादिषु देशेषु तोरणानि च कारयेत् ।
संस्थाप्य परितः सम्यक् ग्रामाद्यष्टसु वास्तुषु ॥ २७।३८ ॥
View Verse
उत्थापयित्वा केतूनां तोरणान्ते पृथक् पृथक् ।
अथवात्र मुनिश्रेष्ठ केतून् ग्रामादिवास्तुषु ॥ २७।३९ ॥
View Verse
अष्टदिक्षु यथायोगं बलिपीठं प्रकल्पयेत् ।
तालद्वयप्रमाणेन विस्तारायामतादृशम् ॥ २७।४० ॥
View Verse
मेखलाद्वयसंयुक्तं प्रत्यकं चतुरङ्गुलम् ।
तन्मध्ये कर्णिकां कुर्यात् वृत्तां वा चतुरश्रकाम् ॥ २७।४१ ॥
View Verse
चतुरङ्गुलमायामां कर्णिकां मुनिसत्तम ।
एवं पीठविधिः प्रोक्तो हरिपार्षदान् शृणु ॥ २७।४२ ॥
View Verse
नारदः---
वद ममाखिल देवगुरोर्गुरो प्रतिदिशं हरिपारिषदान् क्रमात् ।
बलिभुजः कुमुदादिपुरोहितान् हरिमहोत्सवकर्मणि वास्तुषु ॥ २७।४३ ॥
View Verse
विष्वक्सेनः---
अहं खल्वखिलाण्डयोनेरशेषधिषणाधीशितुरप्रमेयस्यानवरतसुखिनो हरेः महोत्सवादिषु ग्रामादिवास्तुषु ऐन्द्रादिदिक्स्थितानां कुमुदादीनां वर्णरूपवाहनायुधपरिवारमन्त्रार्चनादि यथामति कथयिष्ये---
कुमुदस्तु पुनः शुभ्रो मुकुन्दः(न्द?)पार्षदः कुन्दवासाः त्र्यक्षः शङ्खचक्रधरः कृताञ्जलिपुटो ग्रामाभिमुखो हस्त्यारूढो देवग्रहगणमध्ये स्थितः ।
उत्कटः प्रकटोन्मुखो विमुखो ऽश्वग्रीवो ऽश्ववदनो ऽश्वजिह्वो हस्तिवक्त्रो कुमुदो हस्तिपादः केशववामननरकनरमर्दनमन्ददृष्टिकण्डु (कन्दु?) कन्दुकलोचनपटहाक्षविशालाक्षक्षामकक्षमपाण्डरपाण्डुपृष्ठदुर्दिनसुदिनवामदेवमहादेवमहाग्निमधुसूदनकनककालकभावनभवनभानुमद्भानुवेगभास्कराभास्करविश्वसेनविसेनविष्वक्सेनविसारिविस्तारनिस्तरविदण्डिदण्डकामदकामुककामभृत्कामनाशननामभिः पञ्चाशद्भिः पार्षदैः सौम्यैः नानाविधाकारैः परिवृतमेन संस्मृत्य अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपैरभ्यर्च्यानन्तरं तद्दिनविहितहव्यं निवेद्य बलिं दद्यात् अञ्जलिं दर्शयित्वा हरेः मुखादिवासं विधाय (मुखवासं दत्वा?) तद्देवतातृप्त्यर्थं शङ्खदुन्दुभिनृत्तगेयादि कारयेत् ।
View Verse
कुमुदाक्षं पुनः आग्नेय्यां स्थितं नीलवाससं त्रिणेत्रं काकवक्त्रं चतुर्भुजं मुष्टियुद्धहस्तं खड्गमुद्गरधारिणं महिषारूढं ग्रामाभिमुखमसुरग्रहगणमध्यस्थं आग्नेयनिधनाग्निजिह्वहुताशनाग्निरूपाग्निकेशाग्निवर्णाग्न्यग्निवक्त्रमहावक्त्रमहासेनमहोदरकरालकाकजिह्वकाकवक्त्राग्निवक्त्रमण्डुमण्डूकवक्त्रदेवदेवलकशर्वकशपकशङ्कुशङ्कुश्रवमारीचद्रोणमारीचमहिषमाहिषकुम्भनासविनासकुम्भकर्णविकर्णविदारिविक्रममस्करिमस्करसूकरसूकरास्यशशशशमुखसिंहसिंहमुखनरसिंहनरकालधृक्कालसूत्रसूत्रसूत्रविनालिनालकर्णैः परिवृतं अमुं यथापूर्वमभ्यर्च्य तद्दिनबलिद्रव्यं निवेद्याचमनं दत्वा अञ्जलिमुद्रां दर्शयित्वा बलिबरे मुखवासान्तं विधाय (मुखवासं दत्वा?) तद्दिग्देवतृप्त्यर्थं तूर्याणि घाषयेत् ।
अन्तकाशास्थितं पुण्डरीकं पुण्डरीकत्विषं पुण्डरीकवदनं त्रिलोचनं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखमश्वारूढं पितृग्रहगणमध्यस्थ यमधर्मधरधर्मधर्मराजधनुर्धरविनयप्रश्रयनिश्रेयनिर्गुणालसकुणपक्रूरबाहुकुञ्जरप्रांशुदमननिष्कोपनिरनुक्रोशनिर्ममविवाहा (विभवा?) विभवहुताशाह्यू (बहूर्?)ध्वरक्षण सञ्ज्ञैकलपाकलकङ्ककटकावटशङ्खीचक्रीगदीखड्गीशार्ङ्गीशार्ङ्गधरवासुदेवभद्रकेतुमत्केतुकक्षमीज्वलनकिन्नराश्वत्थसुप्तसुजपनजपपश्चिमकैक्षिकस्वञ्जबाडवक्षमीभिःपरिवृतं पूर्ववदभ्यर्च्य तद्दिनबलिं निवेद्याचमनं [दत्वा]अञ्जलिं दर्शयित्वानन्तरं बलिकौतुके मुखवासं विधाय (दत्वा?) तद्दिग्देवतातृप्त्यर्थं शङ्खादि घोषयेत् ।
View Verse
निरृत्याशास्थितं वामनं धूम्रवर्णं धूम्रवाससं त्रिणयनं चतुर्भुजं शूलखड्गमुद्गरधरं मुष्टियुद्धहस्तं शकटारूढं ग्रामाभिमुखं यातुग्रहान्तः स्थितं बलम्बिरृतिप्रकृतिविकृतिसुकृतिदारुणदमकरक्षकलक्षकमाधवमांसकनिष्ठुरखरभाषणप्रलम्बकप्राणनप्रणयवीरसेनाङ्गदविभाषविभीषणरक्ताक्षलोहिताक्षरक्तजिह्वविजह्वकविद्युत्केशविशालाक्षविक्षरवीरहाक्षरप्राक्षरकामरूपीविरूपीसर्वगसर्वविद्गौरसम्भवप्रभववारुणवसुविमर्दमदन (दमन?)ए वैकर्तनविकर्तृकपर्दीपृथुकन्दकीकन्दकनाकीवरुणारुणैः परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं विधायाञ्जलिं निर्वर्त्य[बलि] कौतुके मुखवासं विधाया (दत्वा?) नन्तरं तूर्याणि घोषयेत् ।
वरुणदिगालयं शङ्कुकर्णं पीतवर्णं त्रिवीक्षणं पीतवाससं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं व्याघ्रारूढं पितृग्रहगणमध्यस्थं वरुणवारुणपाशीपाशधरगुरुक्षेपणक्षोभणनारदसर्वदरविसुमननामनहंसवैकुण्ठपरमपरहुनमत्वसुमत्भद्रभद्रवप्रभवमहाकर्णविकर्णशशकशलकपिकवानरनरककार्ष्णीकर्णधरांशुमत्चक्रृभृत् [उग्र] वज्रीवज्रनाभविनाभककरप (-भ?) कुरभदाक्षिणदक्षिण सुहृद्दुर्गन्धपूतिगन्धतार्क्ष्यगरुडविरोधरोधकरोधकङ्कणवृकोदरैः परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं दत्वा अञ्जलिं कृत्वा बलिबेरे मुखवासं दत्वा शङ्खादीन् घोषयेत् ।
View Verse
अथ पुनरनिलदिङ्निलयं अतितप्तहाटकनिभं सर्पनेत्रं त्रिणेत्रं चतुर्भुजं हरिद्रावाससं परशुपाशधरं मुष्टिसन्नद्धहस्तं ग्रामाभिमुखं मृगाधिरूढं नागाभरणभूषितं गन्धर्वग्रहगणान्तम्ः स्थितं मरुन्मारुतगोरुर्व्याखुवायुसुतानिलगलर्तवर्तककङ्कमार्गणप्राङ्कणाचलबलबलनिधिवीरविरोधरोधकविधिसि द्धवसुयवसङ्करधीरकमालीमालाविधिवस्तुसमर्थसमुहोत्सवकर्कटकटकगन्धगन्धवहपरसिक्तवसि क्तरोगीसेवकसेवनसवौषधभेषजरोगीगभवकारणकरणकर्तृगरवीरखल (अखल?) बलवाकुवाहसुचारुभिः परिवृतं यथोक्तमभ्यर्च्याचमनं दत्वा अञ्जलिं दर्शयित्वा बलिबिम्बान्नवासः निर्वर्त्य (बलिबिम्बेमुखवासं तद्दिनबलिं च दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घाषयेत् ।
अनन्तरममृतकराशास्थितं श्यामच्छायं श्यामाम्बरधरं त्रिणेत्रं चतुर्भुजं जलजचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं यक्षग्रहगणमध्यस्थं सुमुखं मेषारूढं सोमसोमकलसोम (सोम्य?) सामवित्सामनायकसुधासुधाताधातासुराष्ट्रकाष्ठककलिकालधृक्कालचक्रकालकूटविषबलामृतामृतनाथकेयूरीकेवलीबलीविष्णुकृष्णपिशङ्गाङ्गी रेखालेखालेखपिकशुकलूबकशुकश्येनश्येनमुखमार्जारमरुभृद्वालगुल्मकणवककणशेषविशेषोच्छेद (-ष?) कर्दमपूतिविग्रहसाम्बसंवत्सरवेगीवेगधरमरुद्भिः चतुरै राक्षससहस्रगैर्नायकैः परिवृतं सागणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं परिवृतं सगणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं निवेद्यञ्जिलिं दर्शयित्वा [बलि] प्रतिमामुखवासं विधाया(दत्वा)शादेवतातृप्त्यर्थं शङ्खादीन् घोषयेत् ।
View Verse
अथ पुनरीशानशाप्रतिष्ठितं सुप्रतिष्ठितं सिंहारूढं रजतवर्णं रजतवाससं त्रिणेत्रं चतुर्भुजं खड्गमुद्गदधरं मुष्टियुद्धहस्तं ग्रामाभिमुखं पिशाचग्रहगणमध्यस्थं ईशानेश्वरव्यापीव्यसनविनशबुधधरबकविशवादशकुनिशकटघटवृक्षकक्षक्षमीक्षान्तिमातृरोमकपिञ्जलब्रह्मण्यब्रह्मविद्ब्रह्मीब्रह्मात्मब्रह्मसाधनवेदीवेदविदुद्बन्धशङ्करशङ्करधीमद्विसृष्टिरिष्टात्मदुष्टात्मदुष्टकर्मकृत्विनेतृविगोविन्दगोपतिगोप्तृमहेश्वरैः परिवृतं यथं क्तमभ्यर्च्याचमनं दत्वा तद्दिनबलिं दत्वाञ्जलिं दर्शयित्वा बलिबिम्बाननवासं निर्वर्त्य(दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घोषयेत् ।
View Verse
अनन्तस्थितं पृश्निगर्भं सिद्धग्रहगणान्वितं तप्तजाम्बूनदसङ्काशं चतुर्वक्त्रं चतुर्भुजं अक्षसूत्रकमण्डलुधरं पुष्पाञ्जलिधरं हंसाधिरूढं पश्चिमाभिमुखं कमलोद्भवं कमलासनं सिद्धधातृविधातृधातृप्रजापतिलोकेशलोककृत्कर्तृस्रष्ट्रुब्रह्मात्मभसुतापतुलरीतिवर्धनाव्यक्तगुणवद्गौणगुणभुगुद्गीथप्रणवहिरण्यगर्भविरिञ्चपुष्करभासनभासविकर्णविजयरथन्तरच्छन्दोयजुऋगथर्वमरीच्यङ्गिरपुलहक्रतुवसिष्ठप्रचेतशलभभीष्महेमन्तशिशिरकुसुमाकरकलहविराहि (-गि?) अमर्षरोषणशोषणगतिहर्षणवर्धनैः पृश्निगर्भवशानुगैः भीमरूपमहाकायैरसङ्ख्यपरिवारकैः व्याघ्रवक्त्रैर्मेषववत्रैः शशमुखेः स्वस्तिवक्त्रैः व्यालवक्त्रैः वराहवक्त्रैः कुक्कुटवक्त्रैः बलाकवक्त्रैः हंसवक्त्रैः मयूरवक्त्रैः स्वस्तिकास्यैः चक्रवाकाननैः कपोतास्यैरेकनेत्रैः द्विनेत्रैः त्रिणेत्रैः (बहुनेत्रैः?) एकपादैः द्विपादैः बहुपादैः एकवक्त्रैः बहुवक्त्रैः असङ्ख्यैः परिवृतं विष्णुपार्षदेश्वरगणमध्यस्थं ध्यात्वार्घ्यादिभिरभ्यर्च्य बलिद्रव्यं प्रदायाचमनाञ्जलिं दर्शयित्वा बिम्बाभिमुखं कृत्वा पुष्पाञ्जलिः साधको नमस्कृत्य समस्तमङ्गलवाद्यादि मुखवासं विधाय (दत्वा?) तद्देवतातृप्त्यै शङ्खादीन् घोषयेत् ।
View Verse
नारदः---
उत्सवेर्ऽघ्यप्रदानादि चण्डादीनां गुरो ऽस्ति किम् ।
भेदः सामान्यतो वापि मन्त्रं किं वा विधिः प्रभो ॥ २७।४४ ॥
View Verse
विष्वक्सेनः---
चण्डादिदेवताध्यानं कृत्वा देवमुखे ततः ।
दक्षिणेर्ऽघ्यं तथाचामं हस्ते पादे च पाद्यकम् ॥ २७।४५ ॥
View Verse
ललाटे गन्धमादद्यात् पुष्पं शिरसि धारयेत् ।
नासादक्षिणपार्श्वे तु धूपं दीपं ततो दृशि ॥ २७।४६ ॥
View Verse
बलिद्रव्यं च पानीयं पुनराचमनं तथा ।
दक्षिणे दोष्णि दद्यात्तु तत्प्रमाणमथो शृणु ॥ २७।४७ ॥
View Verse
पाद्यार्घ्याचमनीयं तु परिमाणमथेच्यते (?) ।
गन्धं षड्बिन्दुमात्रं तु पुष्पं मुष्टिप्रपूरितम् ॥ २७।४८ ॥
View Verse
धूपं सुरभिणा व्याप्तं शान्तज्वालोच्छ्रितोत्थितम् ।
बहुरेखमरत्यग्रं(?) दशमात्रं प्रदापेयत् ॥ २७।४९ ॥
View Verse
दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम् ।
धूपवद्दीपयेद्देवमुपचारनिवर्तकम् ॥ २७।५० ॥
View Verse
त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणे दृशि ।
इत्थं निर्वर्त्य वाराणां राजराष्ट्रविवृद्धिकृत् ॥ २७।५१ ॥
View Verse
अन्यथा परिवाराणां अर्चोत्सवविधौ भवेत् ।
राजराष्ट्रविनाशाय दुर्भिक्षानर्थदो भवेत् ॥ २७।५२ ॥
View Verse
ततश्चण्डादिमन्त्राणां लक्षणं कथ्यते ऽधुना ।
प्रणवादिनमो ऽन्तं च नाममन्त्रमिति स्मृतम् ॥ २७।५३ ॥
View Verse
पीठे पीठे बलिं क्षिप्त्वा ग्राममध्ये समापयेत् ।
भूतकृद्भ्यो नमः सर्वभूतेभ्यश्च नमो ऽस्त्विति ॥ २७।५४ ॥
View Verse
नमो ऽस्तु सर्वभूतेभ्य इति मन्त्रमुदीरयेत् ।
तस्मिन् वेद्यादिपर्यन्तं देशे मन्त्रमिति स्मृतम् ॥ २७।५५ ॥
View Verse
अनुगच्छन्ति ये त्वत्र कौतुकं कौतुकान्विताः ।
पदे पदे क्रतुफलं लभन्ते नात्र संशयः ॥ २७।५६ ॥
View Verse
शुद्धवासाः शुचिर्भूत्वा कृतदन्तानुधावनः ।
हविष्यभुग् यतात्मा च आचार्यो बलिमाचरेत् ॥ २७।५७ ॥
View Verse
रात्रौ बलिप्रदानान्ते स्नानं सद्यः समाचरेत् ।
प्रतिष्ठोत्सवहोमेषु स्नपनादौ विशेषतः ॥ २७।५८ ॥
View Verse
आरभ्य तन्त्रानुक्तं च निरीक्ष्यान्यांस्तु कारयेत् ।
अन्यथा केवलं तन्त्रमेकं वीक्ष्य प्रयोजयेत् ॥ २७।५९ ॥
View Verse
तत्सङ्क्षेपं न विस्मृत्य मोहात् सर्वविनाशकृत् ।
तीर्थपूर्वदिने रात्रावधिवासनमाचरेत् ॥ २७।६० ॥
View Verse
यागमण्डपमध्ये वा देवस्य पुरतो ऽथवा ।
वेदिं कृत्वाथ शालीभिरष्टद्रोणसमन्वितम् ॥ २७।६१ ॥
View Verse
तदर्धं तण्डुलं न्यस्य तन्मध्ये ऽम्बुजमालिखेत् ।
कुशान् संस्तीर्य तन्मध्ये वस्त्राणि परितो न्यसेत् ॥ २७।६२ ॥
View Verse
गन्धपुष्पैः समास्तीर्य प्रोक्षयेन्मूलविद्यया ।
अष्टदिग्दीपसंयुक्तं कर्पूरागरुधूपितम् ॥ २७।६३ ॥
View Verse
धूपयित्वा ततो वेदिं तन्मध्ये देवमानयेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हविरस्मै तु दापयेत् ॥ २७।६४ ॥
View Verse
देवस्य पूर्वपार्श्वे तु पूर्णकुम्भं निधाय तु ।
वेष्टितं सूक्ष्मवस्त्रैश्च हेमरत्नसमन्वितम् ॥ २७।६५ ॥
View Verse
तस्मिन्नावाहयेत् तीर्थान् सरितश्च सरांसि च ।
पूजयित्वैव गन्धाद्यैस्ततो देवं समर्चयेत् ॥ २७।६६ ॥
View Verse
प्रार्थयेत्तीर्थयात्रार्थं प्रणिपत्यैव देशिकः ।
देवदेव जगन्नाथ नमस्ते लोकभावन ॥ २७।६७ ॥
View Verse
तीर्थयात्रां कुरुष्व त्वं प्रसीद पुरुषोत्तम ।
प्रार्थचित्वैव देवेशं प्रोक्षयेत् कुम्भवारिणा ॥ २७।६८ ॥
View Verse
पञ्चमन्त्रैश्च सूक्तेन पौरुषेण च मन्त्रवित् ।
तथा नारायणं सूक्तं सृष्ट्य दिप्रतिपादकम् ॥ २७।६९ ॥
View Verse
अथर्वणमिदं सूक्तं सर्वकामप्रदं शुभम् ।
आत्मानं च तथाचार्यो वैष्णवांश्चैव सात्त्वतान् ॥ २७।७० ॥
View Verse
गङ्गस्नानफलं सर्वर्ं(-वे?)लभन्ते प्रोक्षयेत्तदा ।
पुनराचमनं दत्वा गन्धपुष्पादिनार्चयेत् ॥ २७।७१ ॥
View Verse
हविर्निवेदनं कुर्यादपूपांश्च फलानि च ।
पानीयाचमनं दत्वा मुखवासं तथैव च ॥ २७।७२ ॥
View Verse
निवेदितं तु तत्सर्वं आचार्याय निवेदयेत् ।
आचार्यस्य मनः प्रीतिरतिसम्पत्तिकारिणी ॥ २७।७३ ॥
View Verse
आचार्यस्यानुरूपेण सात्त्वतेभ्यो निवेदयेत् ।
किञ्चिन्मात्रं गृहीत्वा तु सदस्यानां तु दापयेत् ॥ २७।७४ ॥
View Verse
पुण्याहं वाचयित्वैव कौतुकं बन्धयेत्ततः ।
दर्शयेद्देवदेवस्य मङ्गलानि यथाक्रमम् ॥ २७।७५ ॥
View Verse
छत्रं चामरमादर्शं सुमुहर्ते निवेदयेत् ।
शाययेच्छयने दिव्ये देवं मूलेन विद्यया ॥ २७।७६ ॥
View Verse
आत्मानं कौतुकं बद्ध्वा रात्रिशेषं समापयेत् ।
अथ तीर्थे ऽहनि प्राप्ते नित्यकर्म समाप्य च ॥ २७।७७ ॥
View Verse
मण्डपे मध्यमे भागे सोमेशाने तु लेपयेत् ।
तन्मध्ये शालिना वेदिं कुर्यान्मध्ये ऽब्जमुत्तमम् ॥ २७।७८ ॥
View Verse
उलूखलान(-न्य?)लङ्कृत्य निशाचूर्णै(-खण्डै?)स्तु पूरयेत् ।
पूर्वोक्तेन विधानेन घातयेत्तत्त्रिधा पुनः ॥ २७।७९ ॥
View Verse
तस्य पश्चिमभागे तु शालिमध्ये महामुने ।
तीर्थार्थं स्थापयेच्चूर्णान् गन्धादीन् क्रमयोगतः ॥ २७।८० ॥
View Verse
गन्धचूर्णं तथा पिष्टं चूर्णं रजनिमेव च ।
शालिमध्ये तु संस्थाप्य प्रागादीशावसानकम् ॥ २७।८१ ॥
View Verse
नववस्त्रैस्तु संवेष्ट्य कलशान्(-शो?)लूखलान्(?)क्रमात् ।
पश्चाद्रजनिचूर्णं तु पूरयेत् कलशे मुने ॥ २७।८२ ॥
View Verse
अर्घ्यपाद्यादिनाभ्यर्च्य तं देवं मूलविद्यया ।
स्नापयेद्देवदेवस्य मूर्ध्नि पश्चात् समाहितः ॥ २७।८३ ॥
View Verse
गन्धादिचूर्णान् सङ्गृह्य तीर्थदेशे समाचरेत् ।
चूर्णोत्सवं ततः कुर्यात् चुर्णस्नानसमन्वितम् ॥ २७।८४ ॥
View Verse
ग्रामं प्रदक्षिणं कृत्वा तीर्थदेशं समानयेत् ।
पुण्याहाज्यारोपणं स्नानवस्त्रं पाद्यार्घ्यं वै दन्तकाष्ठं च तोयम् ॥ २७।८५ ॥
View Verse
दत्वादर्शं तैलमुद्वर्तनं च धात्रीस्नानं स्नानपूर्वोपचारम् ।
स्नानक्रमं प्रवक्ष्यामि नित्ये नैमित्तिके ऽपि च ॥ २७।८६ ॥
View Verse
काम्ये तु वा प्रकुर्वीत देवदेवस्य शाङ्र्गिणः ।
देवस्य पूर्वभागे तु मण्डलं पञ्चहस्तकम् ॥ २७।८७ ॥
View Verse
कृत्वा तन्मध्यमे न्यस्य शालिद्रोणद्वयं मुने ।
विस्तीर्य वेदिमध्ये तु तदर्धं तण्डुलं तथा ॥ २७।८८ ॥
View Verse
तत्र मध्ये न्यसेद्विद्वान् कलशान् द्वादश क्रमात् ।
मध्यमे तु घृतं न्यस्य तत्र पूर्वे दधि न्यसेत् ॥ २७।८९ ॥
View Verse
दक्षिणे विन्यसेत् क्षीरं मधु वारुणगोचरे ।
सोमे चोष्णोदकं न्यस्य साधकः परमार्थवित् ॥ २७।९० ॥
View Verse
आग्नेय्यां गन्धतोयं तु नैरृते पुष्पतोयकम् ।
वायव्ये मङ्गलोदं तु ईशाने शुद्धवारिभिः ॥ २७।९१ ॥
View Verse
हस्तमुत्सृज्य नवकादैन्द्रे वा चोत्तरे ऽथवा ।
स्थापयेत् क्रमयोगेन चूर्णानि क्रमयोगतः ॥ २७।९२ ॥
View Verse
परमेष्ट्यादिभिर्मन्त्रैः स्नापयेत् पुरुषोत्तमम् ।
ततश्च विमृजेच्चूर्णैर्मूलेनाङ्गादि दैवके ॥ २७।९३ ॥
View Verse
पुनश्च कुशकूर्चेन मार्जयेद्बिम्बमुत्तमम् ।
एवं वै कलशान् न्यस्य कूर्चद्रव्यात् न्यसेद्बुधः ॥ २७।९४ ॥
View Verse
चक्रिकां स्थापयेत्तस्मिन् गन्धपुष्पं विनिक्षिपेत् ।
नववस्त्रैस्तु सञ्छाद्य गन्धपुष्पादिनार्चयेत् ॥ २७।९५ ॥
View Verse
ततस्तु परितः कुर्याद्रक्षार्थं कुमुदादिकान् ।
कुमुदं पूर्वदिग्भागे पुण्डरीकं तु दक्षिणे ॥ २७।९६ ॥
View Verse
शङ्कुकर्णं प्रतीच्यां तु सुमुखं चोत्तरे न्यसेत् ।
आग्नेये कुमुदाक्षं तु नैरृते वामनं न्यसेत् ॥ २७।९७ ॥
View Verse
सर्पनेत्रं तु वायव्यामीशाने सुप्रतिष्ठतम् ।
एवं तु कुमुदादींस्तु कलशेषु न्यसेद्बुधः ॥ २७।९८ ॥
View Verse
तुलसीसहदेवी च बिल्वमौदुम्बरं तथा ।
अश्वत्थं प्लक्षवकुलं सदाभद्रा प्रकीर्तिताः ॥ २७।९९ ॥
View Verse
एतेषां पल्लवान् गृह्य कलशेषु न्यसेत् क्रमात् ।
पुष्पादिभिः समभ्यर्च्य धूपदीपान्तमेव च ॥ २७।१०० ॥
View Verse
एवं वै कलशान् न्यस्य द्रव्यदेवान् ब्रवीमि ते ।
शालिनीवारमाषांश्च चन्दनोशीरमेव च ॥ २७।१०१ ॥
View Verse
पञ्चचूर्णमिति ख्यातं परागाणामनुत्तमम् ।
चन्दनं कुङ्कुमोशीरं चम्पकोत्पलवासितम् ॥ २७।१०२ ॥
View Verse
गन्धतोयमिति ख्यातं गङ्गावारिसमप्रभम् ।
उत्पलं मल्लिकाजातिपाटलं पद्ममेव च ॥ २७।१०३ ॥
View Verse
पञ्च पुष्पोदकमिदं पञ्चोपनिषदं न्यसेत् ।
इन्द्रवल्यङ्कुराश्वत्थदलैकं पद्ममेव च ॥ २७।१०४ ॥
View Verse
एतत्तु कथितं पूर्वं मङ्गलं मङ्गलोदकम् ।
शुद्धतोयं समादाय मन्त्रेण परमेष्ठिना ॥ २७।१०५ ॥
View Verse
कुशाग्रेण मथित्वा तु देवेशमभिषेचयेत् ।
कुङ्कुमोशीरकुष्ठं च रजनीचन्दनं तथा ॥ २७।१०६ ॥
View Verse
एतत्तीर्थमयं पुण्यं तीर्थचूर्णमिति स्मृतम् ।
रजनीष्वेकवर्ज्यं तु द्रोणं वाप्यर्धमेव वा ॥ २७।१०७ ॥
View Verse
आढकं वा तदर्धं वा चूर्णं कुर्यात्तु मन्त्रवित् ।
चूर्णानामप्यलाभे तु रजनीचूर्णमुत्तमम् ॥ २७।१०८ ॥
View Verse
शालिभिर्वाथ सर्वेषां स्नापयेन्मूलविद्यया ।
घृतादिस्नेहद्रव्याणामाढकं वार्धमेव वा ॥ २७।१०९ ॥
View Verse
सर्वेषामप्यलाभे तु पूरयेद्गन्धवारिणा ।
तेनैव स्नापयेद्देवं यथावित्तानुसारतः(?) ॥ २७।११० ॥
View Verse
यत्प्रोक्तं चोत्सवे पुष्पं तस्या (?) एवं तु मन्त्रवित् ।
तत्तद्दोषं स्मरेत् क्षिप्य तुलसी चोत्पलाक्षतम् ॥ २७।१११ ॥
View Verse
एवं द्रव्यं तु सम्प्रोक्तं दैवतं कथयामि ते ।
दामोदरावसानाश्च केशवाद्याश्च मूर्तयः ॥ २७।११२ ॥
View Verse
घृतादिकलशानां तु देवताः परिकीर्तिताः ।
रक्षार्थं कलशानां तु कुमुदादीनि दैवतम् ॥ २७।११३ ॥
View Verse
उद्धारणक्रमं येन तत्प्रोक्तं दैवतं क्रमात् ।
एवं संस्थाप्य विधिवत् पश्चाच्छुद्धिं समाचरेत् ॥ २७।११४ ॥
View Verse
पुण्याहं वाचयित्वा तु प्रोक्षयेत् कुशवारिणा ।
एवं सम्प्रोक्ष्य विधिवत् ततः स्नपनमाचरेत् ॥ २७।११५ ॥
View Verse
घृतेन दध्ना पयसा मधुनोष्णाकदकेन च ।
स्नापयेत् पञ्चचूर्णैश्च सम्प्रपूज्य प्रभुं मुने ॥ २७।११६ ॥
View Verse
अष्टाक्षरेण गन्धाम्भः पुष्पाम्भो द्वादशाक्षरैः ।
मङ्गलं विष्णुगायत्र्या शुद्धाम्भः प्रणवेन तु ॥ २७।११७ ॥
View Verse
तीर्थचूर्णं ततः स्नाप्य मूलमन्त्रेण साधकः ।
स्नपनान्ते तु संस्थाप्य रजनीचूर्णमुत्तमम् ॥ २७।११८ ॥
View Verse
आज्यादिनिशि(?)चूर्णान्तं एवं संस्नापयेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य दीपान्तं च महामुने ॥ २७।११९ ॥
View Verse
स्नपनान्ते तु मन्त्रज्ञः कुमुदादींश्च रक्षकान् ।
देवस्य शिरसि भ्राम्य भक्तानां तु प्रदापयेत् ॥ २७।१२० ॥
View Verse
एवं तु स्नपनं कृत्वा नदीस्नानं तु कारयेत् ।
तीरे देवं समानीय कुशकूर्चेन मार्जयेत् ॥ २७।१२१ ॥
View Verse
पाद्यादिदीपपर्यन्तं अर्चयेत् कौतुकं ततः ।
अवगाह्य च तत्तीर्थं तीर्थानावाह्य सर्वतः ॥ २७।१२२ ॥
View Verse
कृत्वाघमर्षणं तत्र पञ्चमन्त्रैः समाहितः ।
जलकेलिं ततः कृत्वा तीरमासाद्य देशिकः ॥ २७।१२३ ॥
View Verse
तत्र तीर्थजले स्नातः सर्वपापैः प्रमुच्यते ।
अलङ्कृत्य तु वस्त्राद्यैर्गन्धपुष्पादिनार्चयेत् ॥ २७।१२४ ॥
View Verse
हविर्महाहविर्वापि दत्वा नृत्तादि कारयेत् ।
देवस्य पूर्वदिग्देशे बलिं दद्यात् समाहितः ॥ २७।१२५ ॥
View Verse
नमो ऽस्तु सर्वदेवेभ्य एवमुच्चार्य मन्त्रतः ।
पालिकाद्यैरलङ्कृत्य यानमारोपयेद्धरिम् ॥ २७।१२६ ॥
View Verse
पुनः प्रदक्षिणं कुर्यात् ग्रामं वा नगरं तु वा ।
आलयं वाप्यभावे तु यथावित्तानुसारतः(!) ॥ २७।१२७ ॥
View Verse
स्वस्तिवाचनसंयुक्तं शङ्खभेरीरवाकुलम् ।
प्रदीपशतसंयुक्तं नृत्तगीतादिसंयुतम् ॥ २७।१२८ ॥
View Verse
पुष्पवृष्टिसमायुक्तमक्षता(?) लाजसंयुतम् ।
सामगीतसमायुक्तं जयशब्दसमन्वितम् ॥ २७।१२९ ॥
View Verse
प्रदक्षिणं परिक्रम्य नद्रुतं नविलम्बितम् ।
यागभूमिं समासाद्य पूजयित्वा यथाक्रमम् ॥ २७।१३० ॥
View Verse
स्नपनं विधिवत् कृत्वा पुष्पयागं समारभेत् ।
कृत्वा पद्मं चक्रकं मण्डलं वा तत्र स्थाने वासुदेवादिकां (-का?) श्च ॥ २७।१३१ ॥
View Verse
शङ्खाद्या वै बाह्यतो लोकपालाः विष्वक्सेनो वैनतेयश्च बाह्ये ।
भूतेशा वै बाह्यतः पूजनीयाः गौल्यन्नं वै भक्ष्यमग्नेश्च कार्यम् ॥ २७।१३२ ॥
View Verse
पुण्याहार्घ्यं पुष्पमेकं बलिं च पूजापुज्ये मूलबिम्बे स्थितं वै ।
चक्रलक्षणमार्गे तु शेषमस्मिन्नियोजयेत् ॥ २७।१३३ ॥
View Verse
ध्वजावरोहणं कुर्यात् उद्वास्यैव तु देवताः ।
दत्वा महाबलिं ताभ्यो मुद्गान्नापूपलाजकैः ॥ २७।१३४ ॥
View Verse
सक्तुभिर्ग्रामबाह्ये च मध्ये चैव क्षमाप्य च ।
ध्वजाद्विसर्जयेद्देवं वैनतेयं स्वमन्त्रतः ॥ २७।१३५ ॥
View Verse
एकरात्रिद्विरात्रे वा त्रिरात्रे तु महामुने ।
ध्वजावरोहणं कुर्यात् अधिकं तु न कारयेत् ॥ २७।१३६ ॥
View Verse
अधिकं यदि चेत्तत्र स्नपनं कारयेत् क्रमात् ।
उत्सवप्रतिमायां तु स्नपनं त्वधमोत्तमम् ॥ २७।१३७ ॥
View Verse
पञ्चविंशतिभिर्वापि कलशैर्द्वादशैस्तु वा ।
यथावित्तानुसारेण (!) स्नपनं कारयेद्धरिम् ॥ २७।१३८ ॥
View Verse
ध्वजावरोहणं पश्चात् कारयेन्मन्त्रवित्तमः ।
कर्षणादिषु पूजायां प्रतिष्ठारोहणादिषु ॥ २७।१३९ ॥
View Verse
ध्वाजारोहणवेलायां ध्वजस्याप्यवरोहणे ।
उत्सवे बलिदाने तु शङ्खाद्यैश्चैव घोषयेत् ॥ २७।१४० ॥
View Verse
शङ्खतूर्यादिनिर्घोषं हरितृप्तिकरं मुने ।
रक्षोविद्रावणं चैव राजशान्तिकरं तथा ॥ २७।१४१ ॥
View Verse
राष्ट्रवृद्धिकरं सम्यक् यजमानसुखावहम् ।
स्नपनस्थापनादीनां या मुद्रा यस्य कथ्यते ॥ २७।१४२ ॥
View Verse
तां तथाशक्नुवन् कर्तुं मूलमन्त्रं न्यसेत् करे ।
तेन कुर्वन् क्रियाः सर्वाः करेण मुनिपुङ्गव ॥ २७।१४३ ॥
View Verse
तृतीयं समनुध्यानं ते चान्ते ऽञ्जलिकारकाः ।
तृप्तिं कुर्वन्ति देवस्य जलस्थानजलेश्वरान्(?) ॥ २७।१४४ ॥
View Verse
तृप्त (तर्प) येदात्मनस्तृप्तिमिति गुह्योपदेशकः ।
देवोत्सवादिक्रियया नृपस्य बलायुरारोग्यजयश्रियश्च ॥ २७।१४५ ॥
View Verse
राष्ट्रस्य वृद्धिर्धनधान्ययुग्वै प्रयोजयित्रादि फलं सुखादि ।
उत्सवाङ्गमथो वक्ष्ये यागमण्डपमुत्तमम् ॥ २७।१४६ ॥
View Verse
दक्षिणे गोपुरस्यैव आनेय्यां दिशि वै तथा ।
याम्यायामुत्तरे वाथ कारयेद्यागमण्डपम् ॥ २७।१४७ ॥
View Verse
तत्पूर्वभागे कर्तव्यं कुण्डं लक्षणसंयुतम् ।
कुण्डपार्श्वे मुनिश्रेष्ठ वेदिं कुर्याद्यथाविधि ॥ २७।१४८ ॥
View Verse
चतुर्हस्तप्रमाणेन कारयेद्वेदिमुत्तमाम् ।
विस्तारायामतुल्या स्याद्यागवेदिर्महामुने ॥ २७।१४९ ॥
View Verse
त्रिहस्तं वा द्विहस्तं वा कारयेद्वेदिमुत्तमाम् ।
रत्निमात्रसमुत्सेधामथवा तालमात्रकाम् ॥ २७।१५० ॥
View Verse
दर्पणोदरसङ्काशां यागवेदिमनुत्तमाम् ।
एवं कृत्वा विधानेन वेदिं भुक्तिशुभप्रदाम् ॥ २७।१५१ ॥
View Verse
तत्रोपरि लिखेत् पद्ममष्टपत्रदलाकृति ।
गोमयेन समालिप्य द्वादशाक्षरविद्यया ॥ २७।१५२ ॥
View Verse
प्रोक्षयेत्तेन मन्त्रेण कुशपूतेन वारिणा ।
पालिका चाङ्कुरोपेतमष्टमङ्गलसंयुतम् ॥ २७।१५३ ॥
View Verse
पूर्वादिक्रमयोगेन शङ्खादीन् मङ्गलान्(!)न्यसेत् ।
उत्तमादिक्रमं प्रोक्तं वेदिकालक्षणं मुने ॥ २७।१५४ ॥
View Verse
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा कुशाम्भसा ।
स्वस्तिसूक्तं ततोच्चार्य(?)ब्राह्मणैः सह मन्त्रवित् ॥ २७।१५५ ॥
View Verse
तत्र मध्ये मुनिश्रेष्ठ शालिना वेदिमाचरेत् ।
पञ्चभारप्रमाणं वा तस्यार्धं वार्धमेव वा ॥ २७।१५६ ॥
View Verse
विस्तीर्य वेदिमध्ये तु रक्तशाल्यन्तमेव वा ।
पूर्ववद्विलिखेद्रक्तपद्ममष्टदलैर्युतम् ॥ २७।१५७ ॥
View Verse
तत्र मध्ये तु संस्थाप्य नवकुम्भान् यथाक्रमम् ।
सूत्रत्रयसमोपेतान् गालितोदकपूरितान् ॥ २७।१५८ ॥
View Verse
वस्त्रयुग्मैरलङ्कृत्य गन्धपुष्पसमन्वितान् ।
पञ्चरत्नसमोपेतान् कूर्चत्रयसमन्वितान् ॥ २७।१५९ ॥
View Verse
अश्वत्थपल्लवैर्युक्तांश्चक्रिकाभिः पिधाय तु ।
एवं लक्षणसंयुक्तकुम्भेष्वावाहयेत् क्रमात् ॥ २७।१६० ॥
View Verse
महाबेरान्नयेच्छक्तिं मध्यकुम्भे महामुने ।
पूर्वादि चष्टकुम्भेषु वासुदेवादिकान् यजेत् ॥ २७।१६१ ॥
View Verse
अर्घ्यपाद्यादिनाभ्यर्च्य हवींषि मुखवासकम् ।
दापेयत् कुम्भमध्यस्थदेवाय मुनिसत्तम ॥ २७।१६२ ॥
View Verse
पूर्वादि चाष्टकुम्भेषु तच्छेषेण बलिं क्षिपेत् ।
वासुदेवादिकान् ज्ञात्वा स्वनाम्नैव पृथक् पृथक् ॥ २७।१६३ ॥
View Verse
ततस्तु कुमुदादीनां कुम्भस्य परितोर्ऽचयेत् ।
घण्टाशब्दसमोपेतं कुक्कुटाण्डप्रमाणतः ॥ २७।१६४ ॥
View Verse
स्वस्तिवाचनसंयुक्तं धूपदीपसमन्वितम् ।
स्वनम्ना बलिदानं तु साधयेत् साधकोत्तमः ॥ २७।१६५ ॥
View Verse
नारिकेलफलं दद्यात् सन्ध्ययोरेवमर्चयेत् ।
तत्पूजान्ते तु मन्त्रज्ञो होमकर्म समारभेत् ॥ २७।१६६ ॥
View Verse
अष्टोत्तरशतं वापि तदर्धं वार्धमेव वा ।
समिदादितिलान्तं तु जुहुयात् साधकोत्तमः ॥ २७।१६७ ॥
View Verse
होमान्ते बलिदानं तु कारयेद्ग्रामवास्तुषु ।
ततस्तीर्थस्य दिवसे पूर्वाह्णे होमपूजनम् ॥ २७।१६८ ॥
View Verse
कारयेत् पूर्ववत् सम्यक् साधकः परमार्थवित् ।
होमान्ते चानयेत् कुम्भात्तच्चक्षुर्मूलबेरके ॥ २७।१६९ ॥
View Verse
ततस्तु वासुदेवादीन् नयेत् पूर्ववदावृते ।
वत्सरे वत्सरे ब्रह्मन् कर्तव्यं परमं शुभम् ॥ २७।१७० ॥
View Verse
नित्यपूजाविहीनस्य प्रायश्चित्तं महोत्सवम् ।
एवं सम्पूजयेद्देवं चोत्सवे यागमण्डपे ॥ २७।१७१ ॥
View Verse
तीर्थस्य दिवसं यावत्तावत् सम्पूजयेत् क्रमात् ।
यागमण्डपपूजायामङ्कुरार्पणपूजने ॥ २७।१७२ ॥
View Verse
बलिशेषं होमशेषं पात्रशेषं तथैव च ।
अस्मिन्निवेदितं सर्वमाचार्याय प्रदापयेत् ॥ २७।१७३ ॥
View Verse
अन्यथा निष्फलं याति यजमानस्य रोगकृत् ।
तस्मात् सर्वप्रयत्नेन कारयेच्छास्त्रचोदितम् ॥ २७।१७४ ॥
View Verse
यः कारयेत्तु मतिमान् तत्फलं समवाप्नुयात् ।
यागमण्डपपूजां तु विना चेदुत्सवं कुरु ॥ २७।१७५ ॥
View Verse
केवलं होममात्रेण चाप्यलं तु महोत्सवम् ।
धन्यं यशस्यमायुष्यं सर्वपापनिकृन्तनम् ॥ २७।१७६ ॥
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां [उत्सवविधिर्नाम] सप्तविंशो ऽध्यायः ॥
View Verse

Chapter - 28

अष्टाविंशो ऽध्यायः
विष्वक्सेनः---
अमावास्योत्सवं वक्ष्ये मासि मासि मुनीश्वर ।
देवजन्मर्क्षके वापि प्रतिष्ठार्क्षमथा (-ऋक्षके?)पिवा ॥ २८।१ ॥
View Verse
यजमानस्य जन्मर्क्षे राजजन्मर्क्षके ऽपि वा ।
अयने विषुकाले वा निश्चयित्वाङ्कुरान् पुरा ॥ २८।२ ॥
View Verse
नवाहे सप्तपञ्चाहे त्र्यहैकाहमथापि वा ।
अङ्कुरार्पणमेतेषु सर्वसम्पत्सुखावहम् ॥ २८।३ ॥
View Verse
कारयेद्विधिवत् सम्यक् सायाह्ने मुनिसत्तम ।
अनङ्कुरार्पणं कार्यमनर्थमशुभावहम् ॥ २८।४ ॥
View Verse
तस्मात् सर्वप्रयत्नेन कारयेदङ्कुरार्पणम् ।
अङ्कुरार्पणकार्ये ऽस्मिन् वेलादीनि न वीक्षयेत् ॥ २८।५ ॥
View Verse
पालिकाघटिका चैव शरावश्च त्रिधा मुने ।
उक्तमस्मिन् महातन्त्रे चोत्सवे षोडशान् क्रमात् ॥ २८।६ ॥
View Verse
प्रत्यकं पालिकादीनि लक्षणैः सह नारद ।
कश्चिदस्मिन् विशेषो ऽस्ति तं विशेषं शृणु क्रमात् ॥ २८।७ ॥
View Verse
प्रत्येकं द्वादशं वापि केवलाः पालिकास्तथा ।
पालिकाषोडशं वापि द्वादशं नवकं तु वा(?) ॥ २८।८ ॥
View Verse
दूर्वाभिः सशिरीषाभिः पालिकादीन् सुवेष्टयेत् ।
तिलादिदशबीजानि मुद्गमेकमथापि वा ॥ २८।९ ॥
View Verse
पयोभिः क्षालयेत् पञ्चमन्त्रैर्वारिभिरेव वा ।
एवं बीजानि सङ्क्षाल्य कारयेदङ्कुरार्पणम् ॥ २८।१० ॥
View Verse
अङ्कुरार्पणकार्ये ऽस्मिन् सूत्रपातं न कारयेत् ।
विशेषमत्र वक्ष्यामि पद्मसूत्रविधिं शृणु ॥ २८।११ ॥
View Verse
त्रिहस्तपरिमाणं तु चैव गोमयेनानुलेपयेत् ।
तस्योर्ध्वे शालिमास्तीर्य तन्मध्ये ऽब्जमथालिखेत् ॥ २८।१२ ॥
View Verse
त्र्यहैकाहोत्सवे चैव स्नपने मुनिसत्तम ।
अमावास्यादिकार्ये ऽस्मिन् षोडशं द्वादशं तु(?) वा ॥ २८।१३ ॥
View Verse
कर्णिकादिदलान् लिख्य प्रत्येकं तत्र विन्यसेत् ।
प्रतिष्ठोत्सवयोश्चैव पवित्रारोहणे मुने ॥ २८।१४ ॥
View Verse
तथा दीक्षाविधाने तु प्रत्येकं षोडश क्रमात् ।
द्वादशं वाथ निःशेषं पालिकादींश्च कारयेत् ॥ २८।१५ ॥
View Verse
शेषकर्माणि सर्वाणि लिखेदब्जमनुत्तमम् ।
पद्मस्य दलसङ्ख्यास्तु शृणु चास्मिन् महामुने ॥ २८।१६ ॥
View Verse
पालिका षोडशं चेत्तु दलं पञ्चदशं लिखेत् ।
द्वादशं पालिका चेत्तु तादृशं पद्ममालिखेत् ॥ २८।१७ ॥
View Verse
कर्णिकदिदलेष्वेषु कारयेत् प्रथमाक्षरम् ।
अथवा मुनिशार्दूल अष्टपत्राब्जमालिखेत् ॥ २८।१८ ॥
View Verse
पूर्ववद्विलिखेद्बीजं पूर्वादिष्वक्षरान् वसून् ।
प्रोक्षयेत्तेन मन्त्रेण शाखामूलेन वा मुने ॥ २८।१९ ॥
View Verse
इन्द्रादीशावसानेषु पालिकान् नवकान् न्यसेत् ।
तेन मन्त्रेण मतिमानन् प्रोक्षयेद्गन्धवारिणा ॥ २८।२० ॥
View Verse
पुण्याहं वाचयेत्तस्मिन् ब्राह्मणैस्तन्त्रपारगैः ।
तिलादिबीजानभ्यर्च्य तण्डुलोपरि नारद ॥ २८।२१ ॥
View Verse
जितन्त इति मन्त्रेण सर्वबीजानि वापयेत् ।
गन्धपुष्पादिनाभ्यर्च्य सुगुप्ते स्थापयेत् क्रमात् ॥ २८।२२ ॥
View Verse
विशेषश्चात्र सम्प्रोक्तः शेषं साधारणं भवेत् ।
सायाह्ने वाथ पूर्वाह्णे बलिमस्मिन् समाचरेत् ॥ २८।२३ ॥
View Verse
हविषा चाक्षतैर्वापि पुष्पैर्वाथ बलिं क्षिपेत् ।
अमावास्योत्सवाद्येषु सम्प्रोक्तं चाङ्कुरार्पणम् ॥ २८।२४ ॥
View Verse
उत्सवप्रतिमां वापि स्नपनार्चामथापि वा ।
बलिबिम्बं तु वा चक्रबिम्बमेकमथापि वा ॥ २८।२५ ॥
View Verse
तद्गृहीत्वा तु मन्त्रज्ञः शुद्धस्नानं तु कारयेत् ।
पूर्वरात्रौ तु कर्तव्यः सूत्रबन्धो यथाविधि ॥ २८।२६ ॥
View Verse
वासाधिवासवत् कृत्वा मण्डपालङ्कृतिर्मुने ।
चतुरङ्गुलमुत्सेधं चतुर्हस्तप्रमाणतः ॥ २८।२७ ॥
View Verse
शालिभिर्वेदिकां सम्यक् कृत्वा मण्डपमध्यमे ।
तदर्धं तण्डुलैर्वेदिं तन्मध्ये तु समाचरेत् ॥ २८।२८ ॥
View Verse
धान्याभावे यथावेदिर्यथालाभं प्रशस्यते ।
यजमानेच्छया वेदिं कुर्यात्तन्त्रविचक्षणः ॥ २८।२९ ॥
View Verse
पूर्ववत् पद्ममालिख्य तन्मध्ये ऽष्टाक्षरं न्यसेत् ।
अष्टाक्षरस्य मध्ये तु चतुष्पादासनं न्यसेत् ॥ २८।३० ॥
View Verse
प्रोक्षयेन्मूलमन्त्रेण धर्मज्ञानादिकान् न्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य तन्मध्ये हरिमानयेत् ॥ २८।३१ ॥
View Verse
पाद्यादिदीपपर्यन्तमर्चयेत् पुरुषोत्तमम् ।
कौतुकं बन्धयेत् पश्चात् पुण्डरीकाक्षविद्यया ॥ २८।३२ ॥
View Verse
आढकत्रयसम्पूर्णं शालितण्डुलमुत्तमम् ।
सौवर्णादिषु पात्रेषु ह्येकं गृह्य विचक्षणः ॥ २८।३३ ॥
View Verse
पूरयेत्तण्डुलं शुद्धं कुन्देन्दुधवलप्रभम् ।
तण्डुलोर्ध्वे ऽब्जमालिख्य चाष्टपत्रं सकर्णिकम् ॥ २८।३४ ॥
View Verse
सौवर्णं राजतं वापि क्षौमसूत्रमथापि वा ।
कार्पाससूत्रकं वापि त्रिगुणीकृत्य नारद ॥ २८।३५ ॥
View Verse
त्रिगुणं त्रिगुणीकृत्य कर्णिकायां न्यसेत् क्रमात् ।
प्राच्यादि पश्चिमान्तेन विन्यसेत् सूत्रमुत्तमम् ॥ २८।३६ ॥
View Verse
गन्धादिदीपपर्यन्तमर्चयेत् कौतुकं क्रमात् ।
बन्धयेत् कौतुकं पश्चात् दक्षिणे भगवत्करे ॥ २८।३७ ॥
View Verse
अङ्गुष्ठानामिकाभ्यां तु आचार्यो मन्त्रमुच्चरन् ।
धूपात् भस्मं(?)समादाय रक्षां कृत्वा समन्त्रतः ॥ २८।३८ ॥
View Verse
ललाटे चाष्टदिग्बन्धं देवस्य परितः क्रमात् ।
हविर्निवेदयेत् पश्चात् साधकः परमेष्ठिना ॥ २८।३९ ॥
View Verse
अपूपादीनि सर्वाणि उपहाराणि दापयेत् ।
पानीयं च ततो दद्यात् मुखवासं निवेदयेत् ॥ २८।४० ॥
View Verse
छत्रं चामरमादर्शं देवेशाय निवेदयेत् ।
दिग्बन्धं कारयेत्तस्मिन् चक्रमन्त्रेण साधकः ॥ २८।४१ ॥
View Verse
निवेदितं तु तत्सर्वमाचार्याय निवेदयेत् ।
तस्मिनन्निवेदितं सर्वं पुरोडाशसमं मुने ॥ २८।४२ ॥
View Verse
तस्मात् सर्वप्रयत्नेन सङ्ग्रहेद्देवसन्निधौ ।
ग्रामायतनवृद्ध्यर्थं पूर्वादि परितोर्ऽचयेत् ॥ २८।४३ ॥
View Verse
कुमुदाद्याः प्रगृह्णन्तु सर्वे बलिमनुत्तमम् ।
घण्टाशब्दसमोपेतं धूपदीपसमन्वितम् ॥ २८।४४ ॥
View Verse
स्वस्तिवाचनसंयुक्तं नृततगीतसमन्वितम् ।
कारयेद्बलिदानं तु पुष्पाक्षतकुशोदकैः ॥ २८।४५ ॥
View Verse
यदिदं देवदेवस्य तोषणार्थमिहोच्यते ।
रात्रिं(रात्रौ?)विसर्जयेत् पश्चात् पूर्वोक्तैर्द्रव्यविस्तरैः ॥ २८।४६ ॥
View Verse
देवेशं चार्चयेत् सम्यक् सूक्तेन पुरुषेण च ।
वस्त्राभरणपुष्पाद्यैरलङ्कृत्य प्रयत्नतः ॥ २८।४७ ॥
View Verse
हविर्निवेदयेत् पश्चात् ताम्बूलं च तथैव च ।
आचार्यः समलङ्कृत्य होमकर्म समारभेत् ॥ २८।४८ ॥
View Verse
नित्याग्नौ चोत्सवाग्नौ वा करयेद्विधिचोदितम् ।
समिदाज्यचरून् लाजान् पञ्चविंशतिसङ्ख्यया ॥ २८।४९ ॥
View Verse
कारयेत् स्वस्वजिह्वायां समिदादि यथाक्रमम् ।
समिधो मूलमन्त्रेण छन्दोमूलेन वै घृतम् ॥ २८।५० ॥
View Verse
ततस्तु विष्णुगायत्र्या यरुं हुत्वाक्षमात्रतः ।
लाजान् वेदादिमन्त्रेण जुहुयात्तन्त्रवित्तमः ॥ २८।५१ ॥
View Verse
बलिद्रव्यं च जुहुयात् चतुर्थ्यन्तादिना मुने ।
प्रायश्चित्ताहुतिं हूयात् पञ्चोपनिषदैः क्रमात् ॥ २८।५२ ॥
View Verse
पूर्णाहुतिं ततो हुत्वा द्वादशाक्षरविद्यया ।
नित्ये महोत्सवे चैव अमावास्योत्सवादिषु ॥ २८।५३ ॥
View Verse
ब्रह्मप्रणीतमिध्मौ च नेष्यते मुनिसत्तम ।
एतत्ते कथितो होम अमावास्योत्सवादिषु ॥ २८।५४ ॥
View Verse
होमान्ते बलिदानं तु कारयेत्तन्त्रवित्तमः ।
पूर्ववद्बलिदानं तु प्रासादे तु यथाक्रमम् ॥ २८।५५ ॥
View Verse
कारयेन्मुनिशार्दूल सर्वदेवप्रियार्थकम् ।
ग्रामे वा नगरे वापि पत्तने वालये ऽपि वा ॥ २८।५६ ॥
View Verse
एवमादिषु देशेषु कारयेद्बलिमुत्तमम् ।
मार्गशुद्धिं पुरा कृत्वा पूर्वाह्णे बलिमाचरेत् ॥ २८।५७ ॥
View Verse
मध्याह्ने यत्कृतं ब्रह्मन् बलिकर्माधमं भवेत् ।
पूर्वाह्णे ग्रामवृद्धिः स्यात् सर्वसम्पत्सुखावहम् ॥ २८।५८ ॥
View Verse
मध्याह्ने त्वघनाशं तन्नगरादिषु वृद्धिकृत् ।
तस्मात् सर्वप्रयत्नेन पूर्वाह्णे बलिमाचरेत् ॥ २८।५९ ॥
View Verse
पूर्ववद्देवदेवेशमलङ्कृत्य प्रयत्नतः ।
वासिताद्यैश्च मात्राभिस्तोषितं सुमनोरमम् ॥ २८।६० ॥
View Verse
तद्बिम्बं शिबिकाद्येषु समारोप्य समाहितः ।
रथं तु शिबिकां वापि गजं वाश्ववरं तु वा ॥ २८।६१ ॥
View Verse
प्रोक्षयेद्गारुडेनैव भूषयेद्गरुडं स्मरन् ।
छत्रध्वजवितानादीन् नृत्तगेयसमन्वितम् ॥ २८।६२ ॥
View Verse
शङ्खभेर्यादिनिर्घोषं महाजनसमन्वितम् ।
ग्रामादिवीथिकायां तु मध्ये ग्रामं परिभ्रमेत् ॥ २८।६३ ॥
View Verse
ग्रामादिवास्तुदेशेषु कुमुदादीन् समर्चयेत् ।
देवागारेषु सर्वेषु महाशास्तालयेषु च ॥ २८।६४ ॥
View Verse
कूपे चैव (कूपेषु च?) तटाकेषु सङ्गमेषु च वीथितः ।
तत्तद्देशे मुनिश्रेष्ठ सर्वभूतगणान् न्यसेत् ॥ २८।६५ ॥
View Verse
देवस्य सन्निधौ तस्मिन् बलिदानं समाचरेत् ।
पायसान्नं गुलोपेतं तुलसीपत्रसंयुतम् ॥ २८।६६ ॥
View Verse
करवीरसमायुक्तं श्वेतरक्ताक्षतैर्युतम् ।
तिलोदकसमोपेतं बलिद्रव्यैश्च संयुतम् ॥ २८।६७ ॥
View Verse
कृमिकीटपतङ्गाद्यैः स्पर्शिते ऽस्मिन् प्रमादतः ।
बलिद्रव्ये मुनिश्रेष्ठ सन्त्याज्यं देवतार्चने ॥ २८।६८ ॥
View Verse
अक्षतैर्वाथ पुष्पैर्वा यथासम्भवमर्चयेत् ।
कारयेद्वास्तुदेशेषु तत्तन्मन्त्रमनुस्मरन् ॥ २८।६९ ॥
View Verse
उत्तर्यीष्णीषसंयुक्तः आचार्यो बलिमाचरेत् ।
बल्यन्ते परमात्मानमर्घ्यपाद्यादिनार्चयेत् ॥ २८।७० ॥
View Verse
सर्वमङ्गलकार्ये ऽस्मिन् मङ्गलालापनं कुरु ।
तृतीयसवने गत्वा देवागारे मुनीश्वर ॥ २८।७१ ॥
View Verse
पाद्यादिसप्तकं दत्वा ततः स्नपनमारभेत् ।
मण्डपं समलङ्कृत्य शालिना वेदिमाचरेत् ॥ २८।७२ ॥
View Verse
तत्र मध्ये तु मतिमान् कलशान् विनिवेशयेत् ।
शाल्मलीकिंशुकापुष्पसङ्काशान् सूत्रवेष्टितान् ॥ २८।७३ ॥
View Verse
वेदिकोपरि संस्थाप्य चतुर्वेदादिमन्त्रतः ।
तेषां मध्ये मुनिश्रेष्ठ द्रव्याणि विनिवेशयेत् ॥ २८।७४ ॥
View Verse
पाद्यं तु मध्यमे भागे पूर्वभागेर्ऽघ्यमेव च ।
याम्ये त्वाचमनीयं स्याद्गन्धं वारुणगोचरे ॥ २८।७५ ॥
View Verse
पुष्पतोयं न्यसेत् सोमे कृशानौ तण्डुलोदकम् ।
नैरृते दधि विन्यस्य वायव्ये क्षीरमेव च ॥ २८।७६ ॥
View Verse
ऐशान्ये विन्यसेदाज्यं गन्धयुक्तं शुभं मुने ।
एवं तु नवकं स्थाप्य कूर्चांस्तेषु विनिक्षिपेत् ॥ २८।७७ ॥
View Verse
चक्रिकां स्थापयेत्तेषु गन्धपुष्पं विनिक्षिपेत् ।
ततस्तु रजनीचूर्णं पूर्वे वा चोत्तरे ऽथ वा ॥ २८।७८ ॥
View Verse
स्थापयित्वार्चयेत्तस्मिन् गन्धपुष्पाक्षतैः क्रमात् ।
कलशान् नववस्त्रैस्तु वेष्टयेत् प्रणवेन तु ॥ २८।७९ ॥
View Verse
पुण्याहं वाचयेत् सम्यग्याथातथ्येन नारद ।
गन्धपुषपादिनाभ्यर्च्य तोरणे ऽष्टघटान् न्यसेत् ॥ २८।८० ॥
View Verse
पूर्वादि चोत्तरान्तेषु द्वौ द्वौ तु कलशौ न्यसेत् ।
गन्धतोयेन सम्पूर्य गन्धपुष्पादिनार्चयेत् ॥ २८।८१ ॥
View Verse
स्वनाम्ना चैव सर्वेषां मन्त्रं तु मुनिपुङ्गव ।
षडक्षरमनुस्मृत्य साधकः परमार्थवित् ॥ २८।८२ ॥
View Verse
पाद्याद्यैः कलशैः सर्वैः देवेशमभिषेचयेत् ।
स्नपनान्ते तु मन्त्रज्ञो रजनीमभिषेचयेत् ॥ २८।८३ ॥
View Verse
शुद्धस्नानं ततः कृत्वा अलङ्कृत्य जनार्दनम् ।
स्नानोदकं तो गृह्य वैष्णवान् प्रोक्षयेद्बुधः ॥ २८।८४ ॥
View Verse
तं गृहीत्वा तु भक्तानां सर्वेषां मूर्ध्नि निक्षिपेत् ।
गङ्गास्नानफलं पुण्यं सर्वपापप्रणाशनम् ॥ २८।८५ ॥
View Verse
सर्वसम्पत्समृद्धिः स्यादिति शास्त्रस्य निश्चयः ।
पूर्ववद्यानमध्ये तु देवमारोप्य मन्त्रवित् ॥ २८।८६ ॥
View Verse
पुराणोक्ततटाके वा नदीतीरे ऽथवा मुने ।
देवदेवं समानीय मूलमन्त्रेण साधकः ॥ २८।८७ ॥
View Verse
स्नापयेत्तेयमध्ये तु पूर्ववन्मुनिपुङ्गव ।
महाजनान् समाहूय दद्यात्तीर्थमनुत्तमम् ॥ २८।८८ ॥
View Verse
स्वस्तिवाचनसंयुक्तं शङ्खदुन्दुभिसंयुतम् ।
देवालयं क्रमाद्गत्वा द्वारमाश्रित्य नारद ॥ २८।८९ ॥
View Verse
अर्घ्यपाद्यादिनाभ्यर्च्य रक्षां कुर्वीत मन्त्रवित् ।
अन्नेन वाथ पुष्पैर्वा अष्टदिग्बलिमाचरेत् ॥ २८।९० ॥
View Verse
सुदर्शनेन मन्त्रेण पूर्वादिषु यथाक्रमम् ।
देवागारं समाश्रित्य स्वस्तिवाचनपूर्वकम् ॥ २८।९१ ॥
View Verse
पूर्ववद्देवमभ्यर्च्य महान्नं च निवेदयेत् ।
आचार्यं पूजयेत् पश्चात् यथाशक्त्यत्र नारद ॥ २८।९२ ॥
View Verse
अपूपादीनि चान्यानि उपहाराणि दापयेत् ।
ताम्बूलं दापयेत् पश्चात् विधिवत् परमेष्ठिना ॥ २८।९३ ॥
View Verse
शेषकर्माणि सर्वाणि राजवत् प्रतिकारयेत् ।
यः कारयेत्तु मतिमान् इहलाके श्रियं लभेत् ॥ २८।९४ ॥
View Verse
स याति विष्णुसालोक्यं विष्णुसारूप्यमेव च ।
अथ वा मुनिशार्दूल तीर्थस्नानविधिं शृणु ॥ २८।९५ ॥
View Verse
नदीपुलिनतीरे तु मण्डपं कारयेत् क्रमात् ।
अथ वा सुप्रपां कृत्वा चतुर्द्वारसमन्विताम् ॥ २८।९६ ॥
View Verse
वासाधिवासने प्रोक्तं प्रपालक्षणमुत्तमम् ।
एवं लक्षणसंयुक्तां प्रपां कृत्वा मुनीश्वर ॥ २८।९७ ॥
View Verse
ऐन्द्रादीशानपर्यन्तं गोमयेनानुलेपयेत् ।
पूर्वोक्तशालीनास्तीर्य वितानाद्यैरलङ्कृतम् ॥ २८।९८ ॥
View Verse
पुष्पमालादिसंयुक्तं तन्मध्ये कलशान् न्यसेत् ।
पूर्ववन्नवकं स्थाप्य पूर्ववत् स्नानमाचरेत् ॥ २८।९९ ॥
View Verse
तीर्थस्नानं ततो ब्रह्मन् महाजनसमन्वितम् ।
नद्यां ह्रदे तटाके वा देवेशं स्नानमाचरेत् ॥ २८।१०० ॥
View Verse
तीरे देवं समानीय शुद्धस्नानं समाचरेत् ।
अर्घ्यादिनार्चयेद्देवमलङ्कृत्य प्रयत्नतः ॥ २८।१०१ ॥
View Verse
शेषकर्माणि सर्वाणि अस्मिन् पूर्ववदाचरेत् ।
द्विप्रकारं मया प्रोक्तं तीर्थस्नानं मुनीश्वर ॥ २८।१०२ ॥
View Verse
साधकेच्छानुरूपेण यथायोगं समाचरेत् ।
तीर्थस्नानविधिः प्रोक्तः पूर्वपूर्वा गरीयसी ॥ २८।१०३ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तममावास्योत्सवं परम् ।
अन्यथा निष्फलं याति रोगवृद्धिर्धनक्षयः ॥ २८।१०४ ॥
तस्मात् सर्वप्रयत्नेन कारयेद्विधिपूर्वकम् ॥
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां अमावास्योत्सवविधिर्नामाष्टाविंशो ऽध्यायः ॥
View Verse

Chapter - 29

एकोनत्रिंशो ऽध्यायः
विष्वक्सेनः---
राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम् ।
ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ॥ २९।१ ॥
View Verse
माघमासे ऽथवा ब्रह्यन् राघवोत्सवमुत्तमम् ।
कृत्वाङ्कुरार्पणं पूर्वं ततश्चोत्सवमाचरेत् ॥ २९।२ ॥
View Verse
स्नपनं विधिवत् कृत्वा सायाह्ने राघवस्य तु ।
आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकैः ॥ २९।३ ॥
View Verse
गोदानं भूमिदानं च सुवर्णं रजतं तथा ।
पश्वाज्यतिलदानं च गोग्रासं च यथाविधि ॥ २९।४ ॥
View Verse
कौतुकं बन्धयेत् पश्चात् सुपुण्याहपुरःसरम् ।
होमं चैव विधानेन कारयेत् साधकोत्त्मः ॥ २९।५ ॥
View Verse
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
प्रत्येकमष्टाविंशश्च चरुहोममथाचरेत् ॥ २९।६ ॥
View Verse
षोडशर्चं च पुंसूक्तमतो देवाः षडर्चकम् ।
पञ्चोपनिषदं चैव विष्णोर्नुकमिति त्र्यृचा ॥ २९।७ ॥
View Verse
द्वादशाक्षरमन्त्रेण वौषडन्तेन होमयेत् ।
एतान्(?)पूर्णाहुतिं हुत्वा होमशेषं समापयेत् ॥ २९।८ ॥
View Verse
ततो होमावसाने तु पुण्याहं कारयेत् क्रमात् ।
ततस्तु दापयेत्तत्र होमपुण्याहदक्षिणाम् ॥ २९।९ ॥
View Verse
आत्मन्यारोपयेदग्निमात्मानं चार्पयेद्धरौ ।
राघवं पूजयेत् पश्चात् राममन्त्रेण मन्त्रवित् ॥ २९।१० ॥
View Verse
हविर्निवेदयेत् पश्चात् पञ्चधा परमेष्ठिना ।
ओदनं कृसरं गौल्यं पायसं दधिसक्तुकम् ॥ २९।११ ॥
View Verse
पानीयं च सुगन्धाढ्यं मुखवासं च दापयेत् ।
विविधानि च भक्ष्याणि विविधानि फलानि च ॥ २९।१२ ॥
View Verse
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
गेयनृत्तविनोदाद्यै रात्रिशेषं समापेयत् ॥ २९।१३ ॥
View Verse
प्रभातायां तु शर्वर्यामलङ्कारं तु दापयेत् ।
अलङ्कृत्य जनान् सर्वान् विष्णुप्रियतमान् समान् ॥ २९।१४ ॥
View Verse
तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वशः ।
हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ॥ २९।१५ ॥
View Verse
जलयुक्ताश्च शतशो जलमिश्रैरितस्ततः ।
अन्योन्यं चिक्षु(-क्षि?)पुः सर्वे नृत्तगीतसमन्विताः ॥ २९।१६ ॥
View Verse
चित्रध्वजवितानैश्च चामरस्तालवृन्तकैः ।
शङ्खदुन्दुभिनिर्घोषैः क्ष्वेलितास्फोटितैरपि ॥ २९।१७ ॥
View Verse
नृत्तगेयैश्च वाद्यैश्च भक्तैर्भागवतैस्तथा ।
जयशष्दरवैश्चैव युक्तं कुर्यान्महोत्सवम् ॥ २९।१८ ॥
View Verse
तैलगन्धजलैर्युक्तं रजनीचूर्णसंयुतम् ।
ग्रामं परिभ्रमीकृत्य गच्छेयुः पुनरालयम् ॥ २९।१९ ॥
View Verse
स्नापयेद्देवदेवं तं यथाविभवविस्तरम् ।
वस्त्राभरणगन्धाद्यैरलङ्कृत्य प्रयत्नतः ॥ २९।२० ॥
View Verse
महाहविर्निवेद्याथ भक्तानां चैव पूजनम् ।
एवं यः कारयेद् भक्त्य चोत्सवं राजजन्मनि ॥ २९।२१ ॥
स याति विष्णुसालोक्यं क्रमात् पारिषदेश्वरः ॥
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव- विधिर्नाम एकोनत्रिंशो ऽध्यायः
View Verse

Chapter - 30

त्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि कृष्णजन्मदिनोत्सवम् ।
सर्वलोकहितार्थाय सम्भूतं यादवे कुले ॥ ३०।१ ॥
View Verse
देवक्यां वसुदेवस्य देवानां हितकाम्यया ।
श्रावणे कृष्णपक्षे च रोहिण्यामष्टमे तिथौ ॥ ३०।२ ॥
View Verse
अङ्कुरार्पणपूर्वं तु सप्तपञ्चदिने ऽथवा ।
मध्यरात्रे तु पूर्वे तु कृष्णबिम्बमनुत्तमम् ॥ ३०।३ ॥
View Verse
नवनीतनटं वापि सर्पनृत्तमथापि वा ।
चतुर्भुजं वापि तथा पूजयेत्तद्दिने मुने ॥ ३०।४ ॥
View Verse
प्रासादपूर्वभागे तु मण्डपं चतुरश्रकम् ।
वितानध्वजसंयुक्तं दर्भमालासमावृतम् ॥ ३०।५ ॥
View Verse
पुष्पमाल्यैरलङ्कृत्य मुक्तादामै(?)रलङ्कृतम् ।
इन्द्रादीशानपर्यन्तं मार्जनं प्रणवेन तु ॥ ३०।६ ॥
View Verse
प्रोक्षयेद्गन्धतोयेन द्वादशाक्षरविद्यया ।
गोमयेन समालिप्य पूर्वादिक्रमयोगतः ॥ ३०।७ ॥
View Verse
प्रदीपं च चतुर्दिक्षु दीपयेत् साधकः क्रमात् ।
पालिकाभिरलङ्कृत्य मण्डपस्य समन्ततः ॥ ३०।८ ॥
View Verse
मण्डपस्य च मध्ये तु चतुष्पादासनं न्यसेत् ।
तत्रोर्ध्वे छादनं कुर्यात् सितपुष्पं विनिक्षिपेत् ॥ ३०।९ ॥
View Verse
अर्चयेद्गन्धपुष्पैस्तु धर्मादिक्रमयोगतः ।
बिम्बं तु स्थापयेत्तत्र ब्राह्मणैः स्वस्तिवाच्य च ॥ ३०।१० ॥
View Verse
कौतुकं बन्धयित्वा तु ब्राह्मणनामनुज्ञया ।
अङ्गुष्ठानामिकाभ्यां तु द्वादशाक्षरविद्यया ॥ ३०।११ ॥
View Verse
मुखवासं ततो दद्यात् तालवृन्तैश्च वीजयेत् ।
छत्रचामरसंयुक्तं नृत्तगीतसमन्वितम् ॥ ३०।१२ ॥
View Verse
वीणावेणुसमायुक्तं कौतुकं बन्धयेद्धरेः ।
शङ्खदुन्दुभिसंयुक्तं स्वस्तिवाचनपूर्वकम् ॥ ३०।१३ ॥
View Verse
पादुकाद्वयसंयुक्तं शयने सन्निवेशयेत् ।
पूर्ववच्छयनं कल्प्य तन्मध्ये देवमानयेत् ॥ ३०।१४ ॥
View Verse
दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् ।
अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तमः ॥ ३०।१५ ॥
View Verse
तथैव विन्यसेद्देवं विष्णुमन्त्रेण साधकः ।
पाद्यार्घ्याचमनीयं च गन्धपुष्पं तथैव च ॥ ३०।१६ ॥
View Verse
पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगैः ।
आचार्यः शुक्लवासास्तु शुक्लयज्ञोपवीतवान् ॥ ३०।१७ ॥
View Verse
ऊर्ध्वपुण्ड्रधरश्चैव सपवित्रकरस्तथा ।
आजानुपादौ प्रक्षाल्य द्विर्द्विराचमनीयकम्(?) ॥ ३०।१८ ॥
View Verse
देवस्य दक्षिणे पार्श्वे उत्तराभिमुखासने ।
प्राणायामत्रयं कृत्वा सृष्टिन्यासं तथैव च ॥ ३०।१९ ॥
View Verse
तथैव देवं विन्यस्य मन्त्रमष्टाक्षरं मुने ।
सौवर्णादिघटं गृह्य शुद्धतोयेन मन्त्रवित् ॥ ३०।२० ॥
View Verse
तत्पात्रं क्षालयेत् पश्चात् विष्णुगायत्रिया मुने ।
तोयपूर्णं सुगन्धं च सूत्रवस्त्रसमन्वितम् ॥ ३०।२१ ॥
View Verse
धान्यराशौ विनिक्षिप्य तस्य मध्ये महामुने ।
मूलबेरात्ततो देवं ध्यायन्नारायाणं प्रभुम् ॥ ३०।२२ ॥
View Verse
श्यामलं बालवपुषं कृष्णबेरमुनस्मरन् ।
तत्तोयं प्रतिमामूर्ध्नि सेचयेन्मूलविद्यया ॥ ३०।२३ ॥
View Verse
कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुनः पुनः ।
शयने शाययित्वा तु तं देवं मूलविद्यया ॥ ३०।२४ ॥
View Verse
तथैव बलभद्रं च शाययेत्तस्य मन्त्रतः ।
वस्त्रैराच्छादयेद्देवं सितपुष्पैः समर्चयेत् ॥ ३०।२५ ॥
View Verse
ततो नारायणं सूक्तमुच्चरेत् साधकोत्तमः ।
शङ्खदुन्दुभिसंयुक्तं वेदाध्ययनसंयुतम् ॥ ३०।२६ ॥
View Verse
वीणावेणुसमायुक्तं झल्लरीमद्दलैर्युतम् ।
वारसैरन्ध्रिसंयुक्तमाचार्यो मन्त्रमुच्चरन् ॥ ३०।२७ ॥
View Verse
शङ्खादिघोषसंयुक्तं ततो देवं समुद्धरेत् ।
गन्धपुष्पं विनिक्षिप्य नमस्कृत्य पुनः पुनः ॥ ३०।२८ ॥
View Verse
श्रीरमाज्येन संयुक्तं भलभद्राय दापयेत् ।
वैष्णवेभ्यः सदस्यानां सर्वेषां च प्रदापयेत् ॥ ३०।२९ ॥
View Verse
क्षीरं दधिघृतं चैव प्रदद्याद्बलकृष्णयो ।
कदलीपनसं चैव जम्ब्वादिफलमेव च ॥ ३०।३० ॥
View Verse
तदन्ते देवदेवस्य दापयेन्मूलविद्यया ।
तैलं च रजनीचूर्णं तावुभौ मूर्ध्नि सेचयेत् ॥ ३०।३१ ॥
View Verse
शेषं च वैष्णवेभ्यस्तु दद्यात् सर्वमथापि वा ।
शङ्खदुन्दुभिनिर्घोषैः तूर्यवेणुसमन्वितैः ॥ ३०।३२ ॥
View Verse
नृत्तगीतसमायुक्तं ब्राह्मणैः स्वस्तिवाचनम् ।
रामकृष्णो तु संस्थाप्य चासने पुष्पसंयुते ॥ ३०।३३ ॥
View Verse
अर्घ्यपाद्यादिनाभ्यर्च्य होमकर्म समाचरेत् ।
नित्याग्नौ वाथ पूर्वस्मिन् कारयेद्वा महामुने ॥ ३०।३४ ॥
View Verse
वैष्णवाग्नौ तु जुहुयात् समिदाज्यचरूणि च ।
मूलमन्त्रेण मन्त्रज्ञः पञ्चविंशतिसङ्ख्यया ॥ ३०।३५ ॥
View Verse
प्रत्येकं तु मुनिश्रेष्ठ पश्चाच्छान्तिं समाचरेत् ।
मधुना पयसा दध्ना हूयतेन(?) घृतेन च ॥ ३०।३६ ॥
View Verse
तथैव जुहुयान्मन्त्रैः पूर्णाहुतिमथाचरेत् ।
होमान्ते देवदेवेशं स्नापयेद्विधिचोदितम् ॥ ३०।३७ ॥
View Verse
कृष्णगन्धेन काष्ठने उशीरैश्चन्दनेन च ।
रजनीद्वयचूर्णेन पुनः कृष्णतिलैस्तथा ॥ ३०।३८ ॥
View Verse
सिद्धार्थसर्षपैश्चैव सर्वधान्यानि साधकः ।
चूर्णोकृत्य मुनिश्रेष्ठ स्नपनान्ते ऽभिषेचयेत् ॥ ३०।३९ ॥
View Verse
ततस्तु रजनीचूर्णं स्नापयेद्देवमूर्धनि ।
पुष्पं दत्वा नमस्कृत्य मङ्गलालापनं कुरु ॥ ३०।४० ॥
View Verse
शुद्धस्नानं ततः कृत्वा गन्धतोयेन साधकः ।
वस्त्राभरणमाल्यैश्च कृत्वा गन्धानुलेपनम् ॥ ३०।४१ ॥
View Verse
अर्चयेद्विधिवद्देवं गन्धपुष्पादिभिस्तथा ।
अलङ्कृत्य ततो देवं नीराजनसमन्वितम् ॥ ३०।४२ ॥
View Verse
गोदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।
सर्वदानं ततो दद्यात् ब्राह्मणेभ्यो यथाक्रमम् ॥ ३०।४३ ॥
View Verse
तदन्ते वैष्णवान् पूज्य भोजनाच्छादनादिभिः ।
ताम्बूलं वाथ सर्वेषां यथावित्तानुसारतः(?) ॥ ३०।४४ ॥
View Verse
हिरण्यं वाथ वस्त्रं वा गावो वा धान्यमेव वा ।
आचार्याय प्रदातव्यमतिसम्पत्तिकारणम् ॥ ३०।४५ ॥
View Verse
दानस्यानन्तरं देवमर्घ्यपाद्यादिनार्चयेत् ।
पायसं कृसरं गौल्यं शुद्धान्नं च पृथक् पृथक् ॥ ३०।४६ ॥
View Verse
कदलीपनसैर्युक्तं देवेशाय निवेदयेत् ।
पानीयाचमनीयं च दद्याद्देवाय भक्तितः ॥ ३०।४७ ॥
View Verse
भोज्यासनं व्यपोह्याशु देवं भोगासने नयेत् ।
देवस्याचमनं दद्यान्मुखवासं प्रदापयेत् ॥ ३०।४८ ॥
View Verse
पूर्वमालां विसृज्याथ चान्मालां तु दापयेत् ।
देवदेवमलङ्कृत्य मुखवासं पुनर्ददेत् ॥ ३०।४९ ॥
View Verse
नृत्तगीतसमायुक्तं वीणावेणुसमन्वितम् ।
देवागारं परिभ्रम्य गर्भगेहे नयेद्धरिम् ॥ ३०।५० ॥
View Verse
प्रभातायां तु शर्वर्यामुत्सवं कारयेत्ततः ।
ग्रामे वा नगरे वापि मार्गशुद्धिं च कारयेत् ॥ ३०।५१ ॥
View Verse
शिबिकां वा रथं वापि कुञ्जरं वा हयं तु वा ।
वस्त्रपुष्पैरलङ्कृत्य माल्यैश्च विविधैरपि ॥ ३०।५२ ॥
View Verse
एवं देवमलङ्कृत्य स्थापयेद्यानमध्यमे ।
ग्रामप्रदक्षिणं कृत्वा गेयनृत्तादिसंयुतम् ॥ ३०।५३ ॥
View Verse
पटहैस्तालसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।
तैलैश्चन्द्रनसंयुक्तं रजनीचूर्णमेव च ॥ ३०।५४ ॥
View Verse
दापयेद्वैष्णवानां तु सदस्यानां विशेषतः ।
पुनः प्रदक्षिणं कृत्वा देवालयमनुत्तमम् ॥ ३०।५५ ॥
View Verse
विधिवत् स्नपनं कृत्वा देवदेवं सनातनम् ।
महाहविर्निवेद्याथ गर्भागारे नयेद्धरिम् ॥ ३०।५६ ॥
View Verse
इति सङ्क्षेपतः प्रोक्तः कृष्णजन्मदिनोत्सवः ।
सर्वपापक्षयकरः सर्वयज्ञफलप्रदः ॥ ३०।५७ ॥
सायुज्यफलमाप्नोति सत्यमेतन्न संशयः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां जयन्त्युत्सवविधानं नाम त्रिंशो ऽध्यायः ॥
View Verse

Chapter - 31

एकत्रिंशो ऽध्यायः
नारदः---
पवित्रारोपणे पुष्पयागे प्रति- ष्ठाद्युत्सवे दीक्षाविधानादिकाले ।
यदुक्तं पुरा देवास (देवसे?) नेश वर्णैः कथं मण्डलं वर्तिते तत्र काले ॥ ३१।१ ॥
View Verse
विष्वक्सेनः---
मुने देशकालोक्तवर्णादिहीने यथा कर्तृरिच्छानुरूपं तु कार्या ।
क्रिया साधकैस्ते प्रवक्ष्याम्युपायं मुने तत्त्वतस्तच्छृणुष्वादिगुप्तम् ॥ ३१।२ ॥
View Verse
सरोजं त्वनामिकया साधकः संविलिप्ते स्वहस्तविस्तारदीर्घे ।
शुचौ भूतले द्रोणशाल्यक्षतसम्- कीर्णे सकर्णिकाष्टपत्रं यथेच्छतम् ॥ ३१।३ ॥
View Verse
नारदः---
श्रुत्वानन्दनभेदादनन्तार्चनादि- क्रिया वाहिनीनाथ युष्मत्प्रसादात् ।
गुरो मूलमन्त्रप्रभावं मनीषा मम श्रोतुमासीज्जगत्कारणस्य ॥ ३१।४ ॥
View Verse
विष्वक्सेनः---
शृणुष्व प्रभावो ऽस्य पद्मासने- नाप्यचिन्त्यश्रुतौ बन्धमूलस्य ।
अष्टाक्षरस्येयमीदृक् तथा येनाभिभाषितुः शक्तिर्मुने भो ॥ ३१।५ ॥
View Verse
तथा प्रसादाद्यथा देवदेवः स्वयं भ्रान्तिनाशाय भक्तार्तिहारी ।
यदाज्ञप्तवान् मूलविद्याप्रभावं मुने वैष्णवत्वात्तवाहं ब्रवीमि ॥ ३१।६ ॥
View Verse
स्वार्थे परार्थेर्ऽचकस्त्वर्चनायै सुप्ततद्द्वयं पूतदेशे निषण्णः ।
ततोपायतया भक्तितत्त्वार्णबीज- च्छन्दोमुनिक्षेत्रदेवे च मानवाः ॥ ३१।७ ॥
View Verse
स्वयं वा यथाशक्तिजप्त्वाङ्गुलीभिः समस्ताभिरामृष्टदृग्देशदेहः ।
भवेद्धूतपापः कृतार्थेर्थाधी स्वयं देववत् पूजितश्चैव भक्तैः ॥ ३१।८ ॥
View Verse
आवाहनाद्यर्चनाङ्गेन युक्ता वियुक्तपापा मूलमन्त्रप्रभावात् ।
विरिञ्चात्मजार्चा कृता प्रीतिकारि- ण्यनन्तस्य विष्णोरशेषाण्डयोनेः ॥ ३१।९ ॥
View Verse
नारदः---
आवाहनं नाम मन्त्रेण लक्ष्मी- धरस्याभिमुखस्य क्रियासङ्गस्य ।
मन्त्रात्मनो मन्त्रकर्तुः प्रतीते- ष्वनेनैव संस्थापनादि प्रियास्य ॥ ३१।१० ॥
View Verse
हरिर्जङ्गमेश्वरतस्तानि काले स्थितो नित्यमाहूतये यत्तदा किम् ।
कथं मूलबेरस्थितो वासुदेवो नरेण तु काचोत्सवादिप्रतीतेः ॥ ३१।११ ॥
View Verse
वदानीकिनीनाथ गुह्यं परिष्ठं गुरो संशयं भक्तिमानित्यमुष्मिन् ।
विष्वक्सनेः---
प्रश्नं त्वदन्यः कथं प्रष्टुमीष्टे मुने ऽनेन तुष्टः प्रवक्ष्यामि तुभ्यम् ॥ ३१।१२ ॥
View Verse
हरेः पूजनाङ्गोपचारे यत्त- त्वावाहनं त्वत्सद्भावहेतोः ।
मुने यौगपद्येन सान्निध्यमस्मिन् क्रमेणेति वा संशयः प्रादुरासीत् ॥ ३१।१३ ॥
View Verse
एकप्रदीपोत्थिता दीपमाला दापे यथा यौगपद्येन देवः ।
तथा वासुदेवो लिखेत्तु प्रतीके मुने सन्निधिं दास्यतीति प्रतीतिः ॥ ३१।१४ ॥
View Verse
अथान्यो महाभोगयोगप्रदायी प्रजानां तथा वृद्धिदो मुक्तिदश्च ।
परं मूलमन्त्रेण संस्मृत्य पञ्चा- ङ्गुलं हृदि स्पृश्य बिम्बस्य मुद्राम् ॥ ३१।१५ ॥
View Verse
प्रदृश्याङ्गुलिसञ्ज्ञितां पादमूले प्रणम्याक्षतं वापि पुष्पं प्रकीर्य ।
मुने विद्ययाष्टार्णयैवाथ चार्घ्यं पुनः पाद्याचमनं गन्धपुष्पम् ॥ ३१।१६ ॥
View Verse
ततो धूपदीपं प्रदायाथ भूतान्नं निवेद्यान्तरावरणं कल्प्य सम्यक् ।
तथावरणानां यथापूर्वमर्घ्या- द्यनेनैव मन्त्रेण पुष्पं प्रदाय ॥ ३१।१७ ॥
View Verse
निवेद्याथ ताम्बूलिकामच्युताय प्रदीप्यो बलिं होममन्ते विधाय ।
समस्ताधिकः सर्वसिद्धिप्रदायी नृपादिप्रियो योगसिद्धिं लभेत ॥ ३१।१८ ॥
View Verse
नारदः---
एकः प्रधानः कथं पूज्यते स्वे- पदे चावृतासने वासुदेवः ।
गुरो विष्णुसेनापते वक्तुमर्ह- स्यशेषेण मे संशयच्छेदनाय ॥ ३१।१९ ॥
View Verse
विष्वक्सेनः---
यथा पावकस्थानभेदात् क्रियैको मखेष्विज्यते वासुदवो द्विजेन्द्रैः ।
तथा विष्टरे स्वे पदे च वृताव- प्यनन्तोच्यते स्थानभेदेन भेदः ॥ ३१।२० ॥
इति श्रीपञ्चरात्रे विष्वक्सेनसंहितायां [मण्डलादिविधिर्नाम] एकत्रिंशो ऽध्यायः ॥
View Verse

Chapter - 32

द्वात्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि हेतिराजस्य लक्षणम् ।
शृणु नारद गुह्येन(?) उत्तमादि क्रमेण तु ॥ ३२।१ ॥
View Verse
सहस्रारं महाचक्रं शतारं वार्धमेव वा ।
षोडशारं तु वा चक्रं द्वादशारमथापि वा ॥ ३२।२ ॥
View Verse
कारयेन्मुनिशार्दूल सौवर्णादिक्रमेण तु ।
स्वर्णेन रजतेनापि ताम्रलोहेन वा मुने ॥ ३२।३ ॥
View Verse
कारयेद्धेतिराजानमुत्तमाधममध्यतः ।
उत्तमं हेतिराजस्य लक्षणं प्रथमं शृणु ॥ ३२।४ ॥
View Verse
अङ्गुष्ठाङ्गुलमानेन द्वादशाङ्गुलमायतम् ।
भ्रामयेच्चक्ररूपेण विस्तारायामतादृशम् ॥ ३२।५ ॥
View Verse
अथवात्र मुनिश्रेष्ठ मानमार्गं विधीयते ।
ग्रामराजानुकूलेन नक्षत्रेणैव कारयेत् ॥ ३२।६ ॥
View Verse
शिल्पशास्तानुरूपेण कारयेच्छिल्पवित्तमैः ।
षड्दिग्वाथ चतुर्दिग्वा लिखेज्ज्वालाग्निरूपिणाम् ॥ ३२।७ ॥
View Verse
चक्रेण द्विगुणीकृत्य दण्डाकारायतं भेवत् ।
षडङ्गुलं तु तन्नाहं पद्ममष्टाङ्गुलोच्छ्रयम् ॥ ३२।८ ॥
View Verse
विंशत्यङ्गुलमानं तत् पादायतं क्रमात् सदा ।
कर्णिकां द्वादशाङ्गुल्या कारयेत् सुमनोरमाम् ॥ ३२।९ ॥
View Verse
कारयेच्चक्रमध्ये तु शक्तिं तद्वैष्णवं महत् ।
सुवृत्तान्तर्गतं ध्यात्वा तत्तन्मूर्त्यनुसारतः ॥ ३२।१० ॥
View Verse
रविरग्निश्च रुद्रश्च ब्रह्माविष्णुस्तथैव च ।
कालश्च बडबाग्निस्तु शिखायामग्निरेव च ॥ ३२।११ ॥
View Verse
कालरूपस्तु दण्डे च ज्योतिश्चक्रं तु तत्प्रभा(?) ।
अष्टशक्तिसमोपेतं चक्रं तं देवमाकृतिम् ॥ ३२।१२ ॥
View Verse
एवं तु हेतिराजस्य लक्षणं कथितं मया ।
मध्यमं हेतिराजस्य लक्षणं शृणु सुव्रत ॥ ३२।१३ ॥
View Verse
दशाङ्गुलसमोपेतं भ्रामयेच्चक्रवत् क्रमात् ।
चक्रदण्डायतं सम्यक् अष्टाङ्गुलमुदाहृतम् ॥ ३२।१४ ॥
View Verse
चतुरङ्गुलनाहं तत्पद्मं पञ्चाङ्गुलोच्छ्रयम् ।
पद्मस्य पादविस्तारं ततः पञ्चदशाङ्गुलम् ॥ ३२।१५ ॥
View Verse
पादानुरूपतः कृत्वा कर्णिकां मुनिसत्तम ।
एवं तु मध्यमं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ ३२।१६ ॥
View Verse
अष्टाङ्गुलस्य विस्तारं भ्रामयेच्चक्ररूपकम् ।
चतुरङ्गुलमायामं गदारूपं तु कारयेत् ॥ ३२।१७ ॥
View Verse
त्रियङ्गुलं तु नाहं तत्पादोत्सेधं तथा भवेत् ।
चतुर्दशाङ्गुलं पद्मं पादविस्तारमेव च ॥ ३२।१८ ॥
View Verse
कर्णिकापरिमाणं यत् कारयेदनुरूपतः ।
पूर्ववत् कारयेद्वापि दण्डाकारस्य लक्षणम् ॥ ३२।१९ ॥
View Verse
मध्यमाधमचक्रे ऽस्मिन् नालं कर्तृवशात् कुरु ।
उत्तमादिक्रमं प्रोक्तं शेषं साधारणं भवेत् ॥ ३२।२० ॥
View Verse
भक्तनां दर्शनार्थं यत् चक्रं तु सुमनोरमम् ।
तथैव कारयेद्विद्वान् हेतिराजस्य लक्षणम् ॥ ३२।२१ ॥
View Verse
सौवर्णं राजतं चेत्तु कर्मार्चादि महामुने ।
बल्यर्थं हेतिराजानं ताम्रैर्वाप्यथ कारयेत् ॥ ३२।२२ ॥
View Verse
मिश्रलोहेन वा कुर्यात् शास्त्रदृष्टेन नारद ।
बल्युत्सवं तथार्थर्ं(-चा?) तु स्नपनार्थं महामुने ॥ ३२।२३ ॥
View Verse
चक्रमूर्तिरिह प्रोक्ता सर्वसम्पत्सुखावहा ।
अथवा बलिबेरेण कारयेत्तन्त्रवित्तमः ॥ ३२।२४ ॥
View Verse
दिवा बिम्बेन कर्तव्यं रात्रौ चक्रेण कारयेत्(?) ।
चक्राभावे द्विसन्ध्यायां बलिबेरेण कारयेत् ॥ ३२।२५ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं सर्वं वक्तुं न शक्यते ।
पवित्रारोहणे चैव पुष्पयागे समन्ततः ॥ ३२।२६ ॥
View Verse
तथा दीक्षावसाने तु सुप्रतिष्ठात्मपूजने ।
एवमेव तु कर्तव्यं चक्रं भूमौ तु मण्डलम् ॥ ३२।२७ ॥
View Verse
दण्डाकारं विना तस्मिन् निशि चूर्णेन पूज(-र?)येत् ।
प्रथमं चक्रमध्ये तु द्वितीयं चारु(-र?) मध्यमे ॥ ३२।२८ ॥
View Verse
तृतीयं तु न्यसेद्धीमान् बहिर्वलयमेव तु ।
एवं चूर्णैरलङ्कृत्य चक्रमण्डलमुत्तमम् ॥ ३२।२९ ॥
View Verse
नेष्यते ऽस्मिन् महाविष्णुर्मध्यमान्तर्गतो हरिम् ।
ततस्तु परितोष धीं कारयेत्तालमात्रतः ॥ ३२।३० ॥
View Verse
कुन्देन्दुधवलाकारं तण्डुलैरुभयत्र तु ।
द्वाराणि तालमात्रेण कारयेच्चतुरो दिशि ॥ ३२।३१ ॥
View Verse
द्वारे द्वारे मुनिश्रेष्ठ पूर्णैरेव तु भूषयेत् ।
॥॥॥ ॥॥॥ ॥॥॥ ॥॥॥
॥॥॥ ॥॥॥ ॥॥॥ ॥॥॥
॥॥॥ ॥॥॥ गेनैव शुद्ध्यति ।
एवं सङ्क्षेपतः प्रोक्तं हेतिराजस्य लक्षणम् ।
प्रतिष्ठायाः क्रमं चैव राजराष्ट्रसुखावहम् ।
धन्यं यशस्यमायुष्यं समरे विजयं(?)तथा ।
यः कारयेत्तु मतिमान् सर्वान् कामानवाप्नुयात् ।
इति श्रीपाञ्चरात्रे विष्वक्सेनसंह्रितायां[हेतिराजलक्षणविधिर्नाम] द्वात्रिशो ऽध्यायः ॥
View Verse

Chapter - 33

त्रयस्त्रिंशो ऽध्यायःविष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि द्रव्यशुद्धिविधिं परम् ।
रत्नानि हेमवस्ताणि भूषणादींश्च ताम्रजान् ॥ ३३।१ ॥
View Verse
अन्नं तोयं दधिक्षीरे घृतं मधुगुलादयः ।
मधुपर्कश्च पुष्पाणि मुखवासोपहारकम् ॥ ३३।२ ॥
View Verse
एवमादीनि चान्यानि देवेशोय निवेदयेत् ।
निवेदितानि वस्तूनि शुद्धाशुद्धानि वै शृणु ॥ ३३।३ ॥
View Verse
अन्नादीनुपहारांस्तान् वर्जयेन्मुनिसत्तम ।
रत्नादिलोहजान्ताश्च शुद्धा एव न संशयः ॥ ३३।४ ॥
View Verse
रत्नानि हेमवस्त्राणि भूषणानि च (-दींश्च?) लोहजान् ।
निवेदितानि शुद्ध्यन्ते क्षालयेन्मन्त्रपूर्वकम् ॥ ३३।५ ॥
View Verse
अस्तराजेन मन्त्रेण क्षालयेत्तान् पुनस्त्रिधा ।
तथैव ताम्रकलशान् वस्त्रेण परिवेष्टयेत् ॥ ३३।६ ॥
View Verse
मन्त्रमाहात्म्यमात्रेण शुद्ध्यन्ते नात्र संशयः ।
अन्नं तोयं दधिक्षीरं घृतं मधु गुलं तथा ॥ ३३।७ ॥
View Verse
मधुपर्को ऽथ पुष्पं च मुखवासोपहारकम् ।
निर्माल्यमिति विज्ञेयं मम प्रीतिकरं शुभम् ॥ ३३।८ ॥
View Verse
ताम्बूलं मधुपर्कं च नैवेद्यान्नं तथैव च ।
यद्भुक्तं तद्विना ब्रह्मन् आचार्याय प्रदापयेत् ॥ ३३।९ ॥
View Verse
तुर्यभाग्र हि सङ्गृह्य ममाग्रे स्थापयेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य मामुद्दिश्य निवेदयेत् ॥ ३३।१० ॥
View Verse
तन्निर्माल्यं च तद्भुक्तं वैष्णवानां तु दापयेत् ।
एवं सङ्क्षेपतः प्रोक्तः द्रव्यशुद्धिर्मया मुने ॥ ३३।११ ॥
View Verse
अथातः सम्प्रवक्ष्यामि स्रुक्स्रुवाद्यधिदैवतम् ।
स्रुक्स्रुवं (-वौ?) चैव दर्वी च पृथिवीदेवता स्मृता ॥ ३३।१२ ॥
View Verse
उदकुम्भश्चन्द्रदैवत्यः(?) प्रणीता वरुणदेवता ।
जिह्वश्च स्वर्गदैवत्यः(?) अन्तरिक्षं चरुस्तथा ॥ ३३।१३ ॥
View Verse
गन्धर्वो गन्धदैवत्यः(?) पुष्पं शुक्राधिदैवतम् ।
अक्षता लक्ष्मीदैवत्या(?) धूपं चार्घ्याधिदैवतम् ॥ ३३।१४ ॥
View Verse
दीपस्य भास्करं विद्यान्मूलं सश्चन्द्रदेवता(?) ।
विहरी वासुदेवत्या(?) समिधो ब्रह्मदेवता ॥ ३३।१५ ॥
View Verse
आज्यं तु रुद्रदैवत्यं(?) अन्नं रुद्राधिदैवतम् ।
इध्मप्रव्रश्चनं (-ने?) (चैव ?) पितृवर्गा यथाक्रमम् ॥ ३३।१६ ॥
View Verse
गव्यवस्तूनि सर्वाणि गणेशस्तत्र देवता ।
स्वरे सरस्वती देवी प्रणवे सर्वशक्तयः ॥ ३३।१७ ॥
View Verse
सर्वेषामेव वस्तूनां रसरूपं तु वैष्णवम् ।
स्मृतं चेदस्मृतं चेत्तु सर्वं नारायणात्मकम् ॥ ३३।१८ ॥
View Verse
कलशे देवता वक्ष्ये शृणु नारद तत्त्वतः ।
वक्त्रं वागीश्वरी देवी कर्णं लक्ष्मीस्तथैव च ॥ ३३।१९ ॥
View Verse
पार्श्वयोश्च तथा शान्ती पृष्ठे च पृथिवी स्मृता ।
तथैव पूर्णकुम्भं तु संस्मरेदधिदैवतम् ॥ ३३।२० ॥
View Verse
एव सङ्क्षेपतः प्रोक्तं स्रुक्स्रुवाद्यविदैवतम् ।
नित्ये नैमित्तिके चास्मिन् विष्णुयागेषु सर्वशः ॥ ३३।२१ ॥
View Verse
ज्ञात्वा तत्राधिदैवं तु साधकः सम्प्रयोजयेत् ।
कारयेद्विष्णुयागेषु मन्त्राणामधिदैवतम् ॥ ३३।२२ ॥
View Verse
अज्ञानात् कुरुते मोहात् सा कृताप्यकृता भवेत् ।
तस्मात् सर्वप्रयत्नेन साधकः परमार्थवित् ॥ ३३।२३ ॥
सञ्ज्ञात्वा तेषु कार्येषु कारयेन्मन्त्रवित्तमः ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (द्रव्यशुद्ध्यादिविधिर्नाम) त्रयस्त्रिंशो ऽध्यायः ॥
View Verse

Chapter - 34

चतुस्त्रिंशो ऽध्यायः
विष्वक्सेनः---
प्रासादलक्षणं वक्ष्ये सङ्क्षेपेण मुनीश्वर ।
नदीतीरे ह्रदे वापि पर्वताग्रे समे तले ॥ ३४।१ ॥
View Verse
समुद्रसङ्गमे तीरे तटाके सङ्गमेषु च ।
पुण्यक्षेत्रे महारण्ये पुण्यतीर्थे महामुने ॥ ३४।२ ॥
View Verse
ग्रामे वा नगरे वापि पत्तने खेटके ऽपि वा ।
कुग्रामे ऽथ महाग्रामे मध्यमे पश्चिमे ऽपि वा ॥ ३४।३ ॥
View Verse
यत्स्थानं मनसो रम्यं कारयेद्विष्णुमन्दिरम् ।
उत्तमं तु शिलावेश्म मध्यमं दारु चोच्यते ॥ ३४।४ ॥
View Verse
कनिष्ठमिवि(-ष्ट?) कावेश्म कुर्याद्वित्तानुसारतः ।
मृदा वा कारयेद्धीमान् विष्णोरायतनं क्रमात् ॥ ३४।५ ॥
View Verse
त्रिविधं त्रिविधं हस्तमुत्तमाधममध्यतः ।
यत्त्रिंशद्धस्तसङ्ख्या च उत्तमोत्तममुच्यते ॥ ३४।६ ॥
View Verse
एकविंशतिहस्तं तु त्रिविधं चोत्तमं विदुः ।
तत्पञ्चदशहस्तं तु मध्यमोत्तममुच्यते ॥ ३४।७ ॥
View Verse
एकादशं च हस्तं तु मध्यमं परिकीर्तितम् ।
मध्यमे तु कनिष्ठं च नवहस्तमिहोच्यते ॥ ३४।८ ॥
View Verse
तत्कनिष्ठोत्तमं प्रोक्तं सप्तहस्तमिहोच्यते ।
मध्यमं पञ्चहस्तं तु त्रिहस्तं तु कनीयसम् ॥ ३४।९ ॥
View Verse
तत्तद्वित्तनुसारेण तत्तत्कुर्यात् समाहितः ।
कनिष्ठमूले चतुष्कोणे वाहनं स्थापयेत् क्रमात् ॥ ३४।१० ॥
View Verse
सिंहं वा गरुडं वापि मारुतात्मजमेव वा ।
विमानस्योपरि न्यस्य पूर्वादिचतुरो दिशि ॥ ३४।११ ॥
View Verse
वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
कारयेत् स्वस्वरूपेण ह्युत्तरे ऽनन्तमेव वा ॥ ३४।१२ ॥
View Verse
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
पूर्वादि चतुरो दिक्षु कारयेत्तु यथाक्रमम् ॥ ३४।१३ ॥
View Verse
कारयित्वा तदूर्ध्वे तु शिखरं मण्डलं ततः ।
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ॥ ३४।१४ ॥
View Verse
मूर्धेष्टकाविधानेन तदूर्ध्वे कारयेत् क्रमात् ।
स्तूपिं संस्थाप्य तन्त्रज्ञो तन्मध्ये मुनिसत्तम ॥ ३४।१५ ॥
View Verse
स्तूपिमध्ये ऽब्जमालिख्य कर्णिका केसरान्वितम् ।
द्वादशाष्टदलं वापि षोडशं वा सुकारयेत् ॥ ३४।१६ ॥
View Verse
तदूर्ध्वे कारयेत् कुम्भं हस्तं वा द्विगुणं तु वा ।
तत्पादहीनकं वापि कारयेत्तं सुशोभनम् ॥ ३४।१७ ॥
View Verse
सुधाकर्म ततः कुर्यात् चित्रकर्म च कारयेत् ।
एवं कृत्वा विमानं तु कारयेन्मण्डपं क्रमात् ॥ ३४।१८ ॥
View Verse
प्राकारं द्वित्रिरेकं वा गोपुरेण समन्वितम् ।
कारयेन्मुनिशार्दूल आग्नेये पचनालयम् ॥ ३४।१९ ॥
View Verse
पुष्पस्थानं जलस्थानं प्राकारे तु प्रकारयेत् ।
वायव्ये नैरृते वापि ईशाने वा मुनीश्वर ॥ ३४।२० ॥
View Verse
विनोदमण्डपं कृत्वा सर्वालङ्कारसंयुतम् ।
अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत् ॥ ३४।२१ ॥
View Verse
एवं सङ्क्षेपतः प्रोक्तं प्रासादस्येह लक्षणम् ।
विमानाख्यमथो वक्ष्ये शृणु तत्त्वेन नारद ॥ ३४।२२ ॥
View Verse
मन्दरं निषधं चैव नागरं च समन्वितम् ।
द्राविडं वेसरं चैव पञ्चभेदेन कीर्तितम् ॥ ३४।२३ ॥
View Verse
कूटशालासमायुक्तं सर्वदिङ्नासिकायुतम् ।
कण्ठोपरि सुविस्तीर्णं पर्वतो मन्दरः स्मृतः ॥ ३४।२४ ॥
View Verse
पादप्रभृति सिंहान्तं चतुरश्रं सुविस्तरम् ।
यत्कूटशालारहितं पर्वतो निषधः स्मृतः ॥ ३४।२५ ॥
View Verse
कष्ठात्प्रभृति स्तूप्यन्तं चतुरश्रं समन्ततः ।
नागरं तत् समाख्यातं द्राविडं चाधुनोच्यते ॥ ३४।२६ ॥
View Verse
कण्ठात्प्रभृति र(चा?)ष्टाश्रं प्रासादं द्राविडं भवेत् ।
शयने तु मुनिश्रेष्ठ गोपुराकृतिरुच्यते ॥ ३४।२७ ॥
View Verse
त्रिचतुः पञ्चषट्कुम्भसंयुक्त्र वात्र कारयेत् ।
कुमुदादि(-त्?)स्तूपिमूलान्तं षोडशाष्टाश्रमेव वा ॥ ३४।२८ ॥
View Verse
द्वात्रिंशदश्रकं वापि कारयेन्मुनिसत्तम ।
तत्प्रासादं समाचक्ष्व द्राविडाम्श भेवद्ध्रुवम् ॥ ३४।२९ ॥
View Verse
कण्ठात् प्रभृति वृत्तं स्याद्वेसरं तत्समं भवेत् ।
त्रिपूर्णकुम्भयुक्धाम वेसराकाररूपिणम् ॥ ३४।३० ॥
View Verse
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रेलोक्यभूषणम् ।
प्रागायतं विमानो ऽय(?)मुत्तमं परिपठ्यते ॥ ३४।३१ ॥
View Verse
दग्धेष्टकाभिस्तु शिलामयैस्तु यत्तत्तु कॢप्तं पुरुषाख्यमेव ।
शिलामयैर्दारुमयेष्टकामयैः समाश्रितं भाव्यमिदं नपुंसकम् ॥ ३४।३२ ॥
View Verse
कृतं दृढं दारुमयेन केवलं तदङ्गनाख्यं त्रिविधं विमानम् ।
अथातः सम्प्रवक्ष्यामि मूर्धेष्टकाविधिं परम् ॥ ३४।३३ ॥
View Verse
प्रासादस्योत्तरे कुर्यात् पूर्वे वा मुनिसत्तम ।
षोडशस्तम्भसंयुक्तं चतुस्तोरणभूषितम् ॥ ३४।३३ ॥
View Verse
चतुर्द्वारसमायुक्तं चतुस्तोरणभूषितम् ।
सर्वालङ्कारसंयुक्तं शालिभिर्वेदिसंयुतम् ॥ ३४।३५ ॥
View Verse
अष्टद्रोणसमायुक्तं सर्वशोभनशोभितम् ।
तदर्धं तण्डुलं कुर्यात् तदर्धं तिलमेव च ॥ ३४।३६ ॥
View Verse
उपर्युपरि कर्तव्यं वेदिकां च सुशोभनाम् ।
कुशैः परिस्तरेत्तत्र उदक्प्रागग्रतः क्रमात् ॥ ३४।३७ ॥
View Verse
नववस्त्रैस्तु संवेष्ट्य तदूर्ध्वे तु क्रमान्न्यसेत् ।
इष्टकां(काः?)पूर्ववत् कृत्वा चत्वारः पूर्ववत्क्रमात् ॥ ३४।३८ ॥
View Verse
मूर्तिमन्त्रेण संस्थाप्य मूलमन्त्रेण मन्त्रवित् ।
स्तूपिं संस्थापयेत्तत्र मूलमूर्तिमनुस्मरनु ॥ ३४।३९ ॥
View Verse
तत्तन्मध्ये तु संस्थाप्य पुनः प्रच्छाद्य वाससा ।
होमं कुर्याच्चतुर्दिक्षु अथवा पश्चिमे दिशि (?) ॥ ३४।४० ॥
View Verse
एकाग्निं वा प्रतिष्ठाप्य होमयेन्निशि पूर्ववत् ।
मूर्तिमन्त्रेण सकलं समिदाज्यचरूंस्तथा ॥ ३४।४१ ॥
View Verse
स्थण्डिले मुनिशार्दूल एकैकं शतमाहुतीः ।
तुरीयेण तु मन्त्रेण पूर्णाहुतिमथाचेरत् ॥ ३४।४२ ॥
View Verse
कुम्भं च सुदृढं स्थाप्य पूर्वभागे तु मन्त्रवित् ।
नानारत्नसमोपेतमथवा हेमसंयुतम् ॥ ३४।४३ ॥
View Verse
सापिधानं सवस्त्रं च सुदृढं तन्तुवेष्टितम् ।
कलशान् साधयेदष्टविद्येशान् परितः क्रमात् ॥ ३४।४४ ॥
View Verse
सवस्त्रान् सापिधानांश्च सहिरण्यान् चकूर्चकान् ।
अश्वत्थपल्लवैर्युक्तान् द्रोणेन परिपूरितान् ॥ ३४।४५ ॥
View Verse
पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगैः ।
रात्रिशेषं नयेत्तत्र गेयनृत्तसमन्वितम् ॥ ३४।४६ ॥
View Verse
प्रभातायां तु शर्वर्यामाचार्यः सर्वमन्त्रवित् ।
स्नात्वा वस्त्रादिभिर्भूष्य दैवज्ञं पूजयेत्तदा ॥ ३४।४७ ॥
View Verse
तक्षकं कर्मयोग्यत्वादाचार्यानुज्ञया मुने ।
नववस्त्राङ्गुलीयैस्तु पूजयेत्तक्षकान् क्रमात् ॥ ३४।४८ ॥
View Verse
तक्षकेण विना किञ्चित् कर्मात्र हि न विद्यते ।
स एव विश्वकरणात् स्रष्टेति परिकीर्त्यते ॥ ३४।४९ ॥
View Verse
तक्षकेण तु यत्कर्म पूर्वमारब्धमुत्तमम् ।
तक्षकेण तु कर्तव्यं नान्येन तु कदाचन ॥ ३४।५० ॥
View Verse
तस्यैव कर्मयोग्यत्वं विधातृविहितं यतः ।
तस्मात् सर्वप्रयत्नेन तेनैव सह चोदितम् ॥ ३४।५१ ॥
View Verse
मूलमग्रं विदित्वा तु चतुरश्रेष्टका न्यसेत् ।
मध्ये स्तूपिं प्रतिष्ठाप्य पुण्याहं वाचयेत्ततः ॥ ३४।५२ ॥
View Verse
मूर्धेष्टकां न्यसेन्मन्त्री पूर्वे पुरुषमन्त्रतः ।
विश्वेन दक्षिणे न्यस्य निवृत्या पश्चिमे न्यसेत् ॥ ३४।५३ ॥
View Verse
ऐश्वर्यं(सर्वेण?)चोत्तरे न्यस्य स्तूपिं तु परमेष्ठिना ।
कलशैः स्नापयेद्विद्वान् सूक्तेन पुरुषेण च ॥ ३४।५४ ॥
View Verse
कुम्भं च मूलमन्त्रेण स्थापयेत् स्तूपिमूर्धनि ।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥ ३४।५५ ॥
View Verse
ऋग्वेदं पूर्वभागे तु यजुर्वेदं तु दक्षिणे ।
पश्चिमे सामगानं तु उत्तरे ऽथर्ववेदिनः ॥ ३४।५६ ॥
View Verse
क्रमात् सम्भोज्य विधिवत् पुण्याहं वाचयेत्ततः ।
एवमेव प्रकुर्यात्तु परिवारालयस्य च ॥ ३४।५७ ॥
View Verse
प्राकारस्यैव कुर्यात्तु रत्नन्यासं विना क्रमम् ।
गोपुरे मण्डपे चैव मूर्तिहोमं विना भवेत् ॥ ३४।५८ ॥
View Verse
एतत् सङ्क्षेपतः प्रोक्तं मूर्धेष्टकाविधिं परम् ।
एवमुक्तप्रकारेण कारयेद्गेहमुत्तमम् ॥ ३४।५९ ॥
View Verse
ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रो ऽथ एव वा ।
तक्षको वा मुनिश्रेष्ठ यथाशास्त्रानुसारतः (!) ॥ ३४।६० ॥
View Verse
कारयेच्छिल्पकर्माणि पूर्वपूर्वा गरीयसी ।
आद्येष्टकादिकान् सर्वान् कारयेत् क्रमयोगतः ॥ ३४।६१ ॥
View Verse
तक्ष्णस्तु सर्वथालाभे मूर्धेष्टकाविधिं परम् ।
सुधाकार्यं च चित्रार्धं चित्राभासं तथैव च ॥ ३४।६२ ॥
View Verse
मूलबेरविधानं च परिवारालयादिकम् ।
अन्यैरपि कुलालाद्यैः कारयेद्वा यथाक्रमम् ॥ ३४।६३ ॥
View Verse
उपानस्तूपिपर्यन्तं मूलालयविधिं (धिः ?) परम् (रः?) ।
तक्षकेणैव कर्तव्यमन्यथा राज्यनाशकृत् ॥ ३४।६४ ॥
View Verse
इति मूर्धेष्टकान्यासं कारयीत क्रमाद्गुरुः ।
राज्ञो राष्ट्रस्य कर्तुश्च स्वस्यापि हितकाम्यया ॥ ३४।६५ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां (प्रासादलक्षणादिविधिर्-नाम) चतुस्त्रिंशो ऽध्यायः
View Verse

Chapter - 35

पञ्चत्रिंशो ऽध्याय:
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि परिवारस्य लक्षणम् ।
शृणु देवमुनिश्रेष्ठ महापीठावसानकम् ॥ ३५।१ ॥
View Verse
तालद्वयं तदर्धं वा प्रासादात् परिवारकम् ।
विसृज्य कल्पयेद्धीमान् द्वित्रिहसतमथापि वा ॥ ३५।२ ॥
View Verse
चतुर्हस्तं पञ्चहस्तं व्यपोह्यन्ते महामुने ।
कल्पयेत् परिवाराणां हस्तमात्रं समन्ततः ॥ ३५।३ ॥
View Verse
शिलाभिरिष्टकाभिर्वा आचार्याङ्गुलिना मुने ।
चतुरङ्गुलमुत्सेधं मध्ये पद्मं सकर्णिकम् ॥ ३५।४ ॥
View Verse
कारयेत् परितः पीठं मेखलाद्वयसंयुतम् ।
तालमात्रेण वा कुर्यात् बलिपीठं समन्ततः ॥ ३५।५ ॥
View Verse
तथैव परिवाराणां प्राकारान्मानमत्र तु ।
एवं कल्प्य ततो पीठं परिवारस्य तु सर्वशः ॥ ३५।६ ॥
View Verse
मण्डपाद्वा महापीठं प्राकाराद्वा महामुने ।
हस्तं षोडशमुत्सृज्य आचार्याङ्गुलिनाग्रतः ॥ ३५।७ ॥
View Verse
अष्टहस्तं तदर्धं वा विसृज्यान्ते महामुने ।
कारयेद्वा महापीठं पूर्वापूर्वा गरीयसी ॥ ३५।८ ॥
View Verse
तल्लक्षणं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शुभम् ।
विविक्तने परं गुह्यं शृणु नारद तत्त्वतः ॥ ३५।९ ॥
View Verse
त्रिचतुःपञ्चहस्तं वा विस्तारायामतादृशम् (-तः समम्?) ।
पादुकाद्यब्जपर्यन्तमुत्तमादिक्रमेण तु ॥ ३५।१० ॥
View Verse
कारयेच्छास्त्रदृष्टेन शिल्पिना कुशलेन तु ।
उत्तमे ऽप्युत्तमं कुर्यात् मध्यमे मध्यमं कुरु ॥ ३५।११ ॥
View Verse
अधमे ऽप्यधमं कुर्यात् विभवस्यानु रूपतः ।
षट्सप्तहस्तायतं वापि(?)तत्समं विस्तृतं भवेत् ॥ ३५।१२ ॥
View Verse
एवं ज्ञात्वा महापीठं कल्पयेत् सुमनोरमम् ।
युक्त्या युक्तिविशेषेण कारयेद्बलिपीठकम् ॥ ३५।१३ ॥
View Verse
एकविंशतिभागेन तत्क्रमं शृणु सुव्रत ।
अड्गेन पादुकं (का?) चैव पञ्चकैर्जगती तथा ॥ ३५।१४ ॥
View Verse
त्रियंशं कुमुदं चैव एकांशेन तु पट्टिका ।
गलं चैव चतुर्भागं भागं चैवोर्ध्वपट्टिका ॥ ३५।१५ ॥
View Verse
त्रियंशेर्वलभी छन्दः त्रियंशं कर्णिकोच्छ्रयम् (-यः?) ।
एवं कृत्वा महापीठं शित्र्पिना कुशलेन तु ॥ ३५।१६ ॥
View Verse
शिल्पकार्यावसाने तु प्रोक्षयेत्तन्त्रवित्तमः ।
अथातः सम्प्रवक्ष्यामि प्रोक्षणं बलिपीठके ॥ ३५।१७ ॥
View Verse
अयने चोत्तरे कुर्यात् पूर्वपक्षे शुभे ऽहनि ।
कल्याणवारे सुतिथौ पूर्वेद्युः कारयेद्बुधः ॥ ३५।१८ ॥
View Verse
तक्षक्रियां समाप्याथ प्रोक्षयेत्तन्त्रवित्तमः ।
पुण्याहं कारयेत्तत्र प्रोक्षयेत् पञ्चमन्त्रकैः ॥ ३५।१९ ॥
View Verse
देवाग्रपीठयोर्मध्ये मण्डपं कारयेत् सुधीः ।
मण्डपस्य विधानेन तोरणानि तु पूर्ववत् ॥ ३५।२० ॥
View Verse
कृत्वा तु पूर्ववत् सम्यक् वेदिं कुर्यात्तु मध्यतः ।
चतुर्हस्तं द्विहस्तं वा एकहस्तोच्छ्रयं मने ॥ ३५।२१ ॥
View Verse
सुस्निग्धं (-ग्धां?) कारयेत्तत्र दर्पणोदरसन्निभ (-भा?)म् ।
गोमयेनोपलिप्याथ प्रोक्षयेद्गन्धवारिणा ॥ ३५।२२ ॥
View Verse
तद्वेदिपीठयोर्मध्ये वृत्तं वा चतुरश्रकम् ।
कारयेत्तत्र कुण्डं तु मध्यमे होममाचरेत् ॥ ३५।२३ ॥
View Verse
शालिद्रोणद्वये वेद्यां सकूर्चं सापिधानकम् ।
सहिरण्यं सवस्त्रं च सरित्सलिलपूरितम् ॥ ३५।२४ ॥
View Verse
ससूत्रं कालरहितं द्रोणपूर्णं सुशोभनम् ।
मध्यमे तु न्यसेद्धीमान् विष्णुपारिषदान् बहून् ॥ ३५।२५ ॥
View Verse
ऐन्द्रादीशानपर्यन्तं कलशान् स्थापयेत् पृथक् ।
कुमुदं कुमुदाक्षं च पुण्डरीकं च वामनम् ॥ ३५।२६ ॥
View Verse
शङ्कुकर्णं सर्पनेत्रं सुमुखं सुप्रतिष्ठितम् ।
गन्धादिभिः समभ्यर्च्य होमं कुर्यादनन्द्रितः ॥ ३५।२७ ॥
View Verse
समिदाज्यचरून् दध्ना मधुना पयसापि च ।
यवान् सिद्धार्थसलिलान् प्रत्यकं शतमाहुतीः ॥ ३५।२८ ॥
View Verse
मन्त्रेणाष्टाक्षरेणैव द्वादशाक्षरमेव वा ।
नृत्तगीतसमातोद्यै रात्रिशेषं नयेद्बुधः ॥ ३५।२९ ॥
View Verse
सुमुहूर्ते तु सम्प्राप्ते ब्राह्मणानामुनज्ञया ।
स्वस्तिसूक्ति(-क्त?)युतो गत्वा विमानं तु प्रदक्षिणम् ॥ ३५।३० ॥
View Verse
स्वस्वस्थाने तु सम्प्रोक्ष्य तत्तत्स्थानान् स्मरन् बुधः ।
कुम्भोदकादशेषं तु महापीठे ऽभिषेचयेत् ॥ ३५।३१ ॥
View Verse
विष्णुपारिषदान् सर्वान् संस्मरेत् साधकोत्तमः ।
पायसं कृसरं गौल्यं हरिद्रान्नं चतुर्विधम् ॥ ३५।३२ ॥
View Verse
साज्यं दधिपयोयुक्तं नारिकेलपयांसि च ।
निवेदयेन्महापीठे चादिमूर्तिमनुस्मरन् ॥ ३५।३३ ॥
View Verse
निवेद्य शेषं सङ्गृह्य चण्डादिभ्यो बलिं क्षिपेत् ।
शङ्खभेर्यादिसंयुक्तं गेयनृत्तसमन्वितम् ॥ ३५।३४ ॥
View Verse
वेदाध्ययनसंयुक्तं बलिकर्म समापयेत् ।
बल्यन्ते परमात्मानं स्नापयेदधमोत्तमम् ॥ ३५।३५ ॥
View Verse
महाहविर्निवेद्याथ पुण्याहं पुनराचरेत् ।
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ॥ ३५।३६ ॥
View Verse
आचार्यं पूजयेत् पश्चात् हेमरत्नाङ्गुलीयकैः ।
इदं धन्यं यशस्यं च सर्वशान्तिकरं भवेत् ॥ ३५।३७ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां महापीठ- प्रतिष्ठाविधिर्नाम पञ्चत्रिंशो ऽध्यायः ॥
View Verse

Chapter - 36

षट्त्रिंशो ऽध्यायः
विष्वक्सेनः--
॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥। ॥।
पुण्याहं वाचयेत्तत्र ब्राह्मणैः सह मन्त्रवित् ।
पञ्चभारप्रमाणं वा तदर्धं वार्धमेव वा ॥ ३६।१ ॥
View Verse
तन्न्यूनं न हि कर्तव्यं शालिसञ्चयमुत्तमम् ।
तत्रोर्ध्वे विकिरेद्विद्वान् तदर्धं तण्डुलं तथा ॥ ३६।२ ॥
View Verse
तण्डुलोपरि विन्यस्य चाष्टपत्राब्जमुत्तमम् ।
तत्र मध्ये लिखेद्बीजं दले चाष्टाक्षरं न्यसेत् ॥ ३६।३ ॥
View Verse
मध्यमे नवकुम्भं तु स्थापयेत् साधकोत्तमः ।
सूत्रवस्त्रसमायुक्तं रत्नमाल्येरलङ्कृतम् ॥ ३६।४ ॥
View Verse
गन्धोदकेन सम्पूर्णं वस्त्रग्युग्मेन वेष्टितम् ।
पूर्वादि चाष्टकुम्भस्य वस्त्रमेकैकमेव वा ॥ ३६।५ ॥
View Verse
दिङ्मूर्त्यादीनि चाष्टानामेकवस्त्रमथापि वा ।
कर्णिकायां न्यसेत् कुम्भं दलेष्वष्टघटान् न्यसेत् ॥ ३६।६ ॥
View Verse
त्रिसप्तपञ्चदर्भैर्वा कृत्वा कूर्चं विनिक्षिपेत् ।
तस्मिन् पूर्णघटे मध्ये देवागारं तु चिन्तयेत् ॥ ३६।७ ॥
View Verse
सहस्रशीर्षा पुरुषः सहस्राक्षाः सहस्रपात्(?) ।
सहस्रकुन्तलोपेतं सहुस्रमकुटान्वितम् ॥ ३६।८ ॥
View Verse
सहस्रादित्यसङ्काशं सहस्रेन्दुनिभाननम् ।
सहस्रवाहनैर्युक्तं सर्वदिङ्नासिकान्वितम् ॥ ३६।९ ॥
View Verse
शङ्खचक्रगदापाणिं सर्वप्रहरणान्वितम् ।
प्रासादरूपमित्याहुः पूर्वरात्रे ऽधिवासयेत् ॥ ३६।१० ॥
View Verse
तद्ध्यानेनैव देवर्षे सम्यक् स्नानमवाप्नुयात्(?) ।
मोक्षार्थी मोक्षमाप्नोति तस्माद्ध्यानं विशिष्यते ॥ ३६।११ ॥
View Verse
मण्डपादिषु सर्वेषु ध्यानमेवं प्रकीर्तितम् ।
तस्मिन् मध्ये नयेद्विद्वान् स्मरन् तत् परमेष्ठिना ॥ ३६।१२ ॥
View Verse
पूर्वादि चोत्तरान्ते तु तन्मूर्तिं तु विचिन्तयेत् ।
आग्नेयादिषु कोणेषु वैनतेयादिकान् न्यसेत् ॥ ३६।१३ ॥
View Verse
मृतगस्याधिपतिं सिंहं वैनतेयांशकं न्यसेत् ।
तस्मिन् पूर्णघटे मध्ये पौरुषं सूक्तमभ्यसेत् ॥ ३६।१४ ॥
View Verse
दिग्देवादिषु कुम्भेषु तत्तन्मूर्तिं जपेत् क्रमात् ।
ऋगादीनां तु वेदानां सारमुद्धृत्य नारद ॥ ३६।१५ ॥
View Verse
पूर्वादिसोमपर्यन्तमुच्चरेत् सुस्वरेण तु ।
ततः पूर्णघटादीनि चार्चयेत्तेन मन्त्रतः ॥ ३६।१६ ॥
View Verse
हविर्निवेदयेत् पश्चात् मन्त्रेण परमेष्ठिना ।
मुखवासं ततो दद्यात् रक्षां कृत्वाष्टदिक्क्रामत् ॥ ३६।१७ ॥
View Verse
घण्टाध्वनिसमायुक्तं गन्धपुष्पादिभिः सह ।
हविषा बलिदानं तु कारयेदष्टदिक्षु च ॥ ३६।१८ ॥
View Verse
कुमुदादीनि सर्वाणि गृह्णन्ति बलिमुत्तमम् ।
शङ्क्षदुन्दुभिनिर्घोषं कृत्वास्मिन् मुनिसत्तम ॥ ३६।१९ ॥
View Verse
ततः पुष्पाञ्जलिं कृत्वा साधकः परमार्थवित् ।
नमस्कृत्याखिलान् सर्वान् मङ्गलानुच्चरेत्क्रमात् ॥ ३६।२० ॥
View Verse
प्रभातायां तु शर्वर्यामाचार्यः स्नानमाचरेत् ।
सूक्तेन पुरुषेणैव मन्त्रं वा परमेष्ठिना ॥ ३६।२१ ॥
View Verse
कुम्भस्थितेन देवेशं पूजयेत् पुरुषोत्तमम् ।
गन्धादि दीपपर्यन्तं तत्तन्मन्त्रेण साधकः ॥ ३६।२२ ॥
View Verse
पूर्वादीशानपर्यन्तमर्चयेदष्टदिग्घटान् ।
महामुम्भादि सङ्गृह्य प्रासादं तु परिभ्रमेत् ॥ ३६।२३ ॥
View Verse
शङ्खभेर्यादिनादैस्तु नृत्तगीतसमन्वितम् ।
स्वस्तिवाचनसंयुक्तं गर्भागारं प्रवेशयेत् ॥ ३६।२४ ॥
View Verse
देवस्याग्रे तु संस्थाप्य तण्डुलोपरि नारद ।
महाकुम्भस्थदेवेशं विधिनाधिपतिं परम् ॥ ३६।२५ ॥
View Verse
तत्पूर्वपार्श्वे संस्थाप्य तण्डुलेषु घटान् क्रमात् ।
अर्घ्यपाद्यादिनाभ्यर्च्य मुखवासावसानकम् ॥ ३६।२६ ॥
View Verse
एवमभ्यर्च्य मतिमान् क्षम्यतामिति चोच्चरन् ।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ॥ ३६।२७ ॥
View Verse
क्षन्तुमर्हसि देवेश परिपूर्णं तदस्तु मे ।
एवं कृत्वा तु मन्त्रज्ञो मङ्गलानि समीरयेत् ॥ ३६।२८ ॥
View Verse
आचार्यः पुष्पमादाय नमस्कृत्य हरिं प्रभुम् ।
कुम्भस्थितेन देवेशे मूलबेरे नियोजयेत् ॥ ३६।२९ ॥
View Verse
तथैवाष्टघटाच्छक्तिं तद्देहे विनिवेशयेत् ।
परमेष्ठ्या न्यसेत् पूर्वं दिङ्मूर्त्यादीन् स्वविद्यया ॥ ३६।३० ॥
View Verse
मूलबेरस्य मूर्ध्नेव सेचयेत्तांस्त्रिबिन्दुना ।
देवपादे तु हस्ताभ्यां पुष्पं दत्वा पुनः पुनः ॥ ३६।३१ ॥
View Verse
ततः पुरुषसूक्तं तु ब्राह्मणैः सह सञ्जपेत् ।
तस्मिन् काले महाप्राज्ञ आचार्यं पूजयेद्धनैः ॥ ३६।३२ ॥
View Verse
नववस्त्राङ्गुलीयैस्तु कटकादिविभूषणैः ।
कुम्भस्थितेन तोयेन प्रोक्षयेद्गेहमुत्तमम् ॥ ३६।३३ ॥
View Verse
अत्रोपयुक्तं यद्द्रव्यं देवतालङ्कृतं (-तिः?) विना ।
आचार्याय प्रदातव्यं वस्त्रं व्रीह्यादिभिः सह ॥ ३६।३४ ॥
View Verse
निवेदितं तु तत्सर्वं सात्त्वतेभ्यो निवेदयेत् ।
शिल्पिनं पूजयेत्तत्र दैवज्ञमनुपूजयेत् ॥ ३६।३५ ॥
View Verse
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
क्रियावसाने मतिमान् चित्रकर्म च कारयेत् ॥ ३६।३६ ॥
View Verse
हवनं मण्डपाद्येषु एवमेव समाचरेत् ।
एवमुक्तप्रकारेण कारयेदधिवासनम् ॥ ३६।३७ ॥
View Verse
वासाधिवासनं चैव प्रासादप्रोक्षणे मुने ।
अङ्कुरार्पणकार्ये तु होममत्र न विद्यते ॥ ३६।३८ ॥
View Verse
बालगेहं तु देवर्षे कल्पयेत् पूर्ववत् क्रमात् ।
जगती कुमुदादीनि वर्जयेत्तरुणालये ॥ ३६।३९ ॥
View Verse
बालालयप्रतिष्ठायां स्थण्डिले होममाचरेत् ।
अधिवासादिकर्माणि वासवादीनि(?) कारयेत् ॥ ३६।४० ॥
View Verse
एवमुक्तप्रकारेण शक्तिमुद्वास्य नारद ।
जीर्णोद्धारं ततः कुर्यात् शिल्पिना कुशलेन तु ॥ ३६।४१ ॥
View Verse
अन्यथा कुरुते मोहात् ग्रामनाशो धनक्षयः ।
स्थाननाशो भवेत्तत्र सम्भवेन्नात्र संशयः ॥ ३६।४२ ॥
View Verse
तस्मात् सर्वप्रयत्नेन विमानस्थ हरिं परम् ।
उद्वासयेन्महाबेरे क्रमात् पूर्वं यथाविधि ॥ ३६।४३ ॥
View Verse
तस्मात् सर्वप्रयत्नेन शक्त्युद्वासनमारभेत् ।
मार्गेणैकेन संयोज्य प्रासादस्याधिदैवतम् ॥ ३६।४४ ॥
View Verse
विनोदमण्डपं चैव वप्रप्राकारके तथा ।
परिवारालयाद्येषु बहिः प्राकारके तथा ॥ ३६।४५ ॥
View Verse
एवमुक्तप्रकारेण कारयेदधिवासनम् ।
एवं सङ्क्षेपतः प्रोक्तं जीर्णोद्धारमथारभेत् ॥ ३६।४६ ॥
View Verse
अतः परं प्रवक्ष्यामि जीर्णोद्धारविधिं परम् ।
आचार्यं यजमानं च तक्षाचार्यं महामुने ॥ ३६।४७ ॥
View Verse
मृण्मयप्रतिमाजीर्णे शूलमृत्पटरज्जवः ।
पुनस्तु मृण्मयाः कार्या शिलया वापि कारयेत् ॥ ३६।४८ ॥
View Verse
शैलजप्रतिमाजीर्णे लोहजाः शैलजास्तथा ।
रत्नजप्रतिमाजीर्णे सौवर्णं वापि राजतम् ॥ ३६।४९ ॥
View Verse
दारुमृच्छैललोहाद्या रुक्मरत्नादिकाः क्रमात् ।
उत्तमा इति विज्ञेया उत्तरोत्तरमग्रतः ॥ ३६।५० ॥
View Verse
रुक्मं रत्नं समानं च केचिदाहुर्मनीषिणः ।
शिलालोहं च सदृशं देवर्षे इति केचन ॥ ३६।५१ ॥
View Verse
हाटकं रजतं ताम्रं समानमिति नारद ।
लोहशब्देन सञ्ज्ञात्वा कारयेदुत्सवादिकम् ॥ ३६।५२ ॥
View Verse
यजमानस्य वाञ्छा चेत् यथावित्तानुसारतः(!) ।
अस्मिन् मुनिवरश्रेष्ठ त्रपुकं चायसं विना ॥ ३६।५३ ॥
View Verse
आत्मार्थे च परार्थे च प्रतिमाकरणे मुने ।
अधमद्रव्यसम्पन्नं परकार्यमनुत्तमम्(?) ॥ ३६।५४ ॥
View Verse
सदृशने तु यत्कार्यं मध्यमं प्रोच्यते बुधैः ।
नोत्तमं त्वधमैः कार्यं कुर्वन् मोहात् प्रणश्यति ॥ ३६।५५ ॥
View Verse
राजराष्ट्रं च सकलं इति शास्त्रस्य निश्चयः ।
द्रव्य एव विसंवादो मानोन्मानप्रमाणकैः ॥ ३६।५६ ॥
View Verse
न न्यूनमतिरिक्तं च यदि चेत्सिद्धिमात्मनः ।
मूलबेरादिबेराणं जीर्णोद्धारविधौ मुने ॥ ३६।५७ ॥
View Verse
आत्मार्थे वा परार्थे वा तुल्यमेतद्द्विजोत्तम ।
आत्मार्थे वंशनाशः स्यात् परार्थे राष्ट्रनाशनम् ॥ ३६।५८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ।
विमानं प्रतिमां वापि प्राकारं गोपुरं तथा ॥ ३६।५९ ॥
View Verse
मण्डपं पूर्ववत् कुर्यात् नवकर्मानुलेपने ।
नष्टालयं चेत्तद्भूमौ पुराणोक्तं चार्षं तु वा ॥ ३६।६० ॥
View Verse
दैविकं मानुषं वापि यथाकामं तु कारयेत् ।
उत्तमालयमत्रैव उत्तमोत्तममेव वा ॥ ३६।६१ ॥
View Verse
अधमोत्तमं वा विप्रेन्द्र जीर्णं चेन्मुनिसत्तम ।
मध्यमेनाधमेनैव कारयेदालयं पुनः ॥ ३६।६२ ॥
View Verse
यजमानस्य वाञ्छा चेन्मध्यमे ऽप्येवमेव तु ।
अधमालयं भवेत्तस्मिन् अधमोत्तममेव वा ॥ ३६।६३ ॥
View Verse
अधमाधममेवाथ जीर्णोद्धारणकर्मणि ।
उपपीठसमायुक्तं द्वितलं त्रितलं तु वा ॥ ३६।६४ ॥
View Verse
यथावित्तानुसारेण(!) कुर्यादेकतलं तु वा ।
उत्तमादिक्रमं ज्ञात्वा यथाकामं तु वर्धयेत् ॥ ३६।६५ ॥
View Verse
वर्धनाच्छ्रियमाप्नोति राज्ञो राष्ट्रस्य नारद ।
तथैव नगरादीनामालयस्य विशेषतः ॥ ३६।६६ ॥
View Verse
भवनं गोपुराकारं शालकूटादिकं मुने ।
जीर्णं चेदिह लोके तु कारयेद्वा प्रपाकृतिम् ॥ ३६।६७ ॥
View Verse
नगरादीनि सञ्ज्ञात्वा ग्रामराजानुकूलतः ।
यथावित्तानुसारेण(!) कुर्याद्वेश्म यथापरुचि ॥ ३६।६८ ॥
View Verse
ग्रामानुकूलतो वापि धाम कुर्यादनुत्तमम ।
प्रतिमां पुनरत्रैव कुर्यात् प्रासादमात्रतः ॥ ३६।६९ ॥
View Verse
द्वारमानेन वा चास्मिन् गर्भमानेन वा मुने ।
उत्तमाधममध्येन नष्टोद्धारणकर्मणि ॥ ३६।७० ॥
View Verse
तद्गेहात् पश्चिमे याम्ये निर्गमाकृति नेष्यते ।
पूर्ववत् कारयेज्जीर्णस्योद्धारे मुनिसत्तम ॥ ३६।७१ ॥
View Verse
सम्मोहात् पश्चिये याम्ये निर्गमं कारयेद्यदि ।
ग्रामस्य कलहं कुर्यात् धर्ममार्गर्ं(-गो?)विनश्यति ॥ ३६।७२ ॥
View Verse
तद्राष्ट्रं यजमानश्च नश्यत्येव न संशयः ।
तस्मात् सर्वप्रयत्नेने न कुर्यान्निर्गमाकृतिम् ॥ ३६।७३ ॥
View Verse
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ।
यजमानस्य वाञ्छा चेद्यथाकामं तु वर्धयेत् ॥ ३६।७४ ॥
View Verse
सर्वशः प्रतिदिक्ष्वादि पश्चिमं नेष्यते मुने ।
पूर्वद्वारस्य गेहस्य मण्डपादि यथाक्रमम् ॥ ३६।७५ ॥
View Verse
जीर्णोद्धारे मुनिश्रेष्ठ सर्वं पूर्ववदाचरेत् ।
तस्मात् सर्वप्रयत्नेन यथाकामं तु वर्धयेत् ॥ ३६।७६ ॥
View Verse
वर्धनाच्छ्रियमाप्नोति तद्गेहस्य दिने दिने ।
प्राकारादिषु भूषाणां भेदो वा दोषकारणम् ॥ ३६।७७ ॥
View Verse
न भवेदिति भाषन्ते मुनयो नारदादयः ।
गोपुरे ऽधिकभावं च प्राकारे ऽपि विशेषतः ॥ ३६।७८ ॥
View Verse
एवं परीक्ष्य मतिमान् नवकर्मानुलेपने ।
नष्टोद्धारे च वै चास्मिन् जीर्णोद्धारादिषु क्रमात् ॥ ३६।७९ ॥
View Verse
कारयेत् साधकः पश्चात् शिल्पाचार्यसमन्वितः ।
मूलबेरे मुनिश्रेष्ठ भिन्नं छेद्यं भवेद्यदि ॥ ३६।८० ॥
View Verse
स्फुटितं चेत्तु तद्बेरं त्यक्त्वा पश्चान्महामुने ।
शक्तिमुद्वासयेद्बेरात् क्षिप्रं शान्तिं समाचरेत् ॥ ३६।८१ ॥
View Verse
तस्याग्रे विधिवत् कुम्भे संस्थाप्य हरिमव्ययम् ।
तत्कुम्भमध्ये मूलेन मूलबेरान्नयेद्धरिम् ॥ ३६।८२ ॥
View Verse
शान्तिहोमं ततः कृत्वा चक्रमन्त्रेण मन्त्रवित् ।
सुदर्शनमहामन्त्रं सर्वशन्तिकरं भवेत् ॥ ३६।८३ ॥
View Verse
आवाहनविसर्गं तु कुम्भात् पूर्ववदाचरेत् ।
बालस्थानं क्रमात् कल्प्य स्थापयेद्विधिचोदितम् ॥ ३६।८४ ॥
View Verse
जलाधिवासनं तस्य नेष्यते मुनिसत्तम ।
सद्यो ऽधिवासनेनैव स्थापयेद्धरिमव्ययम् ॥ ३६।८५ ॥
View Verse
जीर्णोद्धारे मुनिश्रेष्ठ कालवेलादि नेष्यते ।
निरीक्ष्य बहुधा दोषान् पूजाकाले दिने दिने ॥ ३६।८६ ॥
View Verse
पश्चात् सम्पूजयेद्देवं दोषहीनं भवेद्यदि ।
एवं दोषसमायुक्तं मोहाल्लोभाद्यजेद्धरिम् ॥ ३६।८७ ॥
View Verse
तत्पूजा निष्फला याति कर्ता भर्ता च नश्यति ।
तद्ग्रामं निधनं याति रोगवृद्धिर्भविष्यति ॥ ३६।८८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारणमाचरेत् ।
ध्वजे वारोहिते पश्चात् वैगुण्यं यदि दृश्यते ॥ ३६।८९ ॥
View Verse
उत्सवं च मुनिश्रेष्ठ शान्तिहोमसमन्वितम् ।
बालस्थाने समासाद्य उत्सवं तत्र कारयेत् ॥ ३६।९० ॥
View Verse
अन्यथा चेन्महादोषो राज्ञश्चैव विनाशकृत् ।
तस्मात् सर्वप्रयत्नेन शेषकर्म समाचरेत् ॥ ३६।९१ ॥
View Verse
नित्योत्सवादि कर्माणि बालस्थाने ऽपि नारद ।
पूर्ववत् कारयेद्धीमान् इति शास्त्रस्य निश्चयः ॥ ३६।९२ ॥
View Verse
मन्त्रज्ञो वंशसम्पन्नो कुलीनः शास्त्रपारगः ।
तन्त्रज्ञो वेदपाठी च स्थापनादिक्रियापरः ॥ ३६।९३ ॥
View Verse
सर्वावयवसम्पूर्णः सर्वरोगविवर्जितः ।
सुशान्तः कुशलो दान्तो यदृच्छालाभतोषकः ॥ ३६।९४ ॥
View Verse
अमत्सरी जितक्रोधः धूद्रसङ्करवर्जितः ।
वर्ज्यावर्ज्यः कृतज्ञश्च पूर्वकारी च भक्तिमान् ॥ ३६।९५ ॥
View Verse
तद्वंश्यो वापि शिष्यो वा प्रशिष्यस्तन्त्रपारगः ।
तन्त्रवान् दीक्षितो वापि गुणवान् गुणवित्तमः ॥ ३६।९६ ॥
View Verse
राजयक्ष्मा(?)च कुष्ठी च गुल्मी च शिबि(पि?) विष्टकः ।
खल्वाटः चातिवृद्धश्च बालो वृषणरोगवान् ॥ ३६।९७ ॥
View Verse
ह्रस्वाकारो ऽतिदीर्घश्च कृशचिबुक एव च ।
बधिरो विकलाङ्गश्च विप्रो रदनदोषयुक् ॥ ३६।९८ ॥
View Verse
वर्जयेद्देवकार्येषु कुनखी च विशेषतः ।
स्थापकाचार्ययोश्चैव लक्षणं विद्धि नारद ॥ ३६।९९ ॥
View Verse
सङ्ग्रहेल्लक्षणोपेतमाचार्यं स्थापकं तथा ।
एवं परीक्ष्य मतिमान् प्रतिष्ठाराधनादिषु ॥ ३६।१०० ॥
View Verse
जीर्णोद्धारे विशेषेण लक्षयेल्लक्षणान् क्रामत् ।
सुमुहूर्ते सुलग्ने च स्थापकस्तक्षकान्वितः ॥ ३६।१०१ ॥
View Verse
तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद ।
यत्तन्त्रेण समारब्धं तत्तन्त्रेण समाचरेत् ॥ ३६।१०२ ॥
View Verse
अनुक्तं चान्यतन्त्रेषु निरीक्ष्यात्र प्रयोजयेत् ।
विशेषांश्च मुनिश्रेष्ठ चान्यथा राष्ट्रनाशकृत् ॥ ३६।१०३ ॥
View Verse
चातुर्वर्ण्यसमोपेतः(?)सदाचारपरायणः ।
सद्वंश्यः सर्वशास्त्रज्ञो लोकज्ञः सर्वधर्मवित् ॥ ३६।१०४ ॥
View Verse
भक्तिमान् धनवान् वाग्मी सर्वसङ्कल्पवृद्धियुक् ।
सुशीलश्च सुरूपश्च श्रद्धालुः शुद्धमानसः ॥ ३६।१०५ ॥
View Verse
आचार्यः तक्षकश्चैव वंशगः सुमुखोत्तमः ।
शास्त्रप्रामाण्यकश्चैव दीनः सुबहुभृत्यवान् ॥ ३६।१०६ ॥
View Verse
यथोक्तकारी मतिमान् कुशलः सर्वकर्मसु ।
पूर्वकारी च तद्वंश्यः तच्छिष्यो वा प्रशिष्यकः ॥ ३६।१०७ ॥
View Verse
तज्जातीयो ऽन्यजातीयः पूर्वापूर्वगुणाधिकः ।
पूर्वापलोभे तु गृह्णीयात् उत्तरं नान्यथा मुने ॥ ३६।१०८ ॥
View Verse
मोहेन यदि गृह्णीयात् तस्य स्यात् कर्तृसङ्करः ।
कर्तृसङ्करदोषेण राजराष्ट्रस्य रोगकृत् ॥ ३६।१०९ ॥
View Verse
तस्मात् सर्वप्रयत्नेन शास्त्रदृष्ट्या समाचरेत् ।
तक्षकं तक्षसूत्रज्ञं कुशलं सर्वकर्मसु ॥ ३६।११० ॥
View Verse
लघुहस्तं सुरूपं च सुशान्तं दैविकं तथा ।
वंशानुवंशसम्पन्नं कुशलं सत्परायणम् ॥ ३६।१११ ॥
View Verse
वैष्णवं सूत्रकालज्ञं क्रियाज्ञं पूर्वकारिणम् ।
दयालुं शान्तमनसं सतीर्थं(?)सत्समादृतम् ॥ ३६।११२ ॥
View Verse
तदलाभे तु तद्वंश्यान् तच्छिश्यान् वा प्रशिष्यकान् ।
सन्निमन्त्रितमेवं तत्(?)न कुर्याज्जातिसङ्करम् ॥ ३६।११३ ॥
View Verse
अन्यजातिसमालब्धमादिकाले महामुने ।
अन्यजात्या कृतं मोहाद्राजराष्ट्रविनाशकृत् ॥ ३६।११४ ॥
View Verse
एवं लक्षणमालभ्य कर्तुरिच्छापुरःसरम् ।
यो मोहादन्यमार्गेण कारयेन्मुनिसत्तम ॥ ३६।११५ ॥
View Verse
आचार्यस्य च कर्तुश्च तक्ष्णश्चाप्यशुभं भवेत् ।
इति सुबहु निरीक्ष्य बुद्धिदृष्ट्या सततमनन्यमतिः स कर्तृमत्या ॥ ३६।११६ ॥
View Verse
स्थपतिमति च(?)कारयीत जीर्णोद्धरणमसौ जगतां गुरुर्गुरुर्यः ।
विष्वक्सेनः---
अतः परं प्रवष्यामि प्रासादस्य विशेषतः ॥ ३६।११७ ॥
View Verse
रथादिशिबिकादीनां प्रोक्षणं परमं शुभम् ।
सर्वशान्तिकरं पुंसां सर्वतीर्थफलाप्रदम् ॥ ३६।११८ ॥
View Verse
पूर्वोक्तमण्डपे शुद्धे सर्वमङ्गलसंयुते ।
तन्मध्ये हस्तकां वेदिं वृत्तां वा चुतरश्रकाम् ॥ ३६।११९ ॥
View Verse
कारयेच्छास्त्रदृष्टेन तन्नाम अधुनोच्यते ।
वृत्तं सुशोभनं नाम चतुरश्रं सुमङ्गलम् ॥ ३६।१२० ॥
View Verse
राजराष्ट्रविवृद्ध्यर्थं वृत्तकारं भवेत् सदा ।
ग्रामायतनवृद्ध्यर्थं चतुरश्रं तु नारद ॥ ३६।१२१ ॥
View Verse
वृत्तं वाकृति विज्ञेयः(?) चतुरश्रं तु वाधिः ।
आमेष्टकाभिः पक्वाभिः कुर्याद्वेदिमनुत्तमाम् ॥ ३६।१२२ ॥
View Verse
हस्तोच्छ्रायां तदर्धं वा दर्पणोदरसन्निभाम् ।
पूर्ववद्वेदिमालिप्य प्रोक्षयेत् पूर्ववत् क्रमात् ॥ ३६।१२३ ॥
View Verse
पुण्याहं वाचयेत्तत्र ब्राह्मणानामनुज्ञया ।
पूर्ववत् स्थण्डिलं कृत्वा शालिना मुनिसत्तम ॥ ३६।१२४ ॥
View Verse
तदर्धं तण्डुलं कृत्वा शालिभिर्वान्यमेव वा ।
वेदिकायां तदूर्ध्वे तु पीठं कृत्वा लिखेत् पुनः ॥ ३६।१२५ ॥
View Verse
वेदिकायां तु परितः शालिभिर्वेदिमाचरेत् ।
शालिमध्ये मुनिश्रेष्ठ चाष्टदिग्दलमालिखेत् ॥ ३६।१२६ ॥
View Verse
छन्दोमूलादिवचनं लिखेत्तद्दलमध्यमे ।
सूत्रवस्त्रपरिच्छन्नं सर्वलक्षणसंयुतम् ॥ ३६।१२७ ॥
View Verse
चन्द्रमण्डलमध्ये तु स्थापयेत्तेन मन्त्रतः ।
तत्कुम्भजलमध्ये तु सितपुष्पं विनिक्षिपेत् ॥ ३६।१२८ ॥
View Verse
पुष्पमाल्यैरलङ्कृत्य वस्त्रयुग्मैरलङ्कृतम् ।
नवरत्नसमायुक्तं नवकूर्चयुतं तथा ॥ ३६।१२९ ॥
View Verse
तस्मिन्नावाहयेन्मध्ये प्रासादस्याधिदैवतम् ।
मध्ये कुम्भं च परितः स्थापयेदष्टदिग्दले ॥ ३६।१३० ॥
View Verse
तत्तन्मन्त्रेण मतिमान् अष्टकुम्भाननुक्रमात् ।
नववस्त्रेण सञ्छाद्य सूत्रपुष्पजलान्वितम् ॥ ३६।१३१ ॥
View Verse
कूर्चद्वयसमोपेतं पुष्पमाल्यैरलङ्कृतम् ।
पूर्वादीशानपर्यन्तं कुम्भे पूर्ववदानयेत् ॥ ३६।१३२ ॥
View Verse
आचार्यः समलङ्कृत्य हेमवस्त्राङ्गुलीयकैः ।
कुम्भस्य दक्षिणे पार्श्वे उत्तराभिमुखः स्थितः ॥ ३६।१३३ ॥
View Verse
पुण्पाञ्जलिपुटं कृत्वा इमं मन्त्रं जपेद्बुधः ।
सहस्रशीर्षादीनि (-दि?) सूक्तं तु पुरुषेण तु ॥ ३६।१३४ ॥
View Verse
मुलबेरान्नयेत् कुम्भे देवं प्रासादरूपिणम् ।
अथवा मुनिशार्दूल चानयेत् परमेष्ठिना ॥ ३६।१३५ ॥
View Verse
दिग्दलाष्टघटे विद्वान् तत्तन्मन्त्रेण चानयेत् ।
पूर्ववद्बलिदानं तु कारेयन्मन्त्रवित्तमः ॥ ३६।१३६ ॥
View Verse
तथैव प्रोक्षयेद्विद्वान् सूक्तेन पुरुषेण तु ।
गर्भगेहं तथा प्रोक्ष्य बहिरन्तः समन्ततः ॥ ३६।१३७ ॥
View Verse
कुम्भस्थितेन देवेशं विमानादिषु योजयेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हविस्तत्र न विद्यते ॥ ३६।१३८ ॥
View Verse
बलिं तु कारयेत्तत्र चाष्टदिक्षु समन्ततः ।
तस्मिन् काले महाप्राज्ञो आचार्य पूजयेत् क्रमात् ॥ ३६।१३९ ॥
View Verse
हेमवस्त्राङ्गुलीयैस्तु पूजयेद्देववत्तदा ।
शिल्पिनं पूजयेत्तत्र नववस्त्राङ्गुलीयकैः ॥ ३६।१४० ॥
View Verse
ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।
एवमेव तु कर्तव्यं त्रिरधा (?) शिबिकानि च ॥ ३६।१४१ ॥
View Verse
रथादिवाहनानां तु खगेशाच्छक्तिमानयेत् ।
तेन मन्त्रेण मन्त्रज्ञो प्रोक्षयेत् पूर्ववत् क्रमात् ॥ ३६।१४२ ॥
View Verse
चण्डालपतितोदक्यानिषाद्यै(-दै?)स्तक्षकादिकैः ।
लोभाद्वा यदि वा मोहात् स्पर्शनं चेन्मुनीश्वर ॥ ३६।१४३ ॥
View Verse
प्रासादप्रोक्षणेनैव प्रासादं शुद्ध्यते ऽत्र वै ।
अथवा मुनिशार्दूल पञ्चगव्यं समानयेत् ॥ ३६।१४४ ॥
View Verse
देवाग्रे हस्तमात्रं तु समालिप्य समाहितः ।
द्रोणशालिं तु विस्तीर्य तदर्धं तण्डुलं तथा ॥ ३६।१४५ ॥
View Verse
तत्र मध्ये लिखेत् पद्मं पूर्वोक्तेन विधानतः ।
पञ्चगव्यं तु संस्थाप्य तेन बीजेन साधकः ॥ ३६।१४६ ॥
View Verse
पुण्याहं वाचयेत्तत्र गन्धपुष्पादिनार्चयेत् ।
हविर्निवेदयेत् पश्चात् स्मरन् देवस्य रूपिणम् ॥ ३६।१४७ ॥
View Verse
प्रोक्षयेद्गव्यकैर्मन्त्रैः पञ्चोपनिषदैः क्रमात् ।
ततः सप्तदशा भिन्नान् कलशान् बलिबेरगे ॥ ३६।१४८ ॥
View Verse
स्नपनं कारयेत्तस्मिन् शुद्ध्यते नात्र संशयः ।
चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तमिदं स्मृतम् ॥ ३६।१४९ ॥
View Verse
प्रासादप्रोक्षणं पश्चात् कारयेद्विधिचोदितम् ।
आचार्यं पूजयेत्तत्र यथावित्तानुसारतः(!) ॥ ३६।१५० ॥
View Verse
दिङ्मूर्तीनां तु सर्वेषां न शुद्धिरिह नारद ।
अत्र कश्चिद्विशेषो ऽस्ति दिङ्मूर्तिस्थापनाविधौ ॥ ३६।१५१ ॥
View Verse
अर्धचित्रप्रतिष्ठायां यत्प्रोक्तं संहितान्तरे ।
तथैव कारयेत्तस्मिन् दिङ्मूर्तीनां तु नारद ॥ ३६।१५२ ॥
View Verse
आयुरारोग्यपुत्रादीन् लभते नात्र संशयः ।
उत्सवान्ते प्रलेपान्ते दुर्जनस्पर्शने तथा ॥ ३६।१५३ ॥
View Verse
दुर्निमित्ता(-त्तो?)दये चैव कार्यं सम्प्रोक्षणाविधिः ।
दिङ्मूर्तीनां तु सर्वेषां उत्सवान्ते न कारयेत् ॥ ३६।१५४ ॥
View Verse
अर्धचित्रप्रतिष्ठास्मिन् शेषं साधारणं भवेत् ।
दुर्जनस्पर्शनं चेत्तु प्रासादं मुनिसत्तम ॥ ३६।१५५ ॥
View Verse
चण्डालाद्यैश्च संस्पृष्टं(-ष्टे?) प्रायश्चित्तं समाचरेत् ।
तेनैव शुद्ध्यते तस्मिन् नात्र कार्या विचारणा ॥ ३६।१५६ ॥
View Verse
दिङ्मूर्तीनां तु सर्वेषामस्मिंस्तेनैव तुष्यति ।
गेहस्यालेपनान्ते च दुर्जनस्पर्शने ऽपि च ॥ ३६।१५७ ॥
View Verse
दिङ्मूर्तीनां तु सर्वेषां विशेषं न तु कारयेत् ।
तथैव दुर्निमित्तेषु शेषं पूर्ववदाचरेत् ॥ ३६।१५८ ॥
View Verse
प्रासादप्रोक्षणेनैव शुद्ध्यते नात्र संशयः ।
नास्तिक्येनैव यो मोहात् अन्यथाकुरुते मुने ॥ ३६।१५९ ॥
View Verse
तत् स्थानं नाशकृद्वापि तद्ग्रामस्य तथैव च ।
तस्मात्तु विधिवत् सम्यक् कारयेत्तन्त्रवित्तमः ॥ ३६।१६० ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [जीर्णोद्धारादिविधिर्नाम] षट्त्रिंशो ऽध्यायः ॥
View Verse

Chapter - 37

सप्तत्रिंशो ऽध्यायः
नारदः---
नमस्ते ऽस्तु जगन्नाथ विष्णुपारिषदेश्वर ।
विष्वक्सेन नमस्ते ऽस्तु नमस्ते विश्वकर्मणे ॥ ३७।१ ॥
View Verse
त्वत्तो ऽधीतं मया तन्त्रं पञ्चरात्रार्णवामृतम् ।
दीक्षाशकुनविस्तारो न त्वया किञ्चिदीरितः ॥ ३७।२ ॥
View Verse
तत्सर्वं श्रोतुमिच्छामि प्रब्रूहि भगवन् मम ।
इति विज्ञापितो देवो विष्वक्सेनो महात्मना ॥ ३७।३ ॥
View Verse
प्रत्युवाच महजेजाः प्रणम्य गरुडध्वजम् ।
विष्वक्सेनः---
श्रुणु नारद तत्त्वेन महाविद्यां पुरातनीम् ॥ ३७।४ ॥
View Verse
मया पृष्टः पुरा प्राह महाविष्णुर्जगन्मयः ।
साधकानां हितार्थाय चतुःषष्टिप्रभेदतः ॥ ३७।५ ॥
View Verse
शकुनानि जगन्नाथः तान् सर्वान् प्रब्रवीमि ते ।
विघ्नेशः प्रथमः प्रोक्तो गाङ्गेयो मूषिकाध्वजः ॥ ३७।६ ॥
View Verse
तं पूजयित्वा विधिवत् प्रणम्य प्रार्थयेन् मुने ।
तस्मिन् प्रसन्ने विघ्नेशे सर्वदेवनमस्कृते ॥ ३७।७ ॥
View Verse
सर्वार्थसिद्धिर्भवति नात्र कार्या विचारणा ।
स एव नायकस्तेषां शकुनानां गणेश्वरः ॥ ३७।८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन पूजयेद्विघ्ननायकम् ।
पूजाक्रमं प्रवक्ष्यामि सङ्क्षेपेण महामुने ॥ ३७।९ ॥
View Verse
आवाहयेच्छुचौ देशे सुलिप्ते सुविचित्रिते ।
स्वासने दर्भसङ्कीर्णे कुसुमैरुपशोभिते ॥ ३७।१० ॥
View Verse
गायत्र्या चासनं दद्यात् प्रणम्य गणनायकम् ।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं तथैव च ॥ ३७।११ ॥
View Verse
स्नानं वस्त्रोपवीतं च भूषणं गन्धपुष्पकम् ।
धूपदीपं (-पौ?) निवेद्यादि स्तोत्रं रजमुखं स्मरन् ॥ ३७।१२ ॥
View Verse
कृत्वा पूजां गणेशस्य प्रणम्य प्रार्थयेत् प्रभुम् ।
गायत्र्या चैव तत्सर्वं कुर्यात्तन्त्रविचक्षणः ॥ ३७।१३ ॥
View Verse
एवं पूज्य ततः पश्चात् गन्धपुष्पादिभिः पुनः ।
पुस्तकं पूजजित्वा तु यथावद्विजितेन्द्रियः ॥ ३७।१४ ॥
View Verse
आलिखेत् पुस्तकं सर्वं शकुनानि यथाक्रमम् ।
नारदः--
कथं देव निमित्तानि लिख्यते पुस्तके नरैः ॥ ३७।१५ ॥
View Verse
एतदाचक्ष्व भगवन् संशयो मे महानसौ ।
विष्वक्सेनः---
एवमेव मया पृष्टः प्रोवाच भगवान् यथा ॥ ३७।१६ ॥
View Verse
तथैवात्र प्रवक्ष्यामि शृणुष्व मुनिपुङ्गव ।
विघ्नराज (-जो?) महारातिः महिषः शुकपीतकः ॥ ३७।१७ ॥
View Verse
कबन्धं न नदी चैव बृहज्जाली तथैव च ।
पुरुषश्च मृगश्चैव मार्जारो देवगौस्तथा ॥ ३७।१८ ॥
View Verse
देवागारो रथश्चैव ज्वरः कल्पद्रुमस्तथा ।
व्याघ्रप्रासादरक्षांसित मृगो ग्राहस्तथैव च ॥ ३७।१९ ॥
View Verse
मकरो वृश्चिकश्चैव पुष्कला(-रा?)वर्तकस्तथा ।
मत्स्ययुग्मं च श्येनं च श्रीवृक्षे च सरस्वती ॥ ३७।२० ॥
View Verse
वानरं च (-रश्च?) महाचक्रं वृकशङ्खकपिञ्जलाः ।
अङ्कुशं लोकमातङ्ग ऋक्षाश्वं राजहंसकम् ॥ ३७।२१ ॥
View Verse
धूमचामरसिंहाश्च पूर्णरिक्तघटौ क्रमात् ।
पद्मिनीकाकचन्द्राश्च ध्वजशूलौ च दर्पणम् ॥ ३७।२२ ॥
View Verse
नग्नो दीपश्च विधवा मङ्गलापितृभूस्तथा ।
कूर्मः कालीमहादुर्गार्(-गे?)सर्पराजजरद्गवौ ॥ ३७।२३ ॥
View Verse
नृपब्रह्महरीशान् वै एते शकुनसूचकाः ।
एकैकस्य भवेच्छाखा एक एव प्रकीर्तितः ॥ ३७।२४ ॥
View Verse
तान् सर्वान् क्रमशो वक्ष्ये यथावत्तान् निबोध मे ।
विघ्नेशमादितस्तत्र ततः श्लोकं प्रवक्ष्यते ॥ ३७।२५ ॥
View Verse
विघ्नेशो दृश्यते यत्र साधकेन्द्रेण धीमता ।
प्रार्थितस्य तु तां सिद्धिं तच्छिष्यायादिशेद्गुरुः ॥ ३७।२६ ॥
View Verse
शत्रुनाशं तथैवाग्रं राजपूजा च दृश्यते ।
धनलाभोर्ऽथलाभश्च अभयं च भविष्यति ॥ ३७।२७ ॥
View Verse
कायक्लेशं तथा रोगं सर्वत्र भयमेव च ।
दृश्यते यत्र महिषं तत्र व्याधिर्भविष्यति ॥ ३७।२८ ॥
View Verse
विद्यासुखं महाज्योतिर्दृश्यते शुकपीतकम् ।
आयुश्च लभते यस्मात् बन्धूनां च सुखं भवेत् ॥ ३७।२९ ॥
View Verse
लम्बाननं (कबन्धं तु ?) यथादृष्टं वियोगं बन्धुभिः सह ।
युज्यते भयमन्युपग्रं पिशायेभ्यस्तथैव च ॥ ३७।३० ॥
View Verse
दृश्यते यत्र कावेरी विपदं च विनश्यति ।
सुखं भवति सर्वत्र बहुव्रीहिर्भविष्यति ॥ ३७।३१ ॥
View Verse
वृद्धिर्भवति सस्यानां राजा च विजयी भवेत् ।
आयुरारोग्यदं नॄणां रोगनाशो भविष्यति ॥ ३७।३२ ॥
View Verse
दृश्यते तु बृहज्जाली मुखरोगं विनिर्दिशेत् ।
कृष्णकुष्ठशरीरे(?)तु गृहनाशमथापि वा ॥ ३७।३३ ॥
View Verse
पुरुषश्च (-षे च ?) मृगे दृष्टे ब्रह्मवर्चस्तपोयुतः(?) ।
अभिप्रेतार्थसिद्धिं च शुभं चैव विनिर्दिशेत् ॥ ३७।३४ ॥
View Verse
मार्जारा यत्र दृश्यन्ते बन्धुनाशं वियोगिता ।
दधिक्षीरघृतादीनां नाशो भवति नान्यथा ॥ ३७।३५ ॥
View Verse
देवगौर्दृश्यते यत्र शत्रुभ्यो भयमादिशेत् ।
सहवासं च पुत्राणां मातॄणां च विनाशनम् (?) ॥ ३७।३६ ॥
View Verse
देवालये ऽथ दृष्टे वै विद्यावृद्धिस्तथा भवेत् ।
पुत्रलाभोर्ऽथलाभश्च भविष्यति न संशयः ॥ ३७।३७ ॥
View Verse
विमानं दृश्यते यत्र राज्यलाभो नृपस्य तु ।
शुद्रब्राह्मणवैश्यानां लाभः सर्वो भविष्यति ॥ ३७।३८ ॥
View Verse
ज्वरे दृष्टे ज्वरं ब्रूयादङ्गहानिः क्षुधार्तता ।
हृत्ताप अर्थनाशश्च भविष्यति न संशयः ॥ ३७।३९ ॥
View Verse
कल्पद्रुमे ऽथ दृष्टे वै राज्येन सदृशं सुखम् ।
ब्राह्मणस्य श्रियं ब्रूयादीप्सितार्थं भविष्यति ॥ ३७।४० ॥
View Verse
व्याघ्रे दृष्टे भयं घोरं गवादीनां विनिर्दिशेत् ।
राजतो भयमत्युग्रं पुरुषस्य न संशयः ॥ ३७।४१ ॥
View Verse
प्रासादो दृश्यते यत्र पुत्रपौत्रैः सुखी भवेत् ।
धनधान्यसमृद्धिश्च भवेत्तत्र न संशयः ॥ ३७।४२ ॥
View Verse
निशाचरे च वै दृष्टे घोरं नॄणां भयं भवेत् ।
ब्राह्मणानां गवां चैव वधं ब्रूयुरसंशयः ॥ ३७।४३ ॥
View Verse
कृश्णे मृगे ऽथ दृष्टे वै यज्ञकल्याणमादिशेत् ।
राष्ट्रशान्ति कुटुम्बस्य कीर्तिं वाथ विनिर्दिशेत् ॥ ३७।४४ ॥
View Verse
शिंशुमारे ऽथ दृष्टे वै मरणं च भयावहम् ।
अजगोमहिषादीनां व्याधिं चार्तिं विनिर्दिशेत् ॥ ३७।४५ ॥
View Verse
मकरे दृश्यमाने तु स्त्रीभोगं लभते ध्रुवम् ।
आरोगयमन्नलाभश्च लभते नात्र संशयः ॥ ३७।४६ ॥
View Verse
वृश्चिको दृश्यते यत्र विषेण मरणं भवेत् ।
हृत्तापमात्मपीडा च भार्याकलहमेव च ॥ ३७।४७ ॥
View Verse
पुष्कला(-रा?)वर्तके दृष्टे महद्वृद्धिर्भविष्यति ।
वृद्धिर्भवति सस्यानां सुभिक्षं क्षेत्रमेव च ॥ ३७।४८ ॥
View Verse
कीर्तिं वृद्धिं जयं चैव विन्दते परमं सुखम् ।
बलवृद्धिं सुभिक्षं च मत्स्ययुग्मं विनिर्दिशेत् ॥ ३७।४९ ॥
View Verse
श्येनस्तु दृश्ते यत्र शस्त्रेण मरणं भवेत् ।
पलायनं कुटुम्बस्य शत्रुभिर्भयमादिशेत् ॥ ३७।५० ॥
View Verse
निधनं लभते सस्तु (यस्तु ?) सदा लाभविनिर्गगतम् ।
पुष्कलं धनधान्यं च वंशवृद्धिर्भविष्यति ॥ ३७।५१ ॥
View Verse
कृकलासो भवेद्यत्र ब्राह्मणैश्च विरुद्ध्यते ।
वर्णस्य सङ्करं ब्रूयात् त्वग्दोषं च विनिर्दिशेत् ॥ ३७।५२ ॥
View Verse
श्रुतलाभं च वा वृद्धिं कीर्तिलाभं च शाश्वतम् ।
व्यवहारे जयं चैव सरस्वत्यां विनिर्दिशेत् ॥ ३७।५३ ॥
View Verse
कुटुम्बस्य च दौर्बल्यं वर्णसङ्करमेव च ।
वानरो दृश्यते यत्र मृगेभ्यो भयमेव च ॥ ३७।५४ ॥
View Verse
चक्रे तु विजयं नित्यं राज्यलाभमवाप्स्यति ।
व्याधिदुर्भिक्षनाशं च शत्रुनाशं विनिर्दिशेत् ॥ ३७।५५ ॥
View Verse
तस्करेभ्यो भयं नित्यं वृके दृष्टे न संशयः ।
क्षुत्पीडां राजपीडां च राष्ट्रस्य च विनिर्दिशेत् ॥ ३७।५६ ॥
View Verse
भयनाशं श्रिनयं चैव पुष्कलार्थं तथैव च ।
स्त्रीलाभं वस्त्रलाभं च पाञ्चजन्ये विनिर्दिशेत् ॥ ३७।५७ ॥
View Verse
पिङ्गला(?) दृश्यते यत्र शत्रुभिर्मरणं भवेत् ।
राष्ट्रस्य कलहं ब्रूयात् विषं भवति नान्यथा ॥ ३७।५८ ॥
View Verse
हस्तिलाभस्तथा राज्ञो अङ्कुशे तु विनिर्दिशेत् ।
समरे विजयं तेषां पुष्कलार्थं विनिर्दिशेत् ॥ ३७।५९ ॥
View Verse
वराहो दृश्यते यत्र सस्यनाशं विनिर्दिशेत् ।
शस्त्रक्षयं पुनः पश्येत् अर्थनाशं भयं तु वा ॥ ३७।६० ॥
View Verse
पुत्रलाभं श्रियं चैव राज्यलाभं तथैव च ।
स्फुटमैरावते दृष्टे राज्यलाभं तु निर्दिशेत् ॥ ३७।६१ ॥
View Verse
ऋक्षराजे ऽथ वै दृष्टे क्षेत्रनाशो भवेद्ध्रुवम् ।
स्थाननाशो भवेत्तत्र शत्रुवृद्धिं च निर्दिशेत् ॥ ३७।६२ ॥
View Verse
ग्रामे शान्तिर्मनस्तुष्टिर्मङ्गलायतनं भवेत् ।
आयुरारोग्यमैश्वर्यमर्थे(-श्वे?)न तु विनिर्दिशेत् ॥ ३७।६३ ॥
View Verse
राजहंसो (-से?) भवेन्नित्यं राज्यलाभो जयाय तु ।
आयुरैश्वर्यवृद्धिश्च पुष्कलाकीर्तिरेव च ॥ ३७।६४ ॥
View Verse
धूमे बन्धुविनाशश्च विद्युता मरणं भवेत् ।
निषादेभ्यो भयं चैव वैधव्यं च भविष्यति ॥ ३७।६५ ॥
View Verse
चामरे चैव दृष्टे तु ग्रामनाशो भविष्यति ।
अनावृष्टिश्च राज्यस्य अतिवृष्टिरथापि वा ॥ ३७।६६ ॥
View Verse
सिंहे दृष्टे भवेच्चैव अर्थलाभं च निर्दिशेत् ।
सद्वृद्धिं सर्वजन्तूनां पुत्रपौत्रविवर्धनम् ॥ ३७।६७ ॥
View Verse
पुत्रपौत्रविवृद्धिं च पुष्कलां श्रियमाप्नुयात् ।
पूर्णकुम्भे तु वै दृष्टे पुरुषाणां न संशयः ॥ ३७।६८ ॥
View Verse
शत्रूणां वृद्धिसंयुक्तं धनधान्यविनाशनम् ।
रिक्तकुम्भे तु वै दृष्टे भवत्येव न संशयः ॥ ३७।६९ ॥
View Verse
धनलाभं तथावाप्तिः(?) पुत्रलाभस्तथैव च ।
लभते सर्वलाभं च पुष्करिण्याः प्रदर्शने ॥ ३७।७० ॥
View Verse
चिन्तितार्था विनश्यन्ति आयुरैश्वर्यनाशनम् ।
यस्मिन् काले तु सम्पश्येत् दुष्टकाकं सुदुर्मनाः ॥ ३७।७१ ॥
View Verse
शत्रुक्षयं धनावाप्तिं समरे विजयं तथा ।
आयुरारोग्यसम्प्राप्तिं पूर्णचन्द्रस्य दर्शनात् ॥ ३७।७२ ॥
View Verse
विजयं शत्रुनाशश्च धनधान्यसुखावहम् ।
आयुरारोग्यदं नॄणां उत्तमध्वजदर्शनात् ॥ ३७।७३ ॥
View Verse
शत्रुवृद्धिं धनच्छेदं सरोगं सस्यनाशनम् ।
सम्पश्यन् शूलराजानं नात्र कार्या विचारणा ॥ ३७।७४ ॥
View Verse
आरोग्श्यं बलमैश्वर्यं कीर्तिं विद्याधनागमम् ।
लभते नास्ति सन्देहो दर्पणस्य च दर्शनात् ॥ ३७।७५ ॥
View Verse
लाभहानिर्यशो हानिरायुर्हानिस्तथैव च ।
सर्वहानिर्भवत्येव नग्नस्यैव च दर्शनात् ॥ ३७।७६ ॥
View Verse
चित्तार्थं लभते तत्र शुभं वाप्यशुभं तु वा ।
शत्रुक्षयं च भवति प्रदीपं यस्तु पश्यति ॥ ३७।७७ ॥
View Verse
अर्थहानिर्मनस्तापः गृहे दुश्चरितं भवेत् ।
विधवादर्शनं यस्य भवत्यत्र न संशयः ॥ ३७।७८ ॥
View Verse
अर्थलाभो मनस्तुष्टिः गृहे सम्पद्भविष्यति ।
चिन्तितार्थं लभेत्तत्र सुमङ्गल्याः प्रदर्शने ॥ ३७।७९ ॥
View Verse
श्मशानं दृश्यते यत्र ग्रामनाशं धनक्षयम् ।
बन्धुदेववियोगं च सर्वते भयमेव वा ॥ ३७।८० ॥
View Verse
अभयं सर्वतत्त्वेषु कूर्मरापजप्रदर्शनात् ।
राज्यं श्रियं च सम्प्राप्य क्षेमारोग्ययुतो भवेत् ॥ ३७।८१ ॥
View Verse
शत्रुवृद्धिर्धनच्छेदः व्याधिर्दुर्भिक्षवर्धनम् ।
चिन्तितं नश्यते(!) तत्र महाकालीप्रदर्शनात् ॥ ३७।८२ ॥
View Verse
विजयं चार्थलाभं च कीर्तिश्रीवर्धनं तथा ।
पुत्रपौत्रविवृद्धिश्च दुर्गे दृष्टे न संशयः ॥ ३७।८३ ॥
View Verse
व्याधिं प्रवासं मरणं विपत्स्यति न संशयः ।
पञ्चास्यपन्नगं पश्येत् पापिभिश्चाभिभूयते ॥ ३७।८४ ॥
View Verse
व्याधिनाशो(?) महद्दुःखं कुटुम्बस्य विनाशनम् ।
आलोकिते महापापे गर्दभे स्यान्न संशयः ॥ ३७।८५ ॥
View Verse
जरद्गवं प्रपश्येता नराः शोकार्णवं पुनः ।
व्रजन्ति व्याधिना पीडा कलहं च गृहे भवेत् ॥ ३७।८६ ॥
View Verse
चक्रवर्तिनमायान्तं अवलोक्य जनाधिपम् ।
श्रियं प्राप्नोति पुत्रांश्च पुष्टिं च लभते नरः ॥ ३७।८७ ॥
View Verse
चतुर्मुखं समालोक्य ब्रह्माणं कमलासनम् ।
सर्वाधिपत्यमाप्ने वंशवृद्धिश्च जायते ॥ ३७।८८ ॥
View Verse
विष्णुमालोक्य देवेशं शङ्खचक्रगदाधरम् ।
सर्वाधिपत्यमास्थाय स्थितिं च लभते नरः ॥ ३७।८९ ॥
View Verse
रुद्रमालोक्य भूतेशं शूलपाणिमुमापतिम् ।
शत्रुसैन्यं महज्जित्वा मोदते सह बन्धुभिः ॥ ३७।९० ॥
View Verse
एते श्लोका मयोद्दिष्टाः शकुनानां विशेषतः ।
एतांस्तु पुस्तके लिख्य विवेकं सुमनोरमम् ॥ ३७।९१ ॥
View Verse
एकपत्रे तथैकैकं श्लोकं संलिख्य वाग्यतः ।
सूत्रेण सूत्रयित्वा तु पुष्पादिभिरथार्चयेत् ॥ ३७।९२ ॥
View Verse
अनुज्ञाप्य ततो देवं विघ्नेशं गणनायकम् ।
आनीय तु ततः शिष्यान् बद्धनेत्रान् यथाक्रमम् ॥ ३७।९३ ॥
View Verse
तेषां हस्ते तु पुष्पाणि निधाय च समाहितः ।
आदाय पुस्तकं पश्चात् प्रणवेन समाहितः ॥ ३७।९४ ॥
View Verse
शिष्यहस्ते निधायाथ नमस्कृत्वा प्रसाद्य च ।
प्रार्थयेच्च स तेनाथ विघ्नराजाग्निसम्भवम् ॥ ३७।९५ ॥
View Verse
नमस्ते ऽस्तु जगन्नाथ लम्बोदर गजानन ।
संशये ऽस्मिन् महाबाहो सन्त्यं सन्दर्शयस्व नः ॥ ३७।९६ ॥
View Verse
सत्यं हि भवतामाहुः मनुयस्तत्त्वदर्शिनः ।
इति विज्ञाप्य देवेशं शिष्यं ब्रूयात्ततः परम् ॥ ३७।९७ ॥
View Verse
विस्रंसयित्वा सूत्रं तु पत्रं गृह्णीष्व पुस्तके ।
इत्युक्तस्तु ततः शिष्यः स्रसयित्वा तु सूत्रकम् ॥ ३७।९८ ॥
View Verse
गृह्णीयात् पत्रमेकं तु हस्तप्राप्तं यदृच्छया ।
आचार्यस्तु ततो तेत्रबन्धनं प्रविमुच्य च ॥ ३७।९९ ॥
View Verse
देहि पत्रमिति ब्रुयात् शिष्यं प्रति समाहितः ।
शिष्यस्तु पत्रं दद्याच्च गुरुहस्ते महामुने ॥ ३७।१०० ॥
View Verse
गुरुस्तु वाचयेत् पत्रमसम्मूढेन चेतसा ।
तदुक्तं विधिवज्ज्ञात्वा शुभं वा यदि वाशुभम् ॥ ३७।१०१ ॥
View Verse
ततः शिष्यं प्रतिब्रूयाद्यथोक्तं सर्वमेव तु ।
प्रतिशिष्यं तथा कृत्वा ज्ञात्वा कर्म शुभाशुभम् ॥ ३७।१०२ ॥
View Verse
दीक्षयेच्छिष्यमाचार्यस्तत्परं लक्षणान्वितम् ।
एतत् पुस्तकमादाय सूत्रयित्वा विचक्षणः ॥ ३७।१०३ ॥
View Verse
अन्येषामपि भक्तानामनेन विधिना पुनः ।
पूजयित्वा गणेशं तु पुस्तकं च यथाक्रमम् ॥ ३७।१०४ ॥
View Verse
शुभाशुभविधिं प्राज्ञः प्रब्रूयाद्देशिकोत्तमः ।
न नास्तिकानां सम्पश्येत् नाभक्तानां कदाचन ॥ ३७।१०५ ॥
View Verse
न निन्दकानां सर्वेषां अनाचारजुषामपि ।
दुर्वृत्तानां च सर्वेषां बाह्यदीक्षाजुषामपि ॥ ३७।१०६ ॥
View Verse
असम्भाष्येण पश्येच्च न विज्ञाते कदाचन ।
शिष्याणां वनितानां तु भक्तानामपि सर्वदा ॥ ३७।१०७ ॥
View Verse
संशयाविष्टचेतानां कृपणानां गुरौ सदा ।
अजिह्मकानां भक्तानां देयमेतद्यथातथम् ॥ ३७।१०८ ॥
View Verse
अनुक्तगुणयुक्तानां यदि पश्येत्तु (दद्यात्तु?) देशिकः ।
देवताश्च प्रकुप्यन्ते(!) न तथ्यं च भविष्यति ॥ ३७।१०९ ॥
View Verse
इति विज्ञाय सर्वं तु प्रपश्येच्छकुनानि तु ।
शकुनान्ते ततो विघ्ननायकं पूजयेत् क्रमात् ॥ ३७।११० ॥
View Verse
पुस्तकं पूजयेत् पश्चात् गन्धपुष्पादिभिः पुनः ।
आचार्यं पूजयेत् पश्चात् सर्वस्वं वाधर्मेव वा ॥ ३७।१११ ॥
View Verse
यथावित्तानुसारेण(!) पूजयेद्गुरुपूजनम् ।
उद्वासयेत्ततो देवमाकाशे गणनायकम् ॥ ३७।११२ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां दीक्षाशकुनविस्तारो नाम सप्तत्रिंशो ऽध्यायः ॥
View Verse

Chapter - 38

अष्टत्रिंशो ऽध्यायः
विष्वक्सेनः---
अथातः सम्प्रवक्ष्यामि जलसम्प्रोक्षणं परम् ।
रहस्यं परमं गुह्यं सर्वपापप्रणाशनम् ॥ ३८।१ ॥
View Verse
तव स्नेहात् प्रवक्ष्यामि त्रिदशेरपि दुर्लभम् ।
सद्य एव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥ ३८।२ ॥
View Verse
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
दुःस्थितं सुस्थितं वापि देवबिम्बं न चालयेत् ॥ ३८।३ ॥
View Verse
शिलाबिम्बं तथा लौहं बिम्बं वा चैकबेरकम् ।
दैवाद्वा मानुषाद्वापि मोहाद्वा मुनिसत्तम ॥ ३८।४ ॥
View Verse
चालयेद्यदि तद्बिम्बं प्रायश्चित्तं विशेषतः ।
कारयेन्मुनिशार्दूल सर्वसम्पत्सुखावहम् ॥ ३८।५ ॥
View Verse
प्रासादकरणे काले नवकर्मकृते सति ।
चित्रकर्मकृते वापि चित्रकारादि संस्पृशेत् ॥ ३८।६ ॥
View Verse
स्पृश्यते वा निकृष्टैस्तु देवश्चण्डालपातकैः ।
पीठे श्वभ्रस्थिते काले चलिते पूर्ववत् कृते ॥ ३८।७ ॥
View Verse
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च ।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥ ३८।८ ॥
View Verse
योजयेत् पञ्चगव्येन प्राङ्मुखः सकुशोदकम् ।
अर्चयित्वार्घ्यगन्धाद्यैः साङ्मूलं समुच्चरन् ॥ ३८।९ ॥
View Verse
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः ।
देवतायतनग्रामनगरेष्वपि पल्लिके ॥ ३८।१० ॥
View Verse
स्थापनास्पदमासाद्य शोधनं पञ्चगव्यकैः ।
तत्र मध्ये खनेत् श्वभ्रं मूलमन्त्रमुदीरयन् ॥ ३८।११ ॥
View Verse
अङ्गुष्ठोदरमावर्त्य त्रिधा सूत्रेण वेष्टयेत् ।
तेनैव भ्रामयेन्मध्ये स्थाप्य तत्रावटं खनेत् ॥ ३८।१२ ॥
View Verse
हस्तमात्रमधस्ताच्च षडङ्गुलसमन्वितम् ।
सम्प्रोक्ष्य पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥ ३८।१३ ॥
View Verse
शेषं ध्यात्वा तदूर्ध्वे तु अभ्यर्च्यार्घ्यादिभिः क्रमात् ।
वाससाच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥ ३८।१४ ॥
View Verse
संस्पृश्च गव्यकुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरुः ।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीं क्रियाम् ॥ ३८।१५ ॥
View Verse
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्त्मना ।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥ ३८।१६ ॥
View Verse
पद्मपत्राव(वृ?)तु कुम्भं श्वभ्रे तारेण विन्यसेत् ।
परितः सर्वधान्येन पूरयित्वा चशलं (?) यथा ॥ ३८।१७ ॥
View Verse
पञ्चगव्यं समुद्धृत्य घटस्थं कलशं लबन्(?) ।
तेनैव पूरयेत् कुम्भं श्वभ्रस्थं मूलमुच्चरन् ॥ ३८।१८ ॥
View Verse
समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः ।
शंसूक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाक्कृते(?) ॥ ३८।१९ ॥
View Verse
एतत् साधारणं प्रोक्तं बहुबेरैकबेरयोः ।
सर्वलक्षणसम्पन्नमङ्गयुक्तं द्विजोत्तमम् ॥ ३८।२० ॥
View Verse
पदवाक्यप्रमाणज्ञं देवयज्ञ व्रतस्थितम् ।
एवं लक्षणसंयुक्तमाचार्यं तन्त्रपारगम् ॥ ३८।२१ ॥
View Verse
ज्ञात्वा तेनैव कर्तव्यं जलसम्प्रोक्षणं शुभम् ।
प्रासादाग्रे मुनिरेष्ठ कुर्यान्मण्डपमुत्तमम् ॥ ३८।२२ ॥
View Verse
दक्षिणे ऽप्यथवा कुर्यात् उत्तरे वा महामुने ।
ऐशाने वात्र मतिमान् यथालाभं सुदिक्षु च ॥ ३८।२३ ॥
View Verse
चतुरश्रं सुखं सम्यक् विस्तारायामतादृशम्(-तः समम्?) ।
करषोडशकं वापि हस्तं पञ्चदशं तु वा ॥ ३८।२४ ॥
View Verse
स्तम्भषोडशसंयुक्तं चतुर्द्वारसमन्वितम् ।
इष्टकादारुपाषाणैः कृतां सम्यक्सुवेदिकाम् ॥ ३८।२५ ॥
View Verse
हस्तमात्रसमायुक्तं ध्वजाशामुखतोरणम् ।
दर्भमालापरिवृतं पुष्पमाल्यैरलङ्कृतम् ॥ ३८।२६ ॥
View Verse
फलपल्लवमालाद्यैर्धूपदीपसमन्वितम् ।
शालिसञ्चयसम्पूर्णं प्रागुदक्प्रवणं शुभम् ॥ ३८।२७ ॥
View Verse
वितानेनोर्ध्वमाच्छाद्य नानावस्त्रैरलङ्कृतम् ।
छत्रचामरसंयुक्तं मुक्तादामै(!) रलङ्कृतम् ॥ ३८।२८ ॥
View Verse
ध्वजैर्नानार्विधेश्चित्रैर्दीपमालाविराजितम् ।
वर्षवातैर्न चाक्रान्तं पालिकाभिरलङ्कृतम् ॥ ३८।२९ ॥
View Verse
एतस्य मण्डपस्याग्रऽप्यत्तरे वा यथाक्रमम् ।
ईशाने वा मुनिश्रेष्ठ कुर्यात् स्नपनमण्डपम् ॥ ३८।३० ॥
View Verse
हस्तद्वयप्रमाणेन विसतारायामतादृशम् (-तः समम्?) ।
मण्डपस्यैशपूर्वे तु स्नपनार्थं सुवेदिकाम् ॥ ३८।३१ ॥
View Verse
हस्तोच्छ्रयां तदर्धां वा ह्युत्तरे श्वभ्रसंयुताम् ।
धारायुग्वेदिकां कुर्यात् पश्चिमे कलशान् न्यसेत् ॥ ३८।३२ ॥
View Verse
स्नपनं कारयेदेवं एकाशीतिक्रमेण तु ।
एकबेरविधानं चेत् मूलार्चायां प्रयोजयेत् ॥ ३८।३३ ॥
View Verse
कर्मार्चायां तु कर्तव्यं बहुबेरविधौ सति ।
स्नपनं विधिवत् कृत्वा ततः कर्म समारभेत् ॥ ३८।३४ ॥
View Verse
पीतवस्त्रैस्तु शुक्लैर्वा वेष्टयेद्देवपीठकम् ।
ततो ऽस्मिन् मण्डपे द्वारि कलशांस्तोरणध्वजान् ॥ ३८।३५ ॥
View Verse
गन्धपुष्पैः समभ्यर्च्य स्वनाम्नैव पृथक्पृथक् ।
ततो मण्डपवेद्यां च निक्षिपेच्छालिसञ्चयम् ॥ ३८।३६ ॥
View Verse
शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।
सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा ॥ ३८।३७ ॥
View Verse
द्रोणद्वयेन सम्पूर्णं निम्नोषं (निर्देषं?) कलशं शुभम् ।
वस्त्रपूतजलैः पूर्णं सकूर्चं सापिधानम् ॥ ३८।३८ ॥
View Verse
ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।
अष्टशक्तिसमायुक्तं सौवर्णायुधपञ्चयुक् ॥ ३८।३९ ॥
View Verse
तत्कुम्भं प्रणवेनैव शालिपद्मे तु विन्यसेत् ।
ततः पद्मदलेष्वष्टकलशान् परितो न्यसेत् ॥ ३८।४० ॥
View Verse
पूर्ववत्तोयसम्पूर्णान् सहिरण्यान् सवस्त्रकान् ।
सापिधानान् सकूर्चांश्च मुखे चाश्वत्थपल्लवान् ॥ ३८।४१ ॥
View Verse
अर्चयेद्गन्धपुष्पैश्च दीपैरन्यैः पवित्रकैः ।
पूजयेन्मूलमन्त्रेण तत्तन्मूर्तिमनुस्मरन् ॥ ३८।४२ ॥
View Verse
विष्णुं चैव महाविष्णुं सदाविष्णुं च मध्यमे ।
वासुदेवानिरुद्धान्तं(?)न्यसेत् पूर्वादिदिक्षु च ॥ ३८।४३ ॥
View Verse
न्यसेच्छ्रियादिशान्त्यन्तमाग्नेयादिविदिक्षु च ।
एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ॥ ३८।४४ ॥
View Verse
एतानपि समभ्यर्च्य होमकर्म समारभेत् ।
पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥ ३८।४५ ॥
View Verse
वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके ।
अर्धचन्द्राग्निकुण्डे तु याम्ये सङ्कर्षणं यजेत् ॥ ३८।४६ ॥
View Verse
वारुण्यां वर्तुले कुण्डे प्रद्युम्नं तु यजेद्बुधः ।
उत्तरे ऽब्जे त्रिकोणे वा अनिरुद्धं यजेत् प्रभुम् ॥ ३८।४७ ॥
View Verse
पालाशं खादिरं वापि बैल्वमौदुम्बरं तथा ।
अष्टोत्तरशतं हुत्वा पृथक्पूर्वादितः क्रमात् ॥ ३८।४८ ॥
View Verse
समिदाज्यचरून् लाजैः जुहुयुर्मूर्तिपाः पृथक् ।
एवं होमं प्रशंसन्ति एकहोमेन चाप्यलम् ॥ ३८।४९ ॥
View Verse
कारयेच्चतुरश्रे तु जुहुयात्तद्विधानतः ।
वैष्णवीकरणार्थाय कुण्डं पूर्ववदाचरेत् ॥ ३८।५० ॥
View Verse
तत्कुण्डे मुनिशार्दूल आचार्यो होममाचरेत् ।
समिदाज्येन चरुणा जुहुयात्तु पुनः पुनः ॥ ३८।५१ ॥
View Verse
समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।
चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुतीः ॥ ३८।५२ ॥
View Verse
एवं हुत्वा विधानेन पुनराज्येन होमयेत् ।
पौरुषेण च सूक्तेन जुहुयाद्विष्णुभक्तितः ॥ ३८।५३ ॥
View Verse
ततो नारायणं सूक्त सृष्ट्यादिप्रतिपादकम् ।
सम्यग्ज्ञात्वा मुनिश्रेष्ठ काल्यां तु जुहुयात् क्रमात् ॥ ३८।५४ ॥
View Verse
पञ्चोपनिषदैर्मन्त्रैः जुहुयात्तु पुनः पुनः ।
पूर्ववच्छान्तिहोमं तु कारयेच्च विधानतः ॥ ३८।५५ ॥
View Verse
एवं हुत्वा मुनिश्रेष्ठ कौतुकं बन्धयेद्धरिम् ।
पूर्वोक्तेन विधानेन पूजयेद्धविरन्तकम् ॥ ३८।५६ ॥
View Verse
द्वादशाक्षरमन्त्रेण मूर्तिमन्त्रेण चैव हि ।
क्षौमसूत्रेण वा तत्र कार्पासं वा महामुने ॥ ३८।५७ ॥
View Verse
प्रोक्षयेन्मूलमन्त्रेण तत्सूत्रं तु पुनः पुनः ।
रात्रौ महोत्सवं कुर्यात् शङ्खतूर्यादिनिस्वनैः ॥ ३८।५८ ॥
View Verse
कौतुकं समलङ्कृत्य तण्डुलोपरि नारद ।
पश्चाद्ग्रामं परिभ्रम्य महादीपसमूहयुक् ॥ ३८।५९ ॥
View Verse
बन्धयेत् कौतुकं पश्चात् पूर्वोक्तेन विधानतः ।
रात्रौ होमः प्रकर्तव्यः जलसम्प्रोक्षणं दिवा ॥ ३८।६० ॥
View Verse
न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ।
तस्मात् सर्वप्रयत्नेन रात्रौ होमं प्रकल्पयेत् ॥ ३८।६१ ॥
View Verse
प्रभाते सुमुहूर्ते तु जलसम्प्रोक्षणं क्रमात् ।
प्रोक्षयेत्तु विधानेन बिम्बाद्यावरणान्तिकम् ॥ ३८।६२ ॥
View Verse
आवाहयेत्ततो देवं नारायणमनामयम् ।
शङ्खचक्रधरं देवं पीतवाससमच्युतम् ॥ ३८।६३ ॥
View Verse
सर्वाभरणसंयुक्तं वनमालाविराजितम् ।
राजावर्तमणिप्रख्यं हारकेयूरभूषितम् ॥ ३८।६४ ॥
View Verse
श्रीवत्सवक्षसं चारु मकराकृतिकुण्डलम् ।
कम्बुग्रीवं महाबाहुं किञ्चित्प्रहसिताननम् ॥ ३८।६५ ॥
View Verse
एवं ध्यात्वा महाविष्णुं गरुडोपरि संस्थितम् ।
सह द्वादशभिश्चैव मूर्तिभिर्दशभिस्तथा ॥ ३८।६६ ॥
View Verse
लोकपालैस्तथादित्यै रुद्रैर्वसुभिरेव च ।
ऋषिभिश्चारणैः सिद्धैः किन्नरैरप्सरो गणैः ॥ ३८।६७ ॥
View Verse
एवं ध्यात्वा महाविष्णुं नारायणमनामयम् ।
तत्तन्मन्त्रेण संस्थाप्य प्रोक्षयेद्गन्धवारिणा ॥ ३८।६८ ॥
View Verse
शेषोदकेन मतिमान् प्रोक्षयेत् परिवारकम् ।
प्रणवादिस्वमन्त्रैस्तु परिवारानशेषतः ॥ ३८।६९ ॥
View Verse
पूर्वादिकलशान् गृह्य महापीठे ऽभिषेचयेत् ।
ततः पुरुषसूक्तेन पूजयेत् पुरुषोत्तमम् ॥ ३८।७० ॥
View Verse
हविर्निवेदयेत् पश्चात् पूर्वोक्तेन विधानतः ।
चण्डादिभ्यो बलिं दद्याद्दिक्षु चैव विदिक्षु च ॥ ३८।७१ ॥
View Verse
बलिबिम्बसमायुक्तं बलिभ्रमणमाचरेत् ।
एवं बलिं क्रमात् कुर्यात् शङ्खतूर्यादिसंयुतम् ॥ ३८।७२ ॥
View Verse
प्रदक्षिणं ततः कुर्यात् प्रणिपत्य क्षमापयेत् ।
आचार्यदक्षिणां दत्वा ब्राह्मणान् भोजयेत्ततः ॥ ३८।७३ ॥
View Verse
होतॄंश्चैव सुसम्पूज्य आचार्यं पूजयेत् पुनः ।
हारकेयूरसंयुक्तं कटिसूत्राङ्गुलीयकैः ॥ ३८।७४ ॥
View Verse
विविधानि च वस्त्राणि आचार्याय निवेदयेत् ।
दक्षिणां चोत्तमां दद्यात् गां च दत्वा पयस्विनीम् ॥ ३८।७५ ॥
View Verse
अर्धं वापि धनं देयं मूर्तिपानां हितैषिणाम् ।
पादोनं साधकानां च दीक्षितानां तदर्धकम् ॥ ३८।७६ ॥
View Verse
अन्नदानं च सर्वेषां दद्याद्देवसमीपतः ।
पवित्रारोपणेप्येवं दक्षिणां दापयेन्मुने ॥ ३८।७७ ॥
View Verse
इति सम्यक् समाख्यातः जलसम्प्रोक्षणक्रमः ।
एतद्विचार्य कर्तव्यं(?)पञ्चरात्रविशारदैः ॥ ३८।७८ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां पीठचलनादिनिमित्त- प्रोक्षणविधिर्नामाष्टत्रिंशो ऽध्यायः ॥
View Verse

Chapter - 39

एकोनचत्वारिंशो ऽध्यायः
विष्वक्सेनः---
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं परम् ।
पूजनादिषु सर्वासु क्रियासु मुनिसत्तम ॥ ३९।१ ॥
View Verse
प्रातः सन्ध्यार्चनाहीने मध्याह्ने द्विगुणं चरेत् ।
प्रातर्मध्याह्नयोर्हीने सायाह्ने त्रिगुणं चरेत् ॥ ३९।२ ॥
View Verse
एकाहमर्चनाहीने उपवासव्रतं चरेत् ।
कलशैर्नवभिः स्नाप्य पूर्वोक्तेन विधानतः ॥ ३९।३ ॥
View Verse
पुण्याहं वाचयेत्तत्र भोज्या वै ब्राह्मणास्त्रयः ।
अर्चयित्वा यथान्यायं पूर्वोक्तेन विधानतः ॥ ३९।४ ॥
View Verse
द्वितीये द्विगुणं चैव तृतीये त्रिगुणं चरेत् ।
एवमेव तु कर्तव्यं द्वादशाहान्तमेव च ॥ ३९।५ ॥
View Verse
पक्षहीनं भवेत्तस्मिन् स्नापयेदधमोत्तमम् ।
ब्राह्मणान् भोजयेत्तत्र विप्रान् द्वादशं पायसैः ॥ ३९।६ ॥
View Verse
मासहीनं भवेत्तत्र वास्तुहोमेन संयुतम् ।
अधमोत्तममार्गेण स्नपनं कारयेद्धरेः ॥ ३९।७ ॥
View Verse
पुण्याहं वाचयेत्तत्र पूजयेत् पूर्ववत् क्रमात् ।
ब्राह्मणान् भोजयेत्तत्र शिष्टान् पञ्चदशाधिकान् ॥ ३९।८ ॥
View Verse
एतत् क्रमेण कृत्वा तु त्रिमासान्तं विशेषतः ।
त्रिमासादीनि षण्मासादर्वाक् पूजाविलोपने ॥ ३९।९ ॥
View Verse
सम्मार्ज्यान्तर्बहिर्गेहं प्रक्षाल्य विधिवत्तदा ।
धूपयित्वागरुधूपेन पुण्याहं तत्र कारयेत् ॥ ३९।१० ॥
View Verse
उत्तमोत्तममार्गं वा ह्येकाशीतिक्रमेण वा ।
स्नापयेद्देवदेवेशं यथावित्तानुसारतः(!) ॥ ३९।११ ॥
View Verse
ब्राह्मणान् भोजपेत्तत्र पूर्ववद्धोममाचरेत् ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ ३९।१२ ॥
View Verse
ततः परं त्रिवर्षात् प्राक् स्नपम्न चोत्तमोत्तमम् ।
स्नापयेन्मुनिशार्दूल पूर्वोक्तेन विधानतः ॥ ३९।१३ ॥
View Verse
ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारतः(!) ।
तदूर्ध्वं द्वादशादर्वाक् प्रायश्चित्तं विधीयते ॥ ३९।१४ ॥
View Verse
प्रणवेन निरीक्ष्याथ गर्भगेहं तु साधकः ।
पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विधोधयेत् ॥ ३९।१५ ॥
View Verse
उत्तमोत्तममार्गं वाप्यथवा मध्यमं तु वा ।
स्नापयेद्देवदेवेशं यथाविभवविस्तरम् ॥ ३९।१६ ॥
View Verse
ब्राह्मणान् भोजयेत्तत्र यथावित्तानुसारतः(!) ।
शान्तिहोमं क्रामत् कृत्वा पूर्ववत् पूजयेतद्धरिम् ॥ ३९।१७ ॥
View Verse
अत ऊर्ध्वं मुनिश्रेष्ठ प्रायश्चितं विधीयते ।
जलसम्प्रोक्षणं कुर्यात् पुण्याहोक्तिपुरःसरम् ॥ ३९।१८ ॥
View Verse
ब्राह्मणान् भोजयेत्तत्र तेन शान्तिर्भविष्यति ।
पूजाङ्गद्रव्यहीनं चेत् अर्घ्यादिहविरन्तकम् ॥ ३९।१९ ॥
View Verse
हीनैर्द्रव्यैस्तु देवेशमर्चयेद्द्विगुणं पुनः ।
अष्टाक्षरेण मन्त्रेण देवाग्रे तु शतं जपेत् ॥ ३९।२० ॥
View Verse
तद्दोषपरिहारार्थं प्रायश्चित्तमिदं भवेत् ।
प्रायश्चित्तं क्रमात् कुर्यात् तद्द्रव्येण दिने दिने ॥ ३९।२१ ॥
View Verse
एतत् सङ्क्षेपतः प्रोक्तं पूजालोपे तु नारद ।
आलये पतिते तत्र बालस्थानं तु कारयेत् ॥ ३९।२२ ॥
View Verse
देवेशं विधिवत् स्थाप्य पूजयेत्तु दिने दिने ।
आलयं पूर्ववत् कृत्वा प्रोक्षणं कारयेत्ततः ॥ ३९।२३ ॥
View Verse
भिन्नालये तु तत्स्थाने शैलं वा दारु योजयेत् ।
इष्टकासुधयायुक्तं नवकर्माणि कारयेत् ॥ ३९।२४ ॥
View Verse
चित्राभासालये तत्र चित्रकर्म समाचरेत् ।
स्नपनं तत्र कुर्वीत मूर्तिहोमं च कारयेत् ॥ ३९।२५ ॥
View Verse
ब्राह्मणान् विष्णुभक्ताश्चं भोजनं कारयेत्ततः ।
महाहविर्निवेद्याथ पूजयेत् पुरुषोत्तमम् ॥ ३९।२६ ॥
View Verse
दहने तु प्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्रासादं मण्डपं वाथ प्राकारं गोपुरं तथा ॥ ३९।२७ ॥
View Verse
प्रासादाभ्यन्तरं वापि पचनालयमेव वा ।
विनोदमण्डपं चैव यागमण्डपमेव वा ॥ ३९।२८ ॥
View Verse
पुष्पस्थाने जलस्थाने चान्यस्मिन्नितरेषु च ।
प्रमादादग्निदग्धं चेत् सम्यगुत्पाद्य पूर्ववत् ॥ ३९।२९ ॥
View Verse
स्नपनं तु त्रिरात्रात् प्राक् कारयेदधमोत्तमम् ।
ब्राह्मणान् भोजयेत्तत्र पुण्याहं चैव कारयेत् ॥ ३९।३० ॥
View Verse
नारायणोपनिषदं पठेत्तन्त्रोत्तरक्रमात्(?) ।
अष्टाक्षरेण जुहुयादाज्येन शतमाहुतीः ॥ ३९।३१ ॥
View Verse
यदि दग्धं विमानं चेत् केवलं(-ला?)प्रतिमा पुनः ।
दग्धस्य चैकदेशं चेत् सम्यगुत्पाद्य पूर्ववत् ॥ ३९।३२ ॥
View Verse
स्नपनं चोत्तमं कुर्यात् अधमोत्तममेव वा ।
स्नापयेद्देवदेवेशं पूजयेत् पूर्ववत् क्रमात् ॥ ३९।३३ ॥
View Verse
विमानं बहुदग्धं चेत् बालस्थानं प्रकल्पयेत् ।
नवगेहं क्रमात् कृत्वा शेषकर्माणि कारयेत् ॥ ३९।३४ ॥
View Verse
नारदः---
उक्तो मे भवता दोषः स्थानस्य तु विशेषतः ।
अत्यद्भुतानां सर्वेषां दोषान्मे ब्रूह्यशेषतः ॥ ३९।३५ ॥
View Verse
आलये देवदेवस्य ये दोषाः प्रभवन्ति वै ।
हविषां चैव ये दोषाः तथोपकरणेषु च ॥ ३९।३६ ॥
View Verse
विष्वक्सेनः---
साधु पृष्टं त्वया देव वक्तव्यं च मयाधुना ।
आलये देवदेवस्य ये दोषास्तान् ब्रवीमि ते ॥ ३९।३७ ॥
View Verse
वल्मीकदर्शने चैव तथा सर्पस्य दर्शने ।
अन्येषां चैव जन्तूनां सविषाणां मुनीश्वर ॥ ३९।३८ ॥
View Verse
मधुप्रलम्बने चैव बुद्धिपूर्वाग्निपातने ।
वैद्युदशनिपाते च उल्कापाते तथैव च ॥ ३९।३९ ॥
View Verse
प्रमादात् प्रतिमा वापि द्विधा चैव भेवद्यदि ।
उलूकवासने चैव वृक्षाणां च समुद्भवे ॥ ३९।४० ॥
View Verse
विमानस्य च भेदे च सर्वेषां च विनाशकृत्(?) ।
केशकीटादिपाते च जलजानां निपातने ॥ ३९।४१ ॥
View Verse
अन्येषां चैव जन्तूनां विनिपाते हविःषु च ।
गर्भागारे तथा विष्णोः उपहारे तथैव च ॥ ३९।४२ ॥
View Verse
मण्डपे देवदेवस्य प्रथमावरणे ऽथवा ।
द्वितीये वा तृतीये वा बलिपीठेषु सर्वशः ॥ ३९।४३ ॥
View Verse
अग्निस्थाने जलस्थाने पुष्पस्थाने तथैव च ।
आस्थानमण्डपे चैव तथालङ्कारमण्डपे ॥ ३९।४४ ॥
View Verse
लीलास्थानेषु चान्येषु गवां स्थाने तथैव च ।
शिथिलीनां समुद्भावे दोषान् वक्ष्ये मुनीश्वर ॥ ३९।४५ ॥
View Verse
वल्मीकदर्शने व्याधिः मृत्युः सर्पस्य दर्शने ।
अनावृष्टिर्मधोश्चैव दुर्भिक्षमितरेष्वपि ॥ ३९।४६ ॥
View Verse
शिथिली(शिलीन्ध्र?) दर्शने चैव प्रतिमायां हरेर्यदि ।
राजा मृत्युमवाप्नोति राज्यभ्रंशमथापि वा ॥ ३९।४७ ॥
View Verse
व्याधिं वा महादाप्नोति शत्रुभिर्वा पराभवम् ।
पुत्रदारवियोगं वा लभते नात्र संशयः ॥ ३९।४८ ॥
View Verse
ग्रामाणां नगराणां च देशस्य च बलस्य च ।
विनाशमाप्नुयात् सम्यक् सद्यो वा स्यादुपल्पवः ॥ ३९।४९ ॥
View Verse
पीठे गर्भगृहे चैव उपहारे तथैव च ।
अमात्यमन्त्रिणां दोषाः प्रकृतीनां तथैव च ॥ ३९।५० ॥
View Verse
स्थानान्तरेषु सर्वत्र शिथिलीनां तु दर्शने ।
राष्ट्रे दोषा भविष्यन्ति दुभिक्षव्याधिसम्भवाः ॥ ३९।५१ ॥
View Verse
शुनै(श्वभिर्?)वा वानरैर्वापि गृध्रैश्च कृमिकीटकैः ।
पिङ्गलैर्वायसैश्चैव पक्षिभिः कुक्कुटादिभिः ॥ ३९।५२ ॥
View Verse
तथान्यैस्तादृशैर्भूतैः प्रतिमा स्पृश्यते यदि ।
स्थाननाशमवाप्नोति ग्रामस्यानर्थमेव च ॥ ३९।५३ ॥
View Verse
प्रायश्चित्तं प्रवक्ष्यामि वल्मीकादेश्च दर्शने ।
तदपि प्रतिमायां चेद्यात्रां कृत्वा यथाविधि ॥ ३९।५४ ॥
View Verse
तद्देशं शोधयित्वा तु यावत्सम्यग्भवेद्दृढम् ।
पूर्ववत् कल्पयित्वा तु पुनःसंस्थापयेत् क्रमात् ॥ ३९।५५ ॥
View Verse
जलसम्प्रोक्षणं वापि कुर्यान्मन्त्रीं विचक्षणः ।
दूषितं चेतरद्बिम्बं जन्तुभिः स्पर्शने सति ॥ ३९।५६ ॥
View Verse
मार्जयित्वा कुशैर्दर्भैः पुण्याहं तत्र कारयेत् ।
स्नपनं कारयेत् पश्चात् कर्मार्चायां यथाविधि ॥ ३९।५७ ॥
View Verse
जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं शतमाहुतीः ।
ततश्च शिथिलीजाते पीठे गर्भगृहेपि वा ॥ ३९।५८ ॥
View Verse
शोधयित्वा तु तं देशं दृढीकृत्य प्रयत्नतः ।
स्नपनं विधिवत् कृत्वा चैकाशीतिक्रमेण तु ॥ ३९।५९ ॥
View Verse
शान्तिहोमं ततः कृत्वा पुण्याहेनैव शुद्ध्यति ।
विमाने मधुनोत्पन्ने प्राकारे ऽभ्यन्तरे ऽपि वा ॥ ३९।६० ॥
View Verse
प्रक्षाल्य पञ्चगव्येन बहिरन्तः समन्ततः ।
स्नपनं चापि कृत्वा तु पुण्याहेनैव शुद्ध्यति ॥ ३९।६१ ॥
View Verse
अनुक्तानां तु सर्वेषां प्रायश्चितं विधीयते ।
उत्तमं मध्यमं वापि अधमोत्तममेव वा ॥ ३९।६२ ॥
View Verse
स्नापयेद्देवदेवेशं पूजयेद्विधिपूर्वकम् ।
शान्तिहोमं ततः कृत्वा पुण्याहेनैव शुद्ध्यति ॥ ३९।६३ ॥
View Verse
नृत्तगीतं च वाद्यं च कारयेद्देवसन्निधौ ।
तदन्ते पूजयित्वा तु जपेन्मूर्तिं यथाक्रमम् ॥ ३९।६४ ॥
View Verse
ब्राह्मणान भोजयित्वा तु वैष्णवांश्च विशेषतः ।
अलङ्कारविधिं कृत्वा नैवेद्यं च महाहविः ॥ ३९।६५ ॥
View Verse
नित्यदीपविनाशे तु प्रायश्चित्तं विधीयते ।
कपिलाज्यं शरावे तु स्थापयित्वास्त्रमन्त्रतः ॥ ३९।६६ ॥
View Verse
दीपयित्वा मुनिश्रेष्ठ दीपमुद्रां प्रदर्शयेत् ।
नित्याग्नौ समिदाज्येन चरुणा हूयते पृथक् ॥ ३९।६७ ॥
View Verse
शतं वापि तदर्धं वा तस्यार्धं वाहुतीः क्रमात् ।
कारयेन्मूर्तिमन्त्रेण प्रत्येकं जुहुयात् क्रमात् ॥ ३९।६८ ॥
View Verse
हविराद्येष सर्वेषु केशकीटादिपातने ।
एवमेव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥ ३९।६९ ॥
View Verse
शुद्धस्नानं पुरा कृत्वा तद्बिम्बं परमेष्ठिना ।
अधमोत्तममार्गेण स्नपनं कारयेत् क्रमात् ॥ ३९।७० ॥
View Verse
पञ्चोपनिषदैर्मन्त्रैः प्रत्येकं शतमाहुतीः ।
पुण्याहं वाचयित्वा तु तेन शान्तिर्भविष्यति ॥ ३९।७१ ॥
View Verse
देवेशं पूजयेत् पश्चात् पूर्वोक्तेन विधानतः ।
आचार्यं पूजयेत् पश्चात् यथा तुष्टो भविष्यति ॥ ३९।७२ ॥
View Verse
इहोपयुक्तद्रव्याणि आचार्याय निवेदयेत् ।
प्रायश्चित्तं प्रवक्ष्यामि मरणे देवतालये ॥ ३९।७३ ॥
View Verse
चण्डालपतितादीनां मरणे वर्तिते सति ।
गर्भागारे ऽथवा चार्धमण्डपे वा मुनीश्वर ॥ ३९।७४ ॥
View Verse
प्रासादस्थितपीठाग्रे तथाभ्यन्तरमण्डपे ।
खात्वा चैव धनुर्मात्रं तं देशमशिला तु चेत् ॥ ३९।७५ ॥
View Verse
सम्पूर्य सैकतैर्मृद्भिः क्षालयित्वा तु वारिणा ।
आलयं पञ्चगव्येन बहिरन्तश्च शोधयेत् ॥ ३९।७६ ॥
View Verse
समिदाज्येन चरुणा प्रत्येकं तु सहस्रकम् ।
अष्टदिक्षु यथान्यायं जुहुयान्मूलमन्त्रतः ॥ ३९।७७ ॥
View Verse
ब्राह्मणान् भोजयेत् पश्चात् प्रासादस्य समन्ततः ।
पुण्याहं वाचयेत्तत्र कारयेदधमोत्तमम् ॥ ३९।७८ ॥
View Verse
स्नापेयद्विधिवत् सम्यग्यथावित्तानुसारतः(!) ।
एतदर्धं तु शूद्रस्य मरणे कारयेद्बुधः ॥ ३९।७९ ॥
View Verse
तदर्धं तु द्विजातीनां मरणे देवतालये ।
मण्डपे गोपुरे तेषां मरणे वर्तिते सति ॥ ३९।८० ॥
View Verse
भूशुद्धिं पूर्ववत् कृत्वा पुण्याहं चैव कारयेत् ।
होममेकं तु कर्तव्यमालयस्योत्तरे बुधः ॥ ३९।८१ ॥
View Verse
शिलामयं चेत्तद्गेहं गर्भागारादि नारद ।
कपिलागोमयं ग्राह्यं मूलमन्त्रेण मन्त्रवित् ॥ ३९।८२ ॥
View Verse
गर्भागारादि सर्वत्र वायुमन्त्रेण लेपयेत् ।
सम्प्रोक्ष्य पञ्चगव्येन शेष पूर्ववदाचरेत् ॥ ३९।८३ ॥
View Verse
भूगुप्ते चाग्निदग्धे च जलाविष्टे निरास्पदे ।
मन्त्रेशं(-शे?)चिरलुप्ते च पुनः स्थापनमाचरेत् ॥ ३९।८४ ॥
View Verse
तस्मादूर्ध्वं तु विधिवत् बिम्बस्थापनमारभेत् ।
अङ्गहीनस्य बेरस्य अङ्गहीनं (?)भवेद्यदि ॥ ३९।८५ ॥
View Verse
सुवर्णेन तदङ्गं तु कृत्वा सन्धापयेद्दढम् ।
एवं कृत्वा विधानेन पुनः स्थापनमारभेत् ॥ ३९।८६ ॥
View Verse
जलवासविधानेन पूर्ववच्छेषमाचरेत् ।
अथवात्र मुनिश्रेष्ठ जलसम्प्रोक्षण तु वा ॥ ३९।८७ ॥
View Verse
कारयेद्देवदेवस्य तेन शान्तिर्भविष्यति ।
सन्त्याज्यं दारुजं बिम्बं सन्धेयं मृण्मयं भवेत् ॥ ३९।८८ ॥
View Verse
छिन्ने भिन्ने तथा वक्त्रे मूलार्चायां प्रमादतः ।
कल्पयित्वा तु देवेशे बालस्थानक्रमेण तु ॥ ३९।८९ ॥
View Verse
युक्त्या युक्तिविशेषेण शिल्पिभिः कारयेद्दृढम् ।
कृत्वा वर्णैरलङ्कारं प्रतिष्ठां पुनरारभेत् ॥ ३९।९० ॥
View Verse
सौवर्णप्रतिमायां तु छिन्ने भिन्ने च वक्त्रके ।
द्रावयित्वा सकृत् सिक्तं कृत्वा संस्थापयेत् पुनः ॥ ३९।९१ ॥
View Verse
ततस्तु बहुधा भिन्नं ताम्रं चाप्सु विनिक्षिपेत् ।
एकधा च द्विधा भिन्नं ताम्रेणैव तु योजयेत् ॥ ३९।९२ ॥
View Verse
तत्सर्वं पूर्ववत् कृत्वा बिम्बं कुर्यान्नवं शुभम् ।
ताम्रबिम्बं तु संस्थाप्य नित्यं पूजा प्रवर्तते ॥ ३९।९३ ॥
View Verse
बिम्बं सुलक्षणोपेतं राजतं सम्भवेद्यदि ।
जलाधिवासनादीनि तस्मिन् कार्याणि सर्वशः ॥ ३९।९४ ॥
View Verse
ताम्रबिम्बगतां शक्तिं राजते स्थाप्य यत्नतः ।
ताम्रबिम्बं परित्यज्य राजतं स्थापयेत् क्रमात् ॥ ३९।९५ ॥
View Verse
तथैव राजतं त्यक्त्वा सौवर्णं स्थापयेत् क्रमात् ।
कदाचिदपि न त्याज्यं सौवर्णं भूतिमिच्छता ॥ ३९।९६ ॥
View Verse
स्वधर्मयुक्तजातिभ्यो दुर्वृत्ते ऽपि तथा द्विज ।
मुख्य एव सदा विप्र तथैवोत्तमबेरकम् ॥ ३९।९७ ॥
View Verse
सौवर्णमेव सर्वेषां मुख्यबिम्बं प्रशस्यते ।
संस्थाप्य स्वस्य स्थाने तु पूजयेत्तु दिने दिने ॥ ३९।९८ ॥
View Verse
ब्रह्मस्थाने स्थितं बिम्बं कर्मार्चां न तु चालयेत् ।
चलनं तु भवेत्तस्मिन् राज्यस्य चलनं भवेत् ॥ ३९।९९ ॥
View Verse
तत्स्थानं निधनं याति ग्रामस्य निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन उक्तकाले तु चालयेत् ॥ ३९।१०० ॥
View Verse
अयने विषुवे चैव सङ्क्रान्त्यां ग्रहणे तथा ।
प्रातःसन्ध्यार्चन(-ने?) स्नानवेलायां मुनिसत्तम ॥ ३९।१०१ ॥
View Verse
स्नानबिम्बविहीने तु चलनं तु समाचरेत् ।
द्वितीयावरणाद्बाह्ये कर्मार्चां न तु चालयेत् ॥ ३९।१०२ ॥
View Verse
प्रमादाद्वापि मोहाद्वा चलनं चेन्मुनीश्वर ।
जलसम्प्रोक्षणं कृत्वा सुपुण्याहपुरःसरम् ॥ ३९।१०३ ॥
View Verse
अधमोत्तममार्गेण स्नापयेद्बेरमुत्तमम् ।
एकबेरविधाने तु प्रायश्चित्तं विधीयते ॥ ३९।१०४ ॥
View Verse
स्नपनं स्थावरार्चायां कर्तव्यं विधिवत् सदा ।
प्रासादं तु नवं कृत्वा पञ्चगव्येन शोधयेत् ॥ ३९।१०५ ॥
View Verse
अधमोत्तममार्गेण स्नापयेत् पुरुषोत्तमम् ।
एवमेव तु कर्तव्यं षङ्विंशद्वत्सरान्तकम् ॥ ३९।१०६ ॥
View Verse
अत ऊर्ध्वं प्रवक्ष्यामि जलसम्प्रोक्षणं क्रमात् (?) ।
तस्मात्तेनैव शुद्धिः स्यात् सर्वशान्तिर्भविष्यति ॥ ३९।१०७ ॥
View Verse
अङ्गहीनं भवेद्बिम्बं पुनरुत्पाद्य पूर्ववत् ।
संस्थाप्य विधिवत् पूर्वं पुनः स्थापनमाचरेत् ॥ ३९।१०८ ॥
View Verse
नारदः---
सेनापते महाप्राज्ञ स्नपनस्य प्रसीद मे ।
अशास्त्रीये महादोषान् सर्वान् मे ब्रूह्यशेषतः ॥ ३९।१०९ ॥
View Verse
यैर्देषैः स्नपनोद्भूतै राजराष्ट्रं विनश्यति ।
पशवश्च प्रजाश्चैव सस्यादिनिधनानि च ॥ ३९।११० ॥
View Verse
विष्वक्सेनः---
स्नपनस्य प्रवक्ष्यामि महादोषान् मुनीश्वर ।
शलभैर्गन्धदुष्टैस्तु दुष्टाः स्युः सर्वमानवाः ॥ ३९।१११ ॥
View Verse
साधिते कलशे भिन्ने तद्द्रव्यैः पूरयेत् पुनः ।
ऊनैश्च कलशैरूनविभवाः सर्वमानवाः ॥ ३९।११२ ॥
View Verse
कृमिकीटपतङ्गादिद्रव्येषु पतने यदि ।
तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वशः ॥ ३९।११३ ॥
View Verse
वर्जितैस्तु सदा द्रव्यैः देवेशस्यार्चनं यदि ।
षष्टिर्वर्षसहस्राणि नरकं प्रतिपद्यते ॥ ३९।११४ ॥
View Verse
केशयुक्तं तु यद्द्रव्यं निपाते (निपतेद्?) विष्णुमूर्धनि ।
मूर्धाभिषिक्तं राजानं नाशयेन्नात्र संशयः ॥ ३९।११५ ॥
View Verse
अन्येष्वपि च दुष्टेषु पतितेषु महामुने ।
एतदेव फलं प्राह स्वयं नारायणः प्रभुः ॥ ३९।११६ ॥
View Verse
पर्युषितैर्न चाम्भाभिः कलशेषु प्रपूरयेत् ।
यदि लोभेन गृह्णीयात् काकयोनिशतं व्रजेत् ॥ ३९।११७ ॥
View Verse
पुराणसर्पिषा देवं स्नापयेद्यदि लोभतः ।
गृध्रयोनिशतं गच्छेत् तदन्ते सूकरो भवेत् ॥ ३९।११८ ॥
View Verse
महिषाज्येन देवेशं स्नापयेद्यदि मोहतः ।
गृध्रयोनिशतं गच्छेत् तदन्ते कुक्कुटो भवेत् ॥ ३९।११९ ॥
View Verse
स्नापयित्वान्यथाज्येन कृकलासशतं व्रजेत् ।
दधियुक्तं तु यत् क्षीरं स्नापयेद्यदि लोभतः ॥ ३९।१२० ॥
View Verse
दरिद्रो मानुषो लोके जन्मश्चाज(अजजन्म?)शतं व्रजेत् ।
रसद्रव्यं च वन्यैस्तु नियुज्यान्माक्षिकं नरः ॥ ३९।१२१ ॥
View Verse
यदि तत्पूजितो विप्र वृषजन्मशतं व्रजेत् ।
कृमिकीटपतङ्गानां द्रव्येषु पतिते (पतनं?) यदि ॥ ३९।१२२ ॥
View Verse
तत्सर्वं वर्जयेन्नित्यं विष्णुयागेषु सर्वशः ।
दृश्यते साधितं चैव तद्द्रव्यं तु परित्यजेत् ॥ ३९।१२३ ॥
View Verse
तान् सर्वान्न स्पृशेद्यस्तु कलशे साधिते पुनः ।
तथा वै दृश्यते चापि ततो ऽन्यानि च विन्यसेत् ॥ ३९।१२४ ॥
View Verse
श्वानकुक्कुटचण्डालैः साधिते(?)दृश्यते पुनः ।
परित्यज्य ततो ऽन्यांश्च साधयेत् कलशान् पुनः ॥ ३९।१२५ ॥
View Verse
उदक्यान्त्यजैर्वापि साधिते(?)दृश्यते पुनः ।
परित्यज्य ततो विद्वान् पुनश्चान्यं तु विन्यसेत् ॥ ३९।१२६ ॥
View Verse
दुष्टैर्हि वीक्षितं चैव पादस्पृष्टं च यद्भवेत् ।
राजानं राजमात्रं च यजमानमथापि वा ॥ ३९।१२७ ॥
View Verse
नाशयेत् सपरीवारं सपशुद्रव्यसञ्चयम् ।
सामात्यं सपुरं राष्ट्रं दुष्टद्रव्याभिषेचने ॥ ३९।१२८ ॥
View Verse
व्याधयश्च भवन्त्युग्रा अनावृष्टिस्तथैव च ।
भूतवेतालरक्षांसि पिशाचोरगदानवाः ॥ ३९।१२९ ॥
View Verse
बाधन्ते ह्यनिशं ह्येते राजानं राष्ट्रमेव च ।
आढकं वा तदर्धं वा तन्न्यूनं परिवर्जयेत् ॥ ३९।१३० ॥
View Verse
स्नेहद्रव्याणि सर्वाणि साधको मन्त्रवित्तमः ।
वस्त्रसूत्रविहीने तु तोरणादिभिरेव वा ॥ ३९।१३१ ॥
View Verse
नृत्तगीतादिभिर्वापि गन्धपुष्पादिभिस्तथा ।
अलङ्कार(-रैः?)विहीनं वा देवदेवस्य शाङ्र्गिणः ॥ ३९।१३२ ॥
View Verse
यस्मिन् राष्ट्रे मुनिश्रेष्ठ स्नपनं स्यात् कदाचन ।
तद्राष्ट्रं चोरभूयिष्ठं शत्रुभिश्चैव हन्यते ॥ ३९।१३३ ॥
View Verse
तस्मात् सर्वप्रयत्नेन यथाशास्त्रं यथाक्रमम् ।
स्नपनं कारयेद्विष्णोः भूतिमिच्छन् परां गतिम् ॥ ३९।१३४ ॥
View Verse
दोषाणां च प्रशमनं व्याधीनां चैव सर्वशः ।
ग्रहाणां शान्तये चैव शत्रूणां च जयाय च ॥ ३९।१३५ ॥
View Verse
आयुरारोग्यवृद्ध्यर्थं पुत्रपौत्रविवृद्धये ।
कामानां चैव सर्वेषां वृद्धये सर्ववर्णिनाम् ॥ ३९।१३६ ॥
View Verse
विधिहीनं क्रियाहीनं द्रव्यहीनं तथैव च ।
मानहीनं तु यद्द्रव्यं पूजाहीनं च यद्गुरोः ॥ ३९।१३७ ॥
View Verse
कालातीतं प्रजाहीनं कर्तृदेशेषु सर्वशः ।
आभिचारं(रो?) भवेत् सद्यो ग्रामस्य नगरस्य च ॥ ३९।१३८ ॥
View Verse
एवं यथोक्तस्नपनं कारयेद्यस्तु मानवः ।
मुच्यते पातकैः सर्वेः पद्मपत्रमिवाम्भसा ॥ ३९।१३९ ॥
View Verse
गोध्नः पितृध्नो मातृध्नो भ्रूणहा गुरुतल्यगः ।
सुरापः स्वर्णहारी च परदाराभिमर्शकः ॥ ३९।१४० ॥
View Verse
एते चान्ये च मुच्यन्ते पापेभ्यः स्नपनेन वै ।
स्नपने ह्यधिकं पुण्यं विद्यते मुनिसत्तम ॥ ३९।१४१ ॥
View Verse
अश्वमेधसहस्रं तु यत्कुर्यात् कायशोधनम् ।
स्नपनेन तु तद्विष्णोः लभते नात्र संशयः ॥ ३९।१४२ ॥
View Verse
ध्वजस्थाने प्रवक्ष्यामि प्रायश्चितं तु नारद ।
अप्रमाणपटं चित्रं वैणवं दण्डमेव वा ॥ ३९।१४३ ॥
View Verse
अनुक्ताधिकहीनं च प्रयत्नेन विवर्जयेत् ।
वर्जितेन कृतं चेत्तन्निष्फलं स्यान्न संशयः ॥ ३९।१४४ ॥
View Verse
ध्वजाधिवासने काले कुम्भे चावाह्य वाहने ।
तत्कुम्भपतने चैव चलने भेदने तथा ॥ ३९।१४५ ॥
View Verse
प्रतिमापरिकुम्भे च तद्ग्रामश्च विनश्यति ।
स्नपनं तत्र कर्तव्यं देवेशस्याधमेत्तमम् ॥ ३९।१४६ ॥
View Verse
शान्तिहोमं ततः कृत्वा ग्रामदोषनिकृन्तनम् ।
पुनरुत्पादयेत् कुम्भं संस्थाप्य विधिपूर्वकम् ॥ ३९।१४७ ॥
View Verse
ध्वजे लक्षणहीने तु गरुडे वा विशेषतः ।
कर्तृभर्तृविनाशः स्यात् तत्रस्थो नरकं व्रजेत् ॥ ३९।१४८ ॥
View Verse
क्षिप्रं त्यक्त्वा ध्वजं तत्र आचार्येण समाहितः ।
ध्वजमुत्थापयेत् सद्यः सर्वलक्षणसंयुतम् ॥ ३९।१४९ ॥
View Verse
पूर्वोक्तविधिना सम्यक् शेषं कर्म समारभेत् ।
ग्रामप्रदक्षिणे काले पतिते वातकोपिते ॥ ३९।१५० ॥
View Verse
दुर्भिक्षं वर्तते तत्र कर्तारो व्याधिपीडिताः ।
तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ॥ ३९।१५१ ॥
View Verse
पुण्याहं वाचयेत्तत्र ब्राह्मणानां च भोजनम् ।
कारयेन्मुनिशार्दूल शेष पूर्ववदाचरेत् ॥ ३९।१५२ ॥
View Verse
आचार्यं पूजयेत् पश्चात् यथाशास्त्रोक्तमार्गतः(-कम्?) ।
पतनाद्भेदने चैव ध्वजं त्यक्त्वा तु तत्क्षणात् ॥ ३९।१५३ ॥
View Verse
स्नपनं चोत्तमं कृत्वा देवदेवस्य चक्रिणः ।
वास्तुहोमं ततः कृत्वा पुण्याहं वाचयेत्ततः ॥ ३९।१५४ ॥
View Verse
उत्पाद्य चोद्धरेत् सम्यक् ध्वजं लक्षणसंयुतम् ।
ग्रामप्रदक्षिणे काले बलिहीनं भवेद्यदि ॥ ३९।१५५ ॥
View Verse
स ग्रामो निधनं याति तत्रस्थो नरकं व्रजेत् ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥ ३९।१५६ ॥
View Verse
स्नापयेद्देवदेवेशं पञ्चाशत् कलशैः(?) क्रामत् ।
पूजयित्वा ततो देवं पुनर्ग्रामं परिभ्रमेत् ॥ ३९।१५७ ॥
View Verse
बलिदानसमायुक्तं पश्चादुत्थापयेत् खगम्(-द्ध्वजम्?) ।
केवलं बलिदानं तु कारयेद्दुन्दुभिर्युतम् ॥ ३९।१५८ ॥
View Verse
एतस्मिन्नेव काले तु वेलादीनि न वीक्षयेत् ।
विधिवद्ध्वजमुत्थाप्य शेषं पूर्ववदाचरेत् ॥ ३९।१५९ ॥
View Verse
ध्वजोत्थापनकाले तु चलने गगने ततः ।
कर्तारो व्याधिमृच्छन्ति नैर्धन्यमपि सर्वशः ॥ ३९।१६० ॥
View Verse
तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।
पुण्याहं वाचयित्वा तु तस्य दोषः प्रशाम्यति ॥ ३९।१६१ ॥
View Verse
पतनाद्भूपतिश्चैव तद्ग्रामं च विनश्यति ।
ध्वजस्य पतने चैव प्रायश्चित्तं प्रवक्ष्यते ॥ ३९।१६२ ॥
View Verse
स्नपनं देवदेवस्य विधिना चाधमोत्तमम् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानथ भोजयेत् ॥ ३९।१६३ ॥
View Verse
संस्थाप्य विधिवत् पश्चात् पूजयेद्विधिना ततः ।
पतनोद्भेदने चैव पुनरुत्पादयेद्ध्वजम् ॥ ३९।१६४ ॥
View Verse
स्थापने निपतेत्तत्र तद्राष्ट्रं च विनश्यति ।
स्नपनं चोत्तमं कुर्यात् उत्सवं च विधानतः ॥ ३९।१६५ ॥
View Verse
शान्तिं कृत्वा विधानेन पुण्याहं वाचयेत्ततः ।
चोरैरपहृते चैव तद्राष्ट्रं च विनश्यति ॥ ३९।१६६ ॥
View Verse
स्नपनं चोत्तमं कृत्वा शान्तिहोमपुरःसरम् ।
बलिभ्रमणकाले तु नित्ये वा चोत्सवे तु वा ॥ ३९।१६७ ॥
View Verse
द्रव्यस्य पतने चैव गन्धपुष्पादिकस्य च ।
शान्ति कृत्वा विधानेन पञ्चोपनिषदैः क्रमात् ॥ ३९।१६८ ॥
View Verse
पुनरुत्पादयेद्द्रव्यं गन्धाद्यं सकलं क्रमात् ।
द्रव्याभावे तु चरुणा चाक्षतैर्वा बलिं ददेत् ॥ ३९।१६९ ॥
View Verse
संस्पृष्टे दुर्जनादीनां शूद्राद्यैश्चान्यजातिभिः ।
शान्तिहोमं तु कृत्वैव मङ्गलानि च दर्शयेत् ॥ ३९।१७० ॥
View Verse
बलिभ्रमधकाले तु प्रायश्चित्तं विधीयते ।
अनालोच्य प्रदाने तु बिम्बहीने तु वा मुने ॥ ३९।१७१ ॥
View Verse
सबलिग्रामराज्ञोश्च रोगवृद्धिर्भविष्यति ।
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ॥ ३९।१७२ ॥
View Verse
अधमोत्तममार्गेण स्नापयेद्बलिकौतुकम् ।
शान्तिहोमं क्रमात् कृत्वा भोज्या वै ब्राहृमणास्त्रयः ॥ ३९।१७३ ॥
View Verse
बलिबिम्बस्य पतने याने वा भूगते ऽपि वा ।
तद्ग्रामं निधनं याति कर्ता भर्ता तथैव च ॥ ३९।१७४ ॥
View Verse
आलये तु नयेद्देवं स्नपनं चाधमोत्तमम् ।
शान्तिहोमं च कृत्वा तु महापूजापुरःसरम् ॥ ३९।१७५ ॥
View Verse
पुण्याहं वाचयेत्तत्र ब्राह्मणांश्चैव तोषयेत् ।
ग्रामे वा नगरे वापि शेषकर्म समाचरेत् ॥ ३९।१७६ ॥
View Verse
पतनेनाङ्गहीने च राजाराष्ट्रं च नश्यति ।
अन्नबिम्बे ऽथवा पुष्पे शक्तिमुद्वासयेत् क्रमात् ॥ ३९।१७७ ॥
View Verse
कर्मार्चायां न्यसेच्छक्तिं स्नपनं चोत्तमं भवेत् ।
शान्तिहोमं चतुर्दिक्षु कुर्यात् पञ्चमन्त्रकैः(?) ॥ ३९।१७८ ॥
View Verse
अन्यबिम्बे समावाह्य शेषकर्म समाचरेत् ।
सन्धानं पूर्ववत् कृत्वा पूर्वलक्षणसंयुतम् ॥ ३९।१७९ ॥
View Verse
स्थापितं पूर्ववत् कृत्वा अस्मिन् कालादि नेष्यते ।
तच्छक्तिं योजयेद्बिम्बे शेषकर्म समाचरेत् ॥ ३९।१८० ॥
View Verse
स्थानके चासने चैव शयने बलिबेरके ।
पतने चाङ्गहीने च प्रायश्चित्तं तु पूर्ववत् ॥ ३९।१८१ ॥
View Verse
उत्सवारम्भदिवसे कल्पिते ऋत्विजै(?)रपि ।
तैस्तैरेव तु कर्तव्याः क्रियाः सर्वावसानकम् (?) ॥ ३९।१८२ ॥
View Verse
मध्ये तु योजयेदन्यान् मोहात्तु मुनिसत्तम ।
ताः क्रिया निष्फलायान्ति तस्माच्छान्तिं तु कारयेत् ॥ ३९।१८३ ॥
View Verse
प्रायश्चित्तं तु कर्तव्यं तस्य दोषापुनत्तये ।
पूर्वेण ऋत्विजेनापि कुर्यात् कर्मावसानकम् ॥ ३९।१८४ ॥
View Verse
अधमोत्तममार्गं वा पञ्चाशद्वा (?) मुनीश्वर ।
पञ्चविंशतिभिर्वापि कलशैः स्नापयेद्धरिम् ॥ ३९।१८५ ॥
View Verse
पुण्याहं वाचयेत्तत्र शान्तिहोमं च कारयेत् ।
व्याधिग्रस्ते मृते वापि शास्त्रहीने ऽन्यदूषिते(?) ॥ ३९।१८६ ॥
View Verse
प्रतिष्ठाकर्मणि तथा चोत्सवे परमार्थिनम् ।
योजयेदन्यमेवं चेदाचार्यं तन्त्रपारगम् ॥ ३९।१८७ ॥
View Verse
यागाग्नौ चैव विच्छिन्ने उत्सवे वर्तिते सति ।
तद्राष्ट्रं च विनश्यन्ति(?) कर्तारो व्याधिपीडिताः ॥ ३९।१८८ ॥
View Verse
तद्दोषपरिहाराय स्नपनं चाधमोत्तमम् ।
सम्प्रार्थ्य देवदेवेशं महाहविपुरःसरम् ॥ ३९।१८९ ॥
View Verse
मथित्वाग्निं समुत्पाद्य लौकिकाग्निमथापि वा ।
वैष्णवीकरणैर्युक्तं सुपुण्याहपुरःसरम् ॥ ३९।१९० ॥
View Verse
एवं तु कारयेद्विद्वांस्तद्दोषस्य निकृन्तनम् ।
योगेशस्यार्चनाहीने चोत्सवे यागमण्डपे ॥ ३९।१९१ ॥
View Verse
मध्ये कुम्भगते देवे ह्युत्सवे तु विशेषतः ।
निष्फलः स च यागस्तु कर्तारो व्याधिपीडिताः ॥ ३९।१९२ ॥
View Verse
तस्मात्तत्फलसिद्ध्यर्थं स्नपनं चाधमोत्तमम् ।
कारयेच्छान्तिहोमं तु जुहुयाच्छतमाहुतीः ॥ ३९।१९३ ॥
View Verse
पुण्याहं वाचयित्वा तु तस्य दोषः प्रशाम्यति ।
यागेशकुम्भे विचले परिकुम्भे ऽथवा पुनः ॥ ३९।१९४ ॥
View Verse
भेदने पतने वेद्यां प्रायश्चित्तं तु पूर्ववत् ।
अष्टमङ्गलहीने तु पूजाजीने तु तत्र च ॥ ३९।१९५ ॥
View Verse
मङ्गलं तु विनश्येत कर्तारो व्याधिपीडिताः ।
मङ्गलात्मानमभ्यर्च्य देवेशं विधिपूर्वकम् ॥ ३९।१९६ ॥
View Verse
शान्तिहोमं ततः कृत्वा पुण्याहं वाचयेत्ततः ।
उत्सवे नित्यपूजायां विलोपे होमकर्मणि ॥ ३९।१९७ ॥
View Verse
तत्रस्था नरकं यान्ति तस्माद्वृद्धिर्न जायते ।
तद्दोषपरिहाराय प्रायश्चित्तं तु पूर्ववत् ॥ ३९।१९८ ॥
View Verse
नित्यपूजावसाने तु होमं कुर्यात्तथोत्सवे ।
होमान्ते तु बलिं कुर्याद्यथाविधिपुरःसरम्(!) ॥ ३९।१९९ ॥
View Verse
नित्योत्सवस्य हीने वा बलिदानस्य चोभयोः ।
जुहुयान्मूलमन्त्रेण नित्याग्नौ शतमाहुतीः ॥ ३९।२०० ॥
View Verse
एतद्द्विकालहीने तु तदूर्ध्वं स्नपनं तथा ।
हुत्वाष्टाक्षरमन्त्रेण पश्चान्नित्यं समाचरेत् ॥ ३९।२०१ ॥
View Verse
नित्योत्सवस्य हीनेन यदि स्यात्तु महोत्सवः ।
स्नापयेत् पञ्चगव्येन बलिबेरमनुत्तमम् ॥ ३९।२०२ ॥
View Verse
स्नपनं कारयेत् पश्चात् पञ्चविंशतिभिः क्रमात् ।
अलङ्कारं क्रमात् कृत्वा पूजयेद्धविरन्तकम् ॥ ३९।२०३ ॥
View Verse
नित्योत्सवविधानेन प्रासादे बलिमाचरेत् ।
प्रातर्मध्यप्रदोषेषु बलिभ्रमणमाचरेत् ॥ ३९।२०४ ॥
View Verse
अथ मध्याह्नहीने च कारयेद्बलिकर्मणि ।
एककालं भवेत्तस्मिन् बलिकर्म तु चेन्मुने ॥ ३९।२०५ ॥
View Verse
उत्सवो निष्फलस्तत्र ग्रामनाशो भवेद्ध्रुवम् ।
तस्मात्तत्फलसिद्ध्यर्थं द्विकालं बलिमाचरेत् ॥ ३९।२०६ ॥
View Verse
द्विकालं तु मुनिश्रेष्ठ बलिदानं तु कारयेत् ।
पूर्वकालबलिमध्यकालिका (?) रात्रिकालबलि सप्रदक्षिणम्(?) ॥ ३९।२०७ ॥
View Verse
भूतराक्षसपिशाचपन्नगानां (?) नाशद (-का?) रणमिदं बलिभ्रमम्(?) ।
यो मोहादेकसन्ध्यायां बलिं निक्षिप्य(?)नारद ॥ ३९।२०८ ॥
View Verse
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।
अधमोत्तममार्गेण स्नपनं कारयेद्धरेः ॥ ३९।२०९ ॥
View Verse
ब्राह्मणान् भोजयेत् पश्चात् महाहविपुरःसरम् ।
पुण्याहं वाचयेत् पश्चात् पूर्ववद्धोममाचरेत् ॥ ३९।२१० ॥
View Verse
तत्कालोचिते पश्चात् बलिदानं समाचरेत् ।
अङ्कुरार्पणपात्रं तु नष्टं पतितमेव वा ॥ ३९।२११ ॥
View Verse
अस्पृश्यैः स्पर्शितं वाति पुनरुत्पादयेत् क्रमात् ।
श्यामे रक्ते प्ररूढे वा दण्डे(?) मूषिकभक्षिते ॥ ३९।२१२ ॥
View Verse
जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं समिदादिभिः ।
अष्टोत्तरशतं हुत्वा विष्णुमन्त्रेण मन्त्रवित् ॥ ३९।२१३ ॥
View Verse
उद्देश्यदिवसे तीर्थमकृतं चेत्तु नारद ।
दैविकैर्मानुषैर्विघ्नैः पुनरुत्सवमारभेत् ॥ ३९।२१४ ॥
View Verse
व्यत्यासो दिवसैर्द्रव्यैः बलिदाने कृते यदि ।
जुहुयान्मूलमन्त्रेण सर्पिषा शतमाहुतीः ॥ ३९।२१५ ॥
View Verse
दिग्देवतानां तु व्यत्यासो वर्तते चेन्महोत्सवे ।
क्रमेण कारयेत् पश्चात् पूर्ववद्धोमपूर्वकम् ॥ ३९।२१६ ॥
View Verse
एकाहमेककालं वा बलिदानं तु चोत्सवे ।
विघ्नितं चेत् प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥ ३९।२१७ ॥
View Verse
जुहुयान्मूलमन्त्रेण तद्द्रव्येण शताहुतीः ।
द्विगुणं कारयेत् पश्चाद्विघ्निते ह्येककालिके ॥ ३९।२१८ ॥
View Verse
पूर्वद्रव्येण पूर्वं तु पूर्वरात्रस्य पूर्ववत् ।
कृत्वा तु विधिवत् सर्वं पश्चात् पश्चात्मकं(?)क्रमात् ॥ ३९।२१९ ॥
View Verse
विघ्नितं चेदहोरात्रं कारयेदपरे ऽहनि ।
कल्पियित्वातथा रात्रिं (-त्रौ?)तद्बलिं चापि कारयेत् ॥ ३९।२२० ॥
View Verse
परिभ्रमं तु द्विगुणं होमं चैव तु कारयेत् ।
एकाहादधिकं चैव विघ्नितश्चेन्महोत्सवः ॥ ३९।२२१ ॥
View Verse
अङ्कुरार्पणपूर्वं तु तत्सर्वं पुनरारभेत् ।
तत्तीर्थं विघ्नितं चेत्तु कुर्यात्तदपरेहनि ॥ ३९।२२२ ॥
View Verse
स्नपनं विधिवत् कृत्वा तत्र होमं तु पूर्ववत् ।
कृत्वैवं विधिवत् सर्वं शेषं पूर्ववदाचरेत् ॥ ३९।२२३ ॥
View Verse
प्रतिष्ठायां प्रवक्ष्यामि प्रायश्चित्तं मुनीश्वर ।
प्रमाणरहितं बिम्बं वस्त्रालङ्कारयोश्च वा ॥ ३९।२२४ ॥
View Verse
आ(अ?)स्थाने वामुहूर्ते वा स्थापनं तु न कारयेत् ।
स्थापनं चेन्महामोहात् कर्ता भर्ता विनश्यति ॥ ३९।२२५ ॥
View Verse
तद्दोषपरिहाराय प्रायश्चित्तं विधीयते ।
यात्रां कृत्वा विधानेन पुनः स्थापनमारभेत् ॥ ३९।२२६ ॥
View Verse
जलाधिवासनादूर्ध्वं स्थापनात् प्राङ्मुनीश्वर ।
विघ्निता चेत्क्रिया मध्ये प्रायश्चित्तं विधीयते ॥ ३९।२२७ ॥
View Verse
ब्राह्मणानामनुज्ञां तु लब्ध्वा पश्चात् परेहनि ।
पञ्चोपनिषदैर्मन्त्रैः हुत्वाज्येन शतं शतम् ॥ ३९।२२८ ॥
View Verse
समाप्य विधिवच्छेषं स्थापयेत् पुरुषोत्तमम् ।
तथैव कारयेत् सर्वं रक्षितं चेद्दिनत्रयम् ॥ ३९।२२९ ॥
View Verse
कलशं पूर्णकुम्भं वा मङ्गलाष्टकमेव वा ।
अस्पृश्यस्पर्शितं वापि भिन्नं वा मन्त्रसादितम् ॥ ३९।२३० ॥
View Verse
अन्यं पूर्ववदुत्पाद्य स्थापयेत् पूर्ववत् क्रमात् ।
उद्धृतं ब्रह्मकुम्भं तु दूषितं पतितं तु वा ॥ ३९।२३१ ॥
View Verse
कुम्भमन्यं तथा कृत्वा संस्कृत्य विधिवद्बुधः ।
पञ्चोपनिषदैर्मन्त्रैः प्रणवेन तथैव च ॥ ३९।२३२ ॥
View Verse
आज्येन जुहुयात्तत्र प्रत्येकं शतमाहुतीः ।
कृत्वा पुण्याहनिर्घोषं स्थापयेत् पूर्ववत् क्रमात् ॥ ३९।२३३ ॥
View Verse
मन्त्रहीनं क्रियाहीनं द्रव्यहीनं तथालयम् ।
व्यत्यासः कालहीनं च स्फालितं चाद्भुतं तथा ॥ ३९।२३४ ॥
View Verse
एतेषां चाप्यनुक्तानां प्रायश्चित्तं विधीयते ।
जुहुयान्मूलमन्त्रेण घृतेन शतमाहुतीः ॥ ३९।२३५ ॥
View Verse
आशौचं वाथवा व्याधिर्मृत्युर्वा विद्यते यदि ।
आचार्यस्य तु तत्काले वक्ष्ये संस्थापनक्रमम् ॥ ३९।२३६ ॥
अदीक्षितं वा विप्रेन्द्र वैष्णवं वेदपारगम् ।
स्नाप्यालङ्कारितं शुद्धं तेनैव स्थापयेद्बुधः ॥ ३९।२३७ ॥
View Verse
पौरुषेण तु सूक्तेन प्रणवेन ततः परम् ।
ततस्तु मूलमन्त्राभ्यां मुहूर्ते स्थापयेद्बुधः ॥ ३९।२३८ ॥
View Verse
ततश्चाचार्यमन्वीक्ष्य दशाहात् प्राक् प्रयत्नतः ।
तेनैव कारयेत् सर्वं मन्त्रन्यासादि पूर्ववत् ॥ ३९।२३९ ॥
View Verse
ततः प्रभृति देवस्य चतुर्थ्या(?)स्नानमेव च ।
आचार्यं पूजयेत् पश्चात् पुष्कलेन धनेन च ॥ ३९।२४० ॥
View Verse
आचार्यदक्षिणाहीने प्रायश्चित्तेन पूजयेत् ।
देवस्य स्थापनादूर्ध्वं चतुर्थे ऽहनि नारद ॥ ३९।२४१ ॥
View Verse
स्नपनं चार्चनं तस्मिन्नकृतं चेत्तु नारद ।
तदूर्ध्वं द्वादशाहादर्वाक् प्रायश्चित्तं विधीयते ॥ ३९।२४२ ॥
View Verse
स्नपनं चोत्तमं वा स्यादधमोत्तममेव वा ।
स्नपनं कारयित्वादौ ब्राह्मणानां च भोजनम् ॥ ३९।२४३ ॥
View Verse
पञ्चोपनिषदैर्भन्त्रैर्हुत्वाज्येन शतं शतम् ।
यथावित्तानुसारेण(!) स्नपनं वाथ कारयेत् ॥ ३९।२४४ ॥
View Verse
यथावितं तु देवेशं पूजयेत्तु दिने दिने ।
पूजान्ते दक्षिणां दद्यादहन्यहनि नारद ॥ ३९।२४५ ॥
View Verse
साधकानां हितार्थाय राजराष्ट्रहिताय च ।
तस्मात्सर्वप्रयत्नेन दक्षिणां दापयेत् सदा ॥ ३९।२४६ ॥
View Verse
दक्षिणाहीनमेतच्चेत् सर्वं निष्फलमेव च ।
आचार्यदक्षिणाहीने प्रायश्चित्तं विधीयते ॥ ३९।२४७ ॥
View Verse
अधमोत्तममार्गेण देवेशं स्नापयेत्ततः ।
ब्राह्मणान् भोजयेत् पश्चात् पुण्याहं वाचयेत्ततः ॥ ३९।२४८ ॥
View Verse
पूर्वोक्तेन विधानेन पूजयेत् पुरुषोत्तमम् ।
आचार्यं पूजयेत् पश्चाद्यथावित्तानुसारतः(!) ॥ ३९।२४९ ॥
View Verse
तस्मात् सर्वप्रयत्नेन दक्षिणानमुत्तमम् ।
स्रुक्स्रुवं (-वौ?) मण्डपे चैव कुण्डमण्डलतोरणम् ॥ ३९।२५० ॥
View Verse
वेदिकादि मुनिश्रेष्ठ कुर्याच्चेदप्रमाणतः ।
प्रमादान्मूलमन्त्रेण मूलयुक्शतमाहुतीः ॥ ३९।२५१ ॥
View Verse
जुहुयाद्वैष्णवाग्नो तु आचार्यो ऽनलमध्यमे ।
प्रत्येकं समिदाज्येन चरुणापि महामुने ॥ ३९।२५२ ॥
View Verse
वैष्णवीकरणात्तस्मिंस्तेन शान्तिर्भविष्यति ।
हरेरतिप्रियकरं तस्मात् कर्म समाचरेत् ॥ ३९।२५३ ॥
View Verse
बालस्थानस्य वक्ष्यामि प्रायश्चित्तं तु नारद ।
मूलागारार्चनाबिम्बं बालागारे न पूजयेत् ॥ ३९।२५४ ॥
View Verse
बालस्थानार्चनाबिम्बं मूलस्थाने तु पूजयेत् ।
पूजयेद्वर्ज्यबिम्बं तु यदि लोभाच्च मन्त्रवित् ॥ ३९।२५५ ॥
View Verse
तत्पूजा निष्फलं याति कर्ता भर्ता विनश्यति ।
यो मोहादर्चयेद्बिम्बं प्रायश्चित्तं विधीयते ॥ ३९।२५६ ॥
View Verse
स्नापयेदर्चनाबिम्बमधमोत्तममार्गतः ।
मध्यमं वा मुनिश्रेष्ठ तद्दोषस्य निकृन्तनम् ॥ ३९।२५७ ॥
View Verse
ब्राह्मणान् भोजयेत् पश्चात् वैष्णवान् वेदपारगान् ।
शान्तिहोमं क्रमात् कृत्वा पुण्याहं वाचयेत्ततः ॥ ३९।२५८ ॥
View Verse
मूलायामर्चकः सम्यक् बालसद्मनि पूजयेत् ।
बालगेहार्चकस्तस्मिन् मूलस्थाने न पूजयेत् ॥ ३९।२५९ ॥
View Verse
पूजयेद्यदि सम्मोहात् निष्फलं स्यान्न संशयः ।
तद्ग्रामं निधनं याति धर्ममार्गो विनश्यति ॥ ३९।२६० ॥
View Verse
तस्मात् सर्वप्रयत्नेन मूलागारे न पूजयेत् ।
लोभान्मोहात्तु देवेशं पूजयेद्यदि नारद ॥ ३९।२६१ ॥
View Verse
तत्पूजाफलसिद्ध्यर्थं प्रायश्चित्तं विधीयते ।
जलसम्प्रोक्षणं कृत्वा सुपुण्याहपुरःसरम् ॥ ३९।२६२ ॥
View Verse
मूलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।
अधमोत्तममार्गं वा कारयेन्मुनिसत्तम ॥ ३९।२६३ ॥
View Verse
ब्राह्मणान् भोजयेत् पश्चात् यथावित्तानुसारतः (!) ।
पूजयेद्बालगेहे तु यावन्मूलप्रवेशनम् ॥ ३९।२६४ ॥
View Verse
एवं चापि न कृत्वा तु वर्तते काललङ्घनम् ।
स्नपनं मूर्तिहोमं च मण्डपे चाधिवासनम् ॥ ३९।२६५ ॥
View Verse
कृत्वा तु विधिवत् सम्यक् स्थापयेद्विधिवत् क्रमात् ।
ऊर्ध्वं तु वत्सरात् कालो गतं चेद्वक्ष्यते ऽधुना ॥ ३९।२६६ ॥
View Verse
विना जलाधिवासं च सर्वं पूर्ववदाचरेत् ।
प्रतिष्ठायाः क्रियाः कृत्वा ॥॥॥प्रार्थयेद्धरिम् ॥ ३९।२६७ ॥
View Verse
चोरैरपहृतःस (-हृता चेत्?) तु प्रतिमा तरुणालये ।
बिम्बमन्यं समुत्पाद्य लोहजं सुमनोहरम् ॥ ३९।२६८ ॥
View Verse
जलाधिवासनं कृत्वा मण्डपे चाधिवासनम् ।
मूर्तिहोमं तथा शान्तिं स्नपनं चाधमोत्तमम् ॥ ३९।२६९ ॥
View Verse
कृत्वा पुण्याहघोषं च स्थापयेद्बालसद्मनि ।
पूर्वसंस्कृतबिम्बं चेज्जलवासं विना भवेत् ॥ ३९।२७० ॥
View Verse
बालस्थानं समाप्यैवं तन्त्रसङ्करणं शृणु ।
वास्तुसाङ्कर्यमेवं वै वक्ष्यामि क्रमयोगतः ॥ ३९।२७१ ॥
View Verse
पञ्चरात्रं तथा शैवं वैखानसमिति त्रिधा ।
तत्तच्छास्त्रोक्तमार्गेण वास्तुसङ्ग्रहणादयः ॥ ३९।२७२ ॥
View Verse
तथा तथैव कर्तव्याः प्रासादप्रतिमादयः ।
कृत्वा तु विधिवत् सम्यक् स्थापनादिक्रमेण हि ॥ ३९।२७३ ॥
View Verse
तेषां वास्तौ तु साङ्कर्याद्राष्ट्रनाशो धनक्षयः ।
तस्मात्सर्वप्रयत्नेन वर्जयेद्वास्तुसङ्करम् ॥ ३९।२७४ ॥
View Verse
अत्र किञ्चि (कश्चि?) द्विशेषो ऽस्ति वक्ष्यामि शृणु सुव्रत ।
कर्षणादिकृतं पूर्वं वैखानसविधानतः ॥ ३९।२७५ ॥
View Verse
पञ्चरात्रेण शास्त्रेण स्थापयेत् पुरुषोत्तमम् ।
शैववैखानसाभ्यां तु विधिना वास्तुसङ्ग्रहम् ॥ ३९।२७६ ॥
View Verse
तद्देशे स्थापयेद्देवं सात्त्वतेन विधानतः ।
ग्रामराजानुसारेण ब्राह्मणानामनुज्ञया ॥ ३९।२७७ ॥
View Verse
विद्यते यदि वाञ्छा चेत् पञ्चरात्रेण वार्चनम् ।
तच्छास्त्रेणोक्तमार्गेण स्थापितं पूजितं पुरा ॥ ३९।२७८ ॥
View Verse
शैववैखानसाभ्यां च अर्चयेन्न कदाचन ।
वैखानसस्य शैवस्यावैदिकत्वान्मुनीश्वर ॥ ३९।२७९ ॥
View Verse
शैवं वेखानसं चापि असौम्यं तदुदाहृतम् ।
सौम्यं तु सात्त्वतं चैव तस्मात्सौम्यं विशिष्यते ॥ ३९।२८० ॥
View Verse
तत्र सात्त्वतमार्गेण पूजयेत् पुरुषोत्तमम् ।
शैववैखानसाभ्यां तु रोद्रपूजाग्निरोगकृत् ॥ ३९।२८१ ॥
View Verse
सौम्यं तु सात्त्वतं तन्त्रं तच्छास्त्रविधिमाचरेत् ।
दैवाद्वा मानुषाद्वापि लोभान्मोहात् प्रमादतः ॥ ३९।२८२ ॥
View Verse
स्थापिते रौद्रमार्गेण पूज्यमाने दिने दिने ।
हित्वा रौद्रविधानं तु सर्वेषां हितकाम्यया ॥ ३९।२८३ ॥
View Verse
ग्रामवृद्धिकरं पुण्यं राजभूसुरवर्धनम् ।
तस्मात् सर्वप्रयत्नेन हित्वा रौद्रं तु तत्क्षणात् ॥ ३९।२८४ ॥
View Verse
स्थापयेत् सात्त्वतेनाथ विधिना पूजयेद्धरिम् ।
तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसङ्करम् ॥ ३९।२८५ ॥
View Verse
सात्त्वन्तं पञ्चरात्राख्यं साक्षद्विष्णुमुखाच्छ्रुतम् ।
अनुष्ठेयं द्विजश्रेष्ठैर्वैष्णवैर्वेदपारगैः ॥ ३९।२८६ ॥
View Verse
पञ्चरात्रं महाज्ञानं धर्मकामार्थमोक्षदम् ।
शैवं च शम्भुना प्रोक्तं शुद्धं लैङ्गमिति द्विधा ॥ ३९।२८७ ॥
View Verse
नानुष्ठेयं द्विजश्रेष्ठैः परार्थे मुनिसत्तम ।
आत्मार्थे मुनि(द्विज?)वर्यस्तु पूजयेच्छुद्धमुत्तमम् ॥ ३९।२८८ ॥
View Verse
दिने दिने मुनिश्रेष्ठ लैङ्गिकं न स्मरेद्बुधः ।
वैखानसहितार्थाय शास्त्रं भार्गवनिर्मितम् ॥ ३९।२८९ ॥
View Verse
नानुष्ठेयं द्विजश्रेष्ठैरात्मनोर्ऽथे परस्य च ।
प्रतिलोमहितार्थाय पूजयेत् पुरुषोत्तमम् ॥ ३९।२९० ॥
View Verse
सा पूजा शूद्रवृद्ध्यर्था द्विजानां शक्तिहानिकृत् ।
दिने दिने मुनिश्रेष्ठ नात्र कार्या विचारणा ॥ ३९।२९१ ॥
View Verse
तत्पूजावैदिकत्वाच्च नानुष्ठेया द्विजोत्तमैः ।
नारदः---
वैखानसा इति प्रोक्ताः के ते चात्र विवक्षिताः ॥ ३९।२९२ ॥
View Verse
वानप्रस्था द्विधा किं ते सूता वा किं विवक्षिताः ।
विष्वक्सेनः---
ब्रह्मण्यां क्षत्रियाज्याताः सूता वैखानसास्तथा ॥ ३९।२९३ ॥
View Verse
सूतकाश्च रथकाराश्च तथा पौराणिका इति ।
पर्यायवाचकाः शब्दाः प्रतिलोमेषु पूजिताः ॥ ३९।२९४ ॥
View Verse
एते वैखानसा प्रोक्ताः भार्गवागमपूजकाः ।
प्रतिलोमहितार्थाय भृगुणा तन्त्रमीरितम् ॥ ३९।२९५ ॥
View Verse
मन्वादिधर्मशास्त्रेषु वानप्रस्थाश्रमः क्रमात् ।
सम्प्रोक्तस्तु मुनिश्रेष्ठ इति शास्त्रस्य निश्चयः ॥ ३९।२९६ ॥
View Verse
एतेषां सङ्करं तत्र वर्ज्यमाहुर्मनीषिणः ।
तन्त्रसङ्करदोषेण सर्वं नश्यत्यसंशयः ॥ ३९।२९७ ॥
View Verse
राज्ञा सर्वप्रयत्नेन जगद्रक्षणकाङ्क्षिणा ।
सङ्करः परिहर्तव्यो राजराष्ट्रसुखाय च ॥ ३९।२९८ ॥
View Verse
यद्दैवत्यं कृतं क्षेत्रं विधिना कर्षणादिना ।
तदन्यदैवतं विप्र मनसापि न कल्पयेत् ॥ ३९।२९९ ॥
View Verse
यदि वा स्थाप्यते मोहाद्दण्ड्यो वध्यःस पापभाक् ।
स कर्ता सङ्करस्यापि राज्ञो राष्ट्रस्य तस्य हि ॥ ३९।३०० ॥
View Verse
पञ्चरात्रं तु शैवं वै वैखानसविधानकम् ।
तेषां वास्त्वादिसाङ्कर्यात् किञ्चिदेव विशेषकम् ॥ ३९।३०१ ॥
View Verse
सात्त्वतं सर्ववृद्ध्यर्थं शैवं सर्वविनाशकृत् ।
वैखानसमनर्थार्थं तस्मात्तत्परिवर्जयेत् ॥ ३९।३०२ ॥
View Verse
अस्थानस्थापिताः केचित् स्वस्थान [परि?]वर्जिताः ।
देवताद्वयकोपेन सर्वं नश्यत्यसंशयः ॥ ३९।३०३ ॥
View Verse
सङ्करो द्विविधः प्रोक्तः सर्वप्राणिविनाशनः ।
जातिसङ्करणं चैव तन्त्रसङ्करणं तथा ॥ ३९।३०४ ॥
View Verse
जातिसङ्करणेनैव जगच्चण्डालतां व्रजेत् ।
तन्त्रसङ्करणेनैव राजाराष्ट्रं विनश्यति ॥ ३९।३०५ ॥
View Verse
राष्ट्रं शरीरं राजस्तु राजा जीवः स उच्यते ।
राष्ट्रक्षये क्षयो राज्ञः तस्माद्रक्ष्यं द्वयं बुधैः ॥ ३९।३०६ ॥
View Verse
चण्डालत्वं गते लोके वेदाः सर्वे तिरोहिताः ।
तिरोहितेषु वेदेषु यज्ञादिक्रतवस्तथा ॥ ३९।३०७ ॥
View Verse
एकवर्णं जगत्सर्वं वस्तु निश्चेष्टकं भवेत् (?) ।
जातिसङ्करदोषेण द्विजानां मरणं भवेत् ॥ ३९।३०८ ॥
View Verse
तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ।
देवदेवात्परं नान्यत्तदायत्ता हि सिद्धयः ॥ ३९।३०९ ॥
View Verse
इति चिन्त्यैव भूतानां वयं देवमुपास्महे ।
सर्वदेवमयो विष्णुर्भगवान् भूतभावनः ॥ ३९।३१० ॥
View Verse
सर्वप्राणिहितार्थाय नान्यैवैको ऽपि दृश्यते ।
ब्रह्मा रुद्रश्च शक्रश्च वसवो वरुणस्तथा ॥ ३९।३११ ॥
View Verse
यक्षगन्धर्वसिद्धश्च भूतवेतालराक्षसाः ।
शक्तयश्च तथा चान्याः सर्वाः विष्णुविभूतयः ॥ ३९।३१२ ॥
View Verse
ताश्च सर्वाः प्रसीदन्ति पुरा चार्थार्थिनां नृणाम् ।
पूज्यमाने तु सततं तत्तत्पूजाविधानतः ॥ ३९।३१३ ॥
View Verse
सर्वप्राणिहितार्थाय मुनिभिः करुणात्मभिः ।
कृतानि तत्तद्योग्यानि शास्त्राणि मुनिपुङ्गव ॥ ३९।३१४ ॥
View Verse
वैदिकं तान्त्रिकं चैव तथा वैदिकतान्त्रिकम् ।
त्रिविधं कर्म सम्प्रोक्तं पञ्चरात्रार्णवामृतम् (?) ॥ ३९।३१५ ॥
View Verse
वैदिकं ब्राह्मणानां तु राज्ञां वैदिकतान्त्रिकम् ।
तान्त्रिकं वैश्यशूद्राणां सर्वेषां तान्त्रिकं तु वा ॥ ३९।३१६ ॥
View Verse
भार्गवेणोक्तधर्मेण प्रतिलोमादि कारयेत् ।
अश्रीकरमसौम्यं तदब्राह्मणपरिग्रहम् ॥ ३९।३१७ ॥
View Verse
अवैदिकत्वात्तत्तन्त्रं वैखानसमथाधमम् ।
सङ्करः परिहर्तव्यो ब्राह्मणैश्च जगद्धितैः ॥ ३९।३१८ ॥
View Verse
वास्तौ बिम्बस्य पूजायां पूजकस्य च सङ्करः ।
सर्वथा परिहर्तव्यो प्रायश्चित्तैः पृथग्विधौ(-धैः?) ॥ ३९।३१९ ॥
View Verse
नारदः---
प्रायश्चित्तं समाचक्ष्व बिम्बसङ्करणादिषु ।
यत्कृत्वा सर्वदोषाश्च नश्यन्त्यशुभहेतवः ॥ ३९।३२० ॥
View Verse
विष्वक्सेनः---
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।
सङ्करं तयज्यते क्षिप्रं सर्वप्राणिहिताय वै ॥ ३९।३२१ ॥
View Verse
सद्य एव तु कर्तव्या सङ्करस्य तु निष्कृतिः ।
निष्कृत्याहरहः(?)पश्चात् राजराष्ट्रसुवृद्धिकृत् ॥ ३९।३२२ ॥
View Verse
ग्रामस्य नगरस्यापि सर्वसम्पत्सुखावहम् ।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥ ३९।३२३ ॥
यत्तन्त्रेण समारब्धं तत्तन्त्रेणैव कारयेत् ।
अन्यथा चेन्महादोषो राजराष्ट्रविनाशकृत् ॥ ३९।३२४ ॥
View Verse
तस्मात् सर्वप्रयत्नेन न कुर्यात्तन्त्रसङ्करम् ।
एकाहमर्चनाहीने स्वकल्पोक्तविधानतः ॥ ३९।३२५ ॥
View Verse
एकाशीतिक्रमात् कृत्वा स्नपनं साधकोत्तमः ।
शान्तिहोमं क्रमात् कृत्वा स्नपनं साधकोत्तमः ॥ ३९।३२६ ॥
View Verse
शान्तिहोमं क्रमात् कृत्वा वास्तुहोमं तथैव च ।
ब्राह्मणान् भोजयेत् पश्चादष्टोत्तरशतं क्रमात् ॥ ३९।३२७ ॥
View Verse
तस्यार्धं वा तदर्धं वा यथावित्तानुसारतः(!) ।
चतुर्मूर्तिविधिं स्मृत्वा पञ्चमूर्तिविधि त्यजेत्(?) ॥ ३९।३२८ ॥
View Verse
परिवाराणि सर्वाणि पूर्ववत् स्थापयेत् क्रमात् ।
तत्त्वन्यासं क्रमात् कृत्वा सृष्टिन्यासं तथैव च ॥ ३९।३२९ ॥
View Verse
मूलमन्त्रेण मतिमान् मूलमूर्तिमनुस्मरन् ।
पूजयेत् सततं पश्चात् पूर्वोक्तेन विधानतः ॥ ३९।३३० ॥
View Verse
महाहविर्निवेद्याथ कारयेद्गुरुपूजनम् ।
पूजालोपे ऽपि चेत्तत्र पुनस्तेनैव पूजयेत् ॥ ३९।३३१ ॥
View Verse
तत्र सात्त्वतमार्गेण पूज्यमाने दिने दिने ।
तन्त्रान्तरेण देवेशं कदाचिन्न तु पूजयेत् ॥ ३९।३३२ ॥
View Verse
पूजयेद्यदि सम्मोहान्निष्फलं स्यान्नं संशयः ।
तत्पूजाहरहः पश्चात्तद्ग्रामस्य विनाशकृत् ॥ ३९।३३३ ॥
View Verse
तस्मात् सर्वप्रयत्नेन पूजयेत्तद्द्विजोत्तम ।
पूर्वं कर्मार्चनादीनां शुद्धस्नानं तु कारयेत् ॥ ३९।३३४ ॥
View Verse
जलसम्प्रोक्षणादीनि मूलार्चायां नियोजयेत् ।
स्नपनादीनि कर्माणि कर्मार्चायां नियोजयेत् ॥ ३९।३३५ ॥
View Verse
उत्सवं कारयेत्तस्मिन् बलिहोमपुरःसरम् ।
एकाहं वा त्र्यहं वाथ सप्ताहं वा मुनीश्वर ॥ ३९।३३६ ॥
View Verse
कारयेदुत्सवं तत्र यथाशक्त्यानुरूपतः (!) ।
एतत् क्रमेण कर्तव्यं द्वादशाब्दान्तमेव च ॥ ३९।३३७ ॥
View Verse
एकाब्दे रक्षसां स्थानं (वासः?) तस्माच्छान्तिं तु कारेयत् ।
द्व्यब्दे च यक्षवासस्तु त्र्यब्दे भूतसङ्कुलम् ॥ ३९।३३८ ॥
View Verse
चतुरब्दे पिशाचानां पञ्चाब्दे दानवालयम् ।
पञ्चवर्षमतीते तु निवासो ब्रह्मरक्षसाम् ॥ ३९।३३९ ॥
View Verse
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं तु कारयेत् ।
द्वादशाब्दात् पुरा कुर्यात् जलसम्प्रोक्षणेन तु ॥ ३९।३४० ॥
View Verse
एवमेव तु कर्तव्यं विंशद्वर्षान्तमेव तु ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तं तु नारद ॥ ३९।३४१ ॥
View Verse
जलसम्प्रोक्षणं कुर्याज्जलवासपुरःसरम् ।
ब्राह्मणान् भोजयेत् पश्चान्महाहविपुरःसरम् ॥ ३९।३४२ ॥
View Verse
षट्त्रिंशद्वत्सरादर्वाक् तावत्तेनैव कारयेत् ।
षट्त्रिंशद्वत्सरादूर्ध्वं प्रायश्चित्तं विधीयते ॥ ३९।३४३ ॥
View Verse
पञ्चगव्यं क्रमात् कृत्वा गर्भागारं विशोधयेत् ।
पुण्याहं वाचयित्वा तु ब्राह्मणानामनुज्ञया ॥ ३९।३४४ ॥
View Verse
जलाधिवासनादीनि पूर्वोक्तेनैव कारयेत् ।
गोदानं भूमिदानं च हिरण्यं वस्त्रमेव च ॥ ३९।३४५ ॥
View Verse
सर्वदानं ततः कुर्यात् ब्राह्मणेभ्यो यथाक्रमम् ।
एवं तद्वर्धयित्वा तु पञ्चाशद्वत्सरान्तकम् ॥ ३९।३४६ ॥
View Verse
पञ्चाशद्वत्सरादूर्ध्वां प्रायश्चित्तं विधीयते ।
जलाधिवासनादीनि पुनः स्थापनमारभेत् ॥ ३९।३४७ ॥
View Verse
ब्राह्मणान् भोजयेत्तत्र शेषं पूर्ववदाचरेत् ।
एतत् क्रमेण कर्तव्यं शतवर्षान्तमेव च ॥ ३९।३४८ ॥
View Verse
संवत्सरशतादूर्ध्वं शून्यस्थानं भवेद्ध्रुवम् ।
तद्ग्रामं निधनं याति तत्रस्था नरकं व्रजेत्(?) ॥ ३९।३४९ ॥
View Verse
तद्ग्रामं निधनं याति तस्माच्छान्तिं तु कारयेत् ।
शान्तिं कृत्वा विधानेन पञ्चरात्रेण पूजयेत् ॥ ३९।३५० ॥
View Verse
पूजालोपे ऽपि चेत्तस्मिन् पुनस्तेनैव पूजयेत् ।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत् ॥ ३९।३५१ ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां प्रायश्चित्तविधिर्नाम एकोनचत्वारिंशो ऽध्यायः ॥
View Verse