Śrī Praśna Samhitā
By Unknown
Composed in Unknown
53 chapters • 5548 verses
Filter Content
Display Mode
Chapter - 1
।। श्रीप्रश्नसंहिता ।।
।। प्रथमोऽध्यायः ।।
नमो जगन्निवासाय वासुदेवाय साक्षिणे।
निर्गुणाय परव्योम्ने शंखचक्रगदाधृते।। 1.1 ।।
1.नमश्श्रीवासुदेवाय सच्चिदानन्दमूर्तये।
एकायनत्रयीं यस्तामुपादिक्षच्छ्रियै प्रभुः।।
2.नमः श्रीवत्सवासिन्यै या जगत्क्षेमहेतवे।
एकायनमुपादिक्षदेकताय महात्मने।।
3.वासुदेवपदाम्भोजपरमामृतपायिने।
एकताय मुनिन्द्रौघवन्दिताय नमो नमः।।
4.वन्दे लभ्मीपतिं देवं शङ्खचक्रगदाधरम्।
विद्यामूर्तिं हयग्रीवं शब्दार्थज्ञानलब्धये।
5.अमृताध्मातमेघाभममृताहरणं विभुम्।
पाञ्चरात्रागमाचार्यं वन्दे वैकुण्ठभूपतिम्।।
महर्षयः पुरा केचिद् ब्रह्म जिज्ञासवो महीम्।
पर्यटन्तो महर्षीणामग्निहोत्राणि जुह्वताम्।। 1.2 ।।
पुत्रदारैः समेतानामाश्रमा श्चैव सर्वशः।
गत्वा तत्र स्थितान् पूर्वं नमस्कृत्य यथाक्रमम्।। 1.3 ।।
पप्रच्छुः केन शास्त्रेण ब्रह्मज्ञानं भविष्यति।
आराधनं भगवतः कर्तुं शास्त्रेण केन वा।। 1.4 ।।
तत्कर्म केन शास्त्रेण कर्तव्यं भगवत्प्रियम्।
तत्सर्वं ब्रूत मुनयः संसारार्णवमज्जताम्।। 1.5 ।।
इति पृष्टेषु तेष्वेकः कहोलो नाम वै मुनिः।
वयं तु कर्मकाण्डोक्तकर्म ब्रह्मैव वेदिनः।। 1.6 ।।
मुनयः-
उपास्महे विष्णुमेव ह्यग्निहोत्रादिरूपिणम्।
को वा जानाति तद्विद्यां क्वास्ते स च महामुनिः।। 1.7 ।।
कहोलः-
तानुवाच महाभागान् प्रसन्नेनान्तरात्मना।
[कहोलो वचनं श्रुत्वा मुनींस्तानिदमब्रवीत्।। 1.8 ।।
]
ब्रह्मविद्याप्राप्त्युपायं शृणुध्वं मुनिपुंगवाः।
मेरोरुत्तरतः पार्श्वे सिद्धगन्धर्वसेविते।। 1.9 ।।
सिद्धाश्रमे ब्रह्मसुतः एकतो नाम वै मुनिः।
स तु श्रीशादवाप्तं तच्छास्त्रमित्यनुशुश्रुमः।। 1.10 ।।
इति तस्य वचः श्रुत्वा नमस्कृत्य प्रतस्थिरे।
मेरोत्तरमासाद्य प्रणेमुस्तं महामुनिम्।। 1.11 ।।
आगतानेकतो दृष्ट्वा संपूज्य तदनन्तरम्।
[स्वागतादिपरिप्रश्नैः कन्दमूलफलादिभिः।। 1.12 ।।
तृप्तांस्तानेकतो वाक्यमिदमाह तपस्विनः।]
मदनुग्रहाय मुनय आगता नात्र संशयः।। 1.13 ।।
अथापि ब्रूत वः कार्यं किमस्त्यत्र महर्षयः।
इति तस्य वचः श्रुत्वा मनुयो हृष्टमानसाः।। 1.14 ।।
सर्वे प्राञ्जलयः स्थित्वा मनस्कृत्य यथाविधि।
भगवन् पृथिवीं सर्वामटामो ब्रह्मणः सुत।। 1.15 ।।
वेदितुं ब्रह्मविद्यां वै ज्ञाता तस्य न विद्यते।
कहोलवचनात् मेरुमागता मुनिपुंगव।। 1.16 ।।
त्वं ब्रह्मवित् ब्रह्मसुतः सर्वशास्त्रार्थसारवित्।
तपसा च परं ब्रह्म दृष्टवांश्च श्रियः पतिम्।। 1.17 ।।
तस्माच्छास्त्रमधीतं यन्महर्षे तदुपादिश।
आर्तानां संसृतेर्भीतिं प्राप्तानां नो भवान् गतिः।। 1.18 ।।
इति तेषां वचः श्रुत्वा प्रसन्नेनान्तरात्मना।
एकतः प्रीणयन् सर्वान् इदं मधुरमब्रवीत्।। 1.19 ।।
स्वागतं वो महर्षयो विन्ध्यशैलनिवासिनः।
तत्त्वं वदामि शृणुत पुरावृत्तं मुनीश्वराः।। 1.20 ।।
[युषमाकं दर्शनाकाङ्क्षी मेरौ वासमकल्पयम्।
मद्भाग्याद्भगवानद्य वासुदेवः सनातनः।। 1.21 ।।
युष्माकं मानसमनुप्रविश्य प्रेषयत्स्वयम्।
तदद्य सफलं जन्म भवतां ज्ञानदानतः।। 1.22 ।।
श्रीनिकेतपदं लप्स्ये भक्तसूनिनिषेवितम्।
आदौ युगे यथा श्रीशाद् ब्रह्मज्ञानमवाप्तवान्।। 1.23 ।।
तत्क्रमेणैव वक्ष्यामि शृणुध्वं मुनिपुंगवाः।]
वयं तु ब्रह्मणा सृष्टा एकतश्च द्वितस्त्रितः।। 1.24 ।।
तेष्वहं प्रथमो नाम्ना एकतो मुनिपुंगवाः।
संसारासारतां ज्ञात्वा मेरोरुत्तर मागमम्।। 1.25 ।।
श्रीपतिं हरिमुद्दिश्य तपाम्यहमहर्निशम्।
ततो वर्षसहस्रान्ते भगवान् भक्तवत्सलः।। 1.26 ।।
दर्शयामास चात्मानं अपश्यं श्रीनिकेतनम्।
दृष्ट्वोत्फुल्लमना देवं देवीं च तदनु श्रियम्।। 1.27 ।।
आनन्दसागरे मग्नस्ततोऽस्तौषं हरिं श्रियम्।
नमः पङ्कजनेत्राय नमस्ते पीतवाससे।। 1.28 ।।
नमः पङ्कजनाभाय नमस्ते पङ्कजांघ्रये।
[अरूपाय सुरूपाय सच्चिदानन्दमूर्तये।। 1.29 ।।
]
नमो हिरण्यगर्भादिस्रष्ट्र ब्रह्मस्वरूपिणे।
नमः पद्मासमेताय भक्तरक्षणमूर्तये।। 1.30 ।।
अवतारविशेषाणां धारिणे वनमालिने।
क्षीरोदमथनोद्भूते जगद्रक्षणदीक्षिते।। 1.31 ।।
नमः पङ्कजमालिन्यै नमस्तेऽमृतयोनये।
त्रैलोक्यमात्रे शरणं प्रपन्नोऽस्मि च वामहम्।। 1.32 ।।
इति नत्वोत्थितं मां तु शरण्यो भक्तवत्सलः।
नारायणस्ततस्तुष्टः श्रिया सह जगत्पतिः।। 1.33 ।।
प्रसन्नोऽस्मि विधेः पुत्र मत्तः किं वरमिच्छसि।
{मत्तो वृणीष्व वरदाद्वरमित्यब्रवीत्तदा।। 1.34 ।।
]
हरेरित्थं वचः श्रुत्वा कृताञ्जलिपुटोऽब्रुवम्।
जन्मकोटिसहस्राणि मयावाप्तानि वै हरे।। 1.35 ।।
अतः संसारजलधेरुत्तीर्य भगवन्नहम्।
श्रुतिस्मृतीतिहासाद्यैः प्रोक्तं विष्णोः परं पदम्।। 1.36 ।।
यत्र स्थितानां भक्तानामावृत्तिर्न भवेत् किल।
नय मां तत्पदं देव भीतं संसारसागरात्।। 1.37 ।।
[एष मेऽस्तु वरः कामः नान्यं किंचिद् वृणे हरे।]
इति संप्रार्थ्यमानं मां भगवान् प्रत्यभाषत।। 1.38 ।।
मुने ददामि ते लोकमपुनर्भवलक्षणम्।
अथापि किंचिद्वक्ष्यामि तत्कुरुष्व महामते।। 1.39 ।।
इयं श्रीर्मन्मुखादेकं लोकस्य हितकाम्यया।
अधीतिनी शास्त्रमेकमुपदेष्टुं तवेच्छति।। 1.40 ।।
तस्य पात्रं त्वमेवैकस्तदधीहि श्रियो मुखात्।
किं च त्वं कतिचित्कालादागच्छन्ति महर्षयः।। 1.41 ।।
वासिष्ठादिषु गोत्रेषु ह्युत्पन्ना दीक्षिता मया।
गर्भ एव च तेषां त्वमिदं शास्त्रमुपादिश।। 1.42 ।।
ततो मल्लोक मागत्य मोदन्तां नित्यसूरिवत्।
इत्युक्त्वा श्रियमालोक्य मुनये त्वमुपादिश।। 1.43 ।।
नारायणमुखोद्गीतं श्रुत्वा श्रीर्मुनिपुंगवाः।
उपादिशत् पाञ्चरात्रं श्रीप्रश्नमितिसंज्ञितम्।। 1.44 ।।
तयोः पूजामकरवं यथावन्मुनिपुंगवाः।
ततस्तु भगवानाह बद्धाञ्जलिपुटस्थितम्।। 1.45 ।।
[पूजामपि च कृत्वा मां पुरःस्थितमथो हरिः।]
उपदिष्टमिदं शास्त्रं पावनं मोक्षसाधकम्।। 1.46 ।।
नाभक्ताय साकामाय न च मद्द्वेषिणे स्त्रियै।
न तस्करायानृजवे नोपदेष्टुं त्वमर्हसि।। 1.47 ।।
इत्युक्त्वान्तर्हितो देवः श्रिया सार्धं जगत्पतिः।
केषु गोत्रेषु चोत्पन्ना ब्रूत यूयं महर्षयः।। 1.48 ।।
वेदशिराः-
भरद्वाजो वसिष्ठश्च विश्वामित्रस्तथा परः।
कोण्डिन्यश्चापि मुनयो ह्यस्मद्गोत्रप्रवर्तकाः।। 1.49 ।।
अहं वेदशिरा नाम कवषश्चज तथारुणिः।
भरद्वाजश्च चत्वारो भगवत्प्रीतिभाजनाः।। 1.50 ।।
गर्भे दीक्षामनुप्राप्तास्तस्मान्मोक्षार्थसाधकम्।
[शिष्यतां समनुप्राप्ताननुगृह्णातु नो भवान्।। 1.51 ।।
श्रीप्रश्नमिति यच्छास्त्रं श्रियो वक्त्रात् त्वया श्रुतम्।
मोक्षदं सर्वशास्त्रार्थसारमाराधनादिकम्।। 1.52 ।।
]
श्रियो मुखात् त्वया प्राप्तं ब्रूहि ब्रह्मन् हिताय नः।
आराधनं भगवतः कृत्वा मोक्षमवाप्नुमः।। 1.53 ।।
इति संप्रार्थितो विद्वानेकतः श्रीपतिं नमन्।
मनसा समनुध्यात्वा वक्तुमेवोपचक्रमे।। 1.54 ।।
Chapter - 2
।। द्वितीयोऽध्यायः ।।
श्रीरुवाच-
जगत्कारण पद्माक्ष शङ्खचक्रगदाधर।
ब्रह्मरुद्रादिदेवेड्यः सृष्टिस्थित्यन्तकारक।। 2.1 ।।
अनादिमध्यनिधन भक्तवत्सल निर्गुण।
पृच्छामि संशयं किंचित् तन्मे व्याख्यातुमर्हसि।। 2.2 ।।
कर्माणि जन्तून् विश्वेश न त्यजन्ति कदाचन।
जन्तवोऽपि च कर्माणि प्रकृतिं प्राप्य नित्यशः।। 2.3 ।।
माया तु प्रकृतिर्नाम त्वया सृष्टा जगत्पते।
ब्रह्मादिप्राणिनः सर्वे विचित्रगतिमैश्वरीम्।। 2.4 ।।
मायां प्राप्य बहून् क्लेशान् सुखमित्यामनन्ति हि।
माययापहृततज्ञानाः सुखदुःखविभेदनम्।। 2.5 ।।
न जानन्ति जगत्स्वामिंस्त्वन्माया हीदृशी किल।
विद्यया तपसा वापि वेदाध्ययनतोऽपि वा।। 2.6 ।।
धर्मशास्त्रादिपाठेन पुराणपठनेन वा।
यज्ञादिकर्मभिर्वापि नित्यकर्मादिभिर्हरे।। 2.7 ।।
मायां त्वदीयां जित्वा यः कश्चिन्नो मोक्षमेष्यति।
परिवृत्तावनेकानां युगानामपि वल्लभ।। 2.8 ।।
कश्चित् प्राणी समायाति मायया मोहितेषु वै।
ज्ञातो भवद्भिस्तद्धेतुर्न जाने भगवन्नहम्।। 2.9 ।।
विना भवन्तं क्षणिकं न याम्यन्यत्र पूरुष।
तथापि न मया ज्ञातं मोक्षदं वेदशास्त्रकम्।। 2.10 ।।
कार्यं वापि समुद्धिष्टं भवता न प्रकाशितम्।
न रहस्यं यदि भवेद् भक्ताया मम वत्सल।। 2.11 ।।
सर्वलोकहितार्थाय दयासिन्धो जगत्पते।
उपादिश जगत्स्वामिन् अमी मुक्तिमवाप्नुयुः।। 2.12 ।।
भगवानुवाच-
पद्मे त्वत्तोऽपि मे गोप्यं त्रैलोक्ये नास्ति वल्लभे।
अवतारादिषु मया सह तिष्ठसि सुव्रते।। 2.13 ।।
इत्थं स्थिते मया गोप्यं किं वास्ति जगदीश्वरि।
सर्वज्ञा ह्यसि मां देवि त्वमज्ञेव मम प्रिये।। 2.14 ।।
लोकस्य हितमिच्छन्ती मां पृच्छसि वरानने।
लोकमातुरयं प्रश्नस्तवैवौपयिकं हि सः।। 2.15 ।।
आदितो देवी वक्ष्यामि ब्रह्मादीनामहं पुरा।
नोपादिशं मुक्तिशास्त्रं जगतो वृद्धये रमे।। 2.16 ।।
ब्रह्मकल्पे पुरा प्राप्ते सर्वं सलिलमावृतम्।
योगलक्ष्मीस्वरूपेण श्रीवत्सेऽन्तर्हिता ह्यसि।। 2.17 ।।
तमसा सर्वलोकेषु व्याप्तेषु सचराचरम्।
लोकं मदुदरं प्राप्य स्थितं ब्रह्मसमन्वितम्।। 2.18 ।।
तदा बालं समास्थाय रूपं जलनिधावपि।
वटपत्रे शयानोऽहं तं कालमनयं रमे।। 2.19 ।।
ब्रह्मरतात्र्यां व्यतीतायां मत्संकल्पादयं प्रिये।
मन्नाभिकमलोद्भूतो ब्रह्मा लोकपितामहः।। 2.20 ।।
कर्णिकायां क्वचित्कालं तिष्ठन्नन्तर्हितं जले।
अजानंश्चिन्तयन्नेव कंचित्कालमवस्थितः।। 2.21 ।।
ततस्तस्य मतिर्जाता पङ्कजोपर्यहं स्थितः।
पङ्कजस्य क्वचिद्बन्धमन्तरा स्थितिर्भवेत्।। 2.22 ।।
कस्मिन् बद्धः पङ्कजोऽयं तं ज्ञास्यामीति निश्चितः।
पद्मस्य नालरन्ध्रेण गन्तुमन्तरभित्वरन्।। 2.23 ।।
मार्गमन्विष्यमाणस्य नादान्मार्गं तदा ह्यहम्।
चिन्तामास्थाय स विधिस्तप आतिष्ठदव्ययम्।। 2.24 ।।
ततो वर्षसहस्रान्ते हंसरूपं समाश्रितः।
स्थित्वाकाशे त्रयीरूपं कर्मकाण्डमयं शुभम्।। 2.25 ।।
जगत्सृष्टेरादिकन्दमुपादिक्षं विधेः पुरा।
ततः संतुष्टहृदयस्त्रयीं कर्मप्रवर्तिनीम्।। 2.26 ।।
प्राप्य ब्रह्मा तदा मां तु मानसैरर्चयत्सुमैः।
अनुज्ञया मम विधिः सत्यलोकमुपेयिवान्।। 2.27 ।।
मरीच्यादीन् पुरा सृष्ट्वा तेभ्यो वेदानुपादिशत्।
तेऽपि प्राप्य त्रयीं तद्वदसृजन् प्राणिनो बहून्।। 2.28 ।।
स्थावराणि च सर्वाणि वृक्षगुल्मलता रमे।
इत्थं सृष्ट्वा कर्मकाण्डमधीयानाश्च नित्यशः।। 2.29 ।।
कुर्वाणाः कर्मणो भेदांस्तेषु तृप्ताश्च देवताः।
प्रावर्तयंश्च भूलोके कर्मकाण्डाननेकधा।। 2.30 ।।
धर्मार्थकामरूपाणामर्थानामुपदेशतः।
मानवास्तेषु विश्वासमनुप्राप्ताः सुमध्यमे।। 2.31 ।।
निवृत्तिशास्त्रमपरं वेदं वापि तदर्थकम्।
नापृच्छन्मां विधिमुखा नावोचंश्चाप्यहं रमे।। 2.32 ।।
संवत्सरं तदर्धं वा गुरुशुश्रूषया ततः।
सच्छिष्यायोपदेष्टव्यमिति शास्त्रेषु वर्तते।। 2.33 ।।
तद्विधिं समतिक्रम्य रहस्यं शास्त्रमुत्तमम्।
पद्ममालिनि नावोचं वेदं तद्बोधकं च तम्।। 2.34 ।।
श्रीः-
नमामि गुण्डरीकाक्ष जगदादे दयानिधे।
तव शक्तिर्विचित्रा हि गुणमायाविमोहिता।। 2.35 ।।
कथं ज्ञातुं प्रवर्तन्ते तच्छास्त्रं वा तदर्थकम्।
वेदं वापि महोदारसंसारपतिता इमे।। 2.36 ।।
मयि प्रीतिस्तव यदि वेदं तच्छास्त्रमादितः।
उपादिश हरे सर्वं लोकानुग्रहकाम्यया।। 2.37 ।।
भगवान्-
वेदमेकायनं नाम वेदानां शिरसि स्थितम्।
तदर्थकं पाञ्चरात्रं मोक्षदं तत्क्रियावताम्।। 2.38 ।।
यस्मिन्नेको मोक्षमार्गः वेदे प्रोक्तः सनातनः।
मदाराधनरूपेण तस्मादेकायनं भवेत्।। 2.39 ।।
रात्रिरज्ञानमित्युक्तं पञ्चेत्यज्ञाननाशकम्।
तच्छास्त्रं पञ्चरात्रं स्यादन्वर्थस्यानुरोधतः।। 2.40 ।।
सार्धकोटिप्रमाणेनानुष्टुभा छन्दसा रमे।
वेदवन्नित्यमेतच्च मल्लोके नित्यसूरयः।। 2.41 ।।
आमनन्ति सदा भक्त्या मनसा पूजयन्ति च।
अन्तरैतद्वेदशास्त्रज्ञानं मोक्षप्रदं न हि।। 2.42 ।।
यस्मिन् ज्ञानेन सहितं योगश्चापि विशेषतः।
आलयानां च निर्माणं बिम्बनिर्माणमेव च।। 2.43 ।।
एतेषां लक्षणं चापि सविशेषमुदाहृतम्।
प्रतिष्ठा चाग्निकार्यं च प्रायश्चित्तमशेषतः।। 2.44 ।।
पूजकानां च दीक्षा च सिद्धान्ताः समुदीरिताः।
मद्यागा विविधाः प्रोक्ता उत्सवा बहुभेदवत्।। 2.45 ।।
मन्त्रोद्धारादिकार्याणि बहून्यस्मिन् स्थितानि हि।
श्रीः-
कथं महति शाश्त्रेऽस्मिन् संसारे पतिता जनाः।। 2.46 ।।
प्रवर्तन्ते देवदेव ज्ञानं वापि कथं भवेत्।
श्रद्धा वापि कथं तेषां संसारेषु निमज्जताम्।। 2.47 ।।
वासनाविवशाः केचिज्जगदाहुरनीश्वरम्।
नित्यं शरीरं केचिच्च संसृतेर्नास्ति सौख्यदम्।। 2.48 ।।
एवं बहुविधा भेदा जन्तूनां मतयोऽन्यथा।
भ्रमन्ति तन्निवृत्तिस्तु कथं स्याज्जगतीपते।। 2.49 ।।
महान्तो ह्युपदेष्टारो न सन्ति जगतीतले।
उपदिष्टं न गृह्णन्ति जनाः कामविमोहिताः।। 2.50 ।।
तथापि कृपया मेऽद्य शास्त्रं संगृह्य सारवत्।
आदाय सात्त्विकं भागं पञ्चरात्रमुपादिश।। 2.51 ।।
भगवानु-
त्वयोक्तमुचितं देवि विधिप्रभृतिदेवताः।
भ्रमन्ते संसृतिं प्राप्य किं पुनर्मनुजा भुवि।। 2.52 ।।
त्वयाहं प्रार्थितो देवि पीयूषमुदधेर्यथा।
सात्त्विकं भागमुद्धृत्य लोकस्य हितकाम्यया।। 2.53 ।।
वदामि कमले तुभ्यं शृणु लोकहितंकरि।
मन्मूर्तयः पञ्चविधा वदन्त्युपनिषत्सु च।। 2.54 ।।
परव्यूहो हार्द इति विभवोऽर्चेति भेदतः।
वैकुण्ठेऽस्मिन् परव्यूहो सदा पश्यन्ति सूरयः।। 2.55 ।।
योगतत्त्वेन मुनयः सदा मां ध्यानगोचरम्।
पश्यन्ति देवि हृन्मध्ये तस्मान्मां हार्द उच्यते।। 2.56 ।।
अवतारेषु तत्काले पश्यन्तोऽपि जना भुवि।
अवजानन्ति मुनयो जानन्ति ज्ञानिनो रमे।। 2.57 ।।
Chapter - 3
।। तृतीयोऽध्यायः ।।
श्रीः-
भगवन् योगतत्त्वाख्यं ज्ञानपूर्वं वदस्व मे।
भगवान्-
सर्वे देवा महर्षयो मनुष्याः पशवस्तथा।। 3.1 ।।
मन्मायया निबद्धास्ते तन्निकृन्तनमद्भुतम्।
योगसारं प्रवक्ष्यामि ज्ञानतत्त्वसमन्वितम्।। 3.2 ।।
जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम्।
नानामार्गैश्च दुष्प्रापं कैवल्यं परमं पदम्।। 3.3 ।।
अनिर्देश्यमगम्यं यत् सर्वगं सर्वसाक्षिमत्।
निष्कलं निर्मलं शान्तं सर्वातीतं निरञ्जनम्।। 3.4 ।।
परं ब्रह्मेति यत्प्रोक्तं तद्योगैरेव गम्यते।
जीवस्य गुणसङ्गेन कामक्रोधादयोऽरयः।। 3.5 ।।
बध्नन्ति नित्यदा मुक्तं पाशैः संसाररूपिभिः।
तस्मात्पाशाद्विनिर्मुक्तेरुपायं कथयामि ते।। 3.6 ।।
योगहीनं कथं ज्ञानं मोक्षदं स्याद्वरानने।
योगोऽपि ज्ञानहीनस्तु न क्षमः स्यात् प्रदर्शितुम्।। 3.7 ।।
तस्मान्मुमुक्षुर्ज्ञानेन धारयेद्योगमद्भुतम्।
अज्ञानादेव संसारो ज्ञानादेव हि मुच्यते।। 3.8 ।।
ज्ञानप्रयोजनं किं तत् ज्ञेयवस्तुप्रदर्शनम्।
सर्वाकारं निराकारं शुद्धस्फटिकसंनिभम्।। 3.9 ।।
चतुर्भुजं वासुदेवं शङ्खचक्रगदाधरम्।
आनन्दजलधिं शुद्धं निर्गुणं पीतवाससम्।। 3.10 ।।
ब्रह्मादिसर्वदेवानामुत्पत्तेः कारणं परम्।
किंचित् स्मितमुखं देवं पुण्डरीकायतेक्षणम्।। 3.11 ।।
गुरोर्मुखादधीतेन पथा योगेन मानवः।
ध्यायन् भगवतो रूपं योगं कुर्याद्विचक्षणः।। 3.12 ।।
एतज्ज्ञानमिति प्रोक्तं योगसारमथोच्यते।
मन्त्रयोगो लयश्चैव तथा परिचयः स्मृतः।। 3.13 ।।
निष्पत्तिश्चेत्यवस्था च योगेषु परिकीर्तिताः।
एतेषां लक्षणं वक्ष्ये शृणुष्व कमलेक्षणे।। 3.14 ।।
मातृकादियुतं मन्त्रं द्वादशाब्दं जपेच्छुचिः।
क्रमेण लभते ज्ञाममणिमादिगुणान्वितम्।। 3.15 ।।
अल्पबुद्धिरिमं योगं सेवते साधकाधमः।
लययोगश्चित्तलयः कोटिशः परिकीर्तितः।। 3.16 ।।
गच्छंस्तिष्ठन् स्वपन् भुञ्जन् ध्यायन्निष्कलमीश्वरम्।
स एव लययोगाख्यो हठयोगमतः शृणु।। 3.17 ।।
यमश्च नियमश्चोभावासनं प्राणसंयमः।
प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरेः।। 3.18 ।।
समाधिः समतावस्था साष्टाङ्गो योग उच्यते।
महामुद्रा महाबन्धो महावेधश्च खेचरी।। 3.19 ।।
जालन्धरोड्डियाणश्च मूलबन्धस्तथैव च।
दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं तथा।। 3.20 ।।
वज्रोली चामरोली च सहजोली त्रिधा मता।
एतेषां लक्षणं देवि प्रत्येकं शृणु तत्त्वतः।। 3.21 ।।
लघ्वाहारो यमेष्वेको मुख्यो भवति तत्त्वतः।
अहिंसा नियमेष्वेका मुख्या पद्मसमुद्भवे।। 3.22 ।।
सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम्।
प्रथमाभ्यासकाले तु विघ्नः स्याद्बहुधा रमे।। 3.23 ।।
आलस्यं कत्थनं धूर्तगोष्ठीमन्त्रादिसाधनम्।
धातुस्त्री लौल्यकादीनि मृगतृष्णामयानि वै।। 3.24 ।।
ज्ञात्वा सुधीस्त्यजेत्सर्वान् विघ्नान् पुण्यप्रभावतः।
प्राणायामं ततः कुर्वन् पद्मसनगतः स्वयम्।। 3.25 ।।
सुशोभनं मठं कुर्यात् सूक्ष्मद्वारं तु निर्व्रणम्।
सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः।। 3.26 ।।
दिने दिने च संमृष्टं संमार्जन्या विशेषतः।
वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः।। 3.27 ।।
तत्रोपविश्य मेधावी पद्मासनमथास्थितः।
ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम्।। 3.28 ।।
ततो दक्षिणहस्तस्य त्वङ्गुष्ठेनैव पिङ्गलाम्।
निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः।। 3.29 ।।
यथाशक्त्यनुरोधेन ततः कुर्याच्च कुम्भकम्।
पुनस्त्यजेत् पिङ्गलया शनैरेव न वेगतः।। 3.30 ।।
पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः।
धारयित्वा यथाशक्ति रेचयेदिडया शनैः।। 3.31 ।।
यया त्यजेत्तयापूर्य धारयेदविरोधतः।
जानू प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम्।। 3.32 ।।
अङ्गुलिश्फोटनं कुर्यात् सा मात्रा परिकीर्तिता।
इडया वायुमापूर्य शनैः षोडशमात्रया।। 3.33 ।।
कुम्भयेत् पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया।
रेचयेत् पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः।। 3.34 ।।
पुनः पिङ्गलयाऽऽपूर्य पूर्ववत्सुसमाहितः।
प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान्।। 3.35 ।।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत्।
एवं मासत्रयाभ्यासान्नाडीशुद्धिर्भविष्यति।। 3.36 ।।
यदा तु नाडीशुद्धिः स्यात् तदा चिह्नानि बाह्यतः।
जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः।। 3.37 ।।
शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम्।
कृशत्वं च शरीरस्य तदा जायेत निश्चलम्।। 3.38 ।।
योगविघ्नकराहारं वर्जयेद्योगिसत्तमः।
लवणं सर्षपं चाम्लमुष्णं तीक्ष्णं च रूक्षकम्।। 3.39 ।।
शाकजातं रामठादि वह्निस्त्रीपथसेवनम्।
प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत्।। 3.40 ।।
अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम्।
गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः।। 3.41 ।।
ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे।
यथेष्टधारणाद्वायोः सिध्येत् केवलकुम्भकम्।। 3.42 ।।
केवले कुम्भके सिद्धे रेचपूरविवर्जिते।
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते।। 3.43 ।।
प्रस्वेदो जायते पूर्वं मर्दं तेन च कारयेत्।
ततोऽतिधारणाद्वायोः क्रमेणैव शनैः शनैः।। 3.44 ।।
कफो भवति देहस्य आसनस्थस्य योगिनः।
ततोऽधिकतराभ्यासाद् दारुणात्स्वेद उद्भवेत्।। 3.45 ।।
तदा च दार्दुरो भाव उत्प्लुत्योत्प्लुत्य गच्छति।
पद्मासनस्थितो योगी तदा गच्छति भूतलम्।। 3.46 ।।
ततोऽधिकतराभ्यासाद् भूमित्यागश्च जायते।
पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते।। 3.47 ।।
अतिमानुषचेष्टादि तदा सामर्थ्यमुद्भवेत्।
न दर्शयेच्च सामर्थ्यं यदि कुर्यात्तपोव्ययः।। 3.48 ।।
सुखं वा यदि वा दुःखं प्राप्तं न व्यथयेत्तदा।
अल्पमूत्रपुरीषश्च स्वल्पनिद्रा च जायते।। 3.49 ।।
कीलवो दूषिका लाला स्वेददुर्गन्धतानने।
एतानि सर्वथा तस्य न जायन्ते ततः परम्।। 3.50 ।।
ततोऽधिकतराभ्यासाद् बलमुत्पद्यते बहु।
येन भूचरसिद्धः स्याद् भूचराणां जले क्षमः।। 3.51 ।।
व्याघ्रादिसंहशरभान् बाहुभ्यां हन्ति योगवित्।
अभ्यसेत् प्लुतमोंकारं तेन पापो विनश्यति।। 3.52 ।।
सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा।
एवमभ्यासयोगेन घटावस्था समुद्भवेत्।। 3.53 ।।
प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः।
अन्योन्यस्याविरोधेन घटते ज्ञानमद्भुतम्।। 3.54 ।।
घटावस्थेति सा प्रोक्ता तच्चिह्नानि वदामि ते।
पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परित्यजेत्।। 3.55 ।।
दिवा वा यदि वा कुर्यात् सायं वा याममात्रकम्।
एकवारं प्रतिदिनं कुर्यात् केवलमुम्भकम्।। 3.56 ।।
इन्द्रियाणिन्द्रियार्थेभ्यो यत् प्रत्याहरणं स्फुटम्।
योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते।। 3.57 ।।
यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत्।
[यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत्]।। 3.58 ।।
लभते नासया यद्यत्तत्तदात्मेति भावयेत्।
जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत्।। 3.59 ।।
त्वचा यद्यत् स्पृशेद्योगी तत्तदात्मेति भावयेत्।
एवं भावयतस्तस्य सामर्थ्यमतिमानुषम्।। 3.60 ।।
दूरश्रुतिर्दूरदृष्टिः क्षणाद् दूरगतिस्तथा।
वाक्सिद्धिः कामरूपत्वमदृश्यत्वं ततो भवेत्।। 3.61 ।।
मलमूत्रविलेपेन लोहादेः स्वर्णता भवेत्।
खे गतिस्तस्य जायेत पञ्चताभ्यासयोगतः।। 3.62 ।।
तदा बुद्धिमता भाव्यं योगिनो योगसिद्धये।
एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान्।। 3.63 ।।
न दर्शयेत् स्वसामर्थ्यं यस्य कस्यापि योगिराट्।
यथा मूढो यथा मूर्खो यथा बधिर एव च।। 3.64 ।।
तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये।
शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः।। 3.65 ।।
तत्तत्कार्येषु सक्तः स्यादभ्यासो विस्मृतो भवेत्।
अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम्।। 3.66 ।।
एवं भवेद् घटावस्था संतताभ्यासयोगतः।
अनभ्यासवतस्तस्य वृथा गोष्ठ्या न सिध्यति।। 3.67 ।।
तस्मात् सर्वप्रयत्नेन योगमेव सदाभ्यसेत्।
ततः परिचयावस्था जायतेऽभ्यासयोगतः।। 3.68 ।।
वायुः परिचितो यत्नाद्भावयित्वा तु कुण्डलीम्।
अग्निना च सुषुम्नायां प्रविशेदनिरोधतः।। 3.69 ।।
वायुना सह चित्तं च प्रविशेच्च महापदम्।
यस्य चित्तं स्वपवनः सुषुम्नां प्रविशेदिह।। 3.70 ।।
भूमिरापोऽनलो वायुराकाशं चेति पञ्चकम्।
एषु पञ्चसु देहानां धारणं पञ्चधोच्यते।। 3.71 ।।
आ पादाज्जानुपर्यन्तं पृथिवीस्थानमुच्यते।
पृथिवी चतुरश्रं च पीतवर्णं लवर्णकम्।। 3.72 ।।
पार्थिवे वायुमारोप्य लकारेण समन्वितम्।
ध्यायंश्चतुर्मुखाकारं चतुर्वक्त्रं हिरण्मयम्।। 3.73 ।।
धारयेत् पञ्च घटिकाः पृथिवीजयमाप्नुयात्।
पृथिवीयोगतो मृत्युर्न भवेत्तस्य योगिनः।। 3.74 ।।
आ जानोः पायुपर्यन्तमपां स्थानमुदाहृतम्।
[आपोऽर्धचन्द्रं शुक्लं च वं बीजं परिकीर्तितम्।। 3.75 ।।
]
वारुणे वायुमारोप्य वकारेण समन्वितम्।
स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम्।। 3.76 ।।
नीलमेघनिभं शान्तं पीतवाससमच्युतम्।
धारयेत् पञ्च घटिकाः सर्वपापैः प्रमुच्यते।। 3.77 ।।
ततो जलाद् भयं नास्ति जले मृत्युर्न विद्यते।
आ पायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम्।। 3.78 ।।
वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमन्वितम्।
संकर्षणं चतुर्बाहुं बलज्ञानगुणानवितम्।। 3.79 ।।
शङ्खचक्रगदापाणिं सुप्रसन्नमनुस्मरन्।
धारयेत् पञ्च घटिकाः वह्निनासौ न दह्यते।। 3.80 ।।
तन्मण्डलं प्रविष्टस्य नाग्निर्दहति वै तनुम्।
हृदयादाभ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम्।। 3.81 ।।
वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम्।
वायोः स्थाने ब्रह्मरूपमनिरुद्धं चतुर्भुजम्।। 3.82 ।।
धारयेत् पञ्च घटिका वायुवद् व्योमगो भवेत्।
वायोर्भयं तथा मृत्युर्न भवेद्योगिनो रमे।। 3.83 ।।
आ भ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते।
व्योमवृत्तं च धूम्रं च हकाराक्षरदीप्तिम्त्।। 3.84 ।।
आकाशे वायुमारोप्य वासुदेवं चतुर्भुजम्।
शुद्धस्फटिकसंकाशं शङ्खचक्रगदाधरम्।। 3.85 ।।
रमापतिं चतुर्बाहुं षाड्गुण्यपरिकर्मितम्।
आकाशे धारणात्तस्य खेचरत्वं भवेद् ध्रुवम्।। 3.86 ।।
यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते।
एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः।। 3.87 ।।
ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते।
ब्रह्मणः प्रलये चापि न नश्यति स योगिराट्।। 3.88 ।।
समभ्यसेद् तथा योगं घटिकाः षष्ठिमेव च।
वायुं निरुध्य चाकाशे देवतामिष्टदामिति।। 3.89 ।।
एवं प्रतिदिनं कुर्वन् कामक्रोधविवर्जितः।
भगवन्तं वासुदेवं तोषयेद् योगिसत्तमः।। 3.90 ।।
अभिकाङ्क्षति देवादिशरीरं सुखलिप्सया।
तच्छरीरमवाप्नोति तत्र तत्रापि मोदते।। 3.91 ।।
अणिमादिगुणेच्छा चेत् स्मरणेनैव जायते।
एवं बहुविधा योगा योगिनश्चेष्टसाधनम्।। 3.92 ।।
योगे प्रवर्तमानस्य शरीरक्लेशसंभवाः।
बुद्धिक्लेशश्च बहुधा जायते नात्र संशयः।। 3.93 ।।
मोक्षं यदा प्रार्थयते तदा मां मनसा स्मरन्।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।। 3.94 ।।
ब्रह्मरन्ध्रेण विसृजेत् दीर्त्वा च विरजां नदीम्।
मल्लोकं समनुप्राप्य मद्रूपं प्रतिपद्यते।। 3.95 ।।
Chapter - 4
।। चतुर्थोऽध्यायः ।।
श्रीः-
त्वया प्रोक्तो योगसारो दुर्लभार्थस्य साधकः।
तथाप्येतेषु योगेषु विघ्नान् बहुविधान् हरे।। 4.1 ।।
अनेककालसाध्याश्च तेषु को वा प्रवर्तते।
प्रायेण जन्तवो लोके कामक्रोधपरायणाः।। 4.2 ।।
तस्मादिमं परित्यज्य मार्गं लोकेहिताय वै।
सिद्धिदं चातिशीघ्रेण विघ्नैश्चापि न चाल्यते।। 4.3 ।।
तन्मार्गं वद देवेश लोकस्य हितकाम्यया।
भगवान्-
पद्मस्थिते पद्महस्ते त्वत्प्रश्नसदृशोत्तरम्।। 4.4 ।।
यद्दर्शनं हि जन्तूनां सर्वसिद्धिप्रदं भवेत्।
एतावत्कालपर्यन्तं ज्ञानिनो योगिनोऽपि वा।। 4.5 ।।
इतरे वा नाभ्यजानन् अर्चारूपं वरानने।
देवो वा मानुषो वापि पुमर्थेषु चतुर्ष्वपि।। 4.6 ।।
एकं वा चतुरो वापि प्रार्थयेन्मां वरानने।
निष्कामो वा सकामो वा वैकुण्ठोपममन्दिरम्।। 4.7 ।।
पुण्यक्षेत्रे पुरा कृत्वा त्वया सह समुध्यमे।
अर्चारूपं पाञ्चरात्रविधिना सर्वकामदम्।। 4.8 ।।
मन्त्रमूर्तिं प्रतिष्ठाप्य मन्दिरान्तर्गतं हरिम्।
तच्छास्त्रोक्तां पुरा दीक्षां कृत्वा देशिकसत्तमः।। 4.9 ।।
पूजयेद्यदि मद्बिम्बं वेदवेदाङ्गपारगः।
गृहे वापि प्रतिष्ठाप्य नित्यं पूजयते यदि।। 4.10 ।।
अहं तद्बिम्बमाविशअय भक्तानामिष्टसाधकः।
त्वया सह भविष्यामि नात्र संदेह अस्तु ते।। 4.11 ।।
श्रीः-
भगवन् केषु देशेषु केन द्रव्येण वा पुनः।
यजमानः कीदृशः स्यादाचार्यः कैर्गुणैर्युतः।। 4.12 ।।
कीदृग्लक्षणसंयुक्तमालयं ते प्रियं भवेत्।
भगवान्-
आस्तिकः कर्मकाण्डोक्तकर्मानुष्ठानतत्परः।। 4.13 ।।
श्रद्धावाननसूयुश्च दाता धान्यनैर्युतः।
मद्भक्तो देवपूजादौ प्रीतिमानपरैर्गुणैः।। 4.14 ।।
संयुक्तो ब्राह्मणो वैश्यः क्षत्रियः शूद्र एव वा।
अनुलोमो भवेद्वापि यजमानो भवेद्रमे।। 4.15 ।।
सर्वविद्यासु कुशलः शान्तो ब्राह्मणपुंगवः।
जितेन्द्रियो जितक्रोधः कर्मठस्तपसि स्थितः।। 4.16 ।।
विष्णुभक्तो वास्तुशास्त्रे निष्णातः शिल्पवित्तमः।
पाञ्चरात्रोक्तविधिना दीक्षितो दीक्षितोत्तमैः।। 4.17 ।।
पाञ्चरात्रार्थतत्त्वज्ञो मदंशो गुरुरीदृशः।
एवंविधं गुरुं ज्ञात्वा गृहं तस्य व्रजेत् सुधीः।। 4.18 ।।
नत्वा तं शिरसा पूर्वं प्रार्थयेत्सौधकर्मणि।
अहं भगवतो विष्णोर्मन्दिरं कर्तुमुद्यतः।। 4.19 ।।
लक्षणज्ञो भवान् सौधं कर्तुमर्हति शिल्पिभिः।
इति संप्रार्थ्य विप्रेन्द्रं नालिकेरफलं ततः।। 4.20 ।।
दद्यात् तस्मै सर्वकार्यभारं तस्मिन् निवेशयेत्।
प्रार्थितो यजमानेन तत्फलावाप्तये गुरुः।। 4.21 ।।
शुभे दिवसनक्षत्रे शुभे लग्ने स्वयं गुरुः।
क्ष्मापरिग्रहपूर्वादि कुर्यात् कार्तान्तिकैः सह।। 4.22 ।।
क्ष्मापरिग्रहपूर्वाणामारम्भे सर्वकर्मणाम्।
द्वादशाक्षरपूर्वैस्तु सर्वैः मन्त्रेश्वरः पुरा।। 4.23 ।।
आराध्यो भगवान् भक्त्या चक्राब्जे गलशेऽनले।
संतर्प्यार्घ्यादिकैर्भक्त्या मन्त्रैः श्रुत्युक्तकर्मभिः।। 4.24 ।।
विश्वकर्मस्वरूपेण भगवन्तमधोक्षजम्।
विविधैरुपचारैश्च धूपदीपानुलेपनैः।। 4.25 ।।
[हुत्वा च पायसान्नं च सगणं याजयेद् गुरुः।]
विसर्जने कृते विष्णौ सानके कमलासने।। 4.26 ।।
सुमुहूर्ते गृहाद्धीमान् यजमानेन संमितः।
अनुज्ञां ब्राह्मणेभ्यश्च प्राप्य शिल्पिगणैः सह।। 4.27 ।।
ब्राह्मणैः साधकैश्चापि रथकारवरैस्तथा।
भद्रं कर्णेति वै मन्त्रं घोषयन् वेदपारगैः।। 4.28 ।।
आदाय पूर्णकलशमाचार्यो मन्त्रवित्तमः।
ध्वजच्छत्रपताकाभिर्वाद्यैश्च विविधैरपि।। 4.29 ।।
ताम्बूलपत्रक्रमुकपुष्पाणि फलवन्ति च।
चन्दनं च स्वर्णपात्रे बलिद्रव्याणि वै रमे।। 4.30 ।।
स्नातानां परिचाराणां मूर्धसु स्थाप्य देशिकः।
हरेरालयनिर्माणे भूपरिग्रहसिद्धये।। 4.31 ।।
गच्छेत् प्राचीमुदीचीं वा ध्यात्वा सर्वार्थदं हरिम्।
पशुपक्षिमनुष्याणां शकुनानि निरीक्षयन्।। 4.32 ।।
पुण्यक्षेत्रेऽनुकूले च मनोज्ञे मुनिसेविते।
फलवृक्षसमाकीर्णे कुशकाशैश्च संयुते।। 4.33 ।।
गोसस्यशालिसुभगे क्षुद्रप्राणिविवर्जिते।
पर्वताग्रे नदीतीरे समुद्रपुलिनादिषु।। 4.34 ।।
ग्राममध्ये पत्तने विप्रवासस्थलेषु वा।
परीक्ष्य शकुनं पूर्वं भुवं संशोधयेत् ततः।। 4.35 ।।
उद्दिष्टां भुवमासाद्य मनसा हरिमव्ययम्।
ध्यात्वा प्राचीशयोः कोणे स्थण्डिलं कल्पयेत् पुरा।। 4.36 ।।
पञ्चगव्यैः प्रोक्षयित्वा पुण्याहेन च वारिणा।
नारायणमपां मूर्तिं सरित्तीर्थाभिपूरितम्।। 4.37 ।।
हेमादिकलशे ध्यात्वा हेतीशं चान्तिके घटे।
भोगैरर्घ्यादिभिर्देवं हेतीशं च ततोऽर्चयेत्।। 4.38 ।।
स्थण्डिले स्थापिते वह्नौ वासुदेवं हुनेद् गुरुः।
ततो विसर्जिते देवे सानले कमलोद्भवे।। 4.39 ।।
विश्वकर्मकुलोद्भूता वास्तुशास्त्रविशारदाः।
रथकारवरा ये च तैरप्याराध्यतां हरिः।। 4.40 ।।
यजमानश्चन्दनाद्यैर्मल्यवस्त्रादिकङ्कणैः।
शिल्पिनो रथकारांश्च तोषयेद्यत्नमास्थितः।। 4.41 ।।
कार्पासं सुदृढं सूत्रं सहस्राराभिमन्त्रितम्।
तेषां हस्ते गुरुर्दद्यात् सहानेकशलाकया।। 4.42 ।।
यजमानो गुरुश्चैव सर्ववादित्रसंयुतः।
ऐन्द्रात्स्थानादुपक्रम्य ब्राह्मणैर्वेदपाठकैः।। 4.43 ।।
भूसूक्तं चाप्यधीयानैः साधकैर्मन्त्रवित्तमैः।
प्रादक्षिण्येन गच्छन् स भूतानां रक्षसामपि।। 4.44 ।।
पिशाचानां ग्रहाणां च नागानां च सुरद्विषाम्।
ईशानस्थानपर्यन्तं बलिं दत्वा ततो गुरुः।। 4.45 ।।
भूमेर्मध्यममासाद्य गाथामेतामुदीरयन्।
भूताः पिशाचा यक्षाश्च असुरा राक्षसा ग्रहाः।। 4.46 ।।
व्यपगच्छन्तु ते सर्वे स्थानादस्माद्यथायथम्।
वासुदेवस्य देवस्य सर्वभूतात्मकस्य च।। 4.47 ।।
आलयं कर्तुमिच्छामि भूम्यामत्र श्रियः पतेः।
इति मन्त्रं समुच्चार्य पायसान्नं बलिं क्षिपेत्।। 4.48 ।।
अस्त्रमन्त्रेण विकिरेत् सिद्धार्थान् सर्वतो गुरुः।
एवं बलिं यथाशास्त्रं दत्वा सूत्राणि पातयेत्।। 4.49 ।।
क्षीरवृक्षोत्थितान् शङ्कूनष्टदिक्षु च लाञ्छयेत्।
तस्या ईशानकोणे तु प्रतीच्यां मस्तकं रमे।। 4.50 ।।
अधोमुखं पाणियुग्मं पादौ चापि प्रसारितम्।
प्रसारिततिले पूर्वं विलिखेद्वास्तुदैवतम्।। 4.51 ।।
तस्य चाङ्गे वासवादीनावाह्यार्चयेत् ततः।
तस्य दक्षिणपार्श्वे तु प्रतिष्ठाप्य हुताशनम्।। 4.52 ।।
घृतं पञ्चोपनिषदा सहस्रं शतमेव वा।
जुहुयाद्वास्तुशान्त्यर्थमष्टाविंशतिमेव वा।। 4.53 ।।
अन्नं पुरुषसूक्तेन जुहुयात् षोडशाहुतीः।
यक्षरक्षःपिशाचानां नागानां दानवैः सह।। 4.54 ।।
अपामार्गस्य शम्याश्च खादिरस्य यथाक्रमम्।
शतमष्टोत्तरं कुर्यात् प्रत्येकं समिदाहुतीः।। 4.55 ।।
वास्तुनाथस्य मन्त्रेण चरुणा जुहुयाच्छतम्।
पूर्णाहुतिं ततो हुत्वा त्विन्द्रादीनां बलिं क्षिपेत्।। 4.56 ।।
Chapter - 5
।। पञ्चमोऽध्यायः ।।
श्रीरुवाच-
क्ष्मापरिग्रहकार्येषु यजमानः स्वयं गुरुम्।
वरयेत् पाञ्चरात्रज्ञमित्यवोचद् भवान् किल।। 5.1 ।।
ब्रह्मादिदेवलोकेषु बिम्बरूपिणमादरात्।
प्रार्थये त्वां तत्र शिल्पी गुरुः को वा भवेद्धरे।। 5.2 ।।
निर्माणे चालये देव वस्तु किं भवति प्रभो।
भगवान्-
देवा महर्षयः सिद्धाः मनुष्याश्चार्चितुं रमे।। 5.3 ।।
प्रार्थयिष्यन्ति मां देवि बिम्बरूपिणमद्भुतम्।
मदर्थमालयं चापि तस्य तस्यानुरूपतः।। 5.4 ।।
देवाः सात्त्विकदेशेषु सिद्धाः पर्वतमूर्धनि।
देवानां देवलोकेषु मन्दिरं कनकादिभिः।। 5.5 ।।
विश्वकर्मा कल्पयति सिद्धानामपि चालयम्।
महर्षयस्त्वरण्येषु तपसा च शिलामयैः।। 5.6 ।।
कल्पयन्त्यालयं देवि मनुजा ग्रामपत्तने।
पक्वेष्टकाशिलाभिश्च रचयन्ति च शिल्पिभिः।। 5.7 ।।
तत्प्रकारं प्रवक्ष्यामि शृणुष्व कमलोद्भवे।
ततोऽपरस्मिन् दिवसे सुमुहूर्ते गुरूत्तमः।। 5.8 ।।
अनड़्वाहौ स्नापयित्वा माल्यादिभिरलंकृतौ।
वृषभौ तौ पुरस्कृत्य यजमानेन संमितः।। 5.9 ।।
सर्वावादित्रसंघैश्च ब्राह्मणैर्वेदपारगैः।
पूर्वोक्तां भुवमासाद्य ब्रह्मस्थाने यथाविधि।। 5.10 ।।
भूमिं संपूजयेद् विद्वान् वराहेण समं गुरुः।
उद्धृतासीति भूदेवीं पुंसूक्तेन हरिं यजेत्।। 5.11 ।।
पुंसूक्तेन वराहं च भूसूक्तेन च वै भुवम्।
तिलाज्यसमिधान्नेन हुत्वा पूर्णाहुतिं हुनेत्।। 5.12 ।।
भूमिं प्रदक्षिणीकृत्य मन्त्रमेतमुदीरयेत्।
नागाः पिशाचा यक्षाश्च भूमावत्र वसन्ति ये।। 5.13 ।।
सर्वे प्रयान्तु रक्षोभिर्हरेः सौधं करोम्यहम्।
ततोऽस्त्रमन्त्रसंसिद्धान् सिद्धार्थान् सर्वतः क्षिपेत्।। 5.14 ।।
पूर्ववद्वास्तुहोमं च तथा वास्तुबलिं क्षिपेत्।
ततो भागवताचार्यो हलेन विलिखेद्भुवम्।। 5.15 ।।
हलं युगं च पालाशं ब्राह्मणस्य विधीयते।
न्यग्रोधं क्षत्रियस्य स्यात् प्लाक्षं विट्शूद्रयोरपि।। 5.16 ।।
न्यग्रोधपिप्पलौ स्यातां सर्वेषां युगलाङ्गलौ।
सर्वेषामेव वर्णानां सौवर्णः कुशिको भवेत्।। 5.17 ।।
राजतं ताम्रमथवा योक्त्रं तेषां यथाक्रमम्।
कुशाधनुर्ज्यावीरिण्यः काशरज्जुश्च तन्मयी।। 5.18 ।।
हलभूतं च मेधिं च कारयेदेकयोनिकम्।
स्नातो नवाम्बरधरः सोष्णीकः शुचिरात्मवान्।। 5.19 ।।
माल्यानुलेपनायुक्तः सोत्तरीयपरिच्छदः।
पञ्चाङ्गभूषणैर्युक्तः पादौ प्रक्षालयेत्ततः।। 5.20 ।।
आचम्यायम्य च प्राणान् न्यासं कृत्वा यथाविधि।
ब्राह्मणैरभ्यनुज्ञातो वैष्णवैर्मन्त्रवित्तमैः।। 5.21 ।।
पुण्याहं वाचयेत् पूर्वं तेन संप्रोक्षयेद् भुवम्।
सुमुहूर्ते सुलग्ने च स्कन्धे वृषभयोस्ततः।। 5.22 ।।
उच्चरन् मूलविद्यां च युगं देशिकसत्तमः।
लाङ्गलं च युगेनैव योजयेद् विद्यया तया।। 5.23 ।।
भेरीपटहशङ्खादीन् नादयेत् सर्वतो दिशि।
सूक्तं शाकुनिकं विप्राः पठेयुः सर्वशान्तिदम्।। 5.24 ।।
हृत्सरोजे च मां ध्यायन् विद्यारूपेण चक्षुषा।
दण्डं प्रवहणं कुर्यात् पलाशादिमहीरुहान्।। 5.25 ।।
प्रथमं प्राङ्मुखेनैव कर्षयेन्मूलविद्यया।
सूक्तेन पौरुषेणैव द्वितीयं भुवि कर्षणम्।। 5.26 ।।
तृतीयं विष्णुसूक्तेन तद्गायत्र्या चतुर्थकम्।
नारायणानुवाकेन पञ्चमं कर्षणं भवेत्।। 5.27 ।।
पञ्चोपनिषदा मन्त्रैः षष्ठं स्यात् कर्षणं भुवः।
सप्तमं भूमिसूक्तेन कर्षयेत् कमलासने।। 5.28 ।।
प्रदक्षिणक्रमेणैव भुवि कर्षणमाचरेत्।
एवं दक्षिणमारभ्य कर्षयेदुत्तरावधि।। 5.29 ।।
अनड्वच्छयने चैव युगादीनां च भेदने।
व्यत्यासभ्रमणे चैव दुर्निमित्तोदये तथा।। 5.30 ।।
छेदे च सूत्रशङ्कूनां यजमानमृतिर्ध्रुवा।
शाम्यन्ति दोषास्ते सर्वे नार्तिमृच्छेत् प्रयोजकः।। 5.31 ।।
पञ्चोपनिषदा कुर्यात् शतं वारान् घृताहुतीः।
आचार्यो यजमानश्च ब्राह्मणांस्तोषयेद्धनैः।। 5.32 ।।
भोजयेच्च भुवं कृष्टां समीकुर्यात् ततः परम्।
आलवालान्प्रकुर्वीत बहुकुल्यासमन्वितान्।। 5.33 ।।
शालिमुद्गयवादीनि तत्र बीजानि वापयेत्।
सिक्तं प्रतिदिनं क्षेत्रं तोयेन महता भवेत्।। 5.34 ।।
रक्षां च कुर्याद्यत्नेन परिपाकावसानिकम्।
पक्वं लुनीयाच्छाल्यादि तत्क्षेत्रं गोकुलं नयेत्।। 5.35 ।।
फले महति तद्धाम दीर्घकालं भविष्यति।
ब्राह्मणान् भोजयेत् तत्र सहस्रं शतमेव वा।। 5.36 ।।
भुक्तवद्भ्यो धनं दद्याद् ब्राह्मणेभ्यो गवादिकम्।
प्रोक्षयेत् पञ्चगव्येन पञ्चोपनिषदा भुवम्।। 5.37 ।।
कुद्दालैक्वा खनित्रैर्वा यावदम्भः खनेन्महीम्।
प्रथमावरणं यावत् तावद्धिस्तार इष्यते।। 5.38 ।।
भूतले खन्यमाने तु भस्माङ्गारतुषादिकम्।
सर्पवृश्चिकजन्तून् वा पश्येद्यदि गुरूत्तमः।। 5.39 ।।
जुहुयाच्छान्तये तेषां तिलाज्यसमिदाहुतीः।
पञ्चोपनिषदा देवि सूक्तेन पुरुषेण च।। 5.40 ।।
ब्राह्मणेभ्यो यथाशक्ति दद्याद्धेमादिकं वसु।
रत्नादिदर्शने धाम समृद्धं सर्वदा भवेत्।। 5.41 ।।
ततः खातस्थलं कुम्भजलेनापूरयेद् गुरुः।
तस्मिन् पुष्पाणि सलिले निक्षिपेच्छुभसूचने।। 5.42 ।।
शुभं प्रदक्षिणावर्तं प्रभोर्देवालयस्य च।
वृद्धिदं त्वन्यथा स्याच्चेच्छान्तिहोमं समाचरेत्।। 5.43 ।।
खातहोमं बहिः खातात् स्थण्डिले चतुरश्रके।
स्थापयित्वाग्निमादीप्य मूलमन्त्रेण देशिकः।। 5.44 ।।
कुर्यादाज्येन सूक्तेन पौरुषेण च वै चरुम्।
गुल्ग्गुलं तिलनीवारं जुहुयान्मूलविद्यया।। 5.45 ।।
[पुण्याहं वाचयित्वाथ शालिं खाते विनिक्षिपेत्।
कुम्भानुपरि शालीनां सूत्रवस्त्रैः सुवेष्टितान्।। 5.46 ।।
कुम्भा लोहमयाः प्रोक्तास्तदभावे तु मृन्मयाः।
आधारशक्तिं सौवर्णीं मध्यकुम्भे विनिक्षिपेत्।। 5.47 ।।
तस्य कुम्भस्य वै प्राचीकुम्भे बीजानि पूरयेत्।
आग्नेय्यां सर्वलोहानि सर्वधातूनि दक्षिणे।। 5.48 ।।
पुण्यतीर्थमृदं कुम्भे नैर्ऋते वारुणे पुनः।
मधुना पूरयेत् कुम्भं वायवीयं तु सर्पिषा।। 5.49 ।।
रत्नानि कुम्भे कौबेरे ऐशान्ये शैलमृत्तिकाम्।
निक्षिपेन्मध्यकुम्भे तु शालिक्षेत्रमृदं तथा।। 5.50 ।।
]
[अशोष्यह्रदसंभूतां वल्मीकभवमृत्तिकाम्।
कन्दानि चोत्पलादीनां प्रक्षिपेत्प्राङ्मुखः स्थितः।। 5.51 ।।
लोहरत्नानि च तथा निदध्याद् दर्भकूर्चकम्।
संपूर्य चैतैर्मृद्भिश्च शरावेण पिधापयेत्।। 5.52 ।।
मध्यकुम्भोपरिन्यस्तकुम्भे स्वर्णादिलोहजम्।
निक्षिप्य कूर्चं कालाग्निं तृतीयेऽनन्तरूपिणम्।। 5.53 ।।
घटे तु वसुधाधारमुपरिष्टाद् विनिक्षिपेत्।
गन्धोदकेन तत्कुम्भान् पूरयेत् पूजयेत्ततः।। 5.54 ।।
मृत्तिकावालुकाभिश्च जलैस्तु समतां नयेत्।
ततो बालालयं कुर्यात् सर्वदोषोपशान्तये।। 5.55 ।।
आरभ्यमाणे प्रासादे बहवो विघ्नकारिणः।
बालालये कृते देवि नश्यन्ति स्वयमेव ते।। 5.56 ।।
अथवा बालबिम्बं तमनुविश्य वरानने।
सर्वदोषान् हनिष्यामि तस्मात् तं स्थापयेत् पुरा।। 5.57 ।।
यथाभिमतदेशे तु प्रारब्धस्यालयस्य च।
बालालयस्य स्थानं स्यात् पञ्चहस्तायतं शुभे।। 5.58 ।।
यत्र स्थानं मूलधाम्नो द्वारं तत्रैव वल्लभे।
बालालयस्य कल्प्यं स्याद् बिम्बं लोहेन वा पुनः।। 5.59 ।।
अश्मना वा दारुणा वा शंखचक्रगदाधरम्।
चतुर्भुजं चतुर्हस्तं सर्वलक्षणसंयुतम्।। 5.60 ।।
]
[उत्सेधस्तस्य बिम्बस्य चतुर्विंशतिरङ्गुलाः।
ह्रासे पञ्चाङ्गुलः कार्यो न्यूनं तस्य न विद्यते।। 5.61 ।।
कल्प्यमानस्यालयस्य मूलबिम्बं यथा भवेत्।
कारयीत तथा बिम्बं बालं लोहादिवस्तुभिः।। 5.62 ।।
जलेऽधिवास्य तद्बिम्बं मण्डपे वाधिवासयेत्।
बालालयस्य वै मध्ये मेखलात्रयसंयुतम्।। 5.63 ।।
]
हस्तोच्छ्रिते वेदिमध्ये प्रभाते सन्मुहूर्तके।
बालबिम्बं प्रतिष्ठाप्य मन्त्रन्यासादिकं चरेत्।। 5.64 ।।
प्रार्थयीत हरिं तत्र संनिधिं बालविग्रहे।
आ मूलधामप्रारम्भादा समाप्तेर्हरे विभो।। 5.65 ।।
पूजां गृह्णीष्व भगवन्नस्मिंस्त्वं बालसद्मनि।
शमयन् मूलधिष्ण्यस्य विघ्नकृद्दैत्यसंहतिम्।। 5.66 ।।
इति संप्रार्थ्य नत्वा तं परिवारान् प्रकल्पयेत्।
द्वारे चण्डप्रचण्डं च क्षेत्रपालं खगेश्वरम्।। 5.67 ।।
इन्द्रादिलोकपालांश्च स्वासु दिक्षु प्रकल्पयेत्।
विघ्नेशमीशकोणे तु गणेशं नैर्ऋते यजेत्।। 5.68 ।।
अशरीरगतान् देवान् स्थण्डिले पूजयेद् गुरुः।
कुमुदादिगणान् सर्वांस्तस्य पीठे तु पूजयेत्।। 5.69 ।।
)
एवं कृत्वा च मेधावी उत्सवं वापि कारयेत्।
देवालये तु संवृत्ते मूलबेरस्य वै रमे।। 5.70 ।।
प्रतिष्ठान्ते बालबिम्बगतां शक्तिं घटे तदा।
नियोज्य मूले बेरे तु तां शक्तिं परिचिन्तयेत्।। 5.71 ।।
एवं बालगृहे विष्णो पूजिते कमलेक्षणे।
प्रत्यूहकारिणः सर्वे प्रणश्यन्ति न संशयः।। 5.72 ।।
Chapter - 6
।। षष्ठोऽध्यायः ।।
शुभे मासे शुभे वारे शुभनक्षत्रसंयुते।
लग्ने स्थिरे स्थिरांशे च वासुदेवे च पूजिते।। 6.1 ।।
यजमानस्यालयस्य वृद्धिदे शास्त्रवित्तमः।
आरभेत स्थपतिभी रथकारैश्च शिल्पिभिः।। 6.2 ।।
मुख्यं शिलामयं गेहं मध्यमं चेष्टकामयम्।
अधमं दारुजं विद्यान्मृन्मयं त्वधमाधमम्।। 6.3 ।।
शिलाभिर्वेष्टकाभिर्वा यद्धाम क्रियते हरेः।
श्रेष्ठं तत् संचितं विद्याद् द्रव्ययुग्ममसंचितम्।। 6.4 ।।
मन्दिरं मध्यमं तत्स्यात् मृत्स्नादारुकृतं रमे।
उपसंचितमाख्यातमधमं धाम तद्भवेत्।। 6.5 ।।
गर्भयुक्तशिलादारु वर्जयेद्देवतालये।
कुर्याच्चेदामयी स स्याद्यजमानो न संशयः।। 6.6 ।।
देवतान्तरसद्मस्थं न गृह्णीयाच्छिलादिकम्।
जीर्णालयाद् गृहीत्वा य आलयं कारयेद्यदि।। 6.7 ।।
वंशक्षयो भवेत्तस्य नरकं च भविष्यति।
द्विविधा इष्टकाः प्रोक्ताः शिलाः पक्वेष्टका रमे।। 6.8 ।।
शैलजेन समुत्पाद्ये शिलाः स्यात् प्रथमेष्टका।
पक्वेष्टका विमानं स्यात् सैव मूलेष्टका भवेत्।। 6.9 ।।
शिलापक्वेष्टकाभ्यां तन्मूले तु शिलया भवेत्।
शिलासंग्रहणे देशे त्वधिवासादिकं चरेत्।। 6.10 ।।
पुंलिङ्गादि परीक्ष्यैव शिलासंग्रहणं चरेत्।
स्त्रीलिङ्गशिलया कुर्यात् प्रथमामिष्टकाविधिम्।। 6.11 ।।
उपानदादिस्तूप्यन्तं पुंलिङ्गशिलया भवेत्।
नपुंसकेन शिलया मूर्धानं छादयेद् गुरुः।। 6.12 ।।
पक्वेष्टकासंग्रहस्य कथ्यते त्वधुना विधिः।
रथकारेण निर्दिष्टं क्षेत्रं गत्वा च देशिकः।। 6.13 ।।
ज्वलन्तं वह्निमुत्पाद्य मूलमन्त्रेण वै रमे।
शतमाज्येन जुहुयात् पौरुषेण चरुं पुनः।। 6.14 ।।
हुत्वाहुतीः षोडशधा मूलमन्त्रेण वै शतम्।
समिद्भिर्जुयान्मन्त्री विष्णुं पारिषदाहुतीः।। 6.15 ।।
वास्त्वीशस्य क्षेत्रपतेर्भूतानामपि वै रमे।
देवतानामृषीणां च दिक्पालानां यथाक्रमम्।। 6.16 ।।
यथालिङ्गेन मन्त्रेण स्वाहान्तेन च होमयेत्।
भूरादिव्याहृतीभिश्च महाव्याहृतिभिस्तथा।। 6.17 ।।
हुत्वा पूर्णाहुतिं चापि प्राच्यादिषु यथाक्रमम्।
मन्त्रमेतं समुच्चार्य बलिं दद्याद् गुरूत्तमः।। 6.18 ।।
विष्णुपारिषदेभ्यश्च सर्वभूतेभ्य एव च।
वास्तुक्षेत्रेशयोश्चापि बलिं दत्वाग्निमुत्सृजेत्।। 6.19 ।।
कुलालः प्राङ्मुखः कुर्यात् तत्र भूमृत्तिकेष्टकाम्।
चतुर्विंशङ्गुलायामा श्रेष्ठा स्यान्मध्यमा पुनः।। 6.20 ।।
अष्टादशाङ्गुलायामा षोडशा स्यात् कनीयसी।
आयामस्यार्धविस्तारस्तदर्धं घनमिष्यते।। 6.21 ।।
पुंलिङ्गादिविभागं तज्ज्ञातव्यं रेखया पुनः।
पौंस्नी शिला ऋजू रेखा त्वयुग्मा तत्र वै भवेत्।। 6.22 ।।
तिरश्चीनाथवा युग्मा रेखा स्याद्योषितो रमे।
नपुंसका स्यान्निकृते रेखा वा कर्णयोर्द्वयोः।। 6.23 ।।
शिलानामप्येतदेव लक्षणं परिकीर्तितम्।
स्त्रीलिङ्गेष्टकया कुर्याद् गर्भाधानादिपीठिकाम्।। 6.24 ।।
पुंलिङ्गाभिश्चेष्टकाभिर्यावन्मूर्धेष्टकावधि।
आच्छादनेष्टकायामः समः स्याद्वरवर्णिनि।। 6.25 ।।
सुपक्वापक्वबिम्बाभा सुस्वरा सुदृढा समा।
एकवर्णा प्रशस्ता स्यादिष्टका प्रथमा हिता।। 6.26 ।।
कालमण्डलसंयुक्तां छिन्नां भिन्नामथानृजूम्।
स्फुटितां वर्जयेद्देवि प्रासादारम्भणेष्टकाः।। 6.27 ।।
चतस्रः प्रथमा स्थाप्या देवानामालये शुभे।
आवासे पञ्च मर्त्यानां कल्पयेत् प्रथमेष्टकाः।। 6.28 ।।
अङ्कुरानर्पयेत् पूर्वमधिवासनकर्मणि।
आरभ्यमाणधाम्नस्तु यस्यां कस्यां च वै दिशि।। 6.29 ।।
प्रापायां मध्यवेद्यां तु कल्पयेद्धान्यपीठिकाम्।
विन्यस्य नवसंख्याकान् कलशांस्तु तथोत्तरे।। 6.30 ।।
शिलानामधिवासार्थं वेदिं तु परिकल्पयेत्।
धान्यादिपीठिकां तस्य यथावत्परिकल्प्य च।। 6.31 ।।
स्नपनार्थं स्थापितेषु कुम्भेषु च यथाक्रमम्।
सर्पिर्मध्यमकुम्भे स्यात् प्राच्यां क्षीरं ततो दधि।। 6.32 ।।
आग्नेयकुम्भे क्षेप्तव्यं याम्ये त्विक्षुजलं घटे।
नैर्ऋते पञ्चगव्यं स्याद् वारुणे तु फलोद्भवम्।। 6.33 ।।
वायव्ये गन्धवारि स्यात् सौम्ये लोहजलं भवेत्।
ईशाने मधुपूर्णं वै घटेष्वित्थं प्रकल्पयेत्।। 6.34 ।।
वस्त्रसूत्रैः समावेष्ट्य दर्भकूर्चानि निक्षिपेत्।
फलानि नालिकेरस्य त्वाम्रपल्लवसंयुतैः।। 6.35 ।।
नारायणं मध्यकुम्भे वासुदेवादिकान् क्रमात्।
यजेद् गन्धादिभिर्द्रव्यैः पायसान्नं निवेदयेत्।। 6.36 ।।
रक्षार्थं स्थापिते कुम्भे चक्रराजं च पूजयेत्।
स्थापिताश्चेष्टकाः पीठे स्नापयेत् कलशैः क्रमात्।। 6.37 ।।
पयोघृतेति साम्नाग्रे स्नापयेत् पयसा ततः।
स्नापयेदिक्षुतोयेन मधुवातेति मन्त्रतः।। 6.38 ।।
फलिनीत्यनुवाकेन स्नापयेत् फलवारिणा।
हिरण्यगर्भमन्त्रेण स्नापयेत् लोहवारिणा।। 6.39 ।।
दधिक्राव्णेति यजुषा दध्ना स्नानं प्रकल्पयेत्।
स्नापयेत् पञ्चगव्येन पञ्च वारुणन्त्रतः।। 6.40 ।।
गन्धद्वारेति मन्त्रेण स्नापयेद् गन्धवारिणा।
मधुवातेति मन्त्रेण मधुस्नानं समाचरेत्।। 6.41 ।।
घृतसामेति साम्ना वै घृतेन स्नापयेच्छिलाः।
परिगृह्येष्टकाः सर्वा अलंकृत्य यथाविधि।। 6.42 ।।
व्याघ्रादिचर्मसंयक्ते शयनीये निवेशयेत्।
नूतनेनैव वस्त्रेण छादयेत् गुरुसत्तमः।। 6.43 ।।
तोरणद्वारकुम्भांश्च पूजयेच्च ध्वजान् क्रमात्।
पूर्वस्यामुत्तरस्यां वा दिशि कुण्डं प्रकल्पयेत्।। 6.44 ।।
अथवा स्थण्डिले त्वग्नौ हुहुयात् कमलासने।
आज्यं तु मूलमन्त्रेण सूक्तेन चरुणा तथा।। 6.45 ।।
स्पर्शयेदिष्टकाः सर्वाः संपाताज्येन वै गुरुः।
स्वप्नाधिपतिमन्त्रेण जुहुयात् सर्पिषा शतम्।। 6.46 ।।
स्वप्नार्थं यजमानस्तु गुरुणा सह संविशेत्।
दुःखप्नदर्शने जह्यान्निर्माणं तस्य वेश्मनः।। 6.47 ।।
सुस्वप्ने परिदृष्टे तु परस्मिन् दिवसे गुरुः।
प्रावेशयेच्च प्रासादमिष्टकास्ताः सुपूजिताः।। 6.48 ।।
क्लृप्तस्य द्वारदेशस्य दक्षिणे खातभूतले।
पादमूलादधस्तात्ताः सोमान्तं तूर्यघोषिते।। 6.49 ।।
निदध्यान्मूलमन्त्रेण श्रीसूक्तेन श्रियो गृहे।
चतुरश्रे चतुर्मूर्तिव्यक्तिव्यूहं विचिन्तयेत्।। 6.50 ।।
चतुरश्रायते ध्यायेद् दिव्यं विद्यागमाभिधम्।
वृत्ते शान्तोदितं चक्रं संवृतावयवं स्मरेत्।। 6.51 ।।
अनन्तशयनं देवं ध्यायेत् वृत्तायते शुभे।
पुर्यष्टकं यदमलं कालपुष्करदेहभृत्।। 6.52 ।।
नाभिरन्ध्रोद्भवं विष्णोः स्थितमष्टदिगात्मना।
देवालये रमेऽष्टाश्रे स्मर्तव्यं वसुधागृहम्।। 6.53 ।।
सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा।
संपूर्णा चेति कथिता शक्तयो विश्वधारिकाः।। 6.54 ।।
या शिला कलशाधारां संज्ञां तां विद्धि सर्वगाम्।
सामर्थ्यशक्तिसामान्यां निष्कलां पारमेश्वरीम्।। 6.55 ।।
संतर्प्य मूलमन्त्राच्च शिखामन्त्रेण पदम्जे।
अजनाभावध्येकमिति मन्त्रेण देशिकः।। 6.56 ।।
Chapter - 7
।। सप्तमोऽध्यायः ।।
गर्भन्यासक्रमं वक्ष्ये कमले श्रूयतां त्वया।
संपाद्य मृत्तिकाः पूर्वं स्थानेषु दशसु क्रमात्।। 7.1 ।।
शैले ह्रदे पुण्यतीर्थे वल्मीके कर्कटाशयात्।
नद्या वृषविषाणाग्रे दन्तिदन्ते पयोनिधौ।। 7.2 ।।
हले चैतेषु संभूताः प्रशस्ता मृत्तिकास्ततः।
कुमुदस्यारविन्दस्य कशेरूत्पलयोस्तथा।। 7.3 ।।
नीलोत्पलस्य पञ्चैतान् कन्दानपि समाहरेत्।
मनःशिलाहरीतालमञ्जनं श्यात्(3)सीसकम्।। 7.4 ।।
सौराष्ट्रं रोचनां चैव गैरिकं पारदं तथा।
वज्रवैडूर्यमुक्ताश्च स्फटिकं पुष्यशङ्खकम्।। 7.5 ।।
पद्मरागं चन्द्रकान्तं महानीलं समाहरेत्।
शालीनीवारकङ्कूंश्च प्रियङ्गुतिलमाषकान्।। 7.6 ।।
मुद्गांश्च यववेणूंश्च धान्यानि नव चाहरेत्।
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम्।। 7.7 ।।
सौवर्णं कूर्मरूपं च सौवर्णं सङ्खचक्रकम्।
नवगर्तसमायुक्तां मञ्जूषां सापिधानकाम्।। 7.8 ।।
संप्रोक्ष्य चास्त्रमन्त्रेण तस्या गर्तेषु शास्त्रवित्।
सर्वान् वस्तून् विनिक्षिप्य पिदध्याद् गुरुसत्तमः।। 7.9 ।।
वस्त्रयुग्मेन मञ्जूषां वेष्टयेत् कमलालये।
धान्यराशौ विनिक्षिप्य मूलमन्त्रेण देशिकः।। 7.10 ।।
ध्यात्वा प्रजापतींस्तत्र नवगन्धादिभिर्यजेत्।
अग्निमादीप्य शास्त्रोक्तं हरिं तत्र स्मरेत्पुरा।। 7.11 ।।
मूलेनाष्टोत्तरशतं नृसूक्तेन च षोडश।
इन्द्रादिलोकपालेभ्यो भुवनेभ्यस्तथैव च।। 7.12 ।।
पर्वतेभ्यः समुद्रेभ्य आदित्येभ्यस्तथा रमे।
वसुभ्यश्च मरुद्भ्यश्च मुनिभ्यस्तदनन्तरम्।। 7.13 ।।
वेदेभ्यः सर्वशास्त्रेभ्यः पुराणेभ्यस्ततः परम्।
पातालादिभ्यश्च दिग्भ्यश्च नागेभ्यश्च तथैव च।। 7.14 ।।
गणेभ्यः सर्वभूतेभ्यो नरेन्द्रेभ्यः ततः परम्।
गृहेभ्यश्चैव सर्वेभ्यो नक्षत्रेभ्यो यथाविधि।। 7.15 ।।
स्वाहान्तं जुहुयान्मन्त्री तिलाज्यसमिदाहुतीः।
तेभ्यः संपातमादाय निषिञ्चेद्गर्भभाजने।। 7.16 ।।
हुत्वा पूर्णाहुतिं पश्चादाचार्यः समुपोषितः।
शुभ्रवस्त्रोत्तरीयश्च भूषणैरप्यलंकृतः।। 7.17 ।।
गन्धमाल्यालंकृताङ्गो रात्रौ लग्ने सुशोभने।
भाजनं तत्समादाय वेदघोषैश्च मङ्गलैः।। 7.18 ।।
वाद्यघोषैश्च सहितः कृत्वा धाम प्रदक्षिणम्।
प्रविश्य गर्भभूभागं तस्य द्वारस्य दक्षिणे।। 7.19 ।।
कृतं श्वभ्रं पञ्चगव्यैः सेचयित्वा समंततः।
अर्ध्याद्यैर्गन्धपुष्पैश्च समभ्यर्च्य ततो गुरुः।। 7.20 ।।
दिग्गजोत्तमभृच्छेषफणीन्द्रशिरसि स्थिताम्।
मनस्यावेश्य वसुधां द्विहस्तां श्यामलां शुभाम्।। 7.21 ।।
परिचिन्त्य ऋतुस्नातामात्मानं च हरिं स्मरन्।
सर्वभूतधरे कान्ते पर्वतस्तनमण्डिते।। 7.22 ।।
समुद्रपरिधानीये देवि गर्भं धरे धर।
इति संप्रार्थ्य मञ्जूषां तस्मिन् गर्भे निधाय च।। 7.23 ।।
समुद्रपरिधानीये! देवि! गर्भं समाश्रय।
सुधया तु दृढीकृत्य ततः श्वभ्रं तु पुरयेत्।
त्रिचतुः पञ्चरात्रं वा रक्षां कुर्याद् दिवानिशम्।। 7.24 ।।
गर्भन्यासस्त्वयं देवि देवागारस्य वृद्धिदः।
अकृते गर्भविन्यस्ते(न्यासे)प्रत्यवायो महान् भवेत्।। 7.25 ।।
Chapter - 8
+++
+++
।। अष्टमोऽध्यायः ।।
प्रसादस्याथ वक्ष्यामि निर्माणं कमलेक्षणे।
ललादूनाधिकाच्चैव साङ्गुलै रुचितैः करैः।। 8.1 ।।
द्विद्वादशकरंयावत् तलेनैवाधिकेन तु।
शुभाय सिद्धये वृद्ध्यै गर्भगेहस्य वै रमे।। 8.2 ।।
कृत्वा क्षेत्राङ्गुलानां वा कराणां वा घनं पुरा।
त्यजेत्तदभितः सम्यग्यच्छेषं तद्विचार्य च।। 8.3 ।।
एकद्व्यष्टपर्यन्तं ध्वजधूपममृगेश्वराः।
श्वा च गोखरमातङ्गाश्चत्वारो वायसः शुभाः।। 8.4 ।।
एकत्रिपञ्चसप्ताख्याः सर्वत्रैव विधीयते।
एवमन्तर्भ्रमेणैव सह भित्तिगणेन तु।। 8.5 ।।
गर्भद्विगुणविस्तीर्णं क्षेत्रं देवगृहस्य च।
मन्दिरे त्वेकभित्तीये क्षेत्रमानमिदं स्मृतम्।। 8.6 ।।
गर्भोक्तं तत्त्रिभागे युक्तायुक्तेन वर्त्मना।
तत्रापि ह्रासवृद्धिभ्यामायशुद्धिं विचिन्तयेत्।। 8.7 ।।
एवं निर्जगतीकं च भागं पीठविवर्जितम्।
प्रासादक्षेत्रमानं च तद्युक्तमवधारय।। 8.8 ।।
षड्भागेनाथ पादेन त्रिभागेनोभयात्मना।
अथ कार्यं चतुर्दिक्षु तत्पञ्चांशैस्तु वै त्रिभिः।। 8.9 ।।
तृतीयांशेन वै मध्ये निर्गमस्तु विधीयते।
कोणात् कोणात् तु वै शेषं भागं भागं प्रवेशयेत्।। 8.10 ।।
उच्चं गर्भसमं पीठं तत्पीठेन दलेन वा।
पीठोक्तालयपीठस्य लक्ष्मस्थित्यन्तकल्पना।। 8.11 ।।
चतुर्दिक्षु विधेयो वै बहुधानन्तपूर्विका।
अथोच्छ्रायं तु वै क्षेत्रात् त्रिकोणं मन्दिरस्य च।। 8.12 ।।
कुर्याद् द्वयर्धगुणं चैव द्विगुणं वा यथेच्छया।
द्विरेकादशधा कुर्यात् तं च भागैः समं पुरा।। 8.13 ।।
विधेयं पीठवत्पश्चादेकांशेन मसूरकम्।
तदूर्ध्वविहिता जङ्घा गर्भमानेन चोन्नता।। 8.14 ।।
भवपारिषदैर्देवैर्लक्षिता शुभलक्षणा।
जङ्घायामंशयुग्मेन त्वोपयूनाधिकेन वै।। 8.15 ।।
कार्यं शिखरपीठं तु पूर्वलक्षणलक्षितम्।
किंतु प्रवेशनिर्यासौ तत्र चार्धांशसंमितौ।। 8.16 ।।
शिखरं चात्र विहितं भूमिकानवकान्वितम्।
संकोच्य तत्पुरासूत्रमादायोन्नतिसंमितम्।। 8.17 ।।
एकस्मादेव कर्णात्तु जङ्घोर्वीयात्प्रसार्य च।
संस्पृशेच्छिखरं पीठमञ्जसा तन्निरोध्य च।। 8.18 ।।
प्रासादाद्बहिराद्यन्तभूभागे कमलेक्षणे।
कर्णादूर्ध्वं नयेत्सूत्रं लाञ्छ्यमानं क्रमेण तु।। 8.19 ।।
शिखरोन्नतपर्यन्तं चतुर्दिक्ष्वेवमेव हि।
पर्यटेल्लाञ्छ्यमानं तु कर्णात्कर्णँ वरानने।। 8.20 ।।
यावत्कुमुदपत्राभा सा स्याच्छिखरमञ्जरी।
एवमालेख्य दृष्ट्या तु संपाद्यातन्तुपाततः।। 8.21 ।।
भूमिकाण्डप्रसिद्ध्यर्थं सूत्रस्य दशधा पुनः।
उपरिष्टात्तु भागेन भवेदामलसारवत्।। 8.22 ।।
भूमयो भागमानास्तु ततस्तस्यां समाचरेत्।
क्षयवृद्ध्या विधानं तु तद् द्विरष्टांशसंमितम्।। 8.23 ।।
विभिन्नपीठरचना तासु कार्या यथास्थितिः।
सचक्रैर्विविधैः पत्रैः प्रादुर्भावैस्तु चाखिलैः।। 8.24 ।।
नवैर्वा लाञ्छनैर्मूर्तैर्नृत्तगीतरसस्थितैः।
नवांशेनौर्ध्वभागात्तु स्वपादेन विनिश्चितम्।। 8.25 ।।
उष्णीषमूर्ध्वभूमेस्तु कार्यं वै रचनोन्वितम्।
शिष्टं कृत्वा स्वकं पीठमण्डस्यैकेन पूर्ववत्।। 8.26 ।।
द्वितीयेन ततः कर्णं तृतीयेनोर्ध्वगेन तु।
सुसमं श्रीयुतं कुर्यादन्तं धात्रीफलाण्डवत्।। 8.27 ।।
Sl.28-a, b,c,d is the same as sl.246-a,b,c,d
" 29-a, b,c,d " " 247-a,b,c,d
" 30-a, b,c,d " " 248-a,b,c,d
" 31-a, b,c,d " " 249-a,b,c,d
[ई.16]Sl.32=a, b,c,d " " 250-a,b,c,d)
नवधोष्णीषकं कृत्वा चतुर्भिर्वेदिकाभ्रमम्।
त्रिभागपृथुभागेन सस्तम्भा ह्यथ केवला।। 8.28 ।।
उन्नता शिखरार्धेन साप्युत्पलदलोपमा।
कार्या शिखरपीठोर्ध्वे दिव्यकर्मविभूषिता।। 8.29 ।।
ततः शुभतरं कुर्यात् मण्डपं स्तम्भसंमितम्।
भूषितं विहगेन्द्रेण बलिमण्डलकेन तु।। 8.30 ।।
चतुर्द्वारे तथा दिक्षु विधेयं मण्डपत्रयम्।
प्रवेशत्रितयोपेतं मण्डपे मण्डपं भवेत्।। 8.31 ।।
कुर्यान्मण्डपमुक्तं वा यथाभिमतनिर्गमम्।
रथोपरथकार्यं तु तेषां गर्भाद् विधीयते।। 8.32 ।।
निर्यासो दशमांशेन द्वादशांशेन वा रमे।
अथवा षोडशांशेन ते कार्या नेमिवत्पुनः।। 8.33 ।।
चतुर्दिक्पक्षसंलिप्ताः पीठकर्मविभूषिताः।
शिखरस्य चतुर्दिक्षु कुर्याद्द्वारगणं समम्।। 8.34 ।।
त्रिचतुःपञ्चषड्भागे ततो गर्भाद्विधीयते।
द्विगुणं चोन्नतत्वेन त्रिपञ्चनवशाखिकम्।। 8.35 ।।
युक्तं द्वार्स्थद्वयेनैव कुम्भेभदशनैस्तु वा।
एवं विमानं कृत्वा तु प्रतिष्ठां कारयेत्ततः।। 8.36 ।।
Chapter - 9
+++
+++
।। नवमोऽध्यायः ।।
श्रीः-
भगवन् पुण्डरीकाक्ष सर्वशास्त्रार्थवित्तम।
प्रासादभेदमधुना मह्यं त्वं वक्तुमर्हसि।। 9.1 ।।
भगवान्-
प्रभेदमधुना वक्ष्ये विमानानां सलक्षणम्।
भेदान् वक्तुमशक्यत्वात् किंचिदेवोपपाद्यते।। 9.2 ।।
तलाधिष्ठानभेदेन विमाना बहुधा रमे।
चतुरश्रा वर्तुलाश्च तथाष्टाश्रषडश्रकाः।। 9.3 ।।
चतुरश्रायताश्चैव वृत्तायतविभेदतः।
मस्तकग्रीवयोर्वृत्तं वैजयन्तं प्रचक्षते।। 9.4 ।।
मूले मूले यदि स्थूलमग्रेऽग्रे सूक्ष्मकं भवेत्।।
पुरोभागे महाघोणं त्रिदिक्षु स्वल्पनासिकम्।। 9.5 ।।
स्तूपीचतुष्कं नासायां विमाने चोभयोरपि।
वृत्तायतविमानं तद्रथधामाभिपूजितम्।। 9.6 ।।
सकर्णकूटशृङ्गाग्रं मध्ये भद्रं तथाविधम्।
श्रीविशालमिति प्रोक्तमष्टाश्रं स्वस्तिबन्धनम्।। 9.7 ।।
श्रीकरं चतुरश्रं तु षोडशाश्रं तु पुष्पकम्।
भद्रेण सहितं मध्ये मस्तके कर्णबन्धनम्।। 9.8 ।।
कोष्ठकं भद्रनास्यङ्गं सुवृत्तं गलमस्तकम्।
विमानं केसरं नाम सर्वालंकारशोभितम्।। 9.9 ।।
मुखे मुखे समावृत्तं शिरस्तु द्वित्रिनेत्रकम्।
सौमुख्यं कर्करीभूतं वृत्तगर्भगृहान्वितम्।। 9.10 ।।
मुखे तस्य महाघोणं विमानं चोभयोरपि।
स्तूपीयुग्ममयुग्मं वा नासिकाल्पं त्रिदिक्षु च।। 9.11 ।।
वृत्तायतं सुवृत्तं वा नाम्नैतत् स्यात्सुदर्शनम्।
चतुरश्रमधिष्ठानं तद्वत्कर्णं च मस्तकम्।। 9.12 ।।
चतुष्कूटेन संयुक्तं चतुष्कोष्ठसमन्वितम्।
शिखरं च महद्दिक्षु महानासाभिरन्वितम्।। 9.13 ।।
तोरणैर्वेदिभद्रैश्च नानाचित्रैर्विचित्रितम्।
नाम्नैतत् स्वस्तिकं प्रोक्तं विमानेषूत्तमं स्मृतम्।। 9.14 ।।
तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि।
अन्तः प्रस्तरसंयुक्तमेतद्विपुलसुन्दरम्।। 9.15 ।।
अंशमंशद्वयं सत्रिपादांशं साङ्घ्रिभागकम्।
भागद्वयं विभक्ताङ्घ्रिं प्रस्तरग्रीवमस्तकम्।। 9.16 ।।
पादोदये नवांशे तु द्वितलादिविमानके।
अन्तरप्रस्तरोपेतं कूटशालाभिरन्वितम्।। 9.17 ।।
नानालंकारसंयुक्तं नानापादैरलंकृतम्।
[विमानं पर्वतं प्रोक्तं विमानेषु सुपूजितम्।। 9.18 ।।
तदेव वर्तुलं वेदिकंदरं शिखरं घटम्।
अष्टकूटं चतुःशालायुक्तं सप्ताष्टनासिकम्।। 9.19 ।।
]
[कोष्ठकं निर्मलं मध्ये द्वित्रिदण्डेन सोष्टकम्।
समग्रीवशिरोपेतं कूटकोष्ठसमन्वितम्।। 9.20 ।।
नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम्।]
चतुरश्रं सुवृत्तं वा नाभिभिर्बहुभिर्युतम्।। 9.21 ।।
नाम्नैतन्मन्दरं प्रोक्तं विमानं कमलालये।
तदेव शिखरे सार्धकोणकं तु चतुष्टयम्।। 9.22 ।।
चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम्।
अनेकतलसंयुक्तं नानाधिष्ठानमद्भुतम्।। 9.23 ।।
सहस्रनासीसहितं तदर्धं पादमेव वा।
नाम्नैतत्स्वस्तिबन्धं स्यादनेकाङ्गोपशोभितम्।। 9.24 ।।
तदेव पौष्टिकं कोष्ठमन्तराप्रस्तरैर्युतम्।
हाराल्पं बन्धुरं निम्नं नवाल्पैरल्पनासिकम्।। 9.25 ।।
नानाचित्रसमाकीर्णमेतत् कल्याणकं स्मृतम्।
चतुरश्रमधिष्ठानं वृत्तगर्भगृहान्वितम्।। 9.26 ।।
सर्वालंकारसंयुक्तमेतत् कौबेरकान्तकम्।
तदेव चतुरश्रं स्याद् गर्भगेहमसूरकम्।। 9.27 ।।
वर्तुलं जन्मतस्तूपिकान्तं चेद्वृत्तहर्म्यकम्।
आयताश्रमधिष्ठानं षडश्रं कंधरं शिरः।। 9.28 ।।
नानालंकारसंयुक्तमेतत् नाम्ना मनोहरम्।
नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम्।। 9.29 ।।
पादोपरिसमासीनस्वस्तिकाबन्धशोभितम्।
अनेकतलसंयुक्तं नानालंकारसंयुतम्।। 9.30 ।।
बहुनासीसमायुक्तं स्तूषिभिर्बहुभिर्युतम्।
भद्रकोष्ठमिदं नाम्ना चायतं चतुरश्रकम्।। 9.31 ।।
तदेव वर्तुलं कर्णकूटं कर्णशिरस्तथा।
चतुर्नासीसमायुक्तं वृत्तकूटमिदं भवेत्।। 9.32 ।।
तदेवाष्टांशमाधिक्यमायतं चतुरश्रवत्।
कर्णकूटं तथा कर्णमायतं वृत्तमस्तकम्।। 9.33 ।।
शेषं पूर्ववदुद्दिष्टं नाम्ना श्रीभोगसंज्ञितम्।
वृत्ते वृत्तायते चैव नासीभिर्बहुभिर्युतम्।। 9.34 ।।
अनेकतलसंयुक्तं नानाचित्रविराजितम्।
विमानादारकैर्युक्तमेतत्पुष्करमिष्यते।। 9.35 ।।
जलस्थलं विहायोर्ध्वे आयतं चतुरश्रकम्।
कर्णं च शिखरं तद्वत् चतुर्नासीसमायुतम्।। 9.36 ।।
नानाशोभान्वितं तत्स्याल्लम्बपञ्जरमीरितम्।
नाना मसूरकस्तम्भवेदिकाद्यैरधिष्ठितम्।। 9.37 ।।
विचित्रपादसंयुक्तम् जयाख्यं परिचक्षते।
[तदेवान्यैरलंकारैर्वेदाश्रं कंधरं शिरः।। 9.38 ।।
नानामसूरकस्तम्भवेदिकाद्यैरधिष्ठितम्।]
एवमादिविमानानि कारयित्वा च शिल्पिभिः।। 9.39 ।।
ततो मूर्धेष्टकाधानं कुर्याद्देशिकसत्तमः।
मूर्धेष्टकाविधिश्चापि मूलेष्टकसमो भवेत्।। 9.40 ।।
कुम्भादिपूजनं कृत्वा यजमानेन देशिकः।
तत्रैव रात्रिं निनयेज्जागरेण हरिं स्मरन्।। 9.41 ।।
प्रातर्नित्याह्निकं कृत्वा ध्यायन्नारायणं हरिम्।
शङ्खतूर्यनिनादेन वेदघोषेण संयुतः।। 9.42 ।।
शिला आदाय चर्त्विग्भिः प्रादक्षिण्येन मन्दिरम्।
आरोपयेच्च ताः सर्वा विमानस्योपरिस्थले।। 9.43 ।।
विमानाग्रमथारुह्य प्राङ्मुखः पुण्यवारिणा।
प्रोक्ष्य नारायणं ध्यात्वा स्थापयेत्तच्छिला रमे।। 9.44 ।।
स्तूप्याधारं ततः कुर्युः शिल्पिनोऽण्डसमं दृढम्।
बह्व्यीश्चेत्स्तूपिकाः कुर्युर्नीलोत्पलदलाकृतीः।। 9.45 ।।
दीर्घपीठामनश्रं वा षोडशाश्रमथापि वा।
चतुरश्रं वर्तुलं वाप्यष्टाश्रं वा प्रकल्प्य च।। 9.46 ।।
कुम्भाधारस्य देशे तु दलान् पद्मस्य कल्पयेत्।
संस्थापयेत् तदुपरि स्तूपिकास्तु यथेच्छया।। 9.47 ।।
एका वा द्वे च तिस्रो वा चतस्रो वा वरानने।
अष्टौ वा द्वादशा वापि षोडशा वापि विंशतिः।। 9.48 ।।
विमानकण्ठतुलितं लोहजं दारुजं तु वा।
संस्थाप्या स्तूपिका कीलमेकं वा बहु वा रमे।। 9.49 ।।
वृत्तायते विमाने तु चतुरश्रायतेऽपि वा।
युग्मं स्यात् स्तूपिकाकीलमपुनर्भवकाङ्क्षिणाम्।। 9.50 ।।
इतरेषामयुग्मं स्यात् स्तूपिका किल कल्पनम्।
युग्मं विंशतिसंख्याकमयुग्मं त्वेकहीनकम्।। 9.51 ।।
चतुरश्रे षडश्रे चाप्यष्टाश्रे त्वेककीलकम्।
स्तूपिका कीलमेकं स्यात् सर्वकामफलप्रदम्।। 9.52 ।।
कीलान्तमित्थं निर्माय विमानस्य च सर्वतः।
मूर्तीः संस्थाप्येद्विद्वान् शिल्पशास्त्रविचक्षणैः।। 9.53 ।।
इन्द्रमैन्द्र्यां विमानस्य कुमारं वापि पोत्रिणम्।
वासुदेवं श्रीधरं वा दक्षिणस्यामुमापतिम्।। 9.54 ।।
दक्षिणामूर्तिमथवा संकर्षणमथापि वा।।
सत्यं वापि वराहं वा प्रतीच्यामच्युतं तु वा।। 9.55 ।।
प्रद्युम्नं वा नृसिंहं वा तथोदीच्यां धनाधिपम्।
ब्रह्माणं वानिरुद्धं वाप्यनन्तं वा प्रकल्पयेत्।। 9.56 ।।
तलाधिके तु पूर्वोक्तान् क्रमेण परिकल्पयेत्।
ध्रुवबेरसमा एते भवेयुः शयनादिषु।। 9.57 ।।
इन्द्रादयस्तु दिग्देवा आसीना एव सर्वदा।
चतुरश्रे च वै धाम्नि चतुरश्रायतेऽपि वा।। 9.58 ।।
वृत्ते वृत्तायते वापि भवेयुः सद्मधारिणः।
वीरसेनः सुषेणश्च वीरनाथः सुभद्रकः।। 9.59 ।।
पूर्णश्च पुष्कराक्षश्च आनन्दो नन्दनस्तथा।
विष्णुपारिषदाः स्थाप्याः करालवदनान्विताः।। 9.60 ।।
तले तले विमानस्य सुरा विद्याधरास्तथा।
नृत्यन्तो बहुधा वेणुवीणापणवधारिणः।। 9.61 ।।
ममावताराः सर्वत्र कल्प्यास्तच्चेष्टितानि च।
भूतमालास्तथा कल्प्या नृत्यन्तो विकृताननाः।। 9.62 ।।
गरुडः शङ्खचक्रादिलाच्छनीयास्तले तले।
एवं मूर्तीः पुराकल्प्य वर्णलेपं प्रकल्पयेत्।। 9.63 ।।
अवश्यं वर्णलेपः स्यादिति शास्त्रविदो विदुः।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च।। 9.64 ।।
शास्त्रविचक्षणः।)
पञ्चवर्णाः पृथिव्याद्याः वर्णानामधिदेवताः।
मूर्तीनां युगभेदेन वर्णभेदा भवेद्रमे।। 9.65 ।।
कृते वलर्क्षस्त्रेतायामरुणो द्वापरे पुनः।
पीतः कलौ वासुदेवो घनश्यामः परःपुमान्।। 9.66 ।।
रक्तः संकर्षणो देवः प्रद्युम्नः कनकप्रभः।
श्यामोऽनिरुद्धः संप्रोक्तः केशवः कनकप्रभः।। 9.67 ।।
नारायणः श्वेतवर्णो माधवः श्यामवर्णकः।
गोविन्दः स्फटिकाभः स्याद्विष्णुः किञ्जल्कसंनिभः।। 9.68 ।।
मधुहन्ता रक्तवर्णः शिखिवर्णस्त्रिविक्रमः।
वामनो बालसूर्याभः श्रीधरः श्वेतपद्मभाः।। 9.69 ।।
हृषीकेशस्तटिद्वर्णः पद्मनाभस्तु नीलभाः।
बन्धूककुसुमस्येव वर्णो दामोदरः स्मृतः।। 9.70 ।।
पुरुषोत्तमः स्फटिकवर्णः श्यामवर्णस्त्वधोक्षजः।
नृसिंहो हेमवर्णः स्यादच्युतः पीतवर्णकः।। 9.71 ।।
जनार्दनस्तु रक्तः स्यादुपेन्द्रः श्यामलः स्मृतः।
हरिःस्यात्पीतवर्णस्तु कृष्णः कृष्णघनप्रभः।। 9.72 ।।
श्रीः सुवर्मसमा भूमिर्धरा श्यामार्जुनाथवा।
सरस्वती श्वेतवर्णा प्रीतिः स्याच्छ्वेतरक्तिमा।। 9.73 ।।
कीर्तिः रक्तास्फटिकवर्णा शान्तिस्तुष्टिस्तु पीतका।
पुष्टिः श्यामा त्वष्टवर्णास्त्वष्टानां कारयेद्गुरुः।। 9.74 ।।
मत्स्यः स्फटिकसंकाशः कूर्मः काञ्चनवर्णभाक्।
वराहः श्यामलो वर्णो नृसिंहश्चन्द्रवर्णकः।। 9.75 ।।
जामदग्न्यः सुवर्णाभो रामः श्यामलवर्णभाक्।
भरतस्य तथा वर्णो लक्ष्मणः कनकप्रभः।। 9.76 ।।
शत्रुघ्नो रक्तवर्णः स्यात् सीता हेमनिभा भवेत्।
माण्डवी रक्तवर्णा स्यादूर्मिला श्यामलाकृतिः।। 9.77 ।।
श्रुतकीर्तिः सिताङ्गीं स्याद्धनूमान् काञ्चनप्रभः।
अङ्गो रक्तवर्णः स्यात्सुग्रीवो हेमपिङ्गलः।
गुहो विभीषणश्चैव नीलो नीलसमप्रभः।
जाम्बवान् स्वर्णवर्णः स्याद्रामाश्रयगणस्त्वयम्।। 9.78 ।।
कृष्णदेहो नीलवर्णो रामः पाण्डुरवर्णभाक्।
कनकाभा रुक्मिणी स्यात्सत्या श्यामलवर्णिनी।। 9.79 ।।
रेवती रक्तवर्णा स्यात्सात्यकी नीलवर्णभाः।
यशोदा स्वर्णवर्णा स्याद् देवकी कनकप्रभा।। 9.80 ।।
अर्जुनः श्वेतवर्णः स्यात् कृष्णसेवापरा इमे।
कल्की च श्वेतवर्णः स्याद् ब्रह्मा च कनकाकृतिः।। 9.81 ।।
अनन्तो क्षीरवर्णः स्याद्ध गरुडः काञ्चनप्रभः।
रुद्रः शोणितवर्णः स्याद्धयग्रीवो वलर्क्षभाः।। 9.82 ।।
सेनानी श्यामलः प्रोक्तः श्वेतवर्णो विनायकः।
ब्राह्मी नीला रक्तवर्णा महेश्वर्यपरा तथा।। 9.83 ।।
कौमारी वैष्णवी श्यामा वाराही श्यामलप्रभा।
इन्द्राणी श्यामला प्रोक्ता चामुण्डा रक्तवर्णका।। 9.84 ।।
इन्द्रः श्यामोऽग्निररुणो यमः कालस्तथापरः।
निर्ऋतिर्नीलवर्णः स्याद् वरुणः श्यामलाकृतिः।। 9.85 ।।
वायुर्धूम्रः सितः सोमो रुद्रो रक्तोऽष्टदिग्गताः।
विजयः श्यामवर्णः स्यात् पद्मी पद्मनिभो भवेत्।। 9.86 ।।
गदाधरो हेमवर्णः कृष्णः खड्गी तथा परः।
शार्ङ्गी हेमनिभो वज्री मुसली श्वेतवर्णकौ।। 9.87 ।।
कनकः पाशधारी स्यादङ्कुशी कृष्णवर्णकः।
चण्डो रक्तः प्रचण्डश्च श्वेतः पीतो जयस्तथा।। 9.88 ।।
रक्तपीतनिभो धाता विधाता श्वेतवर्णकः।
सुभद्रभद्रावरुणो कृतान्तः श्यामलप्रभः।। 9.89 ।।
असुरध्वंसनो रक्तः कुबेराक्षस्तु पीतकः।
कुबेरो रक्तवर्णः स्याद् दुर्जयः कृष्णवर्णकः।। 9.90 ।।
प्रबलः श्वेतवर्णस्तु रक्तः स्याद्विश्वभावनः।
पुष्करः श्वेतवर्णः स्यात् संभवः श्यामलाकृतिः।। 9.91 ।।
सुशोभनः श्यामवर्णः प्रभवो रक्तवर्णभाक्।
सुभद्रः कुमुदः श्वेतः कुमुदाक्षोऽग्निकान्तिमान्।। 9.92 ।।
पुण्डरीकः सितः प्रोक्तो वामनः श्यामलाकृतिः।
शङ्कुकर्णो रक्तवर्णः सर्वनेत्रोऽसितप्रभः।। 9.93 ।।
सुमुखः श्यामलो वर्णो रक्ताभः सुप्रतिष्ठितः।
एवं विमानमूर्तीनां द्वारपानां च पार्षदाम्।। 9.94 ।।
वर्णलेपं कारयित्वा मण्डपान् कारयेत्ततः।। 9.95 ।।
Chapter - 10
+++
+++
।। दशमोऽध्यायः ।।
गर्भमन्दिरनिर्माणे संपूर्णो तदनन्तरम्।
गर्भगेहस्य तन्मानं तन्मानार्धाधिकं पुरः ।। 10.10.1 ।।
अर्धमण्डपनिर्माणं कुर्याच्छास्त्रोक्तवर्त्मना।
गर्भार्धसद्मनो भूमेः समं कुर्याद्विचक्षणः।। 10.2 ।।
अग्रेऽर्धमण्डपात् कुर्यात् नृत्तमण्डपनामकम्।
नृत्तार्धमण्डपस्याग्रे कुर्यादास्थानमण्डपम्।। 10.3 ।।
पार्श्वयोर्निर्गमार्थाय पुरतो वा वरानने।
सोपानानि क्वचिद्भद्रे कुर्याच्छिल्पिविचक्षणः।। 10.4 ।।
मण्डपेषु प्रक्लृप्तेषु प्राकारान् परिकल्पयेत्।
परिवारनिवेशार्थं शोभार्थं मन्दिरस्य च।। 10.5 ।।
अन्तर्मण्डलसंज्ञं स्यात् तत्सालं प्रथमं विदुः।
अन्तर्हारं द्वितीयं स्यान्मध्यहारमनन्तरम्।। 10.6 ।।
चतुर्थं पारिभद्रं स्यात् पञ्चमं पर्वताह्वयम्।
षष्ठं वैद्याधरं विद्यात् सप्तमं सर्ववेष्टनम्।। 10.7 ।।
चतुः पञ्चाष्टदण्डानां सालानामुच्छ्रयं भवेत्।
प्रथमावरणाद्येषु विस्तारो यत्र दृश्यते।। 10.8 ।।
आग्नेये पचनागारं दीर्घचुल्लीसमन्वितम्।
मध्येऽग्नियमयोः कुण्डं नित्यहोमाय कल्पयेत्।। 10.9 ।।
मरीच्यादिनिवेशार्थं वायुसोमान्तरे भवेत्।
बहिरावरणे कुर्याद् धान्यस्थापनवेश्मकम्।। 10.10 ।।
वाहनादिस्थितिश्चैन्द्रे पानीयं वारुणे भवेत्।
उत्सवे देवयजनं सोमेशान्तरे भवेत्।। 10.11 ।।
पाकस्थाने कूपमेकं बहिर्द्वौ कल्पयेद् रमे।
एवं बहुविधं स्थानं पुष्पोद्यानं तथा सरः।। 10.12 ।।
प्राकाराणामन्तरेषु कारयित्वा च शिल्पिभिः।
प्राकाराणां च सर्वेषामूर्ध्वस्थानेषु सर्वतः।। 10.13 ।।
गरुडान् शङ्खचक्रान्वा सिंहान् वापि च कारयेत्।
एकैकस्य च सालस्य चतुर्द्वाराणि कल्पयेत्।। 10.14 ।।
द्वारेषु गोपुराणि स्युश्चतुरश्रायतानि वै।
प्रवेशनिर्गमौ स्यातां द्वारेषु प्रतिगोपुरम्।। 10.15 ।।
गर्भं तु मण्डपादीनामग्निकोणे तु विन्यसेत्।
गोपुराणां भवेद्याम्ये गर्भन्यासं गुरूत्तमः।। 10.16 ।।
गोपुराणां च सर्वेषामन्तर्गर्भगृहस्य च।
द्वौ द्वौ कवाटौ सुदृढौ श्लक्ष्णौ तालघनान्वितौ।। 10.17 ।।
स्वर्णादिकीलैः पट्टैश्च सर्वतो बन्धयेद्रमे।
स्वर्णादिक्षुद्रघण्टाश्च नीरन्ध्रेण च योजयेत्।। 10.18 ।।
एवं गर्भविमानं च मण्डपां सालसंयुतान्।
कारयित्वा गोपुराणि ततो देशिकसत्तमः।। 10.19 ।।
प्रतिष्ठामारभेद्देवि तद्विधानमिहोच्यते।
प्रासादस्याग्रतः कुर्यात् कुण्डस्थापनमण्डपम्।। 10.20 ।।
सर्वोपकरणैर्युक्तं सर्वलक्षणसंमितम्।
सर्वतोऽष्टौ विमानस्य दिशि कुण्डान् प्रकल्पयेत्।। 10.21 ।।
तदभावे तु चतुरस्तदभावे पुरोदिते।
मण्डपे स्थापयेदग्निमेकमेव गुरूत्तमः।। 10.22 ।।
सौवर्णी राजती ताम्री स्तूपी दारुमयी तथा।
शिलामयी वा संस्थाप्या नो चेन्मूर्ध्ना विना भवेत्।। 10.23 ।।
तद्विमानं न पूर्णं स्याद्यत्नेन स्थापयेदतः।
तस्य द्वितीयस्य गोलस्य प्रमाणं बिम्बमुत्तमम्।। 10.24 ।।
अधिवासं रहस्येऽन्ये मण्डपे कल्पयेत् पुरा।
स्तूपिभिः सह शास्त्रोक्तविधानेन विचक्षणः।। 10.25 ।।
बिम्बस्य स्तूपिकानां च स्नानाद्यमखिलं चरेत्।
वस्त्रैराभरणैः पुष्पैरलंकृत्य सुपूज्य च।। 10.26 ।।
तस्मिन् रत्नादिसंयुक्ते कुम्भे बिम्बं निवेश्य च।
शनैः प्रासादपर्यङ्कमारोहेन्मूर्तिपैः सह।। 10.27 ।।
तत्र प्राक्ताडनादीनि क्षालनादीनि कारयेत्।
ततो बिम्बस्तूपिकां तां नयेदूर्ध्वं स साधकः।। 10.28 ।।
प्राङ्मुखोदङ्मुखो वापि गुरुः पद्मे स्थितः स्वयम्।
स्थाने मध्यमकुम्भस्य स्थापयेत् सुधया ततः।। 10.29 ।।
प्रतिष्ठासीति मन्त्रेण दृढी कुर्याद् गुरूत्तमः।
आचरेन्मन्त्रविन्यासं कुम्भे बिम्बसमन्विते।। 10.30 ।।
हृदाद्यं त्वनिरुद्धेन मूलमन्त्रेण देशिकः।
तत्राद्यमनुसंधाय ह्येकं कृत्वा परान्वितम्।। 10.31 ।।
संपूज्य स्थापयेत् स्तूपीः पार्श्वयोस्तस्य वै रमे।
सुधाभिः परिलिप्याथ मन्त्रानपि च विन्यसेत्।। 10.32 ।।
प्रासादपट्टिकायां तु पञ्चविंशतितन्तुभिः।
बध्वा परिसरं पश्चात् स्वयं बध्वा च कौतुकम्।। 10.33 ।।
[प्रतिष्ठाविधिवत् पूर्वं संभारानर्पयेत् क्रमात्।]
छायाधिवसनं कुर्यात् कटाहादिषु वै रमे।। 10.34 ।।
स्नपनं दर्पणे कुर्यात् मूर्तीनां मन्त्रवित्तमः।
नेत्रोन्मीलनमेतासां कुर्याच्छास्त्रोक्तवर्त्मना।। 10.35 ।।
ध्यात्वा विराजं वैमानं तत्तत्स्थानेषु देशिकः।
पादादारभ्य कुम्भान्तं लोकाध्वानं विचिन्तयेत्।। 10.36 ।।
तत्तत्स्थानेषु देवानां पूजनं कलशेष्वपि।
मण्डले च क्रमेणैव पूजनीया वरानने।। 10.37 ।।
प्रासादं परितः क्लृप्तकुण्डेष्वग्निं यथाविधि।
संस्कृत्य वासुदेवादीन् प्रभवाप्यययोगतः।। 10.38 ।।
संतर्पयेद्यथाशास्त्रमथवा तत्पुरस्स्थिते।
कुण्डे तु सकलं होममाचार्यः स्वयमाचरेत्।। 10.39 ।।
मन्त्रांस्तु पाठयेद्विद्वान् तत्प्रतिष्ठां नयेत् सुधीः।
पूर्णान्तमखिलं कृत्वा तद्विधानेन वै पुनः।। 10.40 ।।
क्षुरो हरेति मन्त्रेण सामगान् पाठयेद्रमे।
चक्रमामलसारस्य मध्यतः संनिवेशयेत्।। 10.41 ।।
यथाभिमतरूपं तु दिग्वक्त्रं चाम्बराननम्।
स्वशक्तिवर्णदण्डस्थं चण्डमार्ताण्डभास्वरम्।। 10.42 ।।
चक्रमन्त्रं न्यसेत्तस्मिन् वर्णाध्वानं पुरोदितम्।
गत्यागतिप्रयोगेण प्राक्प्रमेयज्ञलक्षणम्।। 10.43 ।।
नान्यथावत्पुरा ज्ञात्वा मन्त्रमूर्तिगतं विभुम्।
कुर्यात्ततोर्ध्वसंस्थानं नान्यथा तु वरानने।। 10.44 ।।
एवं चाभिमतं चक्रं सर्वविघ्नप्रशान्तकम्।
प्रतिष्ठाप्य तमभ्यर्च्य ततोऽस्त्रं समनन्तरम्।। 10.45 ।।
त्रियंशेन शिरोदेशात् पक्षिराजविभूषितम्।
संस्कृत्य ध्वजदण्डं च शिखामन्त्रं च विन्यसेत्।। 10.46 ।।
कृत्वास्त्रसंनिधिं तस्मिन् लाञ्छनाख्ये पुरा पटे।
निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेद्रमे।। 10.47 ।।
विमानस्तूपिकैका चेद्वासुदेवस्तु तत्र वै।
द्वे चेत्तयोर्देववरौ वासुदेवस्तथा परः।। 10.48 ।।
संकर्षणिस्त्रिषु स्थाप्या वासुदेवादिकास्त्रयः।
वासुदेवादिचतुरः प्रार्थयेच्च त्रिषु क्रमात्।। 10.49 ।।
कुम्भषट्के केशवादिषट्कं तत्र सुपूजयेत्।
कुम्भाष्टके केशवाद्यास्तत्र संप्रार्थयेद्रमे।। 10.50 ।।
कलशेषु द्वादशसु केशवादीन् नियोजयेत्।
युग्मयोगेन कुम्भानां स्थापनं मोक्षकाङ्क्षिणाम्।। 10.51 ।।
अयुग्मं स्यात्तदन्येषां स्वर्गादिफलकाङ्क्षिणाम्।
एवं कृत्वा मध्यकुम्भं तोयेन गुरुरात्मवान्।। 10.52 ।।
आरुह्य च विमानाग्रात् सर्वतः प्रोक्षयेद्रमे।
सुधामयादिबिम्बानां बृहत्या शिलयापि वा।। 10.53 ।।
कृतानामपि बिम्बानां पिण्डिकायां पुरा रमे।
रत्नलोहादिविन्यासं शिल्पिभिः कारयेत्ततः।। 10.54 ।।
औषधैश्च दृढीकृत्य विमानेन सहैव च।
मूलबेरादिबेराणां प्रतिष्ठां कारयेद् गुरुः।। 10.55 ।।
प्रासादस्य प्रतिष्ठेत्थं समासात् कथिता मया।
मण्डपानां च सालानां गोपुराणां तथैव च।। 10.56 ।।
शाखानां च कवाटानां प्रतिष्ठाविधिरुच्यते।
मण्डपं प्रथमादीनामास्थानान्तं तथैव च।। 10.57 ।।
प्राकारान् पचनागारमग्न्यगारादिकान् रमे।
संक्षालयेत् पुरा सर्वानङ्कुरानपि कल्पयेत्।। 10.58 ।।
कृत्वा पर्यग्निकरणं धूपयेत् सर्वतो दिशम्।
पञ्चगव्येन संशोध्य प्रोक्षयेत् पुण्यवारिणा।। 10.59 ।।
सुधाचूर्णैरलंकृत्य सिद्धार्थान् विकिरेत्ततः।
वास्तुक्षेत्रेशयोः पूजां कृत्वा देशिकसत्तमः।। 10.60 ।।
कुम्भानां स्थापनं कुर्यात् तेष्वावाह्य हरिं यजेत्।
शाखाकवाटयोः किंचिद् विशेषः कथ्यतेऽधुना।। 10.61 ।।
जलैः शाखाकवाटानि पञ्चोपनिषदा गुरुः।
क्षालयेद् गन्धमाल्याद्यैरलंकुर्याच्च वस्त्रतः।। 10.62 ।।
ततो मुहूर्ते विजये शाखास्थापनमाचरेत्।
शाखारन्ध्रे च रत्नादिविन्यासं मन्त्रवच्चरेत्।। 10.63 ।।
शाखासमीपरन्ध्रेषु कवाटानिधापयेत्।
शाखायां दक्षिणस्थायां ब्रह्माणं तूत्तरे भवम्।। 10.64 ।।
उदुम्बरे महालक्ष्मीं प्रार्थयेत् गुरुसत्तमः।
कवाटानामुपरितने दशमूर्तिर्लिखेन्मम।। 10.65 ।।
वेदशास्त्रपुराणानि मुनीनपि लिखेदधः।
कवाटकन्दपट्टे स्याद् विश्वनाथः प्रतिष्ठितः।। 10.66 ।।
कुञ्चिकायां कवाटस्य संस्थाप्यो विश्वभावनः।
एतान् कुम्भजले पूज्य तत्तत्स्थानेषु वै रमे।। 10.67 ।।
आवाह्य च कवाटेषु प्रोक्षयेन्मूलविद्यया।
एवं भगवतो विष्णोः सौधं गोपुरसंयुतम्।। 10.68 ।।
कारयित्वा शिल्पिवर्गैः प्रतिष्ठाप्य यथाविधि।
यजमानस्याभिमते कल्पयेन्मूलकौतुकम्।। 10.69 ।।
Chapter - 11
+++
+++
।। एकादशोऽध्यायः ।।
स्थितं यानसमारूढमासीनं लोकविक्रमम्।
शयनं विश्वरूपं च षड्विधं बिम्बमुच्यते।। 11.1 ।।
ममावतारभेदेषु तत्तत्कार्यानुरोधतः।
भिद्यते बहुधा देवि यजमानस्यानुरोधतः।। 11.2 ।।
चतुरश्रे सुवृत्ते च षडश्रे स्थापयेद् विभुम्।
स्थितं यानसमारूढमासीनं लोकविक्रमम्।। 11.3 ।।
वृत्तायते शयानं स्याच्चतुरश्रायते तथा।
अष्टाश्रये विश्वरूपमेकमालोक्य कल्पयेत्।। 11.4 ।।
अर्चारूपस्य निर्माणे पदार्था अपि षड्विधाः।
रत्नस्फटिकलोहाश्च शिला दारुश्च मृण्मयः।। 11.5 ।।
पूर्वपश्चिमतो बिम्बं न हीनं निर्मितं यदि।
तत्पूर्णं बिम्बमित्याहुः पूर्वभागं तु यत्र वै।। 11.6 ।।
मुखादिसहितं बिम्बमर्धचित्रं तदुच्यते।
पटादिलिखितं यत्तु तच्चित्रं हीनमुच्यते।। 11.7 ।।
रत्नैस्तु निर्मितं बिम्बं सर्वकामफलप्रदम्।
संपत्प्रदं स्वर्णबिम्बं रजतं ज्ञानदं भवेत्।। 11.8 ।।
सौभाग्यदायकं ताम्रमेवं त्रिविधमीरितम्।
यशोवित्तज्ञानदायि श्वेतशैलसमुद्भवम्।। 11.9 ।।
आराधनीयं विप्रेण तदन्यत्सर्वकामदम्।
क्षत्रियादिभिराराध्यं स्वेषां चैवेष्टसिद्धये।। 11.10 ।।
सिद्धा महर्षयो यत्र तपस्यन्ति द्विजा अपि।
मर्त्यागम्ये देवसेव्ये परिपक्वशिलामये।। 11.11 ।।
आचार्यः प्रथमं गत्वा बिम्बयोग्यां शिलां रमे।
सम्यक् परीक्ष्य चागत्य यजमानाय वेदयेत्।। 11.12 ।।
यजमानो गुरुश्चैव ब्राह्मणान् भोजयेत् पुरा।
तेभ्यश्चानुग्रहं प्राप्य यजमानेन सम्मितः।। 11.13 ।।
रथकारादिसहितो गत्वा तत्र प्रपां क्रियात्।
अङ्कुरार्पणपूर्वं हि स्थण्डिले स्थापयेद् घटान्।। 11.14 ।।
विन्यस्य परमेष्ठ्याख्यविद्यया कूर्चपल्लवैः।
अलंकृत्य पिधायास्याननुचक्रं च पूजयेत्।। 11.15 ।।
पुण्याहवारिणा प्रोक्ष्य सिद्धार्थांश्चक्रविद्यया।
विकीर्य चक्रमुद्रां च प्रदर्श्यानन्तरं गुरुः।। 11.16 ।।
मध्ये तु परमात्मानं करके च सुदर्शनम्।
इन्द्रादीनुपकुम्भेषु प्रापणान्तं समर्चयेत्।। 11.17 ।।
समित्सर्पिः पुष्फलैर्दलैः पञ्चभिरप्यथ।
मूलमन्त्रेण जुहुयात् पृथगष्टोत्तरं शतम्।। 11.18 ।।
चरुणापि नृसूक्तेन जुहुयात् षोडशाहुतीः।
वनदेवान् पर्वतांश्च गण्डशैलांस्तटानपि।। 11.19 ।।
शृङ्गांश्च निर्झरानब्धीन् वृक्षानप्योषदीरपि।
वनस्पतिं जरायुजानण्डजान् स्वेदजानपि।। 11.20 ।।
उद्भिदः सर्वभूतानि तित्रोऽपि व्याहृतीरपि।
नमस्तया च व्याहृत्या हुत्वा संपातमाहरेत्।। 11.21 ।।
पूर्णाहुतिं ततो हुत्वा संपातं स्पर्शविद्यया।
तस्यां शिलायां विन्यस्य बलिदानं च कल्पयेत्।। 11.22 ।।
दध्यन्नं रजनीचूर्णयुक्तं लाजानपूपिकाम्।
पयोदधिघृतं रम्भाशलाटूंश्चरुणा सह।। 11.23 ।।
दद्याच्च सर्वभूतेभ्यो बलिदानं तु देशिकः।
सुमुहूर्ते शिलां वीक्ष्य सिद्धार्थांश्चक्रविद्यया।। 11.24 ।।
दद्यात् बलिं प्रतिदिशं भूतेभ्यः कमलेक्षणे।
पुण्याहं वाचयित्वाथ प्रोक्ष्य पूरुषविद्यया।। 11.25 ।।
शिलां स्पृष्ट्वाथ मूलेन दत्वार्ध्यं प्रीतिमन्दिरे।
जपेदष्टोत्तरशतं मूलमन्त्रं गुरूत्तमः।। 11.26 ।।
बिम्बस्यानुगुणं कुर्यात् सूत्रपातं शिलाभुवि।
बिम्बं शीतलया कुर्यान्न तूष्णशिलया क्वचित्।। 11.27 ।।
यदि बिम्बं शीतया कुर्याल्लक्षणसंयुतम्।
तद्देवसंनिधौ संपत् सदा पूर्णा भवेत् ध्रुवम्।। 11.28 ।।
पुंलिङ्गशिलया कुर्यान्नादवत्या सदा हरिम्।
स्त्रीशिला पादपीठं स्याद्ररत्नन्यासं नपुंसके।। 11.29 ।।
शिलामेवं परीक्ष्याथ रथकारैस्तु भेदयेत्।
सा शिला निपतेद् भूम्यां न भवेद् बिम्बसाधने।। 11.30 ।।
मध्ये स्थितापि वा ग्राह्या तामुद्धृत्य गुरुः शिलाम्।
महाकुम्भजलैः प्रोक्ष्य ततः करकवारिणा।। 11.31 ।।
परिषिच्य प्रतिकृतिं शिल्पिभिः कारयेद् गुरुः।
देवीनां च श्रियादीनां निर्माणे स्त्रीशिला वरा।। 11.32 ।।
पुंशिला पादपीठे स्याद्रत्नन्यासं नपुंसके।
श्रीसूक्तेनैव देवीनां शिलासंग्रहणं चरेत्।। 11.33 ।।
मध्यकुम्भे श्रियं देवीं परितः कलशेषु च।
वागीश्वरीं क्रियां कीर्तिं लक्ष्मीं सृष्टिमतः पराम्।। 11.34 ।।
प्रह्वीं सत्यां ततो ब्राह्मीं करके च सुदर्शनम्।
यथा पूर्वं तदितरत् श्रियमग्नौ तु पूजयेत्।। 11.35 ।।
इतरा अपि चावाह्य वागीशाद्या यथाक्रमम्।
ब्रह्मादिकल्पने देवि घटस्थापनकर्मणि।। 11.36 ।।
ब्रह्मादीन् मध्यकुम्भस्थान् पूर्वादिषु यथाक्रमम्।
इन्द्रादीन् पूजयेत् विद्वान् करके च सुदर्शनम्।। 11.37 ।।
पूर्णाहुतिं ततः कुर्यात् संपाताज्येन वै शिलाम्।
स्पर्शयेत्तत्तदङ्गेषु मूलमन्त्रेण देशिकः।। 11.38 ।।
देवीब्रह्मादिबिम्बानि कारयेच्छिल्पिवर्गतः।
दारुणा यदि कल्प्येत बिम्बानि स्वार्थसिद्धये।। 11.39 ।।
दारुसग्रहणं कुर्याद् वृश्चिकादित्रिमासके।
वृश्चिकाद्यष्टमासेषु अगरुश्चन्दनोऽथवा।। 11.40 ।।
काश्मर्यो देवदारुश्च मधूकहरिचन्दनौ।
खदिरश्चार्जुनश्चैव कदम्बपनसौ तथा।। 11.41 ।।
बिल्वः पूर्वोक्तवृक्षा ये सारवन्तो न कोटराः।
सुषिरादिविहीनाश्च गृह्णीयात् तान् द्रुमाधिपान्।। 11.42 ।।
दग्धान् वक्रान् ग्रन्थियुक्तान् ससाखान् वर्जयेद्रमे।
शिलासंग्रहवद्धोमः सर्वः कार्यो यथाविधि।। 11.43 ।।
अनोकहानामङ्गानि प्रवालादीनि पूर्ववत्।
प्राचीनकुण्डे जुहुयात् सर्पिरादि गुरूत्तमः।। 11.44 ।।
प्रक्षालयेद् वृक्षमूलं वाससा छादयेद्रमे।
सदर्भेण स्मरन् मूलं प्रादक्षिण्येन गुरूत्तमः।। 11.45 ।।
मूर्तिभिश्च द्वादशभिर्मत्स्यादिभिरनुक्रमात्।
व्याहृतीभिस्ततः पश्चादुपतिष्ठेन्महीरुहम्।। 11.46 ।।
कर्मणा पूर्ववृत्तेन स्थावरत्वमुपागतः।
वृणोभि विष्णोर्बिम्बार्थं तव मोक्षाय वै द्रुम।। 11.47 ।।
स्थावरत्वादितो गच्छ दिव्यं रूपमनुत्तमम्।
प्राप्य योगांश्च विपुलान् वासुदेवप्रसादतः।। 11.48 ।।
अनुभूय ततो मोक्षं याहि सूरिनिषेवितम्।
इत्युपस्थाय मन्त्रेण रक्षासूत्रं तु बन्धयेत्।। 11.49 ।।
अनुक्तमन्यत्कर्तव्यं शिलासंग्रहवन्निशि।
प्रभाते देशिकः स्नात्वा मुहूर्ते शोभने शुचिः।। 11.50 ।।
छिन्द्याद् वृक्षं कुठारेण प्राङ्मुखः पुरुषात्मना।
रथकारस्ततो वृक्षं छेदयेद् गुर्वनुज्ञया।। 11.51 ।।
प्राच्यामुदीच्यां पतितस्तरुरभ्युदयावहः।
कुर्याद् बिम्बं प्रकाण्डेन शाखयाप्यनुरूपया।। 11.52 ।।
कुम्भोदकेन तं सिञ्चेद् ध्यात्वा तत्र स्थितं हरिम्।
मूलमन्त्रेण परितः सिञ्चेत् करकवारिणा।। 11.53 ।।
देवालयं तरुं नीत्वा धाममानानुसारतः।
आलये चाधिवासादि स्थापयित्वा द्रुमं भुवि।। 11.54 ।।
कुर्याद् बहिर्वने यद्वा सर्वं तद्वद्यथाविधि।
बिम्बमत्यद्भुताकारं शिलया द्रुमेण वा।। 11.55 ।।
कारयेत् संस्कृतेनैव त्वन्यथानर्थमाप्नुयात्।
कुर्याद्यतोक्तविधिना कृतं मोक्षाय वै भवेत्।। 11.56 ।।
Chapter - 12
+++
+++
।। द्वादशोऽध्यायः ।।
[श्री] भगवान्-
बिम्बनिर्माणमधुना वदामि कमलेक्षणे।
गर्भविस्तारमानं वा द्वारदैर्ध्यमथापि वा।। 12.1 ।।
प्रासादपादमानं वा हस्तमानेन वा रमे।
मूलप्रतिकृतिं कुर्याज्जन्मसर्वार्थसिद्धिदाम्।। 12.2 ।।
प्रतिमा गर्भविस्तारा श्रेष्ठा स्यात्कमलोद्भवे।
नवभागैकहीना तु मध्या प्रतिकृतिर्भवेत्।। 12.3 ।।
कनीयसी पञ्चभागेष्वेका हीना न संशयः।
चतुर्भुजं वा द्विभुजं यजमानेच्छया भवेत्।। 12.4 ।।
आसीनं वा शयानं वा स्थितं यानगतं तु वा।
त्रिविक्रमं विश्वरूपं कल्पयेयुर्यथाविधि।। 12.5 ।।
शयानस्याथ वक्ष्यामि प्रमाणं जलजोद्भवे।
आयामं गर्भगेहस्य भङ्क्त्वा भागं पुरा रमे।। 12.6 ।।
अष्टादशाद्भागमेकं त्यजेत् पादे शिरस्स्थले।
शेषस्य भागमेकं स्यात् किरीटस्य द्विभागकम्।। 12.7 ।।
किरीटशेषयोर्मध्ये भागमेकं परित्यजेत्।
अवशिष्टेन भागेन मूलमूर्तिं प्रकल्पयेत्।। 12.8 ।।
उत्तमोत्तममेतत्स्यादुत्तमं तूच्यतेऽधुना।
गर्भगेहान्तरायामं भङ्क्त्वा षोडशधा पुरा।। 12.9 ।।
मूर्ध्नस्स्थाने चतुर्भागं पादस्थाने द्वयं त्यजेत्।
अवशिष्टैर्दशांशैः स्याच्छयनस्योत्तमो विधिः।। 12.10 ।।
मूर्ध्नि पञ्च परित्यज्य पादयोस्त्रीन् त्यजेद्यदि।
अवशिष्टैश्च शयनं मध्यमं समुदाहृतम्।। 12.11 ।।
षड्भिर्मूर्ध्नि तथा पादे वर्जयेच्चतुरो यदि।
अवशिष्टषडंशैस्तु कृता मूर्तिः कनीयसी।। 12.12 ।।
स्थितस्य मूलबिम्बस्य शृणु मानं जलोद्भवे।
गर्भद्वारसमं बिम्बमुत्तमोत्तममिष्यते।। 12.13 ।।
उत्तमं त्वेकभागेन हीनं द्वारस्य वै रमे।
त्रिभागहीनमध्यं स्यात्त्वधमं त्वर्धमानकम्।। 12.14 ।।
आसीनस्याथ वक्ष्यामि बिम्बस्य कमलासने।
गर्भद्वारं चतुर्धा तु भङ्क्त्वा भागेन वर्धयेत्।। 12.15 ।।
भागत्रयेण संयुक्तां बिम्बप्रकृतिमुत्तमाम्।
मध्यमस्य द्वयोर्भागः कनीयानेकभाकः।। 12.16 ।।
गर्भगेहोन्नतिर्यावत्तदर्धं यानमुच्यते।
गर्भद्वारोन्नतेरर्धं बिम्बं यानगलोपरि।। 12.17 ।।
यानारूढोन्नतिः पूर्णा तत् त्रिभागेन मध्यमा।
अधमा स्यात्तदर्धेन विश्वरूपविधि शृणु।। 12.18 ।।
उन्नतिं गर्भगेहस्य भङ्क्त्वा द्वादशधोपरि।
भागमेकं परित्यज्य पीठे भागद्वयं तथा।। 12.19 ।।
उत्तमो विश्वरूपस्य मध्यमोन्नतिरुच्यते।
ऊर्ध्वे भागद्वयं त्यक्त्वा भागत्रयमधस्तथा।। 12.20 ।।
शिष्टैस्तु सप्तभिर्भागैर्विश्वरूपस्य चोन्नतिः।
उपरिष्टादधस्ताच्च परित्यज्य त्रिभागकम्।। 12.21 ।।
अवशिष्टैस्तु षड्भागैः कृता मूर्तिः कनीयसी।
लोकाक्रमणबिम्बस्य चैवमुन्नतिरिष्यते।। 12.22 ।।
स्थिते देवे तथा देव्यः आसीनास्ते तथैव ताः।
[स्थितस्य देव्य आसीना आसीनस्य स्थितापि वा।। 12.23 ।।
]
शयानेषु च देवेषु आसीना वा स्थितापि वा।
परतन्त्रः श्रियादीनामित्थं सृष्टिरुदाहृता।। 12.24 ।।
यानारूढे देववरे देवोत्सङ्गगता यदि।
तस्य बिम्बस्य सा देवी नान्या पार्श्वे विधीयते।। 12.25 ।।
परतन्त्रास्तु या देव्यः सौम्यवक्त्रा द्विबाहवः।
पारतन्त्रे कल्पनीया देवस्कन्धसमुन्नताः।। 12.26 ।।
तावत्येवोन्नतिर्भद्रे स्वतन्त्रे देवयोषिताम्।
यानस्कन्धसमारूढां शयानां वा स्थितां तथा।। 12.27 ।।
चतुर्भुजां द्विहस्तां वा स्वातन्त्र्ये परिकल्पयेत्।
शयितुर्मूलबिम्बस्य शयनं पञ्चधा स्मृतम्।। 12.28 ।।
उद्योगो योगभोगौ च सृष्टिः संहार एव च।
अनन्तभोगशयने मृद्वास्तरणकल्पिते।। 12.29 ।।
सोपधानशिरःपार्श्वे न्यस्तहस्तश्च दक्षिणः।
वामबाहूपरिन्यस्तवामजानूपलक्षितः।। 12.30 ।।
कीरीटहारकेयूरवनमालाविभूषितः।
श्रीवत्साङ्कः प्रसन्नास्य ईषदुत्थितकंधरः।। 12.31 ।।
एवं प्रकल्प्य शयनं तन्मानस्याङ्गुलयः पुरा।
भागत्रयोदशं नीत्वा तन्मानस्याष्टसंख्यया।। 12.32 ।।
श्रीभूम्योर्बिम्बकरणं कुर्यात् कमलसंभवे।
अर्चापीठशिरःपार्श्वे प्राञ्जलिं स्वस्तिकासनाम्।। 12.33 ।।
द्विभुजां तु श्रियं देवीं पादपीठे धरामपि।
देवस्य मौलिपार्श्वस्थभित्तौ स्युः सनकादयः।। 12.34 ।।
पृष्ठभित्तौ तु देवस्य स्वलक्षणशिरोऽन्वितान्।
द्विहस्तान् पुरुषाकारांश्चक्रादीनायुधांस्तथा।। 12.35 ।।
पादकुड्ये विधात्रादीन् देवानञ्जलिसंयुतान्।
कल्पयेद्यत्र शयनं तद्विदुश्चोत्तमोत्तमम्।। 12.36 ।।
अनन्तभोगशयने द्विभुजो वा चतुर्भुजः।
श्रीवत्साङ्कः प्रसन्नास्यो योगमेकः समास्थितः।। 12.37 ।।
शेषे शयानो द्विभुजश्चतुर्हस्तोऽथवा भवेत्।
श्रीमह्यवयवा लक्ष्मीरर्चनापीठपार्श्वयोः।। 12.38 ।।
बद्धाञ्जलिः खगेशश्च ब्रह्माद्यश्च तपोधनाः।
परितः खलु सेवन्ते योगं तमपरं विदुः।। 12.39 ।।
शेषे शयानो द्विभुजश्चतुर्हस्तोऽथवा भवेत्।
श्रीवत्साङ्कः प्रसन्नास्यः श्रीधरण्योः श्रियोऽथवा।। 12.40 ।।
विन्यस्योत्सङ्गयोः पादौ सुखं शेतेऽथवा स्वयम्।
श्रीमह्यवयवा सा श्रीर्बाहुमूलं समाश्रिता।। 12.41 ।।
देवस्य पादशय्याया अर्चनापीठपार्श्वयोः।
ब्रह्माद्या भित्तिदेश वा गन्धर्वा देवयोषितः।। 12.42 ।।
देवस्य भोगशयनं सेवन्ते नित्यशः किल।
सृष्ट्याख्यशयनं वक्ष्ये वासुदेवस्य वै रमे।। 12.43 ।।
शेषेऽश्वत्थदले वा स्याद् बालभूषणभूषितः।
अलकैः सुप्रसन्नास्यो बालो नीलाब्जकान्तिमान्।। 12.44 ।।
अमृताब्धौ सुखं शेते ब्रह्मा तस्य जगत्पतेः।
नाभीकमलमाश्रित्य बद्धाञ्जलिपुटः स्थितः।। 12.45 ।।
एतत् स्यात् सृष्टिशयनं संहारं शृणु पद्मजे।
अनन्तभोगशयने सहस्रफणशोभिते।। 12.46 ।।
चतुर्हस्तोऽष्टहस्तो वा भ्रुकुटीकुटिलाननः।
दंष्ट्राकरालवदनश्चक्राद्यायुधभूषितः।। 12.47 ।।
एक एव स्वयं शेते शयनेऽतिभयंकरः।
अर्चनापीठिकापार्श्वे श्रीर्वा लक्ष्मीः खगेश्वरः।। 12.48 ।।
कृताञ्जलिपुटौ स्यातां त्रिविक्रममथ शृणु।
द्विभुजो वा चतुर्बाहुर्भुजाष्टकयुतोऽपि वा।। 12.49 ।।
सव्यं पादं भुवि न्यस्य तदन्यं व्योम्नि विक्षिपेत्।
तृतीयपदविन्यासस्थानं देहीति दानवम्।। 12.50 ।।
पाणिना याचमानस्तु कल्पनीयश्च शिल्पिभिः।
तमेव वैनतेयस्य स्कन्धोपरि हरिं प्रभुम्।। 12.51 ।।
उदितं विक्रमं विद्धि विश्वरूपमतः शृणु।
द्विहस्तमेककण्ठं च प्रागादिषु यथाक्रमम्।। 12.52 ।।
वासुदेवादिवदनं वनमालाविभूषितम्।
वासुदेवाननादूर्ध्वं देवानां वदनान्यपि।। 12.53 ।।
ऋषीणां वदनानि स्युः संकर्षणमुखोपरि।
प्रद्युम्नवदनादूर्ध्वं दैत्यरक्षोमुखान्यपि।। 12.54 ।।
अनिरुद्धमुखान्नागगन्धर्वाणां मुखानि च।
[तत्तन्मुखानामुपरि]विविधान्याननान्यपि।। 12.55 ।।
पिशाचाजगरव्याघ्रनरपक्षिमुखान्यपि।
क्रमेण कल्पनीयानि तत्तदूर्ध्वं पुनः पुनः।। 12.56 ।।
कण्ठोऽदोदेशमारभ्य पादान्तं पुरुषाकृतिः।
विश्वमूर्तेर्भगवतश्चैवं रूपं प्रकल्पयेत्।। 12.57 ।।
आलयादिषु निर्माय पूजनं त्वतिसाहसम्।
तस्मान्न कल्प्या सर्वत्र जगतः क्षेममिच्छता।। 12.58 ।।
Chapter - 13
+++
+++
।। त्रयोदशोऽध्यायः ।।
भगवान्-
मुख्यमूर्तिः शिलाभिर्वा लोहैर्वा दारुभिस्तु वा।
सुधाभिर्वा प्रयत्नेन मृदाभिर्वाभिकल्पयेत्।। 13.1 ।।
मुख्यमूर्तिमृत्तिकया कर्तुमिच्छति चेद्रमे।
आरभ्य वत्सरान्तेन कुर्यात्ताः शास्वतीः समाः।। 13.2 ।।
तिष्ठेयुर्नात्र संदेहो रचना तु तथाविधा।
यद्यत् क्रमेण कर्तव्यं मूर्तीनां वस्तुलेपनम्।। 13.3 ।।
तत्प्रकारं प्रवक्ष्यामि शृणुष्व कमलालये।
प्रथमं दारुसंघातो द्वितीयं रज्जुवेष्टनम्।। 13.4 ।।
मृदालेपस्तृतीयस्तु तुरीयो नाडिबन्धनम्।
पञ्चमो रज्जुवेष्टः स्यान्नारिकेलत्वचा पुनः।। 13.5 ।।
मिश्रिता मृत्तिका षष्ठी सप्तमं रज्जुवेष्टनम्।
अष्टमः शर्करालेपो नवमं मटयोजनम्।। 13.6 ।।
भूषणं दशमं विद्धि शुक्लालेपमतः परम्।
द्वादशो वर्णलेपः स्यात्तत्तनमूर्त्यनुसारतः।। 13.7 ।।
वर्णलेपविधानं तु मूलमूर्तेर्विना भवेत्।
[चन्दनागरुतैलाद्यैर्मूलबिम्बानुलेपनम्।]
पुरोदितानां बिम्बानां मूलानां मानमुच्यते।। 13.8 ।।
ऋज्वीमेकां पुरा भूमौ मूर्तिं शिल्पी विलेखयेत्।
तत्र मानादिकं सर्वमादाय तदनन्तरम्।। 13.9 ।।
तरुणा शिलया वापि कल्पयेद् बिम्बमुत्तमम्।
अष्टाधिकशतांशो यः सोन्नतेरङ्गुलो भवेत्।। 13.10 ।।
द्वे अङ्गुले कला नेत्रं गोलकं भाव एव च।
अङ्गुलादष्टभागो यः स यवः परिकीर्तितः।। 13.11 ।।
षट्कलं च परिज्ञेयं तालं बिम्बादिकर्मणि।
मुखाङ्गनाभिमेढ्रक्ष्मास्तालमानास्तथोरुयुक्।। 13.12 ।।
द्वितालं च तथा जङ्घे गुल्फजानुगलं च कम्।
त्र्यङ्गुलं त्र्यङ्गुलं ज्ञेयमित्युन्मानमुदाहृतम्।। 13.13 ।।
जटाधराणां बिम्बानां दीर्घह्रासवशेन तु।
चतुष्कलं च त्रिकलं मानं मानाद्बहिः क्षिपेत्।। 13.14 ।।
त्रिपञ्चसप्तशिखरो मौलिरष्टकलोन्नतः।
निर्जटानां ललाटोर्ध्वे मकुटं वा सुशोभनम्।। 13.15 ।।
कलेन ह्रासवृद्धिस्तु कार्ये त्वत्र ह्यवेक्षया।
यथोदितेषु भागेषु एकैकेनाङ्गुलेन तु।। 13.16 ।।
आस्यनासाललाटार्थं वदनांशं भजेत् त्रिधा।
ततोऽग्रतः कलामानं घ्राणं स्यात् तिलपुष्पवत्।। 13.17 ।।
कलार्धेन तु विस्तारः सोन्नतिस्तत्पुटद्वयम्।
नासाग्रग्राहनिर्मुक्तं गोजिमानं चतुर्यवम्।। 13.18 ।।
तच्चतुर्यवमानेन घ्राणाग्रेणान्तरीकृतम्।
अर्धाङ्गुलं चोत्तरोष्ठमधरोष्ठं तु साङ्गुलम्।। 13.19 ।।
गोलकं चुबुकं विद्धि सृक्विण्यौ चतुरङ्गुले।
आद्यस्य नासिकांशस्य मध्यभागसमाश्रिते।। 13.20 ।।
कुर्यान्नेत्रश्रुतिच्छिद्रे तत्र नेत्रे कलान्तरे।
कलायामसमं दैर्घ्यात् कलार्धेन तु विस्तृतम्।। 13.21 ।।
यदुत्पलदलाकारं द्वियवेनाधिकं तु तत्।
कुर्यात् पद्मदलाकारं नेत्रार्धं वृत्ततारकम्।। 13.22 ।।
तारदैघ्यं त्रिभागेन त्वाद्यस्यान्यस्य चाधिकम्।
यवेनैकेन वार्धेन ज्योतिस्तत्पञ्चभागकम्।। 13.23 ।।
त्रिभागेनापि विहितं तत्पद्मदललोचनम्।
द्विषड्यवं, नेत्रकोशं विस्तारेण यवाधिकम्।। 13.24 ।।
सार्धाङ्गुलद्वयं दैर्घ्यात् द्वे कले भ्रूलते स्मृते।
मध्यतो द्वियवे बालचन्द्रतुल्ये सुलक्षणे।। 13.25 ।।
तदन्तरं कलार्धं च तत्कोटिसमसूत्रके।
श्रोत्रे द्व्यङ्गुलविस्तीर्णे आयामेन द्विगोलके।। 13.26 ।।
द्वियवः कण्ठपरिधिपर्वणी द्वे चतुर्यवे।
मध्यं ताभ्यां तथा विद्धि द्रोणी सार्धाङ्गुला तु वै।। 13.27 ।।
कलार्धेन तु तच्छिद्रं पाशमानं यथारुचि।
अङ्गुलाद्विकलान्तं तु वैषम्यमपि यत्र तत्।। 13.28 ।।
अन्तश्छिद्रैर्विनिर्मुक्तं तद्विज्ञेयं चतुर्यवम्।
सदलंकरणोपेतमेवं श्रोत्रद्वयं स्मृतम्।। 13.29 ।।
चतुष्कलं ललाटं तु शिखरे द्वे द्विगोलके।
उच्छ्रायात् त्र्यङ्गुले चैव ह्यग्रतोऽङ्गुलविस्तृते।। 13.30 ।।
केशभूमेः समुद्भूतं ललाटोपरि संस्थितम्।
कुर्यात् कलार्धमानं तु वक्त्रं चालकसंश्रयम्।। 13.31 ।।
कपोलपरिधिं कुर्यात् कर्णात् कर्णगतं समम्।
तन्मध्ये वर्तुलौ भाण्डौ परिच्छिन्नौ पुरोदितैः।। 13.32 ।।
शिरसः परिणाहं तु विद्धि षट्त्रिंशदङ्गुलम्।
श्रोत्रकोटिद्वयाच्चैव मस्तकस्य यदन्तरम्।। 13.33 ।।
सत्कम्बुसदृशी ग्रीवा मूलमध्याग्रतो हि सा।
परिधेर्द्वदश कला एकविंशाङ्गुलाग्रतः।। 13.34 ।।
अष्टादशाङ्गुला चैव स्वाङ्गात् त्र्यंशेन विस्तृता।
तन्मूलविस्तृतौ स्कन्धौ तुङ्गौ वृत्तायतौ समौ।। 13.35 ।।
षडङ्गुलं तद्बाहुल्यं बाहुमानमथोच्यते।
स्कन्धोत्तमाङ्गं त्रिकलं सन्ध्यन्तं षट्कलं स्मृतम्।। 13.36 ।।
संधेर्वै मणिबन्धान्तं मानं नवकलं स्मृतम्।
मणेर्मध्यमशङ्खान्तो हस्तः सप्ताङ्गुलो मतः।। 13.37 ।।
परिज्ञेयं कलाहीनं तन्मानं मध्यमाङ्गुले।
तच्चतुर्यवहीनां च सा वामा तु प्रदेशिनी।। 13.38 ।।
द्विकला च परिज्ञेया साङ्गुष्ठा तु कनीयसी।
द्विपर्वा च स्मृतोऽङ्गुष्ठः सर्वाश्चाङ्गुलिविस्तृताः।। 13.39 ।।
सर्वासां मूलपर्यन्ताद् ह्रासयेच्च यवं यवम्।
अग्रपर्वार्धमानेन कार्या लिङ्गोपमा नखाः।। 13.40 ।।
मानमङ्गुष्ठमूलस्य परिधेश्च यदङ्गुलम्।
तच्चतुर्यवहीनें च ज्ञेयं त्रिष्वङ्गुलीषु च।। 13.41 ।।
न्यूनाङ्गुले कला सार्धा प्राग्वद् ह्रासश्च वेष्टनात्।
अङ्गुष्ठमङ्गुलं चाग्रात् तिस्रो वा षड् यवा स्मृताः।। 13.42 ।।
अर्धाङ्गुलाग्रतो न्यूना विद्धि मध्यक्रमक्षतम्।
न च लक्षा समं चाग्रात्साङ्गुलद्वितलं करः।। 13.43 ।।
ईषन्निम्नतलं चैव लक्ष्मरेखाविभूषितम्।
शाखामूलावधेः पाणिबाहुल्यं द्वे यवेऽङ्गुलम्।। 13.44 ।।
चतुर्यवाधिकं चैव मणिबन्धावदेर्भवेत्।
मध्ये कलार्धतुल्यं तु तद्बाहुल्यं भवेद् रमे।। 13.45 ।।
मणिबन्धावधेर्बाहुवेष्टनं षट्कलं स्मृतम्।
संधेः सप्तकलं विद्धि साङ्गुलं त्रियवं स्मृतम्।। 13.46 ।।
हीनमर्धाङ्गुलेनैव मूलाद्वै नवगोलकम्।
तथैव संधेरूर्ध्वं तु विस्तारः प्राग्वदत्र च।। 13.47 ।।
अत्रापि पूर्ववद् दृष्ट्वा कार्यान्तस्था क्षिति स्वयम्।
तालं गलावधेस्त्यक्त्वा तन्मानेनान्तरीकृते।। 13.48 ।।
स्तनद्वयं समं कुर्यात् तद्धारा च समांसला।
निम्नं हृद्गोलकार्धेन ऊर्ध्वतो रत्नराड्युतम्।। 13.49 ।।
स्तनाभ्यां त्रिकलौ बाह्यौ त्रियवं स्तनमण्डलम्।
यवोन्नतं तथा चाग्राद् विस्तृतं तेन चूचुकम्।। 13.50 ।।
लोचनं त्रियवं सार्धं कक्षमानमुदाहृतम्।
स्कन्धमानविनिर्मुक्तं षष्ठमं शालयेश्शमम्।। 13.51 ।।
द्रोणीनिकायसदृशमध्यराशेः समांसलम्।
कक्षान्तर्वेष्टनं विद्धि पञ्चतारं सलोचनम्।। 13.52 ।।
विनाङ्गुलद्वयेनैव द्वे ताले द्विगुणीकृते।
यवत्रयसमायुक्ते विद्धि तत्कुक्षिवेष्टनम्।। 13.53 ।।
त्रियवोना कलामानं विज्ञेयं नाभिमण्डलम्।
तन्मानं स्यात् त्रियवोनं तु तं निम्नतं विधीयते।। 13.54 ।।
परिधिर्नाभिमध्ये तु त्रितालः स त्रिलोचनम्।
षड्गोलकं च तन्मानं परिध्यर्धं कटेः स्मृतम्।। 13.55 ।।
करिकुम्भोपमौ पीनौ परितः पञ्चगोलकौ।
स्फिजौ कौपीनराजीव द्व्यङ्गुला मूलतः स्मृता।। 13.56 ।।
परितो द्व्यङ्गुलं मानं मेढ्रं तु त्रिकलं भवेत्।
चतुर्यवं च तत्कोशं वेष्टनं तु षडङ्गुलम्।। 13.57 ।।
द्व्यङ्गुलौ वृषणौ दैर्घ्यान्मूलान्तसमविस्तृतौ।
परितो द्व्यङ्गुलं विद्धि पायुरन्ध्रं सुवर्तुलम्।। 13.58 ।।
ऊरुमानं परिज्ञेयं मध्यभूमेर्नवाङ्गुलम्।
षट्कलं मूलदेशाच्च अग्रान्तं त्रिकलं स्मृतम्।। 13.59 ।।
हीनमेकाङ्गुलेनैव द्विकलं जानुमण्डलम्।
विस्तारेणोन्नतत्वेन चतुर्यवसमं तु तत्।। 13.60 ।।
जङ्घामूले परिज्ञेयं वेष्टनं नवगोलकम्।
द्विसप्ताङ्गुलकं मध्ये सार्धपञ्चकलं ततः।। 13.61 ।।
अत्रापि वेष्टनं विद्धि तृतीयांशेन विस्तृतम्।
मध्यमूलावसानेभ्यो विस्तारमानुगुण्यतः।। 13.62 ।।
भुजाभ्यां मध्यदेशस्य तथाङ्गुलिगणस्य च।
ऊरुयुग्मस्य जङ्घाभ्यामापाद्या द्विपहस्तता।। 13.63 ।।
सतालभङ्गमानं च दैर्घ्यं वै चरणं स्मृतम्।
पार्ष्णिद्विगोलकतते तन्मध्ये साङ्गुले कले।। 13.64 ।।
द्विकलं चाश्रितं चैव बाहुल्येन कला समम्।
पदमङ्गुष्ठनिकटात् त्रियवोनं विदुर्बुधाः।। 13.65 ।।
बाहुलं च कलामानं गुल्फदेशाच्च साङ्गुलम्।
कनीयोऽङ्गुलिमूलाच्च गुल्फान्तं पिण्डिकाङ्गुलम्।। 13.66 ।।
जङ्घावसानदेशाच्च वेष्टनं सप्तलोचनम्।
कलाहीनं तथैवाग्रात् परिणाहो विधीयते।। 13.67 ।।
चरणं विधिना तेन कूर्मपृष्ठसमं भवेत्।
त्र्यङ्गुलेन च तद्दैर्घयमङ्गुष्ठस्य च दीर्घता।। 13.68 ।।
पञ्चाङ्गुलः परिज्ञेयः परिधिस्तत्र वै रमे।
यवद्वयाधिका कार्या तद्दैर्ध्यात्तु प्रदेशिनी।। 13.69 ।।
अङ्गुष्ठायामतुल्याथ कार्या वै पदमध्यगा।
मध्याङ्गुले द्विरष्टांशहीना तदनु या स्थिता।। 13.70 ।।
तद्वत्तदनुगा या च त्रिपर्वास्तास्तु पूर्ववत्।
संयुक्ता नखजालेन कूर्मपृष्ठोपमेन च।। 13.71 ।।
द्विकलं तु यवार्धेनं पादतर्जनिवेष्टनम्।
चतुश्चतुर्यवोनं च तच्छेषाणां प्रकीर्तितम्।। 13.72 ।।
सर्वे समांसलाः सौम्याः समास्त्ववयवाः शुभाः।
दशनं वलिबाह्यस्थे दंष्ट्रो सप्त यवोन्नते।। 13.73 ।।
यवद्वयोन्नतं मानं मध्यदन्तचतुष्टयम्।
तत्पक्षगानां सर्वेषां मानं विद्धि चतुर्यवम्।। 13.74 ।।
द्वियवं द्विजविस्तारमग्रान्मूलाद्यवद्वयम्।
तत्सार्धं मध्यदेशाच्च सर्वे दन्ता निरन्तराः।। 13.75 ।।
लोमप्रदक्षिणावर्तमयुग्जन्मोत्थितं शभम्।
सुनिश्चितं हितं चैतन्मानमव्यभिचारि यत्।। 13.76 ।।
मनोहारित्वमेकत्र रूपलावण्यभूषितम्।
सर्वदा चानयोर्विद्धि अन्योन्यत्वेन संस्थितम्।। 13.77 ।।
सुसौन्दार्यं तु मानस्य क्वचिदाक्रम्य वर्तते।
लावण्यस्य क्वचिन्मानं समाच्छाद्यावतिष्ठते।। 13.78 ।।
यथाभिरूपवान् लोके दरिद्रोऽभ्येति मान्यताम्।
विरूपोऽप्यतिवित्ताढ्यो नारूपो नैव निर्धनः।। 13.79 ।।
एवं द्वयोऽन्वितं बिम्बमनादेयत्वमेति च।
आदेयमेकयुक्तं च नित्यं यस्मान्महामते।। 13.80 ।।
सम्यङ्माने च सौन्दर्ये भक्तानुग्रहकाम्यया।
मन्त्रसंनिधिशक्तिर्वै सफला ह्यवतिष्ठते।। 13.81 ।।
सा सम्यक्प्रतिपन्नस्य बिम्बे दृग्गोचरस्थिते।
अमूर्ता ह्लादयत्याशु ज्ञात्वैवं यत्समाचरेत्।। 13.82 ।।
मानोन्मानप्रमाणानामथ सौन्दर्यसिद्धये।
ऋजोः सुसमपादस्य त्र्यङ्गुलं चरणान्तरम्।। 13.83 ।।
तद्वै विषमपादस्य अग्रात्तालसमं स्मृतम्।
तत्पार्ष्णिद्वयमद्यात्तु परिज्ञेयं द्विगोलकम्।। 13.84 ।।
स्थित्यर्थं ब्रह्मनाड्या वै तथा मार्गद्वयस्य च।
सूत्रेण सुसमे कुर्याद् देहोत्थे दक्षिणोत्तरे।। 13.85 ।।
समपादस्य बिम्बस्य ललाटान्मेढ्रमस्तकम्।
प्रसार्य सूत्रमाच्छाद्य तेन नाभिहृदन्तरम्।। 13.86 ।।
घ्राणाग्रमलकानां च सिद्धिर्यस्तिलकोर्ध्वगः।
एवं विषमपादस्य दक्षाङ्गुष्ठाग्रगां नयेत्।। 13.87 ।।
गात्रसाम्यं समापाद्यं क्षेत्रात् क्षेत्रगतेन वै।
सूत्रेण सर्वबिम्बानां वैषम्यं व्यपवर्तते।। 13.88 ।।
चतुस्त्रिद्व्यश्रपरितः परिशुद्धायतिः शुभा।
अशुभापरिशुद्धा तु व्यत्यया बिम्बनिर्मिता।। 13.89 ।।
ललाटमश्ववक्त्रस्य विस्तारं द्वादशाङ्गुलम्।
अष्टलोचनमायामादग्रतश्चतुरङ्गुलम्।। 13.90 ।।
कलाग्रसुषिरे घ्राणरन्ध्रे भागान्तरीकृते।
अष्टाङ्गुले तु हनुके सृग्विण्यौ द्वेऽथ तत्समे।। 13.91 ।।
मध्यतः श्रोत्रशुक्ती द्वे द्व्यङ्गुले द्विकलोन्नते।
द्व्यङ्गुलं घ्राणवंशं तु तदूर्ध्वं द्विकलं स्मृतम्।। 13.92 ।।
विद्धि वक्त्रविकासं च द्वियवं चाग्रतः क्रमात्।
तमेव हि यवांशेन हन्वन्तं तनुतां नयेत्।। 13.93 ।।
घ्राणवंशस्य पक्षौ द्वौ मध्यनिम्नौ च संहतौ।
यवद्वयेन सार्धेन दृग्घ्राणाभ्यां तु चान्तरे।। 13.94 ।।
अधोदलं तु दृग्द्रोणेः यवनेन कुञ्चितम्।
ललाटं सालकं प्राग्वद् दृङ्मध्यं साङ्गुला कला।। 13.95 ।।
नृसिंहस्य मुखं विद्धि परितश्चाष्टलोचनम्।
तदोष्ठखण्डदेशाच्च कुर्यात्कर्णद्वयोत्थितम्।। 13.96 ।।
तत्कर्णद्वयमानेन ललाटान्तं नयेत् पुनः।
प्रमाणात् प्राक् प्रणीताच्च संरंभाद् घ्राणलक्षणम्।। 13.97 ।।
प्रप्लुतं विकसच्छिद्रं घ्राणवंशान्वितं भवेत्।
तच्छिद्रे पूर्वमानाच्च स्वस्य वै त्रियवाधिकम्।। 13.98 ।।
सगोलमुत्तरङ्गेषु सकलांशं च लोचनम्।
अधरोष्ठं परिज्ञेयं सचतुर्यवमङ्गुलम्।। 13.99 ।।
सार्धं चतुष्कलं वक्त्रं शेषायामो हनोः स्मृतः।
तद्विकासः परिज्ञेयो नेत्रमानं यवाधिकम्।। 13.100 ।।
अग्रतो ह्रासमायाति सृक्विण्यन्तं हि चाङ्गुलम्।
सर्ववृत्तं तदर्धेन नेत्रयुग्मं सविस्मयम्।। 13.101 ।।
पूर्ववद्विस्तृतं श्रोत्रं कलार्धेन तदुन्नतेः।
तुल्यां चन्द्रकलायुग्मयोगस्य भ्रूस्त्रिगोलकम्।। 13.102 ।।
तन्मानं तु कलामानं शङ्खावर्तोपमं महत्।
भागमानं समावृत्तं कार्यं तच्छिरसि स्फुटम्।। 13.103 ।।
वराहस्याननं दैर्घ्यं सार्धतालं विधीयते।
विस्तारेण ललाटाच्च तन्मानं द्व्यङ्गुलान्वितम्।। 13.104 ।।
सौम्यरूपस्य च विभोः प्रोद्यतस्य कलान्वितम्।
तच्चतुर्थांशमानेन पोत्रदेशस्य विस्तृतिः।। 13.105 ।।
तस्योपरिष्टाद् बाहुल्यं तत्समं त्वङ्गुलं त्वधः।
हनुद्वयस्य वै मानं सार्धसप्ताङ्गुलं स्मृतम्।। 13.106 ।।
शेषामानं सरन्ध्रं तु सृग्विणीभ्यां यदन्तरम्।
तद्विकासश्च सार्धेन कलार्धेनाग्रदेशतः।। 13.107 ।।
स एवाङ्गुलमानेन विज्ञेयः सृग्विणीद्वयात्।
घ्राणरन्ध्रश्च वक्त्रोक्ते दंष्ट्रे त्वर्धकलोन्नते।। 13.108 ।।
नासावंशं यथापूर्वं कदलीवाटिपृष्ठवत्।
श्रोत्रे वाजिमुखोक्ते तु कोटेः सप्तकलान्तरे।। 13.109 ।।
तत्तुल्ये लोचने किंतु प्रान्ततीक्ष्णे यवोन्विते।
एतेषां विहिता ग्रीवा ह्यङ्गुलद्वितयेन तु।। 13.110 ।।
प्रत्येकदेशात् संयुक्ता सौम्यमूर्त्युदिता च या।
विनोच्छ्रायेणर्यस्य गात्रस्य या प्रभा।। 13.111 ।।
सा प्रभा वेष्टनाद्भासात् कलार्धेनाधिका भवेत्।
वक्षःकट्युदरं संस्फिक् कलामानाधिकं तु तत्।। 13.112 ।।
तथैव नखपत्राणि देहश्चास्य समांसलः।
संपूर्णे दक्षिणावर्तैर्लोमभिश्चातिकुञ्चितैः।। 13.113 ।।
त्रिचतुःपञ्चवक्त्रस्य विनैवोर्ध्वमुखेन तु।
दक्षिणोत्तरवक्त्राभ्यां ह्रासं कुर्याद् द्विगोलकम्।। 13.114 ।।
विकासः सिंहवक्त्रोक्त उदग्वक्त्रस्य तत्र च।
समो दृक्संनिवेशस्तु चतुर्णां मोक्षसिद्धये।। 13.115 ।।
आरोग्यभोगकैवल्यप्राप्तयेऽर्धाङ्गुलेन तु।
कुर्यात् सव्यापसव्याभ्यामथो दृक्संनिवेशनम्।। 13.116 ।।
सह पूर्वाननेनैव साम्यं प्रत्यङ्मुखस्य च।
निष्क्रासायामविस्तारघ्राणदृग्भ्रूश्रुतिष्वथ।। 13.117 ।।
ईषत्तिर्यक्क्षितिन्यस्तदृङ्मुखं दक्षिणं शुभम्।
तद्वच्च श्रोत्रदृग्वक्त्रमुत्तरं सर्वसिद्धिदम्।। 13.118 ।।
स्वकार्यसूचनान्नूनं तन्मन्त्रस्य च संनिधिः।
अतोऽन्यथा समाश्रित्य शान्तिमास्ते च मन्त्रराट्।। 13.119 ।।
नित्यं तत्संनिधानाच्च भूतवेतालराक्षसाः।
आदर्शनात् पलायन्ते लीयन्ते दर्शनाद्रमे।। 13.120 ।।
आदाय शिरसा मन्त्री समाज्ञां संप्रयान्ति ते।
अतः समाचरेद्यत्नात् येन स्याद् बिम्बसंनिधिः।। 13.121 ।।
न हि तत्संनिधानाद्वै कश्चिदारभते शुभम्।
वराहदंष्ट्रं सिंहाक्षं तथा चिपिटनासिकम्।। 13.122 ।।
विधेयं पश्चिमं वक्त्रं पञ्चवक्त्रस्य वै विभोः।
अस्याधरोत्तरामप्योष्ठाभ्यां समता भवेत्।। 13.123 ।।
विभिन्नताङ्गुलार्धेन ताभ्यां तन्मध्यगा स्फुटा।
कार्या दशनपाली वै मूलमध्याग्रतः समा।। 13.124 ।।
कलार्धेनोल्बणं वृत्तं तद्गण्डद्वितयं ततः।
द्विकलं चाग्रतः श्मश्रुः कला चार्धकला क्रमात्।। 13.125 ।।
संबन्धवेणीः पूर्वोक्तमानने सर्वतो भवेत्।
सिंहसूकरवन्मुख्यवक्त्राणां सौम्यतां नयेत्।। 13.126 ।।
प्रमाणं दृग्गताल्लक्ष्याद्व्यवहारमयात्तु वै।
विकासश्चाश्ववक्त्रोक्तेः सौम्यरूपस्य भूभृतः।। 13.127 ।।
तदाद्योक्तेस्तु नृहरेः प्रागुक्तो यः समाचरेत्।
तथा वक्त्राङ्गभावित्वे विभोः शक्तीश्वरस्य च।। 13.128 ।।
हारनूपुरवस्त्रस्रक्कटकाङ्गदभूषिता।
माल्योपवीतकेयूरमकुटाद्युपशोभिता।। 13.129 ।।
प्रतिमा मन्त्रमूर्तीनां कृता भवति सिद्धिदा।
यत् पुरा पञ्चधा प्रोक्तं वाहनं प्राणदैवतम्।। 13.130 ।।
तस्य बिम्बसमुत्थेन तालेन मुखमण्डलम्।
द्व्यङ्गुलं तु ललाटोक्तं जटाबन्धो द्विलोचनः।। 13.131 ।।
द्व्यङ्गुलेनोन्नतः कर्णमुरः पञ्चकलं स्मृतम्।
अष्टाङ्गुलं तदुदरं कटिः पञ्चाङ्गुलोन्नता।। 13.132 ।।
नवाङ्गुलोन्नतावूरू जानुनी द्व्यङ्गुले स्मृते।
अष्टाङ्गुलोच्छ्रिते जङ्घे द्व्यङ्गुले पदपिण्डके।। 13.133 ।।
स्मृते)
शममेककलाहीनं तद्ग्रीवायां च वेष्टनम्।
बिम्बतुल्या परिज्ञेयो सर्वदा साङ्गविस्तृतिः।। 13.134 ।।
तद्विभागाधिकं विद्धि वेष्टनं ह्युदरस्य च।
परिधिः कटिदेशस्य चतुर्नेत्राधिकस्तु वै।। 13.135 ।।
बिम्बोकसदृशं विद्धि तदूर्वोर्मूलवेष्टनम्।
तदेवं जङ्घामध्यस्य जङ्घान्तस्य तदेव हि।। 13.136 ।।
पादं पञ्चकलायामं चतुरङ्गुलविस्तृतम्।
त्र्यङ्गुलं पार्ष्णिदेशाच्च द्विकलाङ्गुष्ठयोः समा।। 13.137 ।।
विज्ञेयाश्चाङ्घ्रिदेशाच्च यवोनाङ्गुलयः क्रमाः।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम्।। 13.138 ।।
मध्यमाङ्गुलिपर्यन्तं मणिबन्धान्नवाङ्गुलम्।
त्रिकलः परिविस्तारस्तन्नखा निशितोन्नताः।। 13.139 ।।
तद्बाहुर्द्विकलं विद्धि उच्छ्रायेण द्विलोचनम्।
भुजोपभुजयुक्तं यत्तद् द्वितालसमं विदुः।। 13.140 ।।
कलार्धेनाधिकं बिम्बबाह्वोस्तद्बाहुवेष्टनम्।
[बिम्बोष्ठांसाद्विधिर्ह्येवमीरितं पद्मसंभवे।। 13.141 ।।
]
वृत्तवैपुल्यमानेन लोचने पद्मपत्रवत्।
भ्रूयुग्मं नरसिंहोक्तं घ्राणाग्रं शुकचञ्चुवत्।। 13.142 ।।
कलार्धमानं दीर्घं च तद्वंशं गजपृष्ठवत्।
स्वायामदीर्घं तत्पक्षयुगलं कुक्षिदेशतः।। 13.143 ।।
तथैव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद् द्विगुणं तत्पुच्छं शतशाखिकम्।। 13.144 ।।
सपक्षमिममायामं सत्यं त्ववयवान्वितम्।
सर्वेषां विद्धि सामान्यं विशेषाख्यमथो शृणु।। 13.145 ।।
ऊरुद्वयान्नयेद्ह्रासमङ्गुलानां त्रयं तथा।
जङ्घाकाण्डोच्छ्रिते कुर्याज्जङ्घाभ्यां चात्र वेष्टनम्।। 13.146 ।।
बिम्बाख्यमणिबन्धस्य सममूलात् सरोद्भवे।
जालदेशात् तदर्धेन सह चार्धाङ्गुलेन तु।। 13.147 ।।
पादे जालं परिज्ञेयं विस्तारेण षडङ्गुलम्।
शेषं सत्योदितं सर्वं सर्वेषां विद्धि सर्वदा।। 13.148 ।।
किं तु पादान्वितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ।
एषा चोड्डीयमानानां स्वायामा पक्षविस्तृतिः।। 13.149 ।।
पञ्चानां च परिज्ञेयं स्थितानामर्धलक्षणम्।
एतदादाय मानं तु पञ्चभ्रूपक्षवर्जितम्।। 13.150 ।।
विद्धि वामनरूपस्य लक्षणं जलजोद्भवे।
ललाटनासावक्त्रेभ्यः समादायाङ्गुलत्रयम्।। 13.151 ।।
मस्तकस्योपरिष्टात्तु जटाबन्धं प्रकल्पयेत्।
जटाबन्धनमायामं यथा स्यात् पञ्चतालकम्।। 13.152 ।।
Chapter - 14
+++
+++
।। चतुर्दशोऽध्यायः ।।
भगवान्-
कर्मार्चादिविशेषाणां संज्ञाभेदं च लक्षणम्।
उपयोगस्तथैतेषां कथ्यते कमलोद्भवे।। 14.1 ।।
कर्मार्चा चोत्सवार्चा च बल्यर्चा च तथापरे।
स्नानतीर्थोभये स्यातामपरा शयनार्थिका।। 14.2 ।।
पूज्यन्ते यत्र षड्बेरं तां पूजामुत्तमं विदुः।
मध्यमं त्रीणि बिम्बानि चरमं त्वेकपूजनम्।। 14.3 ।।
बहुबेरे विधिरयमे कबेरे तु कथ्यते।
मूलार्चायां पूजनं च स्नपनं च भवेत् सदा।। 14.4 ।।
तस्मात् स्नपनपूजार्थं नेष्यते कौतुकद्वयम्।
ध्रुवबेरसमुच्छ्राये विभक्ते दशधा रमे।। 14.5 ।।
भागद्वयेन कर्मार्चामौत्सवं तु वरानने।
बिम्बमेकादशांशेन दशांशैः शयनं भवेत्।। 14.6 ।।
बलिबिम्बं नवांशे तैर्थबिम्बमथाष्टकम्।
षडंशैः स्नपनं बेरमित्थमुच्छ्रायकल्पनम्।। 14.7 ।।
मूलबेराङ्गुलं यद्वा गृहीत्वा प्रथमं रमे।
कर्मबेरोच्छ्रयं भद्रे षड्विंशाङ्गुलिभिर्भवेत्।। 14.8 ।।
चतुर्विंशाङ्गुलं यद्वा कुर्यादष्टादशाङ्गुलम्।
षोडशाङ्गुलमानं वा द्वादशाष्टाङ्गुलं तु वा।। 14.9 ।।
षडङ्गुलं वा कल्याणि चतुरङ्गुलमेव वा।
पूर्वोक्ताङ्गुलं मानेषु कर्तव्यं बिम्बमुत्तमम्।। 14.10 ।।
बहुबेरे विधिरयं कथितः कमलासने।
एकबेरेऽप्येष एव विधिः कल्प्यो मनीषिभिः।। 14.11 ।।
आसीनं वा शयानं वा यानगं मूलकौतुकम्।
तेषां समं वा कुर्वीत तिष्ठेयुर्वा यथारुचि।। 14.12 ।।
नित्योत्सवार्थ बिम्बस्य सर्वत्रैव स्थितिर्भवेत्।
अर्चायामं त्रिधा कृत्वा पद्ममेकेन कल्पयेत्।। 14.13 ।।
उपानहादिपञ्चाङ्गयुक्तं वृत्तं मनोहरम्।
अथवा चतुरश्रं स्याद् विस्तारं तुलितायति।। 14.14 ।।
तृतीयमानतुलितप्रभा शङ्कुद्वयान्विता।
पीठोत्सेधं त्रिधा कृत्वा पद्ममेकेन कल्पयेत्।। 14.15 ।।
दलैर्द्वादशभिर्युक्तमष्टाभिर्वा भवेद्रमे।
तावदूर्ध्वदलोपेतं मध्ये विपुलकर्णिकम्।। 14.16 ।।
उपच्छदसमायुक्तमीषत्फुल्लाम्बुजाकृति।
पादमानं दलायामं केवलं वा सरोरुहम्।। 14.17 ।।
पीठं वापि यथाकामं सुषिरं नैव कारयेत्।
स्थितस्य कौतुकस्येदं पीठनिर्माणमीरितम्।। 14.18 ।।
आसीनस्यायतं वृत्तं चतुरश्रायतं तु वा।
प्रतिमार्धसमुत्सेधं पद्मवत् परिकल्पयेत्।। 14.19 ।।
तस्य देवस्य सव्याङ्घ्रिमाकुञ्चनमथेतरम्।
पद्मोपरि स्थितं कल्प्यं लम्बमानं पदं हरेः।। 14.20 ।।
श्रीर्दक्षिणे धरा वामे देवस्य परिकल्पयेत्।
कर्मार्चा तु सदा ताभ्यां पार्श्वयोरविना भवेत्।। 14.21 ।।
इतरेषां तु बिम्बानां सहिता रहिता तु वा।
पत्न्यौ प्रभा वाप्येकस्मिन् विष्टरे पृथगेव वा।। 14.22 ।।
देवे स्थिते तथा देव्यावासीनस्यापि ते तथा।
बिम्बे यानाधिरूढे तु कर्तव्या तोरणप्रभा।। 14.23 ।।
द्रावयित्वा मधूच्छिष्टं प्रतिमां तेन कल्पयेत्।
धान्यादिपीठं संकल्प्य चक्राब्जं च ततोपरि।। 14.24 ।।
विलिख्य दर्भशयनं प्रागग्रं परिकल्पयेत्।
वस्त्रं च नूतनं तस्मिन् प्रतिमां शाययेद् गुरुः।। 14.25 ।।
प्राचीनशिरसं पश्चात् जुहुयाज्ज्वलितेऽनले।
पुष्पैः समिद्भिर्लाजैश्च सर्पिषाष्टोत्तरं शतम्।। 14.26 ।।
मूलमन्त्रेण सूक्तैश्च चरुणा च ततः पुनः।
संपाताज्येन संसिच्येत् प्रतिमां तत्त्वपद्धतिम्।। 14.27 ।।
ध्यायेत् तत्र शुभे लग्ने पूजयेन्मूलविद्यया।
यजमानस्ततो वित्तैर्गौभिर्धान्यैर्गुरूत्तमम्।। 14.28 ।।
इतरान् ब्राह्मणश्रेष्ठाञ्छिल्पिनश्चापि तोषयेत्।
स्थपतिः प्रतिमां कुर्यात् रथकाराभ्यनुज्ञया।। 14.29 ।।
मानोन्मानप्रमाणैस्तां प्रतिमां कल्पयेच्छुभाम्।
मृदालेपं ततः कुर्याच्छिल्पशास्त्रानुसारतः।। 14.30 ।।
सुवर्णं रजतं ताम्रं विशुद्धं लोहमुत्तमम्।
आदाय धान्यपीठे तु पूर्ववन्न्यासकल्पनम्।। 14.31 ।।
जुहुयात्पूर्ववच्चैव शास्त्रदृष्टेन वर्त्मना।
द्रावयित्वा ततः शुद्धं लोहं न्यायसमार्जितम्।। 14.32 ।।
प्रतिमां तेन कुर्वीत स्थपतिः शिल्पशास्त्रवित्।
मूलादिप्रतिमा इत्थं शिल्पशास्त्रोक्तवर्त्मना।। 14.33 ।।
कारयित्वा शिल्पिवर्गैर्गर्भगेहादिकाः क्रमात्।
परिवान्कारयित्वा तत्तत्स्थानेषु स्थापयेत्।। 14.34 ।।
Chapter - 15
+++
+++
।। पञ्चदशोऽध्यायः ।।
भगवान्-
पूजार्थं परिवाराणां शोभार्थं मन्दिरस्य च।
[प्रथमावरणाद्येषु कल्पनीया विशेषतः।। 15.1 ।।
]
अर्धमण्डपकद्वारे शङ्खचक्रोत्तमाङ्गिनौ।
दंष्ट्राकरालौ भीमाक्षौ करण्डिमकुटान्वितौ।। 15.2 ।।
दक्षिणोत्तरपार्श्वस्थौ मुनिवेषौ गदाधरौ।
चण्डप्रचण्डौ कर्तव्यौ लोहैर्वा शिलयापि वा।। 15.3 ।।
अन्तर्मण्डलसंज्ञस्य सालस्य द्वारपार्श्वयोः।
जयश्च विजयश्चैव प्रतिष्ठाप्यौ वरानने।। 15.4 ।।
अन्तर्हारस्य पूर्वस्यां द्वारि पद्मगदाधरौ।
खड्गशार्ङ्गधरौ द्वारि दक्षिणस्यां प्रकल्पयेत्।। 15.5 ।।
प्रतीच्यां वज्रमुसलधारिणौ स्थापयेद् गुरुः।
उत्तरस्यां भवेतां तौ पाशाङ्कुशधरौ रमे।। 15.6 ।।
मध्यान्तर्हारसालस्य प्राच्यादिषु यथाक्रमम्।
दिक्षु धातृविधातारौ ततो भद्रसुभद्रकौ।। 15.7 ।।
कृतान्तासुरविध्वंसौ कुबेराक्षकुबेरकौ।
एवमेवेष्यतेऽन्येषां चतुर्दिक्षु च गोपुरे।। 15.8 ।।
प्राच्यादिषु तथा दिक्षु मर्यादा सालगोपुरे।
दुर्जयप्रबलौ स्यातां विश्वभावनपुष्करौ।। 15.9 ।।
संभवः प्रभवश्चैव सुशोभनसुभद्रकौ।
जघन्यावरणद्वारे प्राच्यादिषु च कल्पयेत्।। 15.10 ।।
कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः।। 15.11 ।।
अष्टौ द्वौ द्वौ प्रतिद्वारं कल्पनीया यथाविधि।
विष्णुपारिषदा एते सेनाभिः कोटिभिर्वृताः।। 15.12 ।।
दण्डहस्ता विरूपाक्षा श्चतुर्बाहुसमन्विताः।
प्राङ्कणे प्रथमे वाथ द्वितीये वापि मण्डपे।। 15.13 ।।
अग्रदेशे प्रकुर्वीत मूलार्चाभिमुखं रमे।
प्राञ्जलिं द्विभुजं वीरं करण्डिमकुटान्वितम्।। 15.14 ।।
संस्थापयेद् वैनतेयं लोहेन शिलयापि वा।
वीरलक्ष्मीं नैर्ऋते वा दिक्ष्वन्यासु यथाक्रमम्।। 15.15 ।।
परिकल्प्यालयं तस्मिन् चरस्थिरविभागतः।
पूजने तु हरेः काले प्रत्येकं पूजयेद् गुरुः।। 15.16 ।।
सोमेशानान्तरे देवं विष्वक्सेनं प्रकल्पयेत्।
गोपुरस्य भवेदन्तर्बहित्वा बलिपीठकम्।। 15.17 ।।
बह्वावरणयुक्तस्य परिवाराः पुरोदिताः।
एकावरणयुक्तस्य परिवारानिमान् शृणु।। 15.18 ।।
पार्श्वयोर्गर्भगेहस्य चण्डं चापि प्रचण्डकम्।
पुरतो वैनतेयं च वीरलक्ष्मीं च नैर्ऋते।। 15.19 ।।
ईशाने सेननाथं च कल्पयेत् कमलासने।
एतान् विग्रहरूपेण स्थापयेच्च गुरूत्तमः।। 15.20 ।।
ततः पूजोपकरणं कारयेल्लक्षणान्वितम्।
शब्दब्रह्ममयी घण्टा हस्तोत्सेध समुच्छ्रया।। 15.21 ।।
ब्रह्माण्डगोलकाकारा सौराष्ट्रावयवैः कृता।
अधोमुखी तालमानविस्तारा शोभनाकृतिः।। 15.22 ।।
घण्टादण्डस्तालमानस्तदूर्ध्वे पक्षिभूपतिम्।
चक्रं शङ्खं पङ्कजं वा कल्पयेत् पद्मसंभवे।। 15.23 ।।
पूजादिसर्वकार्येषु सर्वदैवोपयोगिनी।
अर्घ्यादीनां च पात्राणां स्थापनाय मधुद्विषः।। 15.24 ।।
स्थापयेद् देवदेवस्य चतुष्पादसमन्विताम्।
स्वर्णादिलोहजां वापि दारुजां वापि पीठिकाम्।। 15.25 ।।
जलनिर्गमसंयुक्तां हस्तोच्छ्रायादिलक्षणाम्।
पात्राण्यर्घ्यादितीर्थानां स्थापनाय वरानने।। 15.26 ।।
प्रस्थाम्बुपूर्तियोग्यानि ह्यरविन्दाकृतीनि च।
पात्राणि पञ्च तेष्वन्तश्चक्राणि परिकल्पयेत्।। 15.27 ।।
एषां प्रतिग्रहार्थाय पञ्चैकं वापि कल्पयेत्।
अर्घ्यादीनामुद्धरणात् कीर्तितोद्धरणीति सा।। 15.28 ।।
प्रादेशदीर्घा चरमे चक्रं शङ्खाकृतिं न्यसेत्।
अपरान्ते जलाधारं कारयेत् कनकादिभिः।। 15.29 ।।
पात्रं पादावनेजस्य ग्रहणाय रमापतेः।
उन्मत्तकुसुमाकारं पादेन सहितं भवेत्।। 15.30 ।।
धूपपात्रं सरोजाभं पादद्वयसमन्वितम्।
सकोणनालपत्राभ्यां शोभितं स्वर्णनिर्मितम्।। 15.31 ।।
नालदण्डं हस्तमानं त्रिपाद्वापि द्विपादकम्।
प्रोतानां दीपपात्राणां चक्राकारेण शोभिनाम्।। 15.32 ।।
सप्त वा पञ्च वा त्रिर्वा क्रमहीनं तु वै भवेत्।
प्रथमे दीपपात्रे च वर्तिस्थानं शतं भवेत्।। 15.33 ।।
द्वितीयादिषु हीनं स्यादन्ते कुमुदकुड्मलम्।
दीपपात्रमिदं प्रोक्तं स्नानासनमथो शृणु।। 15.34 ।।
हस्तमानायतं दीर्घं त्रिहस्तं चतुरश्रकम्।
पर्यन्ते द्व्यङ्गुलोत्सेधं जलनालेन संयुतम्।। 15.35 ।।
द्विहस्तोन्नतपादं च सिंहव्याघ्रपदं तु वा।
स्वर्णादिलोहजैर्वापि कल्पयेन्मध्यपङ्गजम्।। 15.36 ।।
स्नानपात्राणइ सर्वाणि लोहैः स्वर्णादिभी रमे।
शङ्खचक्राकृती पात्रे मध्ये द्वारं शतं भवेत्।। 15.37 ।।
सहस्रधारमपरं वर्तुलं हेमनिर्मितम्।
अरत्निमात्रविस्तारं मध्ये पद्मसमन्वितम्।। 15.38 ।।
दलेषु कर्णिकायां च सहस्रं सुषिरं भवेत्।
सपर्याविष्टरं लक्ष्मीः शृणु हस्तमथोन्नतम्।। 15.39 ।।
अरत्निमात्रविस्तारं स्वर्णैरन्यैश्च कल्पनम्।
चतुरश्रं मध्यक्लृप्तं सरोरुहसमन्वितम्।। 15.40 ।।
व्याघ्रपादसमैः पादैश्चतुर्भिश्च समन्वितम्।
इत्थं भोज्यासनं सुभ्रु पादहीनं परं भवेत्।। 15.41 ।।
नैवेद्यार्थानि पात्राणि सौवर्मरजतानि च।
हविर्द्रव्यप्रमाणानि वृत्तानि परिकल्पयेत्।। 15.42 ।।
कल्पयेन्नागलतिकादलपात्रं हिरण्मयम्।
अरत्निमात्रविस्तारं वर्तुलं नालदण्डवत्।। 15.43 ।।
पीठं तदर्धविस्तारं चित्रैश्च समलंकृतम्।
बलिपात्रं चतुस्तालं हेमादिद्रव्यनिर्मितम्।। 15.44 ।।
वृत्तं प्रकल्पयेद्धीमान् यथेच्छं छदसंयुतम्।
नीराजनक्रियापात्रं हेमादिद्रव्यनिर्मितम्।। 15.45 ।।
द्वितालमेकतालं वा वृत्तं मध्यसरोरुहम्।
मूलबेरस्य पुरतः शयानस्य स्थितस्य वा।। 15.46 ।।
मूलबिम्बोन्नतिः कार्या स्वर्णेन रजतेन वा।
अथवा पैत्तलाभिःस्युरयोभिर्न तु कारयेत्।। 15.47 ।।
चतस्रो दीपिका मुख्या द्वे वा वित्तानुसारतः।
घृतधारणपात्राणि भवेयुस्त्रीणि पञ्च वा।। 15.48 ।।
अन्ते तु शङ्खं चक्रं वा स्थापयेत् पक्षिपार्थिवम्।
मुक्तातपत्रं धवलं स्वर्णादिभिरलंकृतम्।। 15.49 ।।
शुद्धस्वर्णेन वा कुर्याद्रजतेनाथवा रमे।
स्वर्णदण्डं राजतं वा रत्नजालसमन्वितम्।। 15.50 ।।
छत्रमेवंविधं कुर्यात् चामराणि च कल्पयेत्।
चत्वारि कनकाद्यैश्च कृतदण्डानि वै रमे।। 15.51 ।।
व्यजनानि विचित्राणि उशीरैः शिखिपिञ्छकैः।
अलंकृतैश्च रत्नाद्यैश्चत्वारि परिकल्पयेत्।। 15.52 ।।
कङ्कतं कनकं रूप्यमष्टाङ्गुलमथायतम्।
षडङ्गुलं स्याद्विस्तारं दन्तैर्विंशतिभिर्युतम्।। 15.53 ।।
यद्वा षोडशदन्ताः स्युः कल्पनीया वरानने।
सौवर्णमञ्जनक्षोदभाजनं वृश्चिकाकृतिः।। 15.54 ।।
सिंहहंसाकृतिर्यद्वा मृगाकृति भवेद् रमे।
उदरे मस्तके यद्वा बिलं तस्य प्रकल्पयेत्।। 15.55 ।।
दर्पणं प्रतिमामानं तदर्धं वा सुशोभनम्।
वृत्तं वा चतुरश्रं वा कांस्यं रत्नैरलंकृतम्।। 15.56 ।।
पानीयपात्रं सौवर्णमाठकाम्बुप्रपूरकम्।
तालोन्नतं स्याद् विस्तारं वृत्तं पञ्चाङ्गुलं भवेत्।। 15.57 ।।
द्व्यङ्गुलं तस्य वै कल्प्यं पादमेकाङ्गुलं भवेत्।
यात्रासनं च विस्तीर्णं समायामं द्विहस्तकम्।। 15.58 ।।
द्विगुणं वायतं तस्य तालं पादं प्रकल्पयेत्।
परितश्चोन्नतं बालं तालमानसमन्वितम्।। 15.59 ।।
दशावतारलिखितं रत्नैश्चापि विचित्रितम्।
आसनानि यथोक्तानि सुवर्णविकृतानि वा।। 15.60 ।।
दारुजानि यथालाभमर्चानुगुणविस्तरम्।
पादुके देवदेवस्य कल्पयेत् कनकादिभिः।। 15.61 ।।
पीठं तयोः स्वर्णमयं विकसत्पङ्कजाकृति।
कर्णिकायां स्थापयेत्ते पादुके पङ्कजस्य तु।। 15.62 ।।
यात्रासनं रथं चैव गजमश्वं विनायकम्।
स्वर्णैर्वा कल्पयेद्यानमन्यद्वापि मनोहरम्।। 15.63 ।।
शिबिकां रत्नविकृतां सोपच्छदसमन्विताम्।
सितासितारुणामिश्रदुकूलपरिकल्पितान्।। 15.64 ।।
ध्वजान् कार्तस्वरैर्दण्डैस्तत्र तत्रापि कल्पयेत्।
जलद्रोणीं कटाहं च हेमादिद्रव्यनिर्मितम्।। 15.65 ।।
अगाधमभिषेकार्थं देवस्य परिकल्पयेत्।
नानाविधानि वाद्यानि तूर्यशङ्खयुतानि च।। 15.66 ।।
Chapter - 16
+++
+++
।। षोडशोऽध्यायः ।।
[श्री]भगवान्-
यजमानो हरेरित्थं सर्वलक्षणलक्षितम्।
भुवः परीक्षाप्रभृतिमूलमूर्त्यादिभिर्युतम्।। 16.1 ।।
आलयं तत्समालोक्य प्रतिष्ठां कर्तुमुद्यतः।
आचार्यं वरयेत् पूर्वं पाञ्चरात्रोक्तलक्षणम्।। 16.2 ।।
तल्लक्षणं प्रवक्ष्यामि पद्ममालाविराजिते।
चतुर्वेदविदो विप्रान् प्राहुः श्रोत्रियसंज्ञितान्।। 16.3 ।।
दशश्रोत्रियतुल्यांस्तु पाञ्चरात्रविदोऽर्चकान्।
पाञ्चरात्रांश्च वेदांश्च वेत्ति सः पूर्णसंज्ञिकः।। 16.4 ।।
योऽधीते वेदवेदाङ्गं पाञ्चरात्रमपि द्विजः।
अध्यापयति शिष्यांस्तु पाञ्चरात्रमपि श्रुतीः।। 16.5 ।।
दशपूर्णसमः सोऽयं दीक्षितो गुरुरुच्यते।
दीक्षितस्य कुले जातो भट्टाचार्येण दीक्षितः।। 16.6 ।।
गुरोर्मुखात् त्रयीं विद्यामर्थवत्पाञ्चरात्रकम्।
प्राप्तः शमदमोपेतः स तु भट्टारको भवेत्।। 16.7 ।।
दशभट्टारकसमो वेदवेदाङ्गपारगः।
वेदान्तार्थप्रवीणश्च पाञ्चरात्रार्थतत्त्ववित्।। 16.8 ।।
परंपरादीक्षितस्य कुले जातः समाधिमान्।
दीक्षामुभयतः प्राप्तः पञ्चकालक्रियापरः।। 16.9 ।।
योगशास्त्रप्रवीणश्च ज्ञानवान् मोक्षचिन्तकः।
भुवः परिग्रहाद्यावत् प्रतिष्ठान्तं च या क्रिया।। 16.10 ।।
असहायेन तां कर्तुं शक्तो मध्यो न रोगवान्।
स्वतन्त्रो वृद्धसेवी च रूपवानपि चास्तिकः।। 16.11 ।।
परैरनिन्दितश्चैव कीर्तिमान् विजितेन्द्रियः।
मानसाराधने दक्षो मन्त्रसास्त्रविचक्षणः।। 16.12 ।।
सिद्धमन्त्रः सर्वदर्शी भट्टाचार्यः स उच्यते।
श्रीरुवाच-
चक्राब्जमण्डले दीक्षामकरोद्यस्य वै गुरुः।। 16.13 ।।
अभिषेकः कृतो यस्य पूर्वोक्तैश्च गुणैर्युतः।
कर्षणादिप्रतिष्ठान्तं विशेषयजनादिकम्।। 16.14 ।।
स एव कुर्यादितरस्तत्साधनपरो भवेत्।
परदीक्षाविहीनो यः साधयेत् कर्षणादिकम्।। 16.15 ।।
कृतं निरर्थकं कर्म पुनरन्येन कारयेत्।
इति प्रोक्तं त्वया नाथ दीक्षा सा कीदृशी मता।। 16.16 ।।
चक्राब्जमण्डलं किं वा ह्यभिषेकः कथं तु वा।
मह्यं जिज्ञासमानायै वद त्वं पुरुषोत्तम।। 16.17 ।।
भगवान्-
दीक्षास्वरूपं प्रथमं वदामि कमलालये।
ईक्षते कर्मणा येन तद्विष्णोः परमं पदम्।। 16.18 ।।
द्यति संसारमखिलं तेन दीक्षेति भण्यते।
एषा दीक्षा विरक्तेन कर्तव्या न तु कर्मिभिः।। 16.19 ।।
यथैव कर्मकाण्डेषु दीक्षोक्ता यागसिद्धये।
तथैवैकायने वेदे पूजायागादिसिद्धये।। 16.20 ।।
दीक्षायाः श्रेष्ठतां कर्तुं विभज्यात्मानमब्जजे।
प्रथमं शब्दरूपेण वृत्तिरूपमतः परम्।। 16.21 ।।
अर्थरूपं तृतीयं तु तथैवाचार्यरूपिणम्।
दीक्षारूपं पञ्चमं तु प्रविश्य च यथाक्रमम्।। 16.22 ।।
मया कृतो यस्य दीक्षा सोऽहमेव न संशयः।
दीक्षा सा त्रिविधा प्रोक्ता स्थूला सूक्ष्मा परा तथा।। 16.23 ।।
पुनर्दीक्षाविभेदेन त्रिधा सापि चतुर्विधा।
समयी पुत्रकश्चैव तृतीयः साधकः स्मृतः।। 16.24 ।।
आचार्यश्चेति विज्ञेयाश्चत्वारोऽपि च दीक्षिताः।
धर्मशास्त्रोक्तधर्माणामनुतिष्ठन् हरेः प्रियम्।। 16.25 ।।
प्रत्यहं पूजनं कुर्यां पञ्चसंस्कारसंस्कृतः।
इति निश्चित्य यः पूजां प्रत्यहं कुरुते रमे।। 16.26 ।।
समयी तस्य सा दीक्षा मानसी परिकीर्तिता।
वैष्णवानां हि सर्वेषां योग्या सा गृहपूजने।। 16.27 ।।
एषा स्थूलेति विज्ञेया शास्त्रेषु परिकीर्तिता।
अन्यगोत्रसमुत्पन्नं दीक्षयत्यभिमानतः।। 16.28 ।।
पाञ्चरात्रप्रतिष्ठादौ ज्ञानं यस्य न विद्यते।
उभयोरपि या दीक्षा क्रियते दीक्षितोत्तमैः।। 16.29 ।।
सैषा सूक्ष्मा मध्यमेति कीर्त्यते वेदवित्तमैः।
एतयोर्नाभिषेकः स्याद् दीक्षामात्रं भवेद्रमे।। 16.30 ।।
आचार्यसाधकौ स्यातामुत्सवादिषु वल्लभे।
आचार्यदीक्षा द्विविधा निर्बीजा च सबीजका।। 16.31 ।।
तन्त्रान्तरे त्वागमे च सिद्धान्ते तन्त्रसंज्ञिके।
तेषु पूजाप्रवृत्तानां दीक्षा निर्बीजसंज्ञिका।। 16.32 ।।
अन्येषां दीक्षाकरणे तेषामनधिकारिता।
अतो निर्बीज इत्युक्ता विद्वद्भिः कमलेक्षणे।। 16.33 ।।
सबीजं मन्त्रसिद्धान्तदीक्षाक्रममुदीर्यते।
चतुर्वेदोक्तमन्त्रैश्च मन्त्रैरेकायनीस्थितैः।। 16.34 ।।
मन्त्रसिद्धान्तविधिना मदुक्तेन च गोत्रिणा।
वृद्धेनाचार्यरूपेण दीक्षितो यः पुरा मया।। 16.35 ।।
या दीक्षा क्रियते तेन सा दीक्षा तु परा स्मृता।
दीक्षां परां तु प्राप्यैव पूजयेदालयेषु वै।। 16.36 ।।
आचार्यः प्रथमं देवि कर्मानुष्ठानतत्परम्।
भगवद्भक्तिसंयुक्तं विरक्तं श्रद्धयान्वितम्।। 16.37 ।।
त्रय्यादिषु कृतप्रज्ञं प्रायश्चित्तैश्च शोधितम्।
शिष्यं सर्वगुणोपेतं वीक्ष्याचार्यस्तु संमतम्।। 16.38 ।।
दीक्षानिर्त्तये पूर्वं कल्पयेद् यागमण्डपम्।
मध्यवेदिं प्रतीच्यां तु तालद्वयसमन्वितम्।। 16.39 ।।
चतुरश्रं ब्राह्मणानां वृत्तं कुण्डं तु भूपतेः।
वैश्यस चापकुण्डं स्याच्छूद्रजातेस्त्रिकोणकम्।। 16.40 ।।
संभारानपि संभृत्य दीक्षार्थं कृतपूर्वकान्।
मण्डपादीनि सर्वाणि शोधयेत् प्रथमं रमे।। 16.41 ।।
ततः पुण्याहसलिलैः पञ्चगव्यैः समन्त्रकैः।
इत्थं संशोध्य विधिवदङ्कुरानर्पयेत् पुरा।। 16.42 ।।
एकादशितिथौ प्राप्ते कुम्भानामधिवासनम्।
कृत्वा ततो घटान् सूत्रैः सर्वतः परिवेष्टितान्।। 16.43 ।।
स्रक्चन्दनैरक्षतैश्च भूषितान् वस्त्रवेष्टितान्।
आम्राङ्कुरैर्नालिकेरफलैः कूर्चैरलंकृतान्।। 16.44 ।।
अस्त्रेण शतवारं तु करकस्थं जलं जपेत्।
तज्जलेन च संभारान् यागमण्डपमेव च।। 16.45 ।।
आत्मानं शिष्यवर्गं च पुण्याहसलिलैरपि।
संप्रोक्ष्य च ततो वेदिं द्विहस्तोच्छ्रायविस्तृताम्।। 16.46 ।।
चतुरस्रां तु निर्माय तामपि प्रोक्षयेत् पुरा।
चक्राब्जमण्डलं तस्यां द्वादशच्छदशोभितम्।। 16.47 ।।
मध्ये कर्णिकया युक्तं वर्णभेदैरलंकृतम्।
विलिख्य तस्य चेशाने पार्श्वे वेदिं प्रकल्प्य च।। 16.48 ।।
तस्यां धान्यादिपीठं च चक्रवत्परिकल्पयेत्।
चक्राब्जमण्डलं तस्मिन् विलिख्य दलसंयुतम्।। 16.49 ।।
कर्णिकायां मुख्यकुम्भं परितो द्वादशान् घटान्।
उत्तरे करकं न्यस्य गन्धोदैः पूरयेद् घटान्।। 16.50 ।।
घटेषु तेषु प्रतिमास्तत्तन्मूर्तिविलेखिताः।
निक्षिपेत् परितोऽप्यष्टौ मङ्गलान् स्थापयेद्गुरुः।। 16.51 ।।
द्वारतोरणकुम्भांश्च पूजयेच्च यथाक्रमम्।
वासुदेवं चक्रमध्ये परितः केशवादिकान्।। 16.52 ।।
तथा घटेषु चावाह्य पूजयेत् कमलेक्षणे।
मथित्वाष्टाक्षरेणाग्निं कुण्डे तं विनिवेशयेत्।। 16.53 ।।
श्रपयित्वा चरुं तस्मिन् चतुर्धा विभजेत् पुरा।
कुम्भमण्डलवह्निस्थान् त्रिभिर्भागैस्तु पूजयेत्।। 16.54 ।।
भागमेकं स्वयं देवि प्राशयेद् गुरु सत्तमः।
मूलमन्त्रं समुच्चार्य समिधाष्टोत्तरं शतम्।। 16.55 ।।
आज्याहुतिं च तावद्भिर्नृसूक्तेन च षोडश।
आहुतीश्चरुणा हुत्वा पूर्णाहुतिमथाचरेत्।। 16.56 ।।
ततः शिष्यं स्नातशुद्धं शुचिं वस्त्रैरलंकृतम्।
पत्नीसमेतमथवा कन्यां वा ब्रह्मचरिणम्।। 16.57 ।।
आहूय तेषां नेत्राणि वासोभिर्नूतनै रमे।
नेत्रमन्त्रं जपन् बध्वा स्वस्य पार्श्वे तु दक्षिणे।। 16.58 ।।
निवेशितैश्च तैः स्पृष्टो दर्भपुञ्जैर्गुरूत्तमः।
आज्येन समिधा चैव चरुपुष्पैस्तिलैस्तथा।। 16.59 ।।
पुण्डरीकाक्षमन्त्रेण प्रत्येकं द्वादशाहुतीः।
हुत्वा तु मूलमन्त्रेण कुण्डाग्नेर्भस्मना रमे।। 16.60 ।।
शिष्यमूर्ध्नि समालभ्य दोःसु प्रतिसरं ततः।
अस्त्रमंत्रशतं जप्त्वा वध्नीयात् क्षीरसंभवे।। 16.61 ।।
प्राशयेत् पञ्चगव्यं च चरुं चापि यथाक्रमम्।
[शिष्यः पीत्वा पञ्चगव्यं प्रणवेन चरुं ततः।। 16.62 ।।
]
धावयेद् दन्तकाष्ठेन दन्तान् वै गुर्वनुज्ञया।
शिष्येण भूमौ निक्षिप्तं दन्तकाष्ठं रमे यदि।। 16.63 ।।
दक्षिणाभिमुखं वापि पश्चिमाभिमुखं पतेत्।
अशुभं तद्विजानीयात् तद्दोषस्य प्रशान्तये।। 16.64 ।।
नारसिंहेन मन्त्रेण घृतेन जुहुयाच्छतम्।
पूर्वं गण्डूषितं शिष्यमाचान्तं देवसंनिधिम्।। 16.65 ।।
नीत्वा संप्रार्थयेद्देवमिमां गाथामुदीरयन्।
संसारपाशबद्धानां नृपशूनां विमोक्षणे।। 16.66 ।।
त्वमेव शरणं देव गतिरन्या न विद्यते।
पाशमोक्षणहेतुर्यस्त्वत्समाराधनात्मकः।। 16.67 ।।
दीक्षादिकर्मणैतान्वै कृत्वा पूजाधिकारिणः।
विपाशयामि देवेश तदनुज्ञातुमर्हसि।। 16.68 ।।
इति विज्ञाप्य देवेशं माया सूत्रैस्तु बन्धयेत्।
सितरक्तासितैः सूत्रैस्त्रिगुणैस्त्रिगुणात्मकैः।। 16.69 ।।
षड्विंशत्तत्त्वसंख्यैश्च ग्रन्थियुक्तैर्गुरुः स्वयम्।
शिष्यगात्रं ललाटादिपादान्तं तत्त्वसंख्यया।। 16.70 ।।
पूर्ववत् स्थापयित्वा तानात्मनो दक्षिणे स्थले।
मूलमन्त्रेण जुहुयात् सर्पिषाष्टोत्तरं शतम्।। 16.71 ।।
ततो माषोदनेनैव द्वार्षु गाथामिमां पठन्।
ये विष्णुयायिनो भूता ये तु ताननुयायिनः।। 16.72 ।।
गृह्णन्तु बलिमेतेषां प्रयच्छन्तु शुभं मम।
इति तेभ्यो बलिं दत्वा पादौ प्रक्षाल्य चाचयेत्।। 16.73 ।।
ततः शिष्यशरीरेभ्यो मायासूत्रं च नेत्रयोः।
वस्त्रमोक्षं च कृत्वाथ मायासूत्राणि देशिकः।। 16.74 ।।
शरावे तानि निक्षिप्य शरावेण पिधाय च।
कुम्भपार्श्वे निधायैतं सांध्यं कर्म समाचरेत्।। 16.75 ।।
भगवन्तं समाराध्य मण्डपे दर्भसंस्तरे।
संवेशयेच्च तान् शिष्यान् सुस्वप्नप्राप्तये गुरुः।। 16.76 ।।
नेत्रे तस्याग्निमन्त्रेण स्पृष्ट्वाग्नौ जुहुयाद्रमे।
स्वप्नाधिपतिमन्त्रेण सर्पिषा षोडशाहुतीः।। 16.77 ।।
जागरेणैव तां रात्रिं गुरुरन्यैश्च दीक्षितैः।
वैष्णवीश्च कथाः कुर्याच्छिष्यक्षेममनुस्मरन्।। 16.78 ।।
स्नात्वा प्रभाते नैयत्यं कर्म कृत्वा यथाविधि।
मण्डपं तु समासाद्य शिष्यान् स्नातान् गुरूत्तमः।। 16.79 ।।
पृच्छेत् स्वप्नं सुपूर्वं चेद् दीक्षयेच्च यताक्रमम्।
दुःश्वप्नं चेच्छान्तिहोमं कृत्वा दीक्षेत वै ततः।। 16.80 ।।
ध्वजतोरणकुम्भांश्च मण्डलं चापि पूजयेत्।
भगवन्तं च संपूज्य गुडान्नादि निवेदयेत्।। 16.81 ।।
नित्यकर्मकृतः शिष्यान् पुनर्नेत्रे च बन्धयेत्।
पूर्ववद् दक्षिणे पार्श्वे निवेश्य च यथाक्रमम्।। 16.82 ।।
पूर्ववद् समिदन्नाद्यैर्मूलमन्त्रेण देशिकः।
प्रत्येकमष्टोत्तरशतं जुहुयात् पद्ममालिनि।। 16.83 ।।
मायासूत्रं ततश्छित्वा शिष्यतत्त्वमनुस्मरन्।
पृथिव्यां ईश्वरान्तं च पुरा संहारवर्त्मना।। 16.84 ।।
प्रत्येकमष्टोत्तरशतं साज्यमष्टाक्षरेण वै।
अष्टाविंशतिसंख्या वाप्यष्टौ वा जुहुयात्ततः।। 16.85 ।।
स्वमानसे परं ध्यात्वा नारायणमनामयम्।
तस्मिन् शिष्यस्य जीवं तु संहरेद् गुरुरात्मवान्।। 16.86 ।।
कुर्यात् ततः सिष्यदेहं शोषणादिविशोधनम्।
स्मरेत्ततोऽण्डं तद्देहे प्रकृत्यादिक्रमात् सृजेत्।। 16.87 ।।
ललाटे चेश्वरं ध्यायन् जिद्रूपं सर्वतोमुखम्।
स्वबीजेन स्थितं देवं जुहुयात् तत्त्वसंख्यया।। 16.88 ।।
तदधस्ताल्ललाटभ्रूमध्ययोर्भास्करप्रभम्।
स्वबीजेन स्थितं ध्यायन् जुहुयात् जीवसंज्ञितम्।। 16.89 ।।
सिन्दूरबिन्दुसंकाशं प्रकृतिं भ्रूयुगे स्मरन्।
तालुमूले स्थितां बुद्धिं पूर्णेन्दुसदृशप्रभाम्।। 16.90 ।।
तालुमध्ये त्वहंकारं रक्तपुष्पोपमं स्मरन्।
तालुकर्णान्तरे ध्यायेन्मनो राजोपलद्युति।। 16.91 ।।
कदम्बकुसुमोपमम्। Sl. 164c,d.)
हृत्कण्ठपद्मयोर्मध्ये विभक्ते पञ्चधा रमे।
प्रस्फुरत्तारकाकारान् श्रोत्रादीन् पञ्च चिन्तयन्।। 16.92 ।।
हृन्नाभ्योः पञ्चधा मध्ये वागादीनि स्मरन् रमे।
स्मरन् शब्दादितन्मात्रं नाभिवस्त्यश्रमध्यतः।। 16.93 ।।
स्थानाच्च नाभ्यन्तं प्राग्वत्पञ्चदशान्तरे।
वागादीन्वै स्थितान् पञ्चबीजैः स्वैः पूर्ववत्स्मरेत्।। 16.Sl.167a,b,c,d.
आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्जके। Sl.168c,d.
शब्दतन्मात्रपूर्वाणि गन्धतन्मात्रावसानतः। Sl.169a,b.)
ऊर्वोराचरणद्वन्द्वात् स्थूलभूतानि संस्मरन्।
सृष्ट्वा स्थूलशरीरं तमण्डभेदं विचिन्तयेत्।। 16.94 ।।
ततः स्वमानसाज्जीवं तस्मिन् संक्रमयेत् गुरुः।
पुण्याहसलिलैः प्रोक्ष्य शिष्याणां नेत्रबन्धनम्।। 16.95 ।।
मोक्षयेत् परिधायान्यं वासः प्रक्षालयेत् पदः।
आचामयित्वा तु पुनर्नेत्रबन्धं च कल्पयेत्।। 16.96 ।।
पूर्ववद् दक्षिणे पार्श्वे शिष्यान् संस्थाप्य देशिकः।
कालाध्वा च पदाध्वा च भुवनाध्वा तथैव च।। 16.97 ।।
तत्त्वाध्वा वर्णमन्त्राध्वा षडध्वानः प्रकीर्तिताः।
क्रमेणैषां चतुर्वारं हुत्वा देशिकसत्तमः।। 16.98 ।।
संपाताज्यं शिष्यमूर्ध्नि न्यसेद्धोमावसानतः।
महाव्याहृतिमन्त्रेण घृतेन जुहुयात्ततः।। 16.99 ।।
प्रथमोक्तेन मन्त्रेण तिलाज्याभ्यां पुरा हुनेत्।
पादावारभ्य चोर्वन्तं संपातेन स्पृशेद्गुरुः।। 16.100 ।।
ततो नाभिं स्पृशेद्भूयः पद्मेन जुहुयात् रमे।
चरुणाज्येन जुहुयादुरःस्पर्शन् ततः शिरः।। 16.101 ।।
आज्येन जुहुयान्मन्त्री संपाताज्येन वै स्पृशेत्।
मूलेन च ततो हुत्वा पृथगष्टोत्तरं शतम्।। 16.102 ।।
होमान्ते च ततः शिष्यं गृहीत्वा दक्षिणे करे।
नीत्वा प्रदक्षिणं कुम्भं वह्निमण्डलमेव च।। 16.103 ।।
शिष्याणामञ्जलौ रत्नान्यथवा कुसुमोत्करान्।
पूरयित्वा ततः शिष्यान् नयेच्चक्राब्जमण्डलम्।। 16.104 ।।
पुष्पाञ्जलिं मण्डलेऽस्मिन् विकिरंत्विति चोदयेत्।
विकिरेयुर्हरिं ध्यात्वा शिष्याः पुष्पाञ्जलिं रमे।। 16.105 ।।
रेत्तस्मिन् मण्डले गुरुचोदितः।)
यस्मिन् दले निपनति यस्य हस्तात् सुमोच्चयः।
तद्दलाधिपतेर्नाम तच्छिष्यस्य निदर्शयेत्।। 16.106 ।।
नेत्रवस्त्रं समुद्वास्य वासुदेवादिसंमितम्।
मण्डलं दर्शयित्वाथ नयेत् कुण्डसमीपतः।। 16.107 ।।
हस्ते चक्रं च शङ्खं च लिखित्वा गुरुसत्तमः।
आ पादान्मौलिपर्यन्तं तन्मन्त्रेणैव च स्पृशेत्।। 16.108 ।।
ततः शिष्यस्य संस्कारान् कुर्यात् पञ्च यथाक्रमम्।
तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः।। 16.109 ।।
तेषु तापविधानं तु शृणुष्व कमलेक्षणे।
देशिकः सह शिष्येण वैष्णवानामनुज्ञया।। 16.110 ।।
कुण्डस्य पश्चिमे भागे प्राङ्मुखश्चोपविश्य सः।
ततश्चक्रं च शङ्खं च तत्तन्मन्त्रैः प्रतिष्ठितम्।। 16.111 ।।
स्वदीक्षावसरे स्वस्य दत्तौ स्वगुरुणा रमे।
अष्टाक्षरेण मन्त्रेण गायत्र्या विष्णुपूर्वया।। 16.112 ।।
तद्विष्णोरिति मन्त्रेण शतमष्टोत्तरं घृतैः।
जुहुयाच्च ततो वह्नौ पीठं संकल्प्य देशिकः।। 16.113 ।।
ध्यात्वा तस्मिंश्चक्रशङ्खौ क्रमादर्घ्यादिकान् यजेत्।
मन्त्राभ्यां शङ्खचक्राभ्यां पवित्रं तेति मन्त्रतः।। 16.114 ।।
प्र ते विष्णो ऋचा चापि शतमष्टोत्तरं तु वा।
अष्टाविंशतिवारान् वा घृतेन जुहुयाद् रमे।। 16.115 ।।
सूक्तेन पौरुषेणापि चरुणा षोडशाहुतीः।
ततश्चक्रं च शङ्खं च तापयित्वा यथाक्रमम्।। 16.116 ।।
भगवन्तं पुरा ध्यात्वा ततो गुरुपरंपराम्।
ततश्चक्रं च शङ्खं च तन्मन्त्राभ्यां च तापयेत्।। 16.117 ।।
चक्रं गृहीत्वा प्रथमं मन्त्रमेतमुदीरयन्।
सुदर्शन महाज्वाल सर्वपापनिवर्तक।। 16.118 ।।
पुनीहि भगवन्नेतं हरेः पूजार्थमुद्यतम्।
इति मन्त्रेण संप्रार्थ्य शिष्यवामेतरे करे।। 16.119 ।।
अङ्कयेच्चक्रराजेन ह्यूर्ध्वभागे गुरूत्तमः।
ततो वामेऽपि शङ्खेन ह्यङ्कयेन्मन्त्रमुच्चरन्।। 16.120 ।।
पाञ्चजन्य हरिध्मात दैत्यराक्षसमर्दन।
तव ध्वानेन चैनं त्वं निष्पापं कर्तुमर्हसि।। 16.121 ।।
ततश्चक्रं च शङ्खं च पयसाप्यभिषेचयेत्।
गुडान्नादीनि भक्ष्याणि भोज्यानि विनिवेदयेत्।। 16.122 ।।
ततस्तु मूलमन्त्रेण हुत्वा पूर्णाहुतिं गुरुः।
शिष्यस्य चोर्ध्वपुण्ड्राणि मृत्स्नया श्वेतपूर्वया।। 16.123 ।।
ललाटादिद्वादशसु कुर्यादङ्गेषु मन्त्रवित्।
वामहस्ते जलं पूर्वं निक्षिपेत् प्रणवेन तु।। 16.124 ।।
गन्धद्वारेति मन्त्रेण निघर्षेन्मृदमुत्तमाम्।
जलेन लोलयित्वा तां दिग्बन्धनमथाचरेत्।। 16.125 ।।
मूलमन्त्रेणाभिमन्त्र्य नारसिंहं लिखेन्मनुम्।
वाञ्छितार्थप्रदायिन्या त्वङ्गुल्या नामहीनया।। 16.126 ।।
FM
इतरैर्वाप्यङ्गुलीभिर्ललाटादिषु धारयेत्।
ऊर्ध्वपुण्ड्रमृजुं रम्यं हरेः पादद्वयाकृति।। 16.127 ।।
सान्तरालं सुपार्श्वं च द्व्यङ्गुलं त्र्यङ्गुलं तु वा।
विस्तीर्णमथ चायामं चतुरङ्गुलसंमितम्।। 16.128 ।।
ललाटे धारयेत् पूर्वं कुक्षावष्टाङ्गुलायतम्।
उरस्यपि तथा कुर्यात् कण्ठे तु चतुरङ्गुलम्।। 16.129 ।।
कुक्षौ दक्षिणभागे च बाहौ सव्येतरे तथा।
पुण्ड्रमष्टाङ्गुलायामं कण्ठे दक्षिणतो रमे।। 16.130 ।।
चतुरङ्गुलमायामं वामकुक्षौ तु चाष्टकम्।
वामे बाहौ पुण्ड्रदीर्घमष्टाङ्गुलमुदाहृतम्।। 16.131 ।।
आयामं वामकण्ठे च तत्पृष्ठे चतुरङ्गुलम्।
पूर्ववद्धारयेत् पृष्ठे पुण्ड्राणां मध्यमे पदे।। 16.132 ।।
अभिषिक्तं हरेः पूर्वं रजनीचूर्णमुत्तमम्।
पुण्ड्राणां मध्यमे स्थाने ऋजुदीर्घं च धारयेत्।। 16.133 ।।
वर्तिदीपाकृतिं वापि वेणुपत्राकृतिं तु वा।
विन्यस्य तेषु पुण्ड्रेषु केशवादीन् सशक्तिकान्।। 16.134 ।।
चैव ।
ललाटादिषु शिष्याणां संदिशेद् ध्यानसिद्धये।
चक्राब्जमण्डले पूर्वं यत्प्राप्तं केशवादिषु।। 16.135 ।।
तन्नाम निर्दिशेत् पूर्वं ब्राह्मणस्य विजानतः।
भट्टारकान्तमथवा भागवतान्तमेव वा।। 16.136 ।।
देवान्तं क्षत्रियं कुर्यात् वर्धनान्तं तु वैश्यकम्।
आह्वयेद्दासशब्दान्तं शूद्रजातिं गुरूत्तमः।। 16.137 ।।
पञ्चकालविधिं चापि विना शूद्रमुपादिशेत्।
[ब्राह्मणादेः सबीजं च प्रणवादिनमोऽन्तिमम्।। 16.138 ।।
ताभ्यां वियुक्तं शूद्रस्य स्त्रीणां मन्त्रमुपादिशेत्।]
मूलं वापि द्विषट्कं वा षडक्षरमथापि वा।। 16.139 ।।
अथवा शिष्यसामर्थ्यं पर्यालोच्य गुरूत्तमः।
मन्त्रान् सर्वान् सहार्थांश्च भूषणाद्यधिदेवताः।। 16.140 ।।
आराधनक्रमं चैव विना शूद्रमुपादिशेत्।
ततः पञ्चोपनिषदा मन्त्रेणाष्टोत्तरं शतम्।। 16.141 ।।
कृत्वा पूर्णाहुतिं देवि वह्निकार्यं समापयेत्।
वह्निमण्डलकुम्भस्थं देवमारोपयेद्धृदि।। 16.142 ।।
एवं सामान्यदीक्षां तु दीक्षयित्वा यथाविधि।
शिष्यान् यानान्यथारोप्य वेदघोषपुरःसरम्।। 16.143 ।।
सर्ववाद्यैर्नदीं वापि तटाकं वा नयेद् गुरुः।
दीक्षासमाप्त्यवभृथं कारयेच्च यथाक्रमम्।। 16.144 ।।
शिष्या गुरुं धनैर्गोभिर्भूमिभिर्भूषणादिभिः।
तर्पयित्वा नमस्कृत्य ततस्ते तदनुज्ञया।। 16.145 ।।
वेदघोषैर्वाद्यघोषैर्बन्धुभिश्चेतरैरपि।
स्वेषां गृहाणि संहृष्टा गच्छेयुर्जलजोद्भवे।। 16.146 ।।
परार्थयजने दीक्षामाचार्यपदपूर्विकाम्।
शृणुष्वावहितो देवि रहस्यं शास्त्रचोदितम्।। 16.147 ।।
मद्गोत्रिणस्तदुत्पन्नास्तेषां ये शिष्यतां गताः।
तेषु शास्त्रकृतप्रज्ञा वेदवेदान्तपारगाः।। 16.148 ।।
नीरोगा मध्यवयसस्तेषामाचार्यपूर्वकम्।
अभिषेकं पुरा कुर्यात्तमेवालयपूजने।। 16.149 ।।
अन्येषां दीक्षाकरणे कारयेन्नेतरान् गुरुः।
अथाचार्याभिषेकाय शिष्यं सर्वगुणैर्युतम्।। 16.150 ।।
[परंपरादीक्षितस्य कुले जातं निरोगिणम्।]
आरोप्य यानं छत्रैश्च चामरैर्व्यजनादिभिः।। 16.151 ।।
वेदघोषैर्वाद्यघोषैर्दीक्षितैर्यतिभिस्तथा।
साधकैरपि चान्यैश्च देवधाम प्रदक्षिणम्।। 16.152 ।।
सर्वोपकरणैः सार्धं गच्छेन्नद्यास्तटं तु वा।
पुष्करिण्यास्तटं वापि गत्वा देशिकसत्तमः।। 16.153 ।।
तत्र भूमौ गोमयेन चतुरश्रं विलेपयेत्।
सुधाचूर्णैरलंकृत्य विनिवेश्यासनं ततः।। 16.154 ।।
शिष्यं तस्मिन् प्राङ्मुखेन स्थापयित्वा गुरूत्तमः।
दीक्षितेभ्यो यतिभ्यश्च वैष्णवेभ्यः पुरा रमे।। 16.155 ।।
अस्याचार्याभिषेकाय प्राप्यानुज्ञां ततो भुवि।
शिष्यस्य पुरतः पीठं धान्येन परिकल्पयेत्।। 16.156 ।।
तस्मिंस्तु द्वादशदलं विलिखेत् कर्णिकायुतम्।
कर्णिकायां चतुष्कुम्भान् परितो द्वादशानपि।। 16.157 ।।
घृतं क्षीरं दधिमधुगन्धपुष्पफलानि च।
रत्नधातुयवा माषाः कुशाक्षतजलानि च।। 16.158 ।।
पञ्चगव्यं कतकजलं तेषु कुम्भेषु पूरयेत्।
अथवा गन्धतोयेन कलशान् पूरयेत् क्रमात्।। 16.159 ।।
शिष्यस्य दक्षिणे हस्ते बध्वा प्रतिसरं गुरुः।
ततः पुण्याहसलिलैः शिष्यं कुम्भांश्च शोधयेत्।। 16.160 ।।
कुम्भेषु पीठं संकल्प्य मध्यकुम्भचतुष्टये।
वासुदेवादिचतुरः परितः केशवादिकान्।। 16.161 ।।
चक्राब्जमण्डले चापि द्वादशार्णं तु मध्यमे।
केशवादींश्च परितो ध्यायेदर्घ्यादिभिर्यजेत्।। 16.162 ।।
ततो वह्निं समुत्पाद्य तत्र पीठं प्रकल्प्य च।
वासुदेवादिकान् सर्वानग्नावावाह्य पूजयेत्।। 16.163 ।।
[शिष्यस्य दक्षिणे हस्ते बध्वा प्रतिसरं गुरुः।]
तेषां समुच्चार्य प्रत्येकं द्वादशाहुतीः।
घृतेन जुहुयान्मन्त्री गुडान्नादि निवेदयेत्।। 16.164 ।।
शिष्यस्नानस्य वै भूमौ फलकं विनिवेशयेत्।
तदलंकृत्य संप्रोक्ष्य पीठं संकल्प्य तत्र वै।। 16.165 ।।
निवेश्य पीठे शिष्यं तु पीठार्चादिपुरस्कृतम्।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं सधूपकम्।। 16.166 ।।
दीपं च नालिकेरस्य फलं ताम्बूलमेव च।
कुम्भमण्डलवह्नीनां शिष्यस्यच निवेदयेत्।। 16.167 ।।
कलशानां द्रव्यमन्त्रैः सूक्तेन पुरुषात्मना।
मूलेन विष्णुगायत्र्या द्वादशाक्षरविद्यया।। 16.168 ।।
घोषितेषु च वाद्येषु शिष्यं तमभिषेचयेत्।
ततः शिष्येण सहितो वैष्णवैर्गुरुसत्तमः।। 16.169 ।।
संकल्पपूर्वं नद्यादौ कुर्यादवभृथं रमे।
अहताभ्यां च वासोभ्यामञ्जनेन च रञ्जितम्।। 16.170 ।।
कृतोर्ध्वपुण्ड्रमालाभिर्भूषणैरप्यलंकृतम्।
रथादिषु निवेश्याथ वाद्यघोषपुरःसरम्।। 16.171 ।।
छत्रचामरदासीभिर्वेदघोषैर्विमिश्रितम्।
बन्धुभिश्च ततान्यैश्च देवधामप्रदक्षिणम्।। 16.172 ।।
कृत्वा देवगृहद्वारं गत्वा शिष्यसमन्वितः।
पादशौचं चाचमनं कुर्यात् शिष्यमन्वितः।। 16.173 ।।
देवगर्भगृहस्यान्तः प्रविश्य नतिपूर्वकम्।
देवस्य दक्षिणे पार्श्वे शिष्यं तं विनिवेशयेत्।। 16.174 ।।
भूतशुद्ध्यादिकं सर्वं कारयित्वा यथाक्रमम्।
धूपदीपनिवेद्यान्तं होमान्तं बलिसंमितम्।। 16.175 ।।
गर्भगेहं तु देवस्य शरीरमिति हि स्मृतम्।
अतो बहिः समागत्य शिष्येण नतिमाचरेत्।। 16.176 ।।
संप्रार्थयेद् देवदेवं वासुदेवं सनातनम्।
दीक्षां लब्ध्वा ह्ययं देव त्वत्समाराधने रतः।। 16.177 ।।
पूजयत्यत्र यत्किंचित्प्रमादात् स्खलितं यदि।
मदीय इति देवेश क्षन्तुमर्हसि सुव्रत।। 16.178 ।।
इति संप्रार्थ्य देवेशं प्राश्यात् तीर्थादिकं हरेः।
गच्छेद् बहिस्ततः शिष्यो गुरुं नत्वा पुनः पुनः।। 16.179 ।।
रत्नादिभिश्च संतोष्य प्राप्यानुज्ञां गुरोत्ततः।
गच्छेच्च स्वगृहं देवि बन्धुमित्राणि पूजयेत्।। 16.180 ।।
Chapter - 17
+++
+++
।। सप्तदशोऽध्यायः ।।
श्रीः-
गुरुः शिष्ययोपदिशेत् पञ्चकालविधिं पुरा।
इति त्वयोक्तं गोविन्द विस्तरेण तमुच्यताम्।। 17.1 ।।
श्रीभगवान्-
आद्यं कर्माभिगमनमुपादानमतः परम्।
इज्या च पश्चात् स्वाध्यायस्ततो योग इति क्रमः।। 17.2 ।।
कालानित्थं विभज्यैव भगवत्प्रीतये नरः।
तत्तत्कालेषु सत्कर्म नित्यं कुर्याद्यथाविधि।। 17.3 ।।
तत्क्रमानिह वक्ष्यामि शृणु पद्मसमुद्भवे।
पञ्चपञ्च उषः काल इति शास्त्रे समीरितः।। 17.4 ।।
ब्राह्मो मुहूर्तः सैव स्यात् तदा निद्रां परित्यजेत्।
प्रक्षाल्य पाणिपादं च स्मरेत् पापहरं हरिम्।। 17.5 ।।
गुरोरनुग्रहाज्ज्ञानं वैष्णवत्वमनुत्तमम्।
शेषशेषित्वसंबन्धं जीवात्मपरमात्मनोः।। 17.6 ।।
नित्ययोगमिति ज्ञात्वा सदाचार्यादिपूर्वकम्।
ततः स्नानोपकरणं शुद्धां मृत्स्नां दधन्नरः।। 17.7 ।।
तटाकं वा नदीं गच्छेत् कीर्तयन् हरिमव्ययम्।
नद्यादीनां तटे शुद्धे तत्सर्वं निक्षिपेत् सुधीः।। 17.8 ।।
वेष्टयेद् दक्षिणे कर्णे यज्ञसूत्रं तु मूर्धनि।
उत्तरीयं निर्ऋतेश्च भूमिं गच्छेदतन्द्रितः।। 17.9 ।।
तत्र भूमिं छादयित्वा तृणपर्णैर्विचक्षणः।
दिवा च संध्ययोश्चापि उत्तराभिमुखो द्विजः।। 17.10 ।।
दक्षिणाभिमुखो रात्रौ मलमूत्रं विसर्जयेत्।
जलाशयं ततो गत्वा शौचाय मृदमात्मनः।। 17.11 ।।
अरत्निमात्रमुद्धृत्य जलान्तर्निक्षिपेत् स्थले।
गुदे द्वादश मृत्संख्या लिङ्गे तिस्रस्तु शुद्धये।। 17.12 ।।
मध्ये मध्ये हस्तशुद्धिं कुर्याद् द्विजवरो रमे।
प्रत्येकं हस्तयोः सप्त ततः संहत्य सप्तकम्।। 17.13 ।।
पादयोः पूर्वसंख्याभिर्मृत्स्नाभिः शोधयेत् क्रमात्।
कुर्याद् द्वादश गण्डूषमुपवीतं ततो धरेत्।। 17.14 ।।
आचम्य दन्तान् काष्ठेन पत्रैर्वा धावयेद् द्विजः।
गण्डूषाद्यं ततः कृत्वा स्नानार्थं पुनराचमेत्।। 17.15 ।।
प्राणायामत्रयं कृत्वा सव्याहृतिविधानतः।
विष्ण्वाद्याचार्यकैंकर्यसिद्ध्यर्थं शुद्धिदं हरेः।। 17.16 ।।
अनुज्ञया स्नानमिदं करिष्ये विधिपूर्वकम्।
द्व्यङ्गुलं वलयं प्रोक्तं ग्रन्थिरेकाङ्गुली मता।। 17.17 ।।
चतुरङ्गुलमग्रं स्यात् पवित्रं तु सलक्षणम्।
कुशेन वा सुवर्णेन पवित्रं द्विजसत्तमः।। 17.18 ।।
अनामिकामध्यदेशे शुद्ध्यार्थं धारयेत् सदा।
तुलसीधाममृत्स्नानामन्यद्वा वैष्णवी तु वा।। 17.19 ।।
आनीतां विभजेन्मृत्स्नां त्रिधा कृत्वा क्रमाद्रमे।
भागेनैकेन दिग्बन्धं द्वितीयमृदया द्विजः।। 17.20 ।।
परिकल्प्य जले पीठं विष्णुतीर्थानि भावयेत्।
ततस्तृतीयभागेन त्वात्मनोऽङ्गेषु लेपयेत्।। 17.21 ।।
अघमर्षणसूक्तेन पुंसूक्तेन हरिं स्मरन्।
मूलमन्त्रेण रत्नेन स्नानं कुर्याद् विचक्षणः।। 17.22 ।।
विष्णुपादक्षालितान्तां गङ्गान्तां विरजानदीम्।
सरिद्वरां च कावेरीं स्मृत्वाचार्यपदाम्बुजम्।। 17.23 ।।
दीक्षाचार्यं ततो देवान् ऋषीन् पितृगणानपि।
तत्पत्नीश्च समुद्दिश्य जले तिष्ठंस्तु तर्पयेत्।। 17.24 ।।
नदीतीरं समासाद्य आवहन्तीति वै मनुम्।
उच्चार्य शुद्धवस्त्रे द्वे कौपीनमपि धारयेत्।। 17.25 ।।
ततः प्रक्षाल्य चरणौ पाणी चाचमनं चरेत्।
ललाटादि द्वादशसु धरेत् पुण्ड्राणि वै द्विजः।। 17.26 ।।
षट्पुण्ड्राण्यथवाप्येकं ललाटे धारयेद्रमे।
अतः परं प्रवक्ष्यामि संध्योपासनलक्षणम्।। 17.27 ।।
सूर्योदयात्पूर्वमेव स्वसूत्रोक्तेन वर्त्मना।
भगवत्कैंकर्यसिद्ध्यर्थं संध्योपास्तिं समाचरे।। 17.28 ।।
इति संकल्प्य मनसा सात्त्विकत्यागपूर्वकम्।
प्रातः सायं चार्घ्यदानं गायत्रीमन्त्रमुच्चरन्।। 17.29 ।।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत्।
एकं शस्त्रास्त्रनाशाय त्वेकं वाहननाशने।। 17.30 ।।
असुराणां वधायैकं हरिं स्मृत्वा तु वै द्विजः।
प्रायश्चित्तार्थमेकं च ततस्तन्मन्त्रसिद्धये।। 17.31 ।।
षडङ्गन्याससहितं प्रणवेन सदा शुचिः।
असावादित्यो ब्रह्मेति तद्दोषस्य प्रशान्तये।। 17.32 ।।
कुर्यात् प्रदक्षिणं चैकं सूर्यनारायणं स्मरन्।
मार्गशीर्षादिमासानामधिदेवांस्तु तर्पयेत्।। 17.33 ।।
अष्टोत्तरसहस्रं वा ह्यष्टोत्तरशतं तु वा।
अथवाष्टाविंशतिः स्याद्यवत्सूर्योदयावधि।। 17.34 ।।
नारायणं हृदि ध्यायन् गायत्रीं वेदमातरम्।
शोषणादींस्ततः कृत्वा बहिरन्तश्च मातृकाम्।। 17.35 ।।
मूले वा केशवादीन् कुर्याद्वै शास्त्रमार्गतः।
पञ्चोपनिषदा ध्यानं पुंसूक्तन्यासमेव च।। 17.36 ।।
चतुर्विंशत्संख्यया वा षडङ्गन्यासपूर्वकम्।
प्राणप्रतिष्ठां कृत्वैव गायत्रीजपमाचरेत्।। 17.37 ।।
पूजारम्भे भयस्थाने नित्यनैमित्तिके तथा।
प्राणान्तिके च दुर्गेषु षडङ्गन्यासमाचरेत्।। 17.38 ।।
मुद्राणां चक्रमुद्रा तु विष्णुसायुज्यसिद्धिदम्।
अग्निप्राकारमुद्रा तु सर्वसिद्धिकरी सदा।। 17.39 ।।
रविमण्डलमध्यस्थं शङ्खचक्रगदाधरम्।
किरीटवनमालादि भूषणैरपि भूषितम्।। 17.40 ।।
पुण्डरीकासनासीनं सर्वदेवनमस्कृतम्।
श्रीभूमिसहितं देवं विभुं नारायणं स्मरन्।। 17.41 ।।
मानसैरुपचारैस्तं षोडशैरर्चयंस्ततः।
मूलमन्त्रेण सहितां गायत्रीं रहितां तु वा।। 17.42 ।।
उपस्थानं ततः कुर्यात् स्वसूत्रोक्तेन वर्त्मना।
औपासनेनाग्निरूपं भगवन्तं यजेद् गृहे।। 17.43 ।।
ततोऽभिगमनं कुर्यात् पूजनं भगवत्प्रियम्।
कृत्वा ततो बहिर्गच्छेदुपादानाय वै द्विजः।। 17.44 ।।
हरेराराधनार्थाय सात्त्विकानि शुचिन्यपि।
पुष्पादीनिच संगृह्य गच्छेद्गेहमथात्मनः।। 17.45 ।।
इज्याकाले तु संप्राप्ते स्नात्वाथ नियतः शुचिः।
स्वसूत्रोक्तविधानेन कुर्यान्माध्याह्निकीः क्रियाः।। 17.46 ।।
परार्थपूजको यस्तु धाम सा प्रवशेद् गुरुः।
वासुदेवार्चनापूर्वम् उत्सवान्तं च पूजयेत्।। 17.47 ।।
[परदीक्षाविहीनैश्च न भुज्यादेकपङ्क्तिषु।
स्वगृहाराधको यस्तु पूजयेत् पाञ्चरात्रतः।
स्वाध्यायं ब्रह्मयज्ञाय पठेदुच्चैस्तु सस्वरम्।। 17.48 ।।
विष्णोर्निवेदितान्नेन विष्णुपादाम्बुना रमे।
नित्यश्राद्धादिकं कृत्वा वैश्वदेवबलिं ततः।। 17.49 ।।
पङ्क्तिपावनयोग्यैस्तु बन्धुभिः पितृभिस्तथा।
वृद्धैरतिथिभिः साकं मौनी भुञ्जीत वैष्णवैः।। 17.50 ।।
तत्तद्योग्यस्थले तावद् बालानपि च भोजयेत्।
विष्णुशेषं च ताम्बूलं तेभ्यो दद्याच्च चन्दनम्।। 17.51 ।।
तत्तत्काले समश्नीयाद् विष्णुनैवेद्यभक्षणम्।
स्त्रीभिर्वानुपनीतैर्वा न भुज्यादेकपङ्क्तिषु।। 17.52 ।।
तिष्ठन् भुञ्जीत चेद्विप्रः स तु चान्द्रायणं चरेत्।
त्रपुकांस्यादिपात्रेषु करे वामे तथैव च।। 17.53 ।।
अन्नादिकं वै निक्षिप्य दक्षिणेन च पाणिना।
विप्रो भुञ्जीत चेद्देवि स याति नरकं ध्रुवम्।। 17.54 ।।
[स्वाध्यायं ब्रह्मयज्ञाय पठेदुच्चैश्च सस्वरम्।]
सायाह्नकाले संप्राप्ते वेदं वेदार्थमेव वा।। 17.55 ।।
पुराणं धर्मशास्त्रं त पाञ्चरात्रार्थमेव च।
वेदान्तमितिहासादि ह्यन्यं वा सूरिभिः कृतम्।। 17.56 ।।
हरेः कथां च शृणुयात् स्वयं वापि पठेत्तदा।
कर्मणा मनसा वाचा विष्णुसेवापरो भवेत्।। 17.57 ।।
एतेषु शक्तिहीनस्तु द्वयमष्टाक्षरं तु वा।
द्वादशार्णं षडर्णं वा स्मरेन्नान्यं तु चिन्तयेत्।। 17.58 ।।
लम्बमाने ततः सूर्ये स्वसूत्रोक्तक्रमान्वितः।
संध्याकर्म ततः कृत्वा औपासनमथाचरेत्।। 17.59 ।।
पूर्ववत्पूजयेद्विष्णुं भक्तिनम्रो यथाक्रमम्।
अनुयागादिकं सर्वं कृत्वा देशिकसत्तमः।। 17.60 ।।
शुद्धायां तु स्वशय्यायां ध्यायन्नारायणं विभुम्।
शयीत यदि सेवेत साध्व्या स्वस्य स्त्रिया सह।। 17.61 ।।
शय्यां ततो गुरुः स्नात्वा शुद्धवस्त्रादिकं धरन्।
भजेदन्यं तु शयनं पूर्ववद् वैष्णवः पुमान्।। 17.62 ।।
महानिशि समुत्थाय योगाकाले प्रसन्नधीः।
पादशुद्ध्यादिकं कृत्वा त्वाचम्य च यथाविधि।। 17.63 ।।
बृस्याद्यासनमासीनो योगपर्यङ्कमारुहन्।
प्राणायामेन पुरुषं शङ्खचक्रगदाधरम्।। 17.64 ।।
पीताम्बरं श्वेतवर्णं वनमालादिभूषितम्।
वासुदेवं परं ध्यायन् योगं कृत्वा विचक्षणः।। 17.65 ।।
संहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत्।
हृदि स्थिते वासुदेवे स्वात्मानमपि योजयेत्।। 17.66 ।।
कंचित्कालं तथा ध्यात्वा सृजेद्देहात्तमात्मनः।
शनैर्योगासनमपि त्यक्त्वा गुरुरतन्द्रितः।। 17.67 ।।
भजेत् स्वशयनं देवि सर्वक्लेशापहं शुचि।
इत्थं च कथितो देवि योगकालश्च पञ्चमः।। 17.68 ।।
[एवं कुर्वन्यावदायुर्हरेः सायुज्यतामियात्।
सामान्यदीक्षितानां तु कर्मकाण्डादि कर्म च।। 17.69 ।।
पञ्चकालविधिस्त्वेषा कथिता कमलालये।
विष्णुयागाविरोधेन त्रिसंध्यायां मदंशजाः।। 17.70 ।।
परदीक्षासंस्कृताश्च कर्मकाण्डोक्तवर्त्मना।
तत्तन्मासार्कचेतोस्थकेशवादीन् समर्चयेत्]।। 17.71 ।।
Chapter - 18
+++
+++
।। अष्टादशोऽध्यायः ।।
अथ प्रतिष्ठां वक्ष्यामि बिम्बरूपस्य मे विभोः।
मानुषाणामिष्टसिद्ध्यै भूयः सांनिध्यकारणात्।। 18.1 ।।
मन्त्रस्य गौरवाद्देवि तपसा देशिकस्य च।
तेन संप्रार्थितश्चाहमर्चायामिष्टसिद्धिदः।। 18.2 ।।
श्रीः-
भविष्यामि तदर्थीयां क्रियां वक्ष्यामि वै क्रमात्।
भूमावर्चां लोहजन्यां शैलीं दार्वादिनिर्मिताम्।। 18.3 ।।
लोहरत्नजसंभूतां सर्वलक्षणलक्षिताम्।
निर्माय चालये मर्त्यैर्गृहे वा द्रव्यसंचितैः।। 18.4 ।।
कृत्वा प्रतिष्ठां पीजादिकर्म कुर्वन्ति साधवः।
फलं च तेषामतुलं भवतीति त्वयोदितम्।। 18.5 ।।
कदाचिदपि देवानामदृष्टिविषयं गतः।
यदि स्यात् पूजने तेषामर्चारूपस्य ते मतिः।। 18.6 ।।
लोहादिद्रव्यजातौ वा प्रत्यक्षेणाथवा भवान्।
तेषु लोकेषु बहुधा स्थास्यते किं जगन्मय।। 18.7 ।।
भगवान्-
परमेष्ठ्यादयो देवा भूमावालयनिर्मितम्।
मद्रूपं च समालोच्य शास्त्रं सारतमं त्विदम्।। 18.8 ।।
मर्त्यानां निधिवत्प्राप्तममर्त्यानां च दुर्लभम्।
चिन्तामभिसमाविष्टाः स्वयं प्राप्तुं दिवौकसः।। 18.9 ।।
निश्चित्य मनसा श्वेतं द्वीपमासाद्य निर्ममाः।
तप्स्यन्ति तप उग्रं ते सहस्रं मानुषं समाः।। 18.10 ।।
तेषां मनोरथं ज्ञात्वा प्राकारादिसमन्वितम्।
दर्शयिष्याम्यात्मरूपं विमानान्तर्गतं शुभम्।। 18.11 ।।
शङ्खचक्रादिसहितमर्चारूपिणमव्ययम्।
स्तोष्यन्ति विविधैः स्तौत्रैर्जितंताद्यादिभि रमे।। 18.12 ।।
तेषां स्तुत्या च नत्या च प्रसन्नो भवितास्म्यहम्।
वदिष्यामि ब्रुवन्त्वद्य करिष्यामि च वां वचः।। 18.13 ।।
इति मद्वचनं श्रुत्वा ब्रह्माद्याः देवतास्तदा।
यदि प्रीतिस्तव विभो त्वदीयेषु जनार्दन।। 18.14 ।।
युष्मद्दत्तेषु लोकेषु मदीयेषु जगद्गुरो।
एवमेव विमानेन बिम्बरूपेण नित्यशः।। 18.15 ।।
स्थातव्यं त्वां वयं नित्यं पूजनीयं विशेषतः।
शास्त्रं चाप्युपदेष्टव्यं येन पूजादिकर्मसु।। 18.16 ।।
सावधाना भविष्याम इति संप्रार्थयिष्यते।
ततो भक्तजनाकम्पी ब्रह्मादीन् बोधयाम्यहम्।। 18.17 ।।
युष्माकं प्रीतयेऽहं वै बिम्बरूपं समास्थितः।
तत्र तत्र वसिष्यामि पूजयिष्यन्तु नित्यशः।। 18.18 ।।
युष्माकमिष्टसिद्धिं च दास्याम्यत्र न संशयः।
एतच्छास्त्रं विस्तरेण उपदेक्ष्यामि वै विधेः।। 18.19 ।।
उपदेक्ष्यति युष्माकं शास्त्रमेतच्चतुर्मुखः।
इति तानुच्यमानोऽहमात्मानं सविमानकम्।। 18.20 ।।
दर्शयिष्यामि बहुधा तं नमस्कृत्य विस्मिताः।
यस्य यस्य विमानं यद्रोचते त्विष्टसिद्धिदम्।। 18.21 ।।
ब्रह्मादयो देववराः सर्ववादित्रनिःस्वनैः।
स्वं स्वं लोकं च नेष्यन्ति पूजयिष्यन्ति नित्यशः।। 18.22 ।।
एतच्छास्त्रं ब्रह्मणे च तदन्येभ्योऽपि वै रमे।
उपदेक्ष्यामि विस्तारात् संग्रेहण च सर्वतः।। 18.23 ।।
प्रसरिष्यन्ति सत्यादावेतच्छास्त्रोक्तवर्त्मना।
पूजयिष्यन्ति सत्यादावप्राकृतसमुद्भवम्।। 18.24 ।।
देवा मां तेषु लोकेषु स्वयंव्यक्तं तथापरम्।
दिव्यमित्यन्यलोकेषु सैद्धमार्षं तु मानुषम्।। 18.25 ।।
अतस्तेषां प्रतिष्ठापि न कर्तव्या कदाचन।
भूमौ तु प्राकृतैर्द्रव्यैर्निर्मितस्य च शिल्पिभिः।। 18.26 ।।
द्रव्यशुद्ध्यै क्षेत्रशुद्ध्यै मत्सांनिध्याय वै गुरुः।
नियमेन प्रतिष्ठां वै कर्तव्यां तां ब्रवीमि ते।। 18.27 ।।
भूपरिग्रहकाले च दीक्षाध्याये च लक्षणम्।
भट्टाचार्यस्य यत्प्रोक्तं तल्लक्षणगुणैर्युतः।। 18.28 ।।
पूर्वोक्तदीक्षया युक्तः कर्षणादिषुन चेद् वृतः।
तमेव च प्रतिष्ठायामाचार्यं प्रार्थयेत् प्रभुः।। 18.29 ।।
विनाचार्यस्य वरणादालयं निर्मितं तु वा।
आदौ वृतोऽप्यशक्तो वा तत्पुत्रं तद्गुणैर्युतम्।। 18.30 ।।
सोऽपि मन्त्रादिहीनश्चेदन्यं सर्वगुणैर्युतम्।
मयोक्तगोत्रिणं शुद्धं दीक्षितं सर्वसंमतम्।। 18.31 ।।
पाञ्चरात्रार्थतत्त्वज्ञं मन्त्रतन्त्रविशारदम्।
यजमानः स्वयं गत्वा देशिकेन्द्रस्य वै गृहम्।। 18.32 ।।
नमस्कृत्य पुरा तस्यन नालिकेरफलं करे।
दत्वा संप्रार्थयेद् देवि वासुदेवस्य वै विभोः।। 18.33 ।।
सालयस्य प्रतिष्ठां वै गुरो त्वं कर्तुमर्हसि।
इत्थं संप्रार्थितो विद्वानाचार्यः कालवित्तमः।। 18.34 ।।
कार्तान्तिकेन सहितः कालं सम्यग्विशोधयेत्।
नभोमासं मार्गशीर्षं माघमासं च वर्जयेत्।। 18.35 ।।
मासेष्वन्येषु सुक्लस्य पक्षस्य प्रथमातिथौ।
द्वितीयायां तृतीयायां पञ्चम्यां सप्तमीतिथौ।। 18.36 ।।
एकादशीदशम्योश्च द्वादशी च त्रयोदशी।
पूर्णिमा चासु तिथिषु कृष्णपक्षस्य पञ्चमी।। 18.37 ।।
यावद्भवेत्तावदेव कर्तव्यं न ततः परम्।
वारेषु शुभदः प्रोक्तः सोमः सौम्यस्तथा गुरुः।। 18.38 ।।
शुक्रश्च वाराधिपतयो नक्षत्राणि शृणुष्व मे।
अश्वती रोहिणीपुष्यपुनर्वस्वथ चोत्तरम्।। 18.39 ।।
उत्तरद्वितयं हस्तश्रवणं रेवती तथा।
एतेषु च व्यतीपातसंक्रान्तिग्रहणं तथा।। 18.40 ।।
मलमासं शुक्रमौढ्यं गुरोर्मोढ्यं तथैव च।
एतद्युक्तास्तिथीर्मुक्त्वा लग्ने तु वृषभे तथा।। 18.41 ।।
मिथुने सिंहलग्ने वा मीने धनुषि वा रमे।
तुलायां वा लग्ननाथो बलवानथवा गुरुः।। 18.42 ।।
शुक्रे वा वीक्षते ल्नमेकादशगतौ तु वा।
यल्लग्नं यजमानस्य धाम्नो देवस्य वृद्धिदम्।। 18.43 ।।
तस्मिन् प्रतिष्ठां निश्चित्य ततो दशदिनात्पुरा।
शुभे मुहूर्ते देवस्य धाम गत्वा गुरूत्तमः।। 18.44 ।।
अन्तर्वापि बहिर्वापि निर्बाधं यत्र वै स्थलम्।
तत्रैतेनैव मानेन मण्डपादींश्च कल्पयेत्।। 18.45 ।।
मानं मानान्तरं मुष्टिर्मात्रा देहस्तथैव च।
एतेषां लक्षणमपि शृणुष्व कमलेक्षणे।। 18.46 ।।
वातायनपथं प्राप्य ये गच्छन्ति रवेः कराः।
तेषु सूक्ष्मतरा यान्ति रेणवः परमाणवः।। 18.47 ।।
तेऽष्टौ लेशाह्वयस्तेऽष्टावणुरित्यभिधीयते।
तेऽष्टौ महांस्तदष्टौ च यव इत्यभिधीयते।। 18.48 ।।
यवाष्टकैरङ्गुलं स्यात् सप्तभिः स तु मध्यमः।
यवषट्कैरङ्गुलं तु कनीयस्यङ्गुलं भवेत्।। 18.49 ।।
एतन्मानाङ्गुलं नाम शिल्पिभिः समुदाहृतम्।
तिर्यग्यवाष्टकैर्वापि ऋजुभिर्वा त्रिभिर्यवैः।। 18.50 ।।
विन्यसेद्यत्र मानेन तन्मानान्तरमीरितम्।
एतेन वेदिकापीठरथादीनां च कल्पनम्।। 18.51 ।।
मुष्ट्यङ्गुलं गुरोर्मुष्टिं चतुर्धा विभजेत् क्रमात्।
होमाङ्गानि स्रुवादीनि कुण्डं मुष्ट्यङ्गुलैर्भवेत्।। 18.52 ।।
गुरोर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वसु।
यन्मध्य तन्नाम मात्राङ्गुलमुदाहृतम्।। 18.53 ।।
यागोपकरणानां च तैर्मात्राङ्गुलिभिर्भवेत्।
अर्चां विभज्य नवधा तेष्वेकं द्वादश क्रमात्।। 18.54 ।।
विभज्य द्वादशस्वेकं मानाङ्गुलमुदाहृतम्।
प्रासादं गोपुरं सर्वं बिम्बानि विविधान्यपि।। 18.55 ।।
कुर्यादेतेनाङ्गुलेन पूर्वोक्तानि च शिल्पवित्।
चतुर्विंशतिहस्तैर्वा दशभिश्चाष्टभिस्तु वा।। 18.56 ।।
करैः षोडशिभिर्वापि भवेद् द्वादशभिस्तु वा।
विस्तारायामसदृशं चतुर्द्वारसमन्वितम्।। 18.57 ।।
मेखलैका मण्डपस्य भूमेस्तालोच्छ्रिता मता।
वेदीनामपि कुण्डानां स्तम्भैर्बाधा न चेत्तथा।। 18.58 ।।
स्तम्भान् प्रकल्पयेत् तस्मिन् मण्डपे देशिकोत्तमः।
समभूमिं पुरा कृत्वा ततो वेदीः प्रकल्पयेत्।। 18.59 ।।
प्रतिष्ठाकर्म देवस्य विमानस्यैकदा यदि।
तदा वेदिद्वयं कार्यं घटस्थापनकर्मणि।। 18.60 ।।
उच्छ्रायमेकहस्तं स्याच्चतुरश्रं चतुर्भुजम्।
आदावन्ते मेखलैकं परितः कुण्डशोभितम्।। 18.61 ।।
शयनायोत्तरे तस्य दृङ्मोक्षणविधौ तथा।
ऐशान्ये पालिकायाश्च बालस्थापनकर्मणि।। 18.62 ।।
चक्राब्जमण्डलविधौ नयनोन्मीलनस्य च।
वेदीः प्रकल्पयेद्विद्वान् तत्तद्वेद्यास्तु पार्श्वयोः।। 18.63 ।।
प्रवेशनिर्गमार्थाय विसृजेद् वीथिकाः क्रमात्।
दीर्घह्रासं तु वेदीनां तत्तत्कर्मानुसारतः।। 18.64 ।।
मण्डपस्यानुरोधाद्वा द्रव्यस्य च तथा भवेत्।
वेदिसृष्टिर्मया प्रोक्ता कुण्डकल्पनमुच्यते।। 18.65 ।।
कुण्डसंख्यां कार्यविधिं कुण्डभेदं च कल्पनम्।
ज्ञात्वावश्यं कल्पनीयं नो चेद्दोषाय कल्पते।। 18.66 ।।
त्रिकोणं च चतुष्कोणं पञ्चकोणं षडश्रकम्।
सप्ताष्टनवकोणं च दशैकादशकोणकम्।। 18.67 ।।
द्वादशाश्रं चापकोणं वृत्तं पद्मं च पद्मजे।
योनिकुण्डमिति प्रोक्तं चतुर्दश गुरूत्तमैः।। 18.68 ।।
प्रयोजनं तु वक्ष्यामि शृणुण्व कमलेक्षणे।
सर्वाभ्युदयकर्माणि चतुष्कोणे समाचरेत्।। 18.69 ।।
पौष्ठिकं पद्मकुण्डे तु शान्तिं वृत्ते सुखावहम्।
पञ्चकोणे यक्षकन्यावशं कर्म षडश्रके।। 18.70 ।।
स्तम्भनार्थाय सप्ताश्रे मोहनं कर्म कारयेत्।
अष्टाश्रे मारणं कर्म विद्वेषं नवकोणके।। 18.71 ।।
दशाश्रकुण्डे वस्वादि पितॄणां तोषणाय वै।
एकादशाश्रे ब्रह्मादिदेवतायत्तसाधने।। 18.72 ।।
द्वादशाश्रे हरिं द्रष्ठुं योनौ कन्याप्तिहेतवे।
त्रिकोणे मारणं कर्म चापे तूच्चाटनं भवेत्।। 18.73 ।।
निधिप्राप्तिस्त्रिकोणे वा चापे शत्रुजयं भवेत्।
एषां सृष्टिं प्रवक्ष्यामि प्रत्येकं कमलालये।। 18.74 ।।
मन्वग्न्यङ्गुलिसंख्येन कोणेषु चतुर्षु क्रमात्।
सूत्रेण लाञ्छयेन्मध्यात् कोणात्कोणं भुजैककम्।। 18.75 ।।
एवं चेच्चतुरश्रं स्यात् त्रिकोणस्य वदामि ते।
द्वात्रिंशदङ्गुलीसंख्या सूत्रं कोणेषु लाञ्छयेत्।। 18.76 ।।
पञ्चाश्रे नाभिदेशाच्च चतुर्यवसमन्वितम्।
षोडशाङ्गुलिसंख्याकं सूत्रं कोणेषु पातयेत्।। 18.77 ।।
कोणात्कोणं सप्तिसूर्यसूत्रविन्यासमाचरेत्।
षडश्रे मध्यशङ्कोश्च कोणात्कोणं च षोडश।। 18.78 ।।
नाभिशङ्कोश्च सप्ताश्रे षड्यवैः पक्षसंख्यकाः।
[कोणात्कोणं चाङ्गुलयोर्भवेयुर्मनुसंख्यकाः।। 18.79 ।।
]
अष्टाश्रे षोडश प्रोक्ताश्चतुर्यवसमन्विताः।
अङ्गुलैस्तु द्वादशभिरश्राश्रं परिकल्पयेत्।। 18.80 ।।
नवाश्रे नाभिशङ्कोश्च चतुर्भिर्यवभिर्युतान्।
पक्षसंख्याङ्गुलान् कोणे षड्यवैर्दश चाङ्गुलान्।। 18.81 ।।
कोणात्कोणं लाञ्छयीत दशाश्रं शृणु वल्लभे।
मध्यात्कोणेषु विन्यासश्चतुर्भिर्यवसंयुतैः।। 18.82 ।।
पक्षेण च ततः कोणादन्यत् कोणं तु पञ्चकैः।
यवैः समेताङ्गुलिभिः नवभिः कल्पयेद् गुरुः।। 18.83 ।।
एकादशाश्रे मध्यात्तु चतुर्यवसमन्वितान्।
पक्षाङ्गुलीन् कोणदेशे विन्यसेद् षड्यवैर्युतान्।। 18.84 ।।
अष्टावङ्गुलयः कोणादन्यत्कोणस्य ईरिताः।
द्वादशाश्रे मध्यशङ्कोः कोणं पञ्चदशाङ्गुलम्।। 18.85 ।।
चतुर्यवेन संयुक्तं प्रत्यश्रं चाष्टसंख्यया।
अङ्गुल्या लाच्छयेद्विद्वान्योनिकुण्डे तु मध्यमम्।। 18.86 ।।
अष्टादशाङ्गुलं सूत्रं नाभिदेशाद् दशाङ्गुलम्।
वेष्टयेत् पार्श्वयोस्तस्य चत्वारिंशत्तताष्टकम्।। 18.87 ।।
विन्यसेद्ङ्गुलिं चक्रे कुण्डे मध्याच्चतुर्दश।
एकं च वेष्टयेत् सूत्रं तदेव स्यात्तु पद्मकम्।। 18.88 ।।
चापकुण्डे शङ्कुदेशात् पार्श्वयोरुभयोरपि।
अष्टादशाङ्गुलेर्न्यासः सैव ज्या तु धनू रमे।। 18.89 ।।
तत्स्थानाद् वेष्टिते सूत्रे दक्षिणादुत्तरावधि।
धनुष्कुण्डं भवेद्देवि शास्त्रज्ञैरुच्यते बुधैः।। 18.90 ।।
यस्य कार्यस्य यत्कुण्डं तस्मिन् कुर्याच्च तत्क्रियाम्।
तस्माच्छास्त्रं पुरालोच्य तत्तत्कुण्डं प्रकल्पयेत्।। 18.91 ।।
सामान्यमित्थं कुण्डानां कल्पनं तु मयोदितम्।
चतुष्कोणादिकुण्डानां चतुर्णां देवधामसु।। 18.92 ।।
निर्माणेषु प्रतिष्ठायामुत्सवे नित्यपूजने।
शान्तिहोमेषु सर्वत्र प्रायश्चित्तादिकर्मसु।। 18.93 ।।
कुण्डानि शास्त्रतः कृत्वा तेषु होमं समाचरेत्।
अकृत्वा हूयते यत्र वह्निस्तत्र न तृप्यति।। 18.94 ।।
अतृप्ते मयि वह्निस्थे स्वार्थसिद्धिः कथं भवेत्।
कुण्डान्यतो विधायैवं जुहुयादेषु कर्मसु।। 18.95 ।।
कुण्डानां परिधिं कुर्यात् षण्णवत्यङ्गुलायतम्।
परितो द्व्यङ्गुलं हित्वा कुण्डान्तर्विंशदङ्गुलम्।। 18.96 ।।
तदर्धं पादमथवा चतुरङ्गुलमेव वा।
खातयेत् परितस्तिस्रो मेखलाः परिकीर्तिताः।। 18.97 ।।
तालोन्नता स्यात् प्रथमा द्वितीयाष्टाङ्गुला भवेत्।
चतुरङ्गुला तृतीया स्यादेकैकायाश्च विस्तृतिः।। 18.98 ।।
चतुरङ्गुलसंयुक्ता तत्तत्कुण्डानुसारतः।
मेखलापि च कल्प्या स्यात्कुण्डान्तर्मध्यमे स्थले।। 18.99 ।।
द्वादशच्छदसंयुक्तं पद्मं कल्प्यं सकर्णिकम्।
पद्मकुण्डे न पद्मं स्यात् योनिकुण्डे न योनिमत्।। 18.100 ।।
यत्र स्थित्वर्त्विजो होमं कुर्वन्ति कमलालये।
तत्र योनिं प्रकुर्वीत मेखलोपरि सर्पवत्।। 18.101 ।।
अधश्च द्व्यङ्गुलं नालं मध्ये तु चतुरङ्गुलम्।
ऊर्ध्वे षडङ्गुलं प्रोक्तं सर्पस्य फणवद्भवेत्।। 18.102 ।।
कुम्भवेद्यास्तु परितश्चतुस्तालाद् बही रमे।
प्राग्देशे चतुरश्रं स्यात् कुण्डं चापं तु दक्षिणे।। 18.103 ।।
प्रतीच्यां वृत्तकुण्डं तु कमलं वा त्रिकोणकम्।
कौबेर्यां कल्पयेद्विद्वान् चापस्य ज्यां तु पश्चिमे।। 18.104 ।।
स्रुक्स्रुवौ लोहमुख्येन यज्ञवृक्षेण वा गुरुः।
स्वबाहुमानदण्डेन साङ्गुलेन च वै स्रुचः।। 18.105 ।।
घनं विस्तारसदृशं षडङ्गुलमुदीरितम्।
काष्ठमादाय तत्काष्ठमेकं भागं नवाङ्गुलम्।। 18.106 ।।
मुखं क्रोडस्य सदृशमेकार्धाङ्गुलमायतम्।
गलमेकं तदर्धं च नहनं वृत्तमायतम्।। 18.107 ।।
ततश्चान्यं गलं चापि मुखं च परिक्षयेत्।
षडङ्गुलं यज्ञपात्रं विस्तारायामयोः समम्।। 18.108 ।।
घनं च तस्य मध्ये तु त्र्यङ्गुलं सुषिरं भवेत्।
द्वादशच्छदसंयुक्तं पद्मं कल्प्यं सकर्णिकम्।। 18.109 ।।
उन्नतेषु ततः किंचित् षोडशारं सनेमिकम्।
नेमिरेकाङ्गुलं तस्य तून्नतौ त्वङ्गुलं भवेत्।। 18.110 ।।
चतुष्कोणं यदि भवेत् शङ्खान् कोणेषु लाञ्छयेत्।
मेखलाः परितस्तिस्रः प्रत्येकं यवमानकाः।। 18.111 ।।
पृष्ठदेशं कूर्मवद्वा पद्माकारस्तु वा भवेत्।
कुर्यादाज्यप्रणालं तु समन्यूनाङ्गुलं मुखे।। 18.112 ।।
ततो द्व्यंशो दीर्घदण्डः पद्मस्यास्याद्यथोद्भवः।
सार्धाच्च द्व्यङ्गुलघनादवशिष्टं तु तक्षयेत्।। 18.113 ।।
स दण्डश्चतुरश्रो वा वर्तुलो वा भवेद्रमे।
वलित्रयसमोपेतः अन्ते पद्मं प्रकल्पयेत्।। 18.114 ।।
हस्तमात्रं दीर्घकाष्ठं द्व्यङ्गुलं घनविस्तृति।
तस्याग्रे द्व्यङ्गुलं कुर्यात् वर्तुलं तस्य मध्यतः ।। 18.115 ।।
निम्नमर्धाङ्गुलं युग्मं तयोर्मध्ये यवाकृति।
भित्तिः स्यात् परितो भद्रे ह्यर्धाङ्गुलसमन्विता।। 18.116 ।।
हरिणीखुरवत्तत्स्यादाज्यस्थानं सुमध्यमे।
विस्तारस्य त्रिभागेन ग्रीवाकल्पनमिष्यते।। 18.117 ।।
मूले चोभयतः कुर्यात् स्वस्तिकं द्व्यङ्गुलायतम्।
अवशिष्टं वर्तुलं स्यात् दण्डं चित्रविराजितम्।। 18.118 ।।
Chapter - 19
+++
+++
।। 19.एकोनविंशोऽध्यायः ।।
द्वारेषु स्युश्चतृषु च प्रतिष्ठामण्डपस्य तु।
अश्वत्थोदुम्बरवटप्लक्षाः प्रागादितोरणाः।। 19.1 ।।
चतुर्णामप्यलाभे तु वृक्षेणैकेन कल्पयेत्।
यद्वा चन्दनवृक्षेण सर्वं कुर्याद्यथाविधि।। 19.2 ।।
सप्तहस्तायता वापि पञ्चहस्तायतास्तु वा।
वृत्ता वा चतुरश्रा वा द्वाविंशत्यङ्गुलैर्घनैः।। 19.3 ।।
युक्ता वा द्व्यङ्गुलघना विस्तारस्तु षडङ्गुलः।
पूर्वोक्तनहनेनापि फलकाकृतिनापि वा।। 19.4 ।।
आयामं द्विभुजं कुर्यात् तोरणोपर्युदुम्बरम्।
संज्ञाभेदेन तस्यैव पट्टिकेत्यभिदीयते।। 19.5 ।।
तस्य मध्ये चक्रमेकं पार्श्वयोर्गरुडावुभौ।
फलकेनैव कल्प्या स्युस्तोरणं तोरणं प्रति।। 19.6 ।।
द्वौ द्वौ ध्वजौ प्रतिद्वारं वर्णभेदैरलंकृतौ।
द्वाविंशत्यङ्गुलायामास्तदर्धेन च विस्तृताः।। 19.7 ।।
फलका द्व्यङ्गुलघनाः यज्ञवृक्षसमुद्भवाः।
स्वर्णादिलोहजा वापि संपाद्य तदनन्तरम्।। 19.8 ।।
एतेषु विलिखेद्धीमानष्टमङ्गलनामकम्।
श्रीवत्सं वनमालां च भेरीं दर्पणमेव च।। 19.9 ।।
मत्स्ययुग्मं च शङ्खं च चक्रं काश्यपनन्दनम्।
पद्मासनानामेतेषामुभयोः पार्श्वयोरपि।। 19.10 ।।
दीपस्तम्भांश्चामराणि छत्रं शिरसि वै लिखेत्।
बिम्बानुरूपं स्नानस्य जलाधिवसनस्य च।। 19.11 ।।
औदुम्बरं भद्रपीठमाचार्यस्यर्त्विजामपि।
पीठानि पादुकाश्चापि यज्ञवृक्षेण कल्पयेत्।। 19.12 ।।
यज्ञपात्राणि सर्वाणि शरावादीनि वै रमे।
षडङ्गुलान्युच्छ्रितानि विस्तृतान्यायतानि च।। 19.13 ।।
तेषां मध्ये तु निम्नानि ह्यधस्ताच्चतुरङ्गुलम्।
पञ्चाङ्गुलं चोर्ध्वभागे विशालं कल्पयेद् गुरुः।। 19.14 ।।
ध्वजान् कुम्भान् सकरकान् धान्यानि विविधानि च।
शालिभारांस्तण्डुलांश्च तिलान् वस्त्राणि वै रमे।। 19.15 ।।
रत्नानि चैव धान्यानि गावः कन्याश्च मृत्तिकाः।
घृतादीनि च वस्तूनि पूर्वं संपादयेद् गुरुः।। 19.16 ।।
श्लक्ष्णा न सुषिराः कुम्भाश्चतुर्विंशाङ्गुलोन्नताः।
सौवर्णा राजतास्त्राम्राः कल्प्या भेदविवर्जिताः।। 19.17 ।।
विस्तृतेर्मध्यतस्तद्वत्तद्गलं त्र्यङ्गुलोन्नतम्।
ततमङ्गुलिषट्केन तदास्यं त्र्यङ्गुलं स्मृतम्।। 19.18 ।।
मेखला परितो ज्ञेया त्रयङ्गुला जलजोद्भवे।
यद्वा तदर्धमानं तु सर्वमुच्छ्रायमपूर्वकम्।। 19.19 ।।
यद्वोत्तमोत्तमो भद्रे द्रोणमानोदपूरकाः।
तदर्धमंशतोन्यूनं प्रस्थद्वयजलावधिः।। 19.20 ।।
अनुकल्पे मृण्मया वा छिद्रभेदविवर्जिताः।
न द्वितप्ताः सुतप्ताश्च कृष्णवर्णादिवर्जिताः।। 19.21 ।।
महाकुम्भार्धमानेन करकं तु प्रकल्पयेत्।
तस्योदरे कोणयुक्ता जलनिर्गमनी भवेत्।। 19.22 ।।
स्नानार्थं द्वारकुम्भादि स्थापनार्थं घटान् रमे।
पूर्वोक्तार्धप्रमाणैर्वा लोहैर्वा कल्पयेद् गुरुः।। 19.23 ।।
लक्षणं पालिकादीनां संख्यां च शृणु वल्लभे।
साङ्गुलं हस्तमुत्सेधं षोडशाङ्गुलमाननम्।। 19.24 ।।
तावदङ्गुलमायामं कण्ठान्तं तस्य वै भवेत्।
कण्ठवर्तुलविस्तारं सप्ताङ्गुलमुदीरितम्।। 19.25 ।।
कण्ठादारभ्य पादान्तं दीर्घं नवभिरङ्गुलैः।
अधस्ताद्विस्तृतिस्तस्या दशाङ्गुलमुदीरितम्।। 19.26 ।।
एवं कृते मध्यबिलादुपर्यम्भोजवद्भवेत्।
अधश्चोन्मत्तकुसुमसमं चेत् पालिकां विदुः।। 19.27 ।।
घटिकालक्षणं वक्ष्ये निबोध कमलोद्भवे।
सा द्वादशाङ्गुलायामा षष्ट्यङ्गुलविशालता।। 19.28 ।।
उदरं तु प्रधानास्य विस्तारं तु षडङ्गुलम्।
उदरे च चतुर्दिक्षु चतुरङ्गुलमायतम्।। 19.29 ।।
चतुरङ्गुलविस्तारं कल्पयेच्च चतुर्मुखम्।
घटिकालक्षणं त्वेवं पञ्चवक्त्रा घटाकृतीः।। 19.30 ।।
शरावस्य त्वङ्गुलयोर्विस्तारो द्वौ च विंशतिः।
उत्सेधोऽङ्गुलिविंशत्या ह्यधश्चाष्टाङ्गुलिर्भवेत्।। 19.31 ।।
प्रत्येकमुत्तमा संख्या षट्त्रिंशो मध्यमा रमे।
षोडश स्युर्हीनसंख्या त्वष्टौ हीनमतो नहि।। 19.32 ।।
सर्वार्थे पालिका वापि ह्यष्टौ वित्तानुसारतः।
देवतानां प्रतिष्ठादिकार्ये युग्मास्तु पालिकाः।। 19.33 ।।
भक्तबिम्बप्रतिष्ठादि मनुष्याणां तु शोभने।
अयुग्माः स्युः पालिकाद्यास्तेषां भेदं कदाचन।। 19.34 ।।
न कुर्याद्यदि कुर्वीत दोषाय महतो भवेत्।
परितो मण्डपस्य स्युरलंकारार्थपालिकाः।। 19.35 ।।
यथा प्रतिष्ठादिवसात् सप्तमे नवमेऽपि वा।
साङ्कुराश्च भवेयुस्तास्तथा कल्प्या गुरूत्तमैः।। 19.36 ।।
मण्डपस्य प्रतिष्ठायाः परितो वेदवादिनाम्।
स्थित्यर्थं तु प्रपां कुर्यात् क्षीरसागरसंभवे।। 19.37 ।।
देशान्तरादागतानामृग्यजुःसामशाखिनाम्।
इतरेषां ब्राह्मणानां सर्वविद्याभिशोभिनाम्।। 19.38 ।।
वासार्थं शयनार्थं च भोजनार्थं च सर्वतः।
प्रपां कुर्यात् तृतीयादौ प्राकारे वीथिकासु च।। 19.39 ।।
Chapter - 20
+++
+++
।। विंशोऽध्यायः ।।
अङ्कुरार्पणकार्यस्य दिनं निश्चित्य देशिकः।
ततः पूर्वदिने तावत् प्रतिष्ठामष्टपं तथा।। 20.1 ।।
गर्भगेहादिसर्वाणि पचनागारमेव च।
आस्थानमण्टपादीनि गोपुराणि तथैव च।। 20.2 ।।
द्वाराणि च कवाटानि सलिलैः शोधयेत्पुरा।
धाम्नो भित्तिषु सर्वत्र श्वेतरक्तादिवर्णकैः।। 20.3 ।।
चित्रयोच्चित्रकारस्तु सर्वत्र कमलोद्भवे।
दर्भाणां चैव मालाभिर्नालिकेरफलस्य च।। 20.4 ।।
[पनसस्य च पूगस्य कदलीनां फलस्य च।]
बन्धयेत् सर्वतो गुच्छान् वितानानि च सर्वतः।। 20.5 ।।
मण्डपादिषु सर्वत्र प्रतिद्वारं फलैर्युतान्।
द्वौ द्वौ स्तम्भान् कदल्यास्तु पार्श्वयोरपि बन्धयेत्।। 20.6 ।।
ध्वजैर्वन्दनमालाभिः सर्वतो धाम शोभयेत्।
तथा प्रपां प्रतिष्ठायाः अङ्कुरार्पणकर्मणः।। 20.7 ।।
वितानाद्यैरलंकृत्य तयोः प्राच्यादिषु क्रमात्।
ऐन्द्रऽस्वत्थं दक्षिणस्यामौदुम्बरमुदीरितम्।। 20.8 ।।
न्यग्रोधं पश्चिमस्यामुत्तरे प्लक्षतोरणम्।
द्वितालं भूतलं खात्वा स्थापयेत्तोरणान् दृढम्।। 20.9 ।।
ध्वजौ द्वौ द्वौ प्रतिद्वारं स्थापयेदुपरि क्रमात्।
तिरस्करिण्या सर्वत्र मण्डपं परिगूहयेत्।। 20.10 ।।
कर्पूरागरुकस्तूरिचन्दनैर्देवदारुभिः।
निर्यासानां विशेषैश्च धूपैः संमूर्च्छयेत् प्रपाम्।। 20.11 ।।
ततो भूमिं यथावच्च गोमयैर्लेपयेद् द्विजैः।
शोधयेच्च शलाकाभिरलंकुर्यात् सुधादिभिः।। 20.12 ।।
बहिः प्रपायाश्चतृषु द्वारेषु कनकप्रभे।
सत्यादिलिखितान् केतूनुपरिष्टात्तु बन्धयेत्।। 20.13 ।।
अथाचार्यः शिल्पिशालां शिल्पशास्त्रार्थतत्त्ववित्।
मूलादिसर्वबिम्बानि पश्येच्छास्त्रोक्तवर्त्मना।। 20.14 ।।
शिलामयस्य वार्क्षस्य लोहेनोत्पादितस्य च।
नयनोन्मीलनं कार्यं शिल्पिना कारुमन्दिरे।। 20.15 ।।
सुधामयस्य बिम्बस्य वस्त्रैरुत्पादितस्य च।
भित्त्यादिषु विलेख्यस्य मृण्मयस्य तथैव च।। 20.16 ।।
नेत्रदानं गर्भगेहे शिल्पिना कारयेत् सुधीः।
शिलामयादिबिम्बानां कृत्वा मन्त्राभिषेचनम्।। 20.17 ।।
रथादिषु समारोप्य सर्ववादित्रनिःस्वनैः।
वेदघोषैर्वीथिकासु प्रादक्षिण्येन वै हरेः।। 20.18 ।।
कर्भगेहं समानाय्य पीठे ब्रह्मशिलामये।
गर्तेषु नवसु स्वर्णरत्नादीनि पुरा न्यसेत्।। 20.19 ।।
प्रतिगर्तं पञ्चसंख्यां तत्तद्भेदं वदामि ते।
वज्रं सुवर्णसहितमुशीरं व्रीहयस्तथा।। 20.20 ।।
ऐन्द्र्यां दक्षिणतो गर्ते त्विन्द्रनीलमयस्तथा।
तिलं सीसं चन्दनं च पश्चिमे मौक्तिकं तथा।। 20.21 ।।
रजतं पारदं चैव मुद्गोशीरं तथोत्तरे।
पद्मरागं कांस्यराजशिलां राजेन्द्रमेव च।। 20.22 ।।
प्रादक्षिण्येन निक्षिप्य ततैशाद्यप्रदक्षिणात्।
लोहं वैडूर्यसहितं चक्राङ्कं चाभ्रकं तथा।। 20.23 ।।
षाष्टिकासत्वीशदिग्भागे वायोस्स्थाने विनिक्षिपेत्।
पुष्यरागं हरीतं च गैरिकं शारिकं त्रपु।। 20.24 ।।
समूरान् नैर्ऋते स्थाने महानीलं च वङ्गकम्।
पाषाणमाक्षिकं चैव यवाः सागरिकास्तथा।। 20.25 ।।
आग्नेये स्फटिकं ताम्रं मनोगुप्तं तथैव च।
गोधूमाः शङ्खपुष्पाश्च मन्त्रं साङ्गमुदीरयने।। 20.26 ।।
मध्ये सर्वाणि तदनु सुधया लेपयेत् पुरा।
द्वाराद् भित्त्यन्तभूमिं तु सप्तधा विभजेद् गुरुः।। 20.27 ।।
ब्रह्मस्थानं मध्यमं स्याद्देवस्थानमनन्तरम्।
मानुषं च ततः पश्चात् पैशाचं समुदीरितम्।। 20.28 ।।
एकबेरे ब्रह्मशिलां ब्रह्मस्थाने तु निक्षिपेत्।
बहुबेरविधाने तु देवमानुषयोः पदे।। 20.29 ।।
श्रीभूम्योर्वैनतेयस्य पार्श्वयोर्मण्डपे पुरा।
द्वारमध्यं न संत्याज्यं न पार्श्वे न च पृष्ठतः।। 20.30 ।।
यतो हितार्थं सर्वेषां निर्गुणं षड्गुणात्मना।
अतो ब्रह्मसदादीषद्देवभागे स्थितिर्भवेत्।। 20.31 ।।
मोक्षादि फलसिद्धीनां प्राप्तये ह्यविचारतः।
भगवन्तं बिम्बरूपं स्थापयेदासने पुरा।। 20.32 ।।
बिम्बपीठशिलानां च कुर्यादेकत्ववत्स्थितिम्।
शिल्पी कुर्यात्ततः पूर्वं विमानस्योपरि स्थिते।। 20.33 ।।
शङ्कौ स्तूपीं प्रोतयित्वा कुर्यादकत्ववत्स्थितिम्।
विमानस्थितदेवानां नयनोन्मीलनं तथा।। 20.34 ।।
एवं मूलादिबिम्बानां विमानादेश्च देशिकः।
नयनोन्मीलनादीनि कारयित्वा तु शिल्पिभिः।। 20.35 ।।
कर्मादीनां च बेराणां पीठसंयोजनं चरेत्।
वस्त्रं प्रसार्य तदनु तस्मिन् पद्मानि निक्षिपेत्।। 20.36 ।।
तस्योपरि पुनर्वस्त्रं शालिभारं तदूर्ध्वतः।
तदर्धं तण्डूलं न्यस्य तस्मिन्नुपरि वै तिलम्।। 20.37 ।।
तस्मिन् पद्मं विलिख्याथ आस्तीर्य कुशसंहतिम्।
प्रसार्य नूतनं वस्त्रं तस्मिन् पीठं सपद्मकम्।। 20.38 ।।
अपद्मं वा विनिक्षिप्य विष्णोर्गायत्रिया ततः।
रत्नन्यासादिकं कृत्वा तेन मन्त्रेण वै गुरुः।। 20.39 ।।
आज्येनाष्टोत्तरशतं नृसूक्तेन च षोडश।
अन्नेन च ततो देवि प्रोक्षयेत् पुण्यवारिणा।। 20.40 ।।
मनसा सुप्रतिष्ठेति पीठे देवं नियोजयेत्।
प्रतिष्ठासीति वै साम पठेयुश्च समन्ततः।। 20.41 ।।
दृढबन्धं शिल्पिवरः कुर्यात् तं तोषयेत् प्रभुः।
धनैर्भूषणवस्त्राद्यैर्विसृजेच्च ततो गुरुः।। 20.42 ।।
Chapter - 21
+++
+++
।। एकविंशोऽध्यायः ।।
प्रतिष्ठारम्भदिवसात् तृतीये दिवसेऽपि वा।
पूर्वस्मिन् दिवसे वापि प्रतिष्ठाङ्कुरमारभेत्।। 21.1 ।।
तस्मिन् दिने देशिकेन्द्रश्चतुरो ऋत्विजस्तथा।
प्रासादस्य प्रतिष्ठार्थं वृणुयादात्मसंमतम्।। 21.2 ।।
आचार्यं सोऽपि चतुरो ऋत्विजः प्रार्थयेद्रमे।
यूयं श्रीपाञ्चरात्रस्य तत्त्वज्ञा ब्रह्मवादिनः।। 21.3 ।।
अतो हरेः प्रतिष्ठार्थं प्रासादस्य मया सह।
कुरुध्वं कर्म विधिवन्नापचारो भवेद् यथा।। 21.4 ।।
इति संप्रार्थ्य तैः साकं स्नायाद्वपनपूर्वकम्।
शुक्लाम्बरधराः सर्वे कृतपञ्चाङ्गभूषणाः।। 21.5 ।।
कृतोर्ध्वपुण्ड्राः शुद्धाश्च शुद्धयज्ञोपवीतिनः।
भट्टाचार्यो देवदेवं स्वगृहे पूजयेत्पुरा।। 21.6 ।।
स्वर्णताम्बूलवस्त्राणि ब्राह्मणेभ्योऽददत्पुरा।
तेभ्योऽनुज्ञामनुप्राप्य यजमानेन संमितः।। 21.7 ।।
ऋत्विग्भिर्ब्राह्मणैश्चैव सर्ववादित्रनिः स्वनैः।
परिचारवरैश्चापि छत्रचामरपाणिभिः।। 21.8 ।।
ताम्बूलपूगपूष्पाणि फलानि स्वर्णपात्रके।
ग्राहयित्वा वेदघोषैः कार्तान्तिकवरैः सह।। 21.9 ।।
इत्थं सर्वोपकरणैः पश्यन् शकुनमुत्तमम्।
सुमुहूर्ते देशिकेन्द्रः पूर्णकुम्भं करे वहन्।। 21.10 ।।
गृहाद्गच्छेदुदीचीं वा प्राचीं वा मनसा हरिम्।
ध्यायन् वै शाकुनं सूक्तमन्यैर्देशिकसत्तमैः।। 21.11 ।।
भद्रं कर्णं पठन् देवि रहेर्धाम प्रदक्षिणम्।
कृत्वा मण्डपमाचार्यः प्रविशेद्दीक्षितैः सह।। 21.12 ।।
ऋत्विक्ततो दर्भपुञ्जैर्दीर्घीभूतैः सपावकैः।
आकर्षयेद्देवधाम्नि सर्वस्मिन् मण्डपे तथा।। 21.13 ।।
प्राकारेषु च सर्वत्र शुचीव इति मन्त्रतः।
पर्यग्निकरणं कुर्यात् तेन शुद्धिर्ध्रुवा भवेत्।। 21.14 ।।
प्रक्षाल्य च ततः पादावाचम्य च यथाविधि।
नित्यकर्मणि दर्भाभ्यां पवित्रं धारयेत्कृतम्।। 21.15 ।।
त्रिभिस्तु पितृकार्येषु चतुर्भिश्चाभिचारके।
पञ्चभिः पौष्टिके षड्भिः शान्तिकार्येषु भोजने।। 21.16 ।।
पवित्रं वलयं द्वाभ्यां सप्तभिः सर्वकर्मसु।
द्व्यङ्गुलं वलयं प्रोक्तं ग्रन्थिरेकाङ्गुली भवेत्।। 21.17 ।।
चतुरङ्गुलमायामः पञ्चमुष्टिमिताः कुशाः।
[पवित्रं वलयं प्रोक्तं हेमरत्नविनिर्मितम्]।। 21.18 ।।
करशुद्धिं ततः कृत्वा पवित्रं धारयेत् करे।
प्राणायामत्रयं कृत्वा विष्टरासनमास्थितः।। 21.19 ।।
चरणं पवित्रमुच्चार्य महीं प्रक्षालयेत् पुरा।
विष्णोरराटमन्त्रेण दर्भैः संमार्जयेदनु।। 21.20 ।।
गन्धद्वारेति मन्त्रेण गोमयेनानुलेपयेत्।
आप उन्दन्तु मन्त्रेण सुधाचूर्णैरलंक्रियात्।। 21.21 ।।
देवस्य त्वेति मन्त्रेण विकिरेदक्षतान् क्षितौ।
ग्रीष्मो हेमन्तमन्त्रेण धान्यपीठं प्रकल्पयेत्।। 21.22 ।।
शं नो देवीति मन्त्रेण शतपत्रं लिखेत् सुधीः।
धन्वनागेति मन्त्रेण दर्भैरूर्ध्वं परिस्तरेत्।। 21.23 ।।
तस्मिन् लक्षणसंयुक्तं कनकादिविनिर्मितम्।
रत्नं स्वर्णं नालिकेरकूर्चमश्वत्थपल्लवम्।। 21.24 ।।
विनिक्षिप्य च तोयेन गन्धेनापूरयेत् घटम्।
चन्दनाक्षतमालाभिर्भूषणैश्चाप्यलंक्रियात्।। 21.25 ।।
तस्य कुम्भस्य परितः एकायनविदो न्यसेत्।
सूर्यमण्डलमध्यस्थहरेर्दक्षिणहस्ततः।। 21.26 ।।
सहस्रारं समावाह्य कुम्भे नारायणं स्मरन्।
संपूज्य गन्धपुष्पाद्यैः फलादीनि निवेदयेत्।। 21.27 ।।
दर्भैः स्पृष्टघटैः सार्धं पुण्याहं वाचयेद् गुरुः।
ओंकाराद्यं पवित्रान्तं मन्त्राणां प्राक्चतुष्टयम्।। 21.28 ।।
तत आत्मानुवादं च ह्यात्मव्यूहमतः परम्।
शुद्धयेऽस्तु परो देवो वासुदेवोऽस्तु शुद्धये।। 21.29 ।।
संकर्षणः शुद्धयेऽस्तु प्रद्युम्नश्चास्तु शुद्धये।
अनिरुद्धः केशवश्च श्रीमान्नारायणस्तथा।। 21.30 ।।
माधवः शुद्धये चास्तु गोविन्दः शुद्धये तथा।
शुद्धये विष्णुरस्त्वाद्यः शुद्धये मधुसूदनः।। 21.31 ।।
त्रिविक्रमो वामनश्च श्रीधरश्चास्तु शुद्धये।
हृषीकेशः पद्मनाभः शुद्धयेऽस्तु जगत्पतिः।। 21.32 ।।
दामोदरः शुद्धयेऽस्तु पद्मनाभोऽस्तु शुद्धये।
ध्रुवोऽनन्तस्तु शक्त्यात्मा शुद्धये मधुसूदनः।। 21.33 ।।
विद्याधिदेवः कपिलो विश्वरूपोऽस्तु शुद्धये।
विहङ्गमस्तु क्रोडात्मा शुद्धये बडबाननः।। 21.34 ।।
धर्मो वागीश्वरो देव एकार्णवशयस्तथा।
शुद्धयेऽस्तु सदा देवः कूर्मः पातालधारकः।। 21.35 ।।
वराहः शुद्धये चास्तु नारसिंहोऽस्तु शुद्धये।
अमृताहरणश्चापि श्रीपतिश्चास्तु शुद्धये।। 21.36 ।।
कान्तात्मा राहुजिच्चास्तु कालनेमिस्तु शुद्धये।
पारिजातहरश्चास्तु लोकनाथस्तु शुद्धये।। 21.37 ।।
दत्तात्रेयस्तु भगवान् न्यग्रोधशयनस्तथा।
एकशृंगतनुश्चास्तु वामनश्चास्तु शुद्धये।। 21.38 ।।
त्रिविक्रमो नरश्चैव नारायणहरिस्तथा।
ज्वलत्परशुभृद्रामः कृष्णश्चास्तु विशुद्धये।। 21.39 ।।
रामो धनुर्धरश्चास्तु वेदविच्चास्तु शुद्धये।
शुद्धयेऽस्तु सदा कल्की सर्वदोषक्षयंकरः।। 21.40 ।।
शुद्धयेऽस्तु सदा देवः पातालशयनः प्रभुः।
शुद्धये सन्तु सर्वेषां सर्वे सर्वत्र सर्वदा।। 21.41 ।।
ऋद्धये पुष्टये सन्तु शान्तये सिद्धये सदा।
शिवाय मुक्तिवृद्धिभ्यामविघ्नाय च कर्मणाम्।। 21.42 ।।
मन्त्राणां देशिकेन्द्राणां दासीदासगवामपि।
वेदशास्त्रागमादीनां व्रतानामिष्टसंपदाम्।। 21.43 ।।
आयुष्यारोग्यमेधानां धनधान्यादिसंपदाम्।
राज्ञो जनपदस्यापि यजमानस्य मन्त्रिणाम्।
पञ्चकालविशुद्धानां वैष्णवानां तपस्विनाम्।। 21.44 ।।
स्वस्त्यस्तु च शिवं चास्तु शिवं चास्तु पुनः पुनः।
अविघ्नमनिशं चास्तु दीर्घमायुष्यमस्तु नः।। 21.45 ।।
समाहितमनश्चास्तु पुण्याहं सर्वशुद्धिकृत्।
शङ्खचक्रगदापद्मयुक्तः सर्वेश्वरेश्वरः।। 21.46 ।।
प्रीयतां वासुदेवोऽयं श्रीपतिः सर्वसिद्धिदः।
प्रीयतां प्रीयतामद्य पूर्वोक्ताः सर्वदेवताः।। 21.47 ।।
इत्थमेकायनप्रोक्तपुण्याहं दीक्षितोत्तमैः।
वाचयित्वा तदद्भिः स्वमात्मानं प्रोक्षयेत् पुरा।। 21.48 ।।
ततः शिष्यान् साधकांश्च ऋत्विजः परिचारकान्।
पदार्थानि च सर्वाणि यागमण्डपमेव च।। 21.49 ।।
सदनं देवदेवस्य प्रोक्षयेत् प्रथमं गुरुः।
कपिलाजरयोर्ग्राह्यं पञ्चगव्यं प्रशस्यते।। 21.50 ।।
पञ्चगव्यं तु गृह्णीयात् मृत्पात्रे नूतने शुभे।
आर्ता जरागर्भिणीभ्याम् अवत्सेभ्यो दशाहतः।। 21.51 ।।
पूर्वं तु न तु गृह्नीयात् गृहीतं न तु शुद्धिकृत्।
गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च पञ्चकम्।। 21.52 ।।
विसृज्यमाने संग्राह्यं मूत्रं भूमिष्ठमेव च।
सोष्णं क्रिम्यादिरहितं गोमयं पीडयेत्ततः।। 21.53 ।।
रसं सद्यस्तनघृतमहोरात्रोषितं दधि।
क्षीरं ग्राह्यमतप्तं च शुद्धान्येतानि सर्वदा।। 21.54 ।।
गोमूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयम्।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि।। 21.55 ।।
घृतं शुक्रमसीत्येवं द्रव्याणि सह योजयेत्।
विष्णुगायत्रिया यद्वा पञ्चोपनिषदापि वा।। 21.56 ।।
एकमानं घृतं युग्मं दधि स्यात् त्रिगुणं पयः।
षड्गुणं मूत्रमेतस्मात् शकृद्धारिचतुर्गुणम्।। 21.57 ।।
स्नपने कथितं मानं प्रोक्षणे पञ्चकं समम्।
गोमयेन समं मूत्रं दधि स्याद् द्विगुणं ततः।। 21.58 ।।
घृतं चतुर्गुणं प्रोक्तं ततश्चाष्टगुणं पयः।
प्राशने पञ्चगव्यानां प्रमाणमिदमीरितम्।। 21.59 ।।
एतेन पञ्चगव्येन धाम्नः सर्वस्थलान्यपि।
यागशालामण्डपादि प्रोक्षयेत् सर्वतो गुरुः।। 21.60 ।।
धूपयेत् सर्वतो धूपानक्षतान् कुसुमैः सह।
सिद्धार्थांश्चापि विकिरेत् सेचयेत् गन्धवारिभिः।। 21.61 ।।
रङ्गवल्ल्यादिभिर्धाम शोभयेत् सर्वतो दिशि।
अनिर्वाणान् बहून् दीपान् गोघृतैर्दीपयेद्रमे।। 21.62 ।।
Chapter - 22
+++
+++
।। द्वाविंशोऽध्यायः ।।
बालस्थानमकृत्वैव मन्दिरं निर्मितं यदि।
प्रतिष्ठोपक्रमात् पूर्वं वेदिकायां गुरूत्तमः।। 22.1 ।।
धान्यपीठं पञ्चभारं तदर्देन च तण्डुलम्।
तदर्धेन तिलेनापि पीठं तु परिकल्पयेत्।। 22.2 ।।
तस्मिन् पद्मं विलिख्याथ बिम्बं वा लक्षणान्वितम्।
सकूर्चं नालिकेरादि साम्रपल्लवसंयुतम्।। 22.3 ।।
कलशं वाथ संस्थाप्य रविमण्डलमध्यतः।
ओं नमः पुण्डरीकाक्ष भगवन् भक्तवत्सल।। 22.4 ।।
क्षन्तुमर्हसि देवेश यन्मया बालमन्दिरम्।
अकृत्वैव कृतं सद्म भक्तानुग्रहकाम्यया।। 22.5 ।।
[अस्मिन्नागच्छ भगव् साधयास्मत्क्रियां हरे।]
इति संप्रार्थ्य चावाह्य अर्घ्यपाद्यादिभिर्यजेत्।। 22.6 ।।
पायसान्नं निवेद्याथ नीराजनमथाचरेत्।
भूपरिग्रहकार्यादि समाप्तेरालयस्य च।। 22.7 ।।
बिम्बानां चापि निर्माणममन्त्रं यदि कल्पितम्।
बालबिम्बपुरोभागे कुण्डे वा स्थण्डिलेऽपि वा।। 22.8 ।।
अग्निं विधिवदुत्पाद्य तस्मिन् देशिकसत्तमः।
तत्तत्काले च होमादि कार्यमाकृष्य वै रमे।। 22.9 ।।
प्रायश्चित्तं च जुहुयात् पूर्णाहुत्यवसानकम्।
मूलबिम्बादिबिम्बानामालयस्य च लक्षणम्।। 22.10 ।।
देवा अपि न जानन्ति किं पुनर्मनुजा भुवि।
अतोऽपराह्नसमये मानोन्मानविशुद्धये।। 22.11 ।।
बालबिम्बपुरोभागे स्थापितेऽग्नौ हुताशने।
सप्तव्याहृतिभिः पूर्वं शमीपल्लवसंयुतान्।। 22.12 ।।
अक्षतान् गुरुख्यग्रः प्रत्येकं जुहुयाच्छतम्।
नृसूक्तेन चरुं पश्चात् प्रत्येकं षोडशाहुतीः।। 22.13 ।।
पञ्चोपनिषदा चैव प्रत्येकं जुहुयाच्छतम्।
पूर्णाहुतिं ततः कृत्वा विसृजेदनलं गुरुः।। 22.14 ।।
ततः सायाह्नसमये प्रतिष्ठाङ्कुरसिद्धये।
हेमादिनिर्मिते पात्रे ताम्बूलं कदलीफलम्।। 22.15 ।।
नालिकेरफलं चापि तण्डुलं पुष्पचन्दनम्।
दर्भपुञ्जं च करकं छत्रं चामरमेव च।। 22.16 ।।
व्यजनं करदीपं च हेमदण्डादिकांस्तथा।
ग्राहितैः परिचारैश्च देशिकैरितरैरपि।। 22.17 ।।
वेदघौषैर्वाद्यघोषैर्गच्छेद्बालगृहं रमे।
बालबिम्बपुरोभागे पटलादिन् निवेश्य च।। 22.18 ।।
प्रणमेद्दण्डवद्भूमौ चतुर्वारं जगत्प्रभुम्।
अर्घ्यादिना समभ्यर्च्य नैवेद्यान्तं गुरुः स्वयम्।। 22.19 ।।
पुष्पाक्षतान् समादाय हस्ताभ्यां प्रार्थयेद्विभुम्।
नमस्तुभ्यं भगवते वासुदेवाय वेधसे।। 22.20 ।।
शङ्खचक्रगदापद्मधारिणे शेषशायिने।
वैकुण्ठे परमे धाम्नि नित्यैर्मुक्तैश्च सूरिभिः।। 22.21 ।।
सेविताय जगत्स्रष्ट्रे व्यापिने सर्ववस्तुषु।
हिताय सर्वलोकानां राजराष्ट्राभिवृद्धये।। 22.22 ।।
महाप्रतिष्ठासिद्ध्यर्थमङ्कुरार्पणमारभे।
नियोजयतु सेनान्यं मृदानयनकर्मणि।। 22.23 ।।
इति विज्ञाप्य पुष्पादीनर्चयेच्चरणाम्बुजे।
हेमादिपटलन्यस्ते दर्भैः षोडशभिः कृते।। 22.24 ।।
कूर्चे सेनपमावाह्य बालबिम्बस्य पीठतः।
अर्घ्यादिभिः समभ्यर्च्य प्रार्थयेद् गणनायकम्।। 22.25 ।।
महाप्रतीष्ठारक्षार्थं प्रभुणाज्ञापितो भवान्।
मया सह मृदानेतुमागच्छामरवन्दित।। 22.26 ।।
संप्रार्थ्यैवं वेदघोषैर्वाद्यघोषपुरःसरम्।
पटलादीन् समादाय छत्रचामरपाणिभिः।। 22.27 ।।
गत्वा प्राचीमुदीचीं वा मृत्तिकाहरणे स्थले।
पुण्याहवारिभिः शुद्धे मण्डपे हेमविष्टरे।। 22.28 ।।
स्थापयित्वा च सेनान्यं पटलादि पुरो भुवि।
पुरतस्तस्य वै भूमावीशान्ये न्यस्तमौलिकाम्।। 22.29 ।।
नैर्ऋते न्यस्तपादान्तामूर्ध्ववक्त्रां कृताञ्जलिम्।
विलिख्य वसुधामित्थं धान्यपीठं ततो गुरुः।। 22.30 ।।
शिरःप्रदेशे तस्यास्तु दक्षिणे वा प्रकल्पयेत्।
हैमं खनित्रं तस्मिंस्तु दर्भाद्यैः समलंकृतम्।। 22.31 ।।
स्थापयित्वा परिस्तीर्य धान्यपीठं भुवं तथा।
वस्त्रादिभिरलंकृत्य भूषणैश्च यथाक्रमम्।। 22.32 ।।
सप्तदर्भकृतं कूर्चं तालमानसमन्वितम्।
धाराय हृदि विन्यस्य खनित्रेऽपि च कूर्चकम्।। 22.33 ।।
पुण्याहवारिणा प्रोक्ष्य भूमिर्भूम्नेति मन्त्रतः।
प्रार्थयेत् तत्र वै देवीं वसुधां विष्णुवल्लभाम्।। 22.34 ।।
वासुदेवस्य देवस्य प्रतिष्ठां कर्तुमारभे।
तदङ्कुरस्य दानाय संनिधत्स्वात्र वै धरे।। 22.35 ।।
इत्यावाह्यार्घ्यपाद्यद्यैरभ्यर्च्य तदनन्तरम्।
क्रोडावतारभूम्याप्तहिरण्याक्षनिबर्हण।। 22.36 ।।
प्रतिष्ठार्थं भगवतो मृत्संग्रहणकर्मणि।
संनिधत्स्व खनित्रेऽस्मिन् लोकानां क्षेमहेतवे।। 22.37 ।।
इत्यावाह्यार्घ्यपाद्याद्यैर्चयेत् क्रोडरूपिणम्।
गुडापूपं निवेद्याथ तयोर्नीराजनं चरेत्।। 22.38 ।।
खनित्रं गुरुरादाय गायत्रीं क्रोडरूपिणः।
उच्चरन् वसुधायास्तु मुखबाहुस्तनाङ्घ्रिषु।। 22.39 ।।
खनित्रेणाददन्मृत्स्नां पातालाद्वसुधां रमे।
आदाय बहिरायान्तं ध्यायेत् क्रोडं हरिं विभुम्।। 22.40 ।।
मृदं स्वर्णादिपात्रेषु गायत्र्या विष्णुपूर्वया।
निक्षिपेद् वालुकां तत्र गोशकृच्चूर्णमेव च।। 22.41 ।।
संपाद्य तानि पात्रेषु निक्षिप्य च ततो रमे।
पिदध्यान्नूतनैर्वस्त्रैर्मूलमन्त्रेण मन्त्रवित्।। 22.42 ।।
स्यन्दने वा गजस्कन्धे परिचारकमूर्घ्नि वा।
निधाय सर्ववाद्यैश्च वेदघोषैश्च संमितः।। 22.43 ।।
धाम प्रदक्षिणीकृत्य नयेदङ्कुरमण्डपम्।
पुण्याहवारिभिः प्रोक्ष्य प्रपां देशिकसत्तमः।। 22.44 ।।
पालिकादीनि सर्वाणि सद्य एवाधिवासयेत्।
स्थानानि कल्पयेत्तेषां यथाशास्त्रं विचक्षणः।। 22.45 ।।
चन्दनार्द्राणि सूत्राणि स्फालयेद्वेदिकोपरि।
प्रागायतानि प्रथममृजूनि द्वादश स्फुटम्।। 22.46 ।।
दक्षिणादुदगग्राणि तिर्यक् षोडश लेखयेत्।
एतेषु पंचमात्सूत्राद्यावत्षष्ट्यन्तु सूत्रकम्।। 22.47 ।।
ततो दशमसूत्राच्च यावदेकादशावधि।
[ततोऽस्त्वष्टमसूत्राच्च यावन्नवमसूत्रकम्।]
तिर्यक् चतुर्भ्यः सूत्रेभअयो यावत्पञ्चमसूत्रकम्।। 22.48 ।।
अष्टमात् सूत्रपाताच्च यावन्नवमसूत्रकम्।
ततो द्वादशसूत्राच्च रेखा यावत् त्रयोदशम्।। 22.49 ।।
तिर्यग्वीथित्रयोपेतमायामे द्वे प्रकीर्तिते।
एवं कृते तु षट्त्रिंशत् स्थानं भवति पद्मजे।। 22.50 ।।
घटिकानामित्थमेव शरावाणाम् अपि तथा।
इत्थमष्टोत्तरशतं स्थानं भवति पद्मजे।। 22.51 ।।
तिर्यग्वीथित्रयोपेतमायामे विथियुग्मकम्।
एकैकस्य च कोष्ठस्य पात्राणि स्युर्नवैव च।। 22.52 ।।
प्रत्येकं षोडशविधौ पश्चिमात्सूत्रपातनम्।
प्रागन्तानि नावनि स्युर्दक्षिणादुत्तरावधि।। 22.53 ।।
स्फालयेद् द्वादशीसंख्या सूत्राणि स्थाननिर्णये।
सूत्रपातात्तृतीयाच्च षष्ठादपि च वीथिकाम्।। 22.54 ।।
कल्पेन नवमाद्वापि यावद्दशमरेखकम्।
ऋजोरुत्तररेखायास्तृतीयायास्ततो रमे।। 22.55 ।।
यावच्चतुर्थरेखा स्यात्तावन्मध्य तु वीथिका।
सूत्रपाताच्च षष्ठाद्वै यावत्सप्तमरेखिका।। 22.56 ।।
प्रत्येकमष्टसंख्याया स्थापने वीथिकल्पनम्।
पश्चिमात् सूत्रपातं तु नवभिः परिकल्पयेत्।। 22.57 ।।
तिर्यञ्चि सूत्रपातानि षट्संख्याकानि वै रमे।
उत्तरात् त्रितयाद्वीथिर्यावद्रेखाचतुर्थकम्।। 22.58 ।।
षष्ठाच्च सप्तमं यावदृजौ वीथीं प्रकल्पयेत्।
तिर्यङ्मध्ये वीथिरेखा कल्पनीया यथाविधि।। 22.59 ।।
एवं वीथीः पुराकल्प्य तत्तद्वीथ्यन्तरेषु च।
वेदिं हस्तोच्छ्रितां कृत्वा पुरालंकृत्य देशिकः।। 22.60 ।।
प्रमाणैराढकैर्धान्यैः पीठं कुर्यात्पृथक्पृथक्।
लिखेदष्टदलं तेषु पद्ममस्त्रं समुच्चरन्।। 22.61 ।।
कुशकाशैः पालिकानां बिलानि पिदधात्ततः।
मृद्भिः संपूरयेत् पूर्वं वालुकाभिरनन्तरम्।। 22.62 ।।
करीषचूर्णैस्तदनु क्षीरार्णवसमुद्भवे।
अश्वत्थपल्लवैः सार्धं दूर्वाभिर्दर्भपल्लवैः।। 22.63 ।।
सहदेवी निशाम्रैश्च देशिको मूलविद्यया।
गलेषु बन्धयेत्तेषां स्थापयेत्तदनन्तरम्।। 22.64 ।।
पालिका दक्षिणे स्थाप्या मध्यमे घटिकास्तथा।
उत्तरेषु शरावाश्च पालिकाद्या यथाक्रमम्।। 22.65 ।।
एतेषां पश्चिमे स्थाने सधान्ये वेदिकोपरि।
सोमकुम्भं च परितः उपकुम्भाष्टकैः सह।। 22.66 ।।
सुदर्शनं च करके स्थापयेदुत्तरस्थले।
प्रत्येकं वेष्टयेद्वस्त्रैर्मूलमन्त्रं समुच्चरन्।। 22.67 ।।
उच्चरन् पौरुषं सूक्तं पालिकास्स्थापयेत्ततः।
पारमेष्ठ्येन मन्त्रेण घटिका विश्वमन्त्रतः।। 22.68 ।।
विष्णुगायत्रिया देवि शरावान् स्थापयेद् गुरुः।
गन्धोदकैः सोमकुम्भमन्यानपि च पूरयेत्।। 22.69 ।।
आम्रपल्लवकूर्चानि नालिकेरमुखे न्यसेत्।
नीवारशालिगोधूममुद्गनिष्पाववैणवाः।। 22.70 ।।
प्रियङ्गुतिलमाषाश्च कुलुत्थाः सर्षपा यवाः।
एतानि स्वर्मपात्रेषु प्रत्येकं स्थापयेत् पुरा।। 22.71 ।।
एतानि धान्यपात्राणि वस्त्रैराच्छाद्य देशिकः।
शिरस्सु परिचाराणां निधाय कमलोद्भवे।। 22.72 ।।
सर्वोपकरणैर्वाद्यैर्वेदघोषैश्च संमितः।
धाम प्रदक्षिणीकृत्य मण्डपं पुनरानयेत्।। 22.73 ।।
पयसा शोधयेत्पूर्वं गायत्र्या विष्णुपूर्वया।
दान्यपीठे विनिक्षिप्य प्रोक्षयेत् पुण्यवारिणा।। 22.74 ।।
द्वारतोरणकुम्भेषु बालबिम्बस्य पीठतः।
देवान् संप्रार्थ्य विधिवत् पूजयेत् गुरुरात्मवान्।। 22.75 ।।
पालिकादिषु सर्वेषु कुम्भे सोमरथाङ्गयोः।
उपकुम्भेषु पद्मान्तं पीठमाकल्प्य चाक्षतैः।। 22.76 ।।
संकर्षणांशजं विष्णुं पालिकासु यजेद्रमे।
अनिरुद्धांशसंभूतं ब्रह्माणं घटिकासु च।। 22.77 ।।
प्रद्युम्नांशजं शर्वं शरावेषु सरोद्भवे।
प्रद्युम्नांशात्समुद्भूतमोषधीशं तु तद्घटे।। 22.78 ।।
इन्द्रादीनुपकुम्भेषु करके च सुदर्शनम्।
नीवारादिषु धान्येषु केशवादीन् समर्चयेत्।। 22.79 ।।
सर्वार्थपालिकानां च षोडशेषु क्रमाद्रमे।
वासुदेवादि चतुरो दश द्वौ केशवादयः।। 22.80 ।।
केशवादीन् द्वादशसु विष्णवादीनष्टके यजेत्।
जनार्दनादींश्चतुर्षु क्रमेणावाह्य पूजयेत्।। 22.81 ।।
पायसान्नं निवेद्याथ नववस्त्रेण वेष्टयेत्।
घटिकानां पूर्वभागे कुण्डे वा स्थण्डिलेऽपि वा।। 22.82 ।।
पीठमाकल्प्य पद्मान्तं लक्ष्मीशं तत्र पूजयेत्।
भगवन् सर्वलोकेन प्रतिष्ठां कर्तुमुद्यतः।। 22.83 ।।
तदङ्गाङ्कुरदानाय वह्निमुत्पाद्य वै पुरा।
होतुमिच्छामि तत्सिद्ध्यै ह्यनुज्ञां दातुमर्हसि।। 22.84 ।।
इति संप्रार्थ्य वै विद्वान् बालगेहपुरो रमे।
मत्सङ्गादुत्थितं ध्यात्वा वह्निं कुण्डे विसर्जयेत्।। 22.85 ।।
मुखान्तमाहुतीर्हुत्वा ततो वह्नेर्यथाक्रमम्।
जातकर्मक्रियादीनि कल्पयेदस्य वै रमे।। 22.86 ।।
मदन्यदेवताहोमे त्वित्थमग्नेस्तु संस्क्रिया।
आवयोस्तु यदा होमः क्रियते गुरुणा यदि।। 22.87 ।।
तदा मन्मुखतो वह्निमुत्पन्नं मनसा स्मरेत्।
एतस्य जातकर्मादि क्रिया नास्ति कदाचन।। 22.88 ।।
प्रतिष्ठायामुत्सवे च मदुद्दिश्यान्यकर्मसु।
इत्थमुत्पाद्य जुहुयात् वह्निं देशिकसत्तमः।। 22.89 ।।
अङ्कुराग्नौ पुरा ह्यावामावाह्य विधिवद्धुते।
तत उद्वास्य सोमस्य पीठकल्पनमाचरेत्।। 22.90 ।।
आवाह्य तस्मिन् सोमं वै षडङ्गं तस्य कल्पयेत्।
आज्येनार्घ्यादिकान् हुत्वा सोममन्त्रेण वै ततः।। 22.91 ।।
आज्येनाष्टोत्तरशतं जुहुयाद्देशिकोत्तमः।
पलाशखादिराश्वत्थबिल्वानां समिधां शतैः।। 22.92 ।।
अष्टोत्तरैश्च जुहुयात् मूलमन्त्रेण देशिकः।
पुनः सोमस्य मन्त्रेण जुहुयाच्छतमाहुतीः।। 22.93 ।।
पालिकाद्यधिदेवानां नामान्युच्चार्य देशिकः।
अष्टोत्तरशतं वापि अष्टाविंशतिरेव वा।। 22.94 ।।
अष्टौवा जुहुयादाज्यैः संपाताज्यमथाहरेत्।
हुत्वा पूर्णाहुतिं भद्रे संपाताज्येन वै ततः।। 22.95 ।।
पवनाधिपतिं ध्यायन् कूर्चाग्रेण गुरूत्तमः।
पालिकादिषु सर्वेषु सोमकुम्भेषु वै घृतम्।। 22.96 ।।
विसृजेदवशिष्टं च बीजपात्रे नियोजयेत्।
उद्वास्य सोममग्निस्थं वह्निं च विसृजेत्ततः।। 22.97 ।।
बीजानि द्वादशार्णेन पालिकादिषु निक्षिपेत्।
मूर्धानमिति मन्त्रेण बीजानि छादयेन्मृदा।। 22.98 ।।
आपो हिष्ठेति मन्त्रेण इमं मे वरुणेत्यृचा।
सेचयेद् बीजसंदोहान् हरिद्रासलिलैस्ततः।। 22.99 ।।
सोमकुम्भलेनापि कूर्चेन प्रोक्षयेच्च ताः।
सोमकुम्भस्थसोमं च पालिकादिषु देवताः।। 22.100 ।।
अर्घ्यादिना समभ्यर्च्य पायसान्नं निवेदयेत्।
कुमुदादिबलिं दद्यात् प्रतिष्ठादिवसावधि।। 22.101 ।।
कालयोः पूजनं कुर्याद्धरिद्राजलसेचनम्।
अङ्कुरान् श्यामलान् कृष्णान् रक्तान् तिर्यग्गतानपि।। 22.102 ।।
अप्ररूढांस्त्यजेन्मन्त्री यथापूर्वं पुनः सृजेत्।
शान्तिहोमं च कुर्वीत तद्दोषस्य प्रशान्तये।। 22.103 ।।
नित्यनैमित्तिके सृष्टिः काम्ये त्याज्यो न संशयः।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत्।। 22.104 ।।
कृष्णेषु मानसी पीडा रोगस्तिर्यग्गतेषु चेत्।
अप्ररूढेषु मरणं भवेत्तत्र न संशयः।। 22.105 ।।
शुभं पीतेषु शुक्लेषु ऋजुषूर्ध्वगतेष्वपि।
सर्वसंपत्समृद्धिश्च कर्तुः कारयितुर्भवेत्।। 22.106 ।।
एवं सर्वेषूत्सवेषु नित्यनेमित्तिकेषु च।
अङ्कुरानर्पयित्वैवं शुभं कार्यं समाचरेत्।। 22.107 ।।
द्रव्यादीनामलाभे वा कार्यस्यावसरेण वा।
अष्टोत्तरान् पालिकादीन् न स्थापयति चेद्रमे।। 22.108 ।।
पालिका एव सर्वार्थे षोडश द्वादशाष्ट वा।
चत्वारो वापि कल्प्याः स्युस्तदा प्रत्येकतोरमे।। 22.109 ।।
न कल्पयेत् प्रपां तासां यागमण्डप एव ताः।
ऐशान्यां वेदिकायां च स्नापयित्वा तु पूजयेत्।। 22.110 ।।
षोडशादिषु कल्प्येषु मध्ये सोमस्य पूजनम्।
एतदङ्कुरदानं तु रात्रावेव प्रशस्यते।। 22.111 ।।
ओषधीनां हि वै सोम अधिपस्तस्य तु प्रिया।
रात्रिस्तस्यां पूज्यमाने सोमे सर्वा हि पूजिताः।। 22.112 ।।
आचार्यस्य प्रभोर्धाम्न सर्ववृद्धिर्भवेत् किल।
गोघृतैः सर्वतो दीपाननिर्वाणांश्च दीपयेत्।। 22.113 ।।
Chapter - 23
+++
+++
।। त्रयोविंशोध्यायः ।।
ततो घटान् सकरकान् द्वारकुंम्भांस्तथैव च।
स्नानयोग्यानपि घटान् मण्डपे त्वधिवासयेत्।। 23.1 ।।
शोधयेत् सलिलैः शुद्धै रन्ध्रादिपरिवर्जितान्।
सूत्रेण वेष्टयेद्यत्नादङ्गुलाङ्गुलमन्तरम्।। 23.2 ।।
उपयुङ्क्ते यदि घटान् स्वर्णादीन् लोहनिर्मितान्।
सूत्रेण वेष्टनं तेषां न कर्तव्यं जलोद्भवे।। 23.3 ।।
पश्चिमे यागसदनाद् व्रीहिभिश्छादयैद्भुवम्।
पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत्।। 23.4 ।।
अधोमुखान् घटान् सर्वान् न्यसेत्पङ्क्तिक्रमेणवै।
कुशानुपरि संस्तीर्य प्राङ्मुखं परमेष्ठिना।। 23.5 ।।
दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वेतः।
संप्रोक्ष्य पुंसा विश्वेन विकिरेदक्षतान् रमे।। 23.6 ।।
कुम्भवेद्यां पुरा देवि प्रत्येकं व्रीहिभिर्गुरुः।
पीठमष्टाङ्गुलं कुर्यात् तदर्धं तण्डुलेन च।। 23.7 ।।
तिलेन च तदर्धेन पद्मं वा चक्रमेव वा।
लिखित्वा तेषु वै कुम्भान् करकं चापि विन्यसेत्।। 23.8 ।।
तथा द्वारादिकुम्भानां घटानामभिषेचने।
षडङ्गुलं व्रीहिपीठं तदर्धेन च तण्डुलम्।। 23.9 ।।
तिलेन पीठं तस्यार्धं पल्पयित्वा च तेषु वै।
घटादयः स्थापनीया नो चेत्कर्म निरर्थकम्।। 23.10 ।।
चक्राब्जाय च वेद्यां तु व्रीह्याद्यैः पीठकल्पने।
तिलं विना तु कर्तव्यं तस्मिन्नब्जं लिखेद्गुरुः।। 23.11 ।।
पञ्चवर्णैस्तण्डुलैश्च तद्दलानि च कल्पयेत्।
कर्णिकां पीतवर्णेन रक्तश्वेतैश्च केसरान्।। 23.12 ।।
ततः प्रभाते स्नानादि नित्यकर्म समाप्य च।
ऋत्विग्भिरालयं गत्वा पालिकाबालबिम्बयोः।। 23.13 ।।
पूजां प्रकल्पयेद्धीमान् तथा द्वारादिपूजनम्।
प्रतिष्ठान्तं त्वित्थमेव कालयोः पूजनं चरेत्।। 23.14 ।।
पुराधिवासितान् कुम्भांस्तन्तुभिः परिवेष्टितान्।
विदिक्षु मध्यमे चापि विन्यसेत् पञ्च वै रमे।। 23.15 ।।
पञ्चगव्यानि मन्त्रैस्तु मेलयेदभिषेचने।
पञ्चगव्यैस्ततः पञ्च कलशान् पूरयेत् गुरुः।। 23.16 ।।
एकैकस्मिन् घटे कूर्चं नालिकेरफलं तथा।
आम्रपल्लवगुच्छैश्च कलशानपिधापयेत्।। 23.17 ।।
महामण्डपभूभागे विन्यसेत् स्नानविष्टरम्।
कर्मादिलोहबिम्बानि पीठे तस्मिन्नियोजयेत्।। 23.18 ।।
पीठस्य तस्य पुरतः स्थापितां धान्यविष्टरे।
शोधयेत् कलशान् पूजाद्रव्याण्यपि शोषयेत्।। 23.19 ।।
पुण्याहवारिणा प्रोक्ष्य सौरभेयीं प्रदर्शयेत्।
तद्दुग्धैरमृतीकृत्य सर्ववस्तूनि देशिकः।। 23.20 ।।
कुम्भेषु पूजयेद्देवान् पञ्चभूताधिदेवताः।
मूलादिसर्वदेवानां स्नानशाटीं समर्पयेत्।। 23.21 ।।
अर्घ्यादिभिः समभ्यर्च्य मधुपर्कं निवेदयेत्।
मूलबिम्बानि कुम्भेन मध्येनैवाभिषेचयेत्।। 23.22 ।।
कर्मादिसर्वबिम्बानि वह्निस्थेन ततो रमे।
नैर्ऋतेन विमानं च भक्तबिम्बानि मारुतात्।। 23.23 ।।
कुम्भेनैशेन सर्वत्र प्रोक्षयेदालयं ततः।
सुधामयादिबिम्बानां प्रोक्षणं पञ्चगव्यतः।। 23.24 ।।
शुद्धतोयैस्ततो बिम्बान्यभ्यषिञ्चेद्गुरूत्तमः।
शिल्पिदोषनिरासार्थं स्नानमेतत् प्रकीर्तितम्।। 23.25 ।।
पुनर्देवस्य पुरतो धान्यपीठं प्रकल्प्य च।
गोघृतैः पूरितं कुम्भं निक्षिपेत् तत्र देशिकः।। 23.26 ।।
तस्मिन्नारायणं देवमावाह्याभ्यर्चयेद्रमे।
घृतस्नातेति मन्त्रेण सर्वबिम्बानि लेपयेत्।। 23.27 ।।
गन्धचूर्णैः शोधयित्वा ह्युष्णोदैरभिषेचयेत्।
मूलादीनां च बिम्बानां सर्वेषां दर्भसंमितम्।। 23.28 ।।
युवासुवासामन्त्रेण वस्त्रयुग्मं समर्पयेत्।
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।। 23.29 ।।
दीपं नैवेद्यमपि च विष्णुगायत्रिया ततः।
दद्याच्छ्रियादिदेवीनां तत्तन्मन्त्रेण देशिकः।। 23.30 ।।
वास्तुशान्तिं ततः कुर्यात् तद्दैवं पूजयेत्पुरा।
पुरा दैवासुरे युद्धे दैत्यान् भृगुररक्षयत्।। 23.31 ।।
तत्पत्न्यप्यसुरान् सर्वानुदरे न्यस्य नित्यशः।
ततः कोपसमाविष्टः पत्न्यास्तस्य शिरोऽच्छिनम्।। 23.32 ।।
कोपेन महताविष्टे भृगौ तद्गात्रसंभवः।
स्वेदोऽपतद्धरापृष्ठे तत्स्वेदाद् दैत्यसत्तमः।। 23.33 ।।
भूमेरजनि सो देवान् हन्तुमुद्यतवांस्तदा।
सर्वे देवा मिलित्वा तं पातयन्तश्च तद्वपुम्।। 23.34 ।।
आक्रम्य रविमुख्यास्ते शिरःप्रभृति सुस्थिताः।
ततः क्रन्दितुमारब्धः पङ्कजासनमब्जजे।। 23.35 ।।
चतुर्मुखस्ततस्तस्मै वरं प्रादात्तु वास्तवे।
तव भूमेः समुत्पत्तिर्यस्माज्जाता भुवः सुत।। 23.36 ।।
तस्मात् त्वां मानवा भूमौ गृहं वा ग्राममेव वा।
पत्तनं वाथ देवस्य धाम वा कल्पयेद्यदा।। 23.37 ।।
इत्थं देवैरुपारूढं पूजयिष्यन्ति मद्वरात्।
तव तृप्तिस्तेन भवेद्यदि नार्चन्ति हेलया।। 23.38 ।।
पुत्रादीनां च नाशः स्यात् संपद्धीनो भविष्यति।
अतः संप्रार्थयेद् विद्वान् सर्वेषां क्षेमहेतवे।। 23.39 ।।
प्रपाया दक्षिणे पार्श्वे तिलभारैः प्रसारिते।
अधोमुखं प्राक्शिरसं कोणेषु चतुर्षु क्रमात्।। 23.40 ।।
प्रसारितं पाणिपादं विलिखेद्यत्नमास्थितः।
देवानावाह्य तस्मिंस्तु पूजयेत्तद्वदामि ते।। 23.41 ।।
मस्तके सूर्यमावाह्य बाहुमूले च मन्मथम्।
सुब्रह्मण्यं कूर्परेऽस्य वामहस्ते विनायकम्।। 23.42 ।।
पादद्वयेऽश्विनीदेवै मध्ये पूर्णनिशाकरम्।
पाणौ दुर्गां कूर्परे तु मातॄर्मूले भुजस्य च।। 23.43 ।।
उमापतिं नाभिदेशे ब्रह्माणं हृदये हरिम्।
परितोऽष्टसु लोकेशानुत्तरे क्षेत्ररक्षकम्।। 23.44 ।।
सप्तदर्भकृतं कूर्चं वास्तुनाथस्य वै हृदि।
निधाय मनसा ध्यायन्नाचार्यस्त्वृत्विजोऽपि वा।। 23.45 ।।
पूजयेद्वास्तुनाथस्य पश्चिमे लौकिकेऽनले।
पञ्चोपनिषदा मन्त्री सहस्रं जुहुयाद्घृतैः।। 23.46 ।।
शम्यपामार्गखदिरसमिद्भिस्तदनन्तरम्।
मूलमन्त्रेण तन्मन्त्रवर्णमेकैकमुच्चरन्।। 23.47 ।।
अष्टोत्तरशतं वापि ह्यष्टविंशतिमेव वा।
अष्टौ वा जुहुयाद्देवि सूक्तेन पुरुषात्मना।। 23.48 ।।
चरुं च जुहुयाद्भद्रे षड्दशाहुतिभिर्गुरुः।
सकृतंसकृच्चरुणा वास्तुनाथशरीरगान्।। 23.49 ।।
नामान्युच्चार्य हुत्वा च तेभ्य एव बलिं क्षिपेत्।
विसृजेत्तद्गतान् देवान् सूर्यादीन् गुरुसत्तमः।। 23.50 ।।
तत्स्थानं गोमयाम्भोभिर्लेपयेत्तदनन्तरम्।
वाचयित्वा च पुण्याहं तज्जलैः प्रोक्षयेद्भुवम्।। 23.51 ।।
ततस्तु दर्भपुञ्जेन वास्तुवज्जनयेत्तनुम्।
तस्मिन् तिलैः समावाह्य प्रोक्ष्य पुण्याहवारिणा।। 23.52 ।।
ज्वलयित्वा तु तं वास्तुं परिचारैस्तु वीथिषु।
आकर्षयेदष्टदिक्षु प्रतिष्ठार्थं हरेः प्रिये।। 23.53 ।।
आहूतानां दिक्पतीनां बलिं दद्यात्तु पद्मजे।
अथालयं समागत्य पाणिपादं च शोधयेत्।। 23.54 ।।
आचम्य च यथाशास्त्रं मूलादीनां च वै गुरुः।
बन्धयेत् कौतुकं तेषां बिम्बानामानुपूर्वशः।। 23.55 ।।
ताम्बूलफलपुष्पाद्यैर्हेमसूत्रादिसंमितान्।
पटलादीन् समादाय ब्राह्मणैर्वेदपारगैः।। 23.56 ।।
ऋत्विग्भिर्दीक्षितैश्चापि यजमानेन वै गुरुः।
धाम प्रदक्षिणीकृत्य वाद्यघोषपुरःसरम्।। 23.57 ।।
गर्भमन्दिरमासाद्य धान्यपीठे निवेशयेत्।
मुहुर्मुहुः प्रणम्याथ स्तुत्वा नानाविधैः स्तवैः।। 23.58 ।।
पुण्याहं वाचयित्वाथ सूत्राणि प्रोक्षयेत्ततः।
महारजतसूत्रादि शोधयेच्छोषणादिभिः।। 23.59 ।।
अपराजितमन्त्रेण रक्षासूत्राणि मन्त्रयेत्।
तेषु श्रियं समावाह्य क्षीरसागरमध्यतः।। 23.60 ।।
संपूज्य विधिवद्देवीं ततो बिम्बानि पूजयेत्।
कौतुकं मूलबिम्बानाम बध्वा देशिकसत्तमः।। 23.61 ।।
महामण्डपमासाद्य कर्मार्चाद्याः सुपूज्य च।
रक्षाबन्धं च विधिवत् कृत्वा स्वस्य करे तथा।। 23.62 ।।
ऋत्विजां चापि बध्नीयात् पश्चान्नीराजयेद्विभुम्।
ततो विमानमासाद्य संपूज्य विधिवत्ततः।। 23.63 ।।
प्रासादपट्टिकायां तु पञ्चविंशतितन्तुभिः।
बध्वा प्रतिसरं पूर्वं पश्चात् तद्देशिकस्य च।। 23.64 ।।
ततश्छायाधिवासं तु कुर्यात् देशिकसत्तमः।
छायाधिवाससिद्ध्यर्थं मूलार्चायाः पुरो भुविः।। 23.65 ।।
स्वर्णादिनिर्मितां वापि दारुजां मृण्मयीं तु वा।
जलद्रोणीं कटाहं वा स्थापयेद् धान्यविष्टरे।। 23.66 ।।
परितोऽष्टौ नालिकेरसूत्रकूर्चादिभिर्युतान्।
घटांस्तत्तद्विधिन्यस्तानश्वत्थाम्रदलैर्युतान्।। 23.67 ।।
करकं च निधायादौ शिरोभागे गुरूत्तमः।
द्रोण्यादीन् पुष्पसलिलैः पूरयेत् कमलासने।। 23.68 ।।
ततः पुण्यजलैः प्रोक्ष्य पीठं तेषु प्रकल्पयेत्।
इन्द्रादीनुपकुम्भेषु करके च सुदर्शनम्।। 23.69 ।।
अष्टाविंशतिदर्भैश्च कृते कूर्चे हरिं स्मरेत्।
एकविंशतिदर्भैश्च कृतकूर्चेषु वै रमे।। 23.70 ।।
श्रियादिदेवीरावाह्य पूजयेच्च यथाक्रमम्।
मन्त्रैस्तु पावमानीभिः पञ्चोपनिषदादिभिः।। 23.71 ।।
शुद्धीकृते जले तस्मिन् भगवानिति मन्त्रतः।
शाययेत् तत्र कूर्चस्थं हरिमष्टाक्षरेण वै।। 23.72 ।।
पूजयेच्च निवेद्यान्तं श्रियादीनामयं क्रमः।
चक्रमुद्रां प्रदर्श्याथ जलद्रोणीः पिधापयेत्।। 23.73 ।।
अर्चाभिमानिनं जीवं मन्त्रज्ञो देशिकोत्तमः।
आकृष्य हृदये स्वस्य नयेत् संहारमार्गतः।। 23.74 ।।
परे ब्रह्मणि तं चापि योजयेत् कमलेक्षणे।
ततस्तु मूलबिम्बानि शोषणप्लावनादिभिः।। 23.75 ।।
शोधयित्वाथ बिम्बानि वस्त्रैराच्छादयेद् गुरुः।
एवं विमानमूर्तीनां विमानस्य च कारयेत्।। 23.76 ।।
प्रत्येकं वा विमानार्थं जलद्रोण्यां गुरूत्तमः।
जलाधिवासं कुर्वीत विमानस्य पुरो भुवि।। 23.77 ।।
कृतेषु सप्तदर्भैस्तु कूर्चेष्वावाह्य वै रमे।
छायाधिवासं देवस्य सविमानस्य वै गुरुः।। 23.78 ।।
कृत्वैवं मण्डपं गत्वा कुम्भस्थापनंकर्मणि।
सुस्नाता धौतवसनाः स्वच्छमृत्स्नोर्ध्वपुण्ड्रकाः।। 23.79 ।।
चन्दनाद्यनुलिप्ताङ्गाः पुष्पमालादिभूषिताः।
परिचारवराः सर्वे कुम्भान् पूर्वाधिवासितान्।। 23.80 ।।
गृहीत्वा गुरूणाज्ञप्ता प्रादक्षिण्येन मन्दिरम्।
यात्रोपकरणैश्चैव वाद्यघोषादिभिः सह।। 23.81 ।।
नद्यादितीरमासाद्य गालितैः सलिलैर्घटान्।
संपूर्य समलंकृत्य नालिकेरादिभिर्घटान्।। 23.82 ।।
गजस्कन्धेषु वा विप्रा मूर्ध्निष्वारोप्य भक्तितः।
गत्वा प्रदक्षिणं धाम प्रविशेद्यागमण्डपम्।। 23.83 ।।
वेदिमध्ये महाकुम्भं करकं तस्य दक्षिणे।
ऐन्द्रादीशानपर्यन्तं समान् कुम्भान् विनिक्षिपेत्।। 23.84 ।।
मध्ये मध्ये तु कुम्भानां शङ्खादीनष्टमङ्गलान्।
पद्मरागं प्रवालं च वज्रं वैडूर्यमेव च।। 23.85 ।।
पुष्यरागं चेन्द्रनीलं गारुडं मौक्तिकं तथा।
गोमेदकं चेति नवरत्नानि कमलेक्षणे।। 23.86 ।।
वासुदेवं शङ्खचक्रं गदां पद्मं ध्वजं तथा।
श्रीवत्सं वैनतेयं च कूर्मराजं तथैव च।। 23.87 ।।
स्वर्णादिनिर्मितानेतान् रत्नैः सह गुरूत्तमः।
मध्यकुम्भादिकुम्भेषु निक्षिपेत्तदनन्तरम्।। 23.88 ।।
कालचक्रं चाग्निमणिं करके तु विनिक्षिपेत्।
इत्थमेव विमानस्य कलशान् स्थापयेद्रमे।। 23.89 ।।
प्रतिमामनिरुद्धस्य महाकुम्भे निधापयेत्।
पद्मरागादिरत्नानि द्वारकुम्भेषु वै न्यसेत्।। 23.90 ।।
मृगनाभिं चन्दनं च घनसारं च कुङ्कुमम्।
उशीरमगरुं चापि घटतीर्थेषु निक्षिपेत्।। 23.91 ।।
नास्तिकान् भिन्नमर्यादान् देवब्राह्मणनिन्दकान्।
प्रतिलोमान् पापवृत्तीन् कुष्ठादिव्याधिपीडितान्।। 23.92 ।।
हीनाङ्गान् बधिरानन्धान् नित्यकर्मविवर्जितान्।
निष्कास्यैतान् बहिः पुण्यैः सलिलैः प्रोक्षयेद् गुरुः।। 23.93 ।।
ऋग्वेदिनस्तु प्राग्द्वारे दक्षिणस्यां यजुर्मयान्।
प्रतीच्यां सामवेदज्ञानुत्तरेऽथर्वशाखिनः।। 23.94 ।।
तत्तद्वेदानुपक्रम्य पाठयेत्तान् गुरूत्तमः।
वेदान्तादिपुराणानि गाथास्तोत्राणि वह्निषु।। 23.95 ।।
एतेषामविरोधेन तूर्याण्यन्यानि गापयेत्।
ऋत्विजो गुरुणादिष्टाः प्राग्द्वारादींस्ततो यजेत्।। 23.96 ।।
प्राग्द्वारतोरणस्येत्थं दक्षिणोत्तरशाखयोः।
सुशोभनं गोत्रभिदमुपरिष्टाच्च पार्श्वयोः।। 23.97 ।।
वैनतेयौ मध्यमे तु पूजयेच्च सुदर्शनम्।
ध्वजयो रक्ततयोर्देवि कुमुदं कुमुदाक्षकम्।। 23.98 ।।
कुम्भयोः पूजयेद्विद्वानर्घ्याद्यैः पूर्णपुष्करौ।
ऋग्वेदं द्वारमध्ये तु दक्षिणद्वारशाखयोः।। 23.99 ।।
सुभद्रं धर्मराजं च ध्वजयोः पीतवर्णयोः।
पुण्डरीकं वामनं च कुम्भयोस्तु शुभानने।। 23.100 ।।
आनन्दनन्दनौ देवौ यजुर्वेदं तु मध्यमे।
सुगन्धवरुणौ पूज्यौ प्रतीचीद्वारशाखयोः।। 23.101 ।।
ध्वजयोर्नीलयोर्ध्यायेत् शङ्कुकर्णं तथापरम्।
सर्वनेत्रं कुम्भयोस्तु वीरसेनसुषेणकौ।। 23.102 ।।
मध्यदेशे सामवेदमुदीचीद्वारशाखयोः।
सुगोत्रधनदौ चैव ध्वजयोः शुक्लयो रमे।। 23.103 ।।
सुमुखं सुप्रतिष्ठं च कुम्भयोः संभवं तथा।
प्रभवं मध्यमे स्थाने अथर्वाणं च पूजयेत्।। 23.104 ।।
द्वाराणामितरेषां च वैनतेयादिपूजनम्।
प्राग्द्वारवत् प्रकुर्वीत यमादीनां क्रमात् गुरुः।। 23.105 ।।
बालबिम्बस्य पीठात्तु पूर्वोक्तानेषु वल्लभे।
आवाह्य चाक्षतैर्देवानर्घ्याद्यैः पूजयेत् क्रमात्।। 23.106 ।।
शङ्खचक्रगदापाणीन् करण्डिमकुटान्वितान्।
कृताञ्जलीन् भक्तितनम्रान् ध्यायेत्पार्षदवल्लभान्।। 23.107 ।।
पाठयेद् द्वारपालीयं साम सामविदस्तदा।
पश्चिमस्यां चक्रकुण्डप्रतीच्यां प्राङ्मुखस्थितः।। 23.108 ।।
कूर्मासने हरिं ध्यायन् सपवित्रो गुरूत्तमः।
असुरान्तकचक्राय स्वाहेति मनुमुच्चरन्।। 23.109 ।।
त्रिभिर्दर्भैः कुण्डशुद्धिं कृत्वा तदनु वै रमे।
चन्दनाद्यैर्लेपयित्वा विकिरेच्च ततोऽक्षतान्।। 23.110 ।।
कुण्डदेवं पुरा ध्यायेत् तत्स्वरूपं निबोध मे।
शिरः प्राच्यामीशकोणे वह्नौ बाहू प्रसारितौ।। 23.111 ।।
नैर्ऋते मारुते पादौ कुण्डमध्यस्तथोदरम्।
इत्थमेव हि सर्वेषां कुण्डानां ध्यानमब्जजे।। 23.112 ।।
गन्धादिभिः कुण्डरूपं पुरुषं पूजयेत्ततः।
अस्त्रमन्त्रं समुच्चार्य गृह्णीयाद्दर्भयुग्मकम्।। 23.113 ।।
ताभ्यां प्रागायता रेखास्तिस्रोदग्रास्तथा रमे।
समुच्चरन्मूलमन्त्रं तिस्रो नाडीस्तु लेखयेत्।। 23.114 ।।
गुणमन्त्रेण तौ दर्भौ विसृजेत् कुण्डमध्यमम्।
मृदुदर्भसमूहं च शुष्कगोमयचूर्णवत्।। 23.115 ।।
गन्धद्वारेति मन्त्रेण पूरयेत् सतुषं गुरुः।
परिस्तृणीयात् कुण्डस्य परितः षोडशान् कुशान्।। 23.116 ।।
आस्तीर्य कुण्डमध्येऽपि योगपीठं प्रकल्पयेत्।
तत्पीठे तु रमानाथं वासुदेवं विचिन्तयेत्।। 23.117 ।।
अर्घ्यादिना तमभ्यर्च्य प्रार्थयेन्मुद्रया सह।
विराड्रूप जगद्योने ब्रह्मरुद्रादिसेवित।। 23.118 ।।
प्रतिष्ठार्थं तव मुखादग्निं संप्रार्थयामि भो।
इति संप्रार्थ्य देवेशमरणेः सूर्यकान्ततः।। 23.119 ।।
अथवा श्रोत्रियागारात् गृह्णीयात्ताम्रभाजने।
वह्निं निधाय कुण्डस्य ईशाने शोषणादिभिः।। 23.120 ।।
शोधयेच्चास्त्रमन्त्रेण ताडयेत् प्रोक्षयेच्च तम्।
सहस्रादित्यसंकाशं द्विशीर्षं सप्तहस्तकम्।। 23.121 ।।
सप्तजिह्वं त्रिनयनं त्रिपादं पाटलप्रभम्।
अञ्जलिं मुख्यहस्ताभ्यामितरैर्बाहुभी रमे।। 23.122 ।।
शङ्खं चक्रं स्रुक्स्रुवौ च दधानं शक्तिमायुधम्।
कुण्डपद्मे स्थितं ध्यायेदग्नीं स्वाहापतिं गुरुः।। 23.123 ।।
आवाहनादिषण्मुद्रां दर्शयेच्च यथाक्रमम्।
षडर्णेनाग्निबीजेन न्यासं कुर्याद्विचक्षणः।। 23.124 ।।
अर्घ्यादिना निवेद्यान्तमाज्येनाराधयेद्रमे।
लाजपूरितहस्ताभ्यां वह्निं संप्रार्थयेद् गुरुः।। 23.125 ।।
वासुदेवस्य देवस्य प्रतिष्ठामारभेऽनल।
गार्हपत्यादिरूपेण त्वं स्थित्वा कर्म पूरय।। 23.126 ।।
इति लाजैः पावकं तं तोषयेद् गुरुरात्मवान्।
इतरेषां तु कुण्डानां पर्यग्निं दर्भमुष्टिना।। 23.127 ।।
कृत्वा तेषु पुरा पीठं कल्पयित्वा यथाविधि।
प्रत्यक् कुण्डात्तेषु वह्निं निनयेच्च ततःपरम्।। 23.128 ।।
सर्वेषामपि वह्नीनामाज्येनार्घ्यादिकान् यजेत्।
चतस्रो धेनवः स्थाप्या दक्षिणस्यामुदङ्मुखाः।। 23.129 ।।
गङ्गासरस्वती गोदा यमुना संज्ञिकास्ततः।
धेनूः संपूज्य तदनु दुहेत्ता गुरुसत्तमः।। 23.130 ।।
दुग्धैश्चरूणां श्रपणं तदीयैराहुतिर्भवेत्।
विष्णुगायत्रिया स्थालीं संक्षाल्य व्रीहितण्डुलान्।। 23.131 ।।
निक्षिप्य चक्रमन्त्रेण विचक्राख्येण वारिभिः।
आपूर्याथ सुचक्रेण शोधयित्वा च तण्डुलान्।। 23.132 ।।
कुण्डे त्रिपादुकां लोहनिर्मितां विन्यसेत्ततः।
सूर्यचक्राख्यमन्त्रेण तस्यां स्थालीं निवेश्य च।। 23.133 ।।
ज्वालाचक्राख्यमन्त्रेण वह्निं प्रज्वालयेद्रमे।
महासुदर्शनाख्येन चरुश्रपणमाचरेत्।। 23.134 ।।
पायसान्नं पूर्वकुण्डे कृसरान्नं तु दक्षिणे।
पश्चिमे गुडमिश्रान्नं शुद्धान्नमुत्तरे पचेत्।। 23.135 ।।
चरुश्रपणकाले तु ज्वालाचक्राख्यमन्त्रतः।
समिधाष्टोत्तरशतं जुहुयाद्वह्निवृद्धये।। 23.136 ।।
प्रागादीनां तु कुण्डानां पालाशप्लक्षखादिराः।
बैल्वश्च समिधो देवि विज्ञेयाः सर्वकर्मसु।। 23.137 ।।
यद्वा प्राच्यादिकुण्डानां पालाश्याः समिधो मताः।
महानसे वा वच्यं स्याच्छालितण्डुलमाढकम्।। 23.138 ।।
कुण्डस्योत्तरपार्श्वेषु निदध्याद्दर्भविष्टरे।
अग्नेः प्रशमनार्थाय सप्तजिह्वासु ऋत्विजः।। 23.139 ।।
जुहुयात् तद्विधिं वक्ष्ये तासां द्रव्यं च वर्णकम्।
मूलेन काल्यां समिधः घृतं च निगमादिना।। 23.140 ।।
मनोजवायामन्नेन वासुदेवाख्यविद्यया।
लोहितायां तु धूम्रायां लाजैः संकर्षणाख्यया।। 23.141 ।।
तिलैः प्रद्युम्नमन्त्रेण स्फुलिङ्गिन्यां तु दुग्धतः।
अनिरुद्धाख्यमन्त्रेण विश्वरूप्यां तु माक्षिकम्।। 23.142 ।।
करालिकायां हवनं पुंसूक्तेन चरुं हुनेत्।
काल्यास्तु मध्यमं स्थानं कराल्याः पूर्वदिग्भवेत्।। 23.143 ।।
मनोजवायाश्चाग्नेयं लोहितायास्तु वारुणम्।
सुधूम्रा सोमनिलया स्फुलिङ्गिन्यनिलाश्रया।। 23.144 ।।
ऐशान्यां विश्वरूपिण्या स्थानमेतदुदाहृतम्।
सव्ये मुखे तु जिह्वानां चतसॄणां तु दक्षिणे।। 23.145 ।।
तिसॄणां वर्णभेदस्तु प्रोच्यते शृणु वल्लभे।
कृष्णो नीलः कोकनदो विद्युदाभस्तथापरे।। 23.146 ।।
रक्तश्वेतस्तथा नील एवं ध्यायेद् गुरूत्तमः।
भट्टाचार्यनियोगेन याजका होतुमुद्यताः।। 23.147 ।।
भूतशूद्ध्यादिकं सर्वं मन्त्रन्यसनमेव च।
कृत्वा प्राच्यादिकुण्डेषु विमानस्य तथैव च।। 23.148 ।।
योगपीठं पुरा कृत्वा वासुदेवादिकान् क्रमात्।
आनन्दाख्यादिलोकेभ्यो ध्यात्वा चावाहयेद्रमे।। 23.149 ।।
मन्त्रन्यासादिभोज्यान्तं जुहुयान्मन्त्रपूर्वकम्।
परमानन्दवैकुण्ठाद् वासुदेवं तु चिन्मयम्।। 23.150 ।।
महाकुम्भे समावाह्य पूजयेद् गुरुसत्तमः।
तत्क्रमं त्विह वक्ष्यामि क्षीराब्धितनये तव।। 23.151 ।।
मानुषाद्यैः समायुक्तं भूलोकं विष्णुरक्षितम्।
ध्यायेद् भुवोपरि व्योम्नि गन्धर्वाद्यैः समन्वितम्।। 23.152 ।।
दाशार्हरक्षितं ध्यायेत् तदूर्ध्वे केशवादिभिः।
पालितं द्वादशात्मानमण्डलं मण्डलोपरि।। 23.153 ।।
हिमांशुमण्डलं ध्यायेद्यच्छ्रीशेनाभिरक्षितम्।
तत ऊर्ध्वे मुकुन्देन पालितं सिद्धसेवितम्।। 23.154 ।।
स्वर्गलोकमुपेन्द्रेण रक्षितं स्वर्गिसेवितम्।
दिक्पालानां तत्र तत्र पुर्यष्टकसमन्वितम्।। 23.155 ।।
वस्वादिदेवबृन्दानां यत्र प्रासादपङ्क्तयः।
स्मृत्वा तन्महसो लोकं तदूर्ध्वे सनकादिभिः।। 23.156 ।।
अन्यैर्महर्षिभिर्नित्यैर्जनोलोकं सुसेवितम्।
तस्मिन् जनार्दनो देवस्तैश्च नित्यं सुपूज्यते।। 23.157 ।।
तपोलोकं तदूर्ध्वे तु वैराजादिभिरन्वितम्।
पुरुषोत्तमरूपेण मया संरक्षितं स्मरेत्।। 23.158 ।।
ब्रह्मादिदेवैः संसेव्यं पद्मनाभेन रक्षितम्।
सत्यलोकं हृदि ध्यात्वा ततोऽण्डं मनसा स्मरेत्।। 23.159 ।।
अण्डस्यापि बहिस्तोयं व्याप्तं तत्तेजसा रमे।
वायुना वेष्टितं तेजो व्याप्तं तद्बहिरम्बरात्।। 23.160 ।।
तस्माद् बहिरहंकारं ततो बुद्धिं ततः परम्।
अव्यक्तं च ततो ध्यायेत् प्रमोदनमुदाहृतम्।। 23.161 ।।
तत्तु सालोक्यवैकुण्ठं विमानैः स्वर्णनिर्मितैः।
नानारत्नमयैश्चित्रैः प्रासादैर्गोपुरैरपि।। 23.162 ।।
अप्राकृतैर्मनोहार्यैः कल्पवृक्षैश्च संवृतम्।
मणिकुट्टिमसोपानमहार्हमणिवेदिकम्।। 23.163 ।।
शतयोजनविस्तारम् अनेकशतमायतम्।
तस्मिन् लोकोत्तरे दिव्ये प्रथमे देवपूजिते।। 23.164 ।।
आस्तेऽनिरुद्धो भगवान् मायादेवीसमन्वितः।
स्मरेत् सामीप्यवैकुण्ठमामोदनमथोपरि।। 23.165 ।।
पूर्ववत्तु विमानाद्यैर्गोपुराद्यैः सुशोभितम्।
सूर्यायुतसमप्रख्यैः शतयोजनमुच्छ्रितैः।। 23.166 ।।
प्राकारैः पञ्चभिर्दिव्यैः शोभितं परमाद्भुतैः।
योजनानां सहस्रैस्तदायामं चापि तत्समम्।। 23.167 ।।
इतस्ततश्च धावद्भिर्भगवत्कर्मतत्परैः।
अलंकृतं विष्णुभक्तैः शतशोऽथ सहस्रशः।। 23.168 ।।
तस्मिन् लोकवरे दिव्ये भगवान् भक्तवत्सलः।
सुखमास्ते हि लोकेशः प्रद्युम्नो जयया सह।। 23.169 ।।
ध्यायेत् सारूप्यवैकुण्ठं संमोदनमुदाहृतम्।
विरजापरिघोपेतं सप्तावरणशोभितम्।। 23.170 ।।
अयुतैर्योजनानां च विस्तारायामसंमितम्।
सूर्यलक्षसमप्रख्यैः प्रासादादिभिरुज्ज्वलम्।। 23.171 ।।
शङ्खचक्रधरैर्दिव्यैश्चतुर्भुजसमन्वितैः।
पीताम्बरैः पृथूरस्कैः पद्मपत्रनिभेक्षणैः।। 23.172 ।।
स्तुवद्भिश्चैव नृत्यद्भिर्गायद्भिश्चैव भक्तितः।
तैः संवृतो जगन्नाथस्तस्मिन् लोके जगद्गुरुः।। 23.173 ।।
[आस्ते संकर्षणो देवः कीर्त्या सह सुखासने।]
ऊर्ध्वे सायुज्यवैकुण्ठमानन्दाख्यं सुविस्तरम्।। 23.174 ।।
लक्षयोजनविस्तारं तावद्भिश्चायतं शुभम्।
नवावरणसंयुक्तं सूर्यकोटिसमप्रभम्।। 23.175 ।।
विमानाद्यैः शोभमानं तोरणाद्यैरलंकृतम्।
स्वयंप्रभैर्विष्णुभूतैः शरच्चन्द्रांशुनिर्मलैः।। 23.176 ।।
नानाविधैरसंख्येयैर्नक्षत्राणां गणैरिव।
श्रीमद्भिः श्यामलाङ्गैश्च विष्णुतुल्यपराक्रमैः।। 23.177 ।।
तैः संवृतो वासुदेवो लक्ष्म्या भोग्यासने स्थितः।
[स्थित्यै सुदर्शनं पाञ्चजन्यं मोक्षप्रदाय च।। 23.178 ।।
कौमोदकीं संहृतये धर्मसंस्थापनाय च।
दधानो नन्दकं शार्ङ्गं लक्ष्म्या भोग्यासने स्थितः]।। 23.179 ।।
उपरिष्टाच्च ततः कोटियोजनात् कमलेक्षणे।
परमानन्दनामानं वैकुण्ठं परमं पदम्।। 23.180 ।।
कोटियोजनविस्तीर्णं तावदायाममुच्छ्रितम्।
दिव्यरत्नमयैश्चित्रैः प्राकारैर्गोपुरैर्युतम्।। 23.181 ।।
दिव्यैर्नानामणिमयैर्गृहपङ्क्तिविराजितम्।
शक्रचापौघसंकाशैः प्रोच्चैः सौधैरलंकृतम्।। 23.182 ।।
सुधाकरसहस्राभैः पुरुषैरुपशोभितम्।
सर्वे चतुर्भुजाः शुद्धाः स्वात्मेशसमविग्रहाः।। 23.183 ।।
शङ्खचक्रधराः सर्वे स्रग्विणः पीतवाससः।
अप्राकृतमया नित्याः पुनरावर्तिवर्जिताः।। 23.184 ।।
एकायनाख्यवेदेन जितन्तादिस्तवैरपि।
शरच्चन्द्रसहस्राणां कोटितुल्यतनुप्रभाः।। 23.185 ।।
पुण्डरीकेक्षणाः सर्वा नित्ययौवनशोभिताः।
सर्वलक्षणसंपन्ना लक्ष्मीतुल्याश्च योषितः।। 23.186 ।।
मोदन्ते परमे व्योम्नि नित्यानन्दमयेऽक्षये।
एता अपि रमानाथं पूजयन्ति स्तुवन्ति च।। 23.187 ।।
तेजोमयं तदन्तःस्थं चतुर्द्वारसमन्वितम्।
प्राकारैर्दिव्यसोपानगोपुरैरुपशोभितम्।। 23.188 ।।
चण्डादिद्वारपालाद्यैः कुमुदाद्यैः सुरक्षितम्।
दिव्यचन्दनकस्तूरिकर्पूरामोदवासितम्।। 23.189 ।।
नानामणिमयैः क्लृप्ततोरणैरुपशोभितम्।
रत्नस्थूणासहस्रेण सवितानं सवेदिकम्।। 23.190 ।।
परितः कल्पवृक्षाद्यैः पारिजातादिभिर्युतम्।
परितः क्लृप्तसोपानं परमानन्दमण्डपम्।। 23.191 ।।
[तन्मध्येऽमलसंस्थाने द्वादशस्तम्भसंयुतम्।
पार्श्वयोर्द्वादसंयुक्तमुक्तिमण्डपशोभितम्।। 23.192 ।।
सोमच्छन्दव्योमयानं शृङ्गत्रयविराजितम्।]
मध्ये सिंहासनं दिव्यं धर्माद्यैः सूरिभिर्धृतम्।। 23.193 ।।
चतुर्वेदमयं दिव्यं साङ्गोपाङ्गपरिच्छदम्।
तन्मध्येऽष्टदलं पद्ममष्टाक्षरमयं शुभम्।। 23.194 ।।
तस्मिन्ननन्तपर्यङ्के फणारत्नविचित्रिते।
द्विहस्तमेकवक्त्रं च शुद्धस्फटिकसंनिभम्।। 23.195 ।।
[वीरभूषणमञ्जीरपरिष्कृतपदाम्बुजम्।
बालातपहसत्कान्तिकान्तकार्तस्वराम्बरम्।। 23.196 ।।
उरोविराजिश्रीवत्सकौस्तुभोद्भासिदिक्तटम्।
रत्नकाञ्चनसन्मुक्तायुक्तया वनमालया।। 23.197 ।।
सब्रह्मसूत्रया चैव संविराजदुरःस्थलम्।
माणिक्यवलयोदारमहार्हाङ्गुलिभूषणम्।। 23.198 ।।
आजानूरुपरिक्षिप्तवामबाहुं तथेतरम्।
उपधाय दयासिन्धोरुद्यच्चन्द्रनिभाननम्।। 23.199 ।।
]
[विलसद्गण्डसंलग्नश्रवणोज्ज्वलकुण्डलम्।
मन्दस्मितरुचिद्योत्स्नाविलसन्मुखमण्डलम्।। 23.200 ।।
किंचिदारक्तगोक्षीरशुद्धनीलाब्जलोचनम्।
बालचन्द्रप्रतीकाशफालोद्यत्तिलकोज्ज्वलम्।। 23.201 ।।
अनर्घरत्नमकुटच्छायाविलसिताकृतिम्।
पर्यङ्कफणमाणिक्यरोचिर्नीराजिताङ्गकम्।। 23.202 ।।
सद्भिक्तिसुलभं सर्वैरागमैश्च दुरासदम्।
अदृश्यं सर्वभूतानां दयया दृश्यतां गतम्।। 23.203 ।।
अपर्याप्तामृतं रूपमार्तरक्षणदीक्षितम्।]
उत्तानशयनं देवं वासुदेवं परात्परम्।। 23.204 ।।
द्वादशाक्षरविद्याद्यैरुपास्यं जगतां गुरुम्।
स एव भगवान् देवः कूटस्थो ह्यचलो ध्रुवः।। 23.205 ।।
अचिन्त्यः सर्वभूतानामग्राह्योऽक्षर एव च।
सनातनः सत्यममृतमव्यक्तस्तमसः परः।। 23.206 ।।
निरञ्जनो निर्गुणश्च नित्यं स्वात्मन्यवस्थितः।
सच्चासच्चेति यः प्रोक्त आद्यं ब्रह्म परात्परम्।। 23.207 ।।
स एव भगवान् देवः शङ्कचक्रदिसेवितः।
तस्यैव सदृशी देवी शीलरूपगुणादिभिः।। 23.208 ।।
उद्यच्चम्पासहस्रस्य प्रभापुञ्जनिभा स्थिरा।
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता।। 23.209 ।।
क्षीराब्धिफेनधवलदिव्यवस्त्रेण शोभिता।
सुस्निग्धनीलसच्छायकेशभारोपलक्षिता।। 23.210 ।।
चतुर्भुजैर्विराजन्ती केयूराङ्गभूषिता।
मुख्याभ्यां चैव हस्ताभ्यां बद्धाञ्जलिपुटा सदा।। 23.211 ।।
इतराभ्यां भगवतः पाणिभ्यां पादपङ्कजम्।
स्पृशन्ती श्रीः सदा भक्त्वा आस्ते दिव्यवपुर्धरा।। 23.212 ।।
तं वासुदेवं मनसा ध्यात्वा संप्रार्थयेद्रमे।
मत्स्यादिविभवार्चानां प्रतिष्ठासु गुरूत्तमः।। 23.213 ।।
राकाचन्द्रायुतस्वच्छक्षीरार्णवसमावृते।
धर्मानन्दाख्यवैकुण्ठै शतयोजनविस्तृते।। 23.214 ।।
तप्तहाटकसंसिद्धसप्तप्राकारशोभिते।
नवरत्नोल्लसद्दिव्ये गोपुरादिभिरावृते।। 23.215 ।।
जयादिद्वारपालाद्यैः सूरिभिश्च निषेविते।
तन्मध्यमण्डपे शेषपर्यङ्कशयने शुभे।। 23.216 ।।
व्यूहांशजः पद्मनाभः श्रीभूमिभ्यां समन्वितः।
चतुर्भुजः शङ्खचक्रगदाचापविभूषितः।। 23.217 ।।
शयानमित्थं देवेशं विभवस्यादिकारणम्।
ध्यात्वैवं पुण्डरीकाक्षं ततः कुम्भे समर्चयेत्।। 23.218 ।।
यस्मिन् यस्मिंस्तु भुवने वासुदेवादयः स्थिताः।
तत्तल्लोके जगन्नाथं मनसा पूजयेत्पुरा।। 23.219 ।।
ततः पुष्पाञ्जलिधरः संस्तुवीत जगत्पतिम्।
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।। 23.220 ।।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज।
नमस्ते वासुदेवाय शान्तानन्तजितात्मने।। 23.221 ।।
अध्यक्षाय स्वतन्त्राय निरपेक्षाय शाश्वते।
अच्युतायाविकाराय तेजसां निधये नमः।। 23.222 ।।
क्लेशकर्माद्यसंस्पृष्टपूर्णषाड्गुण्यमूर्तये।
त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने।। 23.223 ।।
त्रियुगाय नमस्तुभ्यं नमस्ते चतुरात्मने।
प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम।। 23.224 ।।
चतुः पञ्चनवव्यूहदशद्वादशमूर्तये।
अनेकमूर्तये तुभ्यममूर्तायैकमूर्तये।। 23.225 ।।
नारायण नमस्तेऽस्तु पुण्डरीकायतेक्षण।
सुभ्रूललाट सुनस सुस्मिताधरपल्लव।। 23.226 ।।
पीनवृत्तायतभुज श्रीत्सकृतलक्षण।
तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते।। 23.227 ।।
विलासविक्रमाक्रान्तत्रैलोक्यचरणाम्बुज।
नमस्ते पीतवसन स्फुरन्मकरकुण्डल।। 23.228 ।।
लसत्किरीटकेयूर कौस्तुभाङ्गदभूषण।
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक।। 23.229 ।।
पञ्चकालपरैकान्तियोगक्षेमवह! प्रभो।
नित्यज्ञानबलैश्वर्यभोगोपकरणाच्युत।। 23.230 ।।
नमस्ते ब्रह्मरुद्रादिलोकयात्राप्रवर्तक।
जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते।। 23.231 ।।
त्वं च स्वामी गुरुर्माता पिता च मम माधव।
अपि त्वां भगवन् ब्रह्मन् शर्वश्शक्रो महर्षयः।। 23.232 ।।
द्रष्टुं यष्टुमपि स्तोतुमद्यापि न च शक्नुमः।
तापत्रयमहाग्राहभीषणे भवसागरे।। 23.233 ।।
मज्जतां नाथ नौरेषा प्रणतिस्त्वत्पदार्पिता।
अनाथाय जगन्नाथ शरण्य शरणार्थिने।। 23.234 ।।
प्रसीद सीदते मह्यं नमस्ते भक्तवत्सल।
मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम्।।
तत्क्षन्तव्यं प्रपन्नानामपराधसहो ह्यसि।। 23.235 ।।
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु।। 23.236 ।।
उपचारापदेशेन कृतानहरहर्मया।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम।। 23.237 ।।
पाञ्चरात्रोक्तविधिना त्वदुक्तेन जगत्पते।
निर्माय गोपुरादीनि विमानानि यथाविधि।। 23.238 ।।
तस्मिन्नर्चारूपधरं श्रीभूमिसहितं विभुम्।
आराधयितुमिच्छामि त्वां भक्त्याहं जनार्दन।। 23.239 ।।
विष्वक्सेनादिभिः सार्धं परिवारैर्गरुत्मता।
विमानेन सहागत्य मन्त्रमूर्ते जगन्मय।। 23.240 ।।
अत्रार्चायां संप्रविश्य लोकानुग्रहकाम्यया।
क्रियमाणं मया नित्यं गृहाणाराधनं विभो।। 23.241 ।।
आगच्छतु जगन्नाथ मदनुग्रहकाम्यया।
एवं ध्यात्वा ततो लोकादागतं सूर्यमण्डलम्।। 23.242 ।।
सूर्यलोकस्थितस्याथ वासुदेवस्य पद्मजे।
पादयोः पादुके रत्नखचिते धारयेत् पुरा।। 23.243 ।।
श्रियश्चापि तथा दत्वा विष्णवादीनां तु धारयेत्।
एवं ध्यात्वा दीक्षितेन्द्रो वासुदेवं जगन्मयम्।। 23.244 ।।
सकलीकृत्य विष्ण्वादिमूर्तिभिश्चाष्टभिः सह।
महाकुम्भादिकुम्भेषु ध्यायीत प्रार्थयेत्ततः।। 23.245 ।।
आनन्दलक्षणं रूपमादिरूपमविक्रियम्।
सुसूक्ष्मं स्ववशं स्वैरं परं ज्योतिरनामयम्।। 23.246 ।।
ध्रुवमेकं चिदानन्दं चिद्रूपं सर्वगं परम्।
स्वभावनिर्मलं नित्यं निस्तरङ्गं निराकुलम्।। 23.247 ।।
निर्मर्यादं गुणातीतं सगुणं सर्वकामदम्।
अध्येयाध्येयमाश्चर्यमवाङ्मनसगोचरम्।। 23.248 ।।
षाड्गुण्यविग्रहं देवं वासुदेवाह्वयं विभुम्।
सहस्रफणसंवीत-रत्नकान्ति-विचित्रिते।। 23.249 ।।
शेषासने सुखासीनं सव्यं पादं प्रसारितम्।
दक्षिणं कुञ्चितं पादं तज्जानुन्यस्ततद्भुजम्।। 23.250 ।।
वामबाहुं शेषपीठे न्यस्तं वक्षसि च श्रियम्।
किरीटकुण्डलोपेतं वनमालाविराजितम्।। 23.251 ।।
पीताम्बरधरं सौम्यं कटकाद्यैरलंकृतम्।
परिवारैः सेव्यमानं मध्यकुम्भे स्मरेद् गुरुः।। 23.252 ।।
वासुदेव जगद्योने सच्चिदानन्दविग्रह।
यावद्बिम्बे प्रार्थयामि तावत् कुम्भे स्थिरो भव।। 23.253 ।।
अत्र पूजां मया दत्तां गृहाण पुरुषोत्तम।
इति संप्रार्थ्य लक्ष्मीशं प्रार्थनामुद्रया गुरुः।। 23.254 ।।
संप्रार्थ्य कलशे देवं यथावत्पूजयेत् पुरा।
ततः प्राच्यादिकुम्भेषु पद्मविष्टरसंस्थितान्।। 23.255 ।।
वासुदेवस्याभिमुखान् पीतनिर्मलवाससः।
चतुर्भुजान् सौम्यवक्त्रान् किरीटादिविभूषितान्।। 23.256 ।।
शङ्खचक्रगदापद्मधारिणो वनमालिनः।
एवं लक्षणसंयुक्तान् विष्ण्वादींस्तु यथाक्रमम्।। 23.257 ।।
आवाह्य पूजयेत् सर्वान् देशिको मन्त्रवित्तमः।
सहस्रारं ज्वलत्तेजोरूपिणं चक्रमुत्तमम्।। 23.258 ।।
करके च समावाह्य सर्वविघ्ननिवृत्तये।
सर्वेषां श्रमशान्त्यर्थं इत्थमर्घ्यादिभिर्यजेत्।। 23.259 ।।
प्रासादस्य प्रतिष्ठार्थं नियुक्तो यो गुरुः स च।
सूर्यमण्डलमध्यस्थं वासुदेवेन चागतम्।। 23.260 ।।
सपक्षं तद्विमानं च तदधिष्ठानदैवतम्।
अनिरुद्धं मध्यकुम्भे ध्यात्वा संप्रार्थयेत्ततः।। 23.261 ।।
सहस्रशीर्षचरणहस्तनेत्राद्भुताकृते।
विमानरूपिन् कुम्भेऽस्मिन् यावद्गर्भगृहे मया।। 23.262 ।।
आवाह्यते व्योमयान तावदत्र स्थिरो भव।
तस्य प्रागादिकुम्भेषु नरोत्तममधोक्षजम्।। 23.263 ।।
नृसिंहमच्युतं पश्चाज्जनार्दनमुपेन्द्रकम्।
हरिं कृष्णं च करके चक्रराजं स्मरेद् बुधः।। 23.264 ।।
चक्राब्जमण्डले देवानित्थमावाहयेद् रमे।
बहिरावरणे देवान् पुरुहूतादिकान् यजेत्।। 23.265 ।।
मध्यमावरणद्वार्षु प्राच्यादिषु यथाक्रमम्।
चण्डादीन् युग्मतो देवान् प्राग्द्वारस्य पुरःस्थले।। 23.266 ।।
मण्डलाभिमुखं देवं ध्यायेच्च विनतासुतम्।
प्रागादिद्वारमध्येषु शङ्खचक्रगदाम्बुजम्।। 23.267 ।।
ऐशान्ये सेनपं ध्यायेदन्तरावरणे ततः।
आग्नेयादिषु कोणेषु वराहनरकेसरी।। 23.268 ।।
अनन्तश्च हयग्रीव एतान् विष्टरसंस्थितान्।
चक्राब्जकर्णिकामध्ये सहस्रफणमण्डिते।। 23.269 ।।
शेषाहिभोगिपीठे तु सृष्टिस्थित्यन्तमुक्तिदम्।
मयूरकण्ठवच्छ्याममेकवक्त्रं चतुर्भुजम्।। 23.270 ।।
शङ्खचक्रगदाशार्ङ्गनन्दकादिभिरुज्ज्वलम्।
श्रीवत्सस्फुरितोरस्कं वनमालाविभूषितम्।। 23.271 ।।
किरीटहारकेयूरवलयादिविराजितम्।
पीताम्बरधरं सौम्यं जगतामादिकारणम्।। 23.272 ।।
परवासुदेवादुद्भूतं श्रीभूमिसहितं विभुम्।
वासुदेवं सुखासीनं ध्यायेदादित्यमण्डलात्।। 23.273 ।।
केसरेषु द्वादशार्णमष्टारेष्वष्टवर्णकम्।
ध्यायेत् द्विषट्कपत्रेषु प्रागादिषु यथाक्रमम्।। 23.274 ।।
विष्ण्वादिवत् केशवादीन् श्रीवत्साद्यैरलंकृतान्।
आवाह्य पूजयेद्विद्वानर्ध्याद्यैः श्रमशान्तये।। 23.275 ।।
कुम्भमण्डलवह्निस्थान् वासुदेवादिदेवताः।
इत्थमावाह्य तदनु मन्त्रासनपुरःसरम्।। 23.276 ।।
स्नानासनं विना देवि प्रापणान्तं समर्चयेत्।
वासुदेवादिदेवानां पञ्चार्णां विंशतेरपि।। 23.277 ।।
मन्त्रविष्टरकाले तु चतुर्हस्तेषु देशिकाः।
प्रदाक्षिण्येन दिव्यानि स्मरेत् प्रहरणान्यथ।। 23.278 ।।
दर्शयेयुस्तस्य तस्य मुद्रां मन्त्रविदो रमे।
द्वितीयो वासुदेवश्च तदुत्पन्नौ च तावुभौ।। 23.279 ।।
वासुदेवस्तथान्योऽपि नारायण इति स्मृतः।
संकर्षणादिदेवाश्च तेषां हस्तेषु वै क्रमात्।। 23.280 ।।
पद्मं चक्रं तथा शङ्खं गदां शार्ङ्गं च संस्मरेत्।
चतुर्विंशतिमूर्तीनां मुद्रान्यासमथोच्यते।। 23.281 ।।
वासुदेवं गदाशङ्खचक्रपद्मधरं विभुम्।
संकर्षणं गदाशङ्खपद्मचक्रसमन्वितम्।। 23.282 ।।
प्रद्युम्नं चक्रजलजगदापद्मविभूषितम्।
अनिरुद्धं चक्रदण्डपद्मशङ्खधरं स्मरेत्।। 23.283 ।।
केशवं पद्मशङ्खारिगदाशोभितपाणिकम्।
नारायणं शङ्खपद्मगदाचक्रसमुज्ज्वलम्।। 23.284 ।।
माधवं दिव्यदण्डारिशङ्खाम्बुजधरं विभुम्।
गोविन्दं चक्रदण्डाब्जपाञ्चजन्यविभूषितम्।। 23.285 ।।
विष्णुं गदाब्जशङ्खारिधारिणं वनमालिनम्।
मधुद्विषं चक्रशङ्खपद्मदण्डसमन्वितम्।। 23.286 ।।
त्रिविक्रमं पद्मदण्डचक्रशङ्खधरं विभुम्।
वामनं पाञ्चजन्यारिगदाजलजधारिणम्।। 23.287 ।।
श्रीधरं पद्महेतीशगदाशङ्खधरं प्रभुम्।
हृषीकेशं गदाचक्रपद्मशङ्खभुजान्वितम्।। 23.288 ।।
पद्मनाभं पद्मचक्रशङ्खकौमोदकीयुतम्।
दामोदरं पद्मशङ्खगदाचक्रधरं स्मरेत्।। 23.289 ।।
नरोत्तमं चक्रपद्मशङ्खकौमोदकीयुतम्।
अधोक्षजं पद्मदण्डशङ्खहेतीशमण्डितम्।। 23.290 ।।
नृसिंहं चक्रजलजगदाशङ्खचतुर्भुजम्।
अच्युतं दण्डनलिनचक्रशङ्खसमुज्ज्वलम्।। 23.291 ।।
जनार्दनं पद्मचक्रशङ्खकौमोदकीधृतम्।
उपेन्द्रं पद्मदण्डारिपाञ्चजन्येन शोभितम्।। 23.292 ।।
हरिं शङ्खारिजलजगदाभूषितविग्रहम्।
कृष्णं शङ्खगदापद्मचक्रयुक्तं स्मरेद् गुरुः।। 23.293 ।।
एवं स्मृत्वा च मुद्राश्च दर्शयेत् कमलोद्भवे।
सप्तमे पञ्चमे वापि तृतीयादिवसेऽपि वा।। 23.294 ।।
कुर्यात् प्रतिष्ठां देवस्य नान्यथा कल्पयेद्विभोः।
प्रतिष्ठादिवसं त्यक्त्वा द्वादशस्वष्टसु क्रमात्।। 23.295 ।।
चतुर्ष्वपि च कालेषु सहस्रं त्वष्टसंमितम्।
शतं वा पूजनं कुर्याद् वासुदेवस्य शार्ङ्गिणः।। 23.296 ।।
पूर्वोक्तपूजनं भद्रे कुम्भमण्डलवह्निषु।
प्रत्येकं तेषु कालेषु कुर्याद्यद्वा गुरूत्तमः।। 23.297 ।।
कुम्भे पूजां तु कृत्वैव प्रतिष्ठां पूरयेत्ततः।
तत्तत्कालेषु विधिवत् तत्तत्संख्यासमर्चनम्।। 23.298 ।।
कुम्भादिषु त्रिषु ततः कृत्वान्नं च चतुर्विधम्।
निवेद्य पूर्णहवनं कुर्युर्मन्त्रविदो रमे।। 23.299 ।।
Chapter - 24
+++
+++
।। चतुर्विंशोऽध्यायः ।।
ततोऽपराह्नसमये त्वस्त्रमन्त्राभिमन्त्रितैः।
वस्त्राभरणमाल्याद्यैरलंकृत्य विशेषतः।। 24.1 ।।
बिम्बान्यर्घ्यादिनाभ्यर्च्य कौतुकं बन्धयेत् क्रमात्।
हेमादिभद्रपीठेषु श्रीभूमिभ्यां जगत्प्रभुम्।। 24.2 ।।
अन्यानि देवबिम्बानि समारोप्य गुरूत्तमः।
पठद्भिः शाकुनं सूक्तं कर्णेति चापरैः।। 24.3 ।।
तथा रथन्तरं साम घोषद्भिस्त्रयीमपि।
ब्राह्मणैः सर्ववादित्रशङ्खैश्छत्रादिधारिभिः।। 24.4 ।।
अन्यैर्यात्रोपकरणैः प्रादक्षिण्येन मन्दिरम्।
नद्यादीनां तटं नीत्वा प्रपां पुण्येन वारिणा।। 24.5 ।।
संप्रोक्ष्य तत्र संस्थाप्य पीठे प्राङ्मुखतो विभुम्।
पुण्याहवाचनं कुर्यादृत्विग्भिः सह देशिकः।। 24.6 ।।
वातवृष्टिक्षमे शुद्धे वारिमध्ये प्रकल्पिते।
चतुर्द्वारसमायुक्ते चतुस्तोरणमण्डिते।। 24.7 ।।
[ईश्वरसंहिता-अध्यायः 18]
वितानध्वजसंयुक्ते मुक्ताजालविलम्बिते।
मण्डपे मध्यदेशे तु प्रतिमानुगुणं रमे।। 24.8 ।।
शय्यापीठं सोपधानं मृद्वास्तरणभूषितम्।
निधाय पुण्यसलिलैः प्रोक्षयेन्मण्डपादिकान्।। 24.9 ।।
नद्यादीनां जलं पूर्वं शोधयेच्छोषणादिभिः।
सौरभेयीं प्रदर्श्याथ द्वारपूजां प्रकल्पयेत्।। 24.10 ।।
जलमध्यस्थशय्यायां पीठं संकल्प्य पूजयेत्।
तदूर्ध्वे शेषशय्यां च तीरमासाद्य देशिकः।। 24.11 ।।
देवस्य पुरतो भूमौ कल्पिते धान्यविष्टरे।
विन्यसेत् नवकुम्भांश्च करकं च वरानने।। 24.12 ।।
कुम्भे विशाखयूपं च करके दीप्तचक्रिणम्।
इन्द्रादीनुपकुम्भेषु समावाह्यार्चयेत् क्रमात्।। 24.13 ।।
मूलमन्त्रेण देवस्य दद्यादर्घ्यादिकान् गुरुः।
बिम्बाभिमानिनं जीवं संहरेत् क्रमशो रमे।। 24.14 ।।
आत्मानं सर्वगं ध्यात्वा सर्वज्ञं निष्कलं विभुम्।
कुर्याद्भावान्वितो मन्त्री तद्विष्णोरधिवासनम्।। 24.15 ।।
प्रणवेन समारोप्य जीवमर्चाभिमानिनम्।
उत्क्राम्यात्मैकतां कृत्वा स्वस्मिन्ना त्मेश्वरं हरिम्।। 24.16 ।।
संशोध्य मलिनां पृथ्वीं दग्ध्वा बीजान्विताग्निना।
अद्भिः संप्लाव्य तां वायुशुष्कां वह्णौ विलाप्य च।। 24.17 ।।
संहृत्य वायुना वह्निं वायुमाकाशतां नयेत्।
आध्यात्मिकाधिदैवैश्च करणैर्विषयैः सह।। 24.18 ।।
तन्मात्रासंस्थितान्येव क्रमात् संहृत्य देशिकः।
नभो मनसि संहृत्य तन्मनोऽहंकृतौ पुनः।। 24.19 ।।
महत्यात्मनि तां चापि नयेदव्याकृतैकताम्।
शान्तानन्ते परे व्योम्नि निष्कले ज्ञानविग्रहे।। 24.20 ।।
तं ध्यायेत् परमानन्दे वासुदेवेऽखिलात्मनि।
यस्मिन्नव्याकृतं लीनं सावस्थं यत्स्वरूपकम्।। 24.21 ।।
Sl. 21c, d same as sl. 117. c,d.
Sl. 22a, b " sl. 118. c,d.)
तस्मिन्नेव तु संहृत्य पृथिव्यादीनि देशिकः।
बिम्बान्याच्छादयेद्वस्त्रैरापादशिरसोऽवधि।। 24.22 ।।
भट्टाचार्यनियोगेन मूर्तिपा मन्त्रवित्तमाः।
पठन्तः शाकुनं सूक्तं सायाह्ने विष्णुमव्ययम्।। 24.23 ।।
श्रीभूमिभ्यां नयेन्मन्दं शयने सलिलस्थिते।
अम्भस्येति च मन्त्रेण प्राक्शिरोदङ्मुखं हरिम्।। 24.24 ।।
देवीभ्यां शाययेत् पूर्वमन्यानि परितो रमे।
मध्यकुम्भं च करकं शिरोभागे निवेशयेत्।। 24.25 ।।
बिम्बानां परितः कुम्भांस्तत्तद्दिक्षु निधाय च।
रक्षोहणेति मन्त्रेण चक्रमुद्रां प्रदर्शयेत्।। 24.26 ।।
ऋत्विजो गुरुणादिष्टाः प्रविश्य यजनालयम्।
त्रिस्थानेष्वर्चनं कुर्याद्विधिवत् कमलेक्षणे।। 24.27 ।।
गुरुर्भागवतैः सार्धं कथयन् वैष्णवीः कथाः।
पाठयेयुः पुराणानि चतुर्वेदांश्च भूसुराः।। 24.28 ।।
तीरेषु सर्ववादित्रान् वादयेयुः सवैणिकाः।
नर्त्तक्यो गायनैर्नृत्यैस्तोषयेयुस्तदा हरिम्।। 24.29 ।।
एवं नीत्वा निशां तत्र सर्वे भक्तिसमन्विताः।
एवं दिनं त्रियामं वा द्वियाममथवा रमे।। 24.30 ।।
यामं यामार्धकं वापि जलवासं समाचरेत्।
यावज्जले हरिः शेते तावन्मर्त्यास्तु तज्जले।। 24.31 ।।
प्रविश्य स्नानपानादि पादेनाक्रमणं यथा।
न कर्तव्यं तथा रक्षा कार्या देशिकसत्तमैः।। 24.32 ।।
दुर्गन्धेषु कषायेषु कर्दमेषु जलेषु च।
सक्षारेषु सतिक्तेषु सफेनेषु जलेष्वपि।। 24.33 ।।
दूषितेषु श्मशानाद्यैश्चण्डालाध्यासितेषु च।
एतेषु जलवासादि न कर्तव्यं हरे रमे।। 24.34 ।।
परिशुद्धजलाभावे जलद्रोण्यां जलोद्भवे।
प्रपायामेव कर्तव्यं जलाधिवसनं हरेः।। 24.35 ।।
प्रभाते देशिकेन्द्रस्तु कृतस्नातः कृताह्निकः।
[उत्थानकाले संप्राप्ते कृत्वा चाचमनं गुरुः।]
कुमुदादिबलिं दद्यादृत्विग्भिः मूर्तिपैः सह।। 24.36 ।।
उत्थाप्य बिम्बान्युदकात् कुम्भं च कलशानपि।
बिम्बानि पीठे संस्थाप्य वस्त्राण्युद्घाट्य देशिकः।। 24.37 ।।
तत्त्वसृष्टिं च बिम्बानां कुर्यान्न्यसनपूर्वकम्।
तिन्त्रिणीसलिलैः पूर्वं लोहबिम्बानि शोधयेत्।। 24.38 ।।
पूर्वोक्ताभिश्च मृत्स्नाभिरालिप्यापादमस्तकम्।
ततस्तु मध्यकुम्भेन स्नापयेन्मन्त्रपूर्वकम्।। 24.39 ।।
उपकुम्भस्थितान् देवानुद्वास्य तदनन्तरम्।
यानेष्वारोप्य बिम्बानि मण्डयेद्वस्त्रभूषणैः।। 24.40 ।।
यात्रोपकरणैः सार्धं गमयेद्देवमन्दिरम्।
प्रतिकायानि पीठेषु स्थापयेयुश्च मूर्तिपाः।। 24.41 ।।
प्रासादगुरुणा सार्धमाचार्यो मन्त्रवित्तमः।
छायाधिवासकूर्चेभ्यो देवान् बिम्बेषु चिन्तयेत्।। 24.42 ।।
मध्यकुम्भेन मूलार्चां स्नापयेत् स्तूपिकामपि।
लोहादिमूलबिम्बानां महतां मृण्मयस्य च।। 24.43 ।।
सुधया निर्मितस्यापि भित्तिस्थानां तथैव च।
चित्रार्धचित्रितानां च गर्भगेहे गुरूत्तमः।। 24.44 ।।
छायाधिवासं स्नपनं दृग्दानं च समाचरेत्।
सुधामयादिबिम्बानामादर्शे कूर्चसंयुते।। 24.45 ।।
छायायां स्नपनं कुर्यात् प्रासादस्य च तद्गुरुः।
छायाधिवासं पूर्वाह्ने सायाह्ने जलवासनम्।। 24.46 ।।
तथा नयनदानं स्याच्छयनं च महानिशि।
प्रातः प्रतिष्ठां कुर्वीत मुहूर्ते शास्त्रचोदिते।। 24.47 ।।
जलाधिवसने चैव तथा नयमनोक्षणे।
शयने च प्रतिष्ठायां नान्यकालो भवेद्रमे।। 24.48 ।।
नयनोन्मीलनात्पूर्वं नवभिः पञ्चभिस्तु वा।
कलशैः स्नापयेत्पूर्वं नयनोन्मीलनं ततः।। 24.49 ।।
तत्त्वन्यसनहोमादीन् कृत्वा देशिकसत्तमः।
पुनः पूर्वोक्तकलशैः संस्नाप्य पुरुषोत्तमम्।। 24.50 ।।
देवीभ्यां देवदेवेशं शय्यायां शाययेत्ततः।
प्रातरुत्थाप्य राज्ञीव भोगान् संदर्शयेत् क्रमात्।। 24.51 ।।
कलशैः सप्तदशभिर्षोडशैर्द्वादशैस्तु वा।
अभिषिच्याथ देवाय मुद्गान्नं विनिवेदयेत्।। 24.52 ।।
प्रतिष्ठादिवसे प्रातस्त्रींशद्भिः पञ्चविंशकैः।
एकविंशैस्तु वा जिष्णुं कलशैरभिषेचयेत्।। 24.53 ।।
तदन्येद्युः प्रभातायामष्टोत्तरशतैर्घटैः।
एकाशीतिघटैर्वापि संख्यैकेन विहीनया।। 24.54 ।।
पञ्चाशता वा देवीभ्यां देवं संस्नापयेद्रमे।
संस्नाप्य विधिवद्देवं नेत्रदानात् पुरा गुरुः।। 24.55 ।।
वस्त्राद्यैः समलंकृत्य बिम्बमाच्छाद्य वाससा।
पुरतो धान्यपीठे तु सौवर्णं पात्रमुत्तमम्।। 24.56 ।।
राजतं पात्रमपरं स्थापयित्वा गुरूत्तमः।
मधुनाढकमानेन तथाज्येन च पूरयेत्।। 24.57 ।।
अष्टाङ्गुलायतां हैमां राजतीं च शलाकिकाम्।
पुण्याहवारिणा प्रोक्ष्या शोधयेच्छोषणादिभिः।। 24.58 ।।
मधुपात्रे पाटलाभं कोटिसूर्यसमप्रभम्।
तेजोमुद्रासमोपेतं नारायणमनामयम्।। 24.59 ।।
मार्ताण्डमण्डलाद्ध्यायेच्छङ्घचक्रगदाधरम्।
चन्द्रकोटिप्रतीकाशं धेनुमुद्रासमन्वितम्।। 24.60 ।।
आज्यपात्रे हयग्रीवं चन्द्रमण्डलमध्यतः।
मधुवातेति वै मधु सविराजेति वै घृतम्।। 24.61 ।।
मन्त्रयित्वा नूतनेन वस्त्रेणाच्छादयेत्ततः।
अष्टधान्येषु परितः पात्रेष्वष्टसु वै गुरुः।। 24.62 ।।
आवाहयेत् अष्टलक्ष्मीः कन्यकाः समलंकृताः।
गाश्चापि स्थापयेत् पार्श्वे ब्रह्मघोषेण घोषिते।। 24.63 ।।
तिरस्करिण्या द्वाराणि निश्छिद्रे पिहिते सति।
हिरण्मयीं शलाकां तु नेत्रमन्त्रेण मन्त्रिताम्।। 24.64 ।।
मध्वक्तामभिसंगृह्य दक्षिणं नेत्रमुल्लिखेत्।
आज्याक्तयाथ राजत्या वामं नेत्रं समुल्लिखेत्।। 24.65 ।।
नारायणहयग्रीवौ पात्राभ्यां नेत्रयोः स्मरेत्।
अष्टधान्यानि गाः कन्या दर्शयेद्धरये रमे।। 24.66 ।।
तत्पात्रमधुसर्पिभ्यां शलाकाभ्यां च देशिकः।
श्रीभूमिवीरलक्ष्मीनां तार्भ्यसेनपयोरपि।। 24.67 ।।
प्राकारेषु स्थितानां च नेत्रोन्मीलनमाचरेत्।
गुरुस्ततो देवदेवं स्नापयेद्विधिपूर्वकम्।। 24.68 ।।
स्थापितानां गोपुरेषु प्रतिमानां च पद्मजे।
प्रासादस्य पुरा देवि दिङ्मूर्तीनां च तद्गुरुः।। 24.69 ।।
अन्येषां दिव्यबिम्बानां नेत्रदानं प्रकल्पयेत्।
एवं कृत्वा नेत्रादनं कुर्याच्छायाभिषेचनम्।। 24.70 ।।
ततोऽपराह्नसमये याजकैर्देशिकोत्तमः।
कर्मादिलोहबिम्बानि स्नापयेदुक्तवर्त्मना।। 24.71 ।।
संशोधयेच्छुष्कवस्त्रैर्देवीभ्यां पुरुषोत्तमम्।
वस्त्राद्यैः समलंकृत्य नयनोन्मीलनाय वै।। 24.72 ।।
कल्पिते तु पुरा पीठे शाययेदैन्द्रमस्तकम्।
उत्तानशयनं कृत्वा हेमतन्तुविनिर्मितैः।। 24.73 ।।
कम्बलाद्यैः समाच्छाद्य सर्वाङ्गं जगतीपतेः।
सायाह्नकाले संप्राप्ते पूर्ववद्धान्यविष्टरे।। 24.74 ।।
मध्वाज्यधान्यपात्राणि निधायाभ्यार्च्य देशिकः।
कर्मबिम्बमुखादीनां नयनोन्मीलनं चरेत्।। 24.75 ।।
दर्शयेदष्टधान्यानि गाश्च कन्याः सुलक्षणाः।
नेत्रोन्मीलनशान्त्यर्थं प्राक्कुण्डे देशिकोत्तमः।। 24.76 ।।
वौषडन्तेन मूलेन नेत्रेण मधुना तथा।
घृतेनाष्टोत्तरशतं प्रत्येकं जुहुयाद्रमे।। 24.77 ।।
देवमर्ध्यादिनाभ्यर्च्य द्वादशाक्षरविद्यया।
मदुपर्कं निवेद्याथ देवं नीराजयेद् रमे।। 24.78 ।।
चतुरश्रस्य कुण्डस्य वामे तालोन्नतां शुभाम्।
वेदिं पुरा कृतां शुद्धैर्दर्भैराच्छाद्य देशिकः।। 24.79 ।।
धान्यपीठं प्रकल्प्याथ लाजानूर्ध्वे तु विन्यसेत्।
[लाजोर्ध्वे नूतनं वस्त्रं तदूर्ध्वे रत्नकम्बलम्।। 24.80 ।।
]
क्षौमं चाभिनवं वस्त्रं सोपधानं न्यसेद् गुरुः।
शय्यां पुण्याहतोयेन प्रोक्ष्य तस्यां फणीश्वरम्।। 24.81 ।।
अभ्यर्च्य देवं देवीभिः प्राक्शीर्षं हृन्मनुं स्मरन्।
देशिको मूर्तिपैः साकं शय्यायां शाययेत्ततः।। 24.82 ।।
पूजयित्वार्ध्यगन्धाद्यैः शयनस्थं वरानने।
मूलेन शयनस्थस्य कुर्यादाप्यायनं गुरुः।। 24.83 ।।
लेख्यादौ मूलबिम्बे च प्रासादस्थे च कौतुके।
महद्भ्यो मूलबिम्बेभ्यो जीवतत्त्वादिकान् गुरुः।। 24.84 ।।
कर्मबिम्बे विचिन्त्याथ तत्त्वहोमं समाचरेत्।
संकल्प्य तत्त्वहोमार्थं तमग्निं परिषेचयेत्।। 24.85 ।।
प्रतितत्त्वाधिदेवस्य प्रणवं पूर्वमुच्चरन्।
चतुर्थ्यन्तं तु तन्नाम्ना स्वाहान्तं कपिलाघृतैः।। 24.86 ।।
काल्यां तु जुहुयान्मन्त्री द्विचतुःसंख्यया रमे।
संपातेन नमोऽन्तेन तत्तत्स्थानेषु च न्यसेत्।। 24.87 ।।
श्रियादिभ्योऽपि तच्छक्तीः स्मरन्नेवं न्यसेद्गुरुः।
संपातन्यसनस्थानं प्रणवेन पिधापयेत्।। 24.88 ।।
ब्रह्मादीनां तथा भक्तबिम्बानां तत्त्वनामभिः।
तत्तत्स्थाने न्यसेद्विद्वान् सावित्र्या तु पिधापयेत्।। 24.89 ।।
पुरा तत्त्वानि संहृत्य सृष्टिन्यासं ततश्चरेत्।
भ्रूमध्ये वासुदेवाख्यं बीजमं रविसंनिभम्।। 24.90 ।।
ध्यायेदीश्वरतत्त्वं तत्तस्मिन् स्थाने तु विन्यसेत्।
स्फटिकाभं जीवतत्त्वं मं बीजं हृत्कजे न्यसेत्।। 24.91 ।।
नारायणश्चाधिदेवस्ततः प्रकृतिसंज्ञितम्।
भं बीजमनिरुद्धस्तु देवतासितवर्णवत्।। 24.92 ।।
उपेन्द्रो बुद्धितत्त्वस्य देवता स्फटिकप्रभः।
बं बीजं पूर्ववन्न्यासो हृदये कमलेक्षणे।। 24.93 ।।
पाटलाभस्त्वहंकारः फंबीजं देवता हरिः।
न्यसनं पूर्ववद्विद्यात् मनसस्तु जनार्दनः।। 24.94 ।।
सितासितनिभो विद्यात् पंबीजं हृदये न्यसेत्।
मधुहाः श्रोत्रयोः शब्दः शुक्लो नं बीजमुच्यते।। 24.95 ।।
त्वचि स्पर्शं लोहिताभं धं बीजं स्यात्त्रिविक्रमः।
दं बीजं वामनो देवस्तेजोवर्णस्तु चक्षुषोः।। 24.96 ।।
रूपतत्त्वं न्यसेद्विद्वान् थं बीजं पाण्डरप्रभः।
रसतत्त्वं श्रीधराख्यो रसनायां न्यसेत् सुधीः।। 24.97 ।।
तं बीजमसितो वर्णः शब्दतत्त्वस्य देवता।
हृषीकेशो नासिकायां न्यसनं शास्त्रसंमतम्।। 24.98 ।।
श्रोत्रं तत्त्वं पाटलाभं णं बीजं देवता रमे।
अनिरुद्धः श्रोत्रदेशे न्यासमाहुर्मनीषिणः।। 24.99 ।।
ठं बीजं हेमवर्णः स्यात् त्वक्तत्त्वं पुरुषोत्तमः।
देवताबाहुमूलेषु न्यासः शास्त्रेण चोदितः।। 24.100 ।।
कृष्णवर्णं नेत्रतत्त्वं डंबीजमधिदेवता।
अधोक्षजो नेत्रमध्ये न्यसेत् कमलसंभवे।। 24.101 ।।
जिह्वातत्त्वं गौरवर्णो ठं बीजं नृहरी रमे।
देवतारसनायां च न्यसेत् पञ्चाङ्गभूषणः।। 24.102 ।।
अच्युतो घ्राणतत्त्वस्य देवतानासिकोपरि।
न्यसेद्बीजं टकारं स्यादसितो वर्ण ईरितः।। 24.103 ।।
वाक्तत्त्वस्याधिदेवः स्यात् पद्मनाभः सितप्रभः।
ज्ञं बीजं वाचि विन्यस्य सर्वसिद्धिमवाप्नुयात्।। 24.104 ।।
झं बीजं रक्तवर्णस्तु हस्ततत्त्वस्य देवता।
दामोदरस्तु भुजयोर्न्यासः पद्मसमुद्भवे।। 24.105 ।।
पादतत्तवं रक्तवर्णो जं बीजमधिदेवता।
संकर्षणः पदो न्यासः पाञ्चरात्रेषु चोदितः।। 24.106 ।।
छंबीजं रक्तकान्तिः स्यात् पायुतत्त्वं च देवता।
वासुदेवः पायुपदे न्यसेत्कमललोचने।। 24.107 ।।
प्रद्युम्नस्त्वधिदेवः स्याच्चं बीजं हेमवर्णभाक्।
तत्त्वं मेहनमित्याहुरुपस्थे विन्यसेत् सुधीः।। 24.108 ।।
आकाशस्याधिदेवस्तु केशवोऽञ्जनसंनिभः।
ङं बीजं तत्त्वमाकाशं निराकारमुदीरितम्।। 24.109 ।।
मूर्ध्न आरभ्य नासान्तं विन्यसेत् क्षीरसंभवे।
मारुतो देवतावृन्तं तत्त्वं बीजंघमीरितम्।। 24.110 ।।
नारायणो घ्राणदेशान्नाभ्यन्तं विन्यसेत् क्रमात्।
पाटलाभस्त्रिकोणं च गं बीजं वह्नितत्त्ववत्।। 24.111 ।।
देवता माधवो नाभ्या गुह्यान्तं त्वाज्यसेचनम्।
खं बीजं श्वेतवर्णः स्यादप्तत्त्वं चार्धचन्द्रयुक्।। 24.112 ।।
अधिदेवस्तु गोविन्दो जान्वन्तं विन्यसेत्ततः।
कं बीजं पीतवर्णश्च चतुरश्रं महामते।। 24.113 ।।
पृथ्वीतत्त्वं विष्णुदेवो पादान्तं न्यसनं क्रमात्।
प्राणादिदशवायूनां न्यसनं वक्ष्यतेऽधुना।। 24.114 ।।
यं बीजं राजतो वर्णो मत्स्यः प्राणादिदेवतः ।
आनाभिब्रह्मरन्ध्रान्तं सुषुम्नायां यथाक्रमम्।। 24.115 ।।
होमान्ते विन्यसेद्देवि संपाताज्येन देशिकः।
अपाननाथो रं बीजं श्यामाभः कूर्मरूपधृत्।। 24.116 ।।
आनाभि वामनासान्तमिलायां न्यासमिष्यते।
लं बीजमसितो व्यानदेवः पोत्री जगत्पतेः।। 24.117 ।।
आनाभिदक्षिणे घ्राणे पिङ्गलायां तु विन्यसेत्।
नारसिंह उदानेशो वंबीजं श्वेतवर्णभाक्।। 24.118 ।।
नाभ्यादिवामनेत्रान्तं गन्धिन्यां न्यसनं चरेत्।
समानाधिपतिर्हैमः शंबीजं वामनः प्रभुः।। 24.119 ।।
न्यसेद्धस्तिरसज्ञायामानाभि नयनावधि।
पीताभो भार्गवो रामः षंबीजं नागदैवतम्।। 24.120 ।।
आनाभिवामकर्णान्तं पूषाख्यायां न्यसेत्ततः।
कूर्नाड्यधिदेवः स्यात् संबीजं श्यामलप्रभः।। 24.121 ।।
रामो दक्षिणकर्णान्तं यशस्विन्यां न्यसेद्गुरुः।
बलरामो धूम्रवर्णो हंबीजं कृकराधिपः।। 24.122 ।।
अलम्बुसायामानाभि पाय्वन्तं न्यासमिष्यते।
देवदत्ताधिपो नीलो लंबीजं कंसमारकः।। 24.123 ।।
आनाभिकन्दान्मेढ्रान्तं कुहूनाड्यां न्यसेद्रमे।
क्षंबीजं श्वेतवर्णस्तु कल्की देवो धनंजयः।। 24.124 ।।
कैशिन्यां विन्यसेद्विद्वानानाभि प्रपदावधि।
बिम्बाभिमानजीवादितत्त्वानां कमलेक्षणे।। 24.125 ।।
अप्राकृतत्वसिद्ध्यर्थमग्नौ तत्त्वान्यथाक्रमम्।
पूर्वोक्तरीत्या हुत्वैव शुद्धीकृत्य जगद्गुरोः।। 24.126 ।।
अङ्गेषु संपाताज्येन न्यस्य न्यस्य महामते।
देवतास्थापनेनापि प्राकृतत्वं विमुञ्चति।। 24.127 ।।
तस्मादप्राकृतं देवं मांसास्थिरहितं विभुम्।
शुद्धसत्त्वं ज्ञानघनं सृष्टिस्थित्यन्तहेतुकम्।। 24.128 ।।
ध्यायेद् ब्रह्मादिबिम्बानां तत्त्वम् अप्राकृतं भवेत्।
भगवद्बिम्बमात्रस्य देवतान्यसनादिकम्।। 24.129 ।।
कर्तव्यं तद्विनान्येषां न तत्कार्यविधिर्भवेत्।
ब्रह्माधिपः पद्मनाभः नाभेर्दक्षिणतः स्थितः।। 24.130 ।।
नाभेरुत्तरतो देवि स्थानं संकर्षणस्य तु।
न्यसेदिन्द्रं दक्षिणे तु न्यासो बाहौ तथोत्तरे।। 24.131 ।।
नरोत्तमः प्रजाधीशो मुनीनामधिपस्ततः।
विष्णुर्दक्षिणजङ्घे स्यादुत्तरे यक्षनायकः।। 24.132 ।।
श्रीधरः पादयोर्न्यासो गन्धर्वेशस्तु वामनः।
संवत्सरेशः पीताभस्त्वच्युतं मूर्ध्नि विन्यसेत्।। 24.133 ।।
मासाधिपान् केशवादीनामूर्ध्नश्चरणावधि।
स्फटिकाभो वासुदेवो हृदये प्रणवाधिपः।। 24.134 ।।
नारायणस्त्वगाधीशः श्यामः शिरसि विन्यसेत्।
दक्षिणोत्तरयोर्देवि यजुःसाम्नोस्तु देवयोः।। 24.135 ।।
संकर्षणश्च प्रद्युम्नो नाभिदेशे त्वथर्वणः।
न्यसनं चानिरुद्धस्य वृक्षेशस्याच्युतस्य च।। 24.136 ।।
अब्धिनाथं न्यसेद्गुह्ये पाण्डराभं त्रिविक्रमम्।
शैलाधिपं हरिं पीतं न्यसेत् जङ्घाद्वये गुरुः।। 24.137 ।।
अनिरुद्धं श्यामलाभं भुवनानामधीश्वरम्।
उत्तमाङ्गे हरेर्नाभौ पादयोश्च न्यसेद्रमे।। 24.138 ।।
द्वादशार्णानि हुत्वाथ सृष्टिन्यासं समाचरेत्।
न्यसेद्धृदादि षण्मन्त्रान् स्थानेषु हृदयादिषु।। 24.139 ।।
किरीटं शीर्षदेशे तु श्रीवत्सं दक्षिणोरसि।
कौस्तुभं वामभागे तु वनमालां गले न्यसेत्।। 24.140 ।।
चक्रं शङ्खं दक्षवामकरयोर्न्यासमिष्यते।
गदा सव्ये करे दक्षे पद्मं न्यस्याद् गुरूत्तमः।। 24.141 ।।
वामे शार्ङ्गं करे बाणं दक्षिणे कटिनन्दकम्।
देवस्य दक्षिणे लक्ष्मीर्वक्षस्युत्तरतो भुवम्।। 24.142 ।।
ऊरुमूले वैनतेयमनन्तं चरणाम्बुजे।
न्यासं द्विभुजबिम्बस्य वदामि कमलासने।। 24.143 ।।
देवस्य दक्षिणे हस्ते चक्रं शङ्खं च वामके।
कौमोदकीं नन्दकं च न्यसेद्धवनपूर्वकम्।। 24.144 ।।
एष न्यासो नवीनानां बिम्बानामालयस्य च।
जीर्णोद्धारप्रोक्षणादौ तेषां न्यासो न विद्यते।। 24.145 ।।
सहस्रशीर्षचरणहस्तनेत्रादिभिर्युताम्।
गर्भगृहगतां शक्तिं पञ्चविंशतिभिः कुशैः।। 24.146 ।।
हस्तैकायामकूर्चे तु ध्यात्वाऽऽवाहनपूर्वकम्।
तदाचार्यस्तस्य कुण्डे प्राङ्मुखोऽवस्थितस्ततः।। 24.147 ।।
तत्त्वाध्वानं न्यसेत् कूर्चे हुत्वाज्येन वरानने।
भुवनाध्वानमधिकं विमानन्यासमिष्यते।। 24.148 ।।
उत्तमाङ्गे सत्यलोकं तपोलेकं न्यसेन्मुखे।
जनोलोकं कण्ठमध्ये महोलोकं भुजान्तरे।। 24.149 ।।
स्वर्गलोकमधोभागे भुवर्लोकं पिचण्डिके।
नाभिदेशे त्वन्तरिक्षं मध्ये भूलोकसंज्ञिकम्।। 24.150 ।।
पादाध्वानं ततोऽधस्ताद्विन्यसेत् प्रपदावधि।
गुह्ये त्वतललोकं च सक्थ्यां वितलसंज्ञिकम्।। 24.151 ।।
नितलाख्यं द्वयोरूर्वोर्जानुदेशे रसातलम्।
जङ्घाद्वये तु सुतलं पादयोस्तु तलातलम्।। 24.152 ।।
ततः प्रपदयोर्देवि पातालं विन्यसेद् गुरुः।
कालाध्वानं ततः कुर्यात् सृष्टिन्यासक्रमाद्रमे।। 24.153 ।।
परार्धं प्रथमं शीर्ष्णि द्वितीयमलके न्यसेत्।
स्वायंभुवं नासिकायां वाचि स्वारोचिषं न्यसेत्।। 24.154 ।।
उत्तमं चुबुके कण्ठे तामसाख्यं मनुं न्यसेत्।
कण्ठमध्ये रैवताख्यं चाक्षुषं वक्षसि न्यसेत्।। 24.155 ।।
वैवस्वतमनुं चित्ते सूर्यसावर्णिनामकम्।
जठरे नाभिदेशे तु दत्तसावर्णिनामकम्।। 24.156 ।।
ऊरुमूलद्वये ब्रह्मसावर्णिकमनुं तथा।
रुद्रसावर्णिनामानमूरुमध्ये जलोद्भवे।। 24.157 ।।
धर्मसावर्णिकं जान्वोर्जङ्घयो रौच्यनामकम्।
अङ्घ्रियुग्मे भौच्यमनुं विन्यसेत् कमलेक्षणे।। 24.158 ।।
मुखे कृतयुगं नाभौ त्रेतायुगमनिन्दिते।
द्वापरं विन्यसेदूर्वोः कलिमङ्घ्र्योश्च विन्यसेत्।। 24.159 ।।
संवत्सरं ललाटे तु चित्ते च परिवत्सरम्।
न्यसेदिदावत्सरं तु नाभिदेशे गुरूत्तमः।। 24.160 ।।
जान्वोरिद्वत्सरं विद्याद्वत्सरं पादपद्मयोः।
विन्यसेद्दक्षिणे हस्ते दक्षिणायनमब्जजे।। 24.161 ।।
दक्षिणेतरहस्ते तु विन्यसेदुत्तरायणम्।
वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तसैशिरान्।। 24.162 ।।
स्कन्धे मध्ये पदे दक्षे वामभागे तथा न्यसेत्।
मार्गसीर्षं मूर्ध्नि तैषं भ्रुवोर्मध्ये तु विन्यसेत्।। 24.163 ।।
नासिकायां माघमासं फाल्गुनं वदने न्यसेत्।
कण्ठे चैत्रं तु वैशाखं वक्षसि ज्येष्ठमब्जजे।। 24.164 ।।
हृदयेऽषाढमासं च कुक्षौ नाभ्यां तथा गुरुः।
श्रावणं तूरुमूले च देवि भाद्रपदं न्यसेत्।। 24.165 ।।
तथा चाश्वयुजं जान्वोर्जङ्घापादेषु कार्तिकम्।
वामनेत्रे शुक्लपक्षं कृष्णपक्षं तथेतरे।। 24.166 ।।
कलादि दिवसान्तं तु मूर्धादेः प्रपदावधि।
शिरोरुहेषु रजनीं ललाटे दिवसं न्यसेत्।। 24.167 ।।
संधिदेशेषु संध्यां च यामां नेत्रद्वये रमे।
मुखे मुहूर्तं कण्ठे तु नाडिं वक्षःस्थले क्षणम्।। 24.168 ।।
नाभौ कलां गुह्यदेशे काष्ठां जान्वोर्लवं ततः।
त्रुटिं पादद्वये न्यस्य वर्णाध्वानं ततश्चरेत्।। 24.169 ।।
ब्राह्मणं वदने बाह्वोः ऊर्वोः क्षत्रियमूरुजम्।
पादयोः शूद्रजातिं च संधिष्वप्यनुलोमजम्।। 24.170 ।।
गुरुरित्थं तत्तदङ्गे न्यसेत्कमलसंभवे।
उद्गीथं मूर्ध्नि विन्यस्य त्वष्टार्णं वदने न्यसेत्।। 24.171 ।।
हृदये द्वादशमनुं षडर्णं नाभिदेशतः।
ततो बिम्बं समुत्थाप्य उत्तिष्ठेति च मन्त्रतः।। 24.172 ।।
स्नानमण्डपमानाय्य स्नापये द्विधिवद् गुरुः।
निवेद्य सात्त्विकान्नानि ताम्बूलं मुखवासनम्।। 24.173 ।।
ततो नीराज्य तद्बिम्बं शय्यास्थानं नयेत्सुधीः।
रम्ये च मण्डपे वेद्यां धान्यपीठं प्रकल्प्य च।। 24.174 ।।
दारुजं सुदृढं स्निग्धं चतुरश्रायतं शुभम्।
दान्तं राजतहेमादि चतुष्पादसमन्वितम्।। 24.175 ।।
खट्वासंज्ञिकपर्यङ्कं तदूर्ध्वे स्थापयेद्रमे।
तस्मिन् रत्नमयीं डोलां किंकिणीशतशोभिताम्।। 24.176 ।।
मृदूपधानतूलाढ्यां मुक्तादामविलम्बिताम्।
धूपितामगरूभिश्च कर्पूराद्यभिवासिताम्।। 24.177 ।।
प्रकल्प्यैवंविधां शय्यां डोलायाः परितो गुरुः।
खट्वासंज्ञिकपर्यङ्के प्रसार्य तिलसंहतिम्।। 24.178 ।।
व्याघ्रचर्म तदूर्ध्वे तु मृगचर्माथवा रमे।
विन्यसेत् कलसानष्टौ प्रागादिषु यथाक्रमम्।। 24.179 ।।
शिरोभागे व्यूहकूम्भं दक्षिणे करकं न्यसेत्।
पुण्याहवारिभिः प्रोक्ष्य द्वारपूजादिकं चरेत्।। 24.180 ।।
विशाखयूपं कुम्भे तु करके च सुदर्शनम्।
इन्द्रादीनुपकुम्भेषु ध्यात्वावाह्य पूजयेत्।। 24.181 ।।
विमानकूर्चं पर्यङ्के शाययेत् प्राक्शिरो रमे।
डोलायां पन्नगाधीशमभ्यर्च्य गुरुसत्तमः।। 24.182 ।।
देवीभिर्देवदेवेशं भद्रं कर्णेति मन्त्रतः।
मूर्तिपैः सह शय्यायां प्राक्शीर्षं शाययेद्रमे।। 24.183 ।।
अर्घ्यादिभिः समभ्यर्च्य भक्ष्यादीन् घृतपाचितान्।
चतुर्विधान्नसहितं फलानि विविधानि च।। 24.184 ।।
गोक्षीरं नवनीतं च शर्करासंयुतं तथा।
निवेद्य दद्यात् ताम्बूलं मुखवाससमन्वितम्।। 24.185 ।।
नीराजयेद्वर्ममन्त्रमुच्चरन् दीक्षितोत्तमः।
वाससा गन्धयुक्तेन सर्वाङ्गं छादयेत्ततः।। 24.186 ।।
चक्रमुद्रां तु रक्षार्थं दर्शयेन्मन्त्रपूर्वकम्।
ततोऽवशिष्टयामिन्यां वीणागानादिभिर्विभुम्।। 24.187 ।।
तोषयेद्यजमानं तु शाययेत् स्वप्नसिद्धये।
उपोषितं च सुस्नातं नियमेन समनवितम्।। 24.188 ।।
देशिकेन्द्रः प्रभातान्तमित्थं नीत्वा च मूर्तिपैः।
स्नानादि नित्यकर्माणि कृत्वर्त्विग्भिश्च मण्डपम्।। 24.189 ।।
प्रविश्य देवदेवेशं द्वारपूजादिपूर्वकम्।
पूजयित्वा च देवीभिरुत्थाप्य शयनाद्रमे।। 24.190 ।।
अर्घ्यादिभिर्निवेद्यान्नं क्षीरादीनि च देशिकः।
प्रबुद्धं यजमानं तु स्नातं मण्डपमागतम्।। 24.191 ।।
पृच्छेत् स्वप्नं हरिं ध्यात्वा शुभं वाप्यशुभं ततः।
अशुभं चेद्देशिकेन्द्रः तच्छान्त्यर्थं हुताशने।। 24.192 ।।
स्वप्नाधिपतिमन्त्रेण ह्यस्त्रसंपुटितेन च।
दोषं जहि जहि स्वाहेत्यष्टाविंशतिसंख्यया।। 24.193 ।।
हुत्वाज्यं पादमारभ्य जान्वन्तं कौतुके न्यसेत्।
दध्ना हुत्वाथ जान्वादि नाभ्यन्तं तेन संस्पृशेत्।। 24.194 ।।
क्षीरेण हुत्वा नाभ्यादि नासान्तं न्यासमाचरेत्।
मधुना च तथा हुत्वा स्पृशेत् घ्राणाच्छिरोऽवधि।। 24.195 ।।
स्नानमण्डपमानीय देवीभिः सहितं विभुम्।
स्नापयित्वा यताशास्त्रं पूजयित्वा यथाविधि।। 24.196 ।।
अन्नादीन् विनिवेद्याथ मूलबिम्बात् समागताम्।
शक्तिमावाहने पात्रे ध्यात्वा मूले नियोजयेत्।। 24.197 ।।
ततः पुष्पाञ्जलिर्भूत्वा प्रार्थयेद् गाथयानया।
ईश त्वमसि सर्वज्ञः षाड्गुण्यपरिकर्मितः।। 24.198 ।।
बहुभिर्हायनैर्देव योगिभिर्दैवतैरपि।
न गम्यः किं पुनर्मर्त्याः पश्यन्ति भवतस्तनुम्।। 24.199 ।।
श्रीवत्सकौस्तुभधर श्रीपते पुरुषोत्तम।
यथा दारुषु गूढोऽग्निस्तथा त्वं सर्वगः प्रभुः।। 24.200 ।।
तथापि प्रार्थयेऽर्चायां त्वां भक्त्या जगतः कृते।
भक्तवत्सल भक्तानां दर्शयात्मानमच्युत।। 24.201 ।।
पूजां गृहाण मद्दत्तां लोकानां हितकाम्यया।
इति संप्रार्थ्य देवेशमर्ध्यपाद्यादिभिर्यजेत्।। 24.202 ।।
अन्नादीन् विनिवेद्याथ स्तूयाद्विष्णुं जगत्पतिम्।
पाठयेद् ब्राह्मणान् धातर्यद्दक्षेति च मन्त्रपम्।। 24.203 ।।
यो विश्वतश्चक्षुरिति पतिं विश्वस्य इत्यृचा।
द्वा सुपर्णेति तदनु अतो देवेति वै मनुम्।। 24.204 ।।
ऋङ्मयं पौरुषं सूक्तं ततः परतमान्विति।
अजस्य नाभाविति च सामगांश्चार्चतेति च।। 24.205 ।।
ततो नीराज्य लक्ष्मीशं व्योमयानगुरुस्तथा।
कूर्चाच्छक्तिं समावाह्य विमाने पूजयेत्ततः।। 24.206 ।।
नित्यहोमादिकान् कृत्वा पूर्णान्तं मन्त्रवित्तमाः।
धरन्तः स्रुक्स्रुवौ हस्तैर्ब्राह्मणैर्वेदपारगैः।। 24.207 ।।
शं नो मित्राद्युपनिषदं पठन्तस्तूर्यघोषवत्।
धाम प्रदक्षिणीकृत्य ऋत्विग्भिर्देशिकोत्तमः।। 24.208 ।।
संपाताज्यधरो गर्भगेहमन्तः प्रविश्य च।
न्यसेद्देवस्य शिरसि पुंसूक्तेनाभिमन्त्रितम्।। 24.209 ।।
विमानं च समारुह्य तद्गुरुस्तत्र वै न्यसेत्।
उपक्रमदिनादित्थं प्रतिष्ठान्तं च कालयोः।। 24.210 ।।
न्यसनीयं त्वाज्यशेषं नो चेत्कर्म निरर्थकम्।
नित्यवन्मध्यकुम्भे च संपाताज्यं न्यसेत्ततः।। 24.211 ।।
आज्यैः पञ्चोपनिषदा प्रायश्चित्ताहुतीस्चरेत्।
चतुःस्थानस्थितानां च नीराज्याथं बलिं क्षिपेत्।। 24.212 ।।
प्रतिष्ठादिनपर्यन्तमेवं कुर्यात् विचक्षणः।
प्रतिष्ठासमयो देवि मध्याह्ने भविता यदि।। 24.213 ।।
पूर्वोक्तकाले स्नपनं कुर्याद्रक्षापुरःसरम्।
तल्लग्नकालं प्रत्यूषे संभवेद्यदि पद्मजे।। 24.214 ।।
तद्दिनात्पूर्वदिवसे सायाह्ने त्वभिषेचयेत्।
वीरलक्ष्म्यादिबिम्बानि तार्क्ष्यसेनाधिपावपि।। 24.215 ।।
भक्तबिम्बान्यलंकृत्य लोहजानि चतुर्भुजे।
मूर्तिपैः स्थापयेत्तत्तत् स्थानेषु क्रमशो गुरुः।। 24.216 ।।
।। इति श्रीश्रीप्रश्नसंहितायां प्रतिष्ठाकर्मणि त्रयोविंशोऽध्यायः ।।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकाः क्रियाः।
[ऋत्विग्भिर्यजमानेन विमानगुरुणा सह।। 24.217 ।।
]
प्रविश्य यजनागारं नित्यहोमादिकं चरेत्।
ततश्च मन्त्रलोपादिशान्त्यर्थं जुहुयाद्रमे।। 24.218 ।।
मन्त्रलोपप्रशान्त्यर्थं स्वकुण्डे देशिकोत्तमः।
आज्यैस्तिलैः पायसैश्च सिद्धान्नैर्भक्ष्यवस्तुभिः।। 24.219 ।।
मधुना च प्रतिद्रव्यमष्टाविंशतिसंख्यया।
मूलमन्त्रेण हुत्वाथ कुर्यात् पूर्णाहुतिं रमे।। 24.220 ।।
क्रियालोपस्य शमनं कुण्डे कोदण्डसंज्ञिते
घृतेन पयसा दध्ना बीजैर्धान्यैश्च तण्डुलैः।। 24.221 ।।
फलमूलादिभिर्बिल्वपल्लवैः पूर्वसंख्यया।
संकर्षणाख्यमन्त्रेण हुत्वा पूर्णाहुतिं चरेत्।। 24.222 ।।
द्रव्यलोपप्रशान्त्यर्थं वृत्तकुण्डे वरानने।
पुण्डरीकैरन्यपुष्पैराज्यैर्दूर्वाङ्कुरैरपि।। 24.223 ।।
प्रद्युम्नाविद्यया मन्त्री जुहुयात् पूर्वसंख्यया।
स्वरलोपादिशान्त्यर्थं त्रिकोणे पयसा सह।। 24.224 ।।
धात्रीफलैर्बिल्पफलैराज्यान्नैः कदलीफलैः।
शर्कराभिः पद्मबीजैरनिरुद्धाख्यविद्यया।। 24.225 ।।
याजकाः स्वस्वकुण्डे तु हुत्वा पूर्णाहुतिं चरेत्।
तिलानां संहतेर्होमो हरिणाननमुद्रया।। 24.226 ।।
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य तु।। 24.227 ।।
ग्रासार्धमानमन्येषां भक्ष्याणां स्वप्रमाणतः।
सर्वेषामपि बीजानां मुष्टिमात्रं तु होमयेत्।। 24.228 ।।
अग्राङ्गुलिस्तु शालीनां लाजानां हवनं तथा।
फलानां स्वप्रमाणं च पल्लवानां तथा भवेत्।। 24.229 ।।
गुलं कर्कन्धुमात्रेण गुग्गुलुर्मुष्टिमात्रतः।
समित्प्रादेशमात्रेण न वक्राः सत्वचस्तथा।। 24.230 ।।
अष्टाङ्गुलिप्रमाणैर्वा चतुरङ्गुलिभिस्तु वा।
दूर्वाकाण्डानि जुहुयात् तत्तत्काले तु देशिकः।। 24.231 ।।
भट्टाचार्यो मूर्तिपाभ्यामुत्तिष्ठ इति मन्त्रतः।
संप्रार्थ्य भूमिनीलाभ्यां कर्मार्चां भद्रविष्टरे।। 24.232 ।।
स्थापयित्वा वस्त्रमाल्यैर्भूषणैर्गन्धवस्तुभिः।
अलंकृत्याथ बिम्बानि यजेदर्घ्यादिना ततः।। 24.233 ।।
भक्ष्यादीनि निवेद्याथ ताम्बूलं दर्पणं तथा।
कुण्डेषु प्रार्थितान् पूर्वं वासुदेवादिकाननु।। 24.234 ।।
बालबिम्बस्थितमपि मध्यकुम्भे हरिं स्मरेत्।
चक्रब्जकर्णिकामध्ये वासुदेवे जगन्मये।। 24.235 ।।
तद्दलेषु स्थितान् देवान् केशवादीन् नियोजयेत्।
विचिन्तयेत् कर्णिकायां स्थितं देवं घटे तथा।। 24.236 ।।
करकस्थं चक्रराजं गर्भद्वारे नियोजयेत्।
द्वारकेतनकुम्भेषु स्थितान् पार्षदपुंगवान्।। 24.237 ।।
उद्वासयेन्महत्पूर्वे बलेः पीठे सरोद्भवे।
सोमकुम्भाच्चन्द्रमसं पालिकाद्यधिदेवताः।। 24.238 ।।
तत्तत्स्थाने विचिन्त्याथ वासुहोमं गुरूत्तमः।
आचरेदेकबेरे तु गर्भद्वारस्य दक्षिणे।। 24.239 ।।
सुस्नातान् धौतवसनान् स्वच्छमृत्स्नोर्ध्वपुण्ड्रकान्।
चन्दनाद्यनुलिप्ताङ्गान् पुष्पमाल्यैरलंकृतान्।। 24.240 ।।
आहूय पुण्यसलिलैः प्रेष्यानपि च शुद्धयेत्।
पक्षीन्द्रं तेषु संभाव्य तल्लग्ने समुपस्थिते।। 24.241 ।।
यात्रादानं वैष्णवेभ्यो ज्योतिःशास्त्रविदे तदा।
दत्वा कुम्भस्थितं देवं प्रार्थयेन्मन्त्रवित्तमः।। 24.242 ।।
मन्त्रात्मन् रूपमात्मीयं विभुत्वमुपसंहर।
राजराष्ट्राभिवृद्ध्यर्थं स्थित्यर्थं जगतां प्रभो।। 24.243 ।।
नमस्तेऽस्तु हृषीकेश उत्तिष्ठ जगतां पते।
मदनुग्रहाय च विभो मूलिबम्बं समाश्रय।। 24.244 ।।
संप्रार्थ्यैवं महाकुम्भमुपकुम्भपुरःसरम्।
उत्तिष्ठेति समुद्धृत्य स्थापयेत्प्रेष्यमूर्धसु।। 24.245 ।।
शिरःसु परिचाराणां वैमानिकघटानपि।
पक्षीन्द्रास्ते वहेयुस्तु भद्रपीठगतं हरिम्।। 24.246 ।।
भट्टाचार्यः पुरस्तेषां धारयाच्छिद्रया सह।
करकं तु समादाय गच्छेदस्त्रं समुच्चरन्।। 24.247 ।।
बिम्बकुम्भधृतानां च गुरोश्चैव यद्तरम्।
तन्मध्येऽन्ये न गच्छेयुर्यदि गच्छेददीक्षितः।। 24.248 ।।
दीक्षितो वा तेन देवि तत्कार्यं विफलं भवेत्।
अतश्च यजमानेन सर्वेषां पुरतो रमे।। 24.249 ।।
हरिं पश्यन् गुरुश्चापि सावधानेन चेतसा।
गच्छेत्ततः पुरोभागे वेदघोषपुरःसरम्।। 24.250 ।।
तूर्यादि सर्ववादित्रं घोषयेयुश्च वै रमे।
बिम्बस्य पश्चाद्वेदज्ञाः पठेयुः शाकुनं तथा।। 24.251 ।।
भद्रं कर्णं दक्षिणस्यामुत्तरस्यां निषद्वरम्।
नानारत्नानि पुष्पाणिविकीर्यन्तो महाजनाः।। 24.252 ।।
गच्छेयुरादरान्मन्दं देवेन सहिता रमे।
निनयेद् बिम्बकुम्भादीनित्थमाचार्यसत्तमः।। 24.253 ।।
दर्शनं यत्र वै देवि व्योमयानस्य तत्स्थलम्।
प्रादक्षिण्येन देवेशं तत्स्थाने स्तापयेत्ततः।। 24.254 ।।
प्रासादाग्रं समासाद्य महाकुम्भेन तद्गुरुः।
स्तूपिकायाः पुरा कृत्वा सूक्ष्मस्नपनमब्जजे।। 24.255 ।।
विमानमूलदेशे तु चिन्तयेद्योगपीठिकाम्।
महाकुम्भं स्तूपिकां च स्वात्मानं क्षौमवाससा।। 24.256 ।।
आच्छाद्य कुम्भमध्यस्थमनिरुद्धं समर्च्य च।
सहस्रशीर्षचरणहस्तनेत्रैरलंकृत।। 24.257 ।।
त्वद्रूपसदृशार्चायां सांनिध्यं शाश्वतं कुरु।
इति संप्रार्थ्य कुम्भस्थं व्योमयाने विचिन्तयेत्।। 24.258 ।।
ततस्तु कलशाधारवेदिकायां सुदर्शनम्।
ध्यात्वा कुम्भे वासुदेवं मन्त्रन्यासादिकं चरेत्।। 24.259 ।।
महाकुम्भे स्थितं कूर्चमाश्वत्थं पल्लवं तथा।
वस्त्रं च तत्कुम्भगले बन्धयेदभिषेचयेत्।। 24.260 ।।
नीराजयित्वा देवेभ्यो दिक्स्थितेभ्यो बलिं क्षिपेत्।
पललं रजनीचूर्णं लाजांश्च दधिसक्तवः।। 24.261 ।।
बल्यन्नेन च संयोज्य गाथामेतामुदीरयन्।
आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशि स्थिताः।। 24.262 ।।
यूयं प्रसन्ना मद्दत्तां गृह्णीत बलिमादरात्।
दक्षिणस्यां दिशि तथा वृक्षाग्रे पर्वते स्थिताः।। 24.263 ।।
भूमौ व्योम्नि स्थिता ये च ते गृह्नन्तु बलिं मम।
विनायकाः क्षेत्रपालाः पश्चिमस्यां दिशि स्थिताः।। 24.264 ।।
पूष्णाद्याः पार्षदा ये च गुह्णन्तु बलिमद्य मे।
चण्डाद्याः कुमुदाद्याश्च दिशि सोमस्य वै स्थिताः।। 24.265 ।।
विष्णुपारिषदाः सर्वे गृह्णन्तु बलिमुत्तमम्।
इत्थं बलिं चतुर्दिक्षु कृत्वान्यैः कलशोदकैः।। 24.266 ।।
दिङ्मूर्तिव्योमयानस्थाः मण्डपान् गोपुरानपि।
यागशालां पाकशालां स्थलान्यन्यानि सेचयेत्।। 24.267 ।।
बलिदानात् परं देवं महापीठपुरो भुवि।
यद्वा गर्भगृहद्वारे संनिरोध्यार्ध्यवस्तुभिः।। 24.268 ।।
नीराजनान्तमभ्यर्च्य बिम्बकुम्भादिभिः सह।
हृन्मन्त्रमुच्चरन्नन्तः प्रविशेद्देशिकोत्तमः।। 24.269 ।।
महाकुम्भोपकुम्भांश्च स्थापयेद्धान्यविष्टरे।
जाम्बूनदार्चनापीठे ध्रुवार्चापुरतः स्थिते।। 24.270 ।।
कर्मार्चां स्तापयेद्ब्राह्मे श्रीभूम्यौ पार्श्वयोस्ततः।
वामे तु मखबिम्बादीन् स्थापयेल्लौकिकं रमे।। 24.271 ।।
हेमादिलोहजं बिम्बं स्थापयेदिष्टभूमिषु।
भद्रपीठं बहिर्नीत्वा गर्भद्वारं गुरूत्तमः।। 24.272 ।।
तिरस्करिण्या चाच्छाद्य बध्वा पद्मासनाह्वयम्।
मूलबिम्बादिपीठेषु योगपीठं प्रकल्प्य च।। 24.273 ।।
अर्घ्यादिना समभ्यर्च्य महाकुम्भादिषु स्थितान्।
पुष्पाञ्जलौ स्मरेत् पद्मं तत्पद्मे योगपीठिकाम्।। 24.274 ।।
[उत्थानशायिनं विष्णुं वासुदेवं परात्परम्।
परमानन्दवैकुण्ठाच्छ्रिया सार्धं समागतम्।। 24.275 ।।
अनन्तभोगिपीठे तु सुखासीनं चतुर्भुजम्।
तार्क्ष्यसेनेशचण्डादिपार्षदैरुपशोभितम्।। 24.276 ।।
]
ततः कुम्भगतं देवं प्रार्थयेद्गाथयानया।
वासुदेव जगद्योने षाड्गुण्यपरिकर्मित।। 24.277 ।।
निर्मर्याद गुणातीत स्वयंज्योतिनिराकुल।
निर्विकल्प निराकार निष्कलङ्क निरामय।। 24.278 ।।
सहस्ररविवह्नीन्दुकोटिकोटिसमप्रभ।
सर्वत्रशीर्षनयनवक्त्रबाहुपदान्वित।। 24.279 ।।
जगतां क्षेमलाभाय दुष्कृतामभवाय च।
एतत्कुम्भाद् दिव्यबिम्बे सांनिध्यं कर्तुमर्हसि।। 24.280 ।।
एवं संप्रार्थ्य लक्ष्मीशं वासुदेवमनामयम्।
परमानन्दवैकुण्ठान्महाकुम्भे समागतम्।। 24.281 ।।
कुम्भात् पुष्पाञ्जलौ ध्यात्वा मूलबेरे नियोज्य च।
देवस्य मूर्ध्नि तत्कुम्भतोयं कूर्चेन सेचयेत्।। 24.282 ।।
ब्रह्मरन्ध्रपथा बिम्बे प्रविष्टं चिन्तयेत्ततः।
ब्रह्मरन्ध्रं च तारेण पिदध्यात् परमात्मनः।। 24.283 ।।
आत्मनोऽभिमुखं कृत्वा पुण्डरीकाक्षविद्यया।
उत्थाय कमलानाथं चतुर्वारं प्रणम्य च।। 24.284 ।।
आवाहनादिषण्मुद्रां दर्शयेन्मन्त्रपूर्वकम्।
मन्त्रन्यासं ततः कुर्यात् द्वादशाक्षरविद्यया।। 24.285 ।।
सृष्टिन्यासो भवेत् सृष्टौ शयने चासने तथा।
स्थितिन्यासः स्थितौ कुर्याच्छयने भोगसंज्ञिके।। 24.286 ।।
योगे च विश्वरूपे च सर्वत्रैवासनादिषु।
संहारे संहृतिन्यासो यानारूढे त्रयं भवेत्।। 24.287 ।।
ततो देवं समभ्यर्च्य मधुपर्कं निवेदयेत्।
चक्राब्जमण्डलस्थं तु संस्मरेत् कर्म कौतुकम्।। 24.288 ।।
पुण्डरीकाक्षमन्त्रेण न्यासं कुर्याद्विचक्षणः।
स्मरेदानन्दलोकेभ्यश्चागतानुत्सवादिषु।। 24.289 ।।
बिम्बेषु मन्त्रन्यसनमष्टार्णेन समाचरेत्।
स्वापार्चायां समावाह्य बालबिम्बस्थितं विभुम्।। 24.290 ।।
न्यासं विष्णुषडर्णेन कृत्वा विधिवदर्चयेत्।
श्रीभूम्यो रर्चयोर्देवि श्रीवत्सात्पार्श्वयोर्द्वयोः।। 24.291 ।।
ध्यात्वा षडङ्गन्यसनं कुर्यात्पूजां ततः परम्।
वीरलक्ष्मीगृहं गत्वा महाकुम्भेन देशिकः।। 24.292 ।।
श्रीवत्सादागतां लक्ष्मीं चतुर्बाहुविराजिताम्।
ध्रुवार्चादिषु चावाह्य प्रोक्षयेत् कुम्भवारिभिः।। 24.293 ।।
षडङ्गन्यसनं कृत्वा मधुपर्कं निवेदयेत्।
गर्भद्वारोदुम्बरस्थान् खगेशं सेननायकम्।। 24.294 ।।
महानसे स्थितां लक्ष्मीं ब्रह्मरुद्रादिकानपि।
बाहनानि रथादीनि चण्डादिद्वार्स्थितानपि।। 24.295 ।।
ध्वजस्तम्भं च भक्तार्चास्तटाकादीनि पद्मजे।
महाकुम्भजलेनैव प्रोक्षयेत् स्वस्वविद्यया।। 24.296 ।।
बलिपीठे क्षिपेत्तोयमवशिष्टं गुरुः स्वयम्।
ब्रह्मणः सर्गविन्यासं संहारः पार्वतीपतेः।। 24.297 ।।
पूर्वकुण्डात्समादाय गार्हपत्यं हुताशनम्।
पचनागारकुण्डे तु नित्यहोमार्थमब्जजे।। 24.298 ।।
तेजोमन्त्रेण संस्थाप्य प्रविशेद् गर्भमन्दिरम्।
ततो भोज्यासने देवान् प्रार्थयेन्मूलविद्यया।। 24.299 ।।
चतुर्विधान्नं भक्ष्यैश्च फलैस्ताम्बूलसंयुतैः।
प्रभूतं तु निवेद्याथ नीराज्य गुरुसत्तमः।। 24.300 ।।
प्रविश्य पचनागारमाग्नेय्यां स्थापितेऽनले।
नित्यहोमं तु विधिवत् कुर्याद्धोमान्तपूजने।। 24.301 ।।
नो चेत्तिरस्कृतिं नीत्वा पिष्टदीपं प्रदर्शयेत्।
साष्टाङ्गेन चतुर्वारं प्रणम्य रचिताञ्जलिः।। 24.302 ।।
देवस्य पार्श्वमासाद्य गाथामेनामुदीरयेत्।
भगवन् पुण्डरीकाक्ष मन्त्रमूर्ते सनातन।। 24.303 ।।
प्रतिष्ठाङ्कुरमारभ्य प्रोक्षणान्तं जगत्पते।
यन्मयानुष्ठितं कर्म तव संप्रीतये विभो।। 24.304 ।।
साधकैर्मदनुज्ञातैः ऋत्विग्भिश्चापि यत्कृतम्।
तत्तत्संपरिपूर्णाय न्यूनाधिक्योपशान्तये।। 24.305 ।।
भक्तवत्सल भक्तानामभिप्रेतार्थदायक।
प्रार्थये त्वामहं देव मदनुग्रहकाम्यया।। 24.306 ।।
संनिधत्स्व चिरं स्थाने कल्पिते श्रद्धयानया।
प्रसीद देवदेवेश पूजामपि गृहाण मे।। 24.307 ।।
ग्रामस्य राज्ञो राष्ट्रस्य प्रजानां श्रीपते हरे।
देहि पुष्टिं च तुष्टिं च गतिं च परमां तथा।। 24.308 ।।
इति विज्ञाप्य देवस्य पादयोर्मौक्तिकादिकान्।
नवरत्नानक्षतांश्च स्वर्णपुष्पाणि देशिकः।। 24.309 ।।
समर्पयेत् ततो वेदान् वैदिकाश्च समापयेत्।
भोज्यासने स्थिते देवे गुरुणादिष्टयाजकः।। 24.310 ।।
)
वीरलक्ष्म्यालयं गत्वा गुडान्नादीनि वीटिकाम्।
निवेद्य पिष्टदीपं च प्रदर्श्ये प्रार्थयेत् ततः।। 24.311 ।।
अरविन्दासने देवि पद्मगर्भसमुद्भवे।
पद्ममालिनि पद्माक्षि सर्वबूतेश्वरीन्दिरे।। 24.312 ।।
सर्वज्ञे सर्वबूतानामन्तःस्थे सर्वसाक्षिणि।
अशेषजगदीशाने विष्णुवक्षःस्थलस्थिते।। 24.313 ।।
भक्तानां पुत्रपौत्रादिभूमिसंपत्प्रदायिनि।
अस्मिन् बिम्बे चिरं कालं सांनिध्यं कर्तुमर्हसि।। 24.314 ।।
इति लक्ष्मीपदाम्भोजे रत्नादीनि समर्पयेत्।
ततो भगवतो गेहद्वारपार्श्वस्तितानपि।। 24.315 ।।
चण्डादीन् समुपक्रम्य महापीठान्तमब्जजे।
बलिं दद्याच्छ्रियो गेहे चण्ड्यादीनां यथाक्रमम्।। 24.316 ।।
साधकोऽन्यः प्राङ्कणेषु प्राकारेषु च भित्तिषु।
गोपुरेषु स्थितानां च देवानामर्घ्यपूर्वकम्।। 24.317 ।।
निवेद्यान्नं पार्षदानां स्मरन् गाथां क्षिपेद्बलिम्।
गुह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः।। 24.318 ।।
बलमन्त्रपवित्राश्च तेषामनुचराश्च ये।
प्रतिष्ठायां मया दत्तं सोदकं वैष्णवं बलिम्।। 24.319 ।।
गृहीत्वा तृप्तिमासाद्य स्थानं रक्षत वै हरेः।
इत्युक्त्वा खे बलिं दद्याद्वाद्यघोषपुरःसरम्।। 24.320 ।।
देवदेवं ततोऽर्ध्याद्यैरभ्यर्च्य विधिवद्रमे।
गोघृतैः पाचितैर्दिव्यशाकमूलफलादिभिः।। 24.321 ।।
शुद्धान्नं पायसान्नं च घृतभक्ष्यादिसंमितम्।
दध्ना सूपेन सहितं विनिवेद्य गुरूत्तमः।। 24.322 ।।
तृप्तिकामो हरेर्विप्रान् वैष्णवान् भोजयेत्ततः।
सायाह्नसमये प्राप्ते नित्यपूजां समाप्य च।। 24.323 ।।
तार्क्ष्यादिवाहने देवमलंकृत्य समर्च्य च।
यात्रोपकरणैः सार्धं घृतदीपैरनेकशः।। 24.324 ।।
वेदघोषैर्वाद्यघोषैर्वीथीषु भ्रामयेद् गुरुः।
बलिपीठपुरोभागे संनिरुध्य जगद्गुरुम्।। 24.325 ।।
अर्घ्यादिभिः समभ्यर्च्य दृष्टिदोषस्य शान्तये।
घटदीपं प्रदर्श्याथ पृथुकादीन् निवेद्य च।। 24.326 ।।
नीराज्य यानाद्देवेशं निनयेद्गर्भमन्दिरम्।
अन्नं चतुर्विधं शुद्धं प्रभूतं विनिवेदयेत्।। 24.327 ।।
ततोऽन्नादीन् ब्राह्मणेभ्यो भक्तेभ्यश्च प्रदापयेत्।
शय्यान्तं पूजयित्वाथ कवाटं बन्धयेद् गुरुः।। 24.328 ।।
ततः प्रभाते देवस्य पूजां नित्यां समाप्य च।
विधिवत् स्नपनं कृत्वा मुद्गान्नादि निवेदयेत्।। 24.329 ।।
ततः काण्डपटं त्यक्त्वा नीराज्य प्रार्थद्विभुम्।
भगवन् देवदेवेश लोकनाथ मम प्रिय।। 24.330 ।।
सर्वादे सर्वमध्यान्त सर्व सर्वोत्तराच्युत।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम।। 24.331 ।।
दुस्तरापारसंसारसागरोत्तरणक्षम।
व्यक्ताव्यक्तज्ञ कालाख्यक्लृप्तभावचतुष्टय।। 24.332 ।।
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।
प्रद्युम्न भगवन् श्रीमन्ननिरुद्धापराजित।। 24.333 ।।
नानाविभवसंस्थान नानाविभवभावन।
दिव्य शान्तोदितानन्द षाड्गुण्योदयविग्रह।। 24.334 ।।
स्फुरत्किरीटकेयूरहारनूपुरकौस्तुभ।
पीताम्बर महोदार पुण्डरीकनिभेक्षण।। 24.335 ।।
चतुर्मूर्ते चतुर्व्यूह शरदिन्दीवरद्युते।
कोटिमन्मथसौन्दार्य नारायण कृपानिधे।। 24.336 ।।
त्वया विना न मे किंचिन्मां विना तव किंचन।
तस्मान्मामात्मसात्कर्तुं प्रसीद परमेश्वर।। 24.337 ।।
भूमौ स्खलितपादानां भूमिरेवावलम्बनम्।
त्वयि विप्रतिपन्नानां त्वमेव शरणं विभो।। 24.338 ।।
इति विज्ञाप्य देवेशं साष्टाङ्गं प्रणमेद् गुरुः।
मधुपर्कोपचारान्ते गुर्वनुज्ञां प्रगृह्य सः।। 24.339 ।।
यजमानो भक्तिनम्रः तोयपूर्वं हरेः करे।
दक्षिणे नित्यपूजार्थं सस्यपूर्णां भुवं तथा।। 24.340 ।।
आरामं स्वर्णभूषादि नवरत्नानि कम्बलम्।
आच्छादनानि दासीश्च दासान् वाद्यानि वाहनम्।। 24.341 ।।
कटाहादीनि पात्राणि पूजोपकरणानि च।
दत्वा सहोदकं पश्चात् पुत्रदारसमन्वितम्।। 24.342 ।।
दासीदासं च सर्वस्वमात्मानं च वसूनि च।
अर्पयेद्वासुदेवस्य पादयोः प्रभुसत्तमः।। 24.343 ।।
दासीदासं च सर्वस्वमात्मानं च वसूनि च।
अर्पयेद्वासुदेवस्य पादयोः प्रभुसत्तमः।। 24.344 ।।
ततो मातृपितृत्वाभ्यां बन्धुत्वेन गुरूत्तमम्।
सखात्मत्वेन संभाव्य प्रणम्य च पुनः पुनः।। 24.345 ।।
केयूरहारवलयैः स्वर्णयज्ञोपवीतकैः।
क्षेत्रारामगृहैर्वित्तैर्जीवाजीवधनैस्तथा।। 24.346 ।।
दासीदासेन हस्त्यश्वसुवर्णशिबिकादिभिः।
तोषयेद्यजमानस्तु भट्टाचार्यमनिन्दिते।। 24.347 ।।
सहस्रं धेनवो देया दक्षिणा गुरवे तदा।
तदर्धमृत्विजां दद्यात् साधकानां यथोचितम्।। 24.348 ।।
यागद्रव्याण्यशेषाणि भट्टाचार्यः स्वयं हरेत्।
ब्राह्मणानां च विदुषां तथाम्नायानधीयताम्।। 24.349 ।।
पुराणगाथावक्तॄणां जापकानां च मन्त्रिणाम्।
कालज्ञानां सदस्यानां तत्तत्कर्मानुसारतः।। 24.350 ।।
गोभूहिरण्य रूप्याणि वस्त्राण्याभरणानि च।
देयात् कलासु नृत्तेषु वाद्येषु विविधेषु च।। 24.351 ।।
यथाश्रमं वस्त्रभूषाः वादित्राणां धनानि च।
यानमारोप्य चाचार्यं सर्ववादित्रनिःस्वनैः।। 24.352 ।।
ध्वजैश्छत्रैश्चामरैश्च नीत्वा ग्रामं प्रदक्षिणम्।
प्रापयेत् तद्गृहं देवि क्ष्मापयेद्वन्दनादिभिः।। 24.353 ।।
एकबेरविधाने तु प्रोक्षणानन्तरं रमे।
दुकूलैर्नूतनैर्वस्त्रैः प्रतिमां छादयेत्ततः।। 24.354 ।।
त्र्यहं कवाटमाच्छाद्य द्वारि चक्रं विनिक्षिपेत्।
तत् त्र्यहं ब्रह्मरुद्रादि देवा देवर्षयस्तथा।। 24.355 ।।
सिद्धा ब्रह्मर्षयश्चापि पूजयन्ति रमापतिम्।
चतुर्थेऽहनि संप्राप्ते द्वारमुद्धाट्य मन्त्रवित्।। 24.356 ।।
विधिवत्स्नपनं कृत्वा ध्वजारोहणपूर्वकम्।
तीर्थान्तमुत्सवं कुर्यात् तच्छ्रमस्याभिशान्तये।। 24.357 ।।
[एकबेरे चोत्सवं तु कुर्यात् तच्छ्रमशान्तये।]
यजमानो निष्कशतं तथा गाः कम्बलानि च।। 24.358 ।।
आविकं बहुमूल्यं च वस्त्राण्याभरणानि च।
गुरवे साधकेभ्यश्च ऋत्विग्भ्यश्च यथाक्रमम्।। 24.359 ।।
दद्याद्दैवस्य रक्षार्थं नियुञ्ज्यादनुजीविनः।
न क्लेशयेद् भागवतांस्तथैव परिचारकान्।। 24.360 ।।
एवं सर्वं प्रकल्प्याथ यजमानो गृहं विशेत्।
कर्षणादिप्रतिष्ठान्तं यः करोति रमापतेः।
स एव भट्टाचार्यस्तु नित्यपूजां समाचरेत्।। 24.361 ।।
तत्सुतो निर्गुणो वापि तद्वंश्यो वा तथाविधः।
पूजयेद्यदि सर्वज्ञे सांनिध्यं तत्र नित्यशः।। 24.362 ।।
कुर्यात् तदितरेषां तु पूजनं मे प्रियो न च।
तस्मात्तद्वंशजा एव पूजयन्तु सदा मम।। 24.363 ।।
य इत्थं स्थापनं कुर्यात् देवदेवस्य शार्ङ्गिणः।
तस्य देवि प्रवक्ष्यामि भुक्तिमुक्तिफलं शुभम्।। 24.364 ।।
यजमानो ब्राह्मणश्चेत् सर्वविद्याधिपो भवेत्।
क्षत्रियश्चेत् सार्वभौमो भवेद्वैश्यस्तु पद्मजे।। 24.365 ।।
पश्वारामगृहक्षेत्रे धनधान्यसमृद्धिमान्।
शूद्रश्चेद्यजमानस्तु मोदते द्रविणादिभिः।। 24.366 ।।
पुत्रार्थो पुत्रमाप्नोति वित्तार्थी धनमाप्नुयात्।
यद्यत्कामयते कर्ता तत्सर्वं लभते जवात्।। 24.367 ।।
आदेवालयभूभागा ध्वजान्तादपि मण्डपात्।
सर्वोपकरणोपेतात् सर्वेष्वावरणेषु च।। 24.368 ।।
समन्तात् परमाणूनां सर्वेषां यावती रमे।
संख्या संजायते तासु एकैकस्य वरानने।। 24.369 ।।
प्रेरको यजमानश्च कोटिकोटिशतं समाः।
उषित्वा विष्णुलोके तु यात्यन्ते परमं पदम्।। 24.370 ।।
Chapter - 25
+++
+++
।। पञ्चविंशोऽध्यायः ।।
भिन्नकाले प्रतिष्ठा चेल्लक्ष्म्यादीनां वरानने।
तद्विधानं प्रवक्ष्यामि विशेषमवधारय।। 25.1 ।।
श्रियः स्थानं विधातव्यं निर्ऋतेरालये दिशि।
विमानस्य चतुर्दिक्षु तुष्टिं पुष्टिं तथा पराम्।। 25.2 ।।
सावित्रीमपि वाग्देवीं कोणेषु विहगेश्वरम्।
सिंहं वा परिकल्प्याथ गर्भद्वारस्य पार्श्वयोः।। 25.3 ।।
चण्डीं प्रचण्डीं च तथा द्वितीयद्वारपक्षयोः।
बलाकिनीं वन्यमालां कल्पयेच्छिल्पिसत्तमः।। 25.4 ।।
पारतन्त्रे विधिरयं स्वतन्त्रे शृणु वल्लभे।
तृतीयगोपुरद्वारदक्षिणोत्तरभागयोः।। 25.5 ।।
जयां च विजयां चैव चतुर्थद्वारपार्श्वयोः।
विभीषिकां शांकरीं च पञ्चमावरणे ततः।। 25.6 ।।
कमलाभिमुखं तार्क्ष्यमैशान्यां दिशि ह्रीमतीम्।
यागशालादिकाः सर्वाः पूर्ववत् परिकल्प्य च।। 25.7 ।।
प्राच्यादिद्वारशाखासु चिन्तयेद्वनमालिकाम्।
शचीं बलाकिनीं कालनायिकां च विभीषिकाम्।। 25.8 ।।
शीतलां शांकरीं संपद्देवीं च तदनन्तरम्।
ज्येष्ठां विद्यां तथा श्रद्धां कान्तिं सृष्टिं क्रियां क्षमाम्।। 25.9 ।।
जयां च द्वारकुम्भेषु पताकास्वष्टसु क्रमात्।
धृतिं लज्जां च सावित्रीं मायां शुद्धिं च तुष्टिकाम्।। 25.10 ।।
शान्तिं कीर्तिं यजेदेताश्चतुर्हस्ताः सुशोभनाः।
चक्रशङ्खाञ्जलिधराश्चासीनाः पद्मविष्टरे।। 25.11 ।।
चिन्तयेत् पूजने काले द्वारोदुम्बरमध्यमे।
विजयां चक्रमध्यस्थां पार्श्वयोः पन्नगाशनम्।। 25.12 ।।
द्वारमध्ये ऋगादींश्च पूर्ववत् पूजयेद् गुरुः।
ततः पद्मादियोन्यन्तं कुण्डेषु चतसृषु क्रमात्।। 25.13 ।।
लक्ष्मीं कीर्तिं जयां मायां कुम्भेष्वष्टसु शोभने।
शक्तिं विभूतिमिच्छां च ततः प्रीतिं रतिं तथा।। 25.14 ।।
मायां धियं च महिमां मध्यकुम्भे श्रियं यजेत्।
करके विजयां देवीं चक्राब्जे कर्णिकासने।। 25.15 ।।
श्रियं देवीं द्वादशसु दलेषु च यथाक्रमम्।
श्रियं वागीश्वरीं कान्तिं क्रियां शक्तिं विभूतिकाम्।। 25.16 ।।
इच्छां प्रीतिं रतिं मायां धियं च महिमां तथा।
पूर्वादिद्वारशाखासु पूजयेद्देशिकोत्तमः।। 25.17 ।।
चण्डीप्रचण्ड्यौ तार्क्ष्यं तु मण्डलाभिमुखं यजेत्।
ऐशान्यां ह्रीमतीं ध्यायेत् तर्जनीमुद्रयान्विताम्।। 25.18 ।।
आग्नेयादिषु कोणेषु वसुधां नरकेसरीम्।
वारुणीं च स्मरेद्विद्यां ततस्त्वर्घ्यादिना यजेत्।। 25.19 ।।
एताः श्रियो मुखं सर्वाः पश्यन्तीश्चिन्तयेत् रमे।
प्रासादमध्यकुम्भे तु मायां कुण्डे तथा स्मरेत्।। 25.20 ।।
उपकुम्भेषु पूर्वोक्ताः देवीः आवाह्य पूजयेत्।
नवभिर्वा पञ्चभिर्वा कलशैरभिषेचनम्।। 25.21 ।।
श्रियादीनां तथान्येषां कुर्याद्देशिकसत्तमः।
अत्रानुक्तं च सकलं पूर्वोक्तविधिवच्चरेत्।। 25.22 ।।
वीरलक्ष्मीमित्थमेव प्रतिष्ठाप्यार्चनं चरेत्।
प्रत्यब्दमुत्सवं कुर्याद्विवाहोत्सवपूर्वकम्।। 25.23 ।।
दुर्वाससस्तु शापेन राज्याद् भ्रष्टः पुंरदरः।
पुनस्तत्प्राप्तये देवि क्षीरसागररोधसि।। 25.24 ।।
सहस्रं वत्सरं तेपे तपस्त्रिदशपुंगवः।
ततो वर्षसहस्रान्ते दातुं तस्मै तपःफलम्।। 25.25 ।।
प्रादुरासं वरदराट् शङ्खचक्रगदाधरः।
प्रार्थयन्तं स्वर्गलोकं नमस्कृत्य कृताञ्जलिम्।। 25.26 ।।
अब्रुवं देवदैत्यैस्त्वं मित्रभावं पुरा कुरु।
वेधसा शंकरेणाहं तव साह्यं करोमि भो।। 25.27 ।।
दैत्यैः सहौषधीः सर्वाः क्षिप्त्वा क्षीरार्णवे ततः।
मथितं चेन्मन्दरेण भविष्यत्यमृतं शुभम्।। 25.28 ।।
उत्त्स्यते तत्र लक्ष्मीस्तां प्रार्थय सुरोत्तम।
आत्मानं बलिनं कृत्वा पीयूषस्य च भक्षणात्।। 25.29 ।।
जित्वा सुरांस्ततो लक्ष्मीं वीरपूर्वामनिन्दिताम्।
प्राप्य स्वराज्यमखिलं पालयिष्यस्यसंशयम्।। 25.30 ।।
एवं मयोदितं सर्वं श्रुत्वा देवगणैः सह।
क्षीराब्धिमथनं चक्रुस्तदा त्वं जगतां हिते।। 25.31 ।।
कन्याशुक्लनवम्यां तु शुक्रवारे शुभे दिने।
अनुप्रविश्य दुग्धाब्धावोषधीनां रसस्य च।। 25.32 ।।
अमृतं च विषं चोभे विभज्य त्वं जगद्धिता।
फाल्गुने मासि नक्षत्रे उत्तरे पूर्णिमातिथौ।। 25.33 ।।
सागराद्बहिरागत्य पीताम्बरधरं विभुम्।
दृष्ट्वा मायां कंधरे मालां लज्जयावनतानना।। 25.34 ।।
समारुह्य ततो देवी मच्छ्रीवत्समुपागमः।
त्वयावलोकिते देवे वीरश्रियमुपेयुषि।। 25.35 ।।
जित्वा दानवसंघातान् देवराजः श्रिया ज्वलन्।
स्वराज्यमखिलं प्राप्य ह्युत्सवं तव चाकरोत्।। 25.36 ।।
कुर्यात्तवोत्सवं तद्वदर्चायामपि देशिकः।
भाद्रशुक्लनवम्यां वा फाल्गुन्यां फल्गुनीयुते।। 25.37 ।।
आविर्भावदिने वापि निश्चित्यावभृथं रमे।
ह्रीमतीं तु पुरस्कृत्य मृत्संग्रहणमाचरेत्।। 25.38 ।।
स्वातन्त्र्ये विधिरेषः स्यात् पारतन्त्र्ये तु सेनपम्।
पूर्ववद् द्वारकुम्भादिपूजनं तत्र कारयेत्।। 25.39 ।।
अष्टलक्ष्मीं पालिकासु धियं कुम्भे समर्च्य च।
मध्यकुम्भे श्रियं देवीं दिक्षु प्रागादिषु क्रमात्।। 25.40 ।।
लक्ष्मीं कीर्तिं जयां मायामाग्नेयादिषु देशिकः।
हरीं प्रीतिं च वाग्देवीममृतां वारुणीं तथा।। 25.41 ।।
ध्यात्वावाह्य चाभ्यर्च्य कुण्डेषु करकेषु च।
चक्राब्जमण्डले चापि पूर्ववत्परिपूजयेत्।। 25.42 ।।
भूषोपकरणानां च शृणृ त्वं देवताक्रमम्।
किरीटे कौस्तुभे चैव श्रीवत्सवनमालयोः।। 25.43 ।।
शङ्खे चक्रे गदा शार्ङ्गे नन्दके स्वस्व देवताः।
कान्तिं प्रभायामावाह्य भूषास्वन्यासु संपदम्।। 25.44 ।।
भद्रपीठे पादुकायां शिबिकायां ध्वजे तथा।
गजाश्वयो रथे सिंहे हंसे तार्क्ष्यं तु पूजयेत्।। 25.45 ।।
शेषपक्षीशचन्द्रार्कबिम्बाद्यन्येषु देशिकः।
तत्तद्देवान् मध्यकुम्भे परितोऽष्टसु पद्मजे।। 25.46 ।।
इन्द्रादीनुपकुम्भेषु द्वारपूजां विना यजेत्।
अधिवासादिकान् सर्वानाचरेद्विधिवत्तथा।। 25.47 ।।
शुभे मुहूर्ते संप्राप्ते प्रोक्षयेत् कुम्भतोयतः।
आचार्यदक्षिणां दद्यादृत्विजां प्रभुसत्तमः।। 25.48 ।।
एतेषां स्नपनं देवि नवभिः कलसैस्तु वा।
भक्तानां स्थापनं कुर्याच्चतुर्थविरणादिषु।। 25.49 ।।
सिंहदिङ्मूर्तिरहितं मन्दिरं परिकल्प्य च।
स्वस्ववर्णाश्रमाचारान् सदृशाकृतिचेष्टितान्।। 25.50 ।।
प्रकल्प्य भक्तबिम्बादीन् मन्दिरे मानुषे पदे।
संस्थाप्य पद्मनाभस्य चरणाम्बुजपीठतः।। 25.51 ।।
संप्रार्थ्य दिव्यजीवं तं कुम्भमध्ये विचिन्तयेत्।
नोपकुम्भाष्टकं नैव शय्यायामधिवासनम्।। 25.52 ।।
सर्वमन्यद्यथापूर्वं प्रोक्षणान्तं समाचरेत्।
तच्चिष्यान् पादुकायां चिन्तयेदब्धिसंभवे।। 25.53 ।।
Chapter - 26
+++
+++
।। षड्विंशोऽध्यायः ।।
श्रीः-
संसारसागरोत्तारपोतपादाम्बुजद्वय।
मदुत्सवान्ते देवेड्य विवाहोत्सवमावयोः।। 26.1 ।।
अवश्यं कार्यमित्युक्तं तद्विधानं वद प्रभो।
श्रीभगवान्-
क्षीरोदमथनोद्भूतश्रमच्छिच्चन्द्रिके रमे।। 26.2 ।।
तद्विधानं प्रवक्ष्यामि क्षीराब्धितनये तव।
उत्सवान्त्यदिनाद्देवि परस्मिन् दिवसे गुरुः।। 26.3 ।।
नित्यपूजां पुरा कृत्वा देवदेव्योस्ततो रमे।
नमस्ते सिन्धुतनये नमश्चन्द्रसहोदरि।। 26.4 ।।
नमः श्रीवत्सवासिन्यै त्रय्यन्ताद्यै नमो नमः।
वैवाहिकोत्सवार्थं त्वं प्रार्थयामि हरिप्रिये।। 26.5 ।।
अतः कर्मणि बिम्बेऽस्मिन् सांनिध्यं कुरु भार्गवि।
इति विज्ञाप्य लक्ष्मीं तामावाह्य तदनन्तरम्।। 26.6 ।।
भगवत्सदनं गत्वा तमपि प्रार्थयेद् गुरुः।
नमो देवादिदेवेड्य सर्वलोकमहेश्वर।। 26.7 ।।
षाड्गुण्याम्भोनिधे शार्ङ्गिन् दोषशून्य निरञ्जन।
उद्वाहोत्सवसिद्ध्यर्थं बिम्बेऽस्मिन् संनिधिं कुरु।। 26.8 ।।
इत्थं संप्रार्थ्य तदनु लक्ष्मीं लक्ष्मीशमेव च।
संस्नाप्य गन्धतैलाद्यैः प्रत्येकं स्वर्णविष्टरे।। 26.9 ।।
वस्त्रभूषणमाल्याद्यैर्यज्ञसूत्रैर्हिरण्मयैः।
अलंकृत्य समारोप्य यात्रोपकरणैस्सह।। 26.10 ।।
प्राकारभ्रमणं कृत्वा नयेदुद्वाहमण्डपम्।
स्वर्णसिंहासने देवं देवीं संस्थाप्य देशिकाः।। 26.11 ।।
कुण्डे वा स्थण्डिले वापि दिव्याग्निं प्रार्थयेत्ततः।
देवदेव्योश्च करयोर्बध्नीयाद्धेमकौतुकम्।। 26.12 ।।
मधुपर्कं निवेद्याथ कुण्डमध्ये जगत्प्रभुम्।
देव्या सह समभ्यर्च्य नमस्कृत्य कृताञ्जलिः।। 26.13 ।।
[ओं नमः पुण्डरीकाक्ष नारायण जगन्मय।
अभिराम शरीरेश पीताम्बरसमुज्ज्वल।। 26.14 ।।
]
क्षीरसागरसंभूतां पारिजातादिसोदरीम्।
सर्वलक्षणसंपन्नां सर्वाभरणभूषिताम्।। 26.15 ।।
महालक्ष्मीमिमां कन्यां तुभ्यं दास्यामि विष्णवे।
गृहाण जगतां योगक्षेमाय पुरुषोत्तम।। 26.16 ।।
इति विज्ञाप्य देवेशं स्वर्णगोभूमिभिः सह।
हस्ते भगवतो भद्रे दद्यादुदकपूर्वकम्।। 26.17 ।।
पाणिं लक्ष्म्यास्ततो विष्णोः पाणिना योजयेद्गुरुः।
देवदेव्यौ समभ्यर्च्य मधुपर्कं निवेद्य च।। 26.18 ।।
माङ्गल्यमणिमादाय वैष्णवानामनुज्ञया।
अपराजितमन्त्राद्यैरबिमन्त्र्य च सूत्रवत्।। 26.19 ।।
[क्षीरोदमथनायासे फलेरूपे मधुद्विषः।
नमश्चन्द्रसहोदर्यै नमस्तेऽमृतयोनये।। 26.20 ।।
]
समुद्रतनये मातर्लक्ष्मीस्त्वां प्रार्थयाम्यहम्।
माङ्गल्यसूत्रं देवेन युष्मत्कुणेडे समर्पणे।। 26.21 ।।
नियोजितोऽहं बध्नामि गृहाण परमेश्वरि।
इति विज्ञाप्य बध्नीयाद् देव्याः कण्ठे हरिं स्मरन्।। 26.22 ।।
साधकेन समं देवदेव्योरादाय पादुकाः।
गुरुः पुराग्निभ्रमणं कृत्वा पुंसूक्तमन्त्रतः।। 26.23 ।।
लाजान् हुनेच्छ्रियः सूक्तमुच्चरंस्तदनन्तरम्।
भूसूक्तेन ततः कुर्यात् प्रत्येकं च प्रदक्षिणम्।। 26.24 ।।
ततस्तु लक्ष्मीगायत्र्या समिच्चरुघृतैः सह।
विष्णुगायत्रिया कुर्यात् प्रत्येकं द्वादशाहुतीः।। 26.25 ।।
ततः पूर्णाहुतिं हुत्वा द्वादशाक्षरविद्यया।
पञ्चोपनिषदा पश्चात् प्रायश्चित्ताहुतीश्चरेत्।। 26.26 ।।
वह्निस्थं परमात्मानं लक्ष्मीं [च] संप्रार्थयेत्तयोः।
बिम्बयोर्वह्निमुद्वास्य हविरादीन् निवेदयेत्।। 26.27 ।।
नीराज्य देवं देवीं च धनैर्विप्रांस्तु तोषयेत्।
निवेदितान्नभक्ष्यादि वैष्णवेभ्यः प्रदापयेत्।। 26.28 ।।
सायाह्नसमये प्राप्ते प्रसूनाद्यैरलंकृताम्।
शिबिकां पुण्यतोयेन संप्रोक्ष्य कमलां विभुम्।। 26.29 ।।
आरोप्य वस्त्रभूषाद्यैर्मण्डयेत् पुष्पदामभिः।
यात्रोपकरणैश्चैव घृतदीपैरनेकशः।। 26.30 ।।
धाम प्रदक्षिणीकृत्य विधिवद्देशिकोत्तमः।
शिबिकायाः श्रियं देवं निनयेद् गर्भमन्दिरम्।। 26.31 ।।
शय्यान्तं पूजयेद्विद्वान् भट्टाचार्यस्तु भक्तिमान्।
[एवं चतुर्दिनं वापि कुर्याल्लौकिकवर्त्मना।। 26.32 ।।
जामदग्न्यादिदेवीनां विवाहः स्मार्तवर्त्मना]
इत्थं लक्ष्मीं प्रतिष्ठाप्य विवाहं यस्तु कारयेत्।। 26.33 ।।
तस्य गेहे नित्यवासं श्रीः करोति न संशयः।
पुत्रपौत्रादिवृद्धिश्च भूमिलाभश्च जायते।
आयुष्मान्नीरुजो भूत्वा विष्णुलोकमियात्ततः।। 26.34 ।।
Chapter - 27
+++
+++
।। सप्तविंशोऽध्यायः ।।
श्रीः-
अभिषेकाः प्रतिष्ठायां बहवः समुदीरिताः।
तेषां संख्या घटानां च देवान् द्रव्याणि वै मनुम्।। 27.1 ।।
श्रोतुमिच्छामि तत् सर्वं वक्तुमर्हसि शास्त्रवित्।
भगवान्-
क्षीरार्णवसमुद्रूते यद्यत्पृष्टं त्वयानघे।। 27.2 ।।
विस्तरेणाद्य तर्त्सवं शृणुष्वैकायनोदितम्।
एकबेरे गर्भगेहपुरतः स्नपनार्थिकाः।। 27.3 ।।
बहुबेरविधाने तु प्रासादस्याग्रतोऽपि वा।
सर्वावरणभूष्वेव दिक्षु सर्वासु वा रमे।। 27.4 ।।
प्रतिष्ठावत् प्रपां कृत्वा प्रादेशोच्छ्रायसंमिताम्।
वेदिं प्रकल्पयेत्तत्र घटसंख्यानुरोधतः।। 27.5 ।।
ब्रह्मस्थानादिभेदन विभजेत्तां पुरा गुरुः।
वीथीर्विहाय पूजार्थं ब्रीहिभिस्तण्डुलैस्तिलैः।। 27.6 ।।
प्रत्येकं कल्पयेत्पीठं घटानां चक्रमुद्रितम्।
तेषु पीठेषु कलशान् विष्णुगायत्रिया न्यसेत्।। 27.7 ।।
महाभिषेके कर्तव्ये कुम्भानष्टोत्तरं शतम्।
ब्रह्मस्थाने मध्यपदे परितोऽष्टसु दिक्ष्वपि।। 27.8 ।।
चतुरश्चतुरो देवि स्थापयेद्देवतापदे।
काष्ठासु नव नव स्थाप्या गुरुणाष्टासु वै घटाः।। 27.9 ।।
देवस्थानीयकुम्भानां प्राच्यादिषु यथाक्रमम्।
मध्यकुम्भान् पाद्यमार्घ्यमाचामं क्षीरमेव च।। 27.10 ।।
दधि पञ्चामृतं देवि मधुगन्धोदकं तथा।
शुद्धोदैः परितः कुम्भान् पूरयेदस्त्रविध्यया।। 27.11 ।।
ब्रह्मस्थानेऽप्यष्टदिक्षु पौरुहूतादिकेषु च।
कुम्भेष्वेकैकं चतुर्षु फलवारि च मार्जनम्।। 27.12 ।।
मधुपर्कं पत्रनीरं रत्नोदकमतः परम्।
लोहवारीक्षुतोयं च गुलापः पूरयेद् बुधः।। 27.13 ।।
मध्यमे वेधसस्स्थाने कलशेषु चतुर्ष्वपि।
घृतमुष्णोदकं पुष्पसर्वौषधिजलैरपि।। 27.14 ।।
प्रादक्षिण्येन संपूर्य तेषु कूर्चान् विनिक्षिपेत्।
अश्वत्थाम्रप्रवालैश्च नारिकेलफलान्यपि।। 27.15 ।।
पिदध्याद् घटवक्त्राणि चक्रमन्त्रेण देशिकः।
वस्त्रेण वेष्टयेत्कुम्भगले प्रत्येकशो गुरुः।। 27.16 ।।
सर्वान् वाप्येकवस्त्रेण विभवानुगुणं रमे।
आच्छाद्य नववस्त्रेण कलशान् प्रागुदङ्मुखः।। 27.17 ।।
कुम्भानां पश्चिमे देशे कल्पयेत् स्नानविष्टरम्।
स्नानवेद्युत्तरे भागे गन्धतोयेन पूरितम्।। 27.18 ।।
गालितं पवमानाद्यैर्मन्त्रितं सापिधानकम्।
उपस्नानार्थपात्रं तु स्थापयेत् देशिको महत्।। 27.19 ।।
शङ्खपात्रं चक्रपात्रं शतधारं तथैव च।
सहस्रधारं पटलं स्नानार्थं स्वर्णनिर्मितम्।। 27.20 ।।
सज्जीकुर्यात् तथा पात्रं चन्दनक्षोदसंयुतम्।
तिन्त्रिणीफलपङ्कस्य बहुसारस्य भाजनम्।। 27.21 ।।
अर्घ्यादिदीपपात्रान्तं पूजाद्रव्याणि कल्पयेत्।
अन्तः प्रविश्य मूलादि कर्मबिम्बानि वै क्रमात्।। 27.22 ।।
नित्यपूजां समाप्याथ प्रार्थयेद् गुरुसत्तमः।
सर्वादे सर्वजीवात्मन् सर्वज्ञ सकलप्रभो।। 27.23 ।।
अभिषेको मया तेऽद्य कर्तुं संप्रार्थयामि भो।
जगत्संप्रीणनार्थाय कर्मबिम्बमलंकुरु।। 27.24 ।।
इति संप्रार्थ्य चावाह्य स्नानमण्डपमानयेत्।
स्नानासने देवदेवं श्रीभूमिसहितं नयेत्।। 27.25 ।।
पुण्याहं वाचयेत् पूर्वं पञ्चकालपरायणैः।
संप्रोक्ष्य कलशादीनि द्वारपूजामुपक्रमेत्।। 27.26 ।।
निषद्वराश्च सूक्तानि पठेयुर्वैष्णवोत्तमाः।
बहिर्वाद्यानि गायेयुर्नृत्येयुर्नर्तकीजनाः।। 27.27 ।।
पुरा पुष्पाङ्कुरं कृत्वा विधिवद्देशिकोत्तमः।
घटानां पूर्वदेशे तु कुण्डे वा स्थण्डिलेऽपि वा।। 27.28 ।।
दिव्यानलं प्रतिष्ठाप्य कुम्भेष्वासनकल्पनम्।
कृत्वा तत्तद्द्रव्यदेवान् घटेष्वावाह्य पूजयेत्।। 27.29 ।।
अग्नौ पीठं प्रकल्प्याथ वासुदेवं यजेद् गुरुः।
तत्तद्द्रव्याधिदेवान् वै समुद्दिश्य घृताहुतीः।। 27.30 ।।
संख्याभिरष्टभिर्हुत्वा चरुणा षोडशाहुतीः।
सर्पिषाष्टोत्तरशतं विष्णुगायत्रिया हुते।। 27.31 ।।
होमे हुताज्यशेषेण मध्यकुम्भेषु सेचयेत्।
बह्निस्थं परमात्मानं चिन्तयेत् कर्मकौतुके।। 27.32 ।।
अग्निमुद्वास्य तदनु स्नपनार्थं जगद्गुरोः।
स्नानशाटीं समर्प्याथ यजेदर्घ्यादिना हरिम्।। 27.33 ।।
देवानां स्वस्य हस्ते च रक्षासूत्रं तु बन्धयेत्।
गन्धमार्जारबीजोत्थं गन्धतैलैश्च पाचितम्।। 27.34 ।।
अस्त्रेण शोधयेत् तं वै तिलतैलेन देशिकः।
शिरःप्रभृति पादान्तं देवस्योद्वर्तनं चरेत्।। 27.35 ।।
ततोद्धरेद् द्रव्यकुम्भान् विष्णुगायत्रिया रमे।
पाद्यादिकलशैर्देवं स्नापयेन्मन्त्रपूर्वकम्।। 27.36 ।।
प्रतिद्रव्यं तु मन्त्रेण ह्यर्घ्यालभनमाल्यकैः।
धूपादिभिः समभ्यर्च्य ततस्तेनाभिषेचयेत्।। 27.37 ।।
द्रव्यन्यासं क्रमेणैव तदुद्धारः प्रकीर्तितः।
घटेन येन देवेशः स्नाप्यते गुरुणा रमे।। 27.38 ।।
तद्घटावेष्टितं सूत्रं छित्वा प्रादेशसंमितम्।
बध्वा हरेः करे देवि स्नापयेत्तद्धटाम्बुना।। 27.39 ।।
पाद्यादिद्रव्यकुम्भानां स्नपनान्ते गुरूत्तमः।
गन्धपङ्कैः समालिप्य देवाङ्गेषु ततः परम्।। 27.40 ।।
अर्ध्यादिभिः समभ्यर्च्य मुद्गान्नादि निवेदयेत्।
देवस्य पृष्ठभागस्थो गुरुर्मूर्ध्न्युपरि प्रभोः।। 27.41 ।।
सहस्रधारापटलं धारयेन्मूलविद्यया।
शङ्खाब्जनिधिकर्कर्यौ पुण्यतीर्थप्रपूरितौ।। 27.42 ।।
गृहीत्वा सव्यवामस्थौ विभोर्देशिकसत्तमौ।
नियोजयेतां तत्तीर्थं पटले मूलविद्यया।। 27.43 ।।
सहस्रधारया स्नानमेवं कुर्याद्रमापतेः।
द्विजाः पुरुषसूक्तेन तोषयेयुस्तदा हरिम्।। 27.44 ।।
त्रिवारमभिषिच्यैवं देव्यावप्यभिषेचयेत्।
नियुज्याच्छादनपटं स्नानशाटीं विमुच्य च।। 27.45 ।।
तिन्त्रिणीवानपङ्कैश्च बगुसारैर्गुरुर्विभोः।
अङ्गानि शोधयेत् पश्चादुपस्नानार्थवारिभिः।। 27.46 ।।
स्नापयेत् प्लोतवस्त्रेण कुर्यादङ्गानि निर्वृतिम्।
अलंकारासने देवं संप्रार्थ्य विधिवद्यजेत्।। 27.47 ।।
भोज्यासने ततो नीत्वा हविरादि निवेदयेत्।
महाहविर्विधानं तु विभवे सति कल्पयेत्।। 27.48 ।।
अभिषेकजलं विष्णोर्ये पिबन्ति वहन्ति च।
सर्वतीर्थाभिषेकस्य ते फलं प्राप्नुवन्ति हि।। 27.49 ।।
पाद्यं कुम्भादिकुम्भेषु द्रव्यनिक्षेप ईर्यते।
श्यामाकं विष्णुपर्णी च दूर्वा कमलमेव च।। 27.50 ।।
द्रव्याण्येतानि चत्वारि पाद्यकुम्भे विनिक्षिपेत्।
यवं सिद्धार्थकं गन्धपुष्पाक्षतफलं तिलम्।। 27.51 ।।
कुशाग्रमेतान्यष्टौ च ह्यर्घ्याङ्गानि प्रकीर्त्यते।
एलालवङ्गकर्पूरं क्षिपेदाचमनीयके।। 27.52 ।।
कदलीनालिकेरं च सितामधुघृतं तथा।
द्रव्याणेयेतानि संयोज्य पञ्चामृतघटे क्षिपेत्।। 27.53 ।।
चन्दनागरुकर्पूरं गन्धराजं मुरा तथा।
उशीरं कुङ्कुमं मांसी गन्धकुम्भे समर्पयेत्।। 27.54 ।।
कदलीबिल्वचूतानि पनसं बीजपूरकम्।
नारिकेलं चामलकं मातुलुङ्गं फलाम्भसः।। 27.55 ।।
रजनी सहदेवी च शिरीषं सूर्यवर्तिनी।
सदाभद्रकुशाग्राणि मार्जनाम्भसि निक्षिपेत्।। 27.56 ।।
मधुक्षीरं च दध्याज्यं मधुपर्कं घटस्य हि।
न्यग्रोधाश्वत्थ-वकुल-कदम्बाम्रशिरीषजाः।। 27.57 ।।
पलाशबिल्वजाश्चापि पल्लवाः पत्रवारिणः।
इन्दुकान्तं सूर्यकान्तमयस्कान्तं प्रवालकम्।। 27.58 ।।
वैडूर्यं पद्मरागं च ब्रह्मरागं च गारुडम्।
इन्द्रनीलं पुष्यरागं स्फटिकं वज्रमौक्तिकम्।। 27.59 ।।
एतानि रत्नकुम्भे तु निक्षिपेद् गुरुसत्तमः।
हिरण्यं रजतं ताम्रमयस्त्रप जलोद्भवे।। 27.60 ।।
एतानि पञ्चलोहानि लोहकुम्भेषु निक्षिपेत्।
गोधूमयवनीवारसालिमुद्गप्रियङ्गुकान्।। 27.61 ।।
माषव्रीहीन् बीजकुम्भे प्रक्षिपेत् कमलेक्षणे।
शम्युदुम्बरबिल्वानां पलाशाश्वत्थवृक्षयोः।। 27.62 ।।
वटखादिरचाम्पेयविकङ्कततरोस्तथा।
त्वक्सारमेषां वृक्षाणां कषायाम्भसि निक्षिपेत्।। 27.63 ।।
कोष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचम्पकान्।
वचाकचोरमुस्ताश्च सर्वौषधिघटे क्षिपेत्।। 27.64 ।।
नीवारतिलसिद्धार्थयववेणुयवांस्तथा।
तुलसीदलयुक्तांस्तु शान्त्यम्भसि विनिक्षिपेत्।। 27.65 ।।
पद्मं नीलोत्पलं चैव स्थलाब्जमुकुलानि च।
केतकीमल्लिकाजातिनन्द्यावर्तसुमानि च।। 27.66 ।।
चाम्पेयमेघावकुलसुमानि सुमभाजने।
शकृद्रसं च गोमूत्रं दधि क्षीरं घृतं तथा।। 27.67 ।।
पञ्चगव्यानि तत्पात्रे निक्षिपेदद्भिरब्जजे।
पुण्यक्षेत्राब्ध्यापगाभ्यः पुण्यगाद्यन्तमध्यतः।। 27.68 ।।
तुलसीबिल्वकमलमूलेभ्यश्च हृताः शुभाः।
मृत्स्नास्तु मृत्तिकाकुम्भे जलेन सह पूरयेत्।। 27.69 ।।
एतानि द्रव्यजालानि विभवेच्छानुसारतः।
एकं वाथ समस्तं वा तत्तत्कुम्भे तु निक्षिपेत्।। 27.70 ।।
गन्धोदकैर्वा कलशान् गलितैः शुद्धवारिभिः।
द्रोणमानं पञ्चगव्यं घृतं क्षीरं च माक्षिकम्।। 27.71 ।।
तादृगेवेतररसं तावदेव गुडोदकम्।
घटेषु पूरयेद् विद्वान् द्रव्यकुम्भाम्भसा रमे।। 27.72 ।।
अष्टभागे त्वेकभागं द्रव्यमानं विधीयते।
हेमादि लोहजालानि रत्नानि च यथा वसु।। 27.73 ।।
तत्तद्द्रव्याधिदेवान् वै तत आवाह्य पूजयेत्।
घृतकुम्भाधिदेवस्तु वासुदेवः सनातनः।। 27.74 ।।
संकर्षणस्तप्ततोयकुम्भस्य सुमवारिणः।
प्रद्युम्नो देवता देवि सर्वौषधिजलस्य तु।। 27.75 ।।
अनिरुद्धो देवता स्यात् पुण्यतीर्थघटस्य हि।
वासुदेवः शुद्धतोयकुम्भे नारायणः स्मृतः।। 27.76 ।।
केशवः पाद्यकुम्भस्य देवो नारायणस्तथा।
अर्घ्यकुम्भस्य चाचामतोयनाथस्तु माधवः।। 27.77 ।।
गोविन्दः क्षीरकुम्भस्य विष्णुर्दध्नः सरोद्भवे।
पञ्चामृतस्य देवस्तु मधुसूदननामकः।। 27.78 ।।
त्रिविक्रमस्तु मधुनो गन्धकुम्भस्य वामनः।
श्रीधरः फलकुम्भस्य मार्जनाम्भोऽधिदेवता।। 27.79 ।।
हृषीकेशः पद्मनाभो मधुपर्कस्य पद्मजे।
दामोदरः पत्रदेवो रत्ननीरस्य वै प्रभुः।। 27.80 ।।
नरोत्तमोऽधोक्षजस्तु लोहामृतघटस्य हि।
गुलाम्भसो नृसिंहः स्यादिक्षुनीरस्य चाच्युतः।। 27.81 ।।
देवता बीजकुम्भस्य काषायस्य हरिः स्मृतः।
कृष्णस्तु शान्तिकुम्भस्य पञ्चगव्यघटस्य तु।। 27.82 ।।
पञ्चतत्त्वाधिदेवःस्यान्मृत्तोयकलशस्य हि।
आदिसूकरदेवश्च देवा इत्थं प्रकीर्तिताः।। 27.83 ।।
प्रत्येकं धूपदीपादिगन्धैः संपूज्य देवताः।
ततः साधकमुख्यास्तु गायत्रीं विष्णुमुच्चरन्।। 27.84 ।।
द्रव्यन्यासक्रमेणैव गृहीत्वा कलशान् रमे।
आचार्यस्य करे दद्यादितरैः सह देशिकः।। 27.85 ।।
मन्त्रं समुच्चरन् देवमभिषिञ्चेदुदङ्मुखः।
विष्णुगायत्रिया देवं पाद्यकुम्भेन वै ततः।। 27.86 ।।
तद्विष्णोरिति मन्त्रेण स्नापयेदर्घ्यवारिणा।
न ते विष्णो इति मनुं वदन्नाचामवारिणा।। 27.87 ।।
आप्यायस्वेति मन्त्रेण गोक्षीरेणाभिषेचयेत्।
दधिक्राव्ण यजुषा दध्ना संस्नापयेद्धरिम्।। 27.88 ।।
पञ्चामृतेन देवेशं स्नापयेन्मूलविद्यया।
मधुवातेति मन्त्रेण मधुपर्केण वै विभुम्।। 27.89 ।।
गन्धद्वारेति वै मन्त्रमुच्चरन् गन्धवारिभिः।
फलिनीत्यनुवाकेन स्नापयेत् फलवारिणा।। 27.90 ।।
शं नो देवीति मनुना स्नापयेन्मार्जनाम्बुभिः।
या ओषधीरिति मन्त्रेण स्नापयेत् पत्रवारिभिः।। 27.91 ।।
रत्नोदकैरिषेत्वेति लोहतोयाभिषेचनम्।
मधु वातेति मन्त्रेण स्नपनं गुलवारिभिः।। 27.92 ।।
सावित्र्याक्षततोयेन शतधारेति मन्त्रतः।
स्नापयेत् बीजतोयेन ओषध्य इति मन्त्रतः।। 27.93 ।।
कषायाद्भिः शान्तितोयैर्वेदाहमिति मन्त्रतः।
घृतस्नातेति मन्त्रेण घृतेन स्नपनं विभोः।। 27.94 ।।
त्वं विष्णुरिति यजुषा स्नानमुष्णाम्बुदारया।
योऽपां पुष्पमिति स्नानं कुर्यात्पुष्पाम्बुभिर्गुरुः।। 27.95 ।।
सर्वौषध्युदकेनाथ पुंसूक्तेनाभिषेचनम्।
विष्णोः कर्मेति मन्त्रेण पञ्चगव्याभिषेचनम्।। 27.96 ।।
उद्धृतासीति मृत्तौयैरिमं मे गङ्गमन्त्रतः।
शुद्धतीर्थेन देवेशमथवा मूलविद्यया।। 27.97 ।।
जितं त इति मन्त्राद्वा अम्भस्येति च वा रमे।
यद्द्रव्यस्य च यो मन्त्रस्तनमन्त्रेणाभिषेचयेत्।। 27.98 ।।
अथवा पौरुषैः सूक्तैर्द्वादशाक्षरविद्यया।
अथवा विष्णुगायत्र्या षडर्णेनाथवा रमे।। 27.99 ।।
स्वमूर्तिविद्यया वापि स्नापयेत् श्रीपतिं गुरुः।
एकाशीतिघटन्यासमूनपञ्चाशतस्तथा।। 27.100 ।।
त्रिंशतः पञ्चविंशत्या एकविंशतिकस्य च।
तथा सप्तदशस्यापि षोडशस्य सरोद्भवे।। 27.101 ।।
द्वादशानां नवानां च पञ्चानामेकसंख्यया।
स्थापितस्य घटानां च वदामि न्यासमब्जजे।। 27.102 ।।
एकाशीत्या यदा देवि कलशैरभिषिच्यते।
वैरिञ्चे स्थापयेद्विद्वान्नवसंख्यां तु मध्यमे।। 27.103 ।।
दिव्यस्थानेऽप्यष्टदिक्षु प्रत्येकं नवसंख्यकान्।
विधातृपदकुम्भानां पुण्यतीर्थं तु मध्यमे।। 27.104 ।।
परितोऽष्टसु कुम्भेषु प्राच्यादिषु यथाक्रमम्।
फलोदकं मार्जनाम्भो मधुपर्कं च पत्रवत्।। 27.105 ।।
सलिलं रत्नसंयुक्तं लोहवारि तथेक्षुजम्।
शान्तिवारि च देवस्य पदेषु प्रागुपक्रमात्।। 27.106 ।।
द्रव्याणि मध्यकुम्भेषु ह्यष्टोत्तरशते यथा।
परितस्तद्वदेव स्यादूनपञ्चाशतः शृणु।। 27.107 ।।
ब्रह्मस्थाने नव घटान् पूर्ववद् द्रव्यसंयुतान्।
संस्थाप्य देवतास्थाने दिक्ष्वष्टसु यथाक्रमम्।। 27.108 ।।
पञ्च पञ्च विनिक्षिप्य तेषु मध्यघटेषु वै।
पाद्यादिषु च यद्द्रव्यं तद्द्रव्येणैव पूरयेत्।। 27.109 ।।
शुद्धोदकैः कोणकुम्भान् क्षीराब्धिमथनोद्भवे।
त्रिंशद्भिः कलशैर्देवि यदा देवोऽभिषिच्यते।। 27.110 ।।
परमेष्ठिपदे मध्ये द्वौ घटौ पुण्यवारिणा।
अक्षताभिश्च संपूर्य तयोरष्टसु दिक्ष्वपि।। 27.111 ।।
एकैकं प्रागुपक्रम्य स्थापयेत् द्रव्यसंयुतान्।
दधि पञ्चामृतं तद्वन्माक्षिकं गन्धवारि च।। 27.112 ।।
फलोदकं मार्जनाम्भो मधुपर्कं सपत्रकम्।
देवस्थाने चतुर्दिक्षु पञ्च पञ्च घटान् न्यसेत्।। 27.113 ।।
तेषु मध्यमकुम्भेषु पाद्यार्घ्याचमनानि च।
क्षीरमापूरयेदन्यान् शुद्धाद्भिः पञ्चविंशकैः।। 27.114 ।।
कलशैरभिषेकः स्याद्वैरिञ्चे पञ्च वै घटान्।
निधाय पुण्यसलिलं मध्यकुम्भे समर्पयेत्।। 27.115 ।।
तच्चतुर्दिक्षु चतुरः दधि पञ्चामृतं मधु।
गन्धोदकं देवतायाः स्थाने दिक्षु चतुर्ष्वपि।। 27.116 ।।
त्रिंशद्वद्धटविन्यासस्तथा द्रव्यैश्च पूरणम्।
एकविंशतिकुम्भस्य स्रष्टृस्थानघटैकके।। 27.117 ।।
आपूर्य पुण्यतीर्थेन विदिक्षु चतुर्षु क्रमात्।
पञ्च पञ्च घटान्न्यस्य तेषु मध्यघटेषु वै।। 27.118 ।।
अक्षताम्बु तता बैजं कषायं शान्तिवारि च।
शुद्धोदैः पूरयेदन्यान् कलशान् गालितै रमे।। 27.119 ।।
दश सप्त घटैर्भद्रे यथा देवोऽभिषिच्यते।
सकर्णिकं षोडशभिर्दलैर्धान्येन कल्पितम्।। 27.120 ।।
पीठं तस्मिन् कर्णिकायां घटमेकं तथा घटान्।
निक्षिप्यान्येषु मध्यस्थे पुण्यतीर्थेन पूरयेत्।। 27.121 ।।
पाद्यमर्घ्यं तथाचामं क्षीरं दधि च पञ्चभिः।
अमृतैः पूरणं देवि माक्षिकं गन्धवारि च।। 27.122 ।।
फलोदकं मार्जनाम्भो मधुपर्कं च निक्षिपेत्।
पत्रतोयं रत्नवारि लोहतोयं गुडोदकम्।। 27.123 ।।
इक्षुजं मध्यहीनं स्यात् षोडशैः कलशैर्यदा।
अभिषिञ्चेद्देवदेवं घटानां विन्यसेद् गुरुः।। 27.124 ।।
द्वादशानां पश्चिमस्याः प्राच्यान्तं व्रीहिभिः क्रमात्।
पङ्क्तित्रयं पुराकल्प्य चतुरश्चतुरो घटान्।। 27.125 ।।
एकैकस्मिन् विनिक्षिप्ते त्रिषु द्वादश वै भवेत्।
पाद्यादि द्रव्यसलिलं पत्रान्तं तेषु पूरयेत्।। 27.126 ।।
स्थाप्येषु नवसंख्येषु कलशेषु यदा रमे।
मध्यकुम्भे पुण्यतीर्थं परितोऽष्ट घटेषु वै।। 27.127 ।।
पाद्यादिद्रव्यनिक्षेपं गन्धान्तं तत्र कारयेत्।
घटेषु पञ्चसंख्येषु पुण्यतीर्थं तु मध्यमे।। 27.128 ।।
आग्नेयादिषु कोणेषु साक्षतं बीजवारि च।
शान्तितोयं च काषायं पूरयेदेकसंख्यके।। 27.129 ।।
घटे पुण्येन तोयेन संपूर्य स्नापयेद्धरिम्।
इतोऽधिकोऽपि शास्त्रेऽस्मिन्नभिषेक उदीरितः।। 27.130 ।।
तथापि संग्रहेणैव मया प्रोक्तस्तव प्रिये।
प्रतिष्ठायामुत्सवे च प्रायश्चित्तादिकर्मसु।। 27.131 ।।
संक्रान्त्यादिषु कालेषु विभवेच्छानुसारतः।
चतुःस्थानार्चनं कृत्वा स्नापयेच्च ततो हरिम्।। 27.132 ।।
एष मुख्योऽभिषेकस्ते कथितः कमलेक्षणे।
विना होमं मध्यमः स्यात् तथा चक्राब्जमण्डले।। 27.133 ।।
पूजाहीनोऽधमो भद्रे कुर्याच्ज्ञात्वा विचक्षणः।
[स्नानोपयुक्तद्रव्याणि दधिक्षीरमधूनि च।। 27.134 ।।
अन्यानि सर्ववस्तूनि देशिकः स्वयमाहरेत्।
देवस्य स्नपनान्ते तु यजमानो हरेः पुरा।। 27.135 ।।
आचार्यान् साधकंश्चैव तोषयद्विविधैर्धनैः।
अन्यांश्च वैष्णवान् सर्वान् यथाशक्ति च तोषयेत्।। 27.136 ।।
Chapter - 28
+++
+++
।। अष्टाविंशोध्यायः-आराधनक्रमः ।।
[नित्ययागविधिः]
[श्रीः-]
पुण्डरीकाक्ष सर्वस्य लोकस्याधिपते हरे।
प्रतिष्ठित्य हरिं भक्त्या पूजयेन्नित्यमव्ययम्।। 28.1 ।।
इति त्वयोक्तां तां पूजां वक्तुमर्हस्यशेषतः।
श्री भगवान्-
समाप्तिदिवसाद्देवि प्रतिष्ठायास्तु देशिकः।। 28.2 ।।
विभवानुगुणं नित्यं षट्कालमथवा त्रयम्।
द्विकालमेककालं वा भक्त्या भागवतोऽर्चयेत्।। 28.3 ।।
तत्प्रकारं प्रवक्ष्यामि शास्त्रोक्तविधिना रमे।
ब्राह्मे मुहूर्ते शयनादुत्थाय नियतेन्द्रियः।। 28.4 ।।
देशिकः पाणिपादं च प्रक्षाल्याचम्य वाग्यतः।
स्तुवन् हरिं जितंताद्यैर्गच्छेन्नद्यादिकं गुरुः।। 28.5 ।।
देहशुद्ध्यादिकं कृत्वा ततः स्नायाद्यथाविधि।
अथवा देशकालादिशरीरस्य गुणानपि।। 28.6 ।।
समालोच्य ततो देवि ह्युष्णोदेनाथवा रमे।
मन्त्रस्नानादि वा कृत्वा नित्यकर्म समाचरेत्।। 28.7 ।।
आत्मानं वस्त्रयुग्मेन कुण्डलादिविभूषणैः।
श्वेतमृत्स्नोर्ध्वपुण्ड्रैश्च चन्दनाद्यैः सुगन्धिभिः।। 28.8 ।।
हेमोपवीतैः स्रग्भिश्च भूषयेद् देशिकोत्तमः।
मुखवाससमोपेतैस्ताम्बूलैः शोधयेन्मुखम्।। 28.9 ।।
प्रक्षाल्य पाणिपादं च गोपुरस्य बहिः स्थले।
आचम्यान्तर्महापीठं प्रादक्षिण्येन वै ततः।। 28.10 ।।
अर्धमण्डपमासाद्य द्वादशार्णं समुच्चरन्।
तदा जय जयेत्युच्चैर्वन्दिनो मागधा अपि।। 28.11 ।।
स्त्रोत्रैरन्यैश्च विविधैः श्राव्यैर्वीणादिवादनैः।
प्रबोधयेयुर्देवेशं तथा भागवता अपि।। 28.12 ।।
स्तुवीर्युर्दिव्यगाथामिर्द्वारमासाद्य भक्तितः।
विहगेन्द्रं कवाटस्थान् द्वारशाखास्थितानपि।। 28.13 ।।
देवानुदुम्बरस्थां च श्रियं चण्डप्रचण्डकौ।
पुरा संपूज्य मनसा षडङ्गन्यासमाचरेत्।। 28.14 ।।
स्थित्वा कवाटाभिमुखं पवनाधिपतिं स्मरेत्।
तालत्रयं च हस्ताभ्यां कृत्वाभिवलजस्थितः।। 28.15 ।।
कवाटोद्धाटनं कुर्यात् तद्द्वारं देशिकोत्तमः।
त्रिधा विभज्य मनसा मध्यभागं द्विधा पुनः।। 28.16 ।।
विभज्य वामभागेन बद्धाञ्जलिपुटः स्थितः।
साम्ना देवव्रतेनान्तः प्रविशेद् दक्षिणाङ्घ्रिणा।। 28.17 ।।
दीपान् प्रज्वाल्य नेत्रेण द्विषट्काक्षरविद्यया।
प्रणम्य शिरसा देवं शयनस्थं जगत्पतिम्।। 28.18 ।।
प्रबोधलक्षणैः स्तोत्रैरुत्थाप्य शयनाद्रमे।
संस्थाप्य विष्टरे देवं मूले शक्तिं नियोजयेत्।। 28.19 ।।
ततो यवनिकां त्यक्त्वा हरेर्नीराजनं चरेत्।
तदा देवाय गोपृष्ठमश्ववक्त्रमिभाननम्।। 28.20 ।।
नीलकीशं महादर्शं कन्यकामपि दर्शयेत्।
विश्वशक्तियुतं देवं जितंताप्रमुखैः स्तवैः।। 28.21 ।।
स्तूयाद्गाथामिरन्याभिर्गोक्षीरं शर्करायुतम्।
दध्यन्नादि निवेद्याथ नित्यपूजामुपक्रमेत्।। 28.22 ।।
पूजाकाले पुरा कुर्यात् पञ्चशुद्धिं गुरूत्तमः।
स्थानशुद्धिं पात्रशुद्धिं बिम्बशोधनमेव च।। 28.23 ।।
आत्मनो भूतशुद्धिं च मन्त्रवर्णास्ततो रमे।
मयूरपिञ्छिकापुञ्जैर्दर्भमुष्टिभिरेव वा।। 28.24 ।।
वितानं गर्भगेहस्य हरेः सिंहासनं तथा।
भूमिं भित्तिं च परितो वेदिकास्थानमेव च।। 28.25 ।।
शुचीव इति मन्त्रेण प्रथमं मार्जयेद् गुरुः।
कुङ्कुमागरुकर्पूरचन्दनक्षोदवारिभिः।। 28.26 ।।
गर्भगेहं समालिप्य विकिरेदक्षतान् स्वयम्।
हैमादि चेच्छर्करया राजतानि सुधादिभिः।। 28.27 ।।
ताम्रपैत्तलपात्राणि तिन्त्रिणीफलवारिभिः।
कांस्यानि दारुजातानि पूजापात्राणि वै रमे।। 28.28 ।।
भस्मना मृत्स्नया चैव शोधयेच्च यथाक्रमम्।
अभिन्त्र्य च पात्राणि गायत्र्या विष्णुपूर्वया।। 28.29 ।।
अलंकृतानि पूर्वोद्युर्वस्त्रं माल्यं च चन्दनम्।
मूलबेरादिबिम्बेभ्यः परिहृत्य ततो रमे।। 28.30 ।।
तच्छंयोरिति मन्त्रेण शुद्धवस्त्रेण शोधयेत्।
अर्धमण्डपमारभ्य बलिपीठान्तमब्जजे।। 28.31 ।।
पाकशालां यागभूमिं तत्पात्राणीतराण्यपि।
शोधयेत्परिचारो वा साधको वा तदाज्ञया।। 28.32 ।।
द्वारेषु पूर्वदिवसे पुष्पैराम्रादिपल्लवैः।
कृतानि तोरणादीनि बद्धान्यपहरेत्ततः।। 28.33 ।।
संयोजयेन्नूतनानि रङ्गवल्लीश्च कल्पयेत्।
सेनेशं मनसा ध्यायेद्यागविघ्नोपशान्तये।। 28.34 ।।
ततः स्वदेहशुद्ध्यर्थं यागद्रव्यालयस्य च।
शुद्ध्यर्थं पाकशालायाः पुण्याहं वाचयेद् गुरुः।। 28.35 ।।
तेन शंशोधयेत् सर्वमात्मानं मन्दिरं तथा।
ततस्तु वेदघोषे च वाद्यघोषे प्रवर्त्तिते।। 28.36 ।।
गर्भगेहान्तरं गत्वा कवाटं बन्धयेत्तथा।
तिरस्करिण्या संच्छाद्य तद्द्वारं गुरुसत्तमः।। 28.37 ।।
देवस्य दक्षिणं पार्श्वं गत्वा विष्टरमास्थितः।
आसनस्य ऋषिर्मेरुश्च्छन्दस्त्वतलमीरितम्।। 28.38 ।।
श्रीकूर्मो देवता पद्मे त्वासने विनियोजयेत्।
दर्भसप्तकृतं कूर्चमासने निक्षिपेत् सुधीः।। 28.39 ।।
तस्मिन् कूर्मं स्मरेद्देवं स्वस्तिकं पद्मवे वा।
बध्वोपविश्य तदनु ह्यस्त्रेणाशाश्च बन्धयेत्।। 28.40 ।।
वह्निमन्त्रेण दहनमग्निप्राकारमुद्रया।
प्राकारावस्थितं ध्यायेद्गगनं चक्रमुद्रया।। 28.41 ।।
आच्छाद्य चक्रमन्त्रेण प्राणायामत्रयं चरेत्।
प्रणवस्य ऋषिर्ब्रह्मा छन्दो गायत्रमुच्यते।। 28.42 ।।
ब्रह्मविष्णुशिवा देवा रेचकाद्यधिनायकाः।
बीजं हकारो हांशक्तिः ककारः कीलकः स्मृतः।। 28.43 ।।
धूम्रवर्मयुतं मन्त्रं प्राणायामे विचिन्तयेत्।
योगमुद्रां समापन्नः शोधयेद्देहपाप्मनः।। 28.44 ।।
धूम्राभं नाभिकन्दस्यं यं बीजं चतुरश्रकम्।
ध्यात्वा स्वदेहपाप्मानं शोधयेत्तेन वायुना।। 28.45 ।।
वह्निबीजं हृदब्जस्थं त्रिकोणं पाटलप्रभम्।
ध्यात्वा तदुत्थं तेजोभिर्दाहयेत् कल्मषं गुरुः।। 28.46 ।।
माहेन्द्रबीजं कण्ठस्थं पीताभं चतुरश्रकम्।
ध्यात्वा तदुत्थवातेन स्तम्भयेदनिलं ततः।। 28.47 ।।
मूर्ध्निस्थवारुणं बीजं वृत्तं स्फटिकसंनिभम्।
ध्यात्वा संक्षालयेद्देहं तदुत्थामृतवारिभिः।। 28.48 ।।
रेचकैः शोधयेत् पापं पूरकैर्दाहयेत् ततः।
कुम्भकैः स्तम्भयेद्वह्निमेवं पापं विशोधयेत्।। 28.49 ।।
पृथिव्यादीनि तत्त्वानि सृजेत् संहारपूर्वकम्।
पृथ्वीमन्त्रस्य ब्रह्मर्षिर्गायत्रीछन्द ईरितम्।। 28.50 ।।
वराहो देवता प्रोक्तो हुंकारेण विराजितः।
चतुरश्रं पीतवर्णां पृथ्वीं पञ्चगुणैर्युताम्।। 28.51 ।।
घ्राणोपस्थेन्द्रियां गन्धे तन्मात्रालक्षणे हरेत्।
आपादजानुपर्यन्तं पृथ्वीस्थानमुदाहृतम्।। 28.52 ।।
सिन्धुद्वीपऋषिरपां छन्दस्त्वतलमीरितम्।
बीजं वं वरुणो देवश्चन्द्रस्येवाकृतिर्भवेत्।। 28.53 ।।
श्वेतवर्णास्तु रसना खंपायुसहिता रमे।
आपश्चतुर्गुणाः पद्मे रसे गन्धं च संहरेत्।। 28.54 ।।
आजानोर्गुह्यपर्यन्तमपां स्थानमुदाहृतम्।
ऋषिरग्नेः काश्यपस्तु त्रिष्टुप् छन्दस्तनूनपात्।। 28.55 ।।
देवो बीजं रेफमाहुः प्रलेय चिन्तयेद् गुरुः।
दृष्टिपादेन्द्रियं वह्निं त्रिगुणं त्र्यश्रपाटलम्।। 28.56 ।।
रसं च रूपे तन्मात्रालक्षणे देशिकः स्मरेत्।
गुह्यादिनाभिपर्यन्तमग्निस्थानं विदुर्बुधाः।। 28.57 ।।
वायुवीजस्य किष्किन्धऋषिश्छन्दस्तु जागतम्।
यं बीजं पवनो देवः संहारे परिचिन्तयेत्।। 28.58 ।।
धूम्राभं द्विगुणोपेतं करचर्मेन्द्रियान्वितम्।
वृत्तं वायुं च रूपं च संहरेत् स्पर्शने ततः।। 28.59 ।।
नाभ्यादिघोणपर्यन्तं वायुस्थानं स्पृशेद् गुरुः।
आकाशस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द उच्यते।। 28.60 ।।
षं बीजं भगवान्देव अनिरुद्धस्समीरितः।
नीलोत्पलदलश्यामः वाक्श्रुतीन्द्रियसंयुतम्।। 28.61 ।।
नभः शब्दगुणोपेतं निराकारं सुविस्तरम्।
नासादिमूर्धपर्यन्तमाकाशस्थानमुच्यते।। 28.62 ।।
स्पर्शं च संहरेच्छब्दे तन्मात्रालक्षणे रमे।
शब्द स्वान्ते समाहृत्य ततः स्वान्तमहंकृतौ।। 28.63 ।।
अहंकारं बुद्धितत्त्वे बुद्धिं च प्रकृतौ रमे।
प्रकृतिं संहरेज्जीवे प्राणानायम्य देशिकः।। 28.64 ।।
नाभिकन्दस्थितं वायुं ध्यात्वा कुम्भकवायुना।
सुसूक्ष्मं नाभिचक्रस्थं रविकोटिसमप्रभम्।। 28.65 ।।
वायुना विवशं जीवं पद्मसूत्रसुसूक्ष्मया।
सुषुम्नया नाडिकया शिरस्यारोपयेद् गुरुः।। 28.66 ।।
निर्गमय्य ब्रह्मरन्ध्रात् नयेद्भास्करमण्डलम्।
तन्मण्डलाद्भगवति परे ब्रह्मणि योजयेत्।। 28.67 ।।
योनिजं स्थूलदेहं तु शोधयेच्छोषणादिभिः।
परब्रह्मपदाम्भोजात् निर्गतं जीवमात्मनः।। 28.68 ।।
सोममण्डलमार्गेण ब्रह्मरन्ध्रं प्रवेश्य च।
सुषुम्ननाड्या तु पुनः प्रविष्टं हृत्कजे स्मरेत्।। 28.69 ।।
जीवात् सृजेत्प्रकृत्यन्तं ततो भगवतो हरेः।
आराधनाय स्वं देहं शुद्धसत्त्वं विचिन्तयेत्।। 28.70 ।।
त्रिविक्रमपदाम्भोजादुत्पन्नां सुरदीर्घिकाम्।
विचिन्त्य तस्यामात्मानं स्नातं सम्यग्विचिन्तयेत्।। 28.71 ।।
संशोध्यैवं स्वमात्मानं हरेरद्भुतकर्मणः।
उपक्रमेन्नित्ययागं सिद्धमन्त्रो गुरूत्तमः।। 28.72 ।।
स्थित्यासनादिबिम्बानां प्रतिष्ठायां यथा रमे।
येन मन्त्रेण यद्विम्बं यथान्यस्तं च मन्त्रिणा।। 28.73 ।।
तन्मन्त्रेणैव पूजायामात्मनोऽपि न्यसेद् गुरुः।
सृष्टिस्थितिलयैः पूर्वं करन्यासमुपक्रमेत्।। 28.74 ।।
तलं पृष्ठं च करयोः शोधयेदस्त्रविद्यया।
अङ्गुलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु।। 28.75 ।।
प्रणवस्य तु विन्यासो मध्यमेषु च पर्वसु।
मन्त्राक्षराणां विन्यास इति मन्त्रविदो विदुः।। 28.76 ।।
पर्वदक्षिणतर्जन्याः प्रक्रम्याङ्गुलिपर्वसु।
पर्वान्तं वामतर्जन्या न्यासः सृष्टिर्भवेद्रमे।। 28.77 ।।
व्यत्यासेन तु संहारः स्थितौ तु करयोर्द्वयोः।
प्रारभ्य तर्जनीपर्व कनिष्ठायां तु विश्रमः।। 28.78 ।।
आष्टाक्षरस्य मन्त्रस्य न्यास एष उदाहृतः।
द्वादशाक्षरमन्त्रस्य शृणु न्यासं वरानने।। 28.79 ।।
तले मध्यमया न्यासस्तर्जन्याङ्गुष्ठपर्वणि।
ततोऽष्टाक्षरन्यासं कृत्वा सर्वं विचक्षणः।। 28.80 ।।
सव्ये तले तु विश्रान्तिः सृष्टावपरया लये।
पालने तलयोर्देवि पूर्ववत् प्रक्रमेद् गुरुः।। 28.81 ।।
कनिष्ठयोरङ्गुलयोः कुर्याद्विश्रान्तिमात्मनः।
षडर्णस्यापि मन्त्रस्य न्यासः प्रोक्तः पुरातनैः।। 28.82 ।।
आरभ्य मध्यमाङ्गुल्य दक्षिणस्य करस्य वै।
तथा वामकरस्यापि मध्यमान्तं न्यसेद्रमे।। 28.83 ।।
सृष्टिन्यासस्त्वयं भद्रे व्यत्यासो लय ईरितः।
मध्यमाङ्गुलिमारभ्य करयोरुभयोरपि।। 28.84 ।।
कनिष्ठान्तं च विन्यासः स्थितिन्यासो भवेदयम्।
मन्त्ररत्नत्रयस्याद्य ह्यङ्गन्यासस्तु कथ्यते।। 28.85 ।।
मूर्ध्नि वक्त्रे च हृदये नाभिजान्वोश्च पादयोः।
षडक्षरस्य न्यासोऽयं सृष्टौ कुर्याद्विचक्षणः।। 28.86 ।।
पादादिमूर्धपर्यन्तं संहारे न्यास इष्यते।
अष्टाक्षरस्य न्यासे तु नेत्रे गुह्यं ततोऽधिकः।। 28.87 ।।
द्वादशाक्षरमन्त्रस्य मस्तके चतसृषु क्रमात्।
प्राच्यादिदिक्षु विन्यासस्त्वधिकः परिकीर्तितः।। 28.88 ।।
द्वादशार्णादिमन्त्राणां त्रयाणां न्यासकर्मणि।
अङ्गुलीनां यथायोगं कथयामि तवाधुना।। 28.89 ।।
पूर्वभागे तु सिरसश्चाङ्गुष्ठेन न्यसेत्ततः।
तर्जन्या दक्षिणे स्थाने पश्चिमे नामहीनया।। 28.90 ।।
कनिष्ठया चोत्तरस्मिन् मध्ये मध्यमया न्यसेत्।
मन्त्रासने योगपीठं पद्ममन्यत्र चिन्तयेत्।। 28.91 ।।
ध्यायेन्मन्त्रासने तार्क्ष्यम् अनन्तं शयनासने।
मध्यमातर्जनीभ्यां च चक्षुषोर्न्यसनं चरेत्।। 28.92 ।।
न्यसेन्मुखेऽनामिकया साङ्गुष्ठेन च मन्त्रवित्।
अङ्गुष्ठतर्जनीभ्यां तु हृदये न्यसनं चरेत्।। 28.93 ।।
तथाङ्गुष्ठकनिष्ठाभ्यां नाभौ न्यासः प्रकीर्तितः।
विनाङ्गुष्ठेन शेषाभिर्गुह्ये जानुनि चोभयोः।। 28.94 ।।
समस्ताभिश्चरणयो र्द्वादशाक्षरभूमयः।
अष्टार्णस्य षडर्णस्य स्थानेष्वेतेषु विन्यसेत्।। 28.95 ।।
नाभ्यादिहृदयान्तेषु न्यासेऽङ्गेषु स्थितौ रमे।
वदाम्यष्टाक्षरं मन्त्रं देवतर्ष्यादिसंयुतम्।। 28.96 ।।
उच्चरेत् प्रणवं पूर्वं नमः शब्दं ततः परम्।
नारायणं चतुर्थ्यन्तमन्तर्यामी मुनिः स्मृतः।। 28.97 ।।
देवो नारायणः साक्षाद् गायत्रं छन्द ईरितम्।
अंबीजमित्यायशक्तिः कीलकं ह्रीमुदाहृतम्।। 28.98 ।।
वैकुण्ठं क्षेत्रमित्याहुः श्रीं तनुत्रं प्रकीर्त्यते।
चतुर्भुजमुदाराङ्गं चक्राद्यायुधसेवितम्।। 28.99 ।।
कालमेघप्रतीकाशं पद्मपत्रायतेक्षणम्।
पीताम्बरधरं सौम्यं रत्नोज्ज्वलितकुण्डलम्।। 28.100 ।।
स्फुरत्कटककेयूरहारकौस्तुभभूषितम्।
रत्नसिंहासनासीनं श्रीभूमिसहितं विभुम्।। 28.101 ।।
ध्यायेन्नारायणं देवं श्रितानां मुक्तिदायकम्।
शुक्लं हिरण्मयं कृष्णं रक्तं कुङ्कुमसंनिभम्।। 28.102 ।।
पद्मकिंजल्कसदृशमष्टमं सर्ववर्मवत्।
इत्थं वर्णँ त्वक्षराणां न्यासकाले विचिन्तयेत्।। 28.103 ।।
द्वादशार्णमनोर्देवि वदाम्यृष्यादिदेवताः।
उद्गीथं पूर्वमुच्चार्य नमो भगवते ततः।। 28.104 ।।
वासुदेवं चतुर्थ्यन्तमृषिर्ब्रह्मास्य ईरितः।
छन्दस्तु देवी गायत्री वासुदेवस्तु देवता।। 28.105 ।।
ओं बीजमाय शक्तिः स्याद् ह्रीं कीलकमुदाहृतम्।
श्रीं कवचमोमित्यस्त्रं शुक्लो वर्णः प्रकीर्तितः।। 28.106 ।।
सितं कृष्णं च धूम्राभं श्यामं तारानिभं तथा।
स्फटिकाभं च शङ्खाभं रक्तं शुक्लं च लोहितम्।। 28.107 ।।
तमोरूपं पीतवर्णं ध्यायेद्वर्णान् यथाक्रमम्।
द्विभुजं पुण्डरीकाक्षं शुद्धस्फटिकविग्रहम्।। 28.108 ।।
किरीटकुण्डलधरं वनमालाविराजितम्।
श्रीवत्सवक्षसं भ्राजत् कौस्तुभानतकंधरम्।। 28.109 ।।
योगलक्ष्म्या समाक्रान्तबाहुमध्यं परात्परम्।
परमे व्योम्नि तिष्ठन्तं वासुदेवं स्मरेद्विभुम्।। 28.110 ।।
षडक्षरमथो वक्ष्ये विष्णुसांनिध्यसिद्धये।
छन्दसामादिमुच्चार्य वह्निजायां ततः स्मरेत्।। 28.111 ।।
विष्णवेति पदं तस्माद् ध्यायेन्मन्त्रविचक्षणः।
अस्य श्रीविष्णुमन्त्रस्य ऋषिर्ब्रह्मा भवेद्रमे।। 28.112 ।।
छन्दस्तु देवीगायत्री देवता विष्णुरीरितः।
बीजादिकं पूर्ववत्स्याद्ध्यायेद्विष्णुं सनातनम्।। 28.113 ।।
मेघश्यामं चदुर्बाहुं शङ्खचक्रगदाधरम्।
अन्तर्यामिनमीशानं किरीटादिविराजितम्।। 28.114 ।।
श्रीभूमिसहितं देवं सनकादिमहर्षिभिः।
सेवितं सूरिबृन्दैश्च पद्मविष्टरसंस्थितम्।। 28.115 ।।
ध्यायेत् षडर्णं कुमुदं बन्धूकमसितोत्पलम्।
अब्जकेसरमम्भोजमतसीसूनसंनिभम्।। 28.116 ।।
षडङ्गन्यासकाले तु द्वादशार्णस्य वै रमे।
हृदयादस्त्रपर्यन्तं द्विवारं विन्यसेद् गुरुः।। 28.117 ।।
अष्टाक्षरस्य विन्यासः षडङ्गेषु पुरा भवेत्।
वर्णाभ्यामवशिष्टाभ्यां हृन्मूर्ध्नि न्यासमिष्यते।। 28.118 ।।
षडक्षरस्य विन्यासो षडंगेषु क्रमान्न्यसेत्।
ज्ञानायेति च मन्त्रैस्तु पूर्वोक्तानक्षरान्मनोः।। 28.119 ।।
मिश्रीकृत्य न्यसेदङ्गे तत्तत्स्थानेषु देशिकः।
किरीटमुद्रां शिरसि श्रीवत्सं दक्षिणोरसि।। 28.120 ।।
वामे कौस्तुभमुद्रां च वनमालां गले ततः।
बाह्वोः दक्षिणयोर्देवि पद्मं चक्रं च विन्यसेत्।। 28.121 ।।
गदा शङ्खं वामयोश्च पदाग्रे गरुडं तथा।
शेषाशस्य च शेषस्य तत्तत्स्थानेषु दर्शयेत्।। 28.122 ।।
कुद्धोल्कादीनि चाङ्गानि ध्यात्वाङ्गुष्ठादिपञ्चसु।
न्यसेन्नरमुखे शेषं तले चक्रं सपद्मवत्।। 28.123 ।।
वामेतरस्य वामस्य शङ्खं कौमोदकीं स्मरेत्।
आब्रह्मरन्ध्रात्पादान्तं ताभ्यां व्यापकमाचरेत्।। 28.124 ।।
इत्थं न्यासं पुरा कृत्वा पूजयेन्मनसा हरिम्।
ततः कुम्भकवातेन नाभिपद्मं त्वधोमुखम्।। 28.125 ।।
उन्नमय्य समुद्धाट्य तस्मिन् पीठं प्रकल्पयेत्।
मूलबेराद्वासुदेवं वनमालाविभूषितम्।। 28.126 ।।
पीताम्बरं चतुर्बाहुं दिव्यानेकोद्यतायुधम्।
श्रीवत्सकौस्तुभधरं योगलक्ष्म्या विराजितम्।। 28.127 ।।
श्रीभूमिसहितं देवं ध्यायेत्पूर्वोक्तविष्टरे।
ततस्तु भावनाजातैर्भोगैः परमपावनैः।। 28.128 ।।
देवमभ्यर्चयेत् पूर्वं ततो विज्ञापयेद् गुरुः।
स्वागतं देवदेवेश हृत्पद्मे संनिधिं भज।। 28.129 ।।
गृहाण मानसीं पूजां यथार्हपरिभाविताम्।
ज्ञात्वा तं सुप्रसन्नं च प्रसादाभिमुखं विभुम्।। 28.130 ।।
संनिधिं संनिरोधं च सांमुख्यं प्रार्थयेद्रमे।
मन्त्रन्यासं ततः कुर्यात् हस्तन्यासं विना हरेः।। 28.131 ।।
किरीटवनमालादिमुद्रां सर्वां प्रदर्शयेत्।
मधुपर्कं निवेद्याथ स्मरेत् स्नानासने विभुम्।। 28.132 ।।
अभ्यङ्गनादिस्नानं च स्मरेद्देशिकसत्तमः।
मानसे मण्डने ध्यात्वा किरीटाद्यैश्च भूषयेत्।। 28.133 ।।
छत्रादिधूपदीपान्तं दर्शयेन्मनसा विभोः।
प्रार्थ्य भोज्यासने देवं लेह्यचोष्योपदंशकैः।। 28.134 ।।
चतुर्विधान्नं देवाय निवेद्य तदनन्तरम्।
होमान्तं मनसा ध्यात्वा तोषयेत् पुरुषोत्तमम्।। 28.135 ।।
कृत्वैव लययागं तु भोगयागं ततश्चरेत्।
तद्विधानं प्रवक्ष्यामि शृणु पङ्कजमालिनि।
भगवत्पुरतः पीठे स्थापयेत् पात्रवेदिकाम्।। 28.136 ।।
भूम्यां प्रतिग्रहं पात्रं तन्मुखे विनिवेशयेत्।
आग्नेयादिषु कोणेषु प्राच्यादिष्वथवा रमे।। 28.137 ।।
वेदिकायां च पात्राणि मध्ये चैकं विनिक्षिपेत्।
गालितैरम्बुभिः शुद्धैस्तत्पात्राणि च पूरयेत्।। 28.138 ।।
अदीक्षिताद्यैरानीतपूजाद्रव्याणि शोधयेत्।
सव्ये करतले ध्यायेत् भास्करं चक्रमध्यगम्।। 28.139 ।।
द्रव्याणि संस्पृशेत्तेन दहेत्तज्जातेन तेजसा।
सव्ये करतले ध्यायेत् सुधांशु पद्ममध्यगम्।। 28.140 ।।
दग्धानि द्रव्यजालानि स्पृष्ट्वा तज्जामृताम्भसा।
सिक्तानि जातानि पुनर्यागयोग्यानि भावयेत्।। 28.141 ।।
चाम्पेयमुकुलं दूर्वां श्यामाकं पाद्यवारिणि।
एलालवङ्गकर्पूरमाचामे निक्षिपेद्रमे।। 28.142 ।।
रजनीकुङ्कुमं पुष्पं कर्पूरं हरिचन्दनम्।
स्नानीयवारिण्येतानि निदध्यान्मन्त्रवित्तमः।। 28.143 ।।
तिलानि तुलसी चैव शुद्धे वारिणि निक्षिपेत्।
अर्घ्यादीन् कल्पयामीति संस्पृशेन्निगमादिना।। 28.144 ।।
द्रव्याण्यर्घ्यादिपात्रेषु हृन्मन्त्रेण नियोजयेत्।
दर्शयेत् सुरभीमुद्रां तत्सुधापूरितानि तु।। 28.145 ।।
ध्यात्वोद्धरिण्यार्घ्यजलं गृहीत्वा वेदिकोपरि।
निधाय तस्मिन् वैकुण्ठात् प्रार्थयेद्विरजानदीम्।। 28.146 ।।
चतुर्भुजां पीतवस्त्रां शुद्धस्फटिकविग्रहाम्।
पुरःस्थिताभ्यां हस्ताभ्यां प्राञ्जलिं पद्मधारिणीम्।। 28.147 ।।
अपराभ्यां च हस्ताभ्यां स्नातानां मुक्तितायिनीम्।
ध्यात्वा पुष्पादिनाभ्यर्च्य तज्जलेन च सर्वतः।। 28.148 ।।
पूरयेत् पात्रतोयानि आत्मानं प्रोक्षयेद् गुरुः।
उद्धरिण्या पुनस्तोयमर्घ्यपात्रात् समुद्धरेत्।। 28.149 ।।
सव्यहस्ते निधायाथ दक्षिणेन पिधापयेत्।
ललाटान्तं समुद्धृत्य मूलं सप्त जपेन्मनुम्।। 28.150 ।।
तत्तोयेनास्त्रमन्त्रेण द्रव्याण्यात्मानमेव च।
प्रोक्ष्य कूर्चेन देवस्य भोगयागमुपक्रमेत्।। 28.151 ।।
भगवन् सर्वलोकेश मन्त्रमूर्ते जनार्दन।
करोमि पूजां देवेश त्वयोक्तेनैव वर्त्मना।। 28.152 ।।
प्रीत्या गृहाण लक्ष्मीश मदनुग्रहकाम्यया।
इति विज्ञाप्य मूलस्य पादयोरब्जसंभवे।। 28.153 ।।
अर्चत प्रार्चसाम्ना वै क्षिपेत् पुष्पाञ्जलिं गुरुः।
अर्घ्यं पाद्यं तथाचामं गन्धमाल्यं च धूपवत्।। 28.154 ।।
दीपं समर्प्य देवाय मधुपर्कं निवेदयेत्।
पञ्चामृतं वापि ततः श्रीभूम्योरर्चनं चरेत्।। 28.155 ।।
कर्मार्चासहजे पीठे भिन्ने वा कमलालये।
मन्त्रन्यासाय देवस्य योगपीठं प्रकल्पयेत्।। 28.156 ।।
आधारशक्ति सप्तास्यां रक्तवर्णां चतुर्भुजाम्।
पीठाधारे पुरा ध्यात्वा कमठं तदनन्तरम्।। 28.157 ।।
तदूर्ध्वे कालदहनं सप्तवक्त्रं त्रिलोचनम्।
त्रिपादं सप्तयुग्मेन भुजेन च विराजितम्।। 28.158 ।।
तदूर्ध्वे नीलवसनं सहस्रफणशोभितम्।
चतुर्भुजं श्वेतवर्णं शङ्खचक्रसमन्वितम्।। 28.159 ।।
उपरिष्टात् ततो देवीं चतुरश्रां भुवं स्मरेत्।
तस्यां वह्न्यादिकोणेषु धर्मादीन् पुरुषाकृतीन्।। 28.160 ।।
चतुर्भुजान् सिंहवक्त्रान् योगपीठपदाकृतीन्।
मुख्यहस्ताञ्जलियुतानन्याभ्यां पीठधारिणः।। 28.161 ।।
श्वेतवर्णान् पुरा ध्यात्वा प्राच्यादिषु तथाऽपरान्।
अधर्मादींश्चतुर्दिक्षु रक्तवर्णान् यथाक्रमम्।। 28.162 ।।
ध्यायेत् सदाशिवं मध्ये पञ्चाशद्धस्तशोभितम्।
मुखेन पञ्चविंशत्या पञ्चसप्ततिचक्षुषा।। 28.163 ।।
पाण्डुराभं नीलकण्ठं शिरोभिः पाणिभिः सह।
योगपीठं धृतं ध्यायेत्तदूर्ध्वेतु विचक्षणः।। 28.164 ।।
उपानज्जगतीपट्टिकपोतं च चतुष्टयम्।
ऋग्वेदादिक्रमात् ध्यायेत् फलकाकृतिरूपिणम्।। 28.165 ।।
भूतानि तूलिकां तस्मात् जीवात्मास्तरणं तथा।
वह्नेः सोमस्य सूर्यस्य मण्डलानि यथाक्रमम्।। 28.166 ।।
स्मरेत्तदुपरि श्वेतपङ्कजं द्वादशच्छदम्।
मध्ये कर्णिकया युक्तं केसराद्यैः सुपूरितम्।। 28.167 ।।
प्रणवं कर्णिकामध्ये स्मरेद् वेदादिमब्जजे।
तस्य द्वादशपत्रेषु पूर्वादिषु यथाक्रमम्।। 28.168 ।।
श्रीवत्सं वनमालां च योगमायां च वैष्णवीम्।
विमलां च तथा सृष्टिं शक्तिमुत्कर्षिणीमपि।। 28.169 ।।
प्रभवां सत्यां तथेशानामनुकम्पां पितामहीम्।
बद्धाञ्जलिधराः पूर्वैर्दोर्भिश्चैतास्तथा परैः।। 28.170 ।।
विकसत्स्वर्णपद्मानि दधानाः कमलेक्षणाः।
वह्निमण्डलपूर्वादिदिक्ष्विन्द्रादीन् यथाक्रमम्।। 28.171 ।।
अर्कस्य मण्डले देवि कुमुदादिपदेष्वमून्।
शङ्खं चक्रं गदां शार्ङ्गं वज्रं खड्गं तथा परम्।। 28.172 ।।
पद्मं मुसलमित्येतानायुधान् पुरुषाकृतीन्।
सोमस्य मण्डले चापि पूर्वादिष्वष्टसु क्रमात्।। 28.173 ।।
व्याप्तिं कान्तिं तथा तृप्तिं श्रद्धां विद्यां जयां क्षमाम्।
शान्तिं च शक्तीरष्टैताः स्मरेच्चामरधारिणीः।। 28.174 ।।
बहिरावरणे तार्क्ष्यमीशकोणे तु सेनपम्।
सर्वांस्थितान् प्राञ्जलींश्च देवस्याभिमुखान् स्मरेत्।। 28.175 ।।
एवं ध्यात्वा योगपीठं तत्रत्याः शक्तिदेवताः।
गन्धपुष्पैर्धूपदीपैरर्चयेच्च ततः परम्।। 28.176 ।।
भगवद्वंशमाचार्यं पूजारम्भे हृदि स्मरेत्।
आसीनस्य शयानस्य कर्मबिम्बस्य वै रमे।। 28.177 ।।
पीठकल्पनकाले तु स्मरेत् पद्मान्तमादितः।
ततोऽनन्तं स्मरेद्देवि सहस्रफणमण्डितम्।। 28.178 ।।
यानारूढस्य बिम्बस्य पद्मात्तार्क्ष्यं विचिन्तयेत्।
मन्त्रासने योगपीठं पद्ममन्यत्र चिन्तयेत्।। 28.179 ।।
ध्यायेद्यात्रासने तार्क्ष्यमनन्तं शयनासने।
श्रियादीनां तु देवीनां पीठमूले तु कच्छपम्।। 28.180 ।।
तन्मध्ये पन्नगाधीशमस्य कोणेषु पद्मजे।
धर्मादीन् क्रमशो ध्यात्वा तदूर्ध्वेऽव्यक्तपङ्कजम्।। 28.181 ।।
भगवद्वंशमाचार्यं पूजारम्भे स्मरेद् गुरु।
[आवाहनविधिं वक्ष्ये शृणु पङ्कजमानिनि।। 28.182 ।।
आवाहने तु मूलार्चाहृदब्जात्पात्रमन्ततम्।
देवं पिङ्गलया तत्तद्बिम्बहृत्सरसीरुहे।। 28.183 ।।
सुषुम्नया समावाह्य ततः पूजादिकं चरेत्।
तत्तत्कर्मावसाने तु तथा मूले नियोजयेत्।। 28.184 ।।
त्रिमुहूर्तात्पुरा प्राप्तपूजने पुरुषोत्तमम्।
नोद्वास्य पूजनं कृत्वा ततोद्वासनमाचरेत्।। 28.185 ।।
ज्वलनः सूर्यकान्ते तु यथा भाति दिवाकरात्।
तथार्चकप्रार्थनया मूलात्कर्मादिकौतुके।। 28.186 ।।
त्रिस्थाने स्नानकुम्भे च हरिः संनिहितो रमे।]
आवाहनपदं पात्रं पूरयेद् गन्धवारिभिः।। 28.187 ।।
मूलमन्त्रेण तुलसीं तस्मिन्निक्षिप्य वै ततः।
तत्पात्रं हस्तयुग्मेन ललाटान्तं समुद्धरेत्।। 28.188 ।।
मूलस्थं रविवह्नीन्दुकोटिकोटिसमप्रभम्।
द्विहस्तमेकवक्त्राब्जं चक्राद्यायुधसेवितम्।। 28.189 ।।
किरीटवनमालाभ्यां कौस्तुभेन च शोभितम्।
वासुदेवं परात्मानं प्रार्थयेद् गाथयानया।। 28.190 ।।
करुणारसदुग्धाब्धिसमुत्पन्न घनप्रभ।
आगच्छागच्छ पात्रेऽस्मिन् नित्यपूजार्थमच्युत।। 28.191 ।।
एवं संप्रार्थ्य मूलार्चां तस्मात् पात्रे समागतम्।
शङ्खचक्रगदाशार्ङ्गधारिणं पीतवासम्।
श्रीवत्सकौस्तुभोरस्कं वनमालादिभूषितम्।। 28.192 ।।
नीलनीरदसंकाशं वासुदेवं चतुर्भुजम्।
[पद्मविष्टरमासाद्य संस्थितं काञ्चनप्रभम्।। 28.193 ।।
अनर्घ्यरत्नखचितकिरीटेन विराजितम्।
नवनीरदनीलालिदलिताञ्जनसंनिभैः।। 28.194 ।।
माधवीमल्लिकाजातिपुष्पसंवलितान्तरैः।
कर्पूरधूसरैर्दिव्यकचभारैः सुशोभितम्।। 28.195 ।।
कटुलालकलोलालिकोमलाननपङ्कजम्।
अष्टमीचन्द्रधिक्कारिफालोद्यत्तिलकोज्ज्वलम्।। 28.196 ।।
निरङ्कुशदयापूरतरङ्गितकटाक्षकम्।
षट्पदाश्रितशुभ्राब्जपरीहासिविलोचनम्।। 28.197 ।।
शीतलैर्दृष्टिपातैस्तु जगदानन्दकारिणम्।
हेमचाम्पेयकुसुमोल्लसत्सुन्दरनासिकम्।। 28.198 ।।
मन्दहासोल्लसद्दन्तं बन्धूकसदृशाधरम्।
आदर्शगण्डसंलग्नरत्नकुण्डलभूषितम्।। 28.199 ।।
सौन्दर्यसंपुटाकारचुबुकस्थलशोभितम्।
कम्बुकण्ठस्थितार्धेन्दूल्लसद्ग्रैवेयकोज्ज्वलम्।। 28.200 ।।
कुङ्कुमागरुकस्तूरीसुवासितभुजान्तरम्।
चतुर्भुजमुदाराङ्गं दीर्घबाहुं सुयौवनम्।। 28.201 ।।
लसत्कङ्कणकेयूरमहार्हाङ्गुलिभूषणम्।
चतुर्वर्गप्रदानोद्यत्करपल्लवसंयुतम्।। 28.202 ।।
मुख्यदक्षिणहस्तेन श्रितानामभयप्रदम्।
लीलया वामहस्तेन निषण्णे पद्मविष्टरे।। 28.203 ।।
धृत्वा कौमोदकीशार्ङ्गे पश्चाद् दक्षिणपाणिना।
सुदर्शनं सहस्रारं कोटिकालानलद्युति।। 28.204 ।।
प्रणवध्वाननिर्घोषं हिमाद्रिशतशोभितम्।
दधानं वामहस्तेन पाञ्चजन्यं सुनिर्मलम्।। 28.205 ।।
उरोविराजि श्रीवत्सकौस्तुभोद्भासि दिक्तटम्।
रत्नकाञ्चनसन्मुक्ताभरणैर्वनमालया।। 28.206 ।।
सद्ब्रह्मसूत्रया चैव संविराजदुरस्स्थलम्।
तुलसीदामसौरभ्यमद्भ्रमरमण्डितम्।। 28.207 ।।
अन्तःस्फुरदनेकाण्डसंशोभिततनूदरम्।
विधातृजन्मभूनाभिकमलेन सुशोभितम्।। 28.208 ।।
चम्पासहस्रपुञ्जाभपीताम्बरलसत्कटिम्।
नागेन्द्रदर्पहरणनन्दकान्वितमेखलम्।। 28.209 ।।
यूथपेन्द्रकरोदारचारूरुयुगलोज्ज्वलम्।
मुक्तास्फोटोल्लसद्दिव्यजानुमण्डलशोभितम्।। 28.210 ।।
मीनमानहरश्लक्ष्णजङ्घाकाण्डमनोहरम्।
मणिमञ्जीरविलसत्कूर्माकारपदद्वयम्।। 28.211 ।।
विद्रुमाभाङ्गुलीजालोल्लसद्रत्नाङ्गुलीयकम्।
शरदिन्दुदशोद्भासिनखपङ्क्तिविराजितम्।। 28.212 ।।
सर्वलक्षणसंपूर्णं सार्वज्ञादिगुणैर्युतम्।
वपुषा सुन्दरेणैव दिव्येनाविष्कृतेन च।। 28.213 ।।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणण्।
प्रयत्नेन विनाऽज्ञाननाशकं ध्यायिनां प्रभुम्।। 28.214 ।।
करुणापूर्णहृदयं जगदुद्धारणोद्यतम्।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम्।। 28.215 ।।
सर्वदेवमयं दंव सर्वेषां तेजसां निधिम्।
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम्।। 28.216 ।।
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम्।
एवं लक्ष्मीपतिं स्मृत्वा शार्ङ्गधन्वानमादरात्।। 28.217 ।।
]
ध्यात्वा तद्वारिणा कर्मशिरः कूर्चेन सेचयेत्।
द्वादशार्णं चतुर्वारमागच्छेति समं वदेत्।। 28.218 ।।
पात्रस्थं परमात्मानं कर्मार्चायां विचिन्तयेत्।
प्रदर्श्यावाहनमुद्रां स्थापनं तु ततः परम्।। 28.219 ।।
विभो सकललोकेश विनतासुतसेवित।
त्राणाय सर्वजगतां स्वागतं ते जगत्पते।। 28.220 ।।
इति स्वागतमुद्रां च प्रतिमां च प्रदर्शयेत्।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्।। 28.221 ।।
तावन्मद्भक्तभावेन बिम्बेऽस्मिन् संनिधिं कुरु।
दर्शयेत् संनिधिं मुद्रां प्रार्थनां च वरानने।। 28.222 ।।
सुमुखो भव देवेश विष्णो जिष्णो जनार्दन।
इति विज्ञाप्य सान्निद्यमुद्रामपि च दर्शयेत्।। 28.223 ।।
सोन्दर्यामृतसिन्धूत्थघनविद्युल्लताप्रभे।
आगच्छावाहने पात्रे गोविन्दगृहमेधिनि।। 28.224 ।।
एवं संप्रार्थ्य पात्रस्थां श्रियं बिम्बे स्मरेत्ततः।
सर्वजीवधरे कान्ते परमात्मप्रिये रसे।। 28.225 ।।
पात्रेऽस्मिन् पूजनाय त्वमागच्छ वसुधे शुभे।
एवमावाह्य पात्रस्थां भुवं बिम्बे नियोजयेत्।। 28.226 ।।
आवाहनादिषण्मुद्रां दर्शयेद्देशिकोत्तमः।
मूलाभावे श्रियादीनां भगवन्मूलबिम्बतः।। 28.227 ।।
श्रियादिकर्मबिम्बेषु शक्तीरावाह्य पूजयेत्।
मन्त्रन्यसनकाले तु देवेशं योगविष्टरे।। 28.228 ।।
स्थितं ध्यात्वा देवदेहे मन्त्रन्यसनमाचरेत्।
किरीटाद्यहिनाथान्तं मुद्राः सर्वाश्च दर्शयेत्।। 28.229 ।।
श्रामित्यादि श्रियो देहे विन्यसेच्च तथा भुवः।
ह्रामित्यादिषडङ्गानि विन्यसेत् कमलेक्षणे।। 28.230 ।।
पद्ममुद्रां प्रदर्श्याथ देवेशं प्रार्थयेद् गुरुः।
दासोऽहं ते जगन्नाथ पुत्रदारगृहैः सह।। 28.231 ।।
कर्तव्ये मां नियुङ्क्ष्व त्वं प्रेष्यं भक्तं हिते सदा।
त्वां भक्त्या पूजयाम्यद्य भोगैरर्घ्यादिभिर्हरे।। 28.232 ।।
मदीय्य इति तां पूजां गृहाण परमेश्वर।
विज्ञाप्यैवं रमानाथं यजेदर्घ्यादिभिस्ततः।। 28.233 ।।
श्रीभूम्योश्चार्चनं कृत्वा मधुपर्कं निवेदयेत्।
[योगे स्थितं मण्डने च यात्रायां भोजने तथा।। 28.234 ।।
स्नाने च सुखमासीनं शय्यायां शयनं विभुम्।
अन्यत्र चोपचारेषु स्थितमासीनमेव वा।। 28.235 ।।
प्राङ्मुखं चिन्तयेद्विद्वान् देवप्राचीक्रमेण वा।
आचार्यः शिष्यवन्मन्त्रविष्टरे स्नपनासने।। 28.236 ।।
जननीव शिशुं रत्यां सतीव प्रियनायकम्।
अलंकारेऽतिथिं भोज्यविष्टरे तु गृहस्थवत्।। 28.237 ।।
यात्रासने सुशय्यायां नृपं मन्त्रीव सेवकः।
प्रार्थनायां मित्रवच्च देवं ध्यायेत पूजकः]।। 28.238 ।।
एकबेरविधाने तु पूजाकाले पुरा रमे।
योगपीठस्थितान् देवान् क्रमेणाभ्यर्च्य वै गुरुः।। 28.239 ।।
मन्त्रन्यासादिहोमान्तं पूजां कुर्याद्यथाविधि।
मखार्चादिषु बिम्बेषु वासुदेवादिकान् यजेत्।। 28.240 ।।
बहुबेरे तव विधिं वदाम्यावाहनस्य तु।
ज्ञानादिषड्गुणोपेतं वासुदेवं चतुर्भुजम्।। 28.241 ।।
शुद्धस्फटिकसंकाशं मूलादुत्सवकौतुके।
संकर्षणं ज्ञानमूर्तिं रक्ताभं बलिकौतुके।। 28.242 ।।
बलमूर्तिं हेमवर्णं प्रद्युम्नं स्नानकौतुके।
अनिरुद्धं तीर्थबेरे भूतिमूर्तिं घनप्रभम्।। 28.243 ।।
धर्ममूर्तिं पद्मनाभं मयूरगलमेचकम्।
स्वप्नबिम्बे समावाह्य तत्तत्काले समर्चयेत्।। 28.244 ।।
सर्वांश्चतुर्भुजान् शङ्खचक्रपद्मगदाधरान्।
श्रीवत्सकौस्तुभोरस्कान् वनमालाद्यलंकृतान्।। 28.245 ।।
वासुदेवोद्भवान् ध्यायेत् केशवाद्यधिनायकान्।
स्नानासनं समभ्यर्च्य पादुकार्चनमाचरेत्।। 28.246 ।।
कनकाचलगम्भीर्यमहीन्द्राभरणं विभुम्।
छन्दोमयं गरुत्मन्तं पादुकायां विचिन्तयेत्।। 28.247 ।।
पादुकां तार्क्ष्यगायत्र्या स्नापयेन्मन्त्रवारिभिः।
पुष्पधूपादिनाभ्यर्च्य स्नानपीठपुरो भुवि।। 28.248 ।।
द्वादसाद्येककुम्भान्तं विभवेच्छानुसारतः।
कुम्भान् विधाय संपूज्य प्रापयेत् स्नानकौतुकम्।। 28.249 ।।
स्नानकालस्त्वयं प्राप्तस्तवेच्छा यदि वर्तते।
अभ्यञ्जयित्या देवेश सुस्नानं कारयाम्यहम्।। 28.250 ।।
विज्ञाप्य दद्याद्देवाय पादुकां हेमनिर्मिताम्।
इदं विष्णुरिति ध्यायेत् पादुकारोहणे विभोः।। 28.251 ।।
उत्तिष्ठ ब्रह्मणेत्येवं देवमुत्थापयेद् गुरुः।
भद्रं कर्णेति मन्त्रेण नयेत् स्नपनविष्टरम्।। 28.252 ।।
विष्णोर्नुकेति मन्त्रेण स्थापयेत् स्नानविष्टरे।
विष्णुगायत्रिया चार्घ्यं पाद्यं त्रीणि पदेति च।। 28.253 ।।
आपः पुनन्तु मन्त्रेण दद्यादाचमनं हरेः।
तद्विष्णोरिति काष्ठेन रदनान् शोधयेत्ततः।। 28.254 ।।
रसज्ञां विष्णुगायत्र्या गण्डूषं निगमादिना।
कारयेत् स्नानवस्त्रे च परिदध्याद्धरेर्गुरुः।। 28.255 ।।
वामदेव्येति वै साम्ना गन्धतैलेन वै विभोः।
शिरः प्रभृति पादान्तमुद्वर्तनमताचरेत्।। 28.256 ।।
रमागायत्रिया केशान् कङ्कतेन मृजेत्ततः।
तैलानि वानचूर्णेन सुगन्धिसलिलेन च।। 28.257 ।।
तच्छंयोरिति केशादिपादान्तं शोधयेत्ततः।
आप्यायस्वेति दुग्धेन दध्ना च तदनन्तरम्।। 28.258 ।।
दधिक्रावुण्णमन्त्रेण गायत्र्या विष्णुपूर्वया।
नालिकेराम्बुना लक्ष्मीगायत्र्या पीतवारिणा।। 28.259 ।।
वस्त्रयुग्मं समर्प्याथ गन्धद्वारेति देशिकः।
स्नापयेद्गन्धपङ्केन कुङ्कुमालेपनं ततः।। 28.260 ।।
प्रालम्बैर्मौलिमालाभिर्भूषयेत् परमेश्वरम्।
अर्घ्यादिभिः समभ्यर्च्य मधुपर्कं निवेदयेत्।। 28.261 ।।
सहस्रधारापटके भास्कराधिपतिं तथा।
शङ्खपद्माह्वये पात्रे श्रियमावाह्य पूजयेत्।। 28.262 ।।
तयोः कुम्भाम्बुनापूर्य सहस्रच्छिद्रया सह।
सार्धं द्वाभ्यां देशिकाभ्यां सूक्तेन पुरुषात्मना।। 28.263 ।।
लक्ष्मीशं स्नापयेद्यद्वा महाकुम्भेन वा रमे।
जम्बीररसधाराभिः शुचीव इति मन्त्रतः।। 28.264 ।।
अभिषिञ्चेद्रमानाथं ततः शुद्धजलेन च।
शङ्खोदकेन देवेशं सावित्र्या परिषेचयेत्।। 28.265 ।।
अग्निर्मूर्धेति मन्त्रेण शुष्कवस्त्रेण शोधयेत्।
मूर्धानमित्यार्द्रकेशान् शोषयेद्गन्धधूपकैः।। 28.266 ।।
वस्त्रं युग्मं समर्प्याथ स्थापयेत् सिंहविष्टरे।
आराधयेद् भूषणस्थान् प्रार्थयेत् कर्मकौतुके।। 28.267 ।।
सपद्मपीठं परममिदं भूषासनं महत्।
आकल्पधारणार्थाय आतिष्ठ जगतां प्रभो।। 28.268 ।।
इति विज्ञाप्य देवेशं स्मरेन्मण्डनविष्टरे।
पुरातनं वस्त्रयुग्मं व्याहृत्या परिहृत्य च।। 28.269 ।।
विष्णुगायत्रिया वस्त्रे नूतने परिधापयेत्।
इदं विष्णुरिति श्रुत्या चन्दनेन सुगन्धिना।। 28.270 ।।
वपुष्यालेपयेत् पश्चात् जितं त इति मण्डनैः।
मण्डयेत् परमात्मानं किरीटेन सुवर्चसा।। 28.271 ।।
मणिनिर्मितमालाभिश्चक्राद्यायुधभूषणैः।
ललाटे देवदेवस्य तिलकं परिकल्पयेत्।। 28.272 ।।
प्रावारमुपवीतं च धारयेन्निगमादिना।
पुष्पमालादिभिर्देवं तद्विष्णोरिति मन्त्रतः।। 28.273 ।।
इरावतीति मन्त्रेण पादयोरक्षतान् क्षिपेत्।
ततोऽध्वरादिबिम्बानां प्रतिकर्म समाचरेत्।। 28.274 ।।
आदर्शे कमलां देवीं व्यजने पवनाधिपम्।
आतपत्रे पन्नगेन्द्रमर्चयेत् स्वस्वविद्यया।। 28.275 ।।
व्याहृत्या दर्पणादीनि दर्शयेत् परमात्मनः।
कर्मार्चादीनि बिम्बानि यजेदर्घ्यादिना ततः।। 28.276 ।।
रमागायत्रिया दद्यात् ताम्बूलीमास्यशोधिनीम्।
दद्यादगरुधूपं च जितं त इति मन्त्रतः।। 28.277 ।।
[उद्दीप्यस्वेति मन्त्रेण दीपमारोपयेद्रमे।]
दीपजालेषु ताराणि मध्यदीपेषु वै विधुम्।। 28.278 ।।
आवाह्य दर्शयेत् दीपं उद्दीप्यस्वेत्यृचा हरेः।
ततो यवनिकां त्यक्त्वा दीपमादाय देशिकः।। 28.279 ।।
त्रिवारं गुणमन्त्रेण पादादिशिरसोऽवधि।
कर्मबिम्बादिबिम्बानां एवं कृत्वा ततो गुरुः।
[ताम्बूलं तण्डूलं मुद्गमाज्यं हेमं फलानि च।। 28.280 ।।
गोग्रासं गाश्च वसनं मात्राद्रव्यमितीरितम्।]
देवस्य पुरतो मात्राद्रव्यं सन्दर्शयेत् स्वयम्।। 28.281 ।।
[दर्शयित्वा तु देवस्य गृह्णीयात् तदनन्तरम्।]
संगृह्य वैनतेयादीन् अर्घ्याद्यैः पूजयेत् क्रमात्।। 28.282 ।।
ऋगाद्यध्ययनारम्भं प्रारभेयुश्च वैदिकाः।
स्वरेणोच्चतरेणैव स्तुवीयुः स्तोत्रपाठकाः।। 28.283 ।।
नृत्तार्धमण्डपे रम्ये नृत्येयुर्गणिका जनाः।
मङ्गलानि च गीतानि तत्र गायन्तु गायकाः।। 28.284 ।।
तुलसीपल्लवैर्देवमर्चयेच्च तदा गुरुः।
व्यूहादिनामभिश्चापि विभवाद्यैश्च नामभिः।। 28.285 ।।
पिधाय काण्डवस्त्रेण गर्भद्वारं ततो गुरुः।
देवस्य पुरतो वेद्यां भक्ष्यादीन् घृतपाचितान्।। 28.286 ।।
निधाय विविधान्नानि शोधयेच्छोषणादिभिः।
प्रदर्श्य सुरभीमुद्राममृतीकृत्य तानि वै।। 28.287 ।।
मूलादिसर्वबिम्बानि प्रार्थयेद् गाथयानया।
मृष्टपूतस्थिरान्नानि भोज्यभक्ष्याण्यनेकशः।। 28.288 ।।
संपन्ननि जगन्नाथ भोज्यासनमलंकुरु।
इति विज्ञाप्य देवाय पादुके धारयेद्धरेः।। 28.289 ।।
अन्नादीन् क्रमशो न्यूनं दशभागं स्मरेद्रमे।
मूलादिसप्तबिम्बानां सप्तभागं निवेदयेत्।। 28.290 ।।
सालिग्रावस्यैकभागं विमानस्य तथा परम्।
होमाय चापरं भागं पात्रेऽन्यस्मिन्निवेशयेत्।। 28.291 ।।
भोज्यासने स्थितं ध्यात्वा यजेदर्घ्यादिना विभुम्।
भगवद्दक्षइणे हस्ते न्यसेदर्घ्यसुमं गुरुः।। 28.292 ।।
त्वद्दासेन मया दत्तं भोज्यवस्तु सुसंस्कृतम्।
अभीतिदकरेण त्वं गृहाण कृपया विभो।। 28.293 ।।
इति विज्ञाप्य देवाय मधुपर्कं निवेदयेत्।
अन्वारब्धेन वामेन पाणिना दक्षिणेन च।। 28.294 ।।
भक्त्या नम्रेण शिरसा दर्शितग्रासमुद्रया।
द्वात्रिंशत् कबलान् विष्णोर्देवस्येति च मन्त्रतः।। 28.295 ।।
निर्वपेद्दक्षिणे हस्ते भक्ष्यान्नादीनि देशिकः।
मध्ये मध्ये च पानीयं दद्यादेलादिमिश्रितम्।। 28.296 ।।
[शीतलोदकसंयुक्तमेलाकर्पूरमिश्रितम्।
मन्दोष्णं वासनायुक्तमर्हणाम्भ इति स्मृतम्]।। 28.297 ।।
भोज्यासनादौ भोज्यान्ते दद्यादर्हणमम्बु च।
हस्तप्रक्षालनं कुर्याद्देवस्य परमात्मनः।। 28.298 ।।
गण्डूषं च समर्प्याथ पुनरर्घ्यादिना यजेत्।
पाणिवक्त्रपदाम्भोजं शोधयेत् शुद्धवारिणा।। 28.299 ।।
एवं कर्मादिबिम्बानां षण्णामपि निवेदयेत्।
श्रीभूम्योश्च ततान्नादीन् विनिवेद्य ततो रमे।। 28.300 ।।
सालग्रावादिदेवाय विष्णवे विनिवेद्य च।
प्रासादपतयेऽन्नादीननिरुद्धाय चार्पयेत्।। 28.301 ।।
ततो ध्रुवादिबेरेभ्यस्ताम्बूलं वासनायुतम्।
निवेदयेत्ततः स्नानबिम्बशक्तिं ध्रुवे नयेत्।। 28.302 ।।
[निवेदनान्ते त्वन्नानि भक्ष्याणि विविधानि च।
विष्वक्सेनादिपूजार्थमर्धभागं त्यजेत्ततः।। 28.303 ।।
प्रतिग्राहोदकं पीत्वा पादुकां मूर्धनि स्वके।
भुक्तानि पत्रपुष्पाणि विदध्याद् विनयान्वितः।। 28.304 ।।
पूजासिद्ध्यर्थमर्धान्ने स्तोकमर्चकसत्तमः।
देवाभिमुखमासीनः प्रागश्नीयाच्च मौनवान्।। 28.305 ।।
हृद्यागमाद्यमङ्गं स्याद्योगपीठे प्रपूजनम्।
द्वितीयमङ्गं स्नपनं तृतीयं वेषपूजनम्।। 28.306 ।।
तुर्यं भोज्यासने विष्णोः पूजनं पञ्चमं ततः।
गुरोः सिद्धिप्राशनं तु षष्ठं नित्याग्निपूजनम्।। 28.307 ।।
सप्तमं तूत्सवो नित्यश्चाष्टमाङ्गमितीरितम्।
अष्टाङ्गपूजनं त्वेवं गर्भगेहे विधीयते।। 28.308 ।।
चतुर्थादिषडङ्गान्तं बहिः पूजनमारभेत्।
नित्ये नैमित्तिके प्राप्ते त्वेकस्मिन् समये तदा।। 28.309 ।।
नैमित्तिकं पुरा कृत्वा पश्चान्नित्यसमर्चनम्।
नैमित्तिके ह्यनित्ये च नित्ये च युगपद्गते।। 28.310 ।।
प्रागनित्यं ततः पश्चान्नैमित्तं नित्यमाचरेत्।
नैमित्तिके च काम्ये च प्राप्ते काम्यं तु पूर्वतः।। 28.311 ।।
एतत्कालेषु संप्राप्ते प्रायश्चित्ते तु देशिकः।
प्रायश्चित्तं पुरा कृत्वा ततस्तानि क्रमाच्चरेत्।। 28.312 ।।
कालातिक्रमदोषस्तु तत्र न स्यात्कदाचन।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च।। 28.313 ।।
प्रतिष्ठितेषु शोभार्थं विभव्यूहमूर्तिषु।
तथैव गोपुरद्वारदिङ्मूर्तिषु च मण्डपे।। 28.314 ।।
सांनिध्यं चैव यातासु शक्त्या नित्यं समर्चनम्।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम्।। 28.315 ।।
कुर्यादष्टोपचारैस्तु तथा नैमित्तिकेष्वपि।
न कर्मार्चादिकं तत्र स्नपनं चोत्सवादिकम्।। 28.316 ।।
बलिदानं च होमं च पवित्रारोहणादिकम्।
नाचर्तव्यं विशेषेण प्राङ्कणादिषु मूर्तिषु।। 28.317 ।।
सूक्ष्माभिषेकमात्रं तु तत्र तासु समाचरेत्।
खगेशविष्वक्सेनादिपरिवारगणेष्वपि।। 28.318 ।।
प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत्।
अनन्ततार्क्ष्यसेनेशदेवानां मण्डपादिषु।। 28.319 ।।
कुमुदादिगणेशानां द्वारावरणवासिनाम्।
अमूर्तीनां बलिं दद्याद्वासुदेवपुरो भुवि।। 28.320 ।।
यत्र भक्तश्च सेनानीः स्वतन्त्रेण प्रपूज्यते।
तन्निवेदितवस्तूनि नाश्नीयाद्वैष्णवोत्तमः।। 28.321 ।।
परिचारवरैः कार्यं शिष्यैर्वा भक्तपूजनम्।]
स्तुत्वा च विविधैः स्तोत्रैर्नित्यहोमं ततश्चरेत्।। 28.322 ।।
Chapter - 29
+++
+++
।। एकोनत्रिंशोऽध्यायः ।।
एवं नित्यार्चनं कृत्वा नित्यहोमाय देशिकः।
नारायणं चतुर्बाहुं मूलाज्जलजसंनिभम्।। 29.1 ।।
शङ्खचक्रगदापद्मैः शोभितं वनमालया।
किरीटहारकेयूरकटकेन विराजितम्।। 29.2 ।।
श्रीवत्सकौस्तुभोरस्कं पीताम्बरधरं विभुम्।
आवाह्यावाहने पात्रे वस्त्रेणाच्छाद्य भाजनम्।। 29.3 ।।
हस्ताभ्यां तत्सामादाय होमान्तं प्रेष्यमूर्धनि।
विधाय घण्टावाद्यैश्च शंनो मित्रमनुं गुरुः।। 29.4 ।।
उच्चरन् पाकशालां वै सदीपस्तु शनैर्व्रजेत्।
यागद्वारं समासाद्य चण्डादीन् मनसार्चयेत्।। 29.5 ।।
गत्वान्तर्होमकुण्डस्य दक्षिणे दर्भसंस्तरे।
निधाय पात्रं कुण्डस्य पश्चिमे कूर्मविष्टरे।। 29.6 ।।
उपविश्य प्राङ्मुखः सन् संकल्प्य हवनं ततः।
क्षिपेत् कुण्डोत्तरं देशे षट्कुशान् प्राङ्मुखान् रमे।। 29.7 ।।
तेष्वाज्यपात्रं हव्यं च स्रुक्स्रुवं समिधः कुशान्।
प्रणीतां प्रोक्षणीं दर्वीं व्यजनं मेक्षणं तथा।। 29.8 ।।
अक्षतान् शुष्ककाष्ठांश्च तिलांश्च द्वन्द्वशो रमे।
अधोमुखानि पात्राणि निधाय गुरुसत्तमः।। 29.9 ।।
आत्मनो दक्षिणे पार्श्वे करकं पुष्पभाजनम्।
कुण्डस्य परितः पञ्च सप्त वा नव वा कुशान्।। 29.10 ।।
परिस्तृणीत द्रव्याग्निमध्ये दर्भेषु साम्बुमत्।
निधाय तत्प्रणीतायां चक्रराजं समर्चयेत्।। 29.11 ।।
प्रादेशसंमितं कूर्चं दर्भयुग्मविनिर्मितम्।
उत्तराग्रं तु विन्यस्य त्रिभिर्दर्भैः पिधाय ताम्।। 29.12 ।।
प्रोक्षणीमात्मनश्चाग्रे निधाय गुरुसत्तमः।
प्रोक्षण्यां तत्प्रणीताम्बु कूर्चेन सह योजयेत्।। 29.13 ।।
अङ्गुष्ठानामिकाभ्यां तु तत्कूर्चं हस्तयोर्द्वयोः।
गृहीत्वा तत्त्रिरुत्पूय होमद्रव्याणि शास्त्रवित्।। 29.14 ।।
कृत्वोत्तानानि पात्राणि सपवित्रेण चाम्बुना।
चक्रगायत्रिया प्रोक्ष्य तत्तन्नाम समुच्चरन्।। 29.15 ।।
द्रव्याण्यपि च पात्राणि संस्पृशेत् क्रमशो रमे।
अविश्टेन तोयेन प्रणीतां परिषेचयेत्।। 29.16 ।।
भूयः प्रणीतामापूर्य तस्यां देवं चतुर्भुजम्।
शङ्खचक्रगदाशार्ङ्गनन्दकादिविभूषितम्।। 29.17 ।।
वासुदेवं समभ्यर्च्य कुण्डस्येशानविष्टरे।
निधाय दक्षिणे स्थाने कूर्चं द्वादशभिः कुशैः।। 29.18 ।।
तावदङ्गुलमायामं कृतं विन्यस्य संस्तरे।
चतुर्मुखं चतुर्बाहुं साक्षमालाकमण्डलुम्।। 29.19 ।।
गिरा समेतं हैमाभं ब्रह्माणं तत्र चिन्तयेत्।
याज्ञीयैरिन्धनैर्वह्निं प्रज्वाल्यास्त्राभिमन्त्रितैः।। 29.20 ।।
आत्मनः पुरतो देवि पात्रमाज्यस्य देशिकः।
दर्भेषु सादयेत् तस्मिन्नाप्यायस्वेति मन्त्रतः।। 29.21 ।।
गालितं द्रावितं गव्यमाज्यमापूरयेद् रमे।
प्रणीतेः कूर्चमादाय चाज्यस्थाल्यां नियोजयेत्।। 29.22 ।।
अग्नेरुत्तरतोऽङ्गारान् गृहीत्वा परिधेस्ततः।
उत्तरात् पश्चिमे भागे तां निधायासनस्थितिम्।। 29.23 ।।
तस्मिन्नग्नावाज्यपात्रं दर्भान् प्रज्वाल्य दर्शयेत्।
गुणमन्त्रेण तद्दर्भान् विसृजेदुत्तरे स्थले।। 29.24 ।।
प्रच्छिद्य दर्भयोरग्रं शोधयेत् सलिलेन तत्।
प्रक्षिप्याज्ये कुशस्तम्बद्वयमादीप्य देशिकः।। 29.25 ।।
[दर्शयेत् पुनराज्यं त्रीःपर्यग्नि च ततश्चरेत्।]
दर्भयुग्मं विसृज्याथ कुण्डेऽङ्गारान् नियोजयेत्।। 29.26 ।।
सव्यदक्षिणहस्ताभ्यां तत्पात्रं चात्मनः पुनः।
पुरो निधाय कूर्चेन त्रिभिरुत्पूययेद् गुरुः।। 29.27 ।।
कूर्चग्रन्थिं विसृज्याप उपस्पृश्यानले क्षिपेत्।
प्रदर्श्य सुरभीमुद्रामष्टदर्भैः पिधाय च।। 29.28 ।।
चक्रमुद्रामपि तथा गृहीत्वा स्रुक्स्रुवौ ततः।
उष्णोदकेन प्रक्षाल्य पञ्चदर्भकृतस्य तु।। 29.29 ।।
कूर्चस्य मूलात्तन्मूलं मध्यं मध्येन चाग्रतः।
तयोरग्रं विशोध्याथ वह्नौ संतापयेच्च तौ।। 29.30 ।।
अद्भिः प्रोक्ष्य ततोदीच्यां न्यस्य कूर्चस्य वै रमे।
ग्रन्थिं विसृज्य तत्कूर्चमग्नौ प्रक्षिप्य देशिकः।। 29.31 ।।
इन्द्रादीन् परितः कुण्डं क्रमात् आवाह्य पूजयेत्।
स्रुवेण घृतमादाय होमद्रव्याणि सेचयेत्।। 29.32 ।।
श्रीधरादित्रिमन्त्रेण परिधीन् स्पर्शयेद्रमे।
न्यसेदाघारसमिधौ प्रोक्षणीं करकाज्जलैः।। 29.33 ।।
आपूर्य कुण्डं परित अदितेत्यादिभिस्त्रिभिः।
प्रागग्रमुदगग्रं तैस्तोयैः संस्तीर्य देशिकः।। 29.34 ।।
देवादि प्रसवान्तेन मन्त्रेण परिषेचयेत्।
ध्यात्वा ब्रहमाधिपं देवमिध्माग्रान् घृतसेचितान्।। 29.35 ।।
गृहीत्वा पञ्चदश तु गृहीत्वा मुष्टिमुद्रया।
प्रज्वाल्य तालवृन्तेन वह्निं वाय्वधिपं स्मरन्।। 29.36 ।।
एकवक्त्रं प्रवालाभं जटामकुटमण्डितम्।
त्रिनेत्रं सप्तजिह्वं च मेषारूढं चतुर्भुजम्।। 29.37 ।।
शङ्खचक्रधरं देवं बद्धाञ्जलिपुटं विभुम्।
एवं संचिन्त्य मनसा स्थविरानलमब्जजे।। 29.38 ।।
गुरुः प्रद्युम्नमन्त्रेण वह्नेरुग्रप्रशान्तये।
तिलैरष्टाहुतीर्हुत्वा घृतेन निगमादिना।। 29.39 ।।
समिधो मूलमन्त्रेण जुहुयात् पूर्वसंख्यया।
वह्निं गन्धादिदीपान्तं स्वाहान्तेन घृतैर्यजेत्।। 29.40 ।।
अतोदितेऽन्वमँस्थादि प्रासावीरन्ततो रमे।
जलेन परिषिच्याथ वह्नौ पीठं प्रकल्पयेत्।। 29.41 ।।
पात्रस्थं परमात्मानं योगपीठे विचिन्तयेत्।
अयुतायुतार्कतेजस्त्वं नारायण जगत्पते।। 29.42 ।।
यावद्धोमावसानं भोः कुण्डेऽस्मिन् संनिधिं कुरु।
एवं संप्रार्थ्य देवाय मन्त्रन्यासं समाचरेत्।। 29.43 ।।
अर्घ्यादिजुहुयाद् वह्नौ नैवेद्यान्तं सकृत्कृत्।
आज्यावसिक्तचरुणा पुंसूक्तेन च षोडश।। 29.44 ।।
जपार्थं चापि जुहुयात् सर्पिषा तदनन्तरम्।
बीजपूरोपमं पिण्डं घृताप्लुतमथो गुरुः।। 29.45 ।।
स्रुचो गर्ते विनिक्षिप्य ससमित्कुसुमं चरोः।
सघृतेन स्रुवेणास्य पिदध्याद् बिलमब्जजे।। 29.46 ।।
मस्तकावधि तत्पात्रं दोर्भ्यामादाय देशिकः।
मूलमन्त्रं समुच्चार्य जुहुयात् परिषेचयेत्।। 29.47 ।।
प्रायश्चित्ताहुतीर्हुत्वा पञ्चोपनिषदा रमे।
सर्पिषा स्रुचमापूर्य स्रुवेण च पिधापयेत्।। 29.48 ।।
हस्ताभ्यां नासिकाग्रान्तमुद्धृत्य जुहुयात् ततः।
कुण्डादावाहने पात्रे स्मरेन्नारायणं विभुम्।। 29.49 ।।
प्रणीतायां स्थितं देवं हृत्कजे चिन्तयेद् गुरुः।
महोत्सवाद्युत्सवेषु तद्वह्नौ हवनं चरेत्।। 29.50 ।।
उद्वासयेद्विधातारमात्मनोऽग्रे स्रुचं न्यसेत्।
तद्दक्षिणे घृतामत्रं स्रुचो वामे न्यसेत् स्रुवम्।। 29.51 ।।
नित्यहोमेषु परधी................।
उपयुक्तकुशान् सर्वानादाय गुरुसत्तमः।। 29.52 ।।
कुशानां मूलमध्याग्रानाज्यपात्रे स्रुवे स्रुचि।
त्रिवारं स्पर्शयित्वैवं दर्भानग्नौ नियोजयेत्।। 29.53 ।।
स्रुवं वारिभिरापूर्य बहिः कुण्डात् प्रदक्षिणम्।
सेचयेद् वारिशेषं तु स्वशिरः प्रोक्षयेद् रमे।। 29.54 ।।
भस्मना तिलकं कृत्वा पात्रमादाय पूर्ववत्।
गर्भगेहं समासाद्य पात्रस्थं परमेश्वरम्।। 29.55 ।।
मूलबेरे समुद्वास्य पुष्पाञ्जलिधरो गुरुः।
भक्त्या यदग्नौ विहितं यथाशक्ति यथाविधि।। 29.56 ।।
आराधनं तद् गृहाण कृपया भक्तवत्सल।
विज्ञाप्यैवं जगन्नाथं बलिदानं प्रकल्पयेत्।। 29.57 ।।
तदर्थं मूलबेरादि बलिबिम्बान्तमर्चयेत्।
अन्नादीन् विनिवेद्याथ तार्क्ष्यसेनेशयोः क्रमात्।। 29.58 ।।
निवेद्य बलिबेरस्थं प्रार्थयेद्धरिमव्ययम्।
स्वामिन् तव पदाम्भोजकैंकर्यादिषु लालसाः।। 29.59 ।।
चण्डप्रचण्डप्रमुखाः पार्षदा द्वारवासिनः।
त्वत्सेवार्थं स्थिताः सर्वे महापीठावसानकम्।। 29.60 ।।
सेवादानाय तेषां त्वं शिबिकारोहणं कुरु।
इति विज्ञाप्य देवेशं शिबिकां निनयेद् गुरुः।। 29.61 ।।
बल्यन्नादीनि वस्तूनि निदध्यात् प्रेष्यमूर्धनि।
घण्टारवैर्वाद्ययोषैर्वेदपारायणैः सह।। 29.62 ।।
गत्वा च बलिबिम्बेन चण्डादिद्वारवासिनाम्।
कुमुदादिगणेशानां द्वारावरणवासिनाम्।। 29.63 ।।
बल्यर्चाग्रे ददामीति निक्षिपेत् सोदकं बलिम्।
ध्यात्वा पीठस्य परितः पार्षदान् विष्णुसेवकान्।। 29.64 ।।
शेषं सर्वं बलिद्रव्यं महापीठोपरि क्षिपेत्।
महापीठं परिक्रम्य मन्दिरान्तः प्रवेशयेत्।। 29.65 ।।
बलिबिम्बगतां शक्तिं मूलार्चायां नियोजयेत्।
यद्वा संकर्षणं ध्यात्वा हृत्पद्माह्वयविष्टरे।। 29.66 ।।
गर्भद्वारं समारभ्य महापीठावसानकम्।
चण्डादिद्वारपालानां द्वारपार्श्वस्थपीठयोः।। 29.67 ।।
भक्तानां विष्णुभूतानां महापीठोपरि क्षिपेत्।
सर्वत्र क्षालिते पीठे बलिदानं पुरोदितम्।। 29.68 ।।
पीठाभावे बलिं दद्यात् देशिकः स्थण्डिलोपरि।
वाद्याभावे केवलेन मड्डुकेन बलिं क्षिपेत्।। 29.69 ।।
संकर्षणं हृत्कजस्थं बल्यर्चायां नियोजयेत्।
बलिबेरान्मूलबिम्बे तच्छक्तिं प्रार्थयेद् रमे।। 29.70 ।।
नित्योत्सवाय देवेशं ततः संप्रार्थयेद् गुरुः।
यात्रासनमिदं तुभ्यं मया दत्तं गृहाण भो।। 29.71 ।।
त्वत्सेवार्थं ब्रह्मरुद्रमखवाद्या दिवौकसः।
प्रतीक्षन्ते द्वारदेशे बद्धाञ्जलिपुटा हरे।। 29.72 ।।
तस्मात् त्वं भक्तवात्सल्यजलधे यानमाश्रय।
इति विज्ञाप्य दैत्यारिं शिबिकादिषु वै नयेत्।। 29.73 ।।
पुष्पादिभिरलंकृत्य ताम्बूलादीन् निवेदयेत्।
सितातपत्रैर्मायूरैश्छत्रैर्हैमैश्च राजतैः।। 29.74 ।।
पताकाभिश्चामरैश्च घृतदीपैरनेकशः।
नर्तकीभिर्वाद्यसङ्घैर्गायकैर्वैणिकादिभिः।। 29.75 ।।
प्रदक्षिणं देवधाम कारयित्वा ततो गुरुः।
बलिपीठपुरोभागे देवमर्घ्यादिभिर्यजेत्।। 29.76 ।।
घटीदपं प्रदर्श्याथ पृथुकादीन् निवेदयेत्।
ततो नीराजनं कृत्वा गर्भगेहं नयेद्विभुम्।। 29.77 ।।
मखबिम्बगतां शक्तिं ध्रुवार्चायां विचिन्तयेत्।
स्वयंव्यक्ते च दिव्ये च मखार्चारहितेऽपि वा।। 29.78 ।।
तत्र नित्योत्सवविधिं वदामि कमलेक्षणे।
हेमादिपटले शुद्धे पूरयेद् द्रोणतण्डुलम्।। 29.79 ।।
तस्मिन् पद्मं समालिख्य शोधयेच्छोषणादिभिः।
तन्मध्ये पीठमाकल्प्य वासुदेवं चतुर्भुजम्।। 29.80 ।।
मूलबेरात्समावाह्य यजेदर्घ्यादिभिस्ततः।
शुक्लाम्बरधरं सौम्यं शुक्लयज्ञोपवीतिनम्।। 29.81 ।।
सोत्तरीयं च सोष्णीषं चन्दनाद्यैरलंकृतम्।
ध्यात्वा तं विनतानन्दं परिचारवरं शुभम्।। 29.82 ।।
तन्मूर्ध्नि पटलं न्यस्य यात्रोपकरणैः सह।
धाम प्रदक्षिणीकृत्य पात्रस्थं परमेश्वरम्।। 29.83 ।।
मूले संयोजयेत् पश्चान्मन्त्रन्यासं पुरा कृतम्।
मनुना येन देवस्य स्वस्य चापि वरानने।। 29.84 ।।
तन्मन्त्रवर्णान् संशोध्य शोषणादिभिरात्मवान्।
प्रबुद्धीकरणं कुर्याद्वर्णानि निगमादिना।। 29.85 ।।
अष्टोत्तरशतं वारान् अष्टाविंशतिमेव वा।
अष्टौ वापि जपेन्मन्त्री नलिनाक्षादिमालया।। 29.86 ।।
यत्संख्यया जपः पूर्वं मानसाराधने कृतः।
तत्संख्ययैव बाह्येऽपि जपेद्यागे गुरूत्तमः।। 29.87 ।।
[जपं तु सर्वपूजान्ते कुर्यात् क्षुद्रे तु नाचरेत्।]
पुण्डरीकाक्ष विश्वात्मन् मन्त्रमूर्ते जनार्दन।। 29.88 ।।
गृहाण मत्कृतां पूजां जपान्तां भक्तवत्सल।
इति संप्रार्थ्य देवेशं सोदकं तुलसीदलम्।। 29.89 ।।
अग्रे भगवतो भूमौ दद्यात् सात्त्विकदानव्त्।
[नमस्ते निस्तरङ्गाय नमस्ते सर्वसाक्षिणे।। 29.90 ।।
नमस्ते वासुदेवाय नमस्ते परमात्मने।
दुर्मानिनममर्यादं कृतघ्नं पापकारिणम्।। 29.91 ।।
अशुचिं निर्दयं क्रूरं शठं चलितमानसम्।
अविनितिनिधिं नात्मवेदिनं लोभमन्दिरम्।। 29.92 ।।
परावमानिनं दम्भमभक्तं दुर्जनाग्रगम्।
परनिन्दापरं क्षुद्रमात्मश्लाघापरं सदा।। 29.93 ।।
पिशुनं कामवशगमसूयागर्भमन्दिरम्।
नृशंसं वञ्चकं दुष्टमपराधसरित्पतिम्।। 29.94 ।।
भवदुग्धाब्धिकल्लोलजालमग्नस्थमप्लवम्।
हतं दीनमनाथं हे शरण्य शरणार्थिनाम्।। 29.95 ।।
त्वत्पादपद्मपोतेन मामुद्धर्तुं त्वमर्हसि।
मय्यनाथे दयासिनधो बन्धो सर्वजगद्धित।। 29.96 ।।
प्रसीद कमलाकान्त वात्सल्यजलधिः किल।
मयार्पितप्रणामांस्त्वं गृहाण परमेश्वर।। 29.97 ।।
विलपन्नेव हस्ताभ्यां पद्भ्यां मूर्ध्ना धिया हृदा।
अहंकारेण चात्मानं चतुर्वारं महीतेल।। 29.98 ।।
निपात्य दण्डवद्वासुदेवे प्रणतिमर्पयेत्।]
पूजान्ते देवदेवस्य तीर्थं देवाभिषेचितम्।। 29.99 ।।
पादाम्बु वा पिबेत् पूर्वं गंगातीर्थसमं शुचि।
अन्येष्वपि च कालेषु क्षुद्राराधनकर्मणि।। 29.100 ।।
पीत्वा स्वयं चोद्धरिण्या पात्रेणान्येन वा गुरुः।
सिद्धानां च महर्षीणां यतीनां ब्रह्मवादिनाम्।। 29.101 ।।
वैष्णवानां ब्राह्मणानां वेदवेदार्थसेविनाम्।
क्षत्रियाणां च वैश्यानां भक्तानां पादजन्मनाम्।। 29.102 ।।
क्रमशो देवदेवस्य पादतीर्थं प्रदापयेत्।
विष्णोस्तीर्थं प्रसादं च पूजान्ते देशिकोत्तमः।। 29.103 ।।
अपीत्वा यदि वान्येभ्यो दद्यात् पूजा हि निष्फला।
पिबन्ति ये पादतीर्थं जिघ्रन्ति तुलसीदलम्।। 29.104 ।।
ते यान्ति पापनिर्मुक्ताः शाश्वतं परमं पदम्।
प्रभाते सुरलोकार्थी मध्याह्ने धर्मचिन्तकः।। 29.105 ।।
पुत्रकामोऽपराह्णे तु धनार्थी रजनीमुखे।
प्राह्णे रात्रौ च मोक्षार्थी वासुदेवं यजेद्रमे।। 29.106 ।।
नित्योत्सवान्तं दैत्यारेः पूजनं तूत्तमोत्तमम्।
होमान्तं चोत्तमं विद्धि प्रापणान्तं च मध्यमम्।। 29.107 ।।
अधमं धूपदीपान्तं क्षुद्रमर्घ्यादिपूजनम्।
पूर्वोक्तकालभेदेषु द्वौ मुख्यौ मुक्तिदायिनौ।। 29.108 ।।
पूजनं तु तयोर्देवि कालयोः सर्वसिद्धिदम्।
बलिदानं नित्यहोमं चोत्सवं नित्यपूर्वकम्।। 29.109 ।।
देशिकेन्द्रः स्वयं कुर्यात् कालेष्वन्येषु वा रमे।
होमान्तं वा प्रापणान्तं स्वयं वा साधकेन वा।। 29.110 ।।
कुर्याद्वा कारयेद्विष्णोः पूजनं मोक्षचिन्तकः।
प्रभाते तण्डुले प्राह्णे पङ्कजे दिनमध्यमे।। 29.111 ।।
अन्तेऽपराह्णे सायाह्णे तिले पुष्पे वरानने।
निश्यां नीलोत्पले देवं ध्यात्वा नित्योत्सवं चरेत्।। 29.112 ।।
प्राह्णे स्नपनबेरस्य स्नपनं शास्त्रचोदितम्।
अन्यकाले सपर्यादि होमान्ते वोत्सवान्तिमे।। 29.113 ।।
पूजने प्रोक्षयेत् स्नानबिम्बं स्नानीयवारिभिः।
सालग्रावशिलानां तु स्नपनं सार्वकालिकम्।। 29.114 ।।
भोज्यविष्टरमात्रं चेदन्यकालेषु दीक्षितः।
मूलाच्छक्तिं समावाह्य कर्मार्चां पूजयेद्रमे।। 29.115 ।।
देवं षट्कालपूजासु यजेन्मन्त्रैर्यथोदितैः।
यद्वा पुरुषसूक्तेन द्वादशार्णादिनाथवा।। 29.116 ।।
यामिन्याः सार्धयामात्तु शय्यायां पूजयेद्धरिम्।
तदर्थं शक्तिमावाह्य मूलाच्छयनकौतुके।। 29.117 ।।
ध्रुवकर्मस्वापबेराण्यर्घ्यदानादिभिर्यजेत्।
गोक्षीरघृतसंमिश्रगुलान्नं च फलानि च।। 29.118 ।।
निवेद्य भक्ष्यजातानि शय्यायां पन्नगाधिपम्।
गन्धादिभिः समभ्यर्च्य स्वापार्चां प्रार्थयेत्ततः।। 29.119 ।।
भगवन् भोगनिद्रायाः कालोऽयं समुपागतः।
शयनं भोगिपर्यङ्कमलंकुरु जगत्पते।। 29.120 ।।
इति संप्रार्थ्य तद्बिम्बं शय्यायां विनिवेशयेत्।
गोक्षीरं शर्करायुक्तं सितखण्डादिसंयुतम्।। 29.121 ।।
नवनीतं च ताम्बूलं निवेद्य च यथाक्रमम्।
अनन्तभोगिशयने शयितं चेत् स्वभावतः।। 29.122 ।।
तद्बिम्बशयने शेषं पर्यङ्कं नार्चयेत् पृथक्।
कवाटबन्धनं कुर्यात् मन्त्रं कवचमुच्चरन्।। 29.123 ।।
सुदर्शनं द्वारदेशे द्वास्स्थानपि च देशिकः।
संबोध्य स्वगृहं गच्छेत् प्रादक्षिण्येन वै रमे।। 29.124 ।।
मर्त्यादिसैद्धपर्यन्तबिम्बानां पूजनादिषु।
शृणुष्वावाहनं भद्रे क्रमयोगं सलक्षणम्।। 29.125 ।।
कर्मार्चायां मूलबेराच्छक्तिमावाह्य पूजयेत्।
कर्मबिम्बात् स्नानबेरे तत्कर्मानन्तरं रमे।। 29.126 ।।
पुनः कर्मणि तां शक्तिं तस्माच्च बलिकौतुके।
बलिदानं ततः शक्तिं पूर्ववत्कर्मकौतुके।। 29.127 ।।
औत्सवे पुनरावाह्य तत्कार्योपरते पुनः।
नियोज्य कर्मण्यर्चायां स्वापे तां प्रार्थयेत् ततः।। 29.128 ।।
स्वापार्चायाः कर्मबेरे मूले तां विनियोजयेत्।
औत्सवादिषु बिम्बेषु स्मरन्नारायणं विभुम्।। 29.129 ।।
महोत्सवाद्युत्सवेषु चैवमावाह्य पूजयेत्।
पूजान्ते देशिकेन्द्रस्तु मन्निवेदितवस्तुभिः।। 29.130 ।।
अतिथीन् पूजयेत् पूर्वं ततः पुत्रादिबन्धुभिः।
सर्वान्तर्यामिणं देवं तर्पयेच्छास्त्रवर्त्मना।। 29.131 ।।
तेन तुष्याम्यहं दुग्धपारावाराधिपात्मजे।
योगलक्ष्मीभोगलक्ष्म्योर्देवेन सह पूजनम्।। 29.132 ।।
मयोदितं वीरलक्ष्म्याः समाराधनमुत्तमम्।
नोदितं तद्विधिं वक्ष्ये श्रूयतामब्जमालिनि।। 29.133 ।।
स्नानादिनियमान् सर्वान् कृत्वा देशिकसत्तमः।
लक्ष्म्यालयं समासाद्य विहगेन्द्रं पुरःस्थितम्।। 29.134 ।।
चण्डीं प्रचण्डीं च हृदा गर्भद्वारस्य पार्श्वयोः।
अभ्यर्च्यान्तः प्रविश्याथ शयनाल्लोकमातरम्।। 29.135 ।।
प्रबोध्य विविधैः स्तोत्रैर्मूले शक्तिं नियोजयेत्।
स्थलशुद्धिं समारभ्य भूतशुद्ध्यन्तमाचरेत्।। 29.136 ।।
लक्ष्मीषडर्णमन्त्रेण ओं नमः श्रीं श्रियै इति।
विष्णुषट्कार्णवत्स्वाङ्गे हस्तन्यासादिकं चरेत्।। 29.137 ।।
भार्गवोऽस्य ऋषिः पङ्क्तिश्च्छन्दो लक्ष्मीस्तु देवता।
श्रां श्रीं श्रूं श्रैं श्रैं श्र इति षडङ्गन्यासमाचरेत्।। 29.138 ।।
दुग्धामृतोद्धौ श्वेतद्वीपे रत्ननिकेतने।
कल्पद्रुराजिप्रमदाकानने विभ्रमाचले।। 29.139 ।।
पद्मासने सुखासीनामष्टलक्ष्म्या समावृताम्।
हिरण्यवर्णां हरिणीं पुण्डरीकनिभेक्षणाम्।। 29.140 ।।
चतुर्भुजां पीवरांसां सर्वाकल्पविभूषिताम्।
उभयोर्हस्तयोः पद्म इतराभ्यां वराभये।। 29.141 ।।
दधतीं पद्मगन्धाङ्गीं महालक्ष्मीं सनातनम्।
शङ्खचक्रगदाशार्ङ्गनन्दकादिभिरुज्ज्वलम्।। 29.142 ।।
[हृदब्जे परमात्मानं वासुदेवं सनातनम्।
शङ्खचक्रगदाशार्ङ्गनन्दकादिभिरुज्ज्वलम्।। 29.143 ।।
प्रभयेव मणिं पूर्णं गाम्भीर्येणैव सागरम्।
प्रभयेव विवस्वन्तं ज्योत्स्नयेव निशाकरम्।। 29.144 ।।
पुरा ध्यात्वा जगन्नाथं प्रसन्नवदनेक्षणम्।
अभ्यर्च्य मनसा पश्चात् शार्ङ्गिणोरसि दक्षिणे।। 29.145 ।।
हिरण्यवर्णां हरिणीं मूलबेरात् समागताम्।
सुखासीनां योगलक्ष्मीं हरेः सर्वाङ्गां स्मरेत्।। 29.146 ।।
स्वागतं तव पद्माक्षि संनिधिं भज हृत्कजे।
गृहाण मानसीं पूजां यथार्थपरिभाविताम्।। 29.147 ।।
विज्ञाप्यैवं श्रियं चार्घ्यं पाद्यमाचमनं तथा।
स्नानं च परिधनं च सोत्तरीयोपवीतकम्।। 29.148 ।।
गन्धं सुमनसो दीपं धूपं च मधुपर्ककम्।
प्रापणं सेन्दुताम्बूलमर्पयेत् कुसुमाञ्जलिम्।। 29.149 ।।
एवं तु विविधैर्भोगैर्मनसा पूजयेद् गुरुः।]
अर्घ्यादीन् कल्पयित्वाथ भोगयागं समाचरेत्।। 29.150 ।।
पद्मासने सुखासीनां पूर्णचन्द्रायुतप्रभाम्।
मन्दस्मितमुखाम्भोजां पीतवर्णां चतुर्भुजाम्।। 29.151 ।।
भक्तानां मुख्यहस्ताभ्यामभीतिवरदायिनीम्।
लीलार्थमन्यहस्ताभ्यां दिव्यपङ्कजधारिणीम्।। 29.152 ।।
महालक्ष्मीं मूलबेरे ध्यात्वार्घ्यादिभिरर्चयेत्।
कर्मार्चासहजे पीठे योगपीठं विचिन्तयेत्।। 29.153 ।।
योगासनाब्जपत्रेषु प्राच्यदिष्वष्टदिक्ष्वपि।
वीरलक्ष्मीं पाटलाभां खड्गखेटधरां स्मरेत्।। 29.154 ।।
धनलक्ष्मीं चित्रवर्णां शङ्खाब्जनिधिसेविताम्।
संतानलक्ष्मीं हरितां शङ्खक्षीरघटान्विताम्।। 29.155 ।।
जयलक्ष्मीं पीतवर्णां चापबाणधरां शुभाम्।
धान्यलक्ष्मीं पलाशाभां दान्यगुच्छभुजाङ्किताम्।। 29.156 ।।
धैर्यलक्ष्मीं पाण्डराभां शङ्खचक्रसमुज्ज्वलाम्।
राज्यलक्ष्मीं शोणवर्णां तर्जनीवेत्रधारिणीम्।। 29.157 ।।
एताः सर्वाश्चतुर्हस्ताः दिव्याभरणभूषिताः।
दिव्यगन्धानुलिप्ताङ्गीर्द्विव्यवस्त्रैरलंकृताः।। 29.158 ।।
मुख्यहस्ताञ्जलिपुटाः पश्चाद्धस्तायुधैर्युताः।
एताः श्रियो मुखं सर्वाः पश्यन्तीश्चिन्तयेद् गुरुः।। 29.159 ।।
आवाहनाय तत्पात्रं ताः पूज्यादाय वै रमे।
तस्मिन् ध्यायेद् वीरलक्ष्मीं मूलबिम्बात् समागताम्।। 29.160 ।।
सर्वलक्षणसंपन्नां सद्रत्नमकुटोज्ज्वलाम्।
पद्मताटङ्कविकसत्कर्णद्वयमनोहराम्।। 29.161 ।।
पूर्णचन्द्रप्रतीकाशवक्त्रस्थतिलकोज्ज्वलाम्।
चतुर्भुजां सुन्दराङ्गीं मन्दस्मितमनोहराम्।। 29.162 ।।
पद्मगर्भ सवर्णाङ्गीं नानाभूषणभूषिताम्।
हस्ताभ्यामाश्रितवतां अबीष्टवरदायिनीम्।। 29.163 ।।
अपराभ्यां च हस्ताभ्यां दधानां रक्तपङ्कजे।
पद्मासने सुखासीनां तस्मात् कर्मणि कौतुके।। 29.164 ।।
वीरलक्ष्मीं समावाह्य षण्मुद्रां च प्रदर्शयेत्।
[सर्वज्ञे सर्वबूतानामन्तःस्थे सर्वसाक्षिणि।। 29.165 ।।
अनादिनिधने देवि स्वागतं ते जगद्धिते।
क्षीरोदमथनोद्भूते वासुदेवकुटुम्बिनि।। 29.166 ।।
कृपया पूजनान्तं त्वं बिम्बेऽस्मिन् संनिधिं कुरु।
सुमुखी भव सर्वज्ञे ज्ञानानन्दस्वरूपिणि।। 29.167 ।।
तत्तद्विज्ञापनान्ते तु तत्तन्मुद्राश्च दर्शयेत्।]
हस्तन्यासं विना बिम्बे मन्त्रन्यासं समाचरेत्।। 29.168 ।।
षडङ्गन्यसनं कृत्वा पद्ममुद्रां प्रदर्शयेत्।
अर्घ्यादिभिः समभ्यर्च्य मधुपर्कं निवेदयेत्।। 29.169 ।।
ऐश्वर्यफलदां लक्ष्मीं पद्मिनीं पद्ममालिनीम्।
मूलबिम्बान्मखार्चायां बलिबेरे स्मितानने।। 29.170 ।।
सत्कीर्तिदायिनीं कीर्तिं चाम्पेयकुसुमप्रभाम्।
हिरण्यवर्णां जयदां जयां स्नपनकौतुके।। 29.171 ।।
सर्वाश्चर्यकरीं मायां पीताभां तीर्थविग्रहे।
विद्युदाभां स्वापबिम्बे श्रियं धर्मस्वरूपिणीम्।। 29.172 ।।
एवमावाह्य विधिवत् स्नपनं सूक्तया श्रिया।
भूसूक्ताद्यैः कल्पयित्वा स्मरेन्मण्डनमासनम्।। 29.173 ।।
चतुःषष्ट्युपचारैर्वा द्वात्रिंशद्भिरतापि वा।
षोडशैर्वापि संपूज्य हविर्देवनिवेदितम्।। 29.174 ।।
पाचयित्वा पृथग्वापि देव्यै तद्विनिवेदयेत्।
भोज्यान्तं वाथ होमान्तं पूर्ववत् पूजयेच्छ्रियम्।। 29.175 ।।
होमकाले मूलबेरात् पात्रे विद्युल्लताप्रभाम्।
नारायणीं वासुदेवमहिषीं लोकमातरम्।। 29.176 ।।
मणिकङ्कणकेयूरकाञ्चीदामादिभूषणैः।
अलंकृतां श्वेतवस्त्रां वनमालोपशोभिताम्।। 29.177 ।।
ध्यात्वा तस्मात् समावाह्य वह्नौ संपूजयेत् ततः।
संचिन्त्य दहनात्पात्रे तस्मान्मूले नियोजयेत्।। 29.178 ।।
पारतन्त्र्ये विधिरयं स्वातन्त्र्ये तु जगद्धिते।
आचरेन्नित्यपूजायां बलिनित्योत्सवावपि।। 29.179 ।।
लक्ष्मीः-
भगवन् भवदावघ्न! परतन्त्रस्वतन्त्रयोः।
भेदं तन्मखकार्यं च विस्तरेण वदेन्मम।। 29.180 ।।
भगवान्-
आलयस्य समृद्ध्यर्थं वासुदेवस्य मन्दिरे।
वीरलक्ष्मीं प्रतिष्ठाप्य विधिवत् पूज्यते यदि।। 29.181 ।।
परतन्त्रेति तामाहुः कामी कामफलप्रदाम्।
काम्यार्थी चोत्सवं तस्या रक्षाबन्धपुरःसरम्।। 29.182 ।।
चतुःस्थानार्चनं कुर्यान्न ध्वजं न बलिक्रिया।
तीर्थदानं न कुर्वीत मुमुक्षुरखिलं चरेत्।। 29.183 ।।
पुण्यतीर्थतटे वापि रम्ये पर्वतमूर्धनि।
पत्तनग्रामयोर्वापि काम्यार्थी विधिवद्रमे।। 29.184 ।।
मन्दिरं कल्पयित्वाथ तत्र वै स्थापयेच्छ्रियम्।
वदेल्लक्ष्मीं स्वतन्त्रेति तां बुद्ध्या पाञ्चरात्रिकः।। 29.185 ।।
तस्यास्तु बलिदानादि नित्यार्चायां समाचरेत्।
उत्सवे तु ध्वजारोहं बलिदानक्रियामपि।। 29.186 ।।
तीर्थदानादिकं सर्वं काम्यार्थी भक्त एव वा।
कारयेद्धिधीवल्लक्ष्म्याः सर्वसंपत्समृद्धये।। 29.187 ।।
एवं यः पूजयेल्लक्ष्मीं तस्य श्रीरनपायिनी।
अथ प्रिये प्रवक्ष्यामि सुदर्शनसमर्चनम्।। 29.188 ।।
स्वयंव्यक्तस्थले दिव्यक्षेत्रे परमपावने।
तत्क्षेत्ररक्षणार्थाय कामिनामिष्टसिद्धये।। 29.189 ।।
दक्षिणे व्योमयानस्य सदनं चक्ररूपिणः।
आलयस्य बहिर्वापि नदीतीरेऽचलेऽपि वा।। 29.190 ।।
सप्राकारं गर्भगृहं निर्माय विधिवद्रमे।
प्रतिष्ठितं यजेद्विद्वान् त्रिकालं चक्ररूपिणम्।। 29.191 ।।
मर्त्यादिष्वालये देवि ह्यन्तर्मण्डलसंज्ञिते।
अन्तर्हारेऽथवा पूर्वं स्थापितं चक्रमध्यगम्।। 29.192 ।।
विष्णोरालयरक्षार्थं गर्भगेहस्य दक्षिणे।
देवदेव्योरर्चनान्ते गुरुश्चक्रगृहं विशेत्।। 29.193 ।।
स्थलशुद्ध्यादिकं कृत्वा षडर्णं तु ततो न्यसेत्।
सुदर्शनषडर्णस्य गायत्रीच्छन्द ईरितम्।। 29.194 ।।
चक्रराजो देवतास्य रेफो बीजं महेश्वरि।
स्वाहाशक्तिः सहस्रारहुंफड्वर्णानि च क्रमात्।। 29.195 ।।
हस्तयोर्न्यसनं पूर्वं कुर्याद्देहे ततः परम्।
सुदर्शनाय स्वाहान्तो निगमादि यथाक्रमम्।। 29.196 ।।
हृदयादिषु षड्भूमौ न्यसेद्देशिकसत्तमः।
चक्रमध्यस्थितं श्रीरं जपाकुसुमसंनिभम्।। 29.197 ।।
ज्वालाकेशं चक्रधरं द्विहस्तं कुटिलेक्षणम्।
दंष्ट्राकरालवदनं भयस्यापि भयंकरम्।। 29.198 ।।
रक्तवर्णाम्बरधरं किरीटादिविभूषितम्।
प्रणतार्तिहरं ध्यायेत् सहस्रारविराजितम्।। 29.199 ।।
किरीटवनमालादि मुद्राः स्वाङ्गे ततो न्यसेत्।
मूलार्चां हृत्कजे ध्यात्वा जपान्तं मनसा यजेत्।। 29.200 ।।
प्राग्वदर्घ्यादिभिर्भोगैरर्चयेच्च सुदर्शनम्।
महाचक्रं सहस्रारमयुतादित्यवर्चसम्।। 29.201 ।।
ध्यात्वा तत्कर्णिकामध्ये देवं कुङ्कुमसंनिभम्।
ललाटनयनोद्गीर्णज्वालाज्वालितदिङ्मुखम्।। 29.202 ।।
दंष्ट्रानिष्ठ्यूतसंरावाद्भीतराक्षसदानवम्।
रक्तचन्दनलिप्ताङ्गं रक्तबूषाम्बरावृतम्।। 29.203 ।।
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्।
महौजसं महाकायमष्टभिश्शोभितं भुजैः।। 29.204 ।।
पाशाङ्कुशौ च मुसलं चक्रमत्युग्रतेजसम्।
शङ्खं कौमोदकीं चापं शरं चन्द्रार्धसंनिभम्।। 29.205 ।।
दधानमतुलं वीरं संकर्षणभवं विभुम्।
एवं ध्यात्वा मूलबेरे ततस्त्वर्घ्यादिना यजेत्।। 29.206 ।।
ततस्त्वावाहने पात्रे षोडशारं रविप्रभम्।
सूर्यचक्रं स्मरेत् तस्मिन् तीक्ष्णं दंष्ट्रं त्रिलोचनम्।। 29.207 ।।
रक्तजिह्वं करालास्यं भ्रुकुटीकुटिलेक्षणम्।
उग्रपिङ्गलकेशान्तं ज्वालामालाविराजितम्।। 29.208 ।।
रक्ताम्बरधरं रक्तपुष्पमालाभिरुज्ज्वलम्।
ऊर्ध्वज्वालागणालीढकिरीटतटशोभितम्।। 29.209 ।।
माणिक्यमयकेयूरकटकादिविभूषितम्।
श्रीवत्सकौस्तुभोरस्कं दीप्तकुण्डलशोभितम्।। 29.210 ।।
अष्टारं चक्रमत्युग्रं मुसलं चाङ्कुशं तथा।
पद्मं च दक्षिणे भागे चतुर्भिर्बाहुभिर्धृतम्।। 29.211 ।।
दोर्भिर्वामैः शङ्खचापगदाबाणैरलंकृतम्।
निजाट्टहासवित्रस्तपिशाचासुरराक्षसम्।। 29.212 ।।
एवं ध्यात्वा कर्मबिम्बे मन्त्रन्यसनमाचरेत्।
ततः स्नपनबेरे तं त्रिनेत्रं भीमरूपिणम्।
चतुर्हस्तं शंखचक्रपाशाङ्कुशधरं स्मरेत्।। 29.213 ।।
कालचक्रस्थितं देवं बल्यर्चायां विचिन्तयेत्।
यत्र बिम्बे मूलबेरात् ज्वालाचक्रस्थितं विभुम्।। 29.214 ।।
[मखार्चायामङ्कुशारिशङ्खपाशधरं विभुम्।
चतुर्भुजं भीमरूपं कालचक्राधिपं स्मरेत्।
बलिबिम्बे मूलबेरात् ज्वालाचक्राधिदैवतम्।। 29.215 ।।
]
चतुर्भुजं पीवरांसं मुख्याभ्यां वरदाभयम्।
दधानमन्यहस्ताभ्यां शङ्खचक्रधरं स्मरेत्।। 29.216 ।।
पूर्ववत् पूजयेद् विद्वान् भोज्यान्तं मन्त्रपूर्वकम्।
स्वयंव्यक्तादिमर्त्यान्तेष्वालयान्तःप्रतिष्ठितम्।। 29.217 ।।
पूजामात्रं प्रत्यहं स्यात् न होमो न बलिक्रिया।
नित्योत्सवश्च नैव स्यादिति शास्त्रविदो विदुः।। 29.218 ।।
एवमाश्रितबिम्बानां भक्तबिम्बस्य वै रमे।
पूजामात्रं प्रकुर्वीत बहिश्चेदालयाद्धरेः।। 29.219 ।।
तेषां निवेशनं देवि तत्र पूजादिकर्मसु।
बल्यादिसर्वं कुर्वीत तथापि जगतीपतेः।। 29.220 ।।
उत्सवे समुपक्रान्ते रक्षार्थं चक्ररूपिणम्।
वीथिकासु च तेनैव निनयेद्यावदुत्सवम्।। 29.221 ।।
[मर्त्यादिनिर्मिते स्थाने पूजालोपादिके गुरुः।
प्रायश्चित्तं तु कृत्वैव नित्ययागादिकं चरेत्।। 29.222 ।।
स्वयंव्यक्ते च दिव्ये च पूजालोपादिके सति।
पूजायां वर्तमानायां प्रायश्चित्तं समाचरेत्।। 29.223 ।।
स्वयंव्यक्तालये दिव्यतमाख्यं देवकल्पिते।
सैद्धप्रकल्पिते धाम्नि दिव्यमार्षादिकल्पिते।। 29.224 ।।
सात्त्विकं द्विजराजन्यवैश्यैश्चापि प्रकल्पिते।
राजसं पादजैः स्त्रीभिरनुलौमैश्च निर्मिते।। 29.225 ।।
Chapter - 30
+++
+++
।। त्रिंशोध्यायः ।।
श्रीः-
भगवान् पद्मपत्राक्ष सर्वदेवनमस्कृत।
प्रतिष्ठानन्तरं देव नित्याराधनमीरितम्।। 30.1 ।।
तस्मिन् दैवन्दिनः प्रोक्त उत्सवो होम एव च।
महोत्सवाद्युत्सवेषु नित्ययागादिकं गुरुः।। 30.2 ।।
मखाग्नावेव कुर्वीत न तु माहानसानले।
इति प्रोक्तं त्वया नाथ संशयस्तत्र मे ह्यभूत्।। 30.3 ।।
नित्योत्सवान्महत्पूर्व उत्सवो वर्तते नु किम्।
कथं महोत्सवो नाम तत्प्रकारश्च कीदृशः।। 30.4 ।।
कस्मिन् काले च कर्तव्यो दिनसंख्या च कीदृशी।
तत्सर्वं विस्तरेणाद्य साधुसेव्य वदस्व मे।। 30.5 ।।
भगवान्-
अमृताम्भोधिसंसूते मद्वक्षःस्थलवासिनि।
महोत्सवाख्यमुद्दिश्य यद्यत्पृष्टं त्वयानघे।। 30.6 ।।
तत्सर्वं विस्तरेणाद्य वदामि शृणु वल्लभे।
आराधनादियागेभ्य एषेऽतिप्रीतिवर्धनः।। 30.7 ।।
महत्प्रीतिर्येन मम उत्सवेन भविष्यति।
उत्सूते हर्षमिति च तस्मादेष महोत्सवः।। 30.8 ।।
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः।
तद्भेदानिह वक्ष्यामि क्षीराब्धितनये तव।। 30.9 ।।
बिम्बाविर्भावऋक्षे वा प्रतिष्ठातारकेऽपि वा।
तत्तिथौ वा तीर्तयात्रां निश्चित्याङ्कुरपूर्वकम्।। 30.10 ।।
ध्वजमारोप्यते यस्मिन् स तु नित्यो महोत्सवः।
ग्रहणे ग्रहयुद्धे च महोत्पातादिसंभवे।। 30.11 ।।
जीर्णोद्धारे तु देवस्य प्रोक्षणे राजविड्वरे।
गुरौ तु सिंहसंबन्धमखायाते य उत्सवः।। 30.12 ।।
ध्वजारोहणपूर्वस्तु सा हि नौमित्तिकः स्मृतः।
राज्ञो जन्मदिने वापि तत्साम्राज्याभिषेचने।। 30.13 ।।
अर्थकामौ समुद्दिश्य मासर्क्षादिषु वै रमे।
रोहिण्यांच पुनर्वस्योः श्रवणे सार्वमासिके।। 30.14 ।।
ध्वाजारोहणपूर्वस्तु काम्यः सोऽपि महोत्सवः।
महोत्सवः सात्तिवकः स्यात्तीर्थस्तु नवमेऽहनि।। 30.15 ।।
सप्तमे पञ्चमे तीर्थो राजस्तामसः स्मृतः।
नित्यं तु सात्तिवकं प्रोक्तं नैमित्तं राजसं भवेत्।। 30.16 ।।
काम्यः स्यात्तामसः प्रोक्तः त्रिविधः संप्रकीर्तितः।
नैमित्तिकोत्सवे लक्ष्मीं स्वयंव्यक्ते च दैविके।। 30.17 ।।
नवाहं कारयेद् विद्वान् सप्ताहोऽन्यत्र वै रमे।
स्वयंव्यक्तस्य दिव्यस्य ह्युत्सवे समुपस्थिते।। 30.18 ।।
ग्रामालयाश्रयाणां च विष्ण्वादीनां च वै प्रिये।
न कर्तव्योत्सवस्तावद्यावत्तीर्थावसानकम्।। 30.19 ।।
यदि स्यादुत्सवस्तेषां ध्वजारोहणवर्जनम्।
वीथीषु भ्रमणं तेषां स्वयंव्यक्तेन कारयेत्।। 30.20 ।।
बलिप्रदानतीर्थादि न कुर्यात् कमलोद्भवे।
अन्यथा यदि कुर्वीत नश्येद्राष्टं सराजकम्।। 30.21 ।।
ग्रामाश्रयादिदेवानामुक्रान्ते महोत्सवे।
तत्तदावरणेष्वेव कुर्यात्तच्छेषमुत्सवम्।। 30.22 ।।
उत्सवे वर्तमाने तु त्द्वीथीषु वरानने।
नरास्तु मङ्गल कार्यं स्वगृहे नाप्नुयुस्तदा।। 30.23 ।।
उत्सवस्य क्रमं चापि वदामि कमलासने।
उत्सवारम्भदिवसान्मासाद् द्वाविंशतेरपि।। 30.24 ।।
अष्टादशदिनात्पूर्वं सुदिने सुमुहूर्तके।
प्रातः पूजादिकार्याणि कृत्वा देशिकसत्तमः।। 30.25 ।।
पादप्रक्षालनं कृत्वा ह्युपस्पृश्य यथाविधि।
स्वर्णादिपात्रे गन्धं च कदल्यादिफलैर्युतम्।। 30.26 ।।
ताम्बूलमक्षतान् पुष्पं निधाय प्रेष्यमूर्धनि।
ऋगादिवेदघोषैश्च वादित्रैश्छत्रचामरैः।। 30.27 ।।
धाम प्रदक्षिणीकृत्य गच्छेद्भगवतोऽन्तिकम्।
मूर्तिपैः स नमस्कृत्य पात्रं पीठे निधाय च।। 30.28 ।।
अर्घ्यपाद्याचमनीयैः क्रमात्संपूज्य वै गुरुः।
समर्प्य गन्धमाल्यं च फलादीनि निवेद्य च।। 30.29 ।।
वासुदेव जगद्योने सर्वलोकैकपूजित।
जगतां क्षेमलाभाय महोत्सवमनुत्तमम्।। 30.30 ।।
कर्तुमिच्छामि देवेश तदर्थं वाहनादिकान्।
यागशालामालयं च शुद्धीकर्तुं तथाधुना।। 30.31 ।।
उत्सवार्थं प्रपां चैव कारयिष्यामि वै हरे।
अनुज्ञां देहि मे देव शरणागतवत्सल।। 30.32 ।।
इति संप्रार्थ्य देवेशं प्राप्यानुज्ञां जगद्गुरोः।
बहिरागत्य चाचार्यः वाद्यघोषपुरःसरम्।। 30.33 ।।
प्रतिष्ठितः पुरा देवी वाहनादिषु पक्षिराट्।
तमुद्वास्य हृदि ध्यात्वा मूले तु गरुडे नयेत्।। 30.34 ।।
शिल्पिनो रथकारांश्च रथादींश्च यथाक्रमम्।
समीकर्तुं नियुज्याथ सुमुर्हूर्ते सुलग्नके।। 30.35 ।।
प्रपास्तम्भं त्वीशकोणे सर्वालंकारसंयुतम्।
वेदवादित्रघोषैश्च स्थापयेद्बहिरालयात्।। 30.36 ।।
ततो भगवतः शेषचन्दनादीनि वै गुरुः।
वैष्णवेभ्यश्च सर्वेभ्यः शिल्पिभ्यश्चापि दापयेत्।
रथादिवाहनान् सर्वान् सम्यक् कर्तुं नियोजयेत्।। 30.37 ।।
Chapter - 31
+++
+++
।। एकत्रिंशोऽध्यायः ।।
अथोत्सवारम्भदिनात् पूर्वस्मिन्नवमेऽहनि।
षष्ठे वा स्यात्तृतीय वा पूर्वस्मिन् दिवसेऽपि वा।। 31.1 ।।
रजन्यामेव कुर्वीत बीजावापं गुरूत्तमः।
अङ्कुरार्पणकार्मार्थं मृत्संग्रहणमाचरेत्।। 31.2 ।।
मृत्संग्रहदिने प्रातः ऋत्विग्भिः सह देशिकः।
महोत्सवस्य दीक्षार्थं स्नायाद्वपनपूर्वकम्।। 31.3 ।।
शुद्धवस्तत्रैर्यज्ञसूत्रैरूर्ध्वपुण्ड्रैरलंकृतः।
कटकाङ्गदकेयूरैर्गन्धमाल्यैरलंकृतः।। 31.4 ।।
भगवद्गेहमासाद्य नित्यपूजामुपक्रमन्।
चण्डादिद्वारपालांश्च भक्तबिम्बांश्च वै गुरुः।। 31.5 ।।
आलयाश्रितमूर्तीश्च साधकैः पूजयेत्ततः।
स्वर्णादिपात्रे ताम्बूलनालिकेराक्षतादिकान्।। 31.6 ।।
आदाय विष्वक्सेनस्य संनिधिं प्राप्य देशिकः।
संपूज्य विष्वक्सेनं तं प्रार्थयेन्मृद्ग्रहाय च।। 31.7 ।।
देव सूत्रवतीनाथ सर्वदेवनमस्कृत।
उपक्रान्तो मया ह्यद्य वासुदेवमहोत्सवः।। 31.8 ।।
वनिर्विघ्नसिद्धये तस्य वासुदेवाभ्यनुज्ञया।
सेनाधिप भवानद्य मृत्संग्रहणकर्मणि।। 31.9 ।।
आगच्छतु हरेर्धाम ह्नुज्ञार्थं जगद्गुरोः।
इति विज्ञाप्य सेनान्यं यानमारोप्य देशिकः।। 31.10 ।।
सुमुहूर्ते गर्भगेहं गत्वा देवस्य संनिधौ।
स्थापयित्वा फलादीनि नमस्कृत्य यथाविधि।। 31.11 ।।
ततो गुरुवरः सर्वान् वैष्णवान् पाञ्चरात्रिकान्।
यतीन् वेदविदो विप्रान् ज्ञानिनो ब्रह्मवादिनः।। 31.12 ।।
महान्तो देवदेवस्य समारब्धो महोत्सवः।
निर्विघ्नेन समाप्त्यर्थं यावत्तीर्थावसानकम्।। 31.13 ।।
कर्मकाले मया यूयं स्थित्वा यागमतन्द्रिताः।
समाप्य यज्ञकार्याणि प्राप्यानुज्ञां ततो हरेः।। 31.14 ।।
गन्तुमर्हसि सर्वज्ञा गृह्णीत प्रार्थनां मम।
इत्यभ्यर्थ्य ततस्तेभ्यः अनुज्ञां प्रतिगृह्य च।। 31.15 ।।
ततः स्वदेहशुद्ध्यर्थमृत्विक्साधकशुद्धये।
पूजोपकरणानां च पुण्याहं वाचयेद्रमे।। 31.16 ।।
तज्जलैरात्मनः शुद्धिमन्येषामपि कारयेत्।
स्वयं द्रव्याणि सर्वाणि प्रोक्षयेत्पूजयेद्धरिम्।। 31.17 ।।
निवेद्य फलताम्बूलं नीराजनमथाचरेत्।
नमस्कृत्य ततो भूमौ कृताञ्जलिपुटो गुरुः।। 31.18 ।।
अतृप्तामृतलोकेश पूर्णकाम रमापते।
उत्सवोऽयं मयारब्धो बालिशेन हरे तव।। 31.19 ।।
तत्पूर्तये रमाध्यक्ष सेनेशं संदिश प्रभो।
इत्यनुज्ञां हरेः प्राप्य सेनेशं प्रार्थयेत्ततः।। 31.20 ।।
यज्ञसंरक्षणार्थाय हरिणा ज्ञापितो भवान्।
मृत्संग्रहणमारभ्य ह्युत्सवावभृथावधि।। 31.21 ।।
सेनापते मया सार्धं सर्वकार्याणि साधय।
आगच्छ मृदमानेमुत्सवाङ्कुरकर्मणे।। 31.22 ।।
इति संप्रार्थ्य विघ्नेशं मालां भगवतो गुरुः।
विष्वक्सेनस्य शिरसि पादुकामपि धारयेत्।। 31.23 ।।
सर्वोपकरणैः सार्धं सर्ववादित्रनिःस्वनैः।
ऋगादिवेदघोषैश्च प्राचीं सोमस्य वा दिशम्।। 31.24 ।।
विष्वक्सेनं प्रापयित्वा प्रपायां तत्र वै रमे।
पुण्याहवारिणा प्रोक्ष्य स्थापयेत्सैन्यनायकम्।। 31.25 ।।
पुरतस्तस्य वै भूमावीशाने न्यस्तमौलिकाम्।
नेर्ऋते न्यस्तपादान्तामूर्ध्ववक्त्रां कृताञ्जलिम्।। 31.26 ।।
एवं विलिख्य वसुधां धान्यपीठं ततो गुरुः।
शिरः प्रदेशे तस्यास्तु दक्षिणे वा प्रकल्पयेत्।। 31.27 ।।
शुद्धं खनित्रं तस्मिंस्तु दर्भाद्यैः समलंकृतम्।
स्थापयित्वा परिस्तीर्य धान्यपीठं भुवं तथा।। 31.28 ।।
वस्त्रादिभिरलंकृत्य भूषणैश्चापि भूषयेत्।
सप्तदर्भकृतं कूर्चं तालमानसमन्वितम्।। 31.29 ।।
धराया हृदि विन्यस्य खनित्रेऽपि च कूर्चकम्।
पुण्याहवारिणा प्रोक्ष्य भूमिर्भूम्नोति मन्त्रतः।। 31.30 ।।
अभिन्त्र्य ततस्तस्याः खनित्रस्य च वै गुरुः।
पीठं प्रकल्पयेद्देवि प्रार्थयेत्तत्र वै धराम्।। 31.31 ।।
वासुदेवप्रिये देवि तन्महोत्सवसिद्धये।
मृत्स्नायां संनिधत्स्वात्र तदुत्सवहिते शुभे।। 31.32 ।।
इत्यावाह्यार्घ्यपाद्याद्यैरभ्यर्च्य तदनन्तरम्।
क्रोडावतारभूम्याप्तहिरण्याक्षवधोद्यत।। 31.33 ।।
उत्सवार्थं भगवतो मृत्संग्रहणकर्मणि।
संनिधत्स्वाचिराद्देव लोकानां क्षेमहेतवे।। 31.34 ।।
इत्यावाह्यार्घ्यपाद्याद्यैरर्चयेत् क्रोडरूपिणम्।
माषापूपं निवेद्याथ तयोर्नीराजनं चरेत्।। 31.35 ।।
गुरुः खनित्रमादाय गायत्रीं क्रोडरूपिणः।
उच्चरन् वसुधायास्तु मुखबाहुस्तनाङ्घ्रिषु।। 31.36 ।।
खनित्रान्मृदमादाय गायत्र्या विष्णुपूर्वया।
लोहजे वेत्रजे वाथ निक्षिपेत् तां मृदं रमे।। 31.37 ।।
वालुकां गोकरीषं च तस्मात् संपादयेदगुरुः।
पात्रत्रयं नूतनेन वस्त्रेण पिदधात् पृथक्।। 31.38 ।।
स्यन्दने वा गजस्कन्धे परिचारकमूर्धनि।
निधाय स च वाद्यानां वेदानां ध्वनिभिर्युतः।। 31.39 ।।
धाम प्रदक्षिणीकृत्य नयेन्मण्डपमब्जजे।
तां मृदं मण्डपे न्यस्य वीथीः सर्वाः परिक्रियात्।। 31.40 ।।
नियोजयेत् कर्मकारान् शुद्धीकर्तुं च वीथिकाः।
ते नु निम्नोन्नताः पद्याः समीकृत्य च पांसुभिः।। 31.41 ।।
शोधयेद्गोमयाम्भोभिर्गन्धयेद् गन्धवारिणा।
चन्दनागरुधूपैश्च धूपयेत् सर्ववीथिकाः।। 31.42 ।।
प्रपायां सर्वतो भद्रे वितानाद्यैरलंक्रियात्।
विविधैश्चित्रितैर्वस्त्रैर्मालाभिश्चापि वन्दनैः।। 31.43 ।।
दीपस्तम्भान् सदीपांश्च सर्वतः स्थापयेत्ततः।
शोभार्थं सर्ववीथीषु पार्श्वयोरुभयोरपि।। 31.44 ।।
पात्रेषु पालिकाःस्थाप्याः प्रतिस्तम्भं च वै रमे।
रम्भास्तम्भान् फलैर्युक्तान् वस्त्रमाल्यैश्च वेष्टितान्।। 31.45 ।।
नालिकेराणि पूगीनि फलानि पनसान्यपि।
लम्बयेन्मण्डपस्योत्ध्वे पानीयानि च दापयेत्।। 31.46 ।।
वीथिकासु च सर्वासु तथा सद्मसु सर्वतः।
गोपुराणां च कुम्भेषु मण्डपेषु पताकिकाः।। 31.47 ।।
बन्धयेच्चित्रवर्णाश्च पक्षिराजविचित्रिताः।
देशाद्देशादागतानां मद्भक्तानां वरानने।। 31.48 ।।
तृतीयावरणे वापि चतुर्थावरणेऽपि वा।
शयनार्थं भोजनाय पानीयार्थं सुखार्थकम्।। 31.49 ।।
पचनार्थं च विविधाः शालाः स्युः सुमनोहराः।
वैद्यशालाश्च कर्तव्याः समर्थैः सचिकित्सकैः।। 31.50 ।।
यजमानः प्रतिदिनं पश्यन् सर्वांश्च तोषयेत्।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा।। 31.51 ।।
विस्तारं तु द्वादशभिरायामं दशभिः करैः।
सप्तभिर्वा पालिकानां मण्डपं परिकल्पयेत्।। 31.52 ।।
चतुर्दिक्षु चतुर्द्वारं गवाक्षैः समलंकृतम्।
तन्मध्ये पालिकादीनां स्थापने वीथिवर्जिता।। 31.53 ।।
हस्तोन्नता वेदिभूमिः शोधयेत्पुण्यवारिणा।
पञ्चगव्यैश्च तदनु सुधाचूर्णैरलंक्रियात्।। 31.54 ।।
वेदिकासु च सर्वासु व्रीहिभिः स्थण्डिलानि च।
पद्मानि विलिखेत्तेषु मन्त्रोच्चारणपूर्वकम्।। 31.55 ।।
पालिका घटिकाश्चैव शरावाः स्थापयेत् गुरुः।
प्रतीच्यां सोमकुम्भं च करकं चापि वै रमे।। 31.56 ।।
सोमकुम्भस्य परितः उपकुम्भाष्टकं न्यसेत्।
द्वारतोरणकुम्भादीनर्घ्याद्यैः पूजयेत् पुरा।। 31.57 ।।
पालिकादिषु सर्वासु सोमकुम्भे तथैव च।
उपकुम्भेषु पद्मानं पीठमाकल्प्य चाक्षतैः।। 31.58 ।।
संकर्षणांशजं विष्णुं पूजयेत् पालिकासु वै।
अनिरुद्धांशसंभूतं ब्रह्माणं घटिकासु च।। 31.59 ।।
प्रद्युम्नांशजं शर्वं शरावेषु च वै स्मरेत्।
प्रद्युम्नांशात्समुद्भूतं सोमकुम्भे निशाकरम्।। 31.60 ।।
इन्द्रादीनुपकुम्भेषु पूजयेत् कमलासने।
एतेषां रक्षणार्थाय करके च सुदर्शनम्।। 31.61 ।।
नीवारिदिषु धान्येषु केशवादीन् समर्चयेत्।
सर्वार्थपालिकानां तु क्रमात् षोडके गुरुः।। 31.62 ।।
वासुदेवादि चतुरो दाश द्वौ केशवादिकान्।
विष्ण्वादीनष्टके देवि जनार्दनपुरोगमान्।। 31.63 ।।
पूजनं चतुर्षु प्रोक्तं पायसान्नं निवेदयेत्।
प्रत्येकं नववस्त्रेण पिधाय च गुरूत्तमः।। 31.64 ।।
घटिकानां पूर्वभागे कुण्डे वा स्थण्डिलेऽपि वा।
पीठमाकल्प्य पाद्यान्तं लक्ष्मीशं तत्र पूजयेत्।। 31.65 ।।
भगवन् पुण्डरीकाक्ष यात्रोत्सवनिमित्ततः।
ध्वजार्थाङ्कुरसिद्ध्यर्थमग्निमुत्पादयामि भोः।। 31.66 ।।
इति विज्ञाप्य तत्राग्निमुत्पाद्य जुहुयात्ततः।
भगवन्तं ततः सोमं हुत्वा देशिकसत्तमः।। 31.67 ।।
बीजावापं ततः कुर्यात् संपाताज्यं च निक्षिपेत्।
उत्सवार्थं यागगेहं द्वितीयावरणादिषु।। 31.68 ।।
अवकाशो यत्र वा स्यात्तत्र स्थानं प्रकल्पयेत्।
तन्मण्डपस्य विस्तारमायामं वेदिकल्पनम्।। 31.69 ।।
कुण्डानि शृणु मानेन वदामि कमलेक्षणे।
चतुर्दशकरैर्मानैर्विस्तारायामसंमिताम्।। 31.70 ।।
पञ्चहस्तसमां वेदिं हस्तोच्छ्रायां तु मध्यतः।
कुर्यात् समेखलां तस्याः परितः कुण्डकल्पनम्।। 31.71 ।।
चतुरश्रं पौरुहूत्यां दक्षिणस्यां धनु रमे।
चक्रकुण्डं तु वारुण्यां चान्द्रमस्यां त्रिकोणकम्।। 31.72 ।।
इत्थं कुण्डानि शिल्पज्ञैः कल्पयित्वा ततः परम्।
यागोपकरणार्थं च हस्तद्वयसमायताम्।। 31.73 ।।
वेदिं प्रकल्पयेद् धीमान् वह्निकोणेऽथ नैर्ऋते।
यागबिम्बस्थापनाय वायव्ये मण्डलाय च।। 31.74 ।।
ईशकोणे पालिकादिस्थापने कल्पयेच्च ताम्।
एककुण्डविधाने तु वेद्याः प्राचीनभूतले।। 31.75 ।।
चतुरश्रं भवेत् कुण्डं पात्रवेदिं तु दक्षिणे।
प्रतीच्यां मखबिम्बस्य कौबेर्यां मण्डलस्य च।। 31.76 ।।
ऐशान्यां पालिकार्थाय कल्पयेद् वेदिकां गुरुः।
शिलादिमण्डपे देवि यदि कुण्डानि कल्पयेत्।। 31.77 ।।
यथायोगं प्रकुर्वीत निम्नमन्तस्तु तत्र वै।
एवं वेदीश्च कुण्डानि शास्त्रोक्तेनैव वर्त्मना।। 31.78 ।।
ततो देवालयं सर्वं सलिलैः शोधयेत् पुरा।
सुधालेपध्वजोच्छ्रायांस्तोरणान् दर्भमालिकाः।। 31.79 ।।
कुर्यात् सर्वत्र सत्कारान् कदलीस्तम्भसंयुतान्।
अलंकृतासु वीथीषु प्रसादे च तथा कृते।। 31.80 ।।
ततो यात्रोपकरणैर्यानमारोप्य सेनपम्।
वादित्रवेदघोषैश्च प्रादक्षिण्येन वै गुरुः।। 31.81 ।।
वीथीः प्रदर्शयेत्तस्मै प्रासादं चापि सर्वतः।
अर्घ्यादिभिस्ततोऽभ्यर्च्य निनयेत्तस्य तं गृहम्।। 31.82 ।।
Chapter - 32
+++
+++
।। द्वात्रिंशोऽध्यायः ।।
ततः परस्मिन् दिवसे नित्यकर्म समाप्य च।
ऋत्विग्भिः साधकाचार्यैर्बोधकैश्च समन्वितः।। 32.1 ।।
प्रविशेदालयं श्रीमद्देवं संपूजयेत्ततः।
गरुत्न्तं सेनपं च द्वाःस्थानप्यालयाश्रितान्।। 32.2 ।।
पालिकाद्वारपूजां च पालिकादिसमर्चनम्।
ऋत्विग्भिः साधयेत् सर्वं ततो गुरुरतन्द्रितः।। 32.3 ।।
दुकूलं पट्टजं वापि कार्पासजमथापि वा।
ध्वजारोहाय सुदृढं स्निग्धं लक्षणसंयुतम्।। 32.4 ।।
नीलरोमादिरहितं श्वेतं वस्त्रमथापि वा।
आयतं पञ्चदशभिर्दशभिः सप्तमिस्तु वा।। 32.5 ।।
मूलबेरसमं वापि गर्भद्वारायतं तु वा।
विस्तारं पञ्चभिर्हस्तैस्त्रिभिर्वापि वरानने।। 32.6 ।।
पक्षिराट्-लेखयोग्यस्य पटस्य परिमाणकम्।
आदाय पूर्वं तन्मध्याच्चन्दनक्षोदवारिणा।। 32.7 ।।
सूत्रेण मध्यरेखायाः कोणात्कोणं च मध्यमे।
आस्फालयेन्मध्यदेशाद्यावन्मस्तकपादयोः।। 32.8 ।।
पक्षयोरवशिष्टं यत् परिहार्यं तु शिल्पिना।
गरुडं गमनोद्यक्तं हेमाङ्गं कुटिलेक्षणम्।। 32.9 ।।
नीलनासाग्रसंयुक्तं सर्वावयवसुन्दरम्।
बद्धाञ्जलिपुटं सौम्यं शङ्खचक्रधरं विभुम्।। 32.10 ।।
ललाटे न्यस्ततिलकं पक्षविक्षपणान्वितम्।
सर्वाभरणसंयुक्तं श्वेतवर्णं चतुर्भुजम्।। 32.11 ।।
करण्डिकामकुटिनं श्वेतवस्त्रोपशोभितम्।
आकुञ्चितं सव्यपादमपरं पृष्ठतः स्थितम्।। 32.12 ।।
मौलौ मालायितं नागं शङ्खं तु तुहिनप्रभम्।
पद्मं च दक्षिणे कर्णे शोणाभं कुण्डलाकृतिम्।। 32.13 ।।
महापद्मं पिङ्गलाभं वामकर्णस्य कुण्डलम्।
मेघाभं गुलिकं कण्ठे कण्ठाभरणरूपिणम्।। 32.14 ।।
रक्ताभं वासुकं भीमं ब्रह्मसूत्रोपशोभितम्।
कार्कोटकं धूम्रनिभं हाररूपिणमब्जजे।। 32.15 ।।
तक्षकं पीतवर्णाभं कटिसूत्रोपशोभितम्।
अनन्तं क्षौमसदृशं कटकं दक्षिणे करे।। 32.16 ।।
वामे करे महाश्वेतं विलिखेत् कटकायितम्।
परितः शङ्खचक्रं च गदाखड्गौ तथा धनुः।। 32.17 ।।
तार्क्ष्यस्य सिरसि छत्रं पार्श्वयोश्चामरावपि।
दीपस्तम्भौ पादपार्श्वे पालिकाः साङ्कुरास्तथा।। 32.18 ।।
एवं लिखेत् पञ्चवर्णैर्देशिकः शिल्पिनोऽपि वा।
शिल्पिनं तोषयेत्तस्मात् पटमादाय देशिकः।। 32.19 ।।
शिबिकायां समारोप्य वाद्यघोषपुरःसरम्।
धाम प्रदक्षिणीकृत्य प्रतिष्ठामण्डपं नयेत्।। 32.20 ।।
वास्तुशान्तिं ततः कुर्यात् ग्रामादीनां विशुद्धये।
धान्यादिकल्पिते पीठे पटं तत्र प्रसारयेत्।। 32.21 ।।
पटं पुण्याहसलिलैः प्रोक्षयेन्मण्डपादिकान्।
द्वारादिदेवान् संपूज्य कुण्डे वा स्थण्डिलेऽपि वा।। 32.22 ।।
भद्रासनं कल्पयित्वा लक्ष्मीनारायणं विभुम्।
संपूज्य विधिवद्देवं प्रार्थज्जलजोद्भवे।। 32.23 ।।
लक्ष्मीपते जगन्नाथ महोत्सवसमृद्धये।
ध्वजारोहणकार्याय पटेऽस्मिन् पञ्चवर्णकैः।। 32.24 ।।
लिखितं गरुडं देव सर्वदोषप्रशान्तये।
शीलताभ्यां च नेत्राभ्यां पश्य त्वं परमेश्वर।। 32.25 ।।
तार्क्ष्यप्रतिष्ठाकर्माङ्गमग्नि मुत्पादयामि भोः।
इति विज्ञाप्य वै कुण्डं तयोः सङ्गं विचिन्तयेत्।। 32.26 ।।
तज्जातं वैष्णवाग्निं तं ध्यायेद्देशिकसत्तमः।
वासुदेवाज्ञाप्य वै गुण्डं तयोः सङ्गं विचिन्तयेत्।। 32.27 ।।
तार्क्ष्यस्य कौतुकं चैव छायायामधिवासनम्।
पञ्चभिः कलशैश्चैव स्नपनं दर्पणे भवेत्।। 32.28 ।।
तार्क्ष्यस्य पन्नगानां च नयनोन्मीलनं चरेत्।
धान्यादीन् दर्शयित्वाथ शय्यायां शाययेत् पटम्।। 32.29 ।।
स्वदेहे तार्क्ष्यमन्त्रेण न्यासं कुर्याद्विचक्षणः।
क्षिपेदष्टोत्तरशतं प्रणवाद्यन्तसंयुतम्।। 32.30 ।।
जप्त्वा गन्धजलैः पञ्च कलशान् पूरयेद्रमे।
दान्यपीठे स्थापयित्वा स्वलंकृत्य यथाविधि।। 32.31 ।।
पीठमाकल्प्य कुम्भेषु विहगांस्तेषु पूजयेत्।
पुष्पाञ्जलिधरो भूत्वा प्रार्थयेद्विहगाधिपम्।। 32.32 ।।
वासुदेवात्समुत्पन्न पक्षीन्द्र कनकप्रभ।
उत्सवार्थं भगवतः कुम्भेऽस्मिन् संनिधिं कुरु।। 32.33 ।।
इति संप्रार्थ्य हृदयात् कुम्भे तार्क्ष्यं विचिन्तयेत्।
आवाहनादिषणमुद्रां प्रदर्श्यार्ध्यादिभिर्यजेत्।। 32.34 ।।
वासुदेवांशसंभूत सत्समूर्ते तटित्प्रभ।
अपमृत्युजयाय त्वं कुम्भेऽस्मिन् संनिधिं कुरु।। 32.35 ।।
संकर्षणांशज स्वामिन् द्विजानां ज्ञानवृद्धये।
सुपर्णागच्छ कुम्भेऽस्मिन् संनिधिं स्फटिकप्रभ।। 32.36 ।।
प्रद्युम्नस्यांशसंभूत नृपाणां बलवृद्धये।
कुम्भेऽस्मिन् कुरु सानिध्यं गरुड त्वं तटित्प्रभ।। 32.37 ।।
अनिरुद्धात् समुत्पन्न वैश्यानामर्थसिद्धये।
तार्क्ष्य तारानिभ स्वामिन् कुम्भेऽस्मिन् संनिधिं कुरु।। 32.38 ।।
आग्नेयादिषु कोणेषु कुम्भेष्वावाह्य यत्नतः।
आवाहनादिषण्मुद्राः सपर्यां च ततश्चरेत्।। 32.39 ।।
भोज्यासनं ततो दत्वा मोदकादीन् निवेदयेत्।
अग्निं संतर्प्य विधिवत् तत्त्वहोमं समाचरेत्।। 32.40 ।।
संपाताज्यं समादाय पटे कूर्चेन विन्यसेत्।
वह्निमध्ये योगपीठं संकल्प्य विधिवद् गुरुः।। 32.41 ।।
विहगेन्द्रस्य मन्त्रेण हृदयादवतारयेत्।
आवाहनादिषण्मुद्रां दर्शयेत् कमलासने।। 32.42 ।।
मन्त्रासनादिभोज्यान्तमाज्येन जुहुयात्ततः।
चरुं पुरुषसूक्तेन जुहुयात् षोडशाहुतीः।। 32.43 ।।
विहगाधिपगायत्र्या घृतेनाष्टोत्तरं शतम्।
तत्संख्यया समिद्भिश्च पलाशाश्वत्थखादिरैः।। 32.44 ।।
बिल्वैश्च जुहुयादाज्यैः पुनरष्टोत्तरं शतम्।
संपाताज्यं गृहीत्वा तु तार्क्ष्यगायत्रिया ततः।। 32.45 ।।
न्यसेत् सर्वेषु कुम्भेषु पटे च गुरुसत्तमः।
ततः पूर्णाहुतिं हुत्वा कुण्डात् विष्णुरथं रमे।। 32.46 ।।
उद्वास्य कुम्भात्तदनु सत्यादीन् विसृजेत्ततः।
न्यूनाधिक्योपशान्त्यर्थं शान्तिहोमं समाचरेत्।। 32.47 ।।
कुण्डादग्निं समुद्वास्य शर्करान्नं निवेदयेत्।
कुमुदादिबलिं दद्यात् वैनतेयस्य वै मनुम्।
जपन् रात्रिं जागरेण नयेन्नियममास्थितः।। 32.48 ।।
Chapter - 33
+++
+++
।। त्रयस्त्रिंशोऽध्यायः ।।
ततः प्रभाते विमले साधकैः सह देशिकः।
स्नानादिनित्यकर्माणि कृत्वा धाम विशेद्रमे।। 33.1 ।।
चन्दनश्चागरुर्जातिः ककुभश्चम्पकः शमी।
खादिरः सारबिल्वश्च केसरः सप्तपर्णकः।। 33.2 ।।
वरुणस्तिलकश्चैव निम्बार्जुनशमीरुहः।
अन्तर्बहिश्च साराः स्युरेते वृक्षा जलोद्भवे।। 33.3 ।।
क्रमुको नालिकेरश्च तालहिन्तालकौ तथा।
वेणुश्चैते बहिःसारास्तादत्वे कल्पयेद् गुरुः।। 33.4 ।।
उक्तेषु चान्तःसारेषु स्फुटितादिविवर्जितम्।
एकं वृक्षं मन्त्रवच्च शाश्वतस्तम्भकल्पने।। 33.5 ।।
गृह्णीयाच्छततालं स्यात् मुख्यं मध्यमकल्पने।
अशीतितालमधमं षष्टितालं प्रकीर्तितम्।। 33.6 ।।
सर्वं मानाङ्गुलेनापि मानान्तरवशेन वा।
विमानोच्छ्रायमथवा तत्कण्ठोच्छ्रायमेव वा।। 33.7 ।।
गोपुरद्वारमानं वा यथाशक्ति प्रकल्पयेत्।
षोडशाश्रं ध्वजस्तम्भमष्टाश्रं चतुरश्रकम्।। 33.8 ।।
वृत्ते वा कल्पयेद्धीमान् शास्त्रोक्तेनैव वर्त्मना।
चतुर्धा विभजेत् स्तम्भं भागमाद्यं विसृज्य च।। 33.9 ।।
त्रिभागं पञ्चधा कृत्वा गृह्णीयादन्तिमं ततः।
तं चापि पञ्चधा भङ्क्त्वा तेष्वाद्यं कमलं भवेत्।। 33.10 ।।
अन्तिमं स्तूपिकां कुर्यान्मध्यमत्रितयेषु वै।
अन्त्यभागसमायामं सार्धतालं सुविस्तृतम्।। 33.11 ।।
ध्वजकीलसमोपेतं क्षुद्रघण्टाविराजितम्।
फलकत्रतयमेतेषु भागेषु प्रोथयेद्रमे।। 33.12 ।।
फलकानां मध्यभागे चान्त्यभागे च कीलकम्।
सीसेन कवचीकृत्य स्तम्भस्याद्यं वरानने।। 33.13 ।।
अवशिष्टत्रिभागं तु स्वर्णैर्वा रजतेन वा।
ताम्रैर्वा पैत्तलैर्वापि छादयेत् कवचैर्यथा।। 33.14 ।।
एवं कृत्वा ध्वजस्तम्भं बलिपीठस्य वै रमे।
पश्चाद्वा पुरतो वापि स्तम्भार्थं खातयेद् भुवम्।। 33.15 ।।
सप्त वा पञ्च वा हस्तानथवा त्रीन् सविस्तरम्।
इष्टकाभिः शिलाभिर्वा यावद्भूमेस्तु साम्यता।। 33.16 ।।
ध्वजावटं परित्यज्य परितो बन्धयेद्रमे।
ततस्तु परितो भूमेरुपपीठं प्रकल्पयेत्।। 33.17 ।।
तालमानं तु परितो हस्तमानसमुच्छ्रिताम्।
चतुरश्रां ततो वेदिं कल्पयेच्च ततः परम्।। 33.18 ।।
चतुर्हस्तां द्विहस्तां वा चित्रबिम्बादिभिर्युताम्।
वेदिमायामतोच्छ्रायामन्ते पद्मसमन्विताम्।। 33.19 ।।
अलंकृतामुपानाद्यैः सोपानैश्चापि शोभिताम्।
शिल्पिभिः कारयित्वेत्थं ध्वजस्तम्भस्य पीठिकाम्।। 33.20 ।।
पुण्याहसलिलैः प्रोक्ष्य पीठगर्तेषु वै पुरा।
रत्नादिसर्ववस्तूनि गायत्र्या विष्णुपूर्वया।। 33.21 ।।
निक्षिप्य साधकैः सार्धमृत्विग्भिर्वैष्णवैः सह।
समुच्चरंस्तार्क्ष्यमन्त्रमुच्चरद्भिश्च साधकैः।। 33.22 ।।
वेदघोषैर्वाद्यघोषैः स्तम्भमुन्नम्य देशिकः।
मूलार्चाभिमुखं स्तम्भं स्थापयित्वा च वालुकैः।। 33.23 ।।
पूरयित्वा शिल्पिवरैः सम्यक् कुर्यात्सुधादिभिः।
दर्भमालादिभिर्वस्त्रैः प्रादक्षिण्येन वेष्टयेत्।। 33.24 ।।
गर्भमन्दिरमासाद्य नित्यपूजां यथाविधि।
होमान्तं च ततः कृत्वा मूहूर्ते शोभने गुरुः।। 33.25 ।।
ताम्बूलफलपुष्पाद्यैर्हेमसूत्रसमन्वितम्।
स्वर्णादिपटलं गृह्य ऋत्विग्भिर्दीक्षितैः सह।। 33.26 ।।
धाम प्रदक्षिणीकृत्य वाद्यघोषादिभिः सह।
गर्भमन्दिरमासाद्य धान्यपीठे निधाय च।। 33.27 ।।
पूजाद्रव्याणि सर्वाणि प्रोक्षयेत् पुण्यवारिणा।
महाराजतसूत्राणि शोधयेच्छोषणादिभिः।। 33.28 ।।
रजनीचूर्णसंयुक्तकुङ्कुमस्य च कर्दमैः।
चन्दनस्य रसेनापि अनुलिम्पेत्तथा रमे।। 33.29 ।।
तन्तूत्थान्यपि सूत्राणि तथाकृत्वा गुरूत्तमः।
स्वर्णादिपात्रे निक्षिप्य दक्षिणेन करेण वै।। 33.30 ।।
अपराजितमन्त्रेण रक्षासूत्राणि वै स्पृशन्।
सौदर्शिन्या च गायत्र्या सप्तवारं जपेत्सुधीः।। 33.31 ।।
सूत्रेषु तेषु शुद्धेषु श्रियं संप्रार्थयेद् गुरुः।
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनि।। 33.32 ।।
भगवद्वासुदेवस्य भवत्याश्चोत्सवाय वै।
सूत्रेषु प्रार्थयामि त्वां संनिधत्स्व जगद्धिते।। 33.33 ।।
इति संप्रार्थ्य वै लक्ष्मीं ध्रुवबेरोरसि स्थितात्।
श्रीवत्साच्छ्रियमावाह्य रक्षासूत्रेषु पूजयेत्।। 33.34 ।।
ततः पुष्पाञ्जलिर्भूत्वा प्रार्थयेन्मूलकौतुकम्।
वासुदेव जगद्योने महोत्सवमनुत्तमम्।। 33.35 ।।
तवाज्ञया करोम्यद्य करे मङ्गलकौतुकम्।
बन्धयामि मयि प्रीत्या गृहाण कमलापते।। 33.36 ।।
कर्मोत्सवादिबिम्बानां सांनिध्यं कर्तुमर्हसि।
इति विज्ञाप्य मूलार्चां देवमर्घ्यादिना यजेत्।। 33.37 ।।
आवाहनक्रमं वक्ष्ये शृणु पङ्कजमालिनि।
ब्रह्मादिदेवताध्यक्षसर्गस्थित्यन्तकारक।। 33.38 ।।
सांनिध्यं कुरु बिम्बेऽस्मिन्नुत्सवावभृथावधि।
आवाह्यैवं कर्मबिम्बे सपर्यां परिकल्पयेत्।। 33.39 ।।
ततो बिम्बादुत्सवार्थे बिम्बे संप्रार्थयेद्धरिम्।
चतुःस्थानार्चनार्थाय बिम्बेऽस्मिन् संनिधिं कुरु।। 33.40 ।।
इति संप्रार्थ्य लक्ष्मीशमर्घ्यादीनि च कल्पयेत्।
पूर्णस्तिमितषाड्गुण्यपुण्डरीकनिभेक्षण।। 33.41 ।।
बल्यर्चायां संनिधत्स्व बलिकर्मप्रक्लृप्तये।
एवं बिम्बेषु चावाह्य क्रमात्पूजां च कल्पयेत्।। 33.42 ।।
निवेद्य पायसान्नानि भक्ष्याणि विविधानि च।
भगवन् पुण्डरीकाक्ष शरणागतवत्सल।। 33.43 ।।
रक्षासूत्रं गृहाण त्वं मखाराधनपूर्तये।
इति संप्रार्थ्य वै सूत्रं पात्रादादाय देशिकः।। 33.44 ।।
अङ्गुष्ठानामितकाभ्यां च गृहीत्वा हस्तयोद्वयोः।
विश्वेत्तातेति मन्त्रेण मूलबेरस्य दक्षिणे।। 33.45 ।।
हस्ते बद्ध्वा जपेन्मन्त्रमस्तं तु दशसंख्यया।
एवं कर्मादिबिम्बानां रक्षासूत्रं च बन्धयेत्।। 33.46 ।।
श्रियादीनां वामहस्ते तु बन्धयेत्।
कौतुकं हेमसूत्राद्यं दक्षिणे स्वस्य वै करे।। 33.47 ।।
बध्नीयान्मूलमन्त्रेण ऋत्विजामपि वै ततः।
आचार्यो मूर्तिपैः साकं विहगेन्द्रप्रतिष्ठितम्।। 33.48 ।।
अभ्येत्य मण्डपं देवि द्वारकुम्भादिपूजनम्।
गरुडं च महाकुम्भमुपकुम्भचतुष्टयम्।। 33.49 ।।
करकं चार्चयित्वाथ निवेद्यान्तं ततः परम्।
द्वारादिदेवताः सर्वा उद्वास्य च ततो गुरुः।। 33.50 ।।
पक्षीन्द्रं यानमारोप्य कुम्भानानाय्य साधकैः।
वाद्यघोषादिभिः सार्धं प्रादक्षिण्येन मन्दिरम्।। 33.51 ।।
ध्वजस्तम्भसमीपस्थपीठिकायां निवेशयेत्।
[ध्वजस्तम्भस्य परितो द्वारतोरणकुम्भगान्।। 33.52 ।।
]
देवानभ्यर्च्य देवेशं त्रयो भागवता रमे।
भद्रपीठे समारोप्य श्रीपुष्टिसहितं विभुम्।। 33.53 ।।
चतुर्णामपि वेदानां वाद्यैश्च विविधैः स्वनैः।
शङ्खभेरीनिनादैश्च स्तोत्रैश्च विविधैरपि।। 33.54 ।।
चामरैर्व्यजनैः श्वेतच्छत्रैश्च ध्वजपङक्तिभिः।
शनैः शनैर्देवदेवं ध्वजस्तम्भसमीपगे।। 33.55 ।।
मण्डपे भद्रपीठे तु भगवन्तं निवेशयेत्।
पूजयित्वा यथाशास्त्रं मुद्गान्नं मोदकं तथा।। 33.56 ।।
गुडान्नं भक्ष्यसहितं पानकादि निवेदयेत्।
अनिरुद्धं ध्वजस्तम्भे हृदयादवतार्य वै।। 33.57 ।।
आवाह्य पौरुषैः सूक्तैः पूजयेद् ध्वजरूपिणम्।
गुणे मायां समावाह्य नैवेद्यान्तं च पूजयेत्।। 33.58 ।।
वैराजेन च साम्ना वै ध्वजं संयोजयेद् गुणे।
ततः पटस्थं गरुडं कुम्भस्थान्विहगानपि।। 33.59 ।।
अभ्यर्च्य धूपदीपान्तं कुम्भाद्विहगसत्तमम्।
ध्यायेत्पटस्थे विहगे प्रविष्टं ब्रह्मरन्ध्रतः।। 33.60 ।।
प्रणवेन पिधायाथ गायत्र्या तार्क्ष्यपूर्वया।
महाकुम्भजलेनैव प्रोक्ष्य सत्यादिकान् गुरुः।। 33.61 ।।
महापटे समावाह्य प्रार्थयेद्विहगाधिपम्।
महाबल महाबाहो वैनतेय वयोऽधिप।। 33.62 ।।
संनिधत्स्व पटे पक्षिन्नुत्सवावभृथान्तिमम्।
आहूतस्त्वं सर्वविघ्नान् जहि कर्मे प्रवर्तय।। 33.63 ।।
इति संप्रार्थ्य पक्षीन्द्रं मोदकादीन् निवेदयेत्।
ताम्बूलं तर्पणजलं पानीयं च निवेदयेत्।। 33.64 ।।
नीराजनं समर्प्याथ प्रार्थयेत् पक्षिपार्थिवम्।
वाहनाय महाविष्णोस्तार्क्ष्यायामिततेजसे।। 33.65 ।।
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे।
आहृतामृतकुम्भाय जननीदास्यमोचिने।। 33.66 ।।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते।
यदाधारमिदं सर्वं तदाधाराय वै नमः।। 33.67 ।।
गरुत्मन् ते त्रिवृत्साम शिरोगायत्रमक्षिणी।
स्तोम आत्मा तथा साम वामदेव्यं तनुःस्मतः।। 33.68 ।।
पक्षौ बृहद्रथन्तरे स्यातां सामनी पुच्छमीरितम्।
यज्ञायज्ञियं साम छन्दांस्यङ्गानि धिष्णियाः।। 33.69 ।।
शफनि ते यजूँषि छन्दोरूपाय ते नमः।
इति संस्तूय पक्षीन्द्रं गरुडप्रीतये ततः।। 33.70 ।।
तार्क्ष्यस्य तालं त्रिपुटं स्वरो मध्यम ईरितः।
गौडाख्यरागो नृत्तं च विष्णुक्रान्तमुदाहृतम्।। 33.71 ।।
एवं तालादिभिस्तोष्य सुमुहूर्ते गुरूत्तमः।
समन्ततस्तूर्यघोषैर्वेदघोषैश्च नादिते।। 33.72 ।।
शङ्खघण्टादिभिश्चैव पटमालयसंमुखम्।
सुपर्णोऽसीति मन्त्रेण ध्वजमारोपयेद्रमे।। 33.73 ।।
रज्जुं च बन्धयेत्स्तम्भे प्रादक्षिण्येन वै गुरुः।
पूर्वाह्णे वाथ मध्याह्ने ध्वजस्यारोहणं शुभम्।। 33.74 ।।
अपराह्णे तथा रात्रौ राजराष्ट्रविनाशनम्।
प्रार्थयेत् संनिधिं चापि गरुडस्य ध्वजोदरे।। 33.75 ।।
पक्षीन्द्र जगदानन्द विनतानन्द सुन्दर।
अस्माद्दिनात्समारभ्य यावत्तीर्थावसानकम्।। 33.76 ।।
संनिधत्स्व ध्वजे देव राज्ञो जनपदस्य च।
ग्रामाणां यजमानस्य वैष्णवानां विशेषतः।। 33.77 ।।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च।
अपमृत्युजयार्थाय वैनतेय प्रसीद ओम्।। 33.78 ।।
इति संप्रार्थ्य पक्षीन्द्र विकिरेत् कुसुमाञ्जलिम्।
तन्मुद्रां च प्रदर्श्याथ कुर्यान्नीराजनं गुरुः।। 33.79 ।।
ततो देवसमीपं च गत्वा देशिकसत्तमः।
ध्वजं दर्शयितुं देवं प्रार्थयेद्धरिमव्ययम्।। 33.80 ।।
ज्ञानतोऽज्ञानतो वापि ध्वजारोहणकर्मणि।
शास्त्रोक्तं स्खलितं यद्यत्तत्सर्वं कृपया हरे।। 33.81 ।।
पूर्णमेव भवेद्देव क्षन्तुमर्हसि सुव्रत।
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन।। 33.82 ।।
मया कृतो ध्वजारोह उत्सवाय तवेप्सितः।
तमीक्षस्व महाबाहो दोषानपनय प्रभो।। 33.83 ।।
इति विज्ञाप्य देवेशं यानमारोप्य देशिकः।
ध्वजस्तम्भसमीपं तु नीत्वा चादर्शयेद् ध्वजम्।। 33.84 ।।
आह्वानार्थमशेषाणां भक्तानां पतगेश्वरम्।
नियुङ्क्ष्व देवदेवेश भक्तरक्षणदीक्षित।। 33.85 ।।
एवं संप्रार्थ्य तदनु प्रादक्षिण्येन मन्दिरम्।
बहिर्मण्डपमानीय घटदीपं प्रदर्शयेत्।। 33.86 ।।
स्थापयेद् देवताह्वानमण्डपे सिंहविष्टरे।
निवेदितान्नभक्ष्यादीन् भक्तेभ्यो दापयेद् गुरुः।। 33.87 ।।
Chapter - 34
+++
+++
।। चतुस्त्रिंशोऽध्यायः ।।
ततो भागवताचार्यो यागं कर्तुं समुद्यतः।
यागमण्डपमासाद्य सर्वालंकारसंयुतान्।। 34.1 ।।
कुम्भान् संस्थाप्य विधिवद् द्वारादीनर्चयेत्ततः।
गर्भमन्दिरमासाद्य उत्सवार्चां समर्च्य च।। 34.2 ।।
यानमारोप्य तद्देवं यागमण्डपमानयेत्।
वेदिकायां निवेश्याथ ह्यग्नुमुत्पादयेद्रमे।। 34.3 ।।
चतुष्कुम्डविधाने तु वृत्तकुण्जाद् गुरूत्तमः।
अग्निमुत्पाद्य निनयेदन्यकुण्डेषु पावकम्।। 34.4 ।।
एककुण्डविधाने तु चतुरश्रेऽग्निमर्चयेत्।
चतुर्दिक्षु चतुर्वेदान् घोषयेयुर्द्विजोत्तमाः।। 34.5 ।।
कुण्डमध्ये योगपीठं संकल्प्य विधिवत्ततः।
चक्रशङ्खगदापद्मवनमालाविराजितम्।। 34.6 ।।
वासुदेवं समभ्यर्च्य प्रार्थयेद् गाथयानया।
त्वत्प्रीतये जगन्नाथ समारब्धो महोत्सवः।। 34.7 ।।
क्रियते हि मया तस्मिन् चतुःस्थानार्चनं हरे।
तत्र यागमहं कर्तुं त्वन्मुखाज्जातवेदसम्।। 34.8 ।।
संप्रार्थयामि देवेश तदनुज्ञातुमर्हसि।
तन्मुखादुत्थितं ध्यायेत् जटामकुटमण्डितम्।। 34.9 ।।
त्रिनेत्रं पञ्चवक्त्राढ्यं सप्तजिह्वासमन्वितम्।
[त्रिमेखलं त्रिपादं च सप्तजिह्वासमन्वितम्।। 34.10 ।।
]
बद्धाञ्जलिपुटं वह्निं शङ्खचक्रधरं विभुम्।
अग्ने त्वं गार्हपत्यादिकुण्डे स्थित्वा हरेः प्रियम्।। 34.11 ।।
उत्सवावभृथं यावत् तावत् पूजां गृहाण भो।
इति संप्रार्थ्य वै वह्निं देवमुद्वासयेत् ततः।। 34.12 ।।
अग्निं संतर्प्य विधिवत् पीठं कुम्भेषु कल्पयेत्।
महाकुम्भे वासुदेवं मूलादावाह्य पूजयेत्।। 34.13 ।।
आग्नेयादिषु कोणेषु पुरुषादीन् यजेद्रमे।
प्राक् कुम्भे वासुदेवं च याम्ये संकर्षणं तथा।। 34.14 ।।
प्रद्युम्नं पश्चिमे कुम्भे त्वनिरुद्धं तथोत्तरे।
आग्नेये पुरुषं कुम्भे नैर्ऋते सत्यसंज्ञितम्।। 34.15 ।।
अच्युतं वायवीये च घटे शार्वे ह्यनन्तकम्।
आवाह्य पूजयेद्देवान् प्राच्यादिषु यथाक्रमम्।। 34.16 ।।
तण्डुलैर्निर्मिते पीठे चक्राब्जं विलिखेत् पुरा।
कर्णिकायां वासुदेवं दलेषु द्वादशस्वपि।। 34.17 ।।
केशवादीन् समावाह्य पूजयेत् देशिकोत्तमः।
संपूज्य बिम्बं विधिवत् पीठमग्निषु कल्पयेत्।। 34.18 ।।
चतुरश्रे वासुदेवं चापे संकर्षणं तथा।
वृत्ते प्रद्युम्नानामानं कमले त्वनिरुद्धकम्।। 34.19 ।।
आवसथ्ये मूलमूर्तिं गार्हपत्येऽथवार्चयेत्।
सांनिध्ययाचनं तेषां गार्हपत्यादिषु क्रमात्।। 34.20 ।।
उत्सवावभृथं यावत् कालयोश्चापि पूजयेत्।
वह्निस्थान् वासुदेवादीन् सपर्यासनमादितः।। 34.21 ।।
भोज्यासनान्तमाज्येन स्वाहान्तैर्जुहुयात्ततः।
चतुर्विधान्नं नैवेद्यं स्थितानां च चतुःस्थले।। 34.22 ।।
निवेद्य च ततः पूर्णामाहुतिं जुहुयाद्धविः।
पौरुषेण च मन्त्रेण संपाताज्येन वै रमे।। 34.23 ।।
कुम्भं बिम्बं मण्डलं च न्यसेद्राष्ट्रहिताय वै।
कुमुदादिबलिं दत्वा स्वगृहं प्रविशेद् गुरुः।। 34.24 ।।
ततः सायाह्नसमये नित्यपूजां विधाय च।
देवस्य पुरतो भूमौ धान्यपीठं प्रकल्पयेत्।। 34.25 ।।
कालचक्रं तत्र लिख्य न्यसेद्दीपान् समन्ततः।
मड्डुकं ब्रह्मणः स्थाने पार्श्वयोस्तस्य वै रमे।। 34.26 ।।
शङ्खं कोणं च विन्यस्य ततादीन् परितो न्यसेत्।
ऐन्द्रे वीणादि याम्ये तु सुषिरादीनि पद्मजे।। 34.27 ।।
वारुण्यां चर्मवाद्यानि सौम्ये कांस्यं तु विन्यसेत्।
पिधाय नववस्त्रेण प्रोक्ष्य पुण्याहवारिणा।। 34.28 ।।
गन्धपुष्पाणि संकीर्य तेषु देवान् समर्चयेत्।
संकर्षणं मड्डुके च शङ्खे विष्णुं च कोणके।। 34.29 ।।
वायोरधिपमावाह्य फलादीनि निवेदयेत्।
सुषिरेऽप्यनिरुद्धं च वीणादिषु मधुद्विषम्।। 34.30 ।।
नरोत्तमं चर्मजेषु कांस्यजेषु ह्यधोक्षजम्।
एवमावाह्य चाभ्यर्चय नीराजनमथाचरेत्।। 34.31 ।।
गुरुर्मड्डुकमादाय त्रिर्मगातामुच्चरन् रमे।
वेदाः सर्वे विवर्धन्तां देवाः सर्वे सवेधसः।। 34.32 ।।
वर्धन्तां वैष्णवाः सर्वे वर्धन्तां ब्राह्मणोत्तमाः।
एवं त्रिवारमुच्चार्य मड्डुकं ताडयेद् गुरुः।। 34.33 ।।
भुजवीर्यजितारातिवनम्द्यमानपदद्वयः।
वर्धतां भूपतिर्नित्यं सामात्यः सपुरोहितः।। 34.34 ।।
इमं श्लोकं त्रिरुच्चार्य मड्डुकं ताडयेत्ततः।
वाणिज्येन च संप्राप्तमहाधनविवर्धनाः।। 34.35 ।।
वर्धन्तामूरुजाः सर्वे धान्यरत्नसमधिताः।
इत्येवं त्रिःपठन् धीमांस्तडयेन्मड्डुकं गुरुः।। 34.36 ।।
लक्ष्मीशोत्सवसेवार्थमागता मुखबाहुजाः।
ऊरुपादसमुद्भूता अनुलोमाश्च धार्मिकाः।। 34.37 ।।
स्वकर्मनिरताः सर्वे दातारः सत्यवादिनः।
इतरे मानवाः सर्वे पुत्रपौत्रधनादिभिः।। 34.38 ।।
शतायुषश्च वर्धन्तां नीरोगा निरुप्रद्रवाः।
वर्णानां क्षेममुद्दिश्य मड्डुकं ताडयेत् पुनः।। 34.39 ।।
आचार्य इत्थं संताड्य स्नातं पारशवं शुचिम्।
कृतोर्ध्वपुण्ड्रमाहूय करे दत्वा च मड्डुकम्।। 34.40 ।।
देववस्त्रादिपुष्पैश्च संमान्य च यथाक्रमम्।
तं ताडयेत् तदितरान् वाद्यान्यपि च वादयेत्।। 34.41 ।।
गुरोरनुज्ञया ते च दास्यो वाद्यानि वादकाः।
गायेयुर्नृत्तयेयुश्च देवस्य पुरतो भुवि।। 34.42 ।।
ततो वैकुण्ठनिलयान् विष्वक्सेनपुरःसरान्।
आयुधान् मूर्तिरूपांश्च तथा द्वाराधिपान् रमे।। 34.43 ।।
चण्डादिद्वारपालांश्च गुरुः प्रथममाह्वयेत्।
आदित्या वसवो रुद्रा मरुतश्च महर्षयः।। 34.44 ।।
गङ्गाद्याः सरितश्चैव विधयो नव वै रमे।
नवग्रहाणि चैतांश्च ब्राह्मणादीन् समाह्वयेत्।। 34.45 ।।
उच्चार्य नामान्येतेषां तद्गणोच्चारणान्तिमे।
मड्डुकं ताडयेद्धीमान् पारशव्येन वै गुरुः।। 34.46 ।।
चक्रिन् मुसलिन् खड्गिन् शङ्खिन् कौमोदकीभरिन्।
शार्ङ्गिन् पद्मिन् तथा वज्रिन् यूयं वैकुण्ठवासिनः।। 34.47 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छन्त्वायुधेश्वराः।
अनिरुद्धपदोद्भूतास्तार्क्ष्यचण्डप्रचण्डकाः।। 34.48 ।।
धातर्विधातर्विजय जय भद्र सुभद्रक।
कृतान्तसुरविध्वं स कुबेराक्ष कुबेरक।। 34.49 ।।
भो दुर्जय प्रबल हे विश्वभावन् पुष्कर।
संभव प्रभव स्वामिन् सुशोभन सुभद्र भो।। 34.50 ।।
तत्तत्कैंकर्यनिरताश्छत्रचामरपाणयः।
द्वारपालगणाः सर्वे परिचारगणैः सह।। 34.51 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छन्तु हरेः प्रियाः।
भो धर ध्रुव हे सोम आप हे अनिलानल।। 34.52 ।।
प्रत्यूषप्रभवावष्टौ वसवो देवता गणाः।
लक्ष्मीशोत्सवसेवार्थं यूयमागच्छतामराः।। 34.53 ।।
मृगव्याध महाशर्व निर्ऋते त्वज एकपात्।
अहरिबुध्न्य पिनाकिन् हे स्थाणो भव कपालिक।। 34.54 ।।
त्रिनेत्रा रुद्रसदृशा जटामण्डलदारिणः।
रुद्रा एकादशा यूयमागच्छत महोत्सवम्।। 34.55 ।।
धात्रर्यमौ विधातर्हे मित्र भो वरुणाह्वय।
सवितर्भग विवस्वन् हे त्वष्टरिन्द्र रवे विभो।। 34.56 ।।
पूषन् द्वादश आदित्या आगच्छत महोत्सवम्।
बृहस्पते देवगुरो लोहिताङ्ग शनैश्चर।। 34.57 ।।
राहो गृहपते सूर्य सोम हे बुध केतवः।
यूयं नवग्रहाः सर्व आगच्छत महोत्सवम्।। 34.58 ।।
महापद्मनिधे पद्मशङ्खकच्छपनामक।
निधे मकरकुन्दाख्यनीलवारमुकुन्दक।। 34.59 ।।
यूयं लक्ष्मीपतेः प्रीत्यै समाहूता महोत्सवे।
आगच्छत हरेः प्रीतिं कुरुध्वं निधयो नव।। 34.60 ।।
हे मरीचे भरद्वाज मार्कण्डेय कहोलक।
वसिष्ठ काश्यप भृगो विश्वामित्र महामुने।। 34.61 ।।
वेदव्यासमुने वत्स गौतमागस्त्य मुद्गल।
जामदग्न्यमुने गार्ग्य याज्ञवल्क्य तपोधन।। 34.62 ।।
कौण्डिन्य मुनिशार्दूल दुर्वासा रोमशाङ्गिराः।
लक्ष्मीशोत्सवसेवार्थमायान्तु मुनिपुंगवाः।। 34.63 ।।
परब्रह्ममुखोद्भूताः पञ्चकालपरायणाः।
वेदवेदाङ्गनिपुणाः पञ्चरात्रविशारदाः।। 34.64 ।।
इतिहासपुराणज्ञाः धर्मशास्त्रार्थकोविदाः।
लक्ष्मीशोत्सवसेवार्थमायान्तु ब्राह्मणोत्तमाः।। 34.65 ।।
विराड्बाहुसमुद्भूता भुजवीर्यार्जितश्रियः।
युद्धोद्धतकृतोत्साहाः क्षत्रिया लोकविश्रुताः।। 34.66 ।।
यूयं मन्त्र्यादिभिः सार्धं समायात महोत्सवम्।
विष्णोरूरुसमुद्भूता दानधर्मपरायणाः।। 34.67 ।।
वाणिज्यवृत्तयो नित्यं शमादिगुणसंयुताः।
लक्ष्मीशोत्सवसेवार्थमागच्छन्तु वणिक्प्रियाः।। 34.68 ।।
विराट्चरणसंभूता वर्णानां दास्यवृत्तनिः।
विष्णुकैंकर्यनिरता आगच्छन्तु महोत्सवम्।। 34.69 ।।
आहूयैवं भक्तजनान् परिवारानथो रमे।
स्वयंव्यक्तादिबिम्बानामुत्सवे समुपस्थिते।। 34.70 ।।
आह्वानं देवपुरतो वीथीषु च बलिं क्षिपेत्।
मानुषादिप्रतिष्ठानां बिम्बानामुत्सवे रमे।। 34.71 ।।
आह्वानं बलिदानं च वीथ्यामेव तु कल्पयेत्।
रक्तवस्त्रं गजारूढं श्वेतवर्णं चतुर्भुजम्।। 34.72 ।।
त्रिनेत्रममराधीशं वज्रचक्रधरं तथा।
मुख्याभ्यामपि हस्ताभ्यां प्राञ्जलिं विबुधैर्युतम्।। 34.73 ।।
ऐशवासवयोर्मध्ये कुमुदं गणनायकम्।
ध्यात्वैवं पायसान्नेन बलिं दद्याद् गुरूत्तमः।। 34.74 ।।
गजारूढ चतुर्बाहो सर्वदेवगणाधिप।
लक्ष्मीशोत्सवसेवार्थमागच्छ कुमुद प्रभो।। 34.75 ।।
आहूयैवं बलिं दत्वा तद्रागाद्यैश्च तोषयेत्।
स्वरः षड्जः समं तालं रागो गान्धार ईरितः।। 34.76 ।।
नृत्तं विलासमेतैस्तं कुमुदं मोदयेद् रमे।
महिषस्थं काञ्जनाभं चतुर्बाहुं त्रिलोचनम्।। 34.77 ।।
दानवानामधिपतिं खड्गमुद्गरदारिणम्।
मुख्यहस्ताञ्जलियुतं शोणवस्त्रैरलंकृतम्।। 34.78 ।।
ऐन्द्रज्वलनयोर्मध्ये कुमुदाक्षं गणाधिपम्।
ध्यात्वा तस्मै बलिं दद्यात् माषान्नेन गुरूत्तमः।। 34.79 ।।
कुमुदाक्षासुराधीश दैत्यदानवसेवित।
लक्ष्मीशोत्सवसेवार्थमायाहि त्वं महाबल।। 34.80 ।।
कुमुदाक्षप्रियो रागः कौलवो वृषभः स्वरः।
तालं तु मध्यमो नृत्तं विष्णुक्रान्तमिहोच्यते।। 34.81 ।।
अश्वारूढं रक्तवर्णं नीलवस्त्रं चतुर्भुजम्।
त्रिणेत्रं चक्रमुसलं हस्ताभ्यामपि धारिणम्।। 34.82 ।।
पूर्वाभ्यामञ्जलियुतं पितॄणां गणनायकम्।
अग्न्यन्तकदिशोर्मध्ये पुण्डरीकाभिधं रमे।। 34.83 ।।
तं ध्यात्वा तु तिलान्नेन बलिं दद्याद् गुरूत्तमः।
तालो भृङ्गिणिसंज्ञं स्यात् स्वरो गान्धारनामकः।। 34.84 ।।
मध्यमावतिरागस्तु नृत्तं केतकमुच्यते।
अश्वारूढ महाबाहो पुण्डरीक महाबल।। 34.85 ।।
लक्षमीशोत्सवसेवार्थमागच्छ पितृवल्लभ।
रथारूढं चतुर्बाहुं त्रिनेत्रं पाण्डरप्रभम्।। 34.86 ।।
वज्रशूलधरं नीलवासोभिः समलंकृतम्।
साञ्जलिं वामनं दैवं राक्षसानां गणाधिपम्।। 34.87 ।।
यमयातुदिशोर्मध्ये तिन्त्रिण्यन्नं बलिं क्षिपेत्।
चतुर्भुज रथारूढ यातुधानगणेश्वर।। 34.88 ।।
लक्ष्मीशोत्सवसेवार्थं त्वं समागच्छ वामन।
स्वरश्च पञ्चमस्तालो मल्लः श्रीराग ईरितः।। 34.89 ।।
नृत्तं तु भद्रमाली च वामनस्य प्रियं भवेत्।
व्याघ्रारूढं शङ्कुकर्णं पाशाङ्कुशधरं विभुम्।। 34.90 ।।
चतुर्भुजं पीतवर्णं श्वेतवस्त्रैर्विराजितम्।
बद्धाञ्जलिपुटं भीमं पन्नगानां गणाधिपम्।। 34.91 ।।
यातुवारुणयोर्मंध्ये क्षीरान्नेन बलिं क्षिपेत्।
व्याघ्रारूढ महाबाहो शङ्कुकर्ण चतुर्भुज।। 34.92 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छोरगसेवित।
स्वरो धैवतनामा स्यान्मङ्गलं तालमीरितम्।। 34.93 ।।
भूपालो राग इत्युक्तो नृत्तं कान्तारकुट्टिमम्।
एतै रागादिभिर्भद्र शङ्कुकर्णं तु तोषयेत्।। 34.94 ।।
मृगारूढं धूम्रवर्णं त्रिनेत्रं श्वेतवाससम्।
दधानं पाशपरशुं पद्धाञ्जलिपुटं विभुम्।। 34.95 ।।
चतुर्भुजं सर्वनेत्रं गन्धर्वगणनायकम्।
पाशिवायुदिशोर्मध्ये ध्यात्वैवं लक्षणान्वितम्।। 34.96 ।।
चणकान्नबलिं दद्यात् तत्प्रियं मन्त्रमुच्चरन्।
सर्वनेत्र मृगारूढ गन्धर्वगणनायक।। 34.97 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं महामते।
जयतालो धैवतः स्यात् स्वरः केदारसंज्ञितः।। 34.98 ।।
वृत्तकुट्टिमनृत्तं च सर्वनेत्रप्रियंकरम्।
सिंहारूढं धूम्रनिभं पीतवस्त्रं चतुर्भुजम्।। 34.99 ।।
त्रिनेत्रं प्राञ्जलिं सौम्यं चक्रशक्तिधरं विभुम्।
सुमुखं यक्षकोटीनां नायकं भगवत्प्रियम्।। 34.100 ।।
वायुसोमान्तरे ध्यात्वा मुद्गन्नेन बलिं क्षिपेत्।
सिंहारूढ महाबाहो चक्रशक्तिधनुर्धर।। 34.101 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं महाबल।
स्वरो निषादस्तालं तु भद्रो हंसध्वनिस्तु सः।। 34.102 ।।
रागो नृत्तं पारिभद्रं सुमुखस्य प्रियं भवेत्।
नागारूढं हेमवर्णं त्रिनेत्रं पीतवाससम्।। 34.103 ।।
खड्गं चक्रधरं देवं बद्धाञ्जलिसमन्वितम्।
पिशाचानामधिपरिं सुप्रतिष्ठं महाबलम्।। 34.104 ।।
सोमेशानदिशोर्मध्ये ध्यात्वा देशिकसत्तमः।
गुडान्नेन बलिं दद्यात् सुप्रतिष्ठाय वै रमे।। 34.105 ।।
नागारूढ महाबाहो पिशाचानां गणाधिप।
लक्ष्मीशोत्सवसेवार्थं सुप्रतिष्ठैहि सेनप।। 34.106 ।।
तालस्तु ककरी प्रोक्तः स्वरो गान्धारनामकः।
पूर्णचन्द्रस्तु रागः स्यान्नृत्तं तु कटिबन्धनम्।। 34.107 ।।
एतैस्तु सुप्रतिष्ठस्य प्रियमुत्पादयेद् गुरुः।
हंसारूढं पृश्निगर्भं धनुर्बाणधरं विभुम्।। 34.108 ।।
द्विनेत्रं शुक्लवसनं प्राञ्जलिं सिद्धनायकम्।
एवं सिद्धपदे ध्यात्वा मरीच्यन्नं बलिं क्षिपेत्।। 34.109 ।।
पृश्निगर्भ सुराधीश सिद्धादिगणसेवित।
लक्ष्मीशोत्सवसेवार्थमायाहि व्योमवल्लभ।। 34.110 ।।
तालस्तु झिङ्गिणी प्रोक्तो निषादस्वर उच्यते।
रागो मेघाभिधो भद्रे नृत्तं मण्डलमीरितम्।। 34.111 ।।
अनन्तं कमठारूढं पाण्डराभं चतुर्भुजम्।
साञ्जलिं नीलवसनं हलतोमरधारिणम्।। 34.112 ।।
द्विनेत्रं पन्नगाधीशं किरीटफणमण्डितम्।
अनन्तमेवमाराध्य शर्करान्नं बलिं क्षिपेत्।। 34.113 ।।
कूर्मस्थ नागभूपाल सहस्रफणमण्डित।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं सहानुगैः।। 34.114 ।।
अनन्ततालो गान्धारस्वरो रागो वरालिका।
नृत्तं केतकमित्युक्तमनन्तप्रीतिदं भवेत्।। 34.115 ।।
ब्रह्मणं राजहंसस्थमष्टनेत्रं चतुर्मुखम्।
अक्षसूत्रं च करकं दधानं प्राञ्जलिं विभुम्।। 34.116 ।।
ध्वजस्तम्भेन्द्रककुभोर्ध्यात्वा ब्रह्मणमब्जजम्।
गोधूमान्नं बलिं दद्यात् ब्रह्मणः प्रीतिमभ्जजे।। 34.117 ।।
विष्णोर्नाभिसमुत्पन्न जगत्स्रष्टः पितामह।
लक्ष्मीशोत्सवसेवार्थमायाहि कमलासन।। 34.118 ।।
घण्टा रागो निषादश्च स्वरस्तालस्तु वै ध्रुवः।
नृत्तं कमलमित्याहुर्ब्रह्मणः प्रीतिकारकम्।। 34.119 ।।
ऐरावतगजारूढं पीतकौशेयवाससम्।
चतुर्भुजं सहस्राक्षं शचीदेवीसमन्वितम्।। 34.120 ।।
वज्राङ्कुशधरं सौम्यं प्राञ्जलिं नीरदप्रभम्।
ध्यात्वैवं वासवं प्राच्यां गुडान्नेन बलिं क्षिपेत्।। 34.121 ।।
शचीपते जिताराते वज्रपाणे पुरंदर।
लक्ष्मीशोत्सवसेवार्थमागच्छामरवल्लभ।। 34.122 ।।
समतालो नाटरागः स्वरः पञ्चमनामकः।
नृत्तं विलासमित्युक्तं पुरंदरमनःप्रियम्।। 34.123 ।।
मेषारूढं हव्यवाहं त्रिनेत्रं स्वर्णवाससम्।
स्वाहास्वधाभ्यां सहितं चतुर्हस्तं महाप्रभम्।। 34.124 ।।
प्राञ्जलिं चापराभ्यां च हस्ताभ्यां स्रुक्स्रुवंधरम्।
ध्यात्वेत्थं वह्निकोणस्थं घृतान्नं बलिमुत्क्षिपेत्।। 34.125 ।।
स्वाहास्वधापते वह्ने गार्हपत्यादिनामक।
लक्षअमीशोत्सवसेवार्थमागच्छ मखपूजित।। 34.126 ।।
अटतालो गौलिरागः स्वरो वृषभसंज्ञिकः।
नृत्तं तु सर्वतोभद्रं जातवेदप्रियं भवेत्।। 34.127 ।।
कृतान्तं महिषारूढं दण्डपाशधरं विभुम्।
बद्धाञ्जलिपुटं कृष्णं चतुर्बाहुं त्रिलोचनम्।। 34.128 ।।
श्वेतवस्त्रधरं देवं पितॄणां गणनायकम्।
एवं ध्यात्वा यमदिशि तिलान्नेन बलिं क्षिपेत्।। 34.129 ।।
लुलायवाहनारूढ कालसंहरिणीपते।
लक्ष्मीशोत्सवसेवार्थमायाहि पितृभिः सह।। 34.130 ।।
तालस्तु मङ्गलःप्रोक्तः स्वरो गान्धार ईरितः।
रागस्तु दैशिकी नृत्तं सर्वतोभद्रनामकम्।। 34.131 ।।
पिशाचस्थं क्रूरमूर्तिं निर्ऋतिं श्वेतवाससम्।
द्विनेत्रं पिङ्गलनिभं खड्गखेटं विराजितम्।। 34.132 ।।
चतुर्भुजं प्राञ्जलिं च ध्यात्वैवं निर्ऋतेर्दिशि।
माषान्नेन बलिं दद्यान्निर्ऋतेः प्रीतिकृत्तमम्।। 34.133 ।।
कृष्णाङ्गनापुराधीश राक्षसानां गणेश्वर।
लक्ष्मीशोत्सवसेवार्थं निर्ऋते त्वत्र याहि भो।। 34.134 ।।
जयतालः स्वरः षड्जो रागो देशाक्षिनामकः।
नृत्तं कमलवद्वृत्तं निर्ऋतेः प्रियदं भवेत्।। 34.135 ।।
मकरं यानमारूढं श्वेतवर्णं चतुर्भुजम्।
पाशाङ्कुशधरं देवं वरुणं सन्नताञ्जलिम्।। 34.136 ।।
द्विनेत्रं शीतलानाथं यादोभिः परिवेष्टितम्।
ध्यात्वैवं पश्चिमदिशि दध्यन्नेन बलिं क्षिपेत्।। 34.137 ।।
श्रद्धावतिपुरीनाथ पश्चिमाशापते विभो।
लक्ष्मीशोत्सवसेवार्थमागच्छ जलजेश्वर।। 34.138 ।।
भद्रतालो नाटरागः स्वरो धैवतमुच्यते।
नृत्तं कमलमित्युक्तं वरुणस्य प्रियं भवेत्।। 34.139 ।।
आरूढहरिणीनाथं द्विनेत्रं विशदाम्बरम्।
सदागत्या च नायक्या समेतं धूम्रवर्णकम्।। 34.140 ।।
वैश्वानरसखं देवं चतुर्बाहुसमन्वितम्।
बद्धाञ्जलिपुटं धीरं ध्वजतोमरधारिणम्।। 34.141 ।।
एवं वायोर्दिशि ध्यात्वा कुलुत्थान्नं बलिं क्षिपेत्।
श्रीगन्धपत्तनाधीश सदागत्या समन्वित।। 34.142 ।।
लक्ष्मीशोत्सवसेवार्थमायाहि त्वं सदागते।
ढम्पतालः समाख्यातो रागः श्रीरागसंज्ञिकः।। 34.143 ।।
स्वरः षड्जो नृत्तमुक्तं पृष्ठकुट्टिमसंज्ञितम्।
नरारूढं पाण्डराभं धनदं दिशांबरम्।
बद्धाञ्जलिपुटं सौम्यं संपद्देवीसमन्वितम्।। 34.144 ।।
शङ्खपद्मनिधेरीशं चतुर्बाहुं दिशांबरम्।
बद्धाञ्जलिपुटं सौम्यं संपद्देवीसमन्वितम्।। 34.145 ।।
एवं सोमदिशि ध्यात्वा पायसान्नं बलिं क्षिपेत्।
नरवाहन यक्षेश संपद्देवीसमन्वित।। 34.146 ।।
शङ्खादिनिधिप स्वामिन्नलकापुरनायक।
लक्ष्मीशोत्सवसेवार्थमायाहि धनदेश्वर।। 34.147 ।।
अनन्ततालो रागस्तु मोहनं वृषभः स्वरः।
नृत्तं मण्डलनृत्तं स्यात् कुबेरं तैश्च तोषयेत्।। 34.148 ।।
वृषारूढं पाण्डुराभं त्रिनेत्रं गजचर्मिणम्।
मृत्युंजयं चतुर्बाहुं बद्धाञ्जलिपुटं हरम्।। 34.149 ।।
कपालशूलहस्तं च शैलराजसुताधिपम्।
ध्यात्वैवमीशकोणे तु मरीच्यन्नं बलिं क्षिपेत्।। 34.150 ।।
कैलासाधिप देवेश जटाचन्द्रविभूषित।
श्रीकण्ठमृत्युजिद्देव पिनाकिन् भूतनायक।। 34.151 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं स्मरान्तक।
इति देवान् समाहूय नृत्ताद्यैस्तोषयेद् गुरुः।। 34.152 ।।
देवताह्वानवेलायां भेरीं शृण्वन्ति ये जनाः।
यावद्धरेरुत्सवान्तं ग्रामं नगरमेव वा।। 34.153 ।।
न गच्छेयुर्भद्रकामस्तिष्ठेयुस्तावदेव हि।
अनादृत्योत्सवं मोहाद् दूरं यायाज्जनो यदि।। 34.154 ।।
स याति निरयं स्थानं प्रेत्य दुःखमिहापि च।
तस्मादवभृथं यावद्वसेत्तत्रैव नो व्रजेत्।। 34.155 ।।
ततो गर्भगृहं गत्वा मूलबेरं समर्चयेत्।
महाहविर्निवेद्याथ नीराजनमतश्चरेत्।। 34.156 ।।
Chapter - 35
+++
+++
।। पञ्चत्रिंशोऽध्यायः ।।
बलिबिम्बं समभ्यर्च्य बल्यन्नानि निवेदयेत्।
नीराजनं समर्प्याथ शिबिकायां नयेद् विभुम्।। 35.1 ।।
पात्रस्थं तद्बलिद्रव्यं घण्टां कुसुमभाजनम्।
तोयपूर्णं च करकं धूपपात्रं सदीपकम्।। 35.2 ।।
प्रदीपांश्च गृहीत्वाथ वाद्यघोषपुरःसरम्।
मड्डुकं च गृहीत्वाग्रे वेदघोषसमन्वितम्।। 35.3 ।।
बलिबिम्बस्य पुरतो गच्छेयुः परिचारकाः।
ततो गुरूत्तमो वापि साधको वापि दीक्षितः।। 35.4 ।।
वक्ष्यमाणक्रमेणैव तत्तत्स्थानेषु मन्त्रवित्।
महोत्सवे मया दत्तं सोदकं वैष्णवं बलिम्।। 35.5 ।।
गृहीत्वा तृप्तिमासाद्य स्थानं रक्ष सुरोत्तम।
इति मन्त्रं समुच्चार्य बीजाक्षरसमन्वितम्।। 35.6 ।।
नामधेयं चतुर्थ्यन्तमुच्चार्य तदनन्तरम्।
सोदकं च बलिं दद्यात् चण्डादीनां गुरूत्तमः।। 35.7 ।।
तद्विधानं प्रवक्ष्यामि कमले सास्त्रसंमतम्।
प्रथमावरणद्वारे बलिं चण्डप्रचण्डयोः।। 35.8 ।।
द्वितीयगोपुरद्वारे जयस्य विजयस्य च।
तृतीयद्वारि धातुश्च विधातुश्च बलिं क्षिपेत्।। 35.9 ।।
चतुर्थे दुर्जयस्यापि ब्रवलस्य तथैव च।
पञ्चमे द्वारि शङ्खस्य पद्मस्य च निधेर्बलिम्।। 35.10 ।।
ततश्चतुर्मुखस्यापि बलिं तद्याद् यथाविधि।
ततो वीथिषु निर्गत्य कुमुदादिबलिं क्षिपेत्।। 35.11 ।।
तत इन्द्रादिदेवेभ्यो दिक्पालेभ्यो यथाविधि।
अथवा कुमुदायादाविन्द्राय तदनन्तरम्।। 35.12 ।।
कुमुदाक्षाय तदन्वग्नये वा बलिं क्षिपेत्।
अशून्यासु च वीथीषु प्रतिलोमैः स्थितासु च।। 35.13 ।।
न दद्याद् बलिदानं तु ह्यालयेष्वेव कारयेत्।
एवं वीथीषु सर्वत्र तत्तत्स्थानेषु देशिकः।। 35.14 ।।
क्षिप्त्वा बलिं देवगृहमासाद्य बलिपीठकम्।
दक्षिणादिद्वारपालान् पार्षदान् सायुधानपि।। 35.15 ।।
आवाह्य पीठं परितो बलिं तेभ्यः क्षिपेद् गुरुः।
बलिबिम्बं महापीठं प्रादक्षिण्येन वै नयेत्।। 35.16 ।।
ततो नीराजनं कृत्वा स्वस्थाने तं निवेशयेत्।
उत्सवे देवदेवस्य वाहनानि शृणुष्व मे।। 35.17 ।।
विमानो भास्करः शेषः सिंहो गरुड एव च।
गजो रथो हयश्चापि द्रुमः कल्पकसंज्ञिकः।। 35.18 ।।
हंसश्चन्द्रः सुमेरुश्च शिबिका भद्रपीठिका।
एवंविधानि दिव्यानि वाहनानि मनस्विनि।। 35.19 ।।
स्वर्णादिरत्नविकृतैर्दारुभिर्वापि शिल्पिभिः।
कारयित्वा तेषु तार्क्ष्यं प्रतिष्ठाप्य गुरूत्तमः।। 35.20 ।।
प्रथमाद्युत्सवदिने तेषु कस्मिंस्तु वाहने।
आरोप्य वीथीभ्रमणं कारयेद्देवसत्तमम्।। 35.21 ।।
देवस्य वीथीभ्रमणक्रमं वक्ष्यामि शोभने।
श्रीभूमीसहितं देवं देशिको मन्त्रवित्तमः।। 35.22 ।।
उत्तिष्ठ ब्रह्ममन्त्रेण देवमुत्थापयेद् रमे।
दीक्षिताभ्यामपि द्वाभ्यां भद्रं कर्णेति मन्त्रतः।। 35.23 ।।
यानमारोपयेद् देवं वस्त्रमाल्यविभूषणैः।
अलंकृत्य रमानाथं दर्पणं च प्रदर्शयेत्।। 35.24 ।।
अर्घ्यादिभिस्तमभ्यर्च्य ताम्बूलं च निवेदयेत्।
ततो नीराजनं कृत्वा वाद्यधोषपुरःसरम्।। 35.25 ।।
[देवमुत्थापयेद्देवि प्रदीपानां शतैः समम्।]
कैंकर्यनिरताः सर्वे वैष्णवा धवलाम्बराः।। 35.26 ।।
कञ्चुकोष्णीषवहनाः पुष्पभूषणभूषिताः।
वहेयुर्वैष्णवा यानं ध्यायन्तो विहगेश्वरम्।। 35.27 ।।
अथवा वैष्णवाः शूद्राः वहेयुर्भक्तिसंयुताः।
विष्णोर्यानस्य परितो भगवद्बिम्बरक्षकाः।। 35.28 ।।
शरचापधराः केचिच्छाक्तिका याष्टिकाः परे।
नैस्त्रिंशिकाश्च काण्डीरास्तथा फलकपाणयः।। 35.29 ।।
कौन्तिका द्रुघणाः केचित् कञ्चुकोष्णीषधारिणः।
पुरतो देवदेवस्य चतुरङ्गं बलं व्रजेत्।। 35.30 ।।
केचिद्रथे समासीना धनुर्बाणसमन्विताः।
औपवाह्यगजारूढा गरुडध्वजधारिणः।। 35.31 ।।
केचिन्नृत्यत्तुरङ्गस्थाः केतुदण्डधराः परे।
तालवृन्तधराः केचिद् धूपपात्रवहास्तथा।। 35.32 ।।
हेमानि चातपत्राणि रत्नवन्ति महान्ति च।
श्वेतातपत्रं देवार्हं हेमदण्डविभूषितम्।। 35.33 ।।
मायूराण्यातपत्राणि रत्नदण्डानि वै रमे।
मुक्ताफलैर्निर्मितानि राजतानि शुभानि।। 35.34 ।।
चित्राणि हेमदण्डानि रत्नदण्डानि चापरे।
तोरणानि विचित्राणि पुत्रिकाश्च सहस्रशः।। 35.35 ।।
ध्वजान् रक्तान् सितांस्ताम्रांश्चक्रादिलिखितानपि।
शङ्खभेरीमृदङ्गाद्यैर्झल्लरीकाहली तथा।। 35.36 ।।
वृहद्भेरी नागवाद्यं मल्लवाद्यं महास्वनम्।
तूर्याणि विविधानि स्युर्वीणावेणुसकांस्यकम्।। 35.37 ।।
एतान् पारशवा देवि वादयेयुः पुरो हरेः।
नवयौवनसंपन्ना रत्नभूषणभूषिताः।। 35.38 ।।
नर्तक्योऽभिनयन्त्यो वै शृङ्गारादिरसान् बहून्।
गायन्त्यः सुस्वराः सर्वा वाद्यैश्चविविधैरपि।। 35.39 ।।
वेदवेदाङ्गनिपुणा ब्राह्मणाः शुक्लवाससः।
ऊर्ध्वपुण्ड्रर्द्विषड्क्षिश्च शोभमानशरीरिणः।। 35.40 ।।
हारोपवीतकटककेयूराङ्गदभूषणाः।
हरिचन्दनलिप्ताङ्गा रत्नकुण्डलधारिणः।। 35.41 ।।
पाञ्चरात्रार्थतत्त्वज्ञाः सपवित्रकरास्तथा।
वैष्णवा भक्तिनिरतास्तुलसीदामभूषणाः।। 35.42 ।।
नानाभाषाविरचिता विष्णुपारम्यसूचकाः।
देवात्यन्तसमीपे तु आचार्यः साधकोऽपि वा।। 35.43 ।।
दीक्षितः पादुकायुक्तं रत्नपात्रं दधद् व्रजेत्।
हरेः पुरो बन्दिनस्तु गायेयुर्गानमुत्तमम्।। 35.44 ।।
देवस्य दक्षिणे पार्श्वे पञ्चरात्रपरायणाः।
वासुदेवस्य माहात्म्यं कथयन्तस्तथापरे।। 35.45 ।।
देवस्य पृष्ठभागे तु वैष्णवा वेदपाठकाः।
ऋगादिभिश्चतुर्वेदैस्तोषयेयुर्जनार्दनम्।। 35.46 ।।
वामभागे वेदविदो वेदान्तार्थप्रदर्शकाः।
इतिहासपुराणज्ञाः शाब्दिकास्तार्किकास्तथा।। 35.47 ।।
सांख्यका याज्ञिकाश्चैव मीमांसान्यायशोधकाः।
तत्तच्छास्त्रोक्तमार्गेण परस्परजिगीषवः।। 35.48 ।।
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यताः।
भट्टाचार्यः साधकाश्च हरेर्वाहनदक्षिणे।। 35.49 ।।
[स्वर्णयज्ञोपवीतानि कटिसूत्राणि रत्नवत्।
कुण्डलानि विचित्राणि कङ्कणानि बहूनि च।। 35.50 ।।
अङ्गुलीयानि रत्नैश्च शोभितानि शुचीनि च।
उष्णीषाणि च वस्त्राणि रक्तचन्दनकर्दमम्।। 35.51 ।।
धारयन्तो वाहनस्य गच्छेयुर्देवदर्शकाः।
भट्टाचार्यः पीठभागे साधको वामपार्श्वगः।। 35.52 ।।
]
आगतेभ्यश्च भक्तेभ्यो दद्याच्छिरसि पादुकाम्।
तन्मयत्वाद्देशिकेन्द्रो देवोऽहमिति भावयन्।। 35.53 ।।
कुर्यादनुग्रहं सर्वं देवस्यालोक्य चाननम्।
अभिप्रायं यथा राज्ञो ज्ञात्वा तेन प्रदर्शितम्।। 35.54 ।।
बुवन्ति तत्समीपस्था राज्ञां तत्तदनुग्रहम्।
एवं भक्ताननुग्राह्याननुगृह्णन् गुरूत्तमः।। 35.55 ।।
नयेद्वीथीषु देवेशं शनैश्चतसृषु क्रमात्।
महापीठस्य पुरतो मूलार्चाभिमुखं हरिम्।। 35.56 ।।
स्थापयित्वा दृष्टिदोषान् परिहर्तुं गुरूत्तमः।
दासीन्नियोजयेत् कुम्भदीपमानेतुमञ्जसा।। 35.57 ।।
सुस्नाता धौतवसना स्वच्छमृत्स्नोर्ध्वपुण्ड्रकाः।
तरुणी नम्रवदना सर्वाभरणभूषिताः।। 35.58 ।।
संप्राप्तपञ्चसंस्कारा वैष्णवी भाविता स्वयम्।
नीराजनार्थं देवस्य तालोत्सेधं सलक्षणम्।। 35.59 ।।
हेमादिनिर्मितं कुम्भं शोधयेत् गानपूर्वकम्।
सिद्धार्थवारिणापूर्य स्वर्णाब्जेन पिधाय च।। 35.60 ।।
अश्वत्थपल्लवैः स्रग्भिश्चन्दनैरक्षतैरपि।
घटं तु समलंकृत्य पद्मगर्ते सुनिर्मलम्।। 35.61 ।।
आज्यावसिक्तवर्तिञ्च स्थापयेच्चतुरङ्गुलाम्।
पाकशालाग्निनादीप्य वाद्यघोषपुरःसरम्।। 35.62 ।।
देवस्य पुरतः पीठे स्थापयेद् घटदीपिकाम्।
दीपिकामस्त्रमन्त्रेण संप्रोक्ष्य गुरुसत्तमः।। 35.63 ।।
जले तु वरुणं देवं ज्वालायां जातवेदसम्।
आवाह्य गन्धपुष्पाद्यैरर्घ्याद्यैरभिपूजयेत्।। 35.64 ।।
अर्घ्यादिना देवदेवमभ्यर्च्य तदनन्तरम्।
दीपमुद्रां प्रदर्श्याथ दीपमादाय देशिकः।। 35.65 ।।
देवस्य दक्षिणं पादमारभ्येतरपश्चिमम्।
भ्रामयेत् सर्वतोऽङ्गानि द्विवारं वा त्रिवारकम्।। 35.66 ।।
नेत्रमन्त्रं जपन्नेव ततः पीठे निवेशयेत्।
सौवर्णादीनि पात्राणि विततानि यथारुचि।। 35.67 ।।
आज्यवर्तिसमेतानि पञ्चषट्सप्तवाष्ट वा।
दास्यो गृहीत्वा पुरतो घटदीपस्य वै रमे।। 35.68 ।।
एवं सर्वविधैर्वाद्यैस्त्रिर्देवं वाहने स्थितम्।
कृत्वा प्रदक्षिणं सर्वा बलिपीठपुरो भुवि।। 35.69 ।।
क्षिपेयुर्दीपिकाः सर्वा यद्वा नीराजनं चरेत्।
सशर्करं मुद्गदलं पृथुकं च निवेद्य च।। 35.70 ।।
ततो नीराजनं कृत्वा मण्डपे स्थापयेद्धरिम्।
वाहनाद् भद्रपीठे तमवतार्यगुरूत्तमः।। 35.71 ।।
यागमन्दिरमानाय्य वेदैस्तं परितोषयेत्।
चतुःस्थानं प्रदर्श्याथ पुनर्नीराजनं चरेत्।। 35.72 ।।
मूलार्चाभिमुखं नीत्वा तयोर्नीराजनं चरेत्।
बहिः प्रक्लृप्ते शय्याया गृहे पुष्पविभूषिते।। 35.73 ।।
वितानक्षौमसंवीते प्रदीपैः समलंकृते।
निवेश्य मण्डपे देवं श्रमशान्त्यर्थमच्युतम्।। 35.74 ।।
नवभिः कलशैर्देवि स्नापयेद्गन्धवारिभिः।
पुष्पादिभिरलंकृत्य वीणावेणुमृदङ्गकैः।। 35.75 ।।
तोषयित्वा गुलान्नाद्यैर्भक्ष्याणि विनिवेदयेत्।
हंसतूलैश्च पुष्पैश्च कृतायामधिमञ्चकम्।। 35.76 ।।
शय्यायां शाययेद्देवं तोषयेद्विविधैः स्तवैः।
उत्सवावभृथं यावत् कर्मबिम्बस्य वै रमे।। 35.77 ।।
शय्यां प्रतिदिनं कुर्याच्छ्रीभूमीसहितं तु वा।
दर्शयेच्च चतुःस्थानं मूलबिम्बं च कालयोः।। 35.78 ।।
Chapter - 36
+++
+++
।। षट्त्रिंशोऽध्यायः ।।
आचार्यः प्रातरुत्थाय नित्यकर्म समाप्य च।
गत्वा देवालयं देवि शय्यायां शायितं विभुम्।। 36.1 ।।
स्तोत्रैरुपनिषद्भिश्च स्तुत्वा संबोधयेद्धरिम्।
राजोपचारवत् सर्वमुपचारं प्रदर्शयेत्।। 36.2 ।।
देवमर्घ्यादिनाभ्यर्च्य क्षीरादीनि निवेदयेत्।
बहिर्मण्डपमासाद्य शयनस्थं जगत्प्रभुम्।। 36.3 ।।
उत्थाप्य पूर्ववत्सर्वं देवाय विनिवेदयेत्।
नित्यपूजां समाप्याथ चतुःस्थानार्चनं चरेत्।। 36.4 ।।
शङ्खचक्राद्यायुधानि परिवाराणि यस्य वै।
ब्रह्मादीनां च सर्वेषां योऽन्तर्यामी च तिष्ठति।। 36.5 ।।
तस्मै जगत्स्वरूपाय वासुदेवाय होमयेत्।
ब्रह्मरूपी श्यामवर्णः पद्मनाभश्च सानुगः।। 36.6 ।।
संकर्षणो रक्तवर्णः सानुगो रुद्ररूपधृत्।
त्रिविक्रमस्त्विन्द्ररूपः सदेवः सपरिच्छदः।। 36.7 ।।
प्रणवप्रतिपाद्यश्च वासुदेवः सनातनः।
शुद्धस्फटिकसंकाशो देवः षड्गुणसंयुतः।। 36.8 ।।
ऋग्वेदाधिपतिः श्यामवर्णो नारायणः परः।
संकर्षणो रक्तवर्णो यजुर्वेदाधिपः प्रभुः।। 36.9 ।।
सामवेदाधिपो हैमः प्रद्युम्नः परिवारवान्।
अथर्वाधिपतिर्देवो नीलोत्पलदलद्युतिः।। 36.10 ।।
)
शाश्वतस्त्वनिरुद्धश्च परिवारसमन्वितः।
मुनीनामाधिपो विष्णुः पद्मकिंजल्कसंनिभः।। 36.11 ।।
गन्धर्वरूपी भगवान् वामनो होमसंनिभः।
सर्वान्तर्यामिको देवः प्रद्युम्नः कनकप्रभः।। 36.12 ।।
पाण्डराभो यक्षनाथः श्रीधरः श्रीविवर्धनः।
[मासानामधिपो देवः केशवः कनकप्रभः]।। 36.13 ।।
अच्युतः पीतवर्णाभो वत्सराधिपतिर्महान्।
समुद्राणामधिपती रक्तवर्णो जनार्दनः।। 36.14 ।।
शैलानामधिपः पीतो हरिः सपरिचारकः।
शुद्धस्फटिकसंकाशः प्रजाधीशो नरोत्तमः।। 36.15 ।।
भूताधिपः पद्मनाभो बन्धूकसदृशप्रभः।
पश्वाधीशो नीलवर्णः कृष्णः सपरिवारकः।। 36.16 ।।
वृक्षाधिपस्त्वच्युतः स्याच्छ्यामोऽनुचरसंयुतः।
ओषधीशः पद्मनाभः कालमेघनिभाकृतिः।। 36.17 ।।
वनस्पत्यधिपो देवो माधवः स्फटिकाकृतिः।
जरायुजानामधिपो वासुदेवः सितप्रभः।। 36.18 ।।
संकर्षणस्त्वण्डजानामधिपो रक्तवर्णकः।
प्रद्युम्नो हेमसंकाशः स्वेदजानामधीश्वरः।। 36.19 ।।
उद्भिजाधिपतिर्देव अनिरुद्धो जगद्गुरुः।
अनिरुद्धः श्यामवर्णो भूवनानामधीश्वरः।। 36.20 ।।
चतुर्थ्यन्तेभ्य एतेभ्यो जुहुयात्सानगैरपि।
इत्थं प्राचीनकुण्डे तु हुत्वा पूर्णाहुतिं चरेत्।। 36.21 ।।
कुमुदादिबलिं दद्याच्छास्त्रदृष्टेन वर्त्मना।
हरेः समीपमागत्य कृतं होमं निवेदयेत्।। 36.22 ।।
ध्वजपीठं समासाद्य द्वारार्चनपुरःसरम्।
विहगेन्द्रं समभ्यर्च्य तत्तद्द्वारबलिं क्षिपेत्।। 36.23 ।।
गर्भगेहं समासाद्य बलिबिम्बं समर्च्य च।
तद्बिम्बं यानमारोप्य तच्छिष्यो वाथ तत्सुतः।। 36.24 ।।
सर्वास्वपि च वीथीषु वाद्यघोषपुरःसरम्।
सर्वान् देवान् समुद्दिश्य बलिदानं समुत्क्षिपेत्।। 36.25 ।।
एवं कालद्वये कुर्याद् बलिं तीर्थदिनान्तिमम्।
आरम्भदिवसे रात्रौ प्रातस्तु नवमेऽहनि।। 36.26 ।।
उद्वासनदिने रात्रौ कालेष्वेतेषु वै बलिम्।
दद्यादनुक्तकालेषु न दद्यात् कमलासने।। 36.27 ।।
एवं दिवा रजन्यां च नित्यपूजापुरःसरम्।
विशेषयजनं कुर्याद् बल्यन्तं देशिकोत्तमः।। 36.28 ।।
बलिप्रदानात् परतो देवदेवं रमापतिम्।
सिबिकायां रत्नमय्यां नयेन्मन्त्रं समुच्चरन्।। 36.29 ।।
विविधैर्भूषणैश्चापि विचित्रवसनैस्तथा।
सुगन्धपुष्पमाल्याद्यैरलंकुर्याद्धरिं प्रभुम्।। 36.30 ।।
अर्घ्यादिभिः समभ्यर्च्य ताम्बूलं च निवेदयेत्।
दर्पणं च प्रदर्श्याथ नीराजनपुरःसरम्।। 36.31 ।।
गीतैश्च विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः।
राजोचितैः परिजनैरन्यैर्वाद्यगणैः सह।। 36.32 ।।
देवं चतुर्षु वीथीषु भ्रमयेच्च प्रदक्षिणम्।
वीथीषु याति देवेशे भक्ष्याणि न निवेदयेत्।। 35.33 ।।
भक्त्या दत्तानि वस्त्राणि माल्यानि विविधानि च।
अभिमन्त्र्यास्त्रमन्त्रेण सप्तवारं गुरूत्तमः।। 35.34 ।।
देवाङ्गे योजयेत् तानि फलादीनि निवेदयेत्।
महापीठपुरोभागे नीत्वा देवं जनार्दनम्।। 35.35 ।।
देवस्य श्रमशान्त्यर्थं यजेदर्घ्यादिभिस्ततः।
घटदीपं प्रदर्श्यथ पृथुकादीन् निवेदयेत्।। 35.36 ।।
अर्हणं तर्पणं चैव ततो नीराजनं चरेत्।
एवं वीथीष्वहरहर्भ्रामयित्वा रमापतिम्।। 35.37 ।।
भक्तप्रार्थनया देवं तत्कृतं मण्डपं नयेत्।
तत्र स्नानासने देवं स्नापयेद् गन्धवारिभिः।। 35.38 ।।
ततः सौवर्णपीठे तु स्थापयेज्जगतां पतिम्।
वस्त्राभरणमाल्याद्यैरलंकृत्य यथाविधि।। 35.39 ।।
निवेदयेच्च साल्यन्नं सघृतं सोपदंशकम्।
माषान्नं च गुडान्नं च मुद्गान्नं घृतमिश्रितम्।। 35.40 ।।
पायसं च गुडापूपं माषापूपं च लड्डुकम्।
अन्यानि भक्ष्यभोज्यानि लेह्यानि विविधानि च।। 35.41 ।।
स्वादूनि सात्त्विकान्नानि ह्यर्घ्यदानादिपूर्वकम्।
ततो नीराजनं कृत्वा भक्तेभ्यस्तानि दापयेत्।। 35.42 ।।
अपराह्णे तु समये श्रमशान्त्यै मधुद्विषः।
चन्दनं वासनायुक्तं कर्पूराद्यैः सुभावितम्।। 35.43 ।।
देवस्योरसि चालिप्य मालाभिः समलंक्रियात्।
शीतलं तर्पणजलं नालिकेरोदकान्वितम्।। 35.44 ।।
मुखवासं च ताम्बूलमेलाकर्पूरमिश्रितम्।
श्रमशान्तिनिमित्तानि चान्यानि च निवेदयेत्।। 35.45 ।।
ततो वीणादिवाद्यैश्च गायकास्तोषयेत् प्रभुम्।
सायाह्ने नित्यपूजां च कुर्याद्देवस्य पद्मजे।। 35.46 ।।
सिबिकायामथारोप्य नयेद्वाहनमण्डपम्।
चतुःस्थानार्चनं कुर्याद् बलिदानपुरःसरम्।। 35.47 ।।
याने देवं समारोप्य वीथीभ्रमणमाचरेत्।
एवं पञ्चदिनं सायं प्रातश्चोत्सवमाचरेत्।। 35.48 ।।
षष्ठेऽहनि गजारोहात् पूर्वं देशिकसत्तमः।
उद्याने मण्डपे वापि देवस्य पुरतो भुवि।। 35.49 ।।
धान्यपीठे जलद्रोणीं सौवर्णीं वाथ राजतीम्।
ताम्रजां वा दारुमयीं त्रिहस्तायामनिर्मिताम्।। 35.50 ।।
एकार्धहस्तविस्तीर्णां बिम्बनाभिसमुन्नताम्।
स्थापयित्वा परिस्तीर्य पूरयेद् गन्धवारिभिः।। 35.51 ।।
पुण्याहवारिणा प्रोक्ष्य तस्मिन् वरुणदैवतम्।
अभ्यर्च्य गन्धपुष्पाद्यैर्योगपीठं प्रकल्पयेत्।। 35.52 ।।
श्रिया समेतं देवेशमभ्यर्च्यार्घ्यादिना गुरुः।
पुष्पाञ्जलिधरो भूत्वा प्रार्थयेद् विष्णुमव्ययम्।। 35.53 ।।
उत्सवे श्रमशान्त्यर्थं श्रिया युक्तस्य ते विभो।
अभिषेकं कर्तुमीष्टे जलद्रोण्यां रमापते।। 35.54 ।।
अवातर यथेष्टं त्वं विहरास्यां श्रिया सह।
ऋगादि चतुरो वेदान् पठेयुः परितो द्विजाः।। 35.55 ।।
चतुर्विधानि वाद्यानि वादेयुस्तैश्च जीविनः।
देवमर्घ्यादिनाभ्यर्च्य स्नापयेद् गन्धवारिभिः।। 35.56 ।।
कूर्चेन प्रोक्षयेद्वापि मन्त्रानुच्चार्य देशिकः।
गन्धपुष्पैरलंकृत्य मरीच्यन्नं निवेदयेत्।। 35.57 ।।
एवं तस्यां तु यामं वा यामार्धं वा वरानने।
उपचर्य ततो देवं मण्डपे विनिवेशयेत्।। 35.58 ।।
स्नानकाले तु ये विप्राः स्त्रियो वा पादजा अपि।
पश्यन्ति ते हीनपापाः प्राप्नुवन्ति सुखान्यपि।। 35.59 ।।
ऐहिकामुष्मिकान् भोगान् भुञ्जते नात्र संशयः।
आर्द्रवस्त्राणि सर्वाणि भट्टाचार्यः समाहरेत्।। 35.60 ।।
पीताम्बरैर्दुकूलैर्वा वस्त्रैर्वा हरिमव्ययम्।
परिधाय च कर्पूरकुंकुमादिविमिश्रितैः।। 35.61 ।।
चन्दनैर्विविधैः स्रग्भिरलंकुर्याद् गुरूत्तमः।
ततो यथावद्देवेशं पूजयेद् भूतशुद्धिमत्।। 35.62 ।।
गुडान्नादि निवेद्याथ भद्रपीठे नियोज्य च।
धाम प्रदक्षिणीकृत्य मण्डपे स्थापयेद्धरिम्।। 35.63 ।।
सायाह्नसमये प्राप्ते श्रिया सार्धं जगत्पतिम्।
वाहनं गजमारोप्य भ्रामयेद् वीथिषु क्रमात्।। 35.64 ।।
सप्तमे देवि दिवसे प्रातर्नास्त्युत्सवं हरेः।
बलिदानं न कुर्वीत चतुःस्थानं तु पूजयेत्।। 35.65 ।।
श्रीभूमिभ्यां तु देवेशं स्नानमण्डपमानयेत्।
स्नानपीठे स्थितं देवं यजेदर्घ्यादिभिर्गुरुः।। 35.66 ।।
वासनावस्तुभिस्तैलमग्नौ संपच्य देशिकः।
देवस्य श्रमशान्त्यर्थं हरिमभ्यञ्जयेद्रमे।। 35.67 ।।
कङ्कतेन मृजेत् केशानङ्गानि परिमर्दयेत्।
एकासीतिघटैः स्नाप्य विधिवत् कमलोद्भवे।। 35.68 ।।
मण्डनासनमानीय श्रीभूमिसहितं विभुम्।
अभ्यर्च्यान्नादिकं सर्वं देवाय विनिवेदयेत्।। 35.69 ।।
अपराह्णे तु संप्राप्ते ध्वजपीठपुरोभुवि।
गोमयाम्भोभिरालिप्य सुधाचूर्णैरलंक्रियात्।। 35.70 ।।
कल्पयित्वा धान्यपीठं क्षालितं हेमनिर्मितम्।
उलूखलं च मुसलान् मण्डयेच्चन्दनादिभिः।। 35.71 ।।
दूर्वाकाण्डैराम्रदलैर्दर्भैरश्वत्थपल्लवैः।
विन्यसेत्तान् धान्यपीठे प्रोक्ष्य पुण्याहवारिणा।। 35.72 ।।
उलूखले श्रियं ध्यायेन्मुसलेष्वनिरुद्धकम्।
हैमाभं रजनीखण्डं द्रोणं कस्तूरिसंज्ञकम्।। 35.73 ।।
उलूखले विनिक्षिप्य चतस्रो गणिकोत्तमाः।
वदनं नासिकारन्ध्रं स्थगयित्वाम्बरेण तु।। 35.74 ।।
अवघातं तु ताः कुर्युर्यथा चूर्णं भवेत्तथा।
गायन्त्यो नृत्यमाना वै तत्रान्या देवदासिकाः।। 35.75 ।।
श्रीसूक्तं भूमिसूक्तं च पठेयुर्वेदपाठकाः।
सप्त वा पञ्च वा कुम्भानेकं वा शुद्धयेत् ततः।। 35.76 ।।
चूर्णैः संचूर्णितं कुम्भं देवस्य पुरतो रमे।
धान्यपीठे विनिक्षिप्य शोषयेच्छोषणादिभिः।। 35.77 ।।
पुण्याहवारिणा प्रोक्ष्य देवर्घ्यादिभिर्यजेत्।
गुडान्नं वापि मुद्गान्नं देवाय विनिवेदयेत्।। 35.78 ।।
नीराजनं ततः कृत्वा श्रियं चूर्णे समर्चयेत्।
चूर्णकुम्भं समादाय वाद्यघोषपुरःसरम्।। 35.79 ।।
प्रादक्षिण्येन धामान्तः प्रविश्य गुरुसत्तमः।
चूर्णैः श्रीसूक्तमुच्चार्य मूलार्चामभिषेचयेत्।। 35.80 ।।
ततः श्रीपुष्टिसहितं कर्मार्चां स्नापयेद्रमे।
तथैव यानमारोप्य बलिदानपुरःसरम्।। 35.81 ।।
प्रदक्षिणं च वीथीषु वाद्यघोषादिभिः सह।
कारयित्वा देवदेवं मण्डपं पुनरानयैत्।। 35.82 ।।
चूर्णाभिषेकमित्थं च कृत्वा देशिकसत्तमः।
शुद्धवस्त्रैस्ततो देवं सोधयेच्चूर्णरञ्जितम्।। 35.83 ।।
सायाह्ने देवदेवस्य पूजां कृत्वा यथाविधि।
यानमारोप्य च पुनर्वीथीभ्रमणमाचरेत्।। 35.84 ।।
अष्टमे दिवसे प्रातः सायं चोत्सवमाचरेत्।
नवमे दिवसे देवि प्रातर्बल्यन्तमर्चयेत्।। 35.85 ।।
देशिकेन्द्रो यथाशास्त्रं कृत्वा रथवरोत्सवम्।
कुर्यात् ते तत्प्रकारं तु वदामि कमलेक्षणे।। 35.86 ।।
लोहजं दारुजं वापि सर्वलक्षणसंयुतम्।
महारथमलंकुर्याद्धेमघण्टादिभिस्तथा।। 35.87 ।।
मुक्तादामवितानाद्यैः सौवर्णैर्मञ्जरीगणैः।
तप्तहाटकतन्तूत्थैश्चेलैश्चित्रविचित्रितैः।। 35.88 ।।
कदलीनारिकेलादिफलैः पूगलैरपि।
रम्भास्तम्भैरिक्षुदण्डैरश्वत्थाम्रादितोरणैः।। 35.89 ।।
सौवर्णकुम्भशिखरं गरुडध्वजमण्डितम्।
रथं पुण्याहसलिलैः प्रोक्षयेद्रथशुद्धये।। 35.90 ।।
अभ्यर्च्य विहगाधीशं रथरूपिणमब्जजे।
रथद्वारार्चनं कृत्वा तद्देवानां बलिं क्षिपेत्।। 35.91 ।।
नूतनं चेद्रथं देवि प्रतिष्ठां विधिवद् गुरुः।
कृत्वा रथे वरे देवं निनयेन्मूर्तिपैः सह।। 35.92 ।।
तत्प्रकारं प्रवक्ष्यामि शृणु पङ्कजमालिनि।
महारथमलंकृत्य शोधयेन्मार्जनादिभिः।। 35.93 ।।
रथस्य पुरतो वापि ऐशान्यां वा गुरूत्तमः।
यज्ञागारं कल्पयित्वा कुण्डेनैकेन संयुतम्।। 35.94 ।।
रम्भास्तम्भैरलंकृत्य सुधाचूर्णैश्च शोभयेत्।
पुण्याहसलिलैः प्रोक्ष्य यागशालां रथं तथा।। 35.95 ।।
वेदिकायां धान्यपीठे नवकुम्भानलंकृतान्।
संस्ताप्याग्निं समुत्पाद्य जातकर्मादिकाः क्रियाः।। 35.96 ।।
कृत्वा होमं प्रकुर्वीत मानोन्मानविशुद्धये।
तत्त्वन्यासादिहोमांश्च कुर्यान्मन्त्रैश्च देशिकः।। 35.97 ।।
रथस्थवासुदेवस्य रक्षाबन्धनमाचरेत्।
जलाधिवासं कूर्चे स्यात् स्नपनं तु ततश्चरेत्।। 35.98 ।।
कुम्भेष्वपि च सर्वेषु योगपीठं प्रकल्पयेत्।
रथे ह्यावाहितान् देवान् मध्यकुम्भेषु पूजयेत्।। 35.99 ।।
इन्द्रादीनुपकुम्भेषु समाराध्य ततो गुरुः।
वह्नौ पीठं पुरा कृत्वा रथदेवांस्तु तत्र वै।। 35.100 ।।
अनिरुद्धात् समुद्भूतानावाह्य क्रमयोगतः।
अर्घ्यदानादिभोज्याब्जं तत्तन्मन्त्रं समुच्चरन्।। 35.101 ।।
स्वाहान्तेन यजेत् पूर्वं नृसूक्तेन चरुं ततः।
तत्तद्देवान् समुद्दिश्य अष्टाविंशतिसंख्यया।। 35.102 ।।
समिदद्भिर्जुहुयात्पूर्वं गोघृतेन ततः परम्।
हुत्वा पूर्णाहुतिं कुम्भे नृसूक्तेन न्यसेद् गुरुः।। 35.103 ।।
निषद्भिः पञ्चभिश्चैव शान्तिहोमं समाचरेत्।
कुमुदादिबलिं दद्यात् ब्राह्मणान् भोजयेत् ततः।। 35.104 ।।
एवं कालत्रये वापि कालयोर्वा यजेद्रमे।
शुभे मुहूर्ते त्वाचार्यो महाकुम्भजलेन वै।। 35.105 ।।
रथस्य शिखरं प्राप्य प्रोक्षयेद् गुरुसत्तमः।
वासुदेवं तु शिखरे देवानङ्गेषु वै स्मरेत्।। 35.106 ।।
प्रणवेन पिधायाथ बह्यरन्ध्रं गुरूत्तमः।
उपकुम्भाष्टकजलैरिन्द्रादीन् प्रोक्षयेद्रमे।। 35.107 ।।
तत्र तत्र स्थितान् देवान् रथस्थान् क्रमशोऽर्चयेत्।
ब्रह्मासनस्य परितः शङ्खादीनर्चयेद् रमे।। 35.108 ।।
देवासनस्य परितो यजेत कुमुदादिकान्।
मानुषस्यासने देवि पुरुहूतादिकान् यजेत्।। 35.109 ।।
रथस्तम्भेषु धर्मादीनधर्मादीन् विदिक्षु च।
अधोक्षजाद्यष्टमूर्तीस्तृतीयापङ्क्तिषु स्मरेत्।। 35.110 ।।
द्वितीयापङ्क्तिषु रमे मत्स्यादीनर्चयेत् क्रमात्।
आधारपङ्क्तिषु तथा केशवादीन् समर्चयेत्।। 35.111 ।।
आधारपीठकोणेषु सत्यादीनर्चयेद् गुरुः।
आधारे पन्नगाधीशं तथाधारे तु कूर्मकम्।। 35.112 ।।
रथाक्षेषु च मायां च चक्रेषु शशिभास्करौ।
तुरगेषु च वेदांश्च सारथौ विधिमर्चयेत्।। 35.113 ।।
ध्वजे तु गरुडं ध्यायेदातपत्रे त्वहीपतिम्।
एवमभ्यर्च्य विधिवत् डोलां संपूजयेत् ततः।। 35.114 ।।
शयनागारमासाद्य दीक्षितो मूर्तिपैः सह।
श्रीभूमिसहितं देवं निनयेद् भद्रविष्टरे।। 35.115 ।।
भूषाद्यैः समलंकृत्य दर्पणं तु प्रदर्शयेत्।
मुखवाससमोपेतं ताम्बूलं च निवेदयेत्।। 35.116 ।।
यात्राविघ्नप्रशान्त्यर्थं बीजदानादिकं चरेत्।
वेदघोषैर्वाद्यघोषैः शङ्खघण्टारवैरपि।। 35.117 ।।
यात्रोपकरणैः सार्धं चामरैर्वीजितं रमे।
मन्दं मन्दं वहेयुस्ते भक्ता यानं हरिस्थितम्।। 35.118 ।।
ततः सोपानमार्गेण रथमारोपयेद् विभुम्।
डोलायां च निवेश्याथ देवमर्घ्यादिना यजेत्।। 35.119 ।।
गुलान्नं घृसंयुक्तं एलाकर्पूरमिश्रितम्।
निवेद्य तर्पणं दत्वा नीराजनमथाचरेत्।। 35.120 ।।
ततस्तद्रथयानं तु वीथीषु चतुर्षु क्रमात्।
प्रादक्षिण्येन सदनं भ्रामयेत् सुप्रयत्नतः।। 35.121 ।।
प्राप्ते रथे यथास्थानं नीराजनमतश्चरेत्।
गर्भगेहं प्रविश्याथ देशिकः साधकैः सह।।। 35.122 ।।
प्रणम्य दण्डवन्मूलं प्रार्थयेद् गाथयानया।
यज्ञमूर्ते जगन्नाथ पुण्यतीर्थ दयानिधे।। 35.123 ।।
उत्सवावभृथार्थाय बिम्बेऽस्मिन् संनिधिं कुरु।
इति मूलात् तीर्थबिम्बे शक्तिमावाह्य मन्त्रवित्।। 35.124 ।।
रक्षाबन्धं च विधिवत् कृत्वा संपूजयेत् ततः।
शिबिकायां तीर्थमूर्तिमारोप्यालंक्रियाद् गुरुः।। 35.125 ।।
रथस्थमपि देवेशं यानमारोपयेद् रमे।
तीर्थबिम्बेन सहितं तीर्थस्नानं नयेद्धरिम्।। 35.126 ।।
तत्र स्थितं मण्डपं तु पुण्याहैः प्रोक्षयेत् पुरा।
तत्र सिंहासने देवमवतार्य गुरूत्तमः।। 35.127 ।।
क्रमबिम्बस्य पुरतः स्नानपीठं निवेशयेत्।
तस्मिन्निधाय तीर्थार्चां पुण्याहमपि वाचयेत्।। 35.128 ।।
द्रव्याणि स्नानयोग्यानि तीर्थं च प्रोक्षयेत् पुरा।
तीर्थे तु विरजां ध्यात्वा यजेदर्घ्यादिना क्रमात्।। 35.129 ।।
मन्त्रासनादिस्नानान्तमर्चयित्वा गुरूत्तमः।
अभिषिञ्चेत् तीर्थबेरं नवभिः कलशैस्ततः।। 35.130 ।।
पृथुकादीन् निवेद्याथ दर्शयेद् दीपमादरात्।
तीर्थबिम्बं समादाय शिरसा धारयन् गुरुः।। 35.131 ।।
जलमध्यं संप्रविश्य नाभिदघ्नजले स्थितः।
निमज्जेत् तीर्थबिम्बेन त्रिवारं मूर्तिपैः सह।। 35.132 ।।
देवेन सह तत्काले निमज्जन्ति च ये जनाः।
विमुक्तकल्मषाः सर्वे प्राप्नुयुः परमां गतिम्।। 35.133 ।।
तीरमासाद्य तद्बिम्बं विष्टरे स्थापयेद्रमे।
स्नानवस्त्रं विसृज्याथ वस्त्रेऽन्ये परिधापयेत्।। 35.134 ।।
कर्मबिम्बेन वै सार्धं तीर्थबिम्बं च देशिकः।
प्रादक्षिण्येन धामान्तः प्रावेश्य तदनन्तरम्।। 35.135 ।।
प्रदर्श्य घटदीपं च कर्मार्चां मण्डपं नयेत्।
मूलबेरसमीपं च तीर्थबेरं नयेत् ततः।। 35.136 ।।
तीर्तबिम्बगतां शक्तिं मूलबेरे नियोजयेत्।
त्वत्प्रीतये रमानाथ तीर्थोत्सवमनुत्तमम्।। 35.137 ।।
मया कृतं बालिशेन तत्क्षमस्व जगद्गुरो।
विज्ञाप्यैवं तीर्थबिम्बात् कौतुकं विसृजेत् रमे।। 35.138 ।।
अभावे तीर्थबिम्बस्य स्नानबिम्बेन तत्क्रियाम्।
बल्यर्चया तद्विहीने पादुकाभ्यां वा चरेद् गुरुः।। 35.139 ।।
मण्डपे देवदेवस्य हविरादिनिवेदयेत्।
सायाह्नसमये देवं शय्यान्तं पूजयेत् क्रमात्।। 35.140 ।।
Chapter - 37
+++
+++
।। सप्तत्रिंशोऽध्यायः ।।
परस्मिन्नहनि प्रातः कृतकर्मा गुरूत्तमः।
साधकैर्मूर्तिपैः साकं प्रविश्य भगवद्गृहम्।। 37.1 ।।
अग्न्यगारं प्रविश्याथ द्वारतोरणपूर्वकम्।
अङ्कुराणां च पूजां च चतुःस्थानार्चनं तथा।। 37.2 ।।
मूलबेरादिबिम्बानां नित्यपूजां समाचरेत्।
मध्याह्नसमये देवं श्रीभूमिभ्यां समन्वितम्।। 37.3 ।।
कलशैः पञ्चविंशद्भिः स्नापयेन्मखपूर्तये।
महाहविर्निवेद्याथ वैष्णवानां प्रदापयेत्।। 37.4 ।।
सायाह्ने पुष्पयागं तु कुर्यात् तस्य विधिं शृणु।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा।। 37.5 ।।
देवस्य पुष्पयागार्थं द्वारतोरणकुम्भवत्।
दर्भतोरणमालाद्यै रम्भास्तम्भैरलंकृतम्।। 37.6 ।।
घृतदीपैश्च बहुशः कल्पयेन्मण्डपं पुरा।
तस्मिन्नीत्वा देवदेवं स्थापयेत् सिंहविष्टरे।। 37.7 ।।
मण्डनासनभोगैश्च पूजयेद्धरिमव्ययम्।
देवस्य पुरतो वेद्यां धान्यपीठं प्रकल्पयेत्।। 37.8 ।।
पुण्याहवारिभिः प्रोक्ष्य यागद्रव्याणि वै रमे।
तस्मिन् वस्त्रं परिस्तीर्य प्रसूनैः पञ्चवर्णकैः।। 37.9 ।।
यद्वा तत्कालजैः पुष्पैः सात्त्विकैः सुमनोहरैः।
तुलसीपल्लवैः श्यामैः कृष्णैश्चक्राब्जमण्डलम्।। 37.10 ।।
कल्पयित्वोक्तमार्गेण मण्डलस्य बहिर्गुरुम्।
ईशानकोणे हेमादिनिर्मितं घटमुत्तमम्।। 37.11 ।।
स्थापयेत् पालिकादींश्च क्षालयेन्मन्त्रपूर्वकम्।
सुगन्धिचन्दनैस्तेषां बिम्बमूलानि पूरयेत्।। 37.12 ।।
बिलानि पूरयेत् तेषां निशाचूर्णाक्षतैस्ततः।
मण्डलस्योत्तरे पार्श्वे धान्यपीठे नियोजयेत्।। 37.13 ।।
द्वारपूजादिकान् सर्वान् विधिवत् कारयेद् गुरुः।
सोमकुम्भं च तद्धोमं वर्जयेदत्र कर्मणि।। 37.14 ।।
प्रोक्ष्य पुण्याहतोयेन कुम्भमण्डलपालिकाः।
वेद्याः प्राचीनभूभागे कुण्डे वा स्थण्डिलेऽपि वा।। 37.15 ।।
वासुदेवस्य पूजार्थमग्निमुत्पादयेद् रमे।
पूर्वोक्तवर्त्मना देवान् पालिकास्वर्चयेत् क्रमात्।। 37.16 ।।
श्रियं प्रसूनेशष्वावाह्य तेषु पुष्पाणि वापयेत्।
द्वादशस्वब्जपत्रेषु कर्णिकायां तथैव च।। 37.17 ।।
कुम्भे च पीठं संकल्प्य परतत्त्वस्वरूपिणम्।
वासुदेवं कुम्भमध्ये ध्यात्वा संपूजयेत् ततः।। 37.18 ।।
सुदर्शनं समाराध्य करके तु चतुर्भुजम्।
द्वान् संपूजयेद् विद्वान् मण्जलावरणस्थितान्।। 37.19 ।।
चक्राब्जकर्णिकामध्ये प्रणवाधिपमव्ययम्।
शङ्खचक्रगदाशार्ङ्गनन्दकाद्यैरलंकृतम्।। 37.20 ।।
वासुदेवं चतुर्बाहुं ध्यात्वा दीपान्तमर्चयेत्।
प्रागादिदलमूलेषु द्वादशार्णानि पूजयेत्।। 37.21 ।।
दलमध्येषु कूर्चेषु केशवादीन् विचिन्तयेत्।
दलाग्रेष्वर्चयेन्मन्त्री प्रणवं स्फटिकप्रभम्।। 37.22 ।।
देवमभ्यर्च्य तदनु ध्यायेद् वह्नौ तु मण्डलम्।
मण्डलस्थान् यजेद् देवान् सर्वानाज्येन पूर्ववत्।। 37.23 ।।
नृसूक्तेन चरुं हत्वा समिद्भिः षोडशाहुतीः।
केशवादीन् समुद्दिश्य यजेदाज्येन देशिकः।। 37.24 ।।
हुत्वा पूर्णाहुतिं पश्चात् यजेत्कुम्भादिषु क्रमात्।
शान्तिहोमं ततः कृत्वा वह्निमण्डलसंस्थितान्।। 37.25 ।।
प्रसूनमण्डले ध्यात्वा पायसान्नं निवेदयेत्।
ततः पुष्पाञ्जलिर्भूत्वा प्रार्थयेद्धरिमव्ययम्।। 37.26 ।।
श्रियः पते वासुदेव सर्वलोकैकरक्षक।
महोत्सवक्रियामन्त्रद्रव्यलोपादिशान्तये।। 37.27 ।।
मया कृतं पुष्पयागं गृहाण परमेश्वर।
इति विज्ञाप्य देवेशमारभेद् द्वादशार्चनम्।। 37.28 ।।
प्राक्पत्रमूलाद्वर्णं च केशवं प्रणवं तथा।
प्रसूनापात्रे चावाह्य बिम्बनाभौ गुरूत्तमः।। 37.29 ।।
कूर्चेन विन्यसेत् पूर्वं देवं संपूजयेत् ततः।
अर्घ्यं पाद्यं तताचामं ब्रह्मसूत्रं च चन्दनम्।। 37.30 ।।
माल्यं धूपं दीपिकां च फलं नीराजनं ततः।
एलाकर्पूरसंमिश्रताम्बूलं च निवेदयेत्।। 37.31 ।।
देवाङ्गषु स्थितिन्यासं न्यसेद् देशिकसत्तमः।
एवं प्रत्यक्षरन्यासं न्यसेत् पूजां च वै चरेत्।। 37.32 ।।
पालिकासु स्थितान् देवांश्चक्राब्जे तु विचिन्तयेत्।
चक्राब्जाद् वासुदेवं च कुम्भे संप्रार्थयेद्धरिम्।। 37.33 ।।
कुम्भस्थं देवबिम्बे तु प्रार्थयेत् कमलेक्षणे।
ततो मण्डलपुष्पाणि समादाय गुरुः स्वयम्।। 37.34 ।।
सूक्तेन पौरुषेणैव ह्यभिषिञ्चेज्जनार्दनम्।
कुम्भतोयेन संप्रोक्ष्य नीराजनमथाचरेत्।। 37.35 ।।
निवेद्य सात्त्विकान्नानि भक्ष्याणि विवधानि च।
भक्तेभ्यस्तानि दत्वाथ देवस्योत्सवमाचरेत्।। 37.36 ।।
श्रीभूमिसहितं वापि देवेशं भद्रविष्टरे।
संस्थाप्य समलंकृत्य पुष्पाद्यैर्देशिकोत्तमः।। 37.37 ।।
घृतावसिक्तैर्बहुभिर्दीपैर्बहुमुखैस्तथा।
यात्रोपकरणैश्चैव नृत्तगीतपुरःसरम्।। 37.38 ।।
वीथीषु निनयेद् देवं वेदघोषसमन्वितम्।
धामान्तर्देवमानीय बलिपीठपुरो भुवि।। 37.39 ।।
स्थापयेद् विष्टरे देवं मूलार्चाभिमुखं हरिम्।
तदोपनिषदा देवं भट्टाचार्यः कृताञ्जलिः।। 37.40 ।।
[तोषयित्वा स्तवैर्विष्णुं प्रार्थयेद् गाथयानया।]
सहस्रशीर्षदेवेश सहस्रनयनोज्जवल।। 37.41 ।।
सहस्रभुजसंयुक्त सहस्रचरमाम्बुज।
अनिरुद्धस्वरूप त्वं ब्रह्मादीनां दिवौकसाम्।। 37.42 ।।
महोत्सवस्य सेवार्थमागतानां नृणामपि।
स्वस्थानगमनार्थाय देह्यनुज्ञां जगत्प्रभो।। 37.43 ।।
इति विज्ञाप्य देवेशं ताननुज्ञापयेद्धरे।
त्वन्नाबिकमलोद्भूतं वाग्गायत्रीसमन्वितम्।। 37.44 ।।
ब्रह्माणं सत्यलोकेशं राजहंसस्थितं विभुम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.45 ।।
एनं स्वस्थानयानार्थमाज्ञापय जगत्प्रभो।
त्वन्मुखाम्बुजसंभूतं शचीनाथं पुरंदरम्।। 37.46 ।।
ऐरावणगजारूढममरावत्यदीश्वरम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.47 ।।
त्वद्वक्त्राम्बुजसंभूतं तेजोपतिपुरीश्वरम्।
स्वदास्वाहापतिं वह्निं मेषस्थं शक्तिपाणिनम्।। 37.48 ।।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
त्वद्वामबाहुं कालं श्यामलानायकं विभुम्।। 37.49 ।।
संयमीनगराधीशं महिषस्थं त्रिलोचनम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.50 ।।
त्वत्पादपङ्कजोद्भूतं निर्ऋतं भूतवाहनम्।
कृष्णाङ्गनाधिपं क्रूरं दीर्घिकानायिकान्वितम्।। 37.51 ।।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
त्वद्गुह्यजं पाशधरं श्रद्धावत्यधिनायकम्।। 37.52 ।।
वरुणं शीतलानाथं महामकरवाहनम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.53 ।।
त्वत्प्राणजं मृगारूढं गन्धवत्यधिनायकम्।
वायुं सदागतीनाथं ध्वजहस्तं महाबलम्।। 37.54 ।।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
त्वदूरुजं निधिधरं शिवमित्रं धनाधिपम्।। 37.55 ।।
नरवाहसमारूढं संपद्देव्यलकाधिपम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.56 ।।
त्वद्दक्षिणभुजोद्भूतं यशोवत्यधिपं हरम्।
उमापतिं शूलधरं त्रिनेत्रं वृषवाहनम्।। 37.57 ।।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
देशाद् देशात्समायाता ब्राह्मणाः क्षत्रिया विशः।। 37.58 ।।
शूद्राश्च वैष्णवाः सर्वे देवसेवार्थमागताः।
तेषांस्वदेशगमनमनुजानीहि माधव।। 37.59 ।।
हरेर्वदनमालोक्य प्राप्यानुज्ञां जगद्गुरोः।
तेभ्यः स्वदेशगमनं दद्याद् देशिकसत्तमः।। 37.60 ।।
ततो यागालयं देवमानीयाभिप्रदर्शयेत्।
चतुःस्थानार्चनं वेदसमाप्तिं कारयेद्गुरुः।। 37.61 ।।
पालिकासु स्थितान् देवांश्चक्राब्जे तु नियोजयेत्।
सांकुरं पात्रमानीय प्रार्थयेद्धरिमव्ययम्।। 37.62 ।।
भगवन् पुण्डरीकाक्ष शरणागतवत्सल।
अङ्कुरार्पणमारभ्य उत्सवावभृथान्तिमम्।। 37.63 ।।
यन्मयानुष्ठितं कर्म तव संप्रीतये विभो।
तथान्यैर्मदनुज्ञातैर्ऋत्विग्भिश्चापि यत्कृतम्।। 37.64 ।।
साधकैश्च तथान्यैश्च विविधैः परिचारकैः।
तत्तत्संपूरणार्थाय न्यूनाधिक्योपशान्तये।। 37.65 ।।
मङ्गलाङ्कुरपूजां त्वं गृहाण कमलापते।
इति विज्ञाप्य तदनु श्रीसूक्तेनार्चयेद् विभुम्।। 37.66 ।।
नीराजनं ततः कृत्वा घटदीपं प्रदर्शयेत्।
ततः सोपानमार्गेण भगवन्तं गरूत्तमः।। 37.67 ।।
मन्दं मन्दं च निनयेद् गर्भगेहं रमापतिम्।
मूलार्चाभिमुखे स्थाप्य तयोर्नीराजनं चरेत्।। 37.68 ।।
आचार्यस्य नियोगेन बहिर्गत्वा तु साधकः।
देवानुद्वासयेत्सर्वान् ब्रह्मादीन् कमलोद्भवे।। 37.69 ।।
बलिबिम्बं तु शिबिकां यानमारोप्य साधकः।
चण्डादिसुप्रतिष्ठान्तं बलिं दत्वा यथाविधि।। 37.70 ।।
कुमुदादीन् समुद्वास्य महापीठे नियोजयेत्।
ब्रह्मादीशानपर्यन्तं प्रक्षिपेत् सोदकं बलिम्।। 37.71 ।।
समाहूताः पुरा यैस्ते ब्रह्माद्याः सुरसत्तमाः।
श्लोकैस्तैरेव संबोध्य स्वस्वदेशं नयेद् सुधीः।। 37.72 ।।
महापीठे बलिं क्षिप्त्वा प्रदक्षिणपुरःसरम्।
ध्वजपीठं सामासाद्य विहगेन्द्रं समर्चयेत्।। 37.73 ।।
सात्त्विकान्नं निवेद्याथ ध्वजस्थं विहगाधिपम्।
उद्वास्य मूलपक्षीन्द्रे कुर्यान्नीराजनं ततः।। 37.74 ।।
अवरोप्य ध्वजं पश्चाच्छिरसा धारयन् गुरुः।
गर्भगेहं समासाद्य मूलार्चापादपङ्कजे।। 37.75 ।।
ध्वजवस्त्रं समर्प्याथ चतुःस्थानस्य पूजनम्।
कृत्वा मण्डलवह्निस्थं देवं बिम्बे नियोजयेत्।। 37.76 ।।
द्वारतोरणकुम्भस्थान् महापीठे नियोजयेत्।
मखार्चां यानमारोप्य वहेयुर्मूर्तिपास्ततः।। 37.77 ।।
महाकुम्भोपकुम्भांश्च यात्रोपकरणैः सह।
वेदघोषैर्वाद्यघोषैर्गच्छेयुर्देवमन्दिरम्।। 37.78 ।।
करकं च समादाय धारयाच्छिन्नया सह।
भट्टाचार्यः पुरस्तेषां व्रजेदस्त्रं समुच्चरन्।। 37.79 ।।
देवस्य पुरतो धान्यपीठे कुम्भान् निवेशयेत्।
कर्मादिबिम्बान् स्वस्थाने विष्टरे स्थापयेद्रमे।। 37.80 ।।
मूलादिबलिबिम्बान्तमर्घ्यदानादिभिर्यजेत्।
पायसान्नं निवेद्याथ पुष्पाञ्जलिधरो गुरुः।। 37.81 ।।
ततो यवनिकाकाण्डपटेनाच्छादयेत्तिरः।
महोत्सवार्थं यथाशक्तिर्मूलबेराच्च कर्मणि।। 37.82 ।।
कौतुके यज्ञबल्योश्च बेरे कुम्भे विचिन्तिता।
करपुष्पाञ्जलौ शक्तिं संप्रार्थ्य पुरतो रमे।। 37.83 ।।
तत्पुष्पाणि हरेर्मूर्ध्नि ह्यर्पयेद्ध्यानमास्थितः।
अपनीते यवनिकां घटदीपं प्रदर्शयेत्।। 37.84 ।।
प्रोक्षयेत् कुम्भतोयेन देवं पुंसूक्तमुच्चरन्।
ततः संप्रार्थयेद् देवं नमस्कृत्य कृताञ्जलिः।। 37.85 ।।
देवदेव जगन्नाथ सर्वलोकनमस्कृत।
आदिमध्यान्तरहित सर्वभूतहृदिस्थित।। 37.86 ।।
भगवन् वासुदेवस्त्वं त्वद्वक्षःस्थलवासिनी।
कमला च युवां सर्वलोकानामादिकारणौ।। 37.87 ।।
त्वं विष्णुः कमला लक्ष्मीस्त्वं रुद्रः कमला शिवा।
त्वं ब्रह्मा कमला वाणी त्वं शक्रः कमला शची।। 37.88 ।।
त्वमग्निः श्रीः स्वधा स्वाहा त्वं यमो हरिणी तु मा।
नैर्ऋतिस्त्वं दीर्घिका श्रीः पाशी त्वं शीतला रमा।। 37.89 ।।
सदागतिः श्रीस्त्वंवायुस्त्वं श्रीदः संपदिन्दिरा।
ज्योत्स्ना लक्ष्मीस्तथेन्दुस्त्वं सूर्यस्त्वं तु प्रभा च मा।। 37.90 ।।
इत्थं युवां लोकरक्षादीक्षितौ पितरौ हरे।
एवं सोकिहतार्थाय तत्तत्काले भविष्यतः।। 37.91 ।।
सदानपायिनीयुक्तचिन्मयानन्दविग्रह।
एवंविधस्य भवतः सर्वज्ञस्य तव प्रभो।। 37.92 ।।
प्रियाप्रियमविज्ञात्रा बालिशेन मया कृतम्।
शास्त्रीयं वाप्यशास्त्रीयं त्वमेव ज्ञातुमर्हसि।। 37.93 ।।
अपचारं मया यद्यदुत्सवे भक्तवत्सल।
शरणागतभक्तस्य गृहाण श्रीसमन्वित।। 37.94 ।।
इति विज्ञाप्य देवस्य रक्षासूत्रस्थितां श्रियम्।
श्रीवत्से चिन्तयेद् देवि रक्षासूत्राणि मोचयेत्।। 37.95 ।।
आचार्यादीनां च सर्वेषां कौतुकं मोचयेद् रमे।
शय्यान्तं पूजयेद् देवं विधिवद् देशिकोत्तमः।। 37.96 ।।
तदन्येद्युः प्रभाते तु यजमानो गुरूत्तमम्।
वस्त्रभूषणगोभिश्च धनैर्भूमिभिरादरात्।। 37.97 ।।
संमान्य चामराभ्यां च छत्राभ्यां च ध्वजादिभिः।
शङ्खतूर्यादिघोषैश्च देवोपकरणैरपि।। 37.98 ।।
आचार्यं प्रापयेद्धीमान् गृहं तस्य सहानुगैः।
यजमानोऽप्यालयस्थपरिचारगणैर्व्रजेत्।। 37.99 ।।
आचार्यः स्वगृहं गत्वा सर्वान् संपूजयेत् क्रमात्।
तदात्वध्वजदण्डं च तद्वस्त्राणि गुरूत्तमः।। 37.100 ।।
यागावशिष्टद्रव्याणि स्वकीयानि स्वयं हरेत्।
उत्सवानन्तरं देवि देवस्य श्रमशान्तये।। 37.101 ।।
नित्यपूजां समाप्याथ प्रथमावरणादिषु।
मण्डपे देवमानाय्य पूजयेच्छैत्यवस्तुभिः।। 37.102 ।।
उद्यानादिषु क्लृप्तेषु मण्डपेषु च भक्तितः।
संप्रार्थितो भक्तजनैस्तत्राप्यानाय्य देशिकः।। 37.103 ।।
गन्धतोयादिभिः पूर्वं स्नापयित्वा यथाविधि।
गन्धैः संलिप्य देवेशं मल्लिकाकुसुमादिभिः।। 37.104 ।।
भूषणैश्चाप्यलंकृत्य तालवृन्तैरुशीरजैः।
हिमवत्सलीलासिक्तैर्ढणज्झणितकङ्कणाः।। 37.105 ।।
सर्वालंकारसंयुक्ताः शोभिताः पुष्पभूषणैः।
शुभ्रवस्त्रा गन्धवत्यो दास्यस्तु परितो रमे।। 37.106 ।।
वीजयेयुश्च देवेशं नृत्येयुः काश्च दासिकाः।
गायेयुरपराः काश्चिद् वीणावेणुमृदङ्गकैः।। 37.107 ।।
तोषयेयुर्हृषीकेशमित्थं शैत्योपचारतः।
ततः सायाह्नसमये देवमर्घ्यादिना यजेत्।। 37.108 ।।
शर्करान्नादिभक्ष्याणि निवेद्य तदनन्तरम्।
मन्दं मन्दं देवदेवमालयं प्रापयेद् गुरुः।। 37.109 ।।
यथाक्रमं रात्रिपूजां कुर्याद् देशिकसत्तमः।
शैत्योत्सवस्य चैतस्य दिनसंख्या न विद्यते।। 37.110 ।।
चतुःस्थानार्चनं चापि नास्त्येतस्य वरानने।
इत्थमेवं वसन्तेऽपि देवस्योत्सवमाचरेत्।। 37.111 ।।
Chapter - 38
+++
+++
।। अष्टत्रिंशोऽध्यायः ।।
श्रीः-
वसन्तोत्सवपूजायाः कदा कालः क्रमः कथम्।
श्रोतुमिच्छामि तत्सर्वं वद मे पुरुषोत्तम।। 38.1 ।।
भगवान्-
शृणु देवि प्रवक्ष्यामि वसन्ते पूजनं हरेः।
वसन्तसमये वापि ग्रीष्मे वा शुक्लपक्षगे।। 38.2 ।।
पूर्णिमायामवभृथमविद्धायां वा वरानने।
विद्धा चेत् प्रथमायां वा निश्चित्यावभृथं गुरुः।। 38.3 ।।
निश्चित्य सप्तरात्रं तु पूजयेत् पुरुषोत्तमम्।
ध्वजारोहं विना लक्ष्मीरङ्कुरार्पणपूर्वकम्।। 38.4 ।।
चतुःस्तानार्चनं कुर्याद् रक्षाबन्धपुरःसरम्।
उत्सवारम्भदिवसादारभ्य प्रतिवासरम्।। 38.5 ।।
कालयोर्बलिदानं स्याद् द्वारतोरणपूजनम्।
द्वात्रिंशद्धस्तविस्तारं तावदायामसंयुतम्।। 38.6 ।।
चतुरश्रं खनेद् भूमिं धनुषोऽष्टौ च विंशतेः।
संख्यया तस्य मध्ये तु शिलयेष्टकयापि वा।। 38.7 ।।
शिल्पिभिर्मण्डपं कुर्याद् विंशद्धस्तमितं समम्।
दक्षिणाभिमुखं पीठं तन्मध्ये हस्तमुन्नतम्।। 38.8 ।।
संस्थाप्य परिघायां तु पूरयेद् गन्धवारिभिः।
कदलीस्तम्भपूगादिफलपुष्पैरलंकृतम्।। 38.9 ।।
चन्दनैः सर्वतोगन्धैर्वासितं धूपितं तथा।
मण्डपं शैत्यसंयुक्तं कृत्वा देशिकसत्तमः।। 38.10 ।।
सायंकाले तु संप्राप्ते गर्भगेहं तु मन्त्रवित्।
प्रविश्य पूजां कृत्वैव वसन्तोत्सवकर्मणि।। 38.11 ।।
प्रार्थयेद् देवदेवेशं नमस्कृत्य कृताञ्जलिः।
पीताम्बर हरे कृष्ण शङ्खचक्रगदाधर।। 38.12 ।।
वसन्तोत्सवपूजार्थं संनिधिं कर्मकौतुके।
कुरुष्व जगदानन्द भक्तानुग्रहकाम्यया।। 38.13 ।।
इति विज्ञाप्य देवशं शक्तिमावाह्य देशिकः।
श्रीभूमिसहितं वापि रहितं वापि कौतुकम्।। 38.14 ।।
पीठिकायां रत्नमय्यां शिबिकायामथापि वा।
भूषणैश्चन्दनैर्माल्यैरलंकृत्य विशेषतः।। 38.15 ।।
आरोप्य भ्रामयेद्देवं पुष्पकं वीथिकासु च।
ततो मण्डपमानीय स्थापयेद्रत्नविष्टरे।। 38.16 ।।
व्यजनैर्वीजयेद् देवं वासनावस्तुभावितैः।
संपूज्य च यथाशास्त्रं भक्ष्याणि विविधानि च।। 38.17 ।।
उर्वारुकाणां खण्डानि पानीयं वासनायुतम्।
शर्कराखण्डमिश्राणि श्याममुद्गदलानि च।। 38.18 ।।
फलैश्च विविधैः साकं दध्यन्नं विनिवेदयेत्।
नीराजनं ततः कृत्वा नाट्यं गानं च कारयेत्।। 38.19 ।।
निवेदितान्नभक्ष्यादीन् भक्तेभ्यो दापयेत् क्रमात्।
एवं सर्वोपचारैस्तमाराध्य जगतीपतिम्।। 38.20 ।।
ततो देवं नयेदन्तर्गर्भगेहस्य वै रमे।
उत्सवाच्छक्तिमुद्वास्य मूले तां विनियोजयेत्।। 38.21 ।।
दयानिधे जगन्नाथ भक्तरक्षणदीक्षित।
भवदुक्तेन शास्त्रैण पूजनादिषु कर्मसु।। 38.22 ।।
शक्तिर्नास्ति मया मोहात्यत्कृतं तत्क्षमस्व भो।
इति विज्ञाप्य देवेशं पूजाशेषं समापयेत्।। 38.23 ।।
एवं षडुत्सवं कृत्वा पासरस्य परस्य च।
सायाह्ने रथमारोप्य वैनतेयमथापि वा।। 38.24 ।।
श्रीपुष्टिभ्यां सह विभुं भ्रामयेद् वीथिकाः क्रमात्।
अवरोप्य रथाद्देवं तीर्तबिम्बेन संमितम्।। 38.25 ।।
नदीतीरं तडाकं वा नीत्वावभृथमाचरेत्।
ततो मण्डपमानीय पूर्ववत्पूजयेत् क्रमात्।। 38.26 ।।
निवेद्य पूर्ववत्सर्वं विनियोज्य यथाक्रमम्।
द्वारकुम्भादिदेवांश्च विसृजेद् देशिकोत्तमः।। 38.27 ।।
कुम्भमण्डलवह्निभ्यो बिम्बे शक्तिं नियोजयेत्।
नीत्वान्तश्चोत्सवाद् बिम्बाच्छक्तिं मूले नियोजयेत्।। 38.28 ।।
कुम्भतोयेन मूलार्चां कूर्चेन प्रोक्षयेद् गुरुः।
विसृज्य रक्षाबन्धं च नित्यपूजां प्रकल्पयेत्।। 38.29 ।।
एवं वसन्तसमये शैत्यसौरभ्यवस्तुभिः।
भगवन्तं पूजयेद्यः स याति मम मन्दिरम्।। 38.30 ।।
एषोत्सवः शुक्लपक्षे कर्तव्यः शास्त्रवर्त्मना।
क्रियेत कृष्णपक्षे तु राज्ञो राष्ट्रस्य वै रमे।। 38.31 ।।
यजमानस्य च वै गुरोः सर्वसंपद्विनाशकृत्।
[अतः कर्थचिच्छुक्ले स्यान्न तु कृष्णे कदाचन]।। 38.32 ।।
अथातः संप्रवक्ष्यामि वैशाखोत्सवमब्जजे।
वसन्तऋतुदेवस्य तोषणार्थं जगत्पतिम्।। 38.33 ।।
तदृतूद्भवशाखाभिः फलैश्चाप्यर्चयेद् बुधः।
शृणु पक्षर्क्षमासं च तिथिं च कमलोद्भवे।। 38.34 ।।
वैशाखस्य सिते पक्षे विशाखापूर्णिमा युता।
तस्यामृक्षे पूजने तु कुर्याद् भागवतो गुरुः।। 38.35 ।।
तिथ्ययोगेऽपि नक्षत्रे मुख्यमुत्सवमीरितम्।
ऋक्षहीनतिथौ पूजामासुरं विदुरब्जजे।। 38.36 ।।
तस्मादृक्षदिने पूजां कुर्यात् सा वैष्णवी भवेत्।
तस्मिन् दिने गुरुः सायं देवं संपूज्य नित्यवत्।। 38.37 ।।
भगवन् सर्वलोकेश मकरध्वजपूजित।
विशाखोत्सवपूजार्थं बिम्बेऽस्मिन् संनिधिं कुरु।। 38.38 ।।
इति विज्ञाप्य देवेशं कर्मार्चायां कलानिधेः।
आवाह्य यानमारोप्य बहिर्मण्डपविष्टरे।। 38.39 ।।
अवतार्य हरिं तस्मिन् पञ्चविंशतिभिर्घटैः।
देवं संस्नाप्य तदनु भूषणैः गुरुसत्तमः।। 38.40 ।।
मल्लिकामालतीकुन्दकुरवैर्दमनैस्तथा।
आम्रैः पद्मैरुत्पलाद्यैरलंकृत्य गुरूत्तमः।। 38.41 ।।
चतुःस्थानार्चनं कुर्याद् द्वारतोरणपूर्वकम्।
पनसं कदलीं चैव सहकारफलानि च।। 38.42 ।।
नालिकेरस्य खण्डांश्च लाक्षाखर्जूरकानि च।
एतेषां परिमाणस्य समं क्षीरं च शर्कराम्।। 38.43 ।।
किंचिन्मरीचिमेलां च कर्पूरं च पलं पलम्।
संशोध्यैतानि विधिवत् पाकस्थानेतु पाचयेत्।। 38.44 ।।
चतुर्विधानि चान्नानि भक्ष्याणि विविधानि च।
देवमाराध्य विधिवत्तस्मै सर्वं निवेदयेत्।। 38.45 ।।
पानकं नालिकेराम्बु शीतलं तर्पणं जलम्।
ताम्बूलं च निवेद्याथ भक्तेभ्यो दापयेत् क्रमात्।। 38.46 ।।
रूपयौवनसंपन्ना दास्यो नृत्येयुरग्रतः।
गायकाश्च ततः कुर्युर्गानं वीणादिमिश्रितम्।। 38.47 ।।
ऋगादिवेदघोषांश्च घोषयेयुर्द्विजातयः।
एवं कृत्वोत्सवं देवं यानमारोप्य देशिकः।। 38.48 ।।
गर्भगेहं प्रापयित्वा स्थापयेन्मूलसंमुखम्।
शक्तिं नियोजयेन्मूले नमस्कृत्य कृताञ्जलिः।। 38.49 ।।
अज्ञात्वा शास्त्रसरणिमविचार्य भवत्प्रियम्।
अकारि यन्मया कर्म तत्सर्वं क्षन्तुमर्हसि।। 38.50 ।।
इति विज्ञाप्य देवेशं पूजाशेषं समापयेत्।
वसन्तोत्सवमध्ये तु वैशाखोत्सवं आपतेत्।। 38.51 ।।
वैशाखोत्सवं कुर्यादेकस्मिन् दिवसे द्वयम्।
एवं यः पूजयेद्देवं पत्रपुष्पफलादिभिः।। 38.52 ।।
Chapter - 39
+++
+++
।। एकोनचत्वारिंशोऽध्यायः ।।
अथ वक्ष्ये सिन्धुकन्ये क्षीरार्मवमहोत्सवम्।
शैशिरे ग्रीष्मकाले वा शुक्लपक्षे शुभे दिने।। 39.1 ।।
मासर्क्षपूर्णिमायां वा कर्तव्यस्तु प्लवोत्सवः।
प्लवोत्सवदिनात्पूर्वमष्टषट्चतुरोऽपि वा।। 39.2 ।।
द्विदिनं वोत्सवं कृत्वा परस्मिन् दिवसे रमे।
प्लवोत्सवस्तु कर्तव्यः शास्त्रोक्तेन च वर्त्मना।। 39.3 ।।
ध्वजारोहदिनात् पूर्वरात्र्यामङ्कुरमर्पयेत्।
ध्वजारोहणपूर्वं वा विना वा कारयेत् प्लवम्।। 39.4 ।।
रक्षाबन्धं च देवस्य कुर्यात् स्वस्यापि देशिकः।
आरम्भदिनमारभ्य प्रत्यहं कालयोर्द्वयोः।। 39.5 ।।
चतुःस्थानार्चनं कुर्यात् बलिदानं च कारयेत्।
आदावन्ते च देवेशं पञ्चविंशतिभिर्घटैः।। 39.6 ।।
संस्नापयेत् प्रतिदिनं वाहनारोहणं चरेत्।
तटाकस्य समीपे तु मण्डपं परिकल्पयेत्।। 39.7 ।।
कदलीस्तम्भपूगादिफलैर्वन्दनतोरणैः।
वितानैश्चित्रवस्त्राद्यैः पुष्पमाल्यैरलंकृतम्।। 39.8 ।।
एवं सलक्षणं कृत्वा मण्डपं देशिकोत्तमः।
उत्सवारम्भदिवसे प्रातरर्चां सामाप्य च।। 39.9 ।।
ततः प्लवोत्सवकृते प्रार्थयेद् भक्तवत्सलम्।
क्षीराब्धौ शेषशयने शयित त्वं रमापते।। 39.10 ।।
प्लवोत्सवाय बिम्बेऽस्मिन् संनिधत्स्व श्रिया सह।
इति विज्ञाप्य देवेशं मूलात् कर्मणि कौतुके।। 39.11 ।।
शक्तिमावाह्य तदनु श्रीपुष्टिभ्यां समन्वितम्।
अर्घ्यदानादिभिर्देवमभिषिच्य यथाक्रमम्।। 39.12 ।।
शिबिकायां रत्नमय्यां प्रातरारोप्य वै रमे।
अलंकृत्य किरीटाद्यैर्भूषणैः कुसुमैरपि।। 39.13 ।।
छत्रचामरमायूरपिञ्छिकाध्वजयष्टिभिः।
वाद्यैरनेकभेदैश्च वेदघोषैश्च संमितम्।। 39.14 ।।
ग्रामं प्रदक्षिणीकृत्य देवीभ्यां सहितं विभुम्।
सरसस्तीरमानाय्य मण्डपे हेमविष्टरे।। 39.15 ।।
स्थापयित्वा ततः पूजां कुर्याच्छास्त्रोक्तवर्त्मना।
ततः सायाह्नसमये तस्मादालयमानयेत्।। 39.16 ।।
प्रदोषे समनुप्राप्ते नित्यपूजां विधाय च।
ततो वाहनमारोप्य गन्धतैलप्रदीपकैः।। 39.17 ।।
सर्ववादित्रसंघैश्च नटनर्तकसंकुलैः।
नर्तनैर्गणिकानां च प्रादक्षिण्येन वीथिकाः।। 39.18 ।।
शनैः शनैर्नयेद्देवं प्रासादं कमलोद्भवे।
पूजां विधाय च ततः शयनोत्सवमाचरेत्।। 39.19 ।।
एवं प्लवदिनात्पूर्वमुत्सवं कारयेद्धरे।
ततः प्लवदिने प्रातः पूजां कृत्वोत्सवावधि।। 39.20 ।।
श्रीपुष्टिभ्यां वासुदेवं यानमारोप्य देशिकः।
अलंकृत्य क्रमेणैव चतुर्वीथीषु वै रमे।। 39.21 ।।
प्रादक्षिण्येन गमयेद्वेदवाद्यादिघोषितैः।
तीरमण्डपमानीय स्थापयेद्धेमविष्टरे।। 39.22 ।।
तत्र पूजां विशेषेण कृत्वा देशिकसत्तमः।
निवेदयेत्ततोऽन्नाद्यं भक्ष्यं भोज्यं च पानकम्।। 39.23 ।।
नालिकेरस्य सलिलं तर्पणं शीतलं जलम्।
मधुपर्कं च ताम्बूलं सकर्पूरं च चूर्णवत्।। 39.24 ।।
एलालवङ्गतक्कोलजातीफलसमन्वितम्।
पूगद्वयं नागवल्लीं देवाय विनिवेदयेत्।। 39.25 ।।
ततः पूर्वं शिल्पिवरैर्निर्मितं प्लवमुत्तमम्।
षोडशस्तम्भसंयुक्तं पताकाद्यैरलंकृतम्।। 39.26 ।।
चित्रस्रग्भिर्वितानैश्च द्वितलेन च शोभितम्।
कदलीस्तम्भपङ्क्तीभिर्वितानैः समलंकृतम्।। 39.27 ।।
पुण्याहसलिलैः पूर्वं देशिकः प्रोक्षयेद्रमे।
कुम्भे क्षीरार्णवेशं च भूमिं शेषं यथाक्रमम्।। 39.28 ।।
आवाह्य तत्तन्मन्त्रेण पूजयेद्धवनं ततः।
अग्नेः सर्वान् कुम्भतोये समावाह्य गुरुः स्वयम्।। 39.29 ।।
मध्यकुम्भं समादाय घण्टावाद्यसमन्वितः।
तडाकस्य तटं गत्वा कुम्भतोयादपांपतिम्।। 39.30 ।।
प्लवे भूमिं विमाने च शेषमावाहयेद् गुरुः।
क्षीरार्णवाधिदेवेश पाशाब्जकरशोभित।। 39.31 ।।
प्लवोत्सवार्थं देवस्य तटाके संनिधिं कुरु।
इति संप्रार्थ्य वरुणं तटाके पूजयेद्रमे।। 39.32 ।।
श्वेतवस्त्रधरे देवि श्वेतमाल्यैरलंकृते।
श्वेतद्वीपाधिपे देवि प्लवेऽस्मिन् संनिधिं कुरु।। 39.33 ।।
फणामणिसहस्रेण शोभितामरवन्दित।
नागेन्द्र विष्णुशयन प्लवरूपं भज प्रभो।। 39.34 ।।
इत्थं संप्रार्थ्य च धरां शेषं चार्ध्यादिभिर्यजेत्।
प्लवं संप्रोक्ष्य परितः कुमुदादीनथार्चयेत्।। 39.35 ।।
श्रीपुष्टिसहितं देवं प्लवमारोपयेत् ततः।
तूर्यघोषैः शङ्खमिश्रैर्वेदघोषैश्च संमितम्।। 39.36 ।।
त्रिवारं पञ्चवारं वा प्रादक्षिण्येन वै सरः।
भ्रामयित्वा प्लवं मध्यमण्डपे स्थापयेत् रमे।। 39.37 ।।
अस्तंगते दिनकरे भगवन्तं समर्चयेत्।
पुष्करिण्यास्तु परितः क्लृप्तेष्वायामवत्सु च।। 39.38 ।।
आज्यदीपाननुपदं ज्वालायुक्तं प्रकल्पयेत्।
भगवन्तं पुनः कोलमारोप्य च महत्तरैः।। 39.39 ।।
दीपैर्वाद्यादिभिश्चैव त्रिवारं भ्रामयेत् प्लवम्।
तटमानाय्य देवेशं वीथीभ्रमणमाचरेत्।। 39.40 ।।
उत्सवावभृथं कुर्यात् ततो देवस्य वै हरेः।
नीत्वालयं यागबिम्बमग्न्यागारं प्रविश्य च।। 39.41 ।।
वह्निमण्डलगां शक्तिं मखार्चायां नियोजयेत्।
मुख्यकुम्भादिकुम्भानां मूलस्थानं नयेत्सुधीः।। 39.42 ।।
मूलार्चायाः पुरोभागे बिम्बकुम्भान् निवेशयेत्।
कुम्भबिम्बगतां शक्तिं मूले तां विनियोजयेत्।। 39.43 ।।
संप्रोक्ष्य कुम्भसलिलैर्गाथामेनामुदीरयेत्।
यन्मयानुष्ठितं देवं प्रियं ते प्लवमुत्सवम्।। 39.44 ।।
अज्ञानादभिमानाच्च न्यूनं तत्र भवेद् ध्रुवम्।
मदीयकृतमित्येतत् क्षमस्व कमलापते।। 39.45 ।।
इति विज्ञाप्य देवेशं नमस्कृत्य ततो विभोः।
यथाशास्त्रं पूजनं च शयनं चोत्सवं चरेत्।। 39.46 ।।
Chapter - 40
+++
+++
।। चत्वारिंशोऽध्यायः ।।
अथ लक्ष्मीः प्रवक्ष्यामि ज्येष्ठस्नपनमुत्सवम्।
मिथुनज्येष्ठऋक्षे वा पौर्णमास्यामथापि वा।। 40.1 ।।
कटके शुक्लपक्षस्य ह्येकादश्यामथापि वा।
नक्षत्रेण वियुक्तायां युक्तायामपि वै रमे।। 40.2 ।।
अवश्यमभिषेकः स्यादेकादश्यां हरेस्तिथौ।
नित्यार्चनं पुरा कृत्वा ततः संप्रार्थयेद्धरिम्।। 40.3 ।।
भगवन् पुण्डरीकाक्ष लक्ष्मीकन्ता दयानिधे।
महाभिषेकं भवतः कर्तुं संप्रार्थयाम्यहम्।। 40.4 ।।
अनुगृह्णातु मत्पूजां कर्मार्चायां प्रविश्य च।
इति संप्रार्थ्य देवेशं मूलात् संप्रार्थ्य कर्मणि।। 40.5 ।।
बहिर्मण्डपमानीय कर्मबिम्बं तु देशिकः।
पुरा कवचमुद्धाट्य हरेस्तस्य पुरो रमे।। 40.6 ।।
एकाशीतिघटान् स्थाप्य तेषु कुम्भेषु देशिकः।
घृतादिसर्ववस्तूनि तत्तन्मन्त्रैस्तु पूरयेत्।। 40.7 ।।
अङ्कुरानर्पयेत् पूर्वं कौतुकं चापि बन्धयेत्।
द्वारतोरणकुम्भादिपूजां कृत्वा यथाविधि।। 40.8 ।।
अभिषेकं मन्त्रयुक्तं कुर्याद् भगवतोत हरेः।
श्रीभूमिवीरलक्ष्मीबिः संमितस्य गुरूत्तमः।। 40.9 ।।
निवेद्य भक्ष्यभोज्यादि भक्तेभ्यो दापयेत्क्रमात्।
शिल्पिना कवचं शुद्धं कृत्वा संप्रोक्ष्यं देशिकः।। 40.10 ।।
नवभिः कलशैस्तोयैः पञ्चगव्येन पद्मजे।
नियोज्य कवचं बिम्बे पूर्ववत्तदनन्तरम्।। 40.11 ।।
वस्त्रादिभिरलंकृत्य प्रापणान्तं च पूजयेत्।
गर्भगेहमथानाय्य स्थापयेत् सिंहविष्टरे।। 40.12 ।।
मूले नियोजयेच्छकितं प्रार्थयेद्धरिमव्ययम्।
ज्येष्ठताराभिषेकोऽयं त्वत्प्रियार्थं मया कृतम्।। 40.13 ।।
यत्किंचिद् विपरीतं चेत् तत्र तत्क्षन्तुमर्हसि।
इति विज्ञाप्य लक्ष्मीशं कुर्यान्नित्यार्चनं हरे।। 40.14 ।।
शृणु वक्ष्याम्यहं साध्वि शय्योत्सवमथो हरेः।
आषाढ्यां शुक्लपक्षस्य द्वादश्यां शयनोत्सवम्।। 40.15 ।।
मम प्रीतिकरं कुर्यात् सर्वलोकसुखावहम्।
गर्भगेहपुरोभागे यद्वा गर्भगृहे रमे।। 40.16 ।।
सुवर्णशृङ्खलाभिश्च संबद्धमुपरि स्थले।
तूलिकास्तरणोपेतं नवरत्नविचित्रितम्।। 40.17 ।।
मुक्ताजालाभिराबद्धं वासितं गन्धवस्तुभिः।
वितानक्षौमसंवीतं पुष्पमाल्यैरलंकृतम्।। 40.18 ।।
गन्धतैलैर्घृतैर्वापि पूरितैर्ज्वलितैरपि।
अनिर्वाणैर्दीपवरैश्चतुर्भिः शोभितं रमे।। 40.19 ।।
एवं शयनमाकल्प्य प्रोक्षयेत् पुण्यवारिणा।
डोलोत्सवे तु डोलायां पूजितायास्तु देवताः।। 40.20 ।।
शयनेऽपि च ता देवाः पूजयेद् देशिकोत्तमः।
निशामुखे प्रवृत्ते तु यात्रान्तं पूजयेद् विभुम्।। 40.21 ।।
ततो मूलस्य पुरतः स्थित्वाचार्यः कृताञ्जलिः।
भगवन् योगनिद्रायाः कालोऽयं समुपागतः।। 40.22 ।।
तस्मादुत्थानपर्यन्तं बिम्बेऽस्मिन् संनिधिं कुरु।
इति संप्रार्थ्य देवेशं मूलाच्छयनकौतुके।। 40.23 ।।
आवाहयेद् बिम्बहीने कूर्चे संप्रार्थयेद्धरिम्।
संस्नाप्य नवभिः कुम्भैश्चतुःस्थानं च पूजयेत्।। 40.24 ।।
वह्निमण्डलकुम्भस्थं देवं बिम्बे नियोजयेत्।
महाकुम्भजलेनैव प्रोक्षयेत् स्वापविग्रहम्।। 40.25 ।।
ततो मूलादिदेवानां हविरन्तं च पूजयेत्।
साययित्वा तु पर्यङ्के श्रीभूमिसहितं विभुम्।। 40.26 ।।
श्रीभूमिरहिते बिम्बे कूर्चयोस्ते तु पूजयेत्।
संकल्प्य चतुरो मासान् पक्षांश्चतुर एव वा।। 40.27 ।।
शयनस्थं देवदेवं प्रत्यहं शयनार्थकैः।
द्रव्यैः संपूजयेद् विद्वान् भक्तितन्म्रेण चेतसा।। 40.28 ।।
नित्यं नैमित्तिकं काम्यमुत्सवं नाचरेत्तदा।
कृष्णजन्मोत्सवं कुर्यात् तस्मिन् कालेऽपि देशिकः।। 40.29 ।।
नास्ति कालान्तरं तस्य तस्मात् तत्रैव कारयेत्।
भाद्रपद्यास्तु शुक्लस्य द्वादश्यां परिवर्तनम्।। 40.30 ।।
उत्सवं प्रातरारभ्य विशेषयजनादिकम्।
कुर्याद् देवस्य रात्र्यन्तमृत्विग्भिः सह देशिकः।। 40.31 ।।
यदि पक्षचतुष्केण कुर्याच्छयनमंगलम्।
[यदि पक्षत्रये कुर्यादुत्सवं शयनं रमे।]
परिवर्तनं तदा न स्यादुत्थानं मासि कार्तिके।। 40.32 ।।
तदा तु शुक्लपक्षस्य द्वादश्यामरुणोदये।
क्षीराब्धितटमासाद्य पुष्करद्वीपवासिनः।। 40.33 ।।
दिव्यद्रविडगाथाभिः रागतालस्वरान्वितैः।
गायन्ति केचिदपरे सामभिस्तोषयन्ति च।। 40.34 ।।
ब्रह्मरुद्रादिदेवाश्च देवान्तैर्बोधयन्त्यमुम्।
भक्तैः कृतेन तेनाहं तोषयाम्यमृतोद्भवे।। 40.35 ।।
मयि तुष्टे जगत्तुष्टं भवेदत्र न संशयः।
तमुत्सवं मम प्रीत्यै यजमानेन देशिकः।। 40.36 ।।
एकादश्यां कार्तिकस्य शुक्लपक्षे जगद्धिते।
उपोष्य भजनं कुर्यात् भक्तैर्भागवतैः सह।। 40.37 ।।
मार्गशीर्षं तु देवानामुदयः परिकीर्तितः।
तत्पूर्वः कार्तिको मास उषःकालः प्रकीर्तितः।। 40.38 ।।
स्नानादिनियमान् ब्राह्मे कृत्वा भागवतैस्सह।
तस्मिन् स्तवीति यो देवं हरिं सर्वफलप्रदम्।। 40.39 ।।
महापातकयुक्तोऽपि स तु मोक्षं व्रजेद् रमे।
तत्प्रकारं प्रवक्ष्यामि शृणृत्वं कमलोद्भवे।। 40.40 ।।
प्रविश्य भगवद्गेहं चतुर्वेदैस्तथा गुरुः।
एकायनैश्च गाथाभिः स्तुत्वा पन्नगशायिनम्।। 40.41 ।।
गानैर्नृत्तैर्वाद्यभेदैर्वासुदेवं प्रबोधयेत्।
योजयेच्छयनाच्छक्तिं ध्रुवमूर्त्यां ततो गुरुः।। 40.42 ।।
दर्शयेद् दर्पणं पूर्णकुम्भं दन्तावलं तथा।
गवां पृष्ठं वाजिमुखं कन्यां सर्वाङ्गसोभनाम्।। 40.43 ।।
देवमर्घ्यादिनाभ्यार्य क्षीरं च सितशर्कराम्।
निवेदयेच्च दध्यन्नं नीराजनमतः परम्।। 40.44 ।।
होमान्तं नित्यपूजां च कृत्वा संप्रार्थयेद्धरिम्।
त्वद्दर्शनं प्रतीक्षन्तो ब्रह्माद्या देवतागणाः।। 40.45 ।।
अप्सरोभिश्च गन्धर्वा नृत्यन्ते नृत्यमण्डपे।
ऋग्यजुःसामभिर्वेदैः स्तुवन्ति त्वां द्विजोत्तमाः।। 40.46 ।।
तेषामनुग्रहं कर्तुं बिम्बेऽस्मिन् संनिधिं कुरु।
इत्यावाह्य च देवेशं नयेन्नृत्ताख्यमण्डपम्।। 40.47 ।।
संस्थाप्य देवमर्घ्याद्यैः पूजयेत् पुष्करेक्षणम्।
चतुर्विधान्नभक्ष्याणि निवेद्य च ततः परम्।। 40.48 ।।
पौराणिकं समाहूय देशिकः पाञ्चरात्रवित्।
पौराणिकेन दैत्यारिकैंकर्याणां फलानि च।। 40.49 ।।
अपचारं कृतवतां दुःखदानि फलान्यपि।
वाचयित्वा धनैस्तं तु तोषयेत् कमलेक्षणे।। 40.50 ।।
निवेद्य भक्ष्यभोज्यानि वैष्णवेभ्यः प्रदापयेत्।
प्रासादं देवमानीय मूले शक्तिं नियोजयेत्।। 40.51 ।।
तव संप्रीतये विष्णो उत्थानोत्सवसंज्ञितम्।
आराधनं गृहाण त्वं यथानुष्ठितमच्युत।। 40.52 ।।
Chapter - 41
+++
+++
।। एकचत्वारिंशोऽध्यायः ।।
लक्ष्मीस्त्वं शृणु वक्ष्यामि कृष्णजन्ममहोत्सवम्।
नक्षत्रं तिथिवारं च योगं करणमेव च।। 41.1 ।।
पक्षमासौ वत्सरं च यदावतरदच्युतः।
द्वापरस्य कलेः संधौ शुभकृद्वात्सरे शुभे।। 41.2 ।।
सिंहमासे कृष्णपक्षे त्वष्टम्यां रोहिणीयुते।
हर्षकौलवसंयुक्ते बुधवारे शुभे दिने।। 41.3 ।।
कन्यां गते बुधे शुक्रे लग्नगे च बृहस्पतौ।
मकरे भूमिपूत्रे च तुलायां च शनौ स्थिते।। 41.4 ।।
कटके च स्थिते राहौ केतौ च मकरे स्थिते।
वृषभे तु मृगाङ्के च आदित्ये सिंहगे सति।। 41.5 ।।
निशीथे वृषभे लग्ने सर्वलोकहितो हरिः।
वसुदेवस्य देवक्यां जातः कृष्णो भृगद्भवे।। 41.6 ।।
तत्काले तु विशेषेण कृष्णरूपि जनार्दनः।
पूजनीयो दीक्षितेन भाट्टाचार्येण भार्गवि।। 41.7 ।।
तद्विधानं प्रवक्ष्यामि सायाह्ने देशिकोत्तमः।
स्नात्वा संध्यादिकं कर्म कृत्वा गर्भगृहं व्रजेत्।। 41.8 ।।
नित्यपूजादिकं सृत्वा मूलार्चां प्रार्थयेत् ततः।
शङ्खचक्रगदाशार्ङ्गिन् तूणखट्गधर प्रभो।। 41.9 ।।
वासुदेव जगद्योने सृष्टिस्थित्यन्तकारक।
अवातरः पूर्वकाले यो हरिः कृष्णरूपधृत्।। 41.10 ।।
तस्योत्सवस्य ते कालो जयन्त्याख्यस्य वै हरे।
तमुत्सवं कर्तुमिच्छन् प्रार्थये सुरसत्तम।। 41.11 ।।
भक्तवत्सल भक्तानां प्रीतये कृष्णविग्रहे।
संनिधत्स्व चिरं देव यावत् पूजावसानक्म्।। 41.12 ।।
इति संप्रार्थ्य देवेशं कृष्णे शक्तिं नियोजयेत्।
यानमारोप्य तं कृष्णं प्रासादपुरतो भुवि।। 41.13 ।।
कल्पिते मण्डपस्याथ रत्नसिंहासने रमे।
स्थापयित्वा च कृष्णार्चां द्वारपूजामतश्चरेत्।। 41.14 ।।
कृष्णस्य पुरतो भूमौ धान्यपीठं प्रकल्पयेत्।
कुम्भान् संस्थाप्य विधिवत् प्रतिष्ठाप्य हुताशनम्।। 41.15 ।।
मध्यकुम्भे कृष्णमूर्तिं करके च सुदर्शनम्।
प्राच्यादि च कुम्भेषु वासुदेवादिकान् यजेत्।। 41.16 ।।
वह्न्यादिषु च कोणेषु पुरुषादीन् यजेद्रमे।
चक्राब्जमण्डलं वेद्यां कल्पयित्वा यथाविधि।। 41.17 ।।
कृष्णं यजेत् कर्णिकायां द्वादशेषु दलेष्वपि।
केशवादीन् समावाह्य पूर्वादिषु यताक्रमम्।। 41.18 ।।
परिवारगणान् देवान् मण्डले पूर्ववद्यजेत्।
आसनस्थं कृष्णबिम्बमङ्गन्यासादिपूर्वकम्।। 41.19 ।।
अभ्यर्च्यार्घ्यपाद्याद्यैः स्नापयेत् स्नानविष्टरे।
संस्नाप्य विधिवत् कृष्णं पञ्चविंशतिभिर्घटैः।। 41.20 ।।
अलंकारासनं नीत्वा किरीटादिविभूषणैः।
अलंकृत्यारविन्दाक्षं ततो भोजनविष्टरे।। 41.21 ।।
नीत्वा लक्ष्मीपतिं देवं भक्ष्यपानीयसंमितम्।
चतुर्विधं चान्नराशिं शष्कुलीं फलमिश्रिताम्।। 41.22 ।।
निवेद्य पस्चादाचार्यः पीठमग्नौ तु संसृजेत्।
तन्मध्ये कृष्णमावाह्य सकलीकृत्य मन्त्रवित्।। 41.23 ।।
मात्रासनादिभोज्यान्तं सर्पिषा जुहुयात्ततः।
चतुर्विधान्नं भक्ष्यादि जुहुयाज्ज्वलितेऽनले।। 41.24 ।।
कृत्वा सप्त समिद्धोमं ततः पूर्णाहुतिं चरेत्।
आचार्यः कृष्णरूपाय कृत्वा होमसमर्पणम्।। 41.25 ।।
अर्घ्यदानं विशेषेण कुर्यात् सर्वफलप्रदम्।
कृष्णस्य पुरतो भूमौ पिष्टेनालिप्य पद्मवत्।। 41.26 ।।
अष्टभिश्च दलैर्युक्तं मध्ये विपुलकर्णिकम्।
तस्मिन् कृष्णं समावाह्य देलष्वष्टसु वै क्रमात्।। 41.27 ।।
वसुदेवं देवकीं च नन्दगोपं ततः परम्।
यशोदां रोहिणीं चैव बलभद्रं निशाकरम्।। 41.28 ।।
सुभद्रं पूजयेद् देवि परिवारानिवाब्जजे।
हस्ताभ्यां शङ्खमादाय गोक्षीरेणाभिपूरितम्।। 41.29 ।।
जानुभ्यामवनौ स्थित्वा यद्वा तिष्ठन् गुरूत्तमः।
जगद्धितावतीर्णाय कृष्णायार्घ्यं निवेदयेत्।। 41.30 ।।
जातः केसवधार्थाय भूभारोद्धरणाय च।
पाण्डवानां हितार्थाय धर्मसंरक्षणाय च।। 41.31 ।।
कौरवाणां विनाशाय दैत्यानां निधनाय च।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे।। 41.32 ।।
यजमानोऽप्यर्घ्यदानमेवं दद्याज्जगत्पतेः।
ततः पिष्टाब्जमध्यस्थं कृष्णं बिम्बे नियोजयेत्।। 41.33 ।।
ततो रत्नमयीं डोलां पुष्पादिबिरलंकृताम्।
सुवर्णशृङ्खलालम्बां किंकणीभिर्विराजिताम्।। 41.34 ।।
वितानक्षौमसंवीतां मुक्ताजालविभूषिताम्।
कुंकुमाद्यैर्मृगमदैश्चन्दनैश्चाधिवासिताम्।। 41.35 ।।
गान्धिकैर्वस्तुभिर्धूपैर्धूपितां सर्वतो रमे।
क्षौमास्तरणसंवीतां तूलिकास्तरणामपि।। 41.36 ।।
एवं कृत्वा ततस्तस्यां शेषमावाहयेद् गुरुः।
शाययित्वा कृष्णमूर्तिं पटं चापनयेत् ततः।। 41.37 ।।
डोलागानैर्नृत्तवाद्यैस्तोषयेत् कृष्णमब्जजे।
गाथाश्च वैष्णवीश्चान्या गायेयुर्वैष्णवोत्तमाः।। 41.38 ।।
पाञ्चरात्रविदो विप्रास्स्तुवीरंस्तत्कृतैः स्तवैः।
पठेयुरग्रे देवस्य सर्वमन्यच्च मङ्गलम्।। 41.39 ।।
अर्घ्यादिभिस्ततोऽभ्यर्च्य नीराजनसमन्वितम्।
मधुपर्कं निवेद्याथ नवनीतं च शर्कराम्।। 41.40 ।।
सितशर्करया युक्तं गोक्षीरं पृथुकं तथा।
विविधानि च भक्ष्याणि गोघृतैः पाचितानि च।। 41.41 ।।
क्रमादष्टविधान्नानि शर्कराद्यैर्युतानि च।
निवेद्य देवदेवाय नीराजनमथाचरेत्।। 41.42 ।।
मुखवाससमोपेतं ताम्बूलं विनिवेदयेत्।
कृत्वा जपं यथाशक्ति भगवत्संनिधौ गुरुः।। 41.43 ।।
कुम्भमण्डलवह्निस्थं देवं बिम्बे नियोजयेत्।
द्वारतोरणकुम्भस्थान् हरेः पीठे तथैव च।। 41.44 ।।
निवेदितान्नभक्ष्यादि चतुर्धा विभजेत् ततः।
आचार्यः स्वयमादद्यादेकांशमपरैस्त्रिभिः।। 41.45 ।।
मूर्तिपान् वैष्णवानन्यान् ग्राहयेत् परिचारकैः।
गर्भगेहं ततो नीत्वा कृष्णमूर्तिं सनातनम्।। 41.46 ।।
तद्बिम्बाच्छक्तिमुद्वास्य मूले तां विनियोजयेत्।
ततः प्रणम्य देवेशं कृताञ्जलिपुटो गुरुः।। 41.47 ।।
पीताम्बर जगन्मूर्ते जयन्त्युत्सवमद्य ते।
अकार्षं तत्र शास्त्रीयं शास्त्रमार्गात् च्युतं तु वा।। 41.48 ।।
वेत्तुं समर्थो नाभूवं तत्र शास्त्रपथश्च्युतिम्।
भक्तस्य तव मे देव क्षन्तुमर्हसि मामिकाम्।। 41.49 ।।
इति विज्ञाप्य देवेशं शिष्टां पूजां समापयेत्।
मुमुक्षूणामकामानामुत्सवान्ते तु पारणम्।। 41.50 ।।
पुत्रादिफलकामानां प्रातरेव हि पारणम्।
ततः प्रभाते त्वाचार्यः कृतस्नानः कृताह्निकः।। 41.51 ।।
गर्भगेहं प्रविश्याथ देवं संबोध्य वै रमे।
होमान्तमुत्सवान्तं वा प्रापणान्तमथापि वा।। 41.52 ।।
नित्यार्चनां समाप्याथ देवमुत्सवकाम्यया।
आवाहनपदं पात्रं हस्ताभ्यां धारयन् गुरुः।। 41.53 ।।
देवदेव जगन्नाथ सर्वलोकप्रियंकर।
शिक्योत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व श्रियःपते।। 41.54 ।।
इति संप्रार्थ्य देवेशं कर्मार्चायां जगद्गुरुम्।
आवाह्य तस्मादानीय देवेशं नृत्तमण्डपम्।। 41.55 ।।
पूजयित्वा ततो यानमारोप्य हरिमव्ययम्।
वस्त्रभूषणमाल्यैश्च भूषयित्वा गुरूत्तमः।। 41.56 ।।
गोपुरस्य पुरोभागे चतुःस्तम्भसमन्वितम्।
चित्रवस्त्रवितानाढ्यं फलपल्लवशोभितम्।। 41.57 ।।
मध्यलम्बिक्षीरघटं दधिभाण्डोपरिस्थितम्।
हरिद्राजलसंयुक्तं मण्डपं परिकल्पयेत्।। 41.58 ।।
एवं वीथीषु सर्वत्र कल्पयेन्मण्डपान् बहून्।
ततस्तु देवदेवेशं नयेद्वीथीषु सर्वतः।। 41.59 ।।
तूर्यघोषैर्नृत्तगीतवेदगोषपुरःसरम्।
अन्यैर्मङ्गलवाद्यैश्च मण्डपस्य पुरो नयेत्।। 41.60 ।।
ततो गोपालबालानां दण्डं दत्वा नियोजयेत्।
ते दण्डैः शिक्यभाण्डानि ताडयेयुर्हरेः प्रियाः।। 41.61 ।।
ताडितेभ्यश्च भाण्डेभ्यो दधिक्षीराणि बालकाः।
पिबेयुर्नवनीतानि रूषयेयुर्दधीन्यपि।। 41.62 ।।
यन्त्रैः क्षिपेयुः सर्वत्र हरिद्राजलसेचनम्।
एवं वीथीषु सर्वासु कुर्युर्गोपालबालकाः।। 41.63 ।।
गोप्यश्च नवनीतानि क्षिपेयुः कृष्णविग्रहे।
इत्थं वीथीषु परितः प्रादक्षिण्येन वै हरिम्।। 41.64 ।।
भ्रामयित्वा ततो देवमालयान्तर्नयेद्गुरुः।
बलिपीठस्य पुरतो देवमर्घ्यादिना यजन्।। 41.65 ।।
घटदीपं प्रदर्श्याथ गर्भगेहं नयेत् ततः।
मूले शक्तिं नियोज्याथ देवं संशमयेद्धरिम्।। 41.66 ।।
यन्मयानुष्ठितो देव शिक्योत्सव इति स्मृतः।
तस्मिन्नज्ञानतस्त्यक्तं क्षन्तुमर्हसि माधव।। 41.67 ।।
इति विज्ञाप्य देवेशं शयनान्तं च पूजयेत्।
जयन्त्यामित्थमाराध्य सर्वकामानवाप्नुयात्।। 41.68 ।।
अत्र किंचिद्विशेषोऽस्ति वदामि कमलेक्षणे।
विद्धादिदोषे संप्राप्ते भिद्यते बहुधोत्सवः।। 41.69 ।।
अष्टमी रोहिणी पूर्णा बुधवारेण संयुता।
ताभ्यां तु वृषभे लग्ने बृहस्पत्युदिते तथा।। 41.70 ।।
उत्तमं पूजनं तस्यां कृष्णरूपस्य वै हरेः।
बुधवारवियुक्ता सा मध्यमा तु प्रकीर्तिता।। 41.71 ।।
संपूर्णा रोहिणी यस्यामष्टमी कलया युता।
संपूर्णायां तताष्टम्यां रोहिणीकलया युता।। 41.72 ।।
पूजनं तत्तिथौ कार्यं महत्पातकनाशनम्।
कृत्तिकाकलया वापि सप्तमीकलयापि वा।। 41.73 ।।
युक्ताष्टमी तु न ग्राह्या तस्यां पूजा तु निष्फला।
अष्टमीरहिता वापि रोहिणीरहितापि वा।। 41.74 ।।
तारकायां तथा तिथ्यां प्रत्येकं वोत्सवं चरेत्।
कृत्तिकाकलया युक्ता सप्तमीकलया युता।। 41.75 ।।
अष्टम्यां वापि रोहिण्यां पूजनं निष्फलं भवेत्।
एवं सर्वं समालोक्य मां पूजयति यो रमे।। 41.76 ।।
भोगानप्युत्तमानत्र ह्यनुभूय तथान्तिमे।
मोदते स तु मल्लोके नित्यसूरिगणैः सह।। 41.77 ।।
Chapter - 42
+++
+++
।। द्विचत्वारिंशोऽध्यायः ।।
प्रत्यब्दं कटके मासि ह्यष्टादशदिने रमे।
गङ्गोत्पत्त्युत्सवं कुर्याद् राजराष्ट्राभिवृद्धये।। 42.1 ।।
महाबलेर्यज्ञमध्ये देवानां हितकाम्यया।
वामनं रूपमास्थाय पदत्रयमयाचयम्।। 42.2 ।।
मह्यं तुष्टो बलिः प्रादात्ततो वर्धितुमारभे।
पादेनैकेन वसुधां द्वितीयेन विधेः पदम्।। 42.3 ।।
अतीत्याभिनदं भित्तिमण्डस्य महतो बिलात्।
अन्तः प्रविष्टं सलिलं नदीरूपेण चासरत्।। 42.4 ।।
तां गङ्गेति ततो ब्रह्मा मत्पादसलिलं ब्रुवन्।
मत्पादं तां च गन्धाद्यैरपूजयदधोगताम्।। 42.5 ।।
कैलासशिखरं प्राप्तां गङ्गां तां पार्वतीपतिः।
मत्पादादुद्भवां ज्ञात्वा पूजयित्वा यथाविधि।। 42.6 ।।
शिरसाधारयच्चैनां स्वस्य पापापनुत्तये।
व्यसर्जयत् ततो भूमौ सप्तधा प्राविशत्तदा।। 42.7 ।।
गङ्गा गोदावरी चैव यमुना च सरस्वती।
नर्मदासिन्धुकावेरीत्येवं नामानि बिभ्रति।। 42.8 ।।
तदा प्रभृति देवाश्च मुनयो ब्राह्मणास्तथा।
सप्ताकृतिं पूजयन्ति तद्दिने भक्तितः शुभाम्।। 42.9 ।।
अतः सः उत्सवः कार्यस्तद्विधानं वदामि ते।
अष्टादशदिने देवि सायाह्ने प्रार्थयेद् गुरुः।। 42.10 ।।
पुण्यतीर्थपदाम्भोज त्रिविक्रम जगद्धित।
नदीनां शुद्धये देव बिम्बेऽस्मिन् संनिधिं कुरु।। 42.11 ।।
इति विज्ञाप्य चावाह्य यानेऽलंकारमाचरेत्।
नदीतीरं प्रापयित्वा तत्रस्थे सिंहविष्टरे।। 42.12 ।।
स्थापयन्नर्घ्यपाद्याद्यैरर्चयेद् देवमच्युतम्।
देवस्य तु पुरोभागे धान्यपीठं प्रकल्पयेत्।। 42.13 ।।
नवान् कुम्भान् सकरकान् सर्वालंकारसंयुतान्।
पुण्याहवारिणा प्रोक्ष्य सलिलेन च पूरयेत्।। 42.14 ।।
मध्यकुम्भे योगपीठं ध्यात्वा गङ्गां समर्चयेत्।
विष्णुपादोद्भवे गङ्गे सर्वपापविनाशिनि।। 42.15 ।।
नदीनां शुद्धये देवि कुम्भेऽस्मिन् संनिधिं कुरु।
इति देवपदाम्भोजादावाह्यार्घ्यादिना यजेत्।। 42.16 ।।
इन्द्रादीनुपकुम्भेषु करके च सुदर्शनम्।
आवाह्याभ्यर्च्य पूण्याहवारिणा प्रोक्ष्य भार्गवि।। 42.17 ।।
शुद्धां कृत्वा नदीं तस्यां कुम्भस्थां विष्णुपादजाम्।
गङ्गां संयोज्य संपूज्य वस्त्रपुष्पफलादिभिः।। 42.18 ।।
त्रिविक्रमपदाम्भोजादुत्पन्ने देवसेविते।
अस्यां नद्यां स्थितान् सर्वान् स्नातान् पापाद्विमोचय।। 42.19 ।।
इति संप्रार्थ्य चेन्द्रादीन् कुम्भादुद्वासयेद् गुरुः।
प्रासादं देवमानीय मूले शक्तिं नियोजयेत्।। 42.20 ।।
अष्टादशदिने ह्यस्मिन् उत्सवोऽयं मया कृतः।
अङ्गीकुरु जगन्नाथ भक्तस्य प्रियकाम्यया।। 42.21 ।।
इति विज्ञाप्य लक्ष्मीशं शय्यान्तं पूजयेद्रमे।
अथ लक्ष्मीः प्रवक्ष्यामि नित्यनैमित्तिकादिषु।। 42.22 ।।
प्राप्तेषु पूजालोपेषु ज्ञानतोऽज्ञानतोऽपि वा।
तस्य प्रतिनिधिः कार्यः पवित्रारोपसंज्ञिकः।। 42.23 ।।
आषाढादौ कार्तिकान्तं सर्वदोषनिवारणम्।
पवित्रारोपणं विष्णोः प्रीतिदं मोक्षदं नृणाम्।। 42.24 ।।
पूर्वोदितेषु मासेषु शुक्लपक्षेऽमृतोद्भवे।
प्रथमायां तृतीयायां पञ्चम्यामथवा तिथौ।। 42.25 ।।
एकादश्यां दशम्यां वा त्रयोदस्यामथापि वा।
द्वादश्यां पूर्णिमायां वा नक्षत्रे यमदैवते।। 42.26 ।।
रोहिण्यां पुष्यनक्षत्रे मृगशीर्षे मखेऽपि वा।
चित्रर्क्षे श्रवणे वापि रेवत्यश्विनि तारके।। 42.27 ।।
तत्तन्मासस्य नक्षत्रे पूर्णिमारहितेऽपि वा।
एतेष्वन्यतमे देवि निश्चित्यावभृथं गुरुः।। 42.28 ।।
कुर्यात् सर्वप्रयत्नेन तेषु कालेषु चोत्सवम्।
स कालो वैष्णवो ज्ञेयः प्रायश्चित्तोत्सवस्य हि।। 42.29 ।।
विनिर्मितं कुमार्या वा ब्राह्मण्या वृद्धयापि वा।
प्रथमाश्रमिणा वापि द्वितीयाश्रमिणापि वा।। 42.30 ।।
कृतं तन्तुसमूहं वाप्त्यथवा क्षौमपट्टजम्।
यथा लब्धं समादाय सम्यक् प्रक्षाल्य वारिणा।। 42.31 ।।
आतपे शोषयेत्तन्तुसमूहं त्रिगुणीकृतम्।
हरिद्रया रञ्जयित्वा क्रिमिजं भूतवर्णकैः।। 42.32 ।।
तन्तुभिश्च समैः कुर्याद्धरेर्भूषणमब्जजे।
अष्टोत्तरसहस्रैर्वा तदर्धैरङ्घ्रिभिस्तु वा।। 42.33 ।।
आकण्ठात्पादपर्यन्तं यथेष्टग्रन्थिसंयुतम्।
पवित्रं वनमालेति विज्ञेयं प्राणवल्लभे।। 42.34 ।।
बीजपूरसमाकारमाम्रामलकशङ्खवत्।
मुक्तावद्बदरीवच्च ग्रन्थिभेदा वरानने।। 42.35 ।।
पञ्चवर्णसमायुक्तं पञ्चयष्टिसमन्वितम्।
पवित्रं चोत्तमं ज्ञेयं यष्टित्रयसमन्वितम्।। 42.36 ।।
पवित्रं मध्यमं प्रोक्तमधमं त्वेकयष्टिकम्।
वित्तानुसारात् त्रिष्वेकं कुर्याद् देशिकसत्तमः।। 42.37 ।।
जान्वन्तं वनमालेति नाभ्यन्तं कौस्तुभं स्मृतम्।
वक्षःस्थलान्तं श्रीवत्सं किरीटाख्यं शिरःस्थितम्।। 42.38 ।।
देवीनां च श्रियादीनां पवित्रं पद्मसंज्ञिकम्।
पवित्रमन्यदेवानां सुदर्शनमितीरितम्।। 42.39 ।।
द्वारतोरणकुम्भानां पवित्रं शङ्खसंज्ञिकम्।
कुण्डानां कुण्डमानं स्याद् वेदीनां तत्प्रमाणकम्।। 42.40 ।।
विमानपीठयानानां तत्तन्मानं पवित्रकम्।
प्रभाधूपादिपात्राणां व्यजनच्छत्रयोस्तथा।। 42.41 ।।
चामरणां च घण्टाया पादुकाध्वजदण्डयोः।
तत्तन्मानं पवित्रं स्यादेवमन्यस्य कारयेत्।। 42.42 ।।
आचार्याणां यतीनां च द्विजातीनां सलक्षणम्।
पवित्रं नाभिपर्यन्तमन्येषां स्तनमात्रकम्।। 42.43 ।।
मानुषाणां पवित्रं तु चक्रमित्यभिधीयते।
पवित्रमित्थमाचार्यः कुर्याद्वा शिल्पिनापि वा।। 42.44 ।।
शास्त्रोक्तेन विधानेन कारयेत् तदनन्तरम्।
कल्पयेद्यज्ञसदनं द्वारतोरणसंयुतम्।। 42.45 ।।
चतुष्कुण्डसमायुक्तं कुण्डेनैकेन वा युतम्।
वेद्यादिभिः शोभमानं रम्भास्तम्भैरलंकृतम्।। 42.46 ।।
दर्भमालावितानाद्यैः शोभितं सर्वतो रमे।
एवं लक्षणसंयुक्तं मण्डपं देशिकोत्तमः।। 42.47 ।।
पुण्याहवारिणा प्रोक्ष्य पञ्चगव्येन वै ततः।
गन्धोदकेन संसिच्य धूपयेत् सर्वतो दिशम्।। 42.48 ।।
सुधाचूर्णैर्लंकृत्य सिद्धार्थान् विकिरेद् भुवि।
नवमे दिवसे वापि सप्तमे पञ्चमेऽपि वा।। 42.49 ।।
निश्चित्यावभृथं विष्णोः प्रायश्चित्तोत्सवं चरेत्।
उत्सवारम्भपूर्वेद्युराचार्यो मूर्तिपैः सह।। 42.50 ।।
भगवद्यागकर्माङ्गं स्नायाद्वपनपूर्वकम्।
शुद्धवस्त्राणि पुण्ड्राणि यज्ञसूत्राणि धारयेत्।। 42.51 ।।
श्व आरभ्य करिष्यामि पावित्रीं पूजनां हरेः।
[आगन्तव्यं भवद्भिश्च पञ्चकालपरायणैः]।। 42.52 ।।
एवमभ्यर्थ्य तेभ्यश्च ह्यनुज्ञां प्रितगृह्य च।
गुरुः सेनेशसहितो भगवन्मन्दिरं व्रजेत्।। 42.53 ।।
ताम्बूलफलपूगादिपटलं देवसंनिधौ।
निधायाभ्यर्च्य चार्घ्याद्यैः फलादीनि निवेदयेत्।। 42.54 ।।
नमस्कृत्य गुरुद्वेवं कृताञ्जलिपुटस्थितः।
ओमादिवेदमन्त्रात्मन् षाड्गुण्य पुरुषोत्तम।। 42.55 ।।
क्रियालोपस्य शमनं यत् त्वयाभिहितं विभो।
पवित्रारोपणं नाम तदद्य क्रियते मया।। 42.56 ।।
अनुज्ञां कुरु देवेश सेनेशस्य गदाधर।
विज्ञाप्यैवं हरिं जिष्णुमनुज्ञां प्रतिगृह्य च।। 42.57 ।।
ततः सूत्रवतीनाथं समभ्यर्च्य यथाविधि।
दर्भपुञ्जं समादाय सेनेशं प्रार्थयेद् गुरुः।। 42.58 ।।
सेनेश द्विपवक्त्रादिपरिचर्यपदद्वय।
पवित्राङ्कुरसिध्यर्थं देवेनाज्ञापितः किल।। 42.59 ।।
मृत्तिकां संगृहीतुं त्वं मयायाहि सवैष्णवैः।
एवं संबोध्य देवेशं हस्ते तर्भाणि धारयेत्।। 42.60 ।।
ततः सायाह्नसमये मृत्संग्रहणमाचरेत्।
निशायां पालिकादीनि पूजयेत् विधिवत्ततः।। 42.61 ।।
बिम्बयोग्यानि चैकस्मिन्नाग्नेयान्यपराण्यपि।
अन्यानि चक्रयोग्यानि मानुषाणि तथैव च।। 42.62 ।।
पृथक्पृथक् च पात्रेषु स्थापयेत् कमलेक्षणे।
पात्राणि परिचाराणां हस्तेषु ग्राहयेत्ततः।। 42.63 ।।
वेदघोषैर्वाद्यघोषैश्चामरव्यजनादिभिः।
धाम प्रदक्षिणीकृत्य पवित्राण्यधिवासयेत्।। 42.64 ।।
देवस्य पुरतो वापि हुताशनगृहेऽपि वा।
शालीनां तण्डुलानां च तिलानां राशिमेव च।। 42.65 ।।
उपर्युपरि निक्षिप्य पात्राण्यस्मिन्निधाय च।
रोचनागरुकस्तूरिकुङ्कुमैर्गन्धवस्तुभिः।। 42.66 ।।
पात्रमापूर्य तस्मिंस्तु श्रियमावाह्य पूजयेत्।
गन्धवस्तूनि चादाय पवित्रेषु नियोजयेत्।। 42.67 ।।
नववस्त्रैः समाच्छाद्य करके च सुदर्शनम्।
आवाह्य पूजयेत्तस्मिन् रक्षणं तेन कारयेत्।। 42.68 ।।
तत्रैव साधकैः सार्धं जागरेण नयन्निशाम्।
प्रभाते स्नाननियमान् कृत्वाचार्यः प्रसन्नधीः।। 42.69 ।।
प्रविश्य भगवद्गेहं कृत्वा नित्यार्चनं पुरा।
ततो मूलात् कर्मबिम्बे समावाह्याभिषेचयेत्।। 42.70 ।।
नववस्त्रादिभिर्देवं भूषणैरपि भूषयेत्।
यागशालां प्रविश्याथ वस्त्राण्युद्धाट्य देशिकः।। 42.71 ।।
पवित्रपात्राण्यादाय यतिभिर्वैष्णवैः सह।
धाम प्रदक्षिणीकृत्य स्थापयेद् देवसंनिधौ।। 42.72 ।।
पुण्याहवारिणा प्रोक्ष्य शुद्धयेच्छोषणादिभिः।
वद्धाञ्जलिस्ततो मूलमीश्वरं गुरुसत्तमः।। 42.73 ।।
निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमच्युत।
जगद्धितावतीर्णस्य अर्चारूपस्य ते विभो।। 42.74 ।।
संवत्सरोपचाराणां पूरणार्थं जगद्गुरो।
मयाद्य क्रियते पूजा रक्षाबन्धपुरःसरम्।। 42.75 ।।
तद्गृहाण जगन्नाथ लोकस्य हितकाम्यया।
इति विज्ञाप्य देवेशं मूलबेरादिषु क्रमात्।। 42.76 ।।
सूक्ष्मेणैव पवित्रेण रक्षासूत्रं च बन्धयेत्।
शिरः पवित्रमादाय पात्रेऽन्यस्मिन् निधाय च।। 42.77 ।।
तत्र योगासनं ध्यात्वा पूजयित्वा यथाविधि।
मकुटाधिपते विष्णो वासुदेव दयानिधे।। 42.78 ।।
परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे।
इति मूलात्समावाह्य सैद्धादिषु च दिव्यतः।। 42.79 ।।
सालग्राण्णि च दिव्ये च स्वयंव्यक्ते मम प्रिये।
एतेषु नित्यं तिष्ठामि तस्माच्छ्रेष्ठतमा भुवि।। 42.80 ।।
सिद्धादिषु प्रतिष्ठायां पवित्रारोपणेऽपि च।
तेभ्य एव समावाह्य पूजयेद्देशिकोत्तमः।। 42.81 ।।
तस्मादावाह्य तन्मुद्रां प्रदर्श्यार्घ्यादिना यजेत्।
एवं सर्वपवित्राणां पूजां कुर्याद्यथाविधि।। 42.82 ।।
संप्रार्थयेत् पवित्रेषु श्रीवत्सादीन् यथाक्रमम्।
श्रीवत्साधिष्ठिते लक्ष्मीः शम्पाकोटिसमप्रभे।। 42.83 ।।
वक्षोभूषापवित्रेऽस्मिन् हरेः सांनिध्यमाचर।
जठरान्तं मधुरिपोः पवित्रं कल्पितं मया।। 42.84 ।।
कौस्तुभाधिपते भानो त्वमस्मिन् संनिधिं कुरु।
मुक्ताफलसमे सोम त्वमस्मिन् हारसंज्ञिके।। 42.85 ।।
पवित्रे संनिधिं प्राप्य भगवत्प्रीतिमावह।
तुलसि त्वं भगवतः प्रिये सर्वाङ्गशोभिनि।। 42.86 ।।
पवित्रे वनमालायां संनिधत्स्व यथासुखम्।
श्रियादीनां पवित्रेषु पद्ममध्यस्तिते रमे।। 42.87 ।।
वनमाले समागच्छ देवदेवप्रिये शुभे!।
सांनिध्यं कुरु लोकानां मङ्गलाय हरिप्रिये।
विमानपरिवाराणां देवानां भूषणेष्वपि।। 42.88 ।।
सुदर्शन सहस्रार सांनिध्यं कुरु सर्वदा।
द्वारतोरणकुम्भानां पवित्रेषु हरेः प्रिय।। 42.89 ।।
पाञ्चजन्य त्वमधुना संनिधत्स्व महास्वन।
मानुषाणां पवित्रेषु वज्री त्वं संनिधिं भज।। 42.90 ।।
एवं तत्तत्पवित्रेषु तत्तद्देवान् समर्चयेत्।
ततः पुष्पाञ्चलिधरः प्रार्थयेद्धरिमव्ययम्।। 42.91 ।।
संवत्सरोपचाराणां न्यूनाधिक्योपशान्तये।
पवित्राणि तवाङ्गेषु भूषयामि जगत्पते।। 42.92 ।।
क्रियमाणं मया देऽद्य पूजामपि रमापते।
श्रियादिभिर्गृहाण त्वं पावित्रीं भक्तवत्सल।। 42.93 ।।
इति संप्रार्थ्य देवस्य गायत्र्या विष्णुपूर्वया।
शिरःप्रभृति पादान्तं पवित्राणि तु धारयेत्।। 42.94 ।।
तथा कर्मादिबिम्बानां पवित्रैर्धारयेद् गुरुः।
एवं श्रियादिदेवीनां तत्तन्मन्त्रमुदीरयन्।। 42.95 ।।
पवित्रैर्भूषयेत्तासां सर्वाङ्गेषु शुचिस्मिते।
हरिद्रातन्तुभिश्चैव वेष्टयेद्गर्भमन्दिरम्।। 42.96 ।।
गर्भादिबलिपीठान्तं द्वारावरणसंस्थितान्।
पवित्रैर्भूषयेत्पश्चात् भक्तबेरांस्ततः परम्।। 42.97 ।।
कुम्भमण्डलकुण्डादीन् यागशालामलंक्रियात्।
पूजापात्राणि सर्वाणि तथा यानानि मण्डयेत्।। 42.98 ।।
[पूर्वमग्निं प्रतिष्ठाप्य द्वारपूजादि कारयेत्।]
कुम्भपूजां ततः कृत्वा चक्राब्जं पूजयेद् गुरुः।। 42.99 ।।
पश्चादग्नौ यजेद्देवं बिम्बस्य तदनन्तरम्।
चतुःस्थानेषु देवस्य पूजासंख्यामिमां शृणु।। 42.100 ।।
शतोत्तरसहस्रं वा सप्तत्युत्तरषट्शतम्।
अथवा पूजनं कुर्यात् षष्ट्युत्तरशतत्रयम्।। 42.101 ।।
विसृज्यावभृथदिनं यावदुत्सववासरम्।
तावद्दिनानां पूर्वोक्तपूजनं तु समं गुरुः।। 42.102 ।।
विभज्य कुर्यात् पूजां वै सांनिध्याधिकसिद्धये।
कुम्भमण्डलयोः प्रातर्मध्याह्ने हरिमर्चयेत्।। 42.103 ।।
रात्रावग्निषु पूजा स्याद्विभवे सत्ययं विधिः।
बिम्बमात्रस्य वा कुर्यात् षष्ट्युत्तरशतत्रयम्।। 42.104 ।।
अन्येषां कुम्भचक्राब्जवह्निस्थानं दिने दिने।
रात्रौ मध्यंदिने चैव कालयोः पूजनं चरेत्।। 42.105 ।।
यज्ञागारं समासाद्य कुम्भस्थापनमाचरेत्।
महाकुम्भोपकुम्भेषु कल्पयेद्योगपीठिकाम्।। 42.106 ।।
पुण्याहवारिणा प्रोक्ष्य द्वारतोरणमर्चयेत्।
महाकुम्भे मूलबेराच्छक्तिमावाह्य पूजयेत्।। 42.107 ।।
पूर्वाद्याशासु कुम्भेषु वासुदेवादिकान् यजेत्।
आग्नेयादिषु कोणेषु यष्टव्याः पुरुषादयः।। 42.108 ।।
सुदर्शनं च करके मूलबेरस्य हस्ततः।
आवाह्याभ्यर्च्य चक्राब्जमण्डले द्वादशेष्वपि।। 42.109 ।।
दलेषु केशवादींश्च समावाह्य च पूजयेत्।
चतुरश्रादिकुण्डेषु वासुदेवादिकान् यजेत्।। 42.110 ।।
दिने दिने नित्यपूजां समाप्य च यथाविधि।
वेदान् गाथा वैष्णवेषु पठत्सु गुरुसत्तमः।। 42.111 ।।
संख्यां संकल्प्य विधिवद् भगवद्यागमाचरेत्।
सायाह्ने समनुप्राप्ते मखबिम्बेन वै सह।। 42.112 ।।
कर्मार्चां यानमारोप्य चक्राब्जस्य समीपगे।
पीठे संस्थाप्य यागेशमग्न्यगारस्य पार्श्वगे।। 42.113 ।।
भद्रपीठे हरिं नीत्वा कुम्भमण्डलवह्निगम्।
यताशास्त्रं पूजयेयुर्ऋत्विजो दीक्षितास्तदा।। 42.114 ।।
कर्मार्चां मखबिम्बं च पूजयेद् गुरुसत्तमः।
पूजाकाले वेदविदः पूर्वादिषु यथाक्रमम्।। 42.115 ।।
ऋग्वेदादीन् पाठयेयुस्तथा द्राविडसंज्ञिकाः।
महाहविर्निवेद्याथ भक्तेभ्यो दापयेत्क्रमात्।। 42.116 ।।
ततो यानं समारोप्य कर्मार्चामुत्सवेन च।
धाम प्रदक्षिणीकृत्य घटदीपं प्रदर्शयेत्।। 42.117 ।।
गर्भमन्दिरमानीय विष्टरे स्थापयेत् प्रभुम्।
संकल्पपूजां यावच्च तावद्वस्त्राणि भूषणान्।। 42.118 ।।
पवित्राण्यपि देवस्य वल्लभे नावरोपयेत्।
नोद्वासयेन्मूलबिम्बे कौतुकं न विसर्जयेत्।। 42.119 ।।
समाप्तदिवसे प्रातर्देवं तीर्थार्चया सह।
यानमारोप्य वीथीश्च प्रादक्षिण्येन वै हरिम्।। 42.120 ।।
नदीतीरमथानाय्य पवित्रावभृथं चरेत्।
ततस्त्वालयमानाय्य यज्ञमन्दिरविष्टरे।। 42.121 ।।
संस्थाप्य पालिकां देवान् योजयेत् पादविष्टरे।
श्रीसूक्तेनाङ्कुरैर्देवमर्चयेत् पद्मविष्टरे।। 42.122 ।।
स्नानमण्डपमानीय पञ्चविंशतिभिर्घटैः।
तीर्थबिम्बेन कर्मार्चां स्नापयेद् विधिपूर्वकम्।। 42.123 ।।
द्वारतोरणकुम्भस्थान् विसृज्य च यथाक्रमम्।
मण्डलस्थं च वह्निस्थं महाकुम्भे नियोजयेत्।। 42.124 ।।
महाकुम्भं नयेदन्तर्बिम्बेन सह देशिकः।
मूलबेरस्य पुरतो निधायाभिमुखं स्थितः।। 42.125 ।।
बिम्बकुम्भस्थितां शक्तिं मूलार्चायां नियोजयेत्।
नृसूक्तेन महाकुम्भवारिणा प्रोक्षयेद्विभुम्।। 42.126 ।।
महाहविर्निवेद्याथ हरिं संप्रार्थयेत् ततः।
संसारार्णवमग्नानां समुद्धरणदीक्षित।। 42.127 ।।
संवत्सरोपचाराणां पूरणार्थं मया कृतम्।
आराधनं गृहाण त्वं भक्तस्य हितकाम्यया।। 42.128 ।।
नाहं स्वतन्त्रः किंचिच्च करोमि विहितं हितम्।
किं तु त्वत्प्रेरितं सर्वं करोमि प्रेष्यवत्स्वयम्।। 42.129 ।।
तत् क्षन्तव्यमशेषेण क्रियालोपादि यत्कृतम्।
इति विज्ञाप्य देवेशं पुष्पाञ्जलिमथार्पयेत्।। 42.130 ।।
रक्षाबन्धं च सर्वेषां विसृजेत् देशिकोत्तमः।
पवित्राणि च सर्वाणि भक्तेभ्यो दापयेद्रमे।। 42.131 ।।
Chapter - 43
+++
+++
।। त्रिचत्वारिंशोऽध्यायः ।।
लक्ष्मीः-
योगिहृत्कमलावास षाड्गुण्यपरिकर्मित।
नगराद्यालये भक्तास्त्वामर्चारूपिणं विभुम्।। 43.1 ।।
पूजयन्ति नमस्यन्ति वानप्रस्थाः कदाचन।
दिदृक्षा यदि तेषां वै तत्कालः कथ्यतां हरे।। 43.2 ।।
श्रीभगवान्-
वदामि कमले तुभ्यं पूजाकालो ममेन्दिरे।
नभस्यस्य तु मासस्य शुक्लपक्षस्य वै गुरुः।। 43.3 ।।
दशम्यां मृगयायात्रां करिष्यन्नवमीदिने।
हयं वाहनमादाय वाद्यघोषादिभिः सह।। 43.4 ।।
आयुधान्यपि चादाय नदीं गच्छेत् सरोऽपि वा।
संशोध्य वाहनं हेतीनलंकृत्य पटादिभिः।। 43.5 ।।
धाम प्रदक्षिणीकृत्य नयेदालयमब्जजे।
दशम्यां देवदेवस्य कृत्वा नित्यार्चनं पुरा।। 43.6 ।।
संप्रार्थयेद्विभुं मूलमुत्सवार्थं गुरूत्तमः।
योगिवन्द्यपदाम्भोज भक्तरक्षणदीक्षित।। 43.7 ।।
यात्रां तु मृगयां कर्तुं तवेच्छामि जगद्गुरो।
मया संप्रार्थितो बिम्बे कर्माख्ये संनिधिं कुरु।। 43.8 ।।
इति संप्रार्थ्य लक्ष्मीशं कर्मार्चायां विचिन्तयेत्।
रक्षाबन्धं च विधिवत् कृत्वा संस्थापयेद्धरिम्।। 43.9 ।।
अर्घ्यादिना समभ्यर्च्य हविरन्तं निवेदयेत्।
अश्वमारोप्य देवेशमलंकृत्य च भूषणैः।। 43.10 ।।
मृगयानुगुणैः सर्वैर्वस्त्रैर्माल्यैलंकृतम्।
भक्तैर्भागवतैः सार्धं यात्रोपकरणान्वितैः।। 43.11 ।।
संनद्धैः सायुधैश्चैव भृत्यैर्नीत्वा महावनम्।
तत्र ध्यानपरैर्नित्यं वानप्रस्थैः समर्पितम्।। 43.12 ।।
कन्दमूलफलं चान्यद् गुरुर्देवे निवेदयेत्।
कारयित्वा तु मृगयां वह्निवृक्षसमीपतः।। 43.13 ।।
नीत्वा प्रपादिके रम्ये स्थापयित्वा जगत्पतिम्।
वह्निवृक्षस्य मूले तु प्रोक्ष्य पुण्याहवारिणा।। 43.14 ।।
आयुधानि निधायाथ पूजयेत् स्वस्वमन्त्रतः।
देशिको मूलमन्त्रेण शमीपल्लवमाहरेत्।। 43.15 ।।
निदध्याद् देवशिरसि सर्वभूविजयाय तत्।
बाणान् धनुश्च संगृह्य चतुर्दिक्षु धरोर्ध्वयोः।। 43.16 ।।
प्रयुञ्ज्यादस्त्रमन्त्रेण धन्वनागेति चाप्यृचा।
ततोऽर्चयेद्देवदेवं विविधैरुपहारकैः।। 43.17 ।।
वानप्रस्थैस्तापसाद्यैरर्पितानि च भक्तितः।
कन्दमूलफलादीनि विविधाः कुसुमस्रजः।। 43.18 ।।
समर्प्य देवदेवाय ताम्बूलं च निवेदयेत्।
सायाह्ने समनुप्राप्ते पुनरश्वे नियोज्य च।। 43.19 ।।
प्रदीपैर्विविधैर्वाद्यैर्वेदपारायणैरपि।
प्रदक्षिणं कारयित्वा सर्वा वीथीर्वरानने।। 43.20 ।।
आलयान्तं प्रापयित्वा घटदीपं च दर्शयेत्।
देवस्य श्रमशान्त्यर्थं स्नापयेन्नवभिर्घटैः।। 43.21 ।।
शक्तिं मूले नियोज्याथ प्रार्थयेद्धरिमव्ययम्।
यन्मयानुष्ठितं देव दशम्युत्सवमद्य ते।। 43.22 ।।
तस्मिन्न्यूनाधिकं चेत्तत् क्षम्यतां भक्तपूजनम्।
इति विज्ञाप्य देवेशं यथावत् पूजयेत्ततः।। 43.23 ।।
अपरं देवि वक्ष्यामि ह्युत्सवं पुष्टिकामदम्।
स्वर्गदं चापि सर्वेषां वैष्णवानां च मुक्तिदम्।। 43.24 ।।
भूमिपुत्रः पुरा देवि नरको नाम दानवः।
तेनेमा हिंसिताः पूर्वं मां प्रजाः शरणं ययुः।। 43.25 ।।
ततोऽहमहनं देवि नरकं दानवाधिपम्।
स तु दिव्यं वपुः प्राप्य मां च स्तुत्वा वचोऽब्रवीत्।। 43.26 ।।
पुण्यश्लोक हरे विष्णो कमलासनपूर्वज।
त्वां प्रार्थये नमस्कृत्य भक्तप्रिय हितंकर।। 43.27 ।।
त्वया हतोऽहं संतुष्टो दानवानां सुदुर्लभम्।
त्वत्प्रसादात् स्वर्गवासं वसिष्यामि न संशयः।। 43.28 ।।
परं तु बाधिताः पूर्वं मोदन्तां सकलाः प्रजाः।
मन्नाम्ना ह्युत्सवं कुर्युरालयेषु गृहेषु च।। 43.29 ।।
अभ्यञ्जनस्नानदानं नूतनाम्बरधारणम्।
कुर्युर्देवाय भक्ष्यादिगुडान्नादिचतुर्विधम्।। 43.30 ।।
निवेदयेयुरित्येवं संप्रार्थ्या स्वर्गमभ्यगात्।
ततो देवान् मानुषांश्च तदाशासं जलोद्भवे।। 43.31 ।।
आश्वयुक्कृष्णपक्षस्य चतुर्दश्यां विधूदये।
तैलेन स्नापयेद्देवमवशिष्टेन वै गुरुः।। 43.32 ।।
शिरसा धारयेत् पूर्वं भक्तेभ्यो धारयेत्ततः।
भगवद्गात्रसंस्पृष्टं तैलं मन्त्रैश्च मन्त्रितम्।। 43.33 ।।
शिरसा धारयेयुस्ते शरीरेषु न लिम्पयेत्।
यो मोहाल्लिम्पते गात्रं स तु रौरवमाप्नुयात्।। 43.34 ।।
गुरुः पूर्वोक्तरीत्याथ स्नात्वा देवस्य संनिधिम्।
प्रविश्य नित्यपूजां च कृत्वा होमावसानकम्।। 43.35 ।।
नरकान्तक शार्ङ्गेश चतुर्दश्युत्सवाय ते।
कृपया कर्मबिम्बेऽस्मिन् संनिधत्स्व रमापते।। 43.36 ।।
इत्थं विज्ञाप्य चावाह्य मूलाच्छक्तिं गुरूत्तमः।
देवेशं यानमारोप्य नयेदास्थानमण्टपम्।। 43.37 ।।
आराध्य धूपदीपाद्यैर्गुडान्नादिचतुर्विधम्।
निवेदयेच्च भक्ष्यादि ताम्बूलं मुखवासनम्।। 43.38 ।।
अनाहतानि वस्त्राणि दारयेद्धरिमव्ययम्।
तद्विधानं प्रवक्ष्यामि शृणु पङ्कजसंभवे।। 43.39 ।।
देवस्य तु पुरोभागे धान्यपीठं प्रकल्पयेत्।
हैमानि वस्त्रयुग्मानि पट्टजान्यपराण्यपि।। 43.40 ।।
स्वर्णपात्रे नालिकेरफलताम्बूलशोभिते।
निधाय धान्यपीठे तु प्रोक्ष्य पुण्याहवारिणा।। 43.41 ।।
तेषु वस्त्रेषु वै चन्द्रमावाह्याभ्यर्चयेत्ततः।
गजादौ वा यानवर्ये परिचारकमूर्ध्नि वा।। 43.42 ।।
निधाय च्छत्रवाद्यादिसहितो देशिकोत्तमः।
धाम प्रदक्षिणीकृत्य परिदध्याद्यथाक्रमम्।। 43.43 ।।
गर्भमन्दिरमाविश्य मूलार्चायाश्च दैव्ययोः।
कर्मबिम्बादिबिम्बानां धारयेन्नूतनांबरम्।। 43.44 ।।
निवेद्य भक्ष्यभोज्यादि भक्तेभ्यो दापयेत्ततः।
एवं कृत्वा तु देवेशं गर्भमन्दिरमानयेत्।। 43.45 ।।
कर्मबिम्बगतां शक्तिं मूलार्चायां नियोजयेत्।
चतुर्दश्युत्सवं विष्णो मया भक्त्या ह्यनुष्ठितम्।। 43.46 ।।
अत्र किंचित् परित्यक्तं ज्ञानतोऽज्ञानतोऽपि वा।
मद्भक्त इति तत्सर्वं क्षन्तुमर्हसि माधव।। 43.47 ।।
Chapter - 44
+++
+++
।। चतुश्चत्वारिंशोऽध्यायः ।।
पुरा महाबलीर्नाम मद्भक्तो दानवोत्तमः।
सर्वान् देवान् विजित्यैव त्रैलोक्यस्याधिपोऽभवत्।। 44.1 ।।
तं विजेतुमशक्ता वै देवा मां शरणं ययुः।
शरणागतरक्षार्थमहत्वाप्यसुराधिपम्।। 44.2 ।।
उपायेन जयिष्यामि ह्यसुरं देवकण्टकम्।
इति निश्चित्य मनसा वामनं रूपमास्थितः।। 44.3 ।।
मामुद्दिश्यैव यजतो यज्ञवाटमुपागमम्।
गत्वा त्वयाचे तपसे मत्पादत्रयमानिताम्।। 44.4 ।।
भुवं ततो ह्यलक्ष्येण सोऽप्यदान्मम वल्लभे।
गृहीत्वैव पदैकेन भुवमन्येन पादतः।। 44.5 ।।
पुण्यमस्यान्तरिक्षं च भूयोऽप्राक्षमहं बलिम्।
तृतीयं पदमानं तु कुत्र दास्यसि सुव्रत।। 44.6 ।।
इति मद्वचनं श्रुत्वा बलिर्हृष्टो वचोऽब्रवीत्।
सत्यं मद्वचनं कर्तुं मूर्ध्नि मे चरणं कुरु।। 44.7 ।।
अनुग्रहार्थं भक्तस्य तथा कृत्वा रसातलम्।
नीत्वा तस्मिन् राज्यभारमसुरं कारयाम्यहम्।। 44.8 ।।
एवं मां प्रार्थयत्तस्मिन् काले दैत्याधिपो बलिः।
उपक्रान्ता मया तृप्तिर्वह्निरूपस्य ते विभो।। 44.9 ।।
मया प्रीतिस्तु नाकारि विघ्नोऽभूद्यज्ञसंततेः।
तस्मादस्मिन् दिने भूम्यामालयेषु गृहेषु च।। 44.10 ।।
अग्निं हुत्वा प्रदीपांस्तु दीपयेयुस्तदग्निना।
तदा प्रभृति कुर्वन्ति मयाज्ञप्ता जना भुवि।। 44.11 ।।
अग्नितृप्त्युत्सवं वक्ष्ये शृणु सागरसंभवे।
सूर्योदये कलायुक्ता ह्यविद्धा पूर्णिमा यदि।। 44.12 ।।
भरण्या च चतुर्दश्या कृत्तिकापूर्णिमे यदा।
विद्धे स्यातां तदा विष्णोरुत्सवं नैव कारयेत्।। 44.13 ।।
संक्रान्त्या चोपरागेण द्वषिते ते यदा भवेत्।
नक्षत्रं त तिथिं चैव त्यक्ता शुद्धदिने चरेत्।। 44.14 ।।
एका चेदुपरागेण पूर्णिमा दीषिता यदि।
पुरस्ताच्च पकस्ताच्च वर्जयित्वाष्टनाडिकाः।। 44.15 ।।
दीपोत्सवं तदा कुर्यादग्नितृप्त्युत्सवं शुभम्।
आचार्यः प्रातरुत्थाय नित्यपूजां समाप्य च।। 44.16 ।।
प्रासादान्तरमारभ्य परिवारगणान्तिमम्।
पुरातनानि मृद्दीपपात्राणि परितस्त्यजेत्।। 44.17 ।।
स्वर्णादीनि च पात्राणि शोधयेच्छर्करादिभिः।
सलिलैः शोधयेत् पूर्वं प्रासादाद्यं सुमध्यमे।। 44.18 ।।
सुधाचूर्णैरलंकृत्य विकिरेदक्षतानपि।
वितानैस्तोरणैश्चैव कदलीस्तभ्भपूगकैः।। 44.19 ।।
नालिकेरैरलंकुर्यात् ध्वजयष्टिभिरब्जजे।
चन्दनागरुकस्तूरिधूपैः सर्वत्र धूपयेत्।। 44.20 ।।
नूत्नप्रदीपपात्राणि संक्षाल्य च ततः परम्।
तेषु स्वर्णादिपात्रेषु वर्तीस्तन्तुविनिर्मिताः।। 44.21 ।।
नूतनैर्वस्त्रखण्डैश्च निर्मितास्तेषु च न्यसेत्।
आज्येन पूरयेत्तानि तिलतैलेन वा रमे।। 44.22 ।।
प्राकारभित्तिषु तथा मण्डपे गोपुरेषु च।
गोमयैः पीठमाकल्प्य दीपपात्राणि निक्षिपेत्।। 44.23 ।।
मूलबेरस्य पुरतो धान्यपीठं प्रकल्पयेत्।
सौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं तु वा।। 44.24 ।।
चतुरश्रं वर्तुलं वा तन्मध्ये स्थापयेत्ततः।
परितस्तस्य पात्रस्याप्यष्टौ संस्थाप्य देशिकः।। 44.25 ।।
मध्यपात्रे त्वाढकेन गोघृतेन सुपूरयेत्।
परितोऽष्टसु पात्रेषु गोघृतेन यथार्हतः।। 44.26 ।।
मध्यपात्रे तूर्ध्वमुखीं वर्तिं मध्ये निधापयेत्।
अन्येष्वपि च पात्रेषु इत्थमेव प्रकल्पयेत्।। 44.27 ।।
सर्वाण्यपि च पात्राणि प्रोक्षयेत् पुण्यवारिणा।
ततोऽपराह्ने संप्राप्ते मूर्तिपैः सह देशिकः।। 44.28 ।।
मूलमन्दिरमासाद्य प्रार्थयेदच्युतं परम्।
पुण्यकीर्ते महायोगिन् साधुसेवितविग्रह।। 44.29 ।।
दीपोत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व भुवः पते।
एवं संप्रार्थ्या चाभ्यर्च्य बन्धयेत् कौतुकं गुरुः।। 44.30 ।।
स्वयं च कौतुकं हस्ते दक्षिणे बन्धयेत् ततः।
स्नापयेदेकबेरं चेन्मूलं तु बहुबेरके।। 44.31 ।।
कर्मार्चां नवभिः कुम्भैरभिषिच्य च पूजयेत्।
अर्घ्याद्यैः पापणान्तं च पूजयेत् पुष्करेक्षणे।। 44.32 ।।
आवाहनपदे पात्रे देवमावाह्य देशिकः।
नयेद् देवं तथा दीपपात्राणि परिचारकैः।। 44.33 ।।
नित्याग्निकुण्डमासाद्य वह्निं प्रज्वलयेत्ततः।
पात्रस्थं श्रीशमावाह्य वह्नौ संपूजयेद्रमे।। 44.34 ।।
अपूपान् गुडसंमिश्रलाजादीन् जुहुयात्पुनः।
सायाह्नसमये प्राप्ते दीपारोपणमिष्यते।। 44.35 ।।
ध्यायेत् विष्णोर्मुखाम्भोजादुत्पन्नं हव्यवाहनम्।
दीपान् प्रज्वाल्य नेत्रेण निधाय प्रेष्यमूर्धसु।। 44.36 ।।
आवाहितं वासुदेवं पुनः पात्रे नियोज्य च।
वेदघोषैर्वाद्यघोषैः कृत्वा धाम प्रदक्षिणम्।। 44.37 ।।
गर्भगेहं समासाद्य देवं मूले नियोजयेत्।
दीपपात्राणि पुरतो धान्यपीठे निधाय च।। 44.38 ।।
अर्घ्यादिना देवदेवमपूपानुपहारकान्।
पायसादींस्तथा लाजांस्ताम्बूलं च निवेदयेत्।। 44.39 ।।
वह्निमन्त्रेण चास्त्रेण दीपानभ्यर्च्य देशिकः।
अपूपादीनि भक्ष्याणि विनिवेद्य ततः स्वयम्।। 44.40 ।।
दीपपात्रं समादाय नेत्रमन्त्रेण वा ऋचा।
उद्दीप्यस्वेति वै दीपं प्रदर्श्य हरये ततः।। 44.41 ।।
परिचारकहस्तेषु दीपान् दद्यात् स्वयं गुरुः।
ते च द्वारेषु सर्वेषु मण्डपावरणेषु च।। 44.42 ।।
गोपुरेषु च सर्वेषु पुष्करिण्यास्तटेषु च।
श्रियो गृहे तथोद्याने भक्तबिम्बगृहेषु च।। 44.43 ।।
विन्यस्तवर्तिदीपेषु दीपयेयुर्द्विजोत्तमाः।
ततः श्रीपुष्टिसहितं यानमारोप्य वै हरिम्।। 44.44 ।।
वेदघोषैर्वाद्यघोषैः प्रदीपानां शतेन च।
यात्रोपकरणैः सार्धं बहिर्गोपुरमानयेत्।। 44.45 ।।
गोपुरस्य पुरोभागे शततालोन्नतं तु वा।
तदर्धं वा तदर्धं वा खादिरं चन्दनं तु वा।। 44.46 ।।
सालं तालं नारिकेलमडजुं स्तम्भं समाहरेत्।
चतुर्धा विभजेत् स्तम्भमेकांशं खातभूतले।। 44.47 ।।
निधाय दृढवत्कृत्वा स्तम्भाग्रे पीठमब्जजे।
वृत्तं वा चतुरश्रं वा कल्पयेद्धस्तविस्तृतम्।। 44.48 ।।
आज्यावसिक्तवस्त्रैर्वा तैलवस्त्रैर्नवैः प्रिये।
तालपत्रसमूहैर्वा यद्वा वित्तानुसारतः।। 44.49 ।।
स्तम्भमावेष्टयेद्धीमान् प्रोक्ष्य पुण्याहवारिणा।
आलयाभिमुखं दीपं पीठमध्ये न्यसेत्पुरा।। 44.50 ।।
शरावान् समुपादाय तस्य प्रागादिषु न्यसेत्।
तेभ्यो वर्तीः समादाय तत्तद्दिक्षु च दीपयेत्।। 44.51 ।।
अग्नेः प्रशमनादर्वाग्राजराष्ट्रविवृद्धये।
छेदयेत् स्तम्भमूलं तु ततो नीराजयेत् विभुम्।। 44.52 ।।
तत्तत्कार्यनियुक्तानां प्रेष्याणां तोषयेद्ध्रनैः।
धाम प्रदक्षिणीकृत्य देवमन्तः प्रवेश्य च।। 44.53 ।।
घटदीपं प्रदरर्श्याथ मूले शक्तिं नियोजयेत्।
शर्करैर्गोघृतैर्मिश्रं नवं चाढकतण्डुलम्।। 44.54 ।।
क्षीरैः संपच्य देवाय निवेद्य प्रार्थयेत् ततः।
बलिना प्रार्थितः पूर्वमुत्सवस्तु मया कृतः।। 44.55 ।।
अज्ञानात् स्खलितं त्वस्मिन् तत्क्षमस्व दयानिधे।
इति विज्ञाप्य देवेशं शयनान्तं समर्चयेत्।। 44.56 ।।
Chapter - 45
+++
+++
।। पञ्चचत्वारिंशोऽध्यायः ।।
डोलोत्सवविधं वक्ष्ये शृणु पङ्कजमालिनि।
तुलाद्यः कुम्भमासान्तो मुख्यः काल उदाहृतः।। 45.1 ।।
सप्ताहं वाथ पञ्चाहं त्र्यहं वा कारयेद्रमे।
शुक्लपक्षेऽथवा कृष्णे दशम्यादिदिनत्रये।। 45.2 ।।
सप्तम्यां वा पौर्णिमायां मासर्क्षे श्रवणेऽपि वा।
रोहिण्यां वा चित्रऋक्षे फल्गुनीपुष्ययोरपि।। 45.3 ।।
संक्रान्तिदिवसे वापि निश्चित्यावभृथं रमे।
प्रथमाद्यावरणेषु मण्डपं परिकल्पयेत्।। 45.4 ।।
द्वात्रिंशत्स्तम्भसंयुक्तमथवा तु तदर्धकम्।
मण्डपं शैलजं यद्वा दारुजं वा प्रकल्पयेत्।। 45.5 ।।
[मण्डपं समलंकुर्यान्मुक्तादामादिदर्पणैः।]
रम्भास्तम्भैः पुष्पमाल्यैर्नालिकेरफलादिभिः।। 45.6 ।।
पूगस्तबकमालाभिराम्रपत्रादितोरणैः।
वितानैर्विविधैरम्यैर्ध्वजैश्छत्रैर्विचित्रितम्।। 45.7
घृतेन पूरितैर्दीपैः स्वर्णदण्डविराजितैः।
मण्डपाभ्यन्तरभुवं लेपयेद् गोमयाम्भसा।। 45.8 ।।
हिमनिष्यन्दसलिलैर्गन्धतोयैश्च शोधयेत्।
नानावर्णैः सुधाचूर्णैः कुसुमैरक्षतैरपि।। 45.9 ।।
समलंकृत्य तन्मध्ये कल्पयेत् सुमनोहराम्।
सौवर्णीं राजतीं ताम्रीं पैत्तलां वाथ दारुजाम्।। 45.10 ।।
चतुःस्तम्भसमोपेतां विमानसदृशीं रमे।
सुवर्णशृङ्खलोपेतां नानारत्नविराजिताम्।। 45.11 ।।
चतुरश्रसमोपेतां चतुरश्रायतां तु वा।
डोलामित्थं प्रकल्प्याथ परस्मिन् दिवसेऽहनि।। 45.12 ।।
स्नानादिनियमान् कृत्वा प्रविश्यालयमब्जजे।
नित्यपूजादिकं कृत्वा सायाह्ने मृदमाहरेत्।। 45.13 ।।
अङ्कुरानर्पयेद् रात्रौ सास्त्रोक्तेनैव वर्त्मना।
ततः प्रातः साधकैश्च स्नात्वा वपनपूर्वकम्।। 45.14 ।।
शुद्धवस्त्रधराः सर्वे कृतपञ्चाङ्गभूषणाः।
प्रविश्य भगवद्गेहं नित्यपूजां समाप्य च।। 45.15 ।।
भगवन्तं प्रार्थयीत डोलोत्सवसमृद्धये।
शेषाङ्कशायिन् लक्ष्मीश राजराष्ट्राभिवृद्धये।। 45.16 ।।
डोलोत्सवार्थं बिम्बेऽस्मिन् संनिधत्स्व जगत्पते।
इति विज्ञाप्य चावाह्य पूजयेद् देवमव्ययम्।। 45.17 ।।
रक्षाबन्धं ध्रुवार्चादिबेराणां बन्धयेद् गुरुः।
डोलाप्रतिष्ठां तु ततः कुर्याच्छास्त्रोक्तवर्त्मना।। 45.18 ।।
पुण्याहसलिलैर्डोलां प्रोक्षयेन्मन्त्रपूर्वकम्।
डोलामध्ये चादिशेषं पादेषु चतुर्षु क्रमात्।। 45.19 ।।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं चापि पूजयेत्।
सत्यादिगरुडव्यूहं डोलास्तम्भेषु वै क्रमात्।। 45.20 ।।
सत्यं सुपर्णं गरुडं तार्क्ष्यमावाह्य देशिकः।
स्तम्भोपरि विमाने च विराड्रूपं हरिं यजेत्।। 45.21 ।।
शृङ्खलासु चतुर्वेदान् सावित्रीमर्चयेद् ध्वजे।
पताकासु च गायत्रीं छत्रे व्याहृतिमर्चयेत्।। 45.22 ।।
विताने सोममावाह्य तोरणेषु स्वरांस्तथा।
यद्वा सर्वेष्वनन्तं वा गरुडं वापि पूजयेत्।। 45.23 ।।
धान्यकुम्भे महाकुम्भमुपकुम्भाष्टकांस्तथा।
स्थापयित्वा मध्यकुम्भे विराजं परितो रमे।। 45.24 ।।
पादादिदेवानावाह्य इन्द्रादीन् वा यथाक्रमम्।
आवाह्याभ्यर्च्य कुम्भेषु डोलादेवान् पृथक्पृथक्।। 45.25 ।।
अग्नावावाह्य जुहुयाच्छतमष्टोत्तरं रमे।
अष्टविंशतिमष्टौ वा तिलाज्यसमिदाहुतीः।। 45.26 ।।
चक्राब्जे कर्णिकायां तु वासुदेवं दलेष्वपि।
केशवादीन् समावाह्य संपूज्य तदनन्तरम्।। 45.27 ।।
डोलामपि च संपूज्य पायसान्नं निवेदयेत्।
इन्द्रादिकुमुदादिभ्यो बलिं प्राच्यादिषु क्रमात्।। 45.28 ।।
सायाह्नसमये प्राप्ते श्रीभूमिभ्यां समन्वितम्।
भद्रपीठं समारोप्य माल्याद्यैर्भूषयेद्धरिम्।। 45.29 ।।
सर्ववाद्यैर्वेदघोषैः प्रादक्षिण्येन मन्दिरम्।
अन्तर्नीत्वा तु देवाय घटदीपं प्रदर्शयेत्।। 45.30 ।।
देवमारोपयेड्डोलां सुमुहूर्ते सुलग्नके।
अर्घ्यादिना समभ्यर्च्य हविरन्नं निवेदयेत्।। 45.31 ।।
चतुःस्तानेषु संपूज्य कुमुदादिबलिं क्षिपेत्।
निवेद्य तर्पणादीनि नीराजनमथाचरेत्।। 45.32 ।।
मण्डनासनभोगैश्च देवं तत्र समर्चयेत्।
डोलान्दुकां गृहीत्वाथ दीक्षितो मूर्तिपाश्च ते।। 45.33 ।।
मन्दं मन्दं चालयेयुस्तदानीं वेदपारगाः।
ऋग्यजुःसामभिर्वेदैस्तोषयेयुर्जगत्पतिम्।। 45.34 ।।
भगवद्वंशजाः सर्वे महोपनिषदादिभिः।
पानीयं श्रमशान्त्यर्थमेलाकर्पूरमिश्रितम्।। 45.35 ।।
मध्ये मध्ये समर्प्याथ शोधयेच्छाटिना मुखम्।
मुखवासनसंयुक्तं ताम्बूलं च समर्पयेत्।। 45.36 ।।
ततो वाराङ्गनागीतैर्वीणावेणुविमिश्रितैः।
नृत्यैश्च विविधैश्चापि तोषयेयुः सुरोत्तमम्।। 45.37 ।।
भक्तेभ्यो दापयेत् पश्चादन्नादीन् गुरुसत्तमः।
देवं नीत्वा गर्भगेहं मूले शक्तिं नियोजयेत्।। 45.38 ।।
आराधयेच्च शय्यान्तमित्थमवभृथावधि।
नित्यं सायाह्नसमये कुर्यादुत्सवमब्जजे।। 45.39 ।।
आरभ्य चोत्सवदिनात्प्रातः सायं यथाविधि।
चतुःस्थानार्चनं कुर्याद् बलिदानं च कारयेत्।। 45.40 ।।
अङ्कुराणां च पूजां च द्वारपूजादिकं चरेत्।
कर्माण्यवभृथादीनि गुरुः शास्त्रवदाचरेत्।। 45.41 ।।
निवेद्य मूलशक्तिं च गाथामेतामुदीरयेत्।
डोलोत्सवं जगन्नाथ मया त्वत्प्रीतये कृतम्।। 45.42 ।।
तस्मिंस्तु संभवेद्यद्यदपचारं जगत्पते।
प्रेष्यस्य क्षमितव्यं मे तत्सर्वं भक्तवत्सल।। 45.43 ।।
इति विज्ञाप्य देवेशं नित्यपूजां समाचरेत्।
यः करोति जगद्भर्तुरिममुत्सवमब्जजे।। 45.44 ।।
Chapter - 46
+++
+++
।। षट्चत्वारिंशोऽध्यायः ।।
अपरं देवि वक्ष्यामि धनुर्मासे तु पूजनम्।
उत्सवं संपदायुष्यपुष्टिदं मोक्षदं रमे।। 46.1 ।।
कोदण्डस्थे सवितरि यावन्मकरसंक्रमम्।
तावद्दिनेषु प्रत्यूषे भगवन्तं जनार्दनम्।। 46.2 ।।
यथावत् पूजयेद् देवि स्नानार्थं प्रोक्षणं चरेत्।
अलंकारासनं नीत्वा भक्तगाथासमन्वितैः।। 46.3 ।।
स्तोत्रैरनैर्नृत्तगीतैस्तोषयेद्धरिमव्ययम्।
मुद्गान्नं सघृतं क्षीरं मरीच्यादिसमन्वितम्।। 46.4 ।।
सोपदंशं शर्करां च कदलीफलसंयुतम्।
सुगन्धरससंयुक्तं लेह्यचोष्यादिभिर्युतम्।। 46.5 ।।
एवं प्रतिदिनं प्रातर्देवस्य विनिवेदयेत्।
द्वादशाब्दार्चनफलं दिनेनैकेन लभ्यते।। 46.6 ।।
कार्तिके मार्गशीर्षे वा श्रीमदध्ययनोत्सवम्।
मार्गशीर्षस्य शुक्लस्य प्रथमायामुपक्रमेत्।। 46.7 ।।
दशम्यन्तं ततो भूयः एकादश्यां तथारभेत्।
पञ्चमी कृष्णपक्षस्य तावद् दशदिनं भवेत्।। 46.8 ।।
तद्विधानं तु कमले भक्तमोक्षदमुत्सवम्।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा।। 46.9 ।।
तृतीयावरणे यद्वा यत्र कुत्रापि वा भवेत्।
प्राच्यां वा कल्पनीयं स्यादापयोधरमुन्नतम्।। 46.10 ।।
नालिकेरैश्च पूगादिफलैर्नानाविधैस्तथा।
वितानैर्दीपमालाभिः प्रतिमाभिः सुशोभितम्।। 46.11 ।।
देवगन्धर्वदैत्यानां सुखसंचरणक्षमम्।
एवं लक्षणसंयुक्तं कुर्यान्मण्डपमुत्तमम्।। 46.12 ।।
श्रीः-
देवदेव जगन्नाथ ब्रह्मरुद्रादिसेवित।
मार्गशीर्षे मासि मुख्ये उषःकाले तु पूजनम्।। 46.13 ।।
मुद्गान्नादि च तत्काले किमर्थं वा निवेदनम्।
उत्सवो मोक्षदः कस्मात् मण्डपं तादृगुन्नतम्।। 46.14 ।।
श्रोतुमिच्छामि विस्ताराद् भगवन् भक्तवत्सल।
श्री भगवान्-
विस्मृतासि पुरावृत्तं स्मारयामि तव प्रिये।। 46.15 ।।
प्रलयोदे ह्यहं सुप्तो वटपत्रे पुरा रमे।
बालरूपधरो देवि तदा त्वं वक्षसि स्थिता।। 46.16 ।।
मन्नाभिकमलाद् ब्रह्मा मत्संकल्पादजायत।
आननैश्चतुरो वेदानुच्चरन् शास्त्रसंमितान्।। 46.17 ।।
सर्वज्ञस्य जगत्स्रष्टुः स्मयोऽभून्मां च नास्मरत्।
मम कर्णात् समुद्भूतावसुरौ लोककण्टकौ।। 46.18 ।।
ब्रह्माणं हन्तुमारब्धौ सोऽरोदीत् प्राकृतो यथा।
जलेशयं च मां दृष्ट्वा ह्यस्तौषीच्चतुराननः।। 46.19 ।।
ततोऽवबुध्य तौ दृष्ट्वा प्रावोचं दानवोत्तमौ।
वरं वृणीतं मत्तो वां तावब्रूतामनन्तरम्।। 46.20 ।।
वृणीष्व मत्तो देवेश वरं दास्याव दुर्लभम्।
तयोरित्थं वचः श्रुत्वा प्रहस्याहमथाब्रुवम्।। 46.21 ।।
मया हतौ युवां दैत्यौ पुनः प्रकृतिमेष्यतः।
इत्युक्तावसुरौ मां तु मासमावां त्वया सह।। 46.22 ।।
युध्वा त्वत्तो वधं प्राप्य सिद्धिमिष्टामवाप्नुतः।
एवं निश्चित्य तदनु युद्धसंरम्भिणौ मया।। 46.23 ।।
नियुद्धं मासमेकं तु कृत्वा सार्धं सुमध्यमे।
मया हतौ तौ देवत्वं प्राप्तौ चक्राब्जधारिणौ।। 46.24 ।।
मत्स्वरूपमपि ज्ञात्वा नमस्कृत्य कृताञ्जली।
त्वत्स्वरूपं प्राप्तवतो दैत्यारे नावयोः पुनः।। 46.25 ।।
किंच त्वल्लोकवासं च नित्यं स्यात्कमलेक्षण।
इति संप्रार्थितोऽहं हि दैत्यौ तौ मत्स्वरूपिणौ।। 46.26 ।।
चापमासे शुक्लपक्षस्यैकादश्यामिनोदये।
द्वारमुत्तरमुद्धाट्य तन्मार्गात् प्रापयं च तौ।। 46.27 ।।
श्रीवैकुण्ठे सत्यलोकादुपरिष्ठात् स्थिते शुभे।
शुद्धसत्त्वे सूरिगणैर्नित्यैश्चापि निषेविते।। 46.28 ।।
रत्नमण्डपमध्यस्थे रत्नपर्यङ्कशोभिते।
तिष्ठन्तं शेषशयने तत्फणामणिशोभितम्।। 46.29 ।।
सूरिभिः स्तूयमानं मामेकायनऋगादिभिः।
आयुधैः शङ्खचक्राद्यैर्मूर्तिभिः परिसेवितम्।। 46.30 ।।
उपस्थितं प्राञ्जलिना विनतानन्दनेन च।
विष्वक्सेनेन चान्यैश्च पार्षदैः कुमुदादिभिः।। 46.31 ।।
जयादिभिश्च मां दृष्ट्वा विस्मितेनान्तरात्मना।
मत्स्वरूपं परं दृष्ट्वा पुलकाञ्चितविग्रहौ।। 46.32 ।।
स्तुत्वा च विविधैः स्तोत्रैरब्रूतामसुरोत्तमौ।
परमात्मन् परं ब्रह्म परात्पर जगत्पर।। 46.33 ।।
ज्ञानानन्द ज्ञानमूर्ते सर्वज्ञाचिन्त्यविग्रह।
नित्यानन्द निराकार संसारोदधितारक।। 46.34 ।।
सत्यलोकादिलोकस्थास्त्वत्स्वरूपं कदाचन।
न जानन्ति जना लोके संसारवशवर्तिनः।। 46.35 ।।
कोटिकोटिसहस्रेण जन्मना कृपया च ते।
संसारसागरात्पारं प्राप्तौ त्वां शरणं गतौ।। 46.36 ।।
प्रार्थयाव विशालाक्ष प्रार्थनां सफलां कुरु।
त्वया विगृह्य चावां यत्प्राप्तौ स्वः श्रीपते पदम्।। 46.37 ।।
ब्रह्मादयोऽपि त्वल्लोकसदृशं रत्नमन्दिरम्।
कल्पयित्वा त्वदर्चायामेकादश्युत्सवं चरेत्।। 46.38 ।।
तदा पश्यन्ति ये त्वां तु नमस्यन्ति च ये जनाः।
उत्तरद्वारमार्गेण प्रविशन्ति च ये हरे।। 46.39 ।।
ते वैकुण्ठमिमं प्राप्य मोदन्तां नित्यसूरिवत्।
तयोस्तद्वचनं श्रुत्वा भक्तवश्यस्तदाब्रुवम्।। 46.40 ।।
युवयोस्तृप्तये होष उत्सवः कार्यते मया।
तदारभ्याहमादिक्षं सर्वलोकेषु वै रमे।। 46.41 ।।
कृत्वोत्सवं तथाभूतमेकादश्यां विशेषतः।
विशन्ति मोक्षं तस्मात् सो मोक्षोत्सव इतीर्यते।। 46.42 ।।
प्रपाया उन्नतेर्हेतुं वदामि कमलेक्षणे।
उत्सवोऽयं प्रथमतो दैत्याभ्यां प्रार्थितः किल।। 46.43 ।।
मोक्षं चापि प्राप्तवन्तौ तस्मात् सेवामहे वयम्।
इति निश्चित्य दैतेया मोक्षकामाश्च राक्षसाः।। 46.44 ।।
महोन्नताः समागत्य नमस्यन्ति दिने दिने।
तेषां सुखप्रवेशार्थं प्रपा तादृक् समुन्नता।। 46.45 ।।
मार्गशीर्षो देवतानां प्रातःकाल इति स्मृतः।
प्रातःकालो महद्भिस्तु सात्त्विकः समुदाहृतः।। 46.46 ।।
तस्मिन्नभिगमे काले पूजनं सात्त्विकं स्मृतम्।
मुद्गान्नं च गुलान्नं च सात्त्विकं परिचक्षते।। 46.47 ।।
तत्काले सात्त्विकान्नेव वासुदेवं तु तर्पयेत्।
पूर्वोक्तयोरुत्सवयोः पूर्वापरविभेदतः।। 46.48 ।।
प्रातः सायं च कर्तव्यं तद्विधानं शृणु प्रिये।
उत्सवारम्भपूर्वेद्युरङ्कुरानर्पयेद् गुरुः।। 46.49 ।।
प्रातर्नित्यार्चनं कृत्वा प्रार्थयेत् कमलापतिम्।
पीताम्बरधर श्रीमन् कौस्तुभानतकंधर।। 46.50 ।।
मखायाध्ययनायास्मिन् बिम्बे संनिधिमावह।
इति संप्रार्थ्य देवेशं मूलाच्छक्तिं नियोज्य च।। 46.51 ।।
बन्धयेन्मङ्गलं सूत्रं मूलादीनां तथात्मनः।
देवेशं यानमारोप्य नीत्वा धाम प्रदक्षिणम्।। 46.52 ।।
महामण्डपमानीय देवेशं स्वर्णविष्टरे।
देवस्याभिमुखे भक्तबिम्बान् संस्थापयेत् ततः।। 46.53 ।।
देवं संपूज्य भक्ष्यादि विनिवेद्य ततः परम्।
भक्तबिम्बान् पूजयित्वा तेभ्यस्तानि निवेदयेत्।। 46.54 ।।
गाथापाठकभक्तेभ्यो वैष्णवेभ्यश्च दापयेत्।
अपराह्णे वासुदेवमाराध्य विधिवद् गुरुः।। 46.55 ।।
चतुर्विधान्नभक्ष्यादि विनिवेद्य समाहितः।
मुखवाससमोपेतं ताम्बूलं च निवेदयेत्।। 46.56 ।।
अन्नादीन् भक्तबिम्बानां निवेद्य प्राणवल्लभे।
देवेशं यानमारोप्य नृत्तगीतादिभिः सह।। 46.57 ।।
अन्तः प्रवेश्य देवेशं शक्तिमूले नियोजयेत्।
एवं दशदिनं कृत्वा चतुःस्थानस्थितं विभुम्।। 46.58 ।।
मूले नियोजयेद् देवं प्रार्थयेत् प्राञ्जलिः स्थितः।
त्वत्प्रीतये जगन्नाथ मया ह्यध्ययनोत्सवः।। 46.59 ।।
तस्मिन् मोहाच्छास्त्रहीनं तत्क्षमस्व दयानिधे।
अथ मोक्षोत्सवविधिं शृणु क्षीराब्धिसंभवे।। 46.60 ।।
सायाह्नसमये प्राप्ते दशम्याः प्रार्थद्धरिम्।
प्रलयाब्धिजले शायिन् मधुकैटभसेवित।। 46.61 ।।
प्रार्थितं तूत्सवं ताभ्यामुत्सवं कर्तुमारभे।
अनुज्ञां देहि देवेश वैकुण्ठालयभूषण।। 46.62 ।।
इति संप्रार्थ्य देवेशमनुज्ञां प्राप्य देशिकः।
मृत्संग्रहादिकं सर्वमाचरेच्छास्त्रवर्त्मना।। 46.63 ।।
एकादश्यामुषःकाले नित्यपूजां समाप्य च।
मोक्षोत्सवमहं कर्तुं तव दैत्यनिषूदन।। 46.64 ।।
इच्छामि कर्मबिम्बेऽस्मिन्नायाहि जगतीपते।
इति विज्ञाप्य देवेशं बिम्बे कर्मणि देशिकः।। 46.65 ।।
आवाह्यार्घ्यादिनाभ्यर्च्य बिम्बे प्रतिसरं नयेत्।
भद्रपीठं समारोप्य देवं स्तोत्रपुरःसरम्।। 46.66 ।।
उत्तरं द्वारमानाय्य कवाटाभिमुखं गुरुः।
देवस्य श्रमशान्त्यर्थमर्घ्याद्यैः पूजयेद् विभुम्।। 46.67 ।।
स्तुत्वा ऋगादिभिर्देवं कवाटमपि पूजयेत्।
द्वाराद् बहिः सर्ववेदैः सर्ववाद्यैश्च घोषिते।। 46.68 ।।
गाथाभिः स्तुतिभिश्चैव संस्तुते ज्ञानिभिस्तदा।
गुरुः कवाटमुद्धाट्य पथा तेन हरिं नयेत्।। 46.69 ।।
तदा पश्यन्ति ये देवं तेन द्वारेण यान्ति ये।
महापातकिनोऽपि स्युर्मोक्षभाजो भवन्ति ते।। 46.70 ।।
ततो देवं प्रपां नीत्वा महतीं सिंहविष्टरे।
स्थापयित्वार्घ्यपाद्याद्यैरुपचर्य यथाक्रमम्।। 46.71 ।।
एकैकशो भक्तबिम्बानानाय्य च हरेः पुरः।
गन्धमाल्यं च तुलसीं दत्वा भक्तस्य मूर्धनि।। 46.72 ।।
निक्षिप्य पादुकां चैव भूमौ भक्तान्निवेशयेत्।
तैरुक्ताभिर्गाधिकाभिस्तोषयेद् भक्तवत्सलम्।। 46.73 ।।
समाराघ्य ततो देवं पिष्टदीपं प्रदर्शयेत्।
निवेदयेद् भक्ष्यभोज्यं विविधानि फलान्यपि।। 46.74 ।।
ताम्बूलं च निवेद्याथ हरेर्नीराजनं चरेत्।
अन्तर्नीत्वा हरिं मूले नियोज्य प्रार्थद्धरिम्।। 46.75 ।।
मोक्षोत्सवो मया तेऽद्य क्रियते भक्तवत्सल।
आयासस्तव संप्राप्तः क्षन्तुमर्हसि तं हरे।। 46.76 ।।
इति विज्ञाप्य देवेशं शय्यान्तं पूजयेद् गुरुः।
द्वादशीदिनमारभ्य सायाह्ने त्वित्थमाचरेत्।। 46.77 ।।
एवं कृत्वा नवदिनं दशमेऽहनि देशिकः।
तीर्थस्थानमथानाय्य विष्णोरवभृथं चरेत्।। 46.78 ।।
प्रापय्य मण्डपं देवं स्थापयेत् सिंहविष्टरे।
पूर्ववद् भक्तबिम्बानां मर्यादादि समाचरेत्।। 46.79 ।।
वह्निमण्डलकुम्भेभ्यः शक्तिं बिम्बे नियोज्य च।
ततो गर्भगृहं नीत्वा मूले शक्तिं नियोजयेत्।। 46.80 ।।
उत्तरायणकालं तु निश्चित्यावभृथं हरेः।
महोत्सवं यत्र देवि करोति विधिपूर्वकम्।। 46.81 ।।
मार्गशीर्षप्रथमदिनाद्यावद्विंशति वै दिनम्।
पूर्वोक्तोत्सवयुग्मं च कृत्वा तु तदनन्तरम्।। 46.82 ।।
Chapter - 47
+++
+++
।। सप्तचत्वारिंशोऽध्यायः ।।
इन्दिरे विकसत्पद्ममन्दिरे लोकवन्दिते।
ज्ञातमद्य मया पूर्वकल्पवृत्तं तव प्रिये।। 47.1 ।।
वदामि ह्युत्सवं भद्रे प्रणयात् कलहस्तव।
क्षीरोदमध्ये सुमहान् श्वेतद्वीप इतीरितः।। 47.2 ।।
त्रिकूटो नाम तन्मध्ये देवगन्धर्वसेवितः।
तत्समीपे ह्रदः स्वच्छो महामकरसेवितः।। 47.3 ।।
पञ्चाशद्योजनो यामो मत्स्यकच्छमसंवृतः।
राजहंसैर्मल्लिकाक्षैः प्लवैः कारण्डवैर्युतः।। 47.4 ।।
सहस्रपत्रैः कमलैः शतपत्रैश्च पूरितः।
नीलोत्पलैश्च कल्हारैः शोभितो जलपूरितः।। 47.5 ।।
चन्दनैः स्यन्दनौर्नीपैः सालैस्तालैस्तमालकैः।
एवं बहुविधैर्वृक्षैः परितश्चावृतं सहरः।। 47.6 ।।
शैत्यसौरभ्यमानद्यश्च वाति वायुश्च सर्वदा।
एवं स्थितं ह्रदं देवि ग्रीष्मकालाभिपीडितः।। 47.7 ।।
मत्तमातङ्गयूथानां करिणीनां च यूथपः।
घर्मार्तश्चोदकं पातुं तत्सरः प्राविशज्जवात्।। 47.8 ।।
गृहीत्वा सलिलं शीतमपिबत्पुष्करेण सः।
एतस्मिन् समये तस्य ग्राहोऽगृह्णाच्च तत्पदम्।। 47.9 ।।
तस्मान्मोक्तुमशक्तः सन्नुच्चैरित्थमघोषयत्।
यत्कारणं यदाधारं यस्मिन् लीनमिदं जगत्।। 47.10 ।।
तस्मै जगत्कारणाय मूलाय महसे नमः।
इत्याक्रन्दत्ततो देवा नागच्छन् द्रुहिणादयः।। 47.11 ।।
ततो गरुडमारुह्य त्वामनादृत्य वै जवात्।
तत्समीपमुपागम्य नक्रस्य क्रूरकर्मणः।। 47.12 ।।
चक्रेण शिर उत्कृत्य नागराजमरक्षयम्।
मया हतो नक्रवरो गजश्चापि विमोक्षितः।। 47.13 ।।
शापाद्विमुक्तौ देवत्वं प्रापितौ मां प्रणेमतुः।
मत्सालोक्यं तयोर्दत्वा वैकुण्ठं पुनरागतः।। 47.14 ।।
तदा त्वयाहं द्वार्येव प्रतिषिद्धोऽभवं किल।
अवोचं कारणं भद्रे न शृणोषि यदा वचः।। 47.15 ।।
तदा तौ च समागत्य भवत्पादाभिवन्दितौ।
अवोचतां सरोवृत्तं ततो मद्वचनं न्यथाः।। 47.16 ।।
ततस्त्वया नागभोगे वल्लभे शयितास्म्यहम्।
तदुत्सवं वरारोहे ममार्चायां विशेषतः।। 47.17 ।।
कार्यं तस्य प्रकारं च वदामि कमलेक्षणे।
श्रीः-
उत्सवोऽप्येष वै कार्यस्तर्हि त्वं भक्तवत्सल।। 47.18 ।।
यत्र यत्रासते भक्ताः सेवितुं न क्षमा हरे।
प्रवेशस्त्वालये येषां प्रतिषिद्धो जगत्पते।। 47.19 ।।
शास्त्रेण व्याधिभिश्चापि तेषां दर्सनसिद्धये।
आरुह्य शिबिकां देव ह्यर्चारूपेण केशव।। 47.20 ।।
सर्ववीथिस्थितानां च भक्तानामिष्टसिद्धये।
दर्शयात्मानमानन्दं सर्वपापप्रणाशनम्।। 47.21 ।।
संसारग्राहसंदष्टान् गजेन्द्रमिव मोचय।
भगवान्-
तव प्रियार्थं हे लक्ष्मीस्तथा वक्ष्यामि सुव्रते।। 47.22 ।।
आरभ्य मकरान्मासान् मीनमासान्तमब्जजे।
शुक्रवारादि दिवसे प्रणयोत्सवमाचरेत्।। 47.23 ।।
अरुणोदयतः पूर्वं नित्यकर्मादिकांश्चरन्।
अथालयं प्रविश्यान्तर्नित्यपूजां समापयेत्।। 47.24 ।।
भगवन् पुण्डरीकाक्ष भक्तरक्षणदीक्षित।
लक्ष्म्यास्तव प्रियार्थाय प्रणयाद्युवयोर्हरे।। 47.25 ।।
कलहोत्सवमद्याहं कर्तुमिच्छामि माधव।
तदर्थं कौतुके बिम्बे संनिधत्स्व कृपानिधे।। 47.26 ।।
इति विज्ञाप्य लक्ष्मीशं मूलात्कर्मणि कौतुके।
आवाह्यार्घ्यादिनाभ्यर्च्य मुद्गान्नादि निवेदयेत्।। 47.27 ।।
शिबिकायां समारोप्य भ्रामयेत् वीथिषु क्रमात्।
सायाह्नसमये प्राप्ते दूरतस्त्वालयात् क्वचित्।। 47.28 ।।
मण्डपे स्थापयित्वा तं श्रमशान्त्यै ततो हरेः।
दत्वार्घ्यादीनि भक्ष्याणि निवेद्य तदनन्तरम्।। 47.29 ।।
यानमारोप्य गन्धाद्यैरलंकृत्य हरिं प्रभुम्।
वाद्यैर्वीणादिगानैश्च नृत्यैर्बहुभिरन्वितम्।। 47.30 ।।
ताम्बूलचर्वितोष्ठं च गणिकागणसेवितम्।
प्रवेशयेदालयं तु देवी तं प्रतिषेधयेत्।। 47.31 ।।
एवं त्रिचतुरो वारान् प्रतिषिध्य ततो गुरुः।
हे लक्ष्मीर्भगवानद्य भक्तरक्षणकाम्यया।। 47.32 ।।
बहिर्गतो नान्यथा त्वं मन्तुमर्हसि पद्मजे।
इति संप्रार्थ्य देवेन देव्या नीराजनं चरेत्।। 47.33 ।।
रात्रिपूजां ततः कृत्वा शय्यायां तौ निवेशयेत्।
संपूज्य भोगैः शय्याङ्गैः प्रातरूद्बोध्य माधवम्।। 47.34 ।।
मूले शक्तिं नियोज्याथ प्रार्थयेच्च ततो गुरुः।
गजार्तिहर लक्ष्मीश प्रणयोत्सवमद्य ते।। 47.35 ।।
कृतं त्वनादरं किंचित् तत्क्षन्तव्यं दयानिधे।
इति सम्प्रार्थ्य लक्ष्मीशं ततः पूजामुपक्रमेत्।। 47.36 ।।
अवतारा ह्यसंख्येयास्त्वया सह मया कृताः।
तेषां मुख्यानिदानीं ते कथयामि शुचिस्मिते।। 47.37 ।।
तत्तत्काले तदर्चायां पूजयेयुश्च मानवाः।
आराधनानुरूपेण तेषामिष्टं ददाम्यहम्।। 47.38 ।।
चैत्रशुद्धे शुक्लपक्षे नवम्यां सोमवासरे।
पुनर्वसुभ्यां संयुक्ते कुलीरेऽभिजिते तथा।। 47.39 ।।
प्रद्युम्नो रामरूपेण सूर्यवंशेऽजनिष्ट हि।
तस्मिन् काले लक्ष्मणेन शत्रुघ्नेन च सीतया।। 47.40 ।।
भरतेनाञ्जनेयेन राघवं पूजयेद् गुरुः।
तस्मिन् मास्यसिते पक्षे पूर्वप्रोष्ठपदीयुते।। 47.41 ।।
गुरोर्वारे त्रयोदश्यां प्रातर्देवो रमापतिः।
वाराहरूपि भगवान् वासुदेवांशसंभवः।। 47.42 ।।
तस्मिन् काले तु तं देवं धरया सहितं हरिम्।
मुस्ताचूर्णादि भक्ष्यैश्च तोषयेन्नियतो गुरुः।। 47.43 ।।
वैशाखशुक्लपक्षस्य चतुर्दश्यां भृगोर्दिने।
चित्रानक्षत्रयोगे च सायाह्ने नरकेसरिम्।। 47.44 ।।
संकर्षणांशसंभूतं हिरण्याक्षवधोद्यतम्।
लक्ष्म्या सार्धं भक्तवश्यं पूजयेत् सर्वसिद्धये।। 47.45 ।।
तस्मिन् द्वितीये सुक्लस्य कृत्तिकासहिते रमे।
सूर्यस्य वासरे प्रातः प्रद्युम्नांशादजायत।। 47.46 ।।
बलस्तस्मिन् दिने सायं रेवतीसहितं विभुम्।
पूजयेद्धलहस्तं तमपराह्णे गुरुः स्वयम्।। 47.47 ।।
ज्येष्ठशुक्ले कूर्मरूपी द्वादश्यां सुरसत्तमैः।
प्रार्थितो मन्थरोद्धारे भरणार्थिमुदावहन्।। 47.48 ।।
वासुदेवांशसंभूतो ह्यमृतोद्धारणे पुरा।
पूजयेत् तं हरिं भक्त्या भक्तानाममृतप्रदम्।। 47.49 ।।
श्रावण्यामुत्तरे तारे तृतीयायां दिने गुरोः।
कल्की खलानां दहनं पुनः कृतयुगं दधत्।। 47.50 ।।
अनिरुद्धांशजोऽभूत्तं प्रातरेव समर्चयेत्।
तत्पक्षे द्वादशिदिने पूर्वाषाढासमन्विते।। 47.51 ।।
सूर्यवारे प्रातरेव वामनं रूपमास्थितः।
बलेर्निग्रहणार्थाय हरिः संकर्षणात्मजः।। 47.52 ।।
तस्मिन् दिन् प्रभातायां वामनं पूजयेद् बुधः।
सायं त्रैविक्रमं रूपमास्थितं तोषयेद्धरिम्।। 47.53 ।।
मार्गशीर्षस्य मासस्य कृष्णपक्षे तु पुष्यभे।
द्वितीयायां मन्दवारे जामदग्नेः समुद्भवः।। 47.54 ।।
संकर्षणांशजो रामः कुठारं त्वायुधं वहन्।
राजन्यदावदहनस्तं सायाह्नेऽर्चयेद्धरिम्।। 47.55 ।।
पुरा कल्पे प्रथमदिने वेधसो वेदमावहन्।
दुर्जयः सोमको नाम दानवोऽब्धिं प्रविष्टवान्।। 47.56 ।।
तदा वेदान् समुद्धर्तुं तं हन्तुं मत्स्यरूपधृत्।
प्रविश्य सलिलं भद्रे वेधसो हितकाम्यया।। 47.57 ।।
वेदान् गृहीत्वा तं हत्वा पुनस्तानाददां विधेः।
युगादौ पूजयेद् देवं मत्स्यरूपिणमब्जजे।। 47.58 ।।
अतः परं ते कमले षण्णामध्वरसंज्ञिनाम्।
क्रमं तु कथयाम्यद्य वासुदेवस्य वेधसः।। 47.59 ।।
विष्णोराविर्भवर्क्षे च दर्शश्रवणयोस्तथा।
एकादश्यां संक्रमे च षड्विधैश्चोत्सवः स्मृतः।। 47.60 ।।
नोत्सवः श्रवणे यत्र विष्णोरायतने शुभे।
पञ्चपर्वोत्सवं नाम मासि मासि भवेद्रमे।। 47.61 ।।
पुरा नित्यार्चनां कृत्वा प्रार्थनापूर्वकं हरेः।
शक्तिमावाह्य देवेशं भद्रपीठे निधाय च।। 47.62 ।।
पुष्पाभरणमाल्याद्यैरलंकुर्याद्विशेषतः।
अर्घ्यपाद्यादिनाभ्यर्च्य भक्ष्यादीनि निवेद्य च।। 47.63 ।।
यात्रोपकरणैश्छत्रैस्चामरैर्व्यजनादिभिः।
सर्वावादित्रघोषैश्च प्राकारं भ्रामयेद्धरिम्।। 47.64 ।।
देवस्य श्रमशान्त्यर्थं मध्ये मध्ये च मण्डपे।
अर्घ्यादिना तमभ्यर्च्य भक्ष्याणि विविधआनि च।। 47.65 ।।
मुद्गान् शर्करसंमिश्रान् नालिकेरजलं तथा।
निवेद्य मुखवासादि ताम्बूलं च समर्पयेत्।। 47.66 ।।
बलिपीठपुरोभागे मूलार्चाभिमुखं नयेत्।
मण्डपे स्थापयेद्देवमर्घ्यपाद्यादिना यजेत्।। 47.67 ।।
घटदीपं प्रदर्श्याथ भक्ष्याणि विविधानि च।
निवेद्य गर्भं नीत्वा तं मूले शक्तिं नियोजयेत्।। 47.68 ।।
Chapter - 48
+++
+++
।। अष्टचत्वारिंशोऽध्यायः ।।
शृणुष्व कमले मत्तो राजराष्ट्राक्षिवृद्धये।
उत्सवं सर्वलोकानां देवानामिष्टसिद्धिदम्।। 48.1 ।।
परचक्रप्रवेशेऽपि शत्रुभिः पीडिते तु वा।
महामारिकया भूमौ सर्वस्मिन् जननाशने।। 48.2 ।।
महोत्पातादिभिर्लोके पीडिते वा ग्रहादिभिः।
तदा भुवं पूजयित्वा कल्हारोत्सवमाचरेत्।। 48.3 ।।
राजा भूमिमवाप्नोति हन्यन्ते शत्रवस्तथा।
नश्यन्ति व्याधयश्चैव संप्राप्नोत्यधिकं सुखम्।। 48.4 ।।
प्रजा विन्दन्ति नितरां दीर्घमायुः प्रजा भुवि।
तमुत्सवं प्रवक्ष्यामि वृद्धिदं सर्वदेहिनाम्।। 48.5 ।।
ऋतुराजे वसन्ते वा तथा शरदि वा रमे।
ज्येष्ठे वा श्रवणे मासे पुष्ये वा फाल्गुनेऽपि वा।। 48.6 ।।
पूर्वपक्षे च पञ्चम्यां द्वादश्यां पूर्वयोरपि।
रोहिणीश्रवणाश्विन्योरुत्तरत्रितयेऽपि च।। 48.7 ।।
यजमानानुकूलेषु तिथितारेषु वा बुधः।
प्रार्थितो यजमानेन कुर्याद्देशिकसत्तमः।। 48.8 ।।
कल्हारैर्भगवद्यागं देशोपद्रवशान्तये।
हस्तमानं मृदं खात्वा नगरे सर्ववीथिषु।। 48.9 ।।
खातमृत्सां बहिर्नीत्वा तेषु सैकतमृत्स्नया।
संपूर्य च समीकृत्य कुशाद्भिः प्लावयेत्ततः।। 48.10 ।।
सुधाभिर्लेपयेद्ग्रामवेश्मनां भित्तिषु क्रमात्।
तोरणैः केतुमालाभिः पताकाभिरलंक्रियात्।। 48.11 ।।
चन्दनागरुकस्तूरिनिर्यासप्रवरैस्तथा।
धूपयेत् सर्वतो धूपैर्वासयेत् सर्ववीथिकाः।। 48.12 ।।
उत्सवोपक्रमात्पूर्वं नवमे सप्तमेऽह्नि वा।
तृतीयेऽहनि सद्यो वा मङ्गलाङ्कुरसिद्धये।। 48.13 ।।
देशिको नित्यपूजादीन् कृत्वा संप्रार्थयेद्धरिम्।
महीपते जगन्नाथ कल्हारकुसुमोत्सवम्।। 48.14 ।।
करोमि तव देवेश तदनुज्ञातुमर्हसि।
इति विज्ञाप्य दैत्यारिं मृत्संग्रहणमाचरेत्।। 48.15 ।।
समाप्य सकलं कर्म सर्वमङ्गलसंयुतम्।
देवस्योपवनं गत्वा कल्हारसरसस्तटे।। 48.16 ।।
पश्चिमेऽष्टस्तम्भयुतां चतुःस्तम्भामथापि वा।
प्रपां कृत्वा तस्य मध्ये कल्पयेद्वेदिमुन्नताम्।। 48.17 ।।
गोमयालेपनं कृत्वा सूधाचूर्णैर्विचित्रयेत्।
पुण्याहवारिणा प्रोक्ष्य तस्मिन् पीठं प्रकल्पयेत्।। 48.18 ।।
शालीनां पञ्चभारेण तण्डुलानां तदर्धतः।
तदर्धतिलभारेण क्रमेणोपरि विन्यसेत्।। 48.19 ।।
विलिख्य पद्मं तन्मध्ये कुम्भं गन्धाम्बुपूरितम्।
कुम्भाष्टकं च परितः स्थापयेत् करकं तथा।। 48.20 ।।
द्वारपूजां पुरा कृत्वा कुण्डे वैश्वानरं यजेत्।
म्यकुम्भे महीं देवीं करके च सुदर्शनम्।। 48.21 ।।
उपकुम्भेष्वष्टशक्तिं मन्त्रैरावाह्य पूजयेत्।
पायसान्नं निवेद्याथ कुमुदादिबलिं क्षिपेत्।। 48.22 ।।
शङ्खकाहलतूर्यादिनृत्तगीतपुरस्कृतः।
भूमिर्भूम्नेति मन्त्रेण वैष्णवैः सह देशिकः।। 48.23 ।।
वापिकाया नूतनानि कल्हारकुसुमानि तु।
गृहीत्वा पात्रनिचये सौवर्णे निक्षिपेद्रमे।। 48.24 ।।
कुम्भस्य पुरतो भूमौ कल्हारसुमभाजनम्।
स्थापयेद् दहनादीनि कृत्वा देशिकसत्तमः।। 48.25 ।।
प्रार्थयेच्च ततो देवी वसुधां वसुदायिनीम्।
देवि त्वद्धस्तकल्हार कुसुमैरर्चयेद् विभुम्।। 48.26 ।।
राज्यस्य दोषशान्त्यर्थं प्रीतये तव मेदिनि।
इति संप्रार्थ्य तद्धस्तात् कुम्भस्थां देशिकोत्तमः।। 48.27 ।।
विनिर्गतानि पुष्पाणि ध्यात्वा दिव्यानि भावयेत्।
मूलबेरस्य कुसुमैः कुर्यात् पञ्चशतैः स्रजम्।। 48.28 ।।
अष्टोत्तरशतैः पुष्पैः कर्मबिम्बस्य वै रमे।
तदर्धेन स्रजं कुर्यात् श्रीभूम्योः स्रजमुत्तमम्।। 48.29 ।।
मखार्चाप्रभृतीनां तु पञ्चविंशतिभिः स्रजम्।
कुण्डमण्डलकुम्भानां पञ्चाशद्भिः प्रकल्पयेत्।। 48.30 ।।
कारयेद् विविधा मालास्तत्तद्बिम्बानुसारतः।
स्वर्णपात्रे विनिक्षिप्य परिचारकमूर्धनि।। 48.31 ।।
निधाय तूर्यघोषेण कुर्याद् ग्रामप्रदक्षिणम्।
ततो मण्डपमानीय कुम्भस्य पुरतो भुवि।। 48.32 ।।
स्थापयित्वा ततो देवीं शक्तीश्चापि विसर्जयेत्।
द्वारतोरणकुम्भस्थानुत्सृज्य गुरुसत्तमः।। 48.33 ।।
आनयेत्पूर्ववद्वाद्यैर्वेदघोषैश्च मन्दिरम्।
मूलबेरस्य पुरतः स्थापयेत् पुष्पभाजनम्।। 48.34 ।।
समभ्यर्च्यारविन्दाक्षं प्रार्थयेदच्युतं रमे।
कल्हारोत्सवपूर्त्यर्थं भूपते भक्तवत्सल।। 48.35 ।।
आयाहि कर्मबिम्बेऽस्मिन्नुत्सवं पूरयाद्य भो।
इति विज्ञाप्य देवेशं कौतुकं बन्धयेत् क्रमात्।। 48.36 ।।
पुण्याहवारिणा प्रोक्ष्य मालासु श्रियमर्चयेत्।
पीताम्बर जगत्स्वामिन् वनमालादिभूषण।। 48.37 ।।
अहं कल्हारमालाभिस्त्वामलंकर्तुमर्थये।
भक्तस्य प्रार्थनां देव स्वीकुरु त्वं जगद्गुरो।। 48.38 ।।
इति संप्रार्थ्य कल्हारमालाभिः पुरुषोत्तमम्।
मूलबेरमलंकुर्यात् कर्मार्चादीन्यपि क्रमात्।। 48.39 ।।
चतुःस्थानार्चनं कृत्वा कल्हारकुसुमैर्बुधः।
यानमारोप्य देवेशं उद्याने कल्पिते पुरा।। 48.40 ।।
संस्थाप्य मण्डपे देवं कल्हारकुसुमैर्युते।
आराध्य पायसान्नादि भक्ष्याणि च निवेदयेत्।। 48.41 ।।
आचार्यभागं गृह्णीयाद् भक्तेभ्योऽपि च दापयेत्।
पीठे देवं समारोप्य वीथीभ्रमणमाचरेत्।। 48.42 ।।
गर्भगेहं ततो नीत्वा मूले शक्तिं नियोजयेत्।
एवं स्पतदिनं वापि पञ्च वा त्रिदिनं तु वा।। 48.43 ।।
यथावदुत्सवं कृत्वा कुर्यादवभृथं गुरुः।
कुम्भमण्डलवह्निस्थां शक्तिं मूले नियोजयेत्।। 48.44 ।।
रक्षाबन्धं विसृज्याथ ह्युद्यानस्थप्रपास्थिताम्।
भुवमुद्वासयेद्विद्वान् देवं विज्ञापयेत् ततः।। 48.45 ।।
यो मयानुष्ठितो देव कल्हारोत्सवसंज्ञिकः।
तत्र प्रमादात् स्खलितं तत्सर्वं क्षन्तुमर्हसि।। 48.46 ।।
इति विज्ञाप्य देवेशं रात्रिपूजां समाचरेत्।
[श्रूयतां देवि वक्ष्यामि वीरलक्ष्म्युत्सवं परम्]।। 48.47 ।।
कन्यामासि सिते पक्षे ह्यष्टमी कलयापि च।
अविद्धायां नवम्यां तु वीरलक्ष्म्युत्सवं चरेत्।। 48.48 ।।
तद्वासरानुसारेण नवरात्रं प्रकल्पयेत्।
अङ्कुरार्पणकर्मादीन् पूर्ववत्कारयेद् गुरुः।। 48.49 ।।
प्रत्यहं कालयोः कुर्याच्चतुःस्थानार्चनादिकम्।
सायाह्ने समनुप्राप्ते सौवर्णशिबिकादिके।। 48.50 ।।
श्रियं देवीं समारोप्य ह्यलंकृत्य विशेषतः।
सर्वैर्यात्रोपकरणैर्नयेद्धाम प्रदक्षिणम्।। 48.51 ।।
एवं कृत्वोत्सवं पश्चाद् देवीमास्थानमण्डपे।
नालिकेरैश्च पूगादिफलैर्नानाविधैरपि।। 48.52 ।।
वितानैर्दीपमालाभिः प्रतिमाभिः सुशोभिते।
हेमपीठे समारोप्य ह्यलंकारासनोदितैः।। 48.53 ।।
भोगैः क्रमेण संपूज्य प्रार्थयेद् भोज्यविष्टरे।
चतुर्विधान्नं भक्ष्याणि पृथुकं च निवेदयेत्।। 48.54 ।।
ततो नीराज्य कर्पूरैस्ताम्बुलादिं समर्प्य च।
निवेदितान्नवस्तूनि गुर्वादिभ्यः प्रदापयेत्।। 48.55 ।।
एवं कृत्वोत्सवं देवीं प्रासादान्तः प्रवेशयेत्।
एवं नवतमीः कृत्वा तद्रात्रो देशिकोत्तमः।। 48.56 ।।
कुम्भतोयेन संप्रोक्ष्य गुडान्नादिं निवेदयेत्।
सायाह्नव्यापिनी या स्याद् दशमी विजयाभिधा।। 48.57 ।।
नवमीशेषयुक्तापि सा ग्राह्या वैष्णवोत्तमैः।
ईषत्संध्यामतिक्रान्तः किंचिदुद्भिन्नतारकः।। 48.58 ।।
विजयो नाम कालोऽयं सर्वकर्मार्थसिद्धिदः।
तस्मात् सायाह्नसंयुक्तदशमी क्षेमदा नृणाम्।। 48.59 ।।
तत्काले तु मया प्रोक्तस्तुरगारोहणोत्सवः।
वीरलक्ष्म्युत्सवे प्राप्ते तद्दिने देशिकोत्तमः।। 48.60 ।।
श्रियोत्सवादिकं कुर्यात् प्रातरेव जगद्धिते।
त्रिदिनं बिम्बमात्रं वा वसन्ताद्युत्सवं चरेत्।। 48.61 ।।
उत्सवान्ते श्रिया देवं पूजयेदेकविष्टरे।
शुक्रवारे तु देव्यास्तु मासि मास्युत्सवं चरेत्।। 48.62 ।।
एवं बहुविधा देवि ह्युत्सवाः सन्नि भामिनि।
प्राधान्यतोऽहमवदमेतेष्वन्यतमं तु यः।। 48.63 ।।
करोति भक्त्या तस्याहं प्रसन्नः संपदायुषम्।
पुत्रपौत्रादिवृद्धिं च ज्ञानं चापि महत्तरम्।
ददामि चान्ते मल्लोकं वैकुण्ठपदमाप्नुयात्।। 48.64 ।।
Chapter - 49
+++
+++
।। एकोनपञ्चाशोऽध्यायः ।।
श्रीः-
भगवन् सर्वलोकेश सर्वज्ञ वदतांवर।
पूर्वोक्तकर्षणाद्येषु ह्युत्सवान्तेषु कर्मसु।। 49.1 ।।
धाम्नः कदाचिद् बिम्बस्य वैकल्ये भेदनेऽपि वा।
पूजायाश्चापि लोपे वा स्पृष्टे वा पूजकेतरैः।। 49.2 ।।
आचार्यगुणहीनेन पूजिते वालयादिषु।
चण्डालादिप्रवेशे वा प्रतिष्ठादिषु कर्मसु।। 49.3 ।।
कर्तव्यं न कृतं चेद्वा ह्यन्यथा वा कृतं भवेत्।
प्रायश्चित्तं भवेत् किंचिदस्ति चेत्तद्वदस्व मे।। 49.4 ।।
श्रीभगवान्-
शास्त्रोक्तविधिना सर्वं कर्तव्यं कर्षणादिकम्।
न्यूनं वा विपरीतं वा शास्त्रीयस्य भवेद्यदि।। 49.5 ।।
तत्तत्कार्यानुरोधेन प्रायश्चित्तं भवेत् किल।
देवालयस्य निर्माणे प्रथमं वरयेद् गुरुम्।। 49.6 ।।
मदुक्तगोत्रसंभूतं पारंपर्येण दीक्षितम्।
तथाविधेन गुरुणा चक्राब्जेऽप्यभिषेचितम्।। 49.7 ।।
पाञ्चरात्रार्थतत्त्वज्ञं वृद्धं भक्तं हरेः प्रियम्।
यजमानः प्रार्थयीत स तु कृष्यादिकं चरेत्।। 49.8 ।।
तथाविधेन गुरुणा कृष्यादि न कृतं यदि।
अन्येन वा कृतमपि शिलासंग्रहणादिकम्।। 49.9 ।।
तथाधारशिलान्यासो मूर्धेष्टशिला अपि।
मन्त्रहीनेन विन्यासो गर्भविन्यासमेव च।। 49.10 ।।
प्रतिष्ठासमये पूर्वं मयोक्तं दीक्षितं गुरुम्।
वरयित्वा तु तेनैव तत्तत्कालोचितानि च।। 49.11 ।।
यथाक्रमं तु कृत्वैव प्रतिष्ठामारभेत् ततः।
कृष्यादिकार्याभावेऽपि मन्त्रैर्होमैश्च ताः क्रियाः।। 49.12 ।।
कृत्वोत्तरं प्रतिष्ठां वै प्रारभेत विचक्षणः।
अन्यथा यजमानस्य बिम्बस्य त्वालयस्य च।। 49.13 ।।
राज्ञो राष्ट्रस्य नाशः स्यात् तस्मात् कुर्याद्यथाविधि।
पिण्डिकायां मूलबिम्बं रत्नन्यासादिपूर्वकम्।। 49.14 ।।
स्थापयेन्मन्त्रसहितं यथाशक्ति यथाविधि।
अन्यथा देवसांनिध्यं न भवेत् कमलेक्षणे।। 49.15 ।।
कथंचिदपि विन्यस्य मूलमन्त्रायुतं जपेत्।
प्रतिष्ठादिषु कार्येषु प्रपा वा मण्डपं तु वा।। 49.16 ।।
प्रमाणादधिका वेदिन्यूना वा तोरणानि च।
ध्वजा वा पालिकाद्याश्च घटाः करकमेव च।। 49.17 ।।
कुण्डानि स्रुक्स्रुवौ वापि समिधश्च तथा रमे।
पूर्वोक्तानां दोषशान्त्यै शान्तिहोमं समाचरेत्।। 49.18 ।।
अष्टोत्तरसहस्रं च मनुमष्टाक्षरं जपेत्।
अन्यकार्यनियुक्तास्तु घटाद्या ये च मृन्मयाः।। 49.19 ।।
कुण्डानि स्रुक्स्रुवा चापि दर्भाः परिधयस्तथा।
देवचिह्नितवस्त्राणि ध्वजानि द्वारतोरणान्।। 49.20 ।।
द्रव्याणि हुतशेषाणि दारुपात्राणि वै रमे।
प्रतिष्ठादिषु कार्येषु नोपयुञ्ज्यात् कदाचन।। 49.21 ।।
यदि मोहेन गृह्णीयात् तत्कर्म पुनराचरेत्।
शान्तिहोमं च कुर्वीत ब्राह्मणानपि भोजयेत्।। 49.22 ।।
अङ्कुरानर्पयेत् पूर्वं मृत्संग्रहणपूर्वकम्।
अकृतं चेत् कृतं वापि भक्षितं मूषिकादिभिः।। 49.23 ।।
भवेद्वा रक्तवर्णं तु नोत्पद्येताथवा रमे।
व्यत्यासेन स्थापिता वा शरावघटपालिकाः।। 49.24 ।।
स्वस्थानात्पतिता वापि भिन्ना वा मन्त्रसंस्कृताः।
मन्त्रसंस्कारहीना वा होमाद्या न कृता यदि।। 49.25 ।।
[रक्तादिदोषसंयुक्ता मन्त्रहीनाश्च वै यदि।]
पात्राणि शोधयित्वा तु पुनरङ्कुरमर्पयेत्।। 49.26 ।।
स्थानाद् भ्रष्टानि पात्राणि परित्यज्य च तत्स्थले।
स्थापयित्वा पुनस्तानि तेषु बीजानि वापयेत्।। 49.27 ।।
अयुतं मूलमन्त्रं च कुर्याच्छान्तिं च देशिकः।
प्रतिष्ठादिषु कार्येषु स्तापितेषु घटेष्वपि।। 49.28 ।।
भिन्नो वा पतितो वापि छिद्रितो वापि भार्गवि।
स्पृष्टो वाऽस्पृश्यमनुजैर्देवं तस्मात्तु मण्डले।। 49.29 ।।
समावाह्य घटं त्वन्यं लक्षणेन समन्वितम्।
तस्मिंस्थाने तु संस्थाप्य मण्डलाद् देवतां रमे।। 49.30 ।।
आवाह्य पूर्ववत् पूजां कुर्याद् देशिकसत्तमः।
वम्रीभिर्दूषितो वापि स्पृष्टो वा पतितादिभिः।। 49.31 ।।
घटे देवं समावाह्य वेदिं संशोध्य शिल्पिभिः।
संस्तीर्य तण्डुलांस्तस्मिन्नानावर्णांस्तु शास्त्रवित्।। 49.32 ।।
चक्राब्जं विलिखेत् पूर्वं प्रोक्षयेत् पुण्यवारिणा।
कुम्भाद् देवं समावाह्य पूर्ववत् पूजयेद् गुरुः।। 49.33 ।।
द्वादशार्णायुतं जप्त्वा शान्तिहोमं च कारयेत्।
प्रपां वेदींश्च कुण्डानि तोरणानि ध्वजांस्तथा।। 49.34 ।।
कृत्वैवोपक्रमेत् कर्म ह्यङ्गान्येतानि देशिकः।
अकृत्वोपक्रमेत्कर्म तत्सर्वं निष्फलं भवेत्।। 49.35 ।।
तत्तत्कृत्वा पुनः कर्म प्रारभेत विचक्षणः।
कुम्भानामवकाशेषु विन्यसेदष्टमङ्गलान्।। 49.36 ।।
घटेषु प्रतिमाश्चैव निक्षिपेन्मन्त्रपूर्वकम्।
अकृत्वा यदि कुर्वीत पूर्वोक्तविधिनाचरेत्।। 49.37 ।।
अनिर्वाणस्य दीपस्य निर्वाणे दीपयेत् पुनः।
नेत्रमन्त्रायुतैर्हुत्वा शान्तिहोमं समाचरेत्।। 49.38 ।।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते।
अस्पृश्यैश्च तथा स्पृष्टे महिष्याज्यादिभिर्हुते।। 49.39 ।।
अग्निप्रतिष्ठां कर्मादौ मोहादविधिना कृते।
पुनरग्निं प्रतिष्ठाप्य शास्त्रदृष्टेन वर्त्मना।। 49.40 ।।
मूलमन्त्रसहस्रेण जुहुयात् सर्पिषाहुतीः।
शान्तिहोमं ततः कुर्यात् शतं ब्राह्मणभोजनम्।। 49.41 ।।
असमिद्धे हुतेऽग्नौ तु पुनर्होमं समाचरेत्।
नैमित्तिकेषु काम्येषु प्रायश्चित्तादिकर्मसु।। 49.42 ।।
तदङ्गहोममन्यस्मिन् कुण्डे वा स्थण्डिलेऽपि वा।
कुर्याद्वा लौकिकाग्नौ तु वास्त्वीशक्षेत्रपालयोः।। 49.43 ।।
मुख्याग्नौ यदि कुर्वीत पुनरग्निं प्रकल्पयेत्।
समित्परिधिदर्भाणां कूर्चानां हविषामपि।। 49.44 ।।
आज्यस्थाल्यादिपात्राणां तथा स्रुक्स्रुवयोरपि।
तिलाज्यादिपदार्थानामेकवस्तु विलोपने।। 49.45 ।।
हुतं निरर्थकं सर्वं तस्मात् तानि तु संभ्रियात्।
सर्वथा होमकार्येषु तिलमाज्यं न लोपयेत्।। 49.46 ।।
ताभ्यां वियुक्तहोमस्य प्रायश्चित्तं न विद्यते।
प्रतिष्ठादिषु कार्येषु वर्तमानेषु वै रमे।। 49.47 ।।
अकस्मात् पञ्चमो वापि पतितः पातकी तु वा।
कुष्ठी वाप्यङ्गहीनो वा प्रेताशौचविगर्हितः।। 49.48 ।।
रजस्वला वा प्रविशेच्छालां देशिकसत्तमः।
सर्ववस्तूनि संत्यज्य घटादीनि यथापुरम्।। 49.49 ।।
पर्यग्निकरणं कृत्वा गोमयेनानुलिप्य च।
पुण्याहवारिणा प्रोक्ष्य घटादीन् स्थापयेत् पुनः।। 49.50 ।।
यथाक्रमं पुनः कुर्यादादितः सर्वकर्मकम्।
शालामग्निर्यदि दहेत् पुनः कृत्वा तु मण्डपम्।। 49.51 ।।
शान्तिहोमं च कुर्वीत कुर्यात् कर्म च पूर्ववत्।
सहस्रं ब्राह्मणान् देवि भोजयेत् प्रभुसत्तमः।। 49.52 ।।
अयुतं द्वादशार्णेन नृसूक्तेन च षोडश।
अग्निप्रतिष्ठा पूर्वं स्यात् तेन शान्तिर्भविष्यति।। 49.53 ।।
वास्त्वीशस्य क्षेत्रपस्य पूजां होमं च कल्पयेत्।
न कुर्याद्यदि मोहेन तत्कर्म विफलं भवेत्।। 49.54 ।।
प्रतिष्ठाङ्गं जले वासो नयनोन्मीलनं तथा।
शयनं चाभिषेकं च मन्त्रन्यसनमेव च।। 49.55 ।।
तत्तवसंहारहोमं च षडंगन्यासपूर्वकम्।
द्वारपूजा कुम्भपूजा ध्वजपूजा च नित्यशः।। 49.56 ।।
चक्राब्जपूजनं चैव कालयोर्होम एव च।
बीजावापं कुम्भपूजा वेदपारायाणं तथा।। 49.57 ।।
एतेष्वन्यतमाभावे सर्वं कर्म निरर्थकम्।
तानि कर्माणि कृत्वैव पुनः स्थापनमाचरेत्।। 49.58 ।।
अदीक्षितैर्ब्राह्मणाद्यैः स्पृष्टश्च प्रतिलोमजैः।
आशोचवद्भिः पतितैः कुष्ठ्यपस्माररोगिभिः।। 49.59 ।।
श्वगर्दभादिभिः स्पष्टो नित्यकर्मपराङ्मुखैः।
तुलुष्कपञ्चमाद्यैश्च संलाप्योदक्यया सह।। 49.60 ।।
रुधिरार्द्रः स्विन्नगात्रस्तथा कोपसमन्वितः।
परदाररतश्चापि परद्रव्यापहारकः।। 49.61 ।।
मूको वा बधिरो वापि पङ्गुर्वा मन्त्रवर्जितः।
संध्यादिकर्महीनश्च परनिन्दापरः सदा।। 49.62 ।।
दुःखितो वार्चकः पूजामकरोद्यदि वै हरेः।
तद्दोषशान्तये देवं पञ्चविंशतिभिर्घटैः।। 49.63 ।।
अभिषिच्य तथा शान्तिमूर्लमन्त्रसहस्रकैः।
हुत्वा संपातमानीय देवस्य शिरसि न्यसेत्।। 49.64 ।।
ततः पूजां प्रकुर्वीत देशिकेन्द्रो यथाक्रमम्।
अवगाहस्नानपूर्वं पादशौचमथाचमम्।। 49.65 ।।
प्रोक्षणं पुण्यसलिलैर्मन्त्रन्यसनमेव च।
भूतशुद्धिं च हृद्यागं पीठकल्पनमेव च।। 49.66 ।।
निर्माल्यादिविसर्गं च स्थानशुद्धिं भृगोः सुते।
बिम्बशुद्धिं ततो देवं पूजयेच्च यथाक्रमम्।। 49.67 ।।
एतेष्वन्यतमं वापि विना पूजा भवेद्यदि।
सा पूजा निष्फलं ज्ञेया कृत्वा तत्तद्यथाविधि।। 49.68 ।।
पुनः पुजां प्रकुर्वीत तद्दोषस्योपशान्तये।
द्वादशार्णजपं कुर्यादष्टोत्तरसहस्रकम्।। 49.69 ।।
अर्घ्यादीनां च पात्रेषु शास्त्रोक्तद्रव्यसंचयम्।
निक्षिप्यैव हरेः पूजा कर्तव्या तुलसीं तु वा।। 49.70 ।।
तदभावे तु सा पूजा निष्फला तत्प्रतिक्रिया।
मूलमन्त्रशतं जप्त्वा पुनर्द्रव्यान्वितैर्जलैः।। 49.71 ।।
पूजयेदर्घ्यदानाद्यैः क्षीरसागरसंभवे।
अकस्मात् दीपनिर्वाणे पूजामध्ये गुरूत्तमः।। 49.72 ।।
तद्दीपं पुनरुद्दीप्य नेत्रमन्त्रशतं जपेत्।
प्राण्यङ्गसंभवैस्तैलैरजोष्ट्रादिघृतैरपि।। 49.73 ।।
तथा मधूकहेरण्डपुंनागफलसंभवैः।
तैलेर्नरानुभूतैश्च वस्त्रखण्डैश्च वर्तिभिः।। 49.74 ।।
दीपयित्वा गुरुः पूजां करोति यदि वै रमे।
देवस्य संनिधिर्न स्यात् तद्दोषस्य प्रशान्तये।। 49.75 ।।
संशोध्य दीपपात्राणि गोघृतैर्दीपयेत् पुनः।
पञ्चविंशतिभिर्देवं कलशैः स्नापयेत् पुरा।। 49.76 ।।
शान्तिहोमं च कृत्वैव पुनः पूजां समारभेत्।
धूपादिषूपचारेष्वेकस्मिन्नकृते सति।। 49.77 ।।
तद्दोषशान्तये देवि नेत्रमष्टोत्तरं जपेत्।
पुनस्तत्कर्म कुर्वीत भगवत्प्रीतयेऽर्चकः।। 49.78 ।।
अन्तःपूजनकाले तु पिदध्याच्च कवाटकम्।
बाह्यमण्डपपूजायां महाजनसमीपतः।। 49.79 ।।
अनाच्छाद्यैव देवस्य पूजां कुर्याद् विचक्षणः।
अन्यत्राच्छादनं नित्यमन्नाद्यादिनिवेदने।। 49.80 ।।
वाहनादिष्वलंकारे नो चेद् दोषो महान् भवेत्।
देवालयान्तर्देवस्य ह्यभिषेको महान् भवेत्।। 49.81 ।।
आलयस्य बहिस्थाने न कुर्यादभिषेचनम्।
व्यत्यासं यदि कुर्वीत जपेन्मूलायुतं गुरुः।। 49.82 ।।
धूपपात्रं दीपपात्रमर्घ्यादीनां च भाजनम्।
नीराजनार्थपात्रं च छत्रं घण्टा च चामरे।। 49.83 ।।
पताकादिश्च निपतेन्मूलमन्त्रशतं जपेत्।
एतेषु यस्य कस्यापि संभेदो जायते यदि।। 49.84 ।।
पुनः संधाय तत्तच्च पञ्चगव्येन शोधयेत्।
प्रतिष्ठाकालमारभ्य पूजाकाले तु यत्कृतम्।। 49.85 ।।
घण्टाघोषो वेदपाठस्तथा तौर्यत्रिकादिकम्।
पूजाकाले प्रतिदिनं कुर्यात् तत्तज्जलोद्भवे।। 49.86 ।।
यदि घण्टादिघोषेण हीनं चेत् पूजनं हरेः।
तद्दोषस्य प्रशान्त्यर्थं द्वादशार्णायुतं जपेत्।। 49.87 ।।
पुनस्तैः पूजनं कुर्याद् देवस्य प्रीतये गुरुः।
कलृप्तवस्त्वाद्यभावेन कालमेकं द्वयं तु वा।। 49.88 ।।
कालत्रितयमेव स्यात् पूजनं कमले यदि।
पूर्वोक्तकालद्रव्याद्यैस्तत्तत्कालादनन्तरम्।। 49.89 ।।
पूजयेद् दोषशान्त्यर्थं शान्तिहोमं समाचरेत्।
एवमेकाहहीने तु नवभिः कलशैर्हरिम्।। 49.90 ।।
संस्नाप्य शान्तिहोमं च कारयेत् तद्दिनोचितैः।
द्रव्यैर्द्विगुणितैर्देवं पूजयेद्धरिमव्ययम्।। 49.91 ।।
आरभ्य द्विदिनं यावत् पक्षान्तं न कृतं यदि।
एकाशीतिघटैर्देवं स्नापयेतच्छान्तिहोमवत्।। 49.92 ।।
कृत्वा द्विगुणतैर्द्रव्यैः पूजयेच्च यथाक्रमम्।
तावद्वासरसंख्यायाः ब्राह्मणानपि भोजयेत्।। 49.93 ।।
मासैकस्मिन्नतिक्रान्ते पूजाहीनेन वै रमे।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।। 49.94 ।।
शान्तिहोमं द्विजातीनां सहस्रस्यापि भोजनम्।
कृत्वा द्विगुणितैर्द्रव्यैः पूजयेच्च यथाक्रमम्।। 49.95 ।।
पूजाहीने वत्सरे तु संप्रोक्षणमतश्चरेत्।
त्रिवर्षान्तं मानुषस्य पूजनं न कृतं यदि।। 49.96 ।।
प्रतिष्ठाप्य यथाशास्त्रं पूजयेद् देशिकोत्तमः।
स्वयंव्यक्तेषु दिव्येषु पूजालोपो न दूषणम्।। 49.97 ।।
यथा वैकुण्ठलोकेऽहं स्वयंव्यक्ते तथैव च।
अत्र मां पूजकः को नु नित्यं पूजयति प्रिये।। 49.98 ।।
तथैव तत्र सांनिध्यात् पूजालोपो न दोषकृत्।
दिव्येष्वपि च पूर्वं हि देवैरेव प्रतिष्ठितः।। 49.99 ।।
तदारभ्य च देवाश्च क्रमेणागत्य नित्यशः।
मानुषाणामदृश्यास्ते पूजयन्ति रमापतिम्।। 49.100 ।।
अतस्तेषां च बिम्बानां पूजालोपो न विद्यते।
तथापि मानुषे लोके स्वयंव्यक्तादिषु प्रिये।। 49.101 ।।
परस्परविरोधेन ह्यलक्ष्येण च कोपतः।
न कुर्याद्यदि पूजां तु पाञ्चरात्रार्थतत्तववित्।। 49.102 ।।
अज्ञानां मानवानां तु मनस्तोषणहेतवे।
सहस्राराधानं कुर्यादष्टोत्तरशतैर्घटैः।। 49.103 ।।
अभिषेकं पुरा कृत्वा ततः शान्तिं समाप्य च।
पीठार्चनं तु कृत्वैव देवमावाहयेद् रमे।। 49.104 ।।
अकृत्वा पीठयजनं देवमावाहयेद्यदि।
सा पूजा निष्फला ज्ञेया देवतासंनिधिर्न च।। 49.105 ।।
द्वादशार्णसहस्रं तु दोषस्यास्य प्रशान्तये।
जपित्वा च यथाशास्त्रं पीठपूजां च कल्पयेत्।। 49.106 ।।
अकृत्वावाहनं पूजा कर्मार्चादिषु या पूजा।
सा पूजा निष्फला ज्ञेया पुनरावाह्य पूजयेत्।। 49.107 ।।
लयायागं भोगयागं क्रियाहीनमथापि वा।
मन्त्रमुद्राविहीनं च विपर्यासेन वा कृतम्।। 49.108 ।।
एषां दोषविनिर्मुक्त्यै जपेन्मूलसहस्रकम्।
पुनस्तानि प्रकुर्वीत यथाशास्त्रं विचक्षणः।। 49.109 ।।
द्वारस्थितानां देवानां तथावरणवासिनाम्।
पूजादीने पुरा तेषां तत्तन्मन्त्रशतं जपम्।। 49.110 ।।
कृत्वा तु मन्त्रवत्पूजां कुर्यादर्चकसत्तमः।
व्यत्यासात्पूजने वापि पूर्वोक्तं तु समाचरेत्।। 49.111 ।।
नीराजनान्तिमं पूर्वं मूलबिम्बं समर्चयेत्।
ततः कर्मादिबिम्बानां मन्त्रवत्क्रमशे भवेत्।। 49.112 ।।
अनर्च्य मूलबिम्बं वा समकालेन वा रमे।
व्यत्यासेन च वा कुर्यात् पूजनं गुरुसत्तमः।। 49.113 ।।
तद्दोषशान्तये देवि जपेन्मूलसहस्रकम्।
पुनः पूजां प्रकुर्वीत मूलार्चादेषु मन्त्रवत्।। 49.114 ।।
अलंकारासनान्ते तु कुर्यान्नीराजनं हरेः।
न कुर्याद्यदि मोहेन मूलमन्त्रशतं जपेत्।। 49.115 ।।
ततो यथावत्कुर्वीत नीराजनविधिं गुरुः।
अदीक्षितैरुदक्यादिदृष्टं वा प्रतिलोमजैः।। 49.116 ।।
पतितैः श्वसृगालाद्यैर्दृष्टं वा मूषिकादिभिः।
आघ्रातं मक्षिकाभिश्च सेवितं च पिपीलिकैः।। 49.117 ।।
क्रिमिकैशनखैः स्पृष्टं भिन्नभाण्डस्थितं तु वा।
अत्युष्णमतिशीतं वा व्यञ्जनैश्च विवर्जितम्।। 49.118 ।।
अमन्त्रसंस्कृतं वा स्यादन्यमुद्दिश्य वा कृतम्।
तुषपाषाणशकलैः संयुतं नावधारितम्।। 49.119 ।।
गुडान्नेन विहीनं न हरये विनिवेदयेत्।
पञ्चाशता त्वेकहीनैः कलशैः स्नापयेद्धरिम्।। 49.120 ।।
जुहुयान्मूलमन्त्रेण सहस्रेण गुरूत्तमः।
शान्तिहोमं च कृत्वैव पूनः पूजां समाचरेत्।। 49.121 ।।
[स्वयंव्यक्तादिमर्त्यान्तं समं पूजा प्रतिक्रिया।]
निवेदयेत् ततोऽन्नाद्यं शुद्धं व्यञ्जनसंयुतम्।। 49.122 ।।
कणैस्तु भवति व्याधिस्तुषैदरिद्र्यसंभवः।
कृमिभिः पुत्रनाशः स्यात् केशैर्दारविनाशनम्।। 49.123 ।।
पाषाणैर्मरणं सिद्धं भस्मना कलहो भवेत्।
अङ्गारैर्वह्निना बाधो भग्नैर्भङ्गस्तु विग्रहे।। 49.124 ।।
इत्थं दोषो भवेद्देवि यजमानानवेक्षणात्।
तस्मात् तद्दोषभीतः सन् यजमानो दिने दिने।। 49.125 ।।
प्रातरारभ्य रात्र्यन्तं पश्येत्कार्याण्यतन्द्रितः।
[निवेदनार्थमानीतं मध्येऽन्नं पतितं यदि।। 49.126 ।।
महानसस्थितान्नादीन् तटाकादिषु निक्षिपेत्।
ततो महानसं पुण्यसलिलैः प्रोक्ष्य वाचयेत्।। 49.127 ।।
]
अन्यत्र पचनागाराद् दीक्षितेतरसंस्कृतम्।
अमन्त्रसंस्कृतं चापि संस्पृष्टं माक्षिकादिभिः।। 49.128 ।।
अयोग्यैरपि संस्पृष्टं प्रभूतान्नं भृगोः सुते।
अस्त्रमन्त्रेण संशोध्य शोषणादीनि कारयेत्।। 49.129 ।।
निवेदयेत् ततोऽन्नाद्यमल्पे त्वित्थं न चाचरेत्।
[भोगलक्ष्मीवीरलक्ष्म्योः पूजनं युगपद्यदि।। 49.130 ।।
भोगलक्ष्म्याः पुरा कुर्याद् वीरलक्ष्म्यास्ततः परम्।]
पूजान्ते सर्वबीजानि मात्रादानं गुलान्नवत्।। 49.131 ।।
निवेदयेच्च देवाय विशेषयजनैः सह।
मात्रादानविहीने तु शान्तिहोमं समाचरेत्।। 49.132 ।।
पुनस्तत्तत्समर्प्याथ नमस्कृत्वा क्षमापयेत्।
संकल्प्य पूजां होमान्तमुत्सवान्तमथापि वा।। 49.133 ।।
पूजकेन तु मध्याह्ने होतव्यं न कृतं यदि।
रात्रिहोमेन सहितं द्विगुणं जुहुयाद् गुरुः।। 49.134 ।।
पूर्णाहुतिं च द्विगुणैर्द्रव्यैरेव क्रियाद् गुरुः।
एकाहान्मासपर्यन्तं होमस्तु न कृतो यदि।। 49.135 ।।
पञ्चाशतैकहीनस्तु कलशैः स्नापयेद्धरिम्।
तत्कालद्विगुणैर्द्रव्यैर्जुहुयान्मन्त्रवित्तमः।। 49.136 ।।
मासादूर्ध्वं वत्सरान्तं होमो न क्रियते यदि।
एकाशीतिघटैर्देवमभिषिच्य च गोघृतैः।। 49.137 ।।
मूलमन्त्रसहस्रेण शान्तिं च जुहुयात्ततः।
तत्कालद्विगुणैर्द्रव्यैः पूर्णाहुत्या च भामिनि।। 49.138 ।।
इत्थं वर्षादपि भवेत् त्रिवर्षान्तं रमे यदि।
मनुष्यनिर्मितं बिम्बं संप्रोक्ष्यैव तु पूजयेत्।। 49.139 ।।
बलिहीने त्वित्थमेव विशेषः कथ्यतेऽधुना।
आवाहिते बलिद्रव्ये देवे च पतिते यदि।। 49.140 ।।
तद्द्रव्याद्धृदये देवमावाह्य तदनन्तरम्।
शुद्धमन्यत्समादाय द्रव्यं देशिकसत्तमः।। 49.141 ।।
तस्मिन्नावाह्य हृदयाद् देवं दिक्षु बलिं क्षिपेत्।
तद्दोषशान्तये देवं क्षीरेणैवाभिषेचयेत्।। 49.142 ।।
शान्तिहोमं च कुर्वीत मूलमन्त्रशतं जपेत्।
यानाद् बिम्बे निपतिते स्पृष्टे वा पतितादिभिः।। 49.143 ।।
बलिबेरं तु नवभिः कलशैरभिषिच्य च।
शान्तिहोमं च कुर्वीत जपेन्मूलसहस्रकम्।। 49.144 ।।
तालनर्तनगानानां विहीने दीपनाशने।
तत्तद्दोषस्य शान्त्यर्थं तत्तत्काले गुरूत्तमः।। 49.145 ।।
जपेन्मूलसहस्रं तु पुनस्तत्तत्प्रकल्पयेत्।
बलिदानात्परं देवं मूलादुत्सवकौतुके।। 49.146 ।।
आवाह्य यानमारोप्य कारयेदुत्सवं गुरुः।
पूजामात्रं तु वा कुर्यात् कालयोरुभयोरपि।। 49.147 ।।
इत्थं तु न कृतं देवि तद्दोषस्य प्रशान्तये।
द्वादशार्णसहस्रं तु जप्त्वा शान्तिं समाचरेत्।। 49.148 ।।
[आतपैश्च महावातधूलिभिर्वर्षबिन्दुभिः।
स्पृशेच्चेद्भगवद्बिम्बं स्नापयेन्नवभिर्घटैः।। 49.149 ।।
]
कृत्वोत्सवं वा सायाह्ने रात्रिपूजां समाचरेत्।
द्विजातीनां तु मरणं ग्रामादौ संभवेद्यदि।। 49.150 ।।
यावद्ग्रामस्य मध्यस्थः शवस्तिष्ठति वल्लभे।
ग्रामादेस्तावदाशौचं तावत्पूजां न चाचरेत्।। 49.151 ।।
ग्रामाद्विनिर्गते प्रेते वास्तुशान्त्यादिकं चरेत्।
गुरुः पूजां प्रारभेत न ततः पूर्वमाचरेत्।। 49.152 ।।
पूजने तु समारब्धे मृतिश्चेत्तदनन्तरम्।
उपक्रान्तां तु तां पूजां संग्रहेण समापयेत्।। 49.153 ।।
प्रेते ग्रामाद्विनिर्याते ग्रामशुद्धिं विधाय च।
ततो यथावत् पूजां च कुर्याद् देशिकसत्तमः।। 49.154 ।।
स्त्रीशूद्राणां च बालानां मरणं संभवेद्यदि।
ग्रामादीनां न चाशौचं स्यात् क्षीरोदसंभवे।। 49.155 ।।
एकादशधनुर्भ्योऽन्तः शूद्रस्त्रीशवदूषिते।
बहिर्निष्कास्य तत्पश्चात् पूजनं प्राक्रमेद् गुरुः।। 49.156 ।।
[धनुःसंख्याकल्पनं तु द्वितीयद्वारमादितः।
ग्राममार्गेण कर्तव्यं न तु तिर्यक्प्रकल्पयेत्।। 49.157 ।।
]
विद्यमाने शवे पूजां कुर्याच्चेत् कमलालये।
तत्कालसंस्कृतान्नानि हरये वा निवेदयेत्।। 49.158 ।।
एकाशीतिघटैर्देवं स्नापयेन्मन्त्रपूर्वकम्।
कृत्वा शान्तिं ततः पूजां यथावत् कारयेद् गुरुः।। 49.159 ।।
वैखानसऋषिर्देवि ब्रह्मणो नखनिःसृतः।
हिमवच्छिखरे रम्ये गङ्गाद्वारे तपस्यति।। 49.160 ।।
पाञ्चरात्रसमं शास्त्रं मत्पूजार्थं करिष्यति।
तच्छिष्या भृगुमुख्याद्या वैखानसमुनीरितम्।। 49.161 ।।
शास्त्रं वैखानसं नाम ह्यधीत्य मुनिपुंगवाः।
तच्छास्त्रोक्तविमानादिबिम्बानि ह्यालयानि च।। 49.162 ।।
तच्छास्त्रेण प्रतिष्ठाप्य पूजयिष्यन्ति वै रमे।
एवं शैवादिशास्त्राणि भविष्यन्ति च भूतले।। 49.163 ।।
तदाराधकमर्त्यैश्च तच्छास्त्रेण च दीक्षितैः।
एतच्छास्त्रान्यसिद्धान्तदीक्षितैरन्यगोत्रिभिः।। 49.164 ।।
नूतनैर्दीक्षितैर्वापि परदीक्षाविवर्जितैः।
मन्त्रसिद्धान्तबिम्बानि न स्पृश्येत कदाचन।। 49.165 ।।
यदि स्पृशेयुर्देवेशं पञ्चविंशतिभिर्घटैः।
स्नापयित्वा ततः शान्तिं होमं चैव समाचरेत्।। 49.166 ।।
[अदीक्षितो वार्चकोऽपि पूजकेतरवंशजः।]
दीक्षितोऽपि च सन्यासी क्षत्रियो वैश्य एव वा।। 49.167 ।।
अदीक्षितो ब्राह्मणो वा कुष्ठी यक्ष्मा च मूककः।
काणो वाप्यङ्गहीनो वा प्रतिलोमज एव वा।। 49.168 ।।
स्त्री वाप्यनुपनीतो वा कुण्डो वा गोलकोऽपि वा।
स्पृशेद्यदि हरिं देवि नवभिः कलसैर्गुरुः।। 49.169 ।।
अभिषिच्य जपेन्मूलमन्त्रं जप्त्वा सहस्रकम्।
शांतिहोमं च कुर्वीत तद्दोषस्यापनुत्तये।। 49.170 ।।
चण्डालपुल्कसौ वापि परस्त्रीसक्त एव वा।
अज्ञातजातिर्दस्युर्वा पतितो जातिदूषितः।। 49.171 ।।
म्लेच्छो वा प्रविशेदन्तः स्पृशेद्वा बिम्बमब्जजे।
तद्गतानि च पात्राणि शुद्धिं कृत्वा यथाविधि।। 49.172 ।।
पाञ्चरात्रोक्तविधिना वास्तुशान्तिं समाप्य च।
प्रविष्टमात्रे तद्देवमेकाशीतिघटैर्गुरुः।। 49.173 ।।
स्नापयेद्यदि पूर्वोक्ताः स्पृशन्ति स्म हरिं रमे।
संप्रोक्षणं ततः कुर्यात् शास्त्रदृष्टेन वर्त्मना।। 49.174 ।।
एतेषु यो वा को वापि गर्भान्तर्मृतिन्वभूत्।
बिम्बस्य वा शवस्पर्शः संभवेद्दोषशान्तये।। 49.175 ।।
प्रतिष्ठां शास्त्रसंसिद्धां नयनोन्मीलनं तथा।
जलाधिवासं च विना कुर्याद्देशिकसत्तमः।। 49.176 ।।
[हीर्णोद्धारप्रतिष्ठायामेवं कुर्याद्विचक्षणः।]
ब्राह्मणक्षत्रियविशां स्पृष्टे वा दूषिते शवैः।। 49.177 ।।
अभिषिच्य घृतैर्देवं प्रोक्षणं च समाचरेत्।
शूद्रस्य वानुलोमानां शवैः स्पृष्टेऽथ दूषिते।। 49.178 ।।
पूर्वोक्तविधिमाचर्य सहस्राराधनं चरेत्।
मूलार्चा यदि वा वस्त्रैश्चित्रैर्वा मृण्मयैस्तु वा।। 49.179 ।।
कृता चेत्तां परित्यज्य तत्स्थानेऽन्यां निवेशयेत्।
प्रतिष्ठां च यथाशास्त्रं कुर्याद्देशिकसत्तमः।। 49.180 ।।
सर्वत्र बाह्मणानां च सहस्रं भोजयेत् प्रभुः।
[भट्टाचार्यः साधकाश्च तथैव परिचारकाः।। 49.181 ।।
आसनेष्वासिकां भुक्तिं शयने च यथातथम्।
कुर्युः कर्मण्यधिकृता दोषो नैव तदा भवेत्।। 49.182 ।।
अन्ये चेत् कुर्युरवनिं लेपयेद् गोमयाम्बुभिः।
पुण्याहसलिलैर्देवमन्दिरं प्रोक्षयेद् गुरुः।। 49.183 ।।
]
एतेषु पञ्चमाद्येषु यो वा को वापि मानवः।
प्रविष्टो वा मृतो वापि पाकशालां पुरा रमे।। 49.184 ।।
तत्रस्थाग्निं परित्यज्य कुण्डचुल्लिस्थमप्यथ।
सर्वत्र गोमयालेपं प्रोक्षणं पञ्चगव्यतः।। 49.185 ।।
पुण्याहसलिलैश्चापि वास्तुहोमादिपूर्वकम्।
प्रतिष्ठाप्य च तच्छालां ततोऽग्निं च यथाविधि।। 49.186 ।।
कल्पयित्वा ततो होमं पचनं चापि कारयेत्।
प्रथमावरणाद् देवि ध्वजस्तम्भावसानकम्।। 49.187 ।।
चण्डालादिषु यातेषु नवभिः कलशैर्हरिम्।
मृतश्चेत् तत्र यः कश्चिद् देवमष्टोत्तरैः शतैः।। 49.188 ।।
स्नापयित्वा तु कलशैः शान्तिहोमं समाचरेत्।
ध्वजस्तम्भादुपक्रम्य रथ्यावरणमन्ततः।। 49.189 ।।
प्रथमावरणादौ तु शकृन्मूत्रादिदूषिते।
[पूर्वोक्तेषु प्रविष्टेषु पुण्याहैः प्रोक्षयेत् जलैः]।। 49.190 ।।
तत्क्षणात् तद्बहिर्नीत्वा मार्जनाल्लेपनादिभिः।
शोधयित्वा भुवं पश्चात् प्रोक्षयेत् पुण्यवारिभिः।। 49.191 ।।
गर्भगेहे तु देवेशं स्नापयेन्नवभिर्घटैः।
प्रथमावरणाद्येषु प्राकारे यत्र कुत्रचित्।। 49.192 ।।
अद्वारेण बहिर्नीत्वा मृतं जन्तुं गुरूत्तमः।
ततः पूर्वोक्तविधिना प्रायश्चित्तं समाचरेत्।। 49.193 ।।
गर्दभश्वसृगालाद्यैर्वानरेण च पोत्रिणा।
काको वा कुक्कुटो वापि गृध्रो वा श्येन एव वा।। 49.194 ।।
गोधा वा सरटो वापि राजमूषक एव वा।
[मार्जालसर्पमण्डूकगौलीभिः सरटादिभिः।। 49.195 ।।
]
स्पृशेच्च पञ्चविंशद्भिः कलशैः स्नापयेद्धरिम्।
[पिपीलिकाद्यैर्बिम्बस्य स्पर्शदोषो न विद्यते।। 49.196 ।।
]
एतेषां गर्भगेहान्तर्मृतिर्वा स्पर्शनं तु वा।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।। 49.197 ।।
शान्तिहोमं ततः कुर्यात् सहस्राराधनं चरेत्।
प्रथमावरणाद्येषु प्राकारेष्वपि सप्तसु।। 49.198 ।।
वर्णानां प्रसवे देवि पञ्चमादिस्त्रियस्तु वा।
प्रसूताश्चेत् तदा तत्र मृताविव विधिर्भवेत्।। 49.199 ।।
मृगाणां पक्षिणां वापि प्रसवे मृतिवद्भवेत्।
सर्वत्र गोमयालेपो ब्राह्मणानां तु भोजनम्।। 49.200 ।।
प्रोक्षणं पुण्यसलिलैः पञ्चगव्यैस्तथैव च।
आराधनं भगवतो हरेः कुर्याद् विचक्षणः।। 49.201 ।।
मानुषस्थापितानां तु बिम्बानामित्थमीरितम्।
स्वयंव्यक्तादिबिम्बेषु मृन्मयादिषु वै रमे।। 49.202 ।।
संप्राप्तेष्वपि दोषेषु प्रोक्षयित्वा यथाविधि।
सहस्राराधनं कृत्वा नित्यपूजां समाचरेत्।। 49.203 ।।
एवं दोषान् गुणान् वीक्ष्य तत्तत्कालोचितान् गुरुः।
प्रायश्चित्तं पुरा कृत्वा नित्यपूजां समाचरेत्।। 49.204 ।।
रात्रौ पूजां बलेर्दानमुत्सवं च यथाविधि।
यामार्धपूजनं चापि कृत्वा मूलात् ततो रमे।। 49.205 ।।
आवाह्य शयनार्चायां पूजयित्वा ततो गुरुः।
क्षीरान्नादि निवेद्याथ शाययेच्छयने शुभे।। 49.206 ।।
[तत्तत्कर्मार्थबिम्बे तु तत्र संनिहिते सति।
तत्तत्कर्मविशेषाणां व्यत्ययं न समाचरेत्।। 49.207 ।।
तत्तत्कर्मसु बिम्बं तु हीनं चेत् पूजनादिषु।
समस्तपूजनं कुर्यात् कर्मार्चायां गुरूत्तमः।। 49.208 ।।
]
कुर्यात् प्रतिदिनं भद्रे गीतनाट्यसमन्वितम्।
एषोत्सवस्त्ववश्यं हि राजराष्ट्राभिवृद्धये।। 49.209 ।।
न कुर्याद्यदि मोहेन श्रीः प्रभोर्विमुखी भवेत्।
मधुक्षीरघृतैर्देवं प्रातः संस्नाप्य देशिकः।। 49.210 ।।
क्षीरान्नादीनि सर्वाणि द्विगुणानि निवेदयेत्।
[सूतकं वा मृताशौचं पूजारम्भे श्रुतं यदि।। 49.211 ।।
आशौचमाचरेद् विद्वान् पूजान्ते विधिवद्रमे।]
नित्ये नैमित्तिके काम्ये ह्युत्सवे स्नपने तथा।। 49.212 ।।
प्रायश्चित्ते प्रतिष्ठायां प्रोक्षणे देशिकोत्तमः।
वपनस्नानपूर्वं हि रक्षाबन्धं तथर्त्विजः।। 49.213 ।।
कृत्वैव कार्यजातानि कुर्युर्देवि यथाक्रमम्।
अबध्वा यदि मोहेन कुर्याच्चेदुत्सवादिकम्।। 49.214 ।।
शान्तिहोमं ततः कृत्वा मूलमष्टोत्तरं जपेत्।
ततः शास्त्रोक्तविधिना बध्वा प्रतिसरं रमे।। 49.215 ।।
आदितस्तत्क्रियां कुर्यादन्यथा त्वकृतं कृतम्।
मूलादीनां च बिम्बानामित्थमेव विधिर्भवेत्।। 49.216 ।।
[महोत्सवाद्युत्सवेषु करस्ते देशिकस्य च।
देवदेवस्य नष्टे तु छिह्ने वा कौतुके गुरुः।। 49.217 ।।
सूत्रान्तरं पुनर्बघ्वा शान्तिहोमं समाचरेत्।]
प्रतिष्ठादिषु कार्येषु बद्धप्रतिसरो गुरुः।। 49.218 ।।
व्याधितश्चेत् तस्य पुत्रः शिष्यो वा दीक्षितः स्वयम्।
अनुज्ञया गुरोस्तस्य स्नात्वा वपनपूर्वकम्।। 49.219 ।।
बध्वा सूत्रं तदारभ्य क्रियाशेषं समापयेत्।
मध्ये मृतो यदि गुरुस्तच्छिष्यस्त्वन्यगोत्रियः।। 49.220 ।।
रक्षां कृत्वा ततो देवं पञ्चविंशतिभिर्घटैः।
स्नापयित्वा शान्तिहोमं कृत्वा कर्म समाचरेत्।। 49.221 ।।
रक्षामङ्गलसूत्रं यो बध्नन् वर्तेत देशिकः।
शावाशौचं सूतकं च तस्य नास्ति जलोद्भवे।। 49.222 ।।
स्नानमात्रं भवत्येव किंचिद्भेदस्त्वथर्त्विजाम्।
कर्ममध्येऽपि चाशौचं मृते त्वात्मान्विते भवेत्।। 49.223 ।।
पिता माता ज्येष्ठपुत्रो भार्या चात्मान्विताः स्मृताः।
तत्कार्ये देशिकस्त्वन्यं दीक्षयित्वा नियोजयेत्।। 49.224 ।।
प्रतिष्ठादिषु कार्येषु दीक्षितो गुरुसत्तमः।
एकपुत्रस्तस्य पिता प्राप्नुयात् पञ्चतां यदि।। 49.225 ।।
बद्धप्रतिसरो गत्वा श्मशानं पादुकां धरन्।
अस्थिसंचयनान्तं च कर्म कृत्वा यथाविधि।। 97.226 ।।
स्नात्वा चालयमागत्य घटैः षोडशभिस्ततः।
अभिषिक्तो मन्त्रविद्भिर्देवकार्यं ततश्चरेत्।। 49.227 ।।
उत्सवान्ते देवकार्यं समाप्य च यथाविधि।
आशौचं कर्मकाण्डोक्तं दशरात्रं समाचरेत्।। 49.228 ।।
तर्पणं पिण्डदानं च श्राद्धं चापि सपिण्डनम्।
पाञ्चरात्रोक्तमथवा कुर्याद् देशिकसत्तमः।। 49.229 ।।
देवं तमुत्सवान्ते च शतेनाष्टोत्तरैर्घटैः।
स्नापयेच्छान्तिहोमं च कुर्यादाचार्यसत्तमः।। 49.230 ।।
दीक्षितो मृतसंघान्नं शूद्रान्नं तैलसेवनम्।
मिथुनीभवनं चैव वर्जयेत् कलहं तथा।। 49.231 ।।
यदि कुर्वीत मोहेन पञ्चविंशतिभिर्घटैः।
देवं संस्नापयेत्पूर्वं सहस्राराधनं चरेत्।। 49.232 ।।
महानदीस्नानपूर्वं दीक्षितः पञ्चगव्यकम्।
द्वादशार्णसहस्रस्य जपमेकाह मब्जजे।। 49.233 ।।
उपवासं च कुर्वीत ततो देवं स्पृशेत् गुरुः।
एकस्मिन्नालये देवि दीक्षितो बद्दकंकणः।। 49.234 ।।
आलयान्तरदीक्षायां न बध्नीयाच्च कंकणम्।
[एकं कर्म समुद्दिश्य रक्षाबन्धं कृतं यदि।। 49.235 ।।
तेनैव सर्वकर्माणि कुर्याद् देशिकसत्तमः।]
यदि बध्नीत मोहेन तत्कर्म पुनराचरेत्।। 49.236 ।।
[मातापित्रोर्दीक्षितश्च विधुरो मलिनीपतिः।]
श्राद्धकर्ता च पत्न्यां तु गर्भिण्यामपि दीक्षितः।। 49.237 ।।
कंकणं तु न बध्नीयात् तथाचारविगर्हितः।
[एककुण्डविधानं चेदुत्सवादिषु पद्मजे।। 49.238 ।।
आचार्यामात्रं बध्नीयात् कौतुकं ऋत्विजां विना।
रक्षासूत्रं विना कुर्यादेकघस्रोत्सवादिकम्।। 49.239 ।।
भक्तबिम्बाद्युत्सवं च सद्यः संप्रोक्षणं तथा।
एकोद्दिष्टे स्थितं त्वब्दं निमित्ते त्वष्टमासिकम्।। 49.240 ।।
पितृवर्णेऽपि षण्मासं वैश्वदेवे त्रिमासिकम्।
द्विमासं विष्षुवर्णे तु त्यजेत् कौतुककर्मणि।। 49.241 ।।
]
सपिण्डीकरणं भुक्त्वा पूजको दीक्षितोऽपि सन्।
दशाहात्परतो देवि महातीर्थावगाहनम्।। 49.242 ।।
त्रिसहस्रं द्वादशार्णजपं कुर्याद् विशुद्धये।
[अकृत्वा यदि मोहेन भगवन्तं स्पृशेद्यदि।। 49.243 ।।
त्रिंशद्भिः कलशैर्देवं स्नापयेद् दोषशान्तये।]
सहस्राराधनं कुर्यात् तद्दोषस्य प्रशान्तये।। 49.244 ।।
[श्राद्धभोक्ता तु देवेशं तद्दिने पूजयेद्यदि।
गर्भगेहप्रवेशे च स्नापयेन्नवभिर्घटैः।। 49.245 ।।
सूतकं वा मृताशौचं विष्णोर्वा सगृहादिके।
श्रुतं यदि बहिस्तूर्णं जवेनागत्य मन्दिरात्।। 49.246 ।।
आशौचमाचरेन्मर्त्यस्तथा स्त्री तु रजस्वला।
पञ्चविंशतिभिः कुम्भैः स्नापयेदन्यथा यदि।।] 49.247 ।।
शूद्रद्रव्ये गृहीते वा दोषान्नस्य च भक्षणात्।
काललोभादिना वापि नीचैर्मासं सहासनात्।। 49.248 ।।
दीक्षितस्य मनः किंचित् पश्चात्तापयुतं भवेत्।
शुद्धान् वेदविदो विप्रानष्टौ वा षडथापि वा।। 49.249 ।।
वृत्वाध्वर्यूनेकघटं व्रीहिभारे निवेश्य च।
वासुदेवं वेदमूर्तिमावाह्य च घटे पुरा।। 49.250 ।।
पूजयित्वा ततो वेदान् वेदौ वा वेदमेव वा।
ऋत्विङ्मुकादुपश्रुत्य तन्मन्त्रितजलेन च।। 49.251 ।।
अभिषिक्तो यदि भवेत् स मे प्रीततमो भवेत्।
तस्य पूजां प्रतीक्षेऽहं कदा वा तादृशो भवेत्।। 49.252 ।।
सकृन्नियुङ्क्तस्तम्भं वा वस्त्रं वा पक्षिलेखितम्।
नोपयुञ्ज्यात् पुनस्तं वै नियोजयति चेद्यदि।। 49.253 ।।
तत्परित्यज्य देवेशं पञ्चविंशतिभिर्घटैः।
स्नापयीत्वा शान्तिहोमं शतमष्टक्षरं जपेत्।। 49.254 ।।
[अष्टोत्तरशतैः कुम्भैः प्रतिमादाहनादिके।
वस्त्रादिदाहने तस्य प्रभापीठादिदाहने।। 49.255 ।।
सुदर्शनेऽग्निना दग्धे स्नापयेन्नवभिर्घटैः।
ध्वजे विताने छत्रे च दग्धे चास्तारणादिके।। 49.256 ।।
यथावत्पुनरुत्पाद्य शान्तिहोमादिकं चरेत्]।
ध्वजस्तम्भेऽग्निना दग्धे पटे वा तत्परित्यजेत्।। 49.257 ।।
तत्स्थानेऽन्यं प्रतिष्ठाप्य तद्दोषस्यापनुत्तये।
आदितस्तद्यथासास्त्रं कर्म कुर्याद् विचक्षणः।। 49.258 ।।
पक्षीशावाहिते कुम्भे भिन्ने वा पतितेऽपि वा।
अस्पृश्यैर्वा घटे स्पष्टे स्तम्भे वापि वरानने।। 49.259 ।।
पटेवा दूषिते देवि पूर्वोक्तं विधिमाचरेत्।
दूषितं चेदेकमेव तद्गतं विष्णुमव्ययम्।। 49.260 ।।
आवाह्य च तदन्यस्मिन् तस्मिन् शुद्धं निवेशयेत्।
पुनस्तस्मिन् समावाह्याभ्यर्च्य गुरुसत्तमः।। 49.261 ।।
विहगेन्द्रं प्रतिष्ठाप्य उत्सवावभृथावधि।
कालयोः पूजनं कुर्यान्न कुर्यात्कालमब्जजे।। 49.262 ।।
परस्मिन् दिवसे पूजां तद्द्रव्यैद्विर्गुणै श्चरेत्।
नवस्वपि दिनेष्वेवं पूजनं च कृतं यदि।। 49.263 ।।
ध्वजारोहं पुनः कृत्वा ह्युत्सवं च समाचरेत्।
तद्दोषशान्तये देवि देवं पूर्वोक्तवर्त्मना।। 49.264 ।।
संस्नाप्य शान्तिहोमं च कुर्याद्देशिकसत्तमः।
पुरा भेर्यादि संपूज्य ततो देवान् समाह्वयेत्।। 49.265 ।।
भेर्यादिस्थापनं कार्यं यथाशास्त्रं विचक्षणः।
व्यत्यासेन स्थापनं वा पूजनं वा करोति चेत्।। 49.266 ।।
पुण्याहसलिलैर्वापि न कृतं प्रोक्षणं यदि।
मूलमन्त्रसहस्रं तु जपित्वा देशिकोत्तमः।। 49.267 ।।
यथावत् स्थाप्य तदनु प्रोक्षयेत् पुण्यवारिणा।
तेषु देवान् समावाह्य पूजयेच्चार्घ्यपूर्वकम्।। 49.268 ।।
संताडयित्वा तदनु देवान् सर्वान् समाह्वयेत्।
अकृत्वा ताडनं देवि देवानाह्वयते यदि।। 49.269 ।।
द्विरष्टभिर्घटैर्देवं हरिं संस्नाप्य शान्तिमत्।
ततश्च ताडयेद् भेरीं देवानपि समाह्वयेत्।। 49.270 ।।
चर्मभेदे कोणभेदे शान्तिहोमं समाचरेत्।
गारुत्मतं मन्त्रजपं गुरुराम्रेडयेच्छतम्।। 49.271 ।।
पुनरन्यत्समानीय यथावत्ताडयेद् गुरुः।
वीथीषु तत्तत्काष्ठासु तत्तद्वाहनसंयुतान्।। 49.272 ।।
सानुगान् पार्षदान् देवान् गाथाभिश्च समाह्वयेत्।
तथा द्वारादिरथ्यान्तं बलिदानेषु सर्वतः।। 49.273 ।।
कालयोर्बलिदानं च तौर्यत्रिकसमन्वितम्।
दद्याद् प्रतिदिनं देवि बलिद्रव्यसमन्वितम्।। 49.274 ।।
विस्मृते त्वेकदेवे तु तन्नामशतकं जपेत्।
तस्मै दद्याद् बलिं देवि विस्मृताय तु सोदकम्।। 49.275 ।।
एककालं बलेर्दानं न कृतं यदि वल्लभे।
शान्तिहोमं पुरा कृत्वा देवनाम यथाक्रमम्।। 49.276 ।।
प्रत्येकं शतवारं तु जपित्वा देशिकोत्तमः।
अन्यस्मिन् समये तेषामाह्वानं द्विगुणं बलिम्।। 49.277 ।।
महावृष्ट्यादिभिश्चैव दस्युभिर्वापि केवलम्।
विघ्नितेऽप्युत्सवे देवे सोदकं बलिमुत्सृजेत्।। 49.278 ।।
विघ्निते बलिदानेऽपि परेद्यवि पुरा रमे।
षोडशैः कलशैर्देवमभिषिच्य च शान्तिमत्।। 49.279 ।।
बलिदानं तूत्सवं च कुर्यात् पूर्वेण वै सह।
चतुःपञ्च दिने देवि विघ्निते ह्युत्सवे तथा।। 49.280 ।।
बलिदानेऽपि देवेशमेकाशीतिघटैर्हरिम्।
स्नापयित्वा शान्तिहोममदत्तं च बलिं तथा।। 49.281 ।।
अतिक्रान्तोत्सवं चापि कृत्वा तद्दिनि उत्सवम्।
कुर्यात्ततोऽपि देवस्य कल्याणे विघ्निते सति।। 49.282 ।।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।
शान्तिहोमं पुरा कृत्वा दिनानां तावतां बलिम्।। 49.283 ।।
उत्सवं च यथासंख्यं कृत्वा तद्दिन उत्सवम्।
बलिदानं च कुर्वीत तेन दोषः प्रशाम्यति।। 49.284 ।।
आरम्भोद्वासदिनयोर्लुप्यते यदि वै बलिः।
प्रभूतान्नं च हरये न निवेदयते रमे।। 49.285 ।।
तद्दोषशान्तये देवमष्टोत्तरशतैर्घटैः।
अभिषिच्य ततः शान्तिं कृत्वा देशिकसत्तमः।। 49.286 ।।
यथाक्रमं बलेर्दानं निवेद्य च महाहविः।
तथोत्सवं प्राक्रमेत न ततः पूर्वमाचरेत्।। 49.287 ।।
[अभक्त्या वा सुभक्त्या वा येन केनापि वा रमे।
देवस्यांगे तथा याने पुष्पादीन्विकिरेद्यदि।। 49.288 ।।
किरीटभूषाशस्त्रादिपतने चलनेऽपि वा।
नवभिः कलशैर्देवं स्नापयेद् विधिपूर्वकम्।। 49.289 ।।
]
यानाधिष्ठितदेवस्य बिम्बस्य पतनेन वा।
आनीय चालयं देवि ह्यष्टोत्तरशतैर्घटैः।। 49.290 ।।
अभिषिच्य यथाशास्त्रं शान्तिहोमं समाप्य च।
संप्रोक्षणं च कृत्वैव शेषमुत्सवमाचरेत्।। 49.291 ।।
पतितस्य च बिम्बस्य क्षतिर्यदि भवेद्रमे।
मूले शक्तिं समावाह्य समाधाय हरेस्तनुम्।। 49.292 ।।
ततः प्रतिष्ठां कृत्वैव ध्वजारोहणपूर्वकम्।
यथाक्रमं चोत्सवं च कुर्याद् देशिकसत्तमः।। 49.293 ।।
[पादुका देवदेव्योश्च स्पृशेच्चेत् पूजकेतरैः।
पादुका पञ्चभिः कुम्भैः स्नापयेत् पतितेऽपि च।। 49.294 ।।
]
देवस्योत्सवकाले तु ग्रामे मरणसंभवे।
निर्गमय्य शवं पश्चाद् वास्तुशान्तिं समाप्य च।। 49.295 ।।
बलिदानं चोत्सवं च ततः कुर्याद् विचक्षणः।
[वीथिभ्रमणकाले तु वीथ्यां मरणसंभवे।। 49.296 ।।
प्रेतस्थानं बहिस्त्यक्त्वा वीथिभ्रमणमाचरेत्।
अन्यथा चोत्सवे क्लृप्ते त्वधमाधममार्गतः।। 49.297 ।।
दंव संस्नाप्य विधिवत् शान्तिहोमं समाचरेत्।
रथोत्सवस्य काले तु वीथ्यां मरणसंभवे।। 49.298 ।।
निष्कास्य तच्छवं पश्चाद्यात्रोत्सवमथाचरेत्।]
दग्धे च वह्निना ग्रामे महावात्याभिपीडिते।। 49.299 ।।
पञ्चगव्यादिभिः प्रोक्ष्य शान्तिहोमं समाचरेत्।
नवभिः कलशैर्देवं संस्नाप्योत्सवमाचरेत्।। 49.300 ।।
नवाहाद्युत्सवे क्लृप्ते न्यूनं वाप्यधिकं तु वा।
करोति यदि मोहेन तस्य दोषस्य शान्तये।। 49.301 ।।
त्रिंशद्भिः कलशैर्देवमभिषिच्य च शान्तिमत्।
पूर्ववच्चोत्सवं कुर्यात् ध्वजारोहणपूर्वकम्।। 49.302 ।।
[उत्सवादिषु सर्वेषु एवमेव समाचरेत्।]
विना ग्रामं पत्तनं वा यत्र कुत्रापि चालयम्।। 49.303 ।।
तत्र स्थितस्य देवस्य बलिदानोत्सवौ रमे।
अन्तरावरणे कुर्यान्न बहिस्तौ समाचरेत्।। 49.304 ।।
कुर्याद्यदि बहिस्तौ तु त्रिंशद्भिः कलशैर्हरिम्।
स्नापयित्वा यथावच्च प्राकारान्तं समाचरेत्।। 49.305 ।।
ग्रामादिवीथिषु रमे तुलुष्कपतितादयः।
तिष्ठन्ति चेत्तदा देवि प्राकारेषु बलिं क्षिपेत्।। 49.306 ।।
दैवमानुषदोषेण ध्वजारोहे तु विघ्निते।
अनावृष्ट्या दस्युभिर्वा परचक्रप्रवेशनात्।। 49.307 ।।
एकद्वित्रिदिनं भद्रे विघ्निते तु महोत्सवे।
एकाशीतिघटैर्देवमभिषिच्य यथाविधि।। 49.308 ।।
पूर्वाङ्कुरं परित्यज्य पुनः कृत्वाङ्कुरार्पणम्।
ध्वजारोहादिकं सर्वं कुर्याद् देशिकसत्तमः।। 49.309 ।।
एवं तीर्थदिनान्तं च ह्युत्सवे विघ्निते रमे।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।। 49.310 ।।
शान्तिहोमं ब्राह्मणानां सहस्रस्य च भोजनम्।
कृत्वा पुनस्तीर्थदिने अङ्कुरार्पणपूर्वकम्।। 49.311 ।।
[मासे यथोक्तेऽतिक्रान्ते नक्षत्रे च तथा तिथौ।
उत्सवानन्तरे मासि यद्यर्वाग्वत्सराद्भवेत्।। 49.312 ।।
न कृतो वत्सरादर्वागष्टोत्तरशतैर्घटैः।
संस्नाप्य देवदेवेशं लुप्तोत्सवमथाचरेत्।। 49.313 ।।
वसन्ताद्युत्सवे लुप्ते स्नपनं त्वधमोत्तमम्।
कृत्वा लुप्तोत्सवं कुर्यात्तदनन्तरमासि वा।। 49.314 ।।
]
ध्वजारोहाद्युत्सवं च कुर्यात् शास्त्रार्थतत्त्ववित्।
रथोत्सवे प्रवृत्ते तु चक्रच्छेदेऽक्षभञ्जने।। 49.315 ।।
रज्जुच्छेदे शिखाकुम्भे पतिते सारथौ तु वा।
कृत्वैव पूर्ववद् देवि पुण्याहैः प्रोक्ष्य वै रथम्।। 49.316 ।।
यात्रान्ते शान्तिहोमं च कुर्याद् ब्राह्मणभोजनम्।
आरोहणे त्वयोग्यानां रथस्योपरि वै रमे।। 49.317 ।।
निष्कास्य तान् पञ्चगव्यैः पुण्याहैः प्रोक्ष्य वै रथम्।
यात्रान्ते नवसंख्याभिः कलशैरभिषेचयेत्।। 49.318 ।।
दग्धे रथस्यैकदेशे तस्य शान्तिं वदामि ते।
तत्काले पञ्चगव्यैश्च पुण्यैश्च सलिलैरपि।। 49.319 ।।
यात्रान्तेऽष्टोत्तरैर्देवं कलशैरबिषिच्य च।
शान्तिहोमं मूलमन्त्रजपं चायुतमेव च।। 49.320 ।।
ब्राह्मणानां सहस्रं च भोजयेच्च गुरूत्तमः।
रथस्य तु महद्दाहे त्ववतार्य रथाद्धरिम्।। 49.321 ।।
खगेशे देवमारोप्य नयेदालयमब्जजे।
रथवेगेन देवेशः पतेद्वा सरथस्तु वा।। 49.322 ।।
आनाय्य देवतां धाम प्रोक्षयेच्छान्तिपूर्वकम्।
रथभ्रमणवेलायां चक्रेण मरणं यदि।। 49.323 ।।
मृगाणां वा मनुष्याणां शवं निष्कासयेत् पुरा।
खात्वा भूमिं शवस्पृष्टां निक्षिपेदन्यमृत्तिकाम्।। 49.324 ।।
पुण्याहैः पञ्चगव्यैश्च सलिलैः प्रोक्षयेद् भुवम्।
रथस्य भ्रमणं चापि कारयित्वा गुरूत्तमः।। 49.325 ।।
यात्रान्ते देवदेवेशमष्टोत्तरशतैर्घटैः।
अभिषिच्य ततः कुर्यात् प्रोक्षणं शास्त्रचोदितम्।। 49.326 ।।
[कुर्याच्च भोजयेद्देपि जपेन्मूलायुतं गुरुः।]
एकद्वित्रिदिने तावत् स्वस्थानान्न चलेद्यदि।। 49.327 ।।
विघ्निते वा रथारोहे दिनानि कतिचिद्यदि।
कथंचिद् भ्रामयेद्देवि रथं दोषापनुत्तये।। 49.328 ।।
[महारथं मासमेकं वीथीषु भ्रामयेद्यदि।]
यात्रान्ते वासुदेवस्य ह्येकाशीतिघटैर्हरेः।। 49.329 ।।
अभिषेकं शान्तिहोमं कुर्यान्मूलसहस्रकम्।
जपं च ब्राह्मणानां च सहस्रमपि भोजयेत्।। 49.330 ।।
कृत्वोत्सवं वा प्रत्यब्दमेकस्मिन् हायने यदि।
न कृतश्चेद्रथारोहस्तदानीं मन्त्रविद् गुरुः।। 49.331 ।।
स्थस्थितान् देववरान् प्रत्येकं पूजयेत् ततः।
तिलैराज्यैश्च चरुभिः शतमष्टोत्तराहुतीः।। 49.332 ।।
शान्तिहोमं च कृत्वा तु रथं संप्रोक्ष्य देशिकः।
ततो यथावद्देवेशं रथमारोपयेद् गुरुः।। 49.333 ।।
[महोत्सवाङ्गभूतानां चूर्णाद्युत्सवकर्मणाम्।]
लोपे तत्तत्प्रशान्त्यर्थं देवं द्वादशभिर्घटैः।। 49.334 ।।
स्नापयित्वा शान्तिहोमं कृत्वा चोत्सवमाचरेत्।
दिवोत्सवं दिवा कुर्यादान्तं रात्रेस्तदुत्सवम्।। 49.335 ।।
व्यत्यासेनोत्सवं कुर्यात् शान्तिहोमं समाचरेत्।
स्वयंव्यक्तादिदेवानां तीर्थावभृथमुत्सवम्।। 49.336 ।।
रात्रावपि च कुर्वीत मानुषस्य न कारयेत्।
यदि रात्रौ प्रकुर्वीत तद्देवं नवभिर्घटैः।। 49.337 ।।
संस्नाप्य शान्तिहोमं च कुर्याद् देशिकसत्तमः।
तीर्थयात्राविघ्नितश्चेदवरोप्य खगध्वजम्।। 49.338 ।।
उत्सवं तु पुनः कुर्यात् ध्वजारोहणपूर्वकम्।
कुम्भप्रोक्षणहीने तु त्रिंशद्भिः कलशैर्हरिम्।। 49.339 ।।
संस्नाप्य शान्तिहोमं च प्रोक्षणं च पुनश्चरेत्।
यावद्दिनानि देवेशो वीथ्यां तिष्ठति वै रथे।। 49.340 ।।
तावत्संकल्पयेद्देवि होमादौ नवदिनोत्सवम्।
पुष्पयागं ततः कुर्यात् पुष्ट्यर्थं मध्यमे दिने।। 49.341 ।।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यमे निशि।
रिपुक्षयार्थी मध्याह्ने संध्यायां सर्वशान्तिमत्।। 49.342 ।।
सद्यो विकसितैः पुष्पैः पञ्चवर्णैः सुगन्धिभिः।
तदुत्सवं प्रकुर्वीत न तु पर्युषितादिभिः।। 49.343 ।।
यदि कुर्वीत मोहेन नवभिः कलशैर्हरिम्।
संस्नाप्य देवदेवशं पुष्पयागं पुनश्चरेत्।। 49.344 ।।
पुष्पयागस्य रात्र्यां तु अवरोप्य खगध्वजम्।
वीथ्यादिवास्तुनिष्ठानां बलिं दत्वा विसर्जयेत्।। 49.345 ।।
ध्वजे नष्टे तदानीं तु पुनरारोपयेद् ध्वजम्।
पक्षीशपूजां होमं च तन्नाम्ना तु सहस्रकम्।। 49.346 ।।
कृत्वा पुनर्वैनतेयमवरोप्य यथाविधि।
बलिदानादि कृत्वैव देवमन्तः प्रवेशयेत्।। 49.347 ।।
महोत्सवान्ते स्नपनमेकाशीतिघटैर्भवेत्।
न कुर्याद्यदि मोहेन ततः परदिनेऽपि वा।। 49.348 ।।
पूर्वोक्तकलशैः स्नानं कुर्याच्छान्तिं यथाविधि।
[उपरागोत्सवे स्नानविष्टरे यानगेऽपि वा।। 49.349 ।।
हविर्विना क्षुद्रापूजां कृत्वा शर्करयान्वितम्।
तिलचूर्णँ मुद्गदलं पृथुकं वा निवेदयेत्।।] 49.350 ।।
महोत्सवे वर्तमाने ग्रहणाद्युत्सवं चरेत्।
न कुर्याद्यदि मोहेन तद्दोषस्य प्रशान्तये।। 49.351 ।।
द्वादशैः कलशैः स्नानं कुर्यादस्त्रायुतं जपम्।
[परस्ताच्च पुरस्ताच्च ग्रहणे सोमसूर्ययोः।। 49.352 ।।
द्विनाडिकां परित्यज्य नित्यपूजां समाचरेत्।
महोत्सवाद्युत्सवेषु द्विमुहूर्तं परित्यजेत्।। 49.353 ।।
]
इत्थं दोषास्तु बहवः संभवेयुर्महोत्सवे।
देशकालानुरोधेन कार्यस्य गुरुलाघवम्।। 49.354 ।।
प्रायश्चित्तं प्रकुर्वीव होमं चोत्सववह्निषु।
पञ्चपर्वोत्सवं नित्यं कुर्याच्च प्रतिमासिकम्।। 49.355 ।।
न कुर्याद्यदि मोहेन तद्दोषस्य प्रशान्तेय।
नवभिः कलशैर्देवं तद्दोषस्य प्रशान्तये।। 49.356 ।।
कृत्वापरेद्यवि हरेर्महान्नं च निवेदयेत्।
[महोत्सवाद्युत्सवेषु तथा देव्युत्सवादिषु।। 49.357 ।।
पञ्चपर्वाद्युत्सवं तु नाचरेद् गुरुसत्तमः।
पञ्चपर्वाद्युत्सवेषु प्राप्ते काव्यदिनोत्सवे।। 49.358 ।।
तदा काव्यदिनं त्यक्त्वा पञ्चपर्वादिकं चरेत्।
कृष्णोत्सवाद्युत्सवेषु विघ्नितेषु यदि प्रिये।। 49.359 ।।
अनन्तरस्य मासस्य तन्नक्षत्रेऽथवा तिथौ।
त्रिंशद्भिः कलशैर्देवमभषिच्य च शान्तिमत्।। 49.360 ।।
कृत्वा मूलसहस्रस्य जपमुत्सवमाचरेत्।
कृत्तिकाद्युत्सवश्चापि प्रतिषिद्धो भवेद्यदि।। 49.361 ।।
कृष्णोत्सवोक्तरीत्या तमुत्सवं कारयेद् बुधः।
पवित्रोत्सवकालस्तु ह्यतिक्रान्तो यदा भवेत्।। 49.362 ।।
अष्टोत्तरशतैर्देवमभिषिच्य च शान्तिमत्।
तदुत्सवं प्रकुर्वीत मन्त्रज्ञो देशिकोत्तमः।। 49.363 ।।
पवित्रं यदि पद्माक्षि न्यूनं वाप्यधिकं भवेत्।
संख्यया वापि दीर्घेण हास्त्रमन्त्रायुतं जपेत्।। 49.364 ।।
प्रतिलोमादिभिः स्पृष्टे भक्षिते मूषिकादिभिः।
अमन्त्रसंस्कृते वापि व्यत्यासेन च भूषिते।। 49.365 ।।
एवं दुष्टपवित्रैस्तु भूषिते पीतवाससि।
तत्परित्यज्य देवेशमष्टोत्तरशतैर्घटैः।। 49.366 ।।
संस्नाप्य शान्तिहोमं च कुर्याच्च तदनन्तरम्।
शुद्धं पवित्रमुत्पाद्य भूषयेद्धरिमव्ययम्।। 49.367 ।।
पवित्रारोपणे पूजा या संख्या तु दिने दिने।
चतुःस्थानार्चने वापि या संख्या शास्त्रचोदिता।। 49.368 ।।
एकापि संख्या लुप्ता चेत् पूजा सर्वा विनिष्फला।
तस्मात् सर्वप्रयत्नेन संख्यालोपं वना हरेः।। 49.369 ।।
पूजयेद्यदि लोपः स्यात् पुनरुत्सवमाचरेत्।
पावित्रिकी तीर्थयात्रा न कृता यदि शोभने।। 49.370 ।।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।
उत्सवं च पुनः कृत्वा तीर्थयात्रां समाचरेत्।। 49.371 ।।
[देवस्योत्सवशालायां कृतं चेत्पूजकेतरैः।
आसनेष्वासनं चैव शयनं भोजनादिकम्।। 49.372 ।।
]
तत्स्थानं पञ्चगव्येन प्रोक्ष्य शान्तिं समाचरेत्।
चातुर्मास्ये तु देवस्य कुर्वीत शयनोत्सवम्।। 49.373 ।।
चतुःस्थानार्चनं चापि कुर्यात् प्रतिदिनं तदा।
तल्लोपे व्यत्यये वापि मूलायुतजपं तथा।। 49.374 ।।
शान्तिहोमं च कुर्वीत तद्दोषस्य प्रशान्तये।
प्रातयश्चित्तादिकार्यार्थं घटस्नानं पुरा रमे।। 49.375 ।।
हरेर्यदि भवेत् तत्स्यात् अङ्कुरार्पणपूर्वकम्।
अकृत्वाङ्कुरकार्याणि कौतुकं च न बन्धयेत्।। 49.376 ।।
प्रायश्चित्तं भवेत् तस्य ह्ययुतं द्वादशाक्षरम्।
मनुं जप्त्वा शान्तिहोममङ्कुरार्पणपूर्वकम्।। 49.377 ।।
बध्वा प्रतिसरं चापि स्नापयेद्देवमच्युतम्।
संकल्प्य स्नपनादीनि न कुर्याद्यदि वल्लभे।। 49.378 ।।
शान्तिहोमं पुरा कत्वा जपेदष्टाक्षरायुतम्।
[कौतुकाङ्कुरपूर्वं तु स्नापयेद्धरिमव्ययम्।। 49.379 ।।
]
चतुःस्थानविहीने तु नाचरेदङ्कुरार्पणम्।
रक्षासूत्रं चावभृथं बिम्बमात्रोत्सवं चरेत्।। 49.380 ।।
मन्त्रवत्स्थापितान् कुम्भान् स्पृशेयुः पञ्चमादयः।
भवेयुर्वा संनिकृष्टास्तान् घटान् परिवर्जयेत्।। 49.381 ।।
तत्स्थानं पञ्चगव्याद्यैः शोधयित्वा च मन्त्रवत्।
पुनर्लक्षणसंयुक्तान् प्रमाणसहितान् रमे।। 49.382 ।।
कलशानभिसंस्थाप्य तेषु देवांस्तु पूजयेत्।
अष्टोत्तरशतं वापि ह्यष्टाविंशतिमेव वा।। 49.383 ।।
अष्टौ वापि जपेन्मन्त्री तेषां नामानि पद्मजे।
[समुद्धृतेनाक्रमेण घटेन स्नापयेद्यदि।। 49.384 ।।
द्विषट्काक्षरमन्त्रेण शतवारं हुनेद् गुरुः।
प्रथमावरणाद्यन्तश्चण्डालादि प्रवेशने।। 49.385 ।।
पूजालोपादिके स्नानं कर्मबिम्बे समाचरेत्।
चण्डालसूतकोदक्याः प्रथमावरणाद् बहिः।। 49.386 ।।
प्रवेशे स्नानबिम्बस्य स्नपनं विहितं रमे।
श्रीः-
भगवन् कथ्यतां मह्यं सद्यः संप्रोक्षणक्रमम्।। 49.387 ।।
श्रीभगवान्-
सद्यः संप्रोक्षणविधिं शृणु त्वमनपायिनि।
गोमयेन समालिप्ते मण्डपे धान्यविष्टरे।। 49.388 ।।
स्थापयित्वा महाकुम्भं करकं च मनोहरम्।
प्रोक्षयेत् पुण्यतोयेन ततः पुष्पाङ्कुरं चरेत्।। 49.389 ।।
नोपकुम्भार्चनं द्वारयजनं तद्धटार्चनम्।
पूर्वोक्तवर्त्मना कुम्भे परमात्मानमर्चयेत्।। 49.390 ।।
करके चक्रराजं च प्राक् कुण्डे स्थण्डिलेऽपि वा।
दिव्यानलं प्रतिष्ठाप्य तस्मिन् देवं समर्चयेत्।। 49.391 ।।
मूलनाष्टोत्तरशतं जुहुयात् समिदादिभिः।
प्रत्येकं शान्तिहोमं च हुत्वा पूर्णाहुतिं चरेत्।। 49.392 ।।
विधिवत् कौतुकं बध्वा वेदघोषादिभिः सह।
स्थापितं कुम्भमादाय प्रादक्षिण्येन मन्दिरम्।। 49.393 ।।
नीत्वा देवस्य पुरतो धान्यपीठे निवेश्य च।
पूर्ववत् प्रोक्षणं कृत्वा गुडान्नादि निवेदयेत्।। 49.394 ।।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत्।]
अजाविमहिषाज्यैश्च पश्वन्तरसमुद्भवैः।। 49.395 ।।
दधिक्षीरैस्तथा देवि मासातीतघृतैरपि।
क्षीरयुक्तैश्च दधिभिरशुद्धैर्मधुभिस्तथा।। 49.396 ।।
अगालितैश्च सलिलैस्तथा पर्युषितैरपि।
चण्डालादिस्पृष्ठकूपसलिलैः पल्वलोदकैः।। 49.397 ।।
दुर्गन्धैः शवसंस्पृष्टैरल्पैर्वा महदम्बुभिः।
संस्नापिते तु देवेशे पुनरप्यभिषेचयेत्।। 49.398 ।।
शान्तिहोमं च कुर्वीत द्वादशार्णायुतं जपेत्।
[मोक्ष्यमाणः सदा कुर्याद् धर्मार्थी दिनमध्यमे।। 49.399 ।।
रिपुक्षयार्थी पूर्वाह्णे राजकार्येऽपराह्णके।
दिनान्ते सर्वभोगार्थी प्रायश्चित्ताय सर्वदा।। 49.400 ।।
]
महानदीजलानां च तथा सेतुजलस्य च।
सालग्रावाभिषिक्तस्य पयसः पुष्करस्य च।। 49.401 ।।
मन्त्रवत्कलशस्थानामदिवासैस्तथार्चनैः।
न पुर्यषितदोषोऽस्ति तत्र देवाधिवासनात्।। 49.402 ।।
[आवर्तमित्यनावर्तं पुनरावर्तमेव हि।
प्रोक्षणं त्रिविधं प्रोक्तं तत्तत्कालानुसारतः।। 49.403 ।।
आदौ बालगृहाद्देवं मूलबेरे प्रतिष्ठिते।
तदावर्तमिति ज्ञेयं चण्डालैः पुल्कसादिभिः।। 49.404 ।।
स्पृशेत् पूजा वत्सरान्तं हीना चेत् तत्र कल्पितम्।
अनावर्तभिति प्रोक्तं जीर्णोद्धारक्रियादिषु।। 49.405 ।।
मूलाद् बाले हरिं ध्यात्वा सन्धानानन्तरं विभुम्।
पुनर्मूले स्थापनं तु पुनरावर्तमुच्यते।। 49.406 ।।
तत्तत्कालानुसारेण प्रोक्षणं विधिवच्चरेत्।]
कालान्तरवशात् तेषां बिम्बानामालयस्य च।। 49.407 ।।
वैकल्यं यदि जायेत तत्समाधानमुच्यते।
पूर्वोक्तानां तु बिम्बानां मुख्यामुख्यविभेदतः।। 49.408 ।।
अङ्गानि द्विविधानीह भवन्ति कमलेक्षणे।
चक्षुःशिरःकर्णनासावाग्घनुर्दन्तपङ्क्तयः।। 49.409 ।।
हृदयं च तथा मेढ्रस्थानमङ्गुलयस्तथा।
एतान्यङ्गानि मुख्यानि ह्यमुख्यानीतराणि च।। 49.410 ।।
हिरण्मयानि बिम्बानि राजतानि च तत्र च।
ताम्रादिलोहजातानि तथा शैलमयानि च।। 49.411 ।।
वास्त्राणि वस्त्रमृच्चित्रप्रभवाणि भवन्ति हि।
स्वयंव्यक्तेषु बिम्बेषु सिद्धार्षेषु हरेस्तनौ।। 49.412 ।।
मुख्याङ्गे वा ह्युपाङ्गे वा वैकल्यं यदि जायते।
अवश्यमेव संधानं वस्त्रादिष्वपि कल्पयेत्।। 49.413 ।।
सर्वधातुपरित्यागं स्वयंव्यक्तादि नार्हति।
स्वर्णादिलोहजातेषु मुख्याङ्गमपि भेदितम्।। 49.414 ।।
तत्तद्द्रव्यैस्तु संधाय प्रोक्षणं च समाचरेत्।
शिलामयी वृक्षजाता ह्यर्चा तु विकला भवेत्।। 49.415 ।।
स्वर्णादिपट्टकैरङ्गं समादध्यात् कथंचन।
चित्रमृन्मयवास्त्राणां तत्तद्द्रव्यैस्तु योजयेत्।। 49.416 ।।
स्वयंव्यक्तादिबिम्बानां पूजयन्नेव देशिकः।
बालालयमकृत्वैव समादध्याच्च शिल्पिभिः।। 49.417 ।।
समाधातुं न शक्यं चेत् स्वयंव्यक्तादिकेष्वपि।
बालबिम्बं प्रतिष्ठाप्य तस्मिन्नावाह्य केशवम्।। 49.418 ।।
तत्तल्लोहैस्तदाकारैस्तत्तल्लक्षणसंयुतैः।
कुर्वीत बिम्बं न त्वन्यदाकारं वापि लक्षणम्।। 49.419 ।।
तुरुष्को वापि चण्डालः प्रतिलोमज एव वा।
स्पृशेयुर्यदि बिम्बानि मण्डपादीनि वै रमे।। 49.420 ।।
बालगेहे तु तच्छक्तिमावाह्यार्चां तु पूर्ववत्।
कारयित्वा प्रतिष्ठाप्य पूजयेच्च यथाक्रमम्।। 49.421 ।।
चोरैरपहृतानां वा नदीभिः सिन्धुनापि वा।
अर्चानां बालबिम्बं तु न कुर्याच्छास्त्रवित्तमः।। 49.422 ।।
आवाहितं शक्त्यभावात् कारयेत् प्रतिमां गुरुः।
सर्वदोषविनिर्मुक्ते कृत्वालयमनुत्तमम्।। 49.423 ।।
यथाशास्त्रं प्रतिष्ठाप्य पूजयेत् तत्र देशिकः।
कर्मादिष्वङ्गभङ्गे तु तच्छक्तिं मूलकौतुके।। 49.424 ।।
आवाह्य प्रोक्षयेत्तत्तत्समाधाय गुरूत्तमः।
प्रतिमा चैव तत्पीठं प्रासादो गर्भमन्दिरम्।। 49.425 ।।
विग्रहो देवदेवस्य चतुष्टयमिदं समम्।
समा भवेत्तेषु शान्तिः समाधिश्च समो भवेत्।। 49.426 ।।
स्वर्णादिलोहजं वापि मानुष्यं दारुशैलजम्।
मृन्मयं वा वस्त्रजातं चित्रं वापि वरानने।। 49.427 ।।
स्वर्णादिलोहसंभूतं कथंचिद्योजयेद्रमे।
सर्वथा तु समाधातुं न शक्यं चेत्ततो गुरुः।। 49.428 ।।
तानि बिम्बानि संचिन्त्य नूतनानि च कल्पयेत्।
परित्यक्तं लोहजातं नूतने तु नियोजयेत्।। 49.429 ।।
जीर्णं वा नूतनं वापि मासान्तः कल्पयेद्यदि।
घटे शक्तिं समावाह्य पूजयेत् देशिकोत्तमः।। 49.430 ।।
मासात्परं वत्सरं वा ततो वाप्यधिकं भवेत्।
बालबिम्बं प्रतिष्ठाप्य तस्मिन् संप्रार्थयेद्धरिम्।। 49.431 ।।
[नित्यं नैमित्तिकं काम्यं पवित्राद्युत्सवादिकम्।
बालबिम्बे प्रकुर्वीत न तु कर्मादिषु क्वचित्।। 49.432 ।।
]
अतीतश्चेत् प्रार्थनायाः कालः कमलसंभवे।
पुनः संप्रार्थयेत् तस्मिन् बिम्बे बाले गुरूत्तमः।। 49.433 ।।
शिलामयादिबिम्बानां समाधिश्चेन्न शक्यते।
अल्पं वापि बृहद्बिम्बं मानुष्यं वरवर्णिनि।। 49.434 ।।
अगाधे सलिले वापि भूमौ खात्वा विनिक्षिपेत्।
हरेर्बिम्बे कल्प्यमाने देवीभिः सह कल्पिताः।। 49.435 ।।
न कृताश्चेत् पुरा देव्यो निर्माणे गरुडध्वजे।
पुनः प्रतिष्ठाकाले तु सृष्ट्वा संप्रोक्षयेच्च ताः।। 49.436 ।।
प्राक्स्थितं त्वेकबेरं वा बहुबेरमथापि वा।
जीर्णोद्धारे तथैव स्युर्न तु भेदं समाचरेत्।। 49.437 ।।
शयनादिविभेदोऽपि पुनः सृष्टौ तथा भवेत्।
स्वयंव्यक्तादिबिम्बानां पीठभङ्गो भवेद्यदि।। 49.438 ।।
भग्नं पीठं परित्यज्य पुनरन्यं प्रकल्पयेत्।
यत्किंचित् पीठभङ्गे तु बन्धयेल्लोहपट्टकैः।। 49.439 ।।
बिम्बे वज्रस्य पतने दग्धे वा वह्निना रमे।
न चेद्बिम्बस्य वैकल्यं प्रतिष्ठामेव कारयेत्।। 49.440 ।।
भिन्नाङ्गं चेत्समाधाय प्रतिष्ठामारभेत वै।
इत्थं यदि भवेद् देवि स्वयंव्यक्तादिकेष्वपि।। 49.441 ।।
अङ्गभङ्गं समाधाय प्रोक्षयित्वा तु पूजयेत्।
मानुषे वा स्वयंव्यक्ते संधानं विग्रहे यदि।। 49.442 ।।
संधाय प्रोक्षणं कार्यं न च त्वन्यो विधिर्भवेत्।
नूतनं चेत् प्रतिष्ठैव सर्वबिम्बस्य कारयेत्।। 49.443 ।।
प्रासादमण्डपादीनां जीर्णोद्धार इहोच्यते।
मनुष्यनिर्मिते तत्र प्रासादे त्वकदेशतः।। 49.444 ।।
भग्ने कुम्भस्य पतने विमानस्थाश्च देवताः।
मूलबिम्बस्य पीठे तु समावाह्य ततो गुरुः।। 49.445 ।।
मूलार्चां पूजयन्नेव संदध्याद् गर्भमन्दिरम्।
कृते विमानसंधाने सविमानं रमापतिम्।। 49.446 ।।
संप्रोक्षयेद् यथाशास्त्रं नयनोन्मीलनं विना।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्पयेत्।। 49.447 ।।
तस्मिन् मूलं समावाह्य तत्पीठे सर्वदेवताः।
विमानस्थाः समावाह्य पूजयेद् देशिकोत्तमः।। 49.448 ।।
विमानं शास्त्रवत्कृत्वा पूर्ववद्वा तथान्यवत्।
बिम्बे भग्ने बालगेहं कल्पयित्वा तु पूर्ववत्।। 49.449 ।।
बिम्बमात्रं समाधाय प्रतिष्ठां तत्र कारयेत्।
एवं मण्डपसालानां पाकस्थानस्य वै रमे।। 49.450 ।।
देंवानन्यत्र चावाह्य समाधानं प्रशस्यते।
वार्क्षं वा मृन्मयं वापि प्रासादं पूर्वकल्पितम्।। 49.451 ।।
जीर्णोद्धारे त्विष्टकया शिलया वापि कारयेत्।
मानुषस्य विमानादेर्जीर्णोद्धारस्त्वयं क्रमः।। 49.452 ।।
स्वयंव्यक्तादिके धाम्नि जीर्णोद्धारस्त्वयं क्रमः।
प्रासादस्यैकदेशे तु भग्ने संधानमाचरेत्।। 49.453 ।।
नावाहयेच्च तत्रस्था देवता मूलकौतुके।
विमाने सर्वतो भग्ने मूलबिम्बस्य पीठके।। 49.454 ।।
समावाह्यार्चयन्नेव प्राक्तनैरिष्टकादिभिः।
नूतनैश्चापि संदध्यान्मेलयित्वा शिलादिभिः।। 49.455 ।।
पूर्वं विमानं यद्द्रव्यं शिलाद्यन्यतरं भवेत्।
सलक्षणं वा तद्भिन्नं तादृगेव प्रकल्पयेत्।। 49.456 ।।
एवं बिम्बे विमाने च पाकस्थाने च मण्डपे।
गोपुरे वापि साले वा तथा जीर्णे तु कल्पयेत्।। 49.457 ।।
[देवस्य प्रोक्षणान्ते च प्रासादस्य च पद्मजे।
रजन्यामुत्सवं कुर्यात् परेद्युः स्नपनं तथा।। 49.458 ।।
]
स्वयंव्यक्तस्य मूलस्य सप्रासादस्य पद्मजे।
कथंचिदपि देवस्य संधानं शक्यते न चेत्।। 49.459 ।।
कृत्वा बालगृहं तस्मिन्नावाह्यैव तु बन्धयेत्।
पुरातनं विमानं वा बिम्बं वापि समीकृतम्।। 49.460 ।।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।
संप्रोक्षयेद्यथाशास्त्रं नूतनं यदि वल्लभे।। 49.461 ।।
स्वयंव्यक्तं मानुषं वा तयोः सर्वं यथाविधि।
प्रतिष्ठाकर्म कुर्वीत तयोर्भेदस्तु न क्वचित्।। 49.462 ।।
एवं हि सर्वदेवानां सर्वव्यूहादिरूपिणाम्।
[विष्वक्सेनगणेशानां गरुडद्वाररक्षिणाम्।। 49.463 ।।
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम्।]
सांनिध्यातिशयात् तेषां पूजितानां दिनं प्रति।। 49.464 ।।
जीर्णोद्धारविधिः कार्यः प्रभावाहनजन्मनाम्।
[क्रियासंदेहविषये परस्परविरोधतः।। 49.465 ।।
संज्ञया वा चीटिकया दिष्ट्या वाचा महात्मनाम्।
स्वप्नेन वा निमित्तेन ज्ञात्वा देवस्य पूजनम्।। 49.466 ।।
ततः पूजादिकं कुर्यान्नापचारो भवेद्यथा।
आचार्यो मन्त्रसंपूर्णः क्रियापूर्णास्तु शिल्पिनः।। 49.467 ।।
दाता तु वित्तसंपूर्णो देवसांनिध्यकारणम्।
एते व्यत्यासयुक्ताश्चेत् त्रिकुलं नश्यति ध्रुवम्।। 49.468 ।।
संसारार्णवमग्नानां कर्मपाशानुपेयुषाम्।
हितार्थं सर्वलोकानां त्वया संप्रार्थितेन यत्।। 49.469 ।।
शास्त्रं तुभ्यं मया प्रोक्तं तद्दिव्यतममुच्यते।
जगन्मूलं वासुदेवं मुख्यतः प्रत्यपादयत्।। 49.470 ।।
तच्छास्त्रं मूलवेदाख्यमित्यपि प्रोच्यते बुधैः।
अध्येतृभेदमाश्रित्य शास्त्रमेतत् त्रिधा रमे।। 49.471 ।।
सात्त्वतं पौष्करं चैव जयाख्यं च भविष्यति।
अथैताः संहिता दिव्याः वदिष्यन्ति विपश्चितः।। 49.472 ।।
ततस्तु प्रभविष्यन्ति सात्त्विकाद्याश्च संहिताः।
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारादिके रमे।। 49.473 ।।
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा।
न तु द्रव्यान्तरं चैव भट्टाचार्यान्तरं तथा।। 49.474 ।।
तन्त्रान्तरं न कुर्वीत न च कुर्यात् क्रियान्तरम्।
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च।। 49.475 ।।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः।
तथैव यावत् कालं स्यादर्चितव्यं न चान्यथा।। 49.476 ।।
विपरीते कृते चात्र राजा राष्ट्रं विनश्यति।
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक्प्रकारतः।। 49.477 ।।
तस्मात् सिद्धान्तसांकर्यं नार्चितव्यं कृतात्मभिः।
राष्ट्रक्षोभादिना वापि गुर्वलाभादिना रमे।। 49.478 ।।
पूजाहीने मानुषे च राक्षसे चासुरे तथा।
तदा ह्युत्कृष्टशास्त्रोक्तमार्गेणैव सुपूजयेत्।। 49.479 ।।
तामसेन तु मार्गेण यत्र पूजादि वर्तते।
तत्रापि राजसेनैव पूजाद्यं सिद्धिदं भवेत्।। 49.480 ।।
राजसेन तु पूजादि वर्तते यत्र नित्यशः।
तत्रापि सात्त्विकेनैव पूजादि शुभदं सदा।। 49.481 ।।
सात्त्विकेन तु पूजादि वर्तते यत्र नित्यशः।
तत्र दिव्येन पूजादि सर्वदा क्षेमदं नृणाम्।। 49.482 ।।
यत्र दिव्येन मार्गेण पूजाद्यं वर्तते विभोः।
तत्र दिव्यतमेनैव पूजाद्यं भुक्तिमुक्तिदम्।। 49.483 ।।
तस्मात् सर्वप्रयत्नेन विपरीतं तु नाचरेत्।
पूजा दिव्यतमेनैव स्वयंव्यक्तादिके चरेत्।। 49.484 ।।
]
बिम्बादीनां च धामादेरङ्गभङ्गे ह्युपस्थिते।
आचार्यस्त्वनुतापार्तो वर्णचक्रं लिखेत् पुरा।। 49.485 ।।
तत्पूजयित्वा विधिवद्यावद्देवस्तु पूर्ववत्।
उत्पाद्यते तावदेव ब्रह्मचर्यव्रतं चरन्।। 49.486 ।।
तस्मात् स्वमन्त्रमुद्धृत्य नित्यं प्रातः समाहितः।
जपं कुर्यादयुतसंख्य द्विसहस्रं च होमयेत्।। 49.487 ।।
चतुःस्थानार्चनं कुर्यात् ब्राह्मणानपि भोजयेत्।
वेदान् वा देवमेकं च पठेयुर्नियमान्विताः।। 49.488 ।।
Chapter - 50
+++
+++
।। पञ्चाशोऽध्यायः ।।
श्रीः-
वर्णचक्रं कथं लेख्यं वर्णोद्धारस्य किं फलम्।
भगवान्-
शृणु वर्णाध्वनो रीतिमाद्यां कमलसंभवे।। 50.1 ।।
प्राप्नोति यत्परिज्ञानात् साधको मत्स्वरूपताम्।
वेद्यवेदकनिर्मुक्तमच्युतं यत्परं पदम्।। 50.2 ।।
अनस्तमितभारूपं सर्वाभिन्नमहंपदम्।
तद्गता शक्तिराद्या सा चोदिता च सदा भवेत्।। 50.3 ।।
अनस्तमितभारूपा वेद्यवेदकवर्जिता।
सा शक्तिः क्षुभितैकांशा वर्णरूपेण वर्तते।। 50.4 ।।
शब्दब्रह्मस्वरूपेण स्वशक्त्या स्वयमेव हि।
मुक्तये किल जीवानामुदितं परमेश्वरात्।। 50.5 ।।
तदव्यक्ताक्षरं विद्धि तन्त्रीकण्ठो यथा कलः।
पृथग्वर्णात्मतां याति स्थितयेऽनेकधा स तु।। 50.6 ।।
सूक्ष्मवर्णस्वरूपेण धारासंतानवर्णभाक्।
पञ्चाध्वकोशमुक्तस्य मन्निष्ठस्य विशेषतः।। 50.7 ।।
सोऽनुभूतिपदं याति प्रसादान्मम वल्लभे।
मच्चातुरात्मनिचयो विज्ञेयो हितमात्मना।। 50.8 ।।
प्रभवाप्यययोगेन भारूपध्वनिलक्षणः।
सकारान्तस्त्वकाराच्च हकारादान्त एव च।। 50.9 ।।
प्रभवे द्वादशानतस्तु हकारश्चतुरात्मना।
अकारस्वप्यये चौतौ द्वादशान्तावुभौ समौ।। 50.10 ।।
वर्णव्यूहसमूहेऽस्मिन् ज्ञेयं ज्ञानसमाधिना।
विश्राम उदयो व्याप्तिर्व्यक्तिराड् वासुदेवतः।। 50.11 ।।
अत्रैकैकोपरि ज्ञेया मूर्तिश्चेत्येवमेव हि।
युक्ता विश्रामपूर्वेण चतुष्केण समासतः।। 50.12 ।।
विश्रामं चिन्तयेद् देवं वासुदेवं सनातनम्।
संकर्षणादितत्त्वानि विश्राम्यन्ति लयेऽत्र हि।। 50.13 ।।
ततः संकर्षणं देवमाकारमुदयं स्मरेत्।
उदितो हि स सर्वात्मा प्रथमं सर्वकृत्स्वयम्।। 50.14 ।।
व्याप्तं प्रद्युम्नदेवं तमिकारं परिचिन्तयेत्।
विविधं प्राप्यते तेन त्रयी कर्मात्मना जगत्।। 50.15 ।।
अनिरुद्धं व्यक्तिरूपमिकारं तमनुस्मरेत्।
व्यज्यते शक्तयो ह्यत्र जगत्सृष्ट्यादयोऽखिलाः।। 50.16 ।।
दण्डवत्संनिवेशेन संस्थिता ह्येवमेव हि।
आसकाराच्चतूरूपा युक्ता मे चतुरात्मना।। 50.17 ।।
स्मरेत् प्रभवचिन्तायां हकारं द्वादशान्तकम्।
सकारं वासुदेवं तु विश्रामं परिचिन्तयेत्।। 50.18 ।।
संकर्षणं सकारान्तमुदयं त्वप्यये स्मरेत्।
एवमाकारतो दिव्यां विचन्तयेच्चतुरात्मताम्।। 50.19 ।।
द्विषट्कं धारणानां च द्वादशाध्यात्मलक्षणम्।
सोपानभूतं यत्क्रान्त्वा द्वादशान्ताद्विशेत्परम्।। 50.20 ।।
एषा सा प्रथमा रीतिर्वर्णमार्गस्य दर्शिता।
सूक्ष्मा सच्चातुरात्मीया भारूपा यन्मयी परा।। 50.21 ।।
मध्यमा पूर्वमेवोक्ता विशेषं तत्र मे शृणु।
धारणापूर्वमुक्तायाश्चतस्रो मत्स्वरूपजाः।। 50.22 ।।
वकाराख्यानिरुद्धस्य शक्तिः सा रागसंज्ञिका।
माया नाम महालक्ष्मीर्लकारापरनामिका।। 50.23 ।।
विद्याया रेफसंज्ञाया महावाणी तु सा स्मृता।
वातसंज्ञा महाकाली क्रियाशक्तिर्यसंज्ञिका।। 50.24 ।।
ब्रह्माद्या मूर्तयस्तिस्रः तत्पत्न्यो वादयश्च याः।
तत्सर्वं सकलं सूक्ष्ममकारस्यादिमेऽशके।। 50.25 ।।
मध्यमे भोक्तृकूटस्थपुरुषोंऽशे प्रतिष्ठितः।
[संसारिपुरुषः सर्वश्चरमेंऽशे प्रतिष्ठितः।। 50.26 ।।
]
एषा ते मध्यमा रीतिर्वर्णमार्गस्य दर्शिता।
चरमामथ वक्ष्यामि रीतिं कमलसंभवे।। 50.27 ।।
वैखरी चरमा रीतिः पयत्नस्थानभेदिनी।
व्यक्तवाचां समुच्चारे सा स्फुटीभवति ध्रुवम्।। 50.28 ।।
जीवानां देहबद्धानां तत्तत्सन्मार्गदर्शिका।
मातृका जायते सेयं विष्णुशक्त्युपबृंहिता।। 50.29 ।।
विष्णुवत्तत्र पञ्चात्मशक्तयः परिकीर्तिताः।
अधितिष्ठन्ति ये यां च मातृकां वर्णमालिनीम्।। 50.30 ।।
वासुदेवादयो व्यूहा दश द्वौ केशवादयः।
श्रीः-
संज्ञाभेदं विना वर्णानुद्धरेयुः कथं हरे।। 50.31 ।।
अतः संज्ञां च भेदं च शक्तिं च प्रथमं वद।
श्रीभगवान्-
उद्गीथश्छन्दसामादिः प्रणवस्तारकस्तथा।। 50.32 ।।
ब्रह्मकोशस्तारनामा व्यापी ओंकार ईरितः।
अकारश्चाप्रमेयश्च व्यापको धृष्टसंज्ञिकः।। 50.33 ।।
आकार आदिदेवश्च आनन्दो गोपनः स्मृतः।
इकारो रामनामायं मायाबन्धुस्त्रिलोचनः।। 50.34 ।।
ईकारः पञ्चबिन्दुर्वै महामायो मनोभवः।
उकारो भुवनाख्यश्च उद्दाम उदयः स्मृतः।। 50.35 ।।
ऊकार ऊर्जो लोकेशो विश्वरूपो गुहाशयः।
ऋकारो विष्टराख्यश्च सुखदो लोकनायकः।। 50.36 ।।
ऋकारः पीठनामा स्याद्योगिनागपतिस्तथा।
लृकारो विश्वमूर्तिश्च महेशश्छिन्नसंशयः।। 50.37 ।।
लृकारो भूतभव्यः स्याद् देवदत्तस्तथा विराट्।
एकारः सात्त्वतस्त्र्यश्रो जगद्योनिरविग्रहः।। 50.38 ।।
ऐकारो वीरसेनः स्याद् दमनो गोधनः स्मृतः।
ओकारो भूषणो भूतिरोतदेवश्च विग्रमी।। 50.39 ।।
औकारः औषधः प्रोक्तस्त्रयी विश्वावसुर्हरिः।
अंकारः कपिलाक्षः स्याद् व्योमः पीताम्बरः स्मृतः।। 50.40 ।।
अःकारः सर्ववित् सांख्यो विसर्गः सृष्टिकृत्तथा।
ककारः कमलो ब्रह्मा शङ्खी च प्रकृतिस्तथा।। 50.41 ।।
खकारः खर्वदेवश्च चक्री गरुडवाहनः।
गकारः पद्मपाणिश्च गदध्वंसी गदाधरः।। 50.42 ।।
घकारः शार्ङ्गधारी स्याद् धर्मांशुर्दीप्तिमान् रविः।
ङकार एकदंष्ट्रश्च वक्रतुण्डश्च खड्गधृक्।। 50.43 ।।
चकारश्चञ्चलश्चन्द्रः कुण्डली च तमोपहा।
छकारश्छलविध्वंसी मुसली जन्महा गुरुः।। 50.44 ।।
जकारो जन्महन्ता च जितक्रोधश्च शाश्वतः।
झकारः सामवेदात्मा सुवर्णो झषसंज्ञिकः।। 50.45 ।।
ञकारश्चन्द्रधवलः पाशपाणिर्भृगूत्तमः।
टकारो हृदयाह्लादी खेटकी पर्वतोधरः।। 50.46 ।।
ठकारः कौस्तुभो मेधी तोमरो दुःसहः स्मृतः।
डकारः पुण्डरीकाक्षो मौसलोऽखण्डविक्रमः।। 50.47 ।।
ठकारः पुष्पभद्रश्च वृषकर्मा प्रतर्दनः।
णकारो वनमाली च शास्ता वैकुण्ठपालकः।। 50.48 ।।
तकारस्ताललक्ष्मा च वैराजः स्रग्धरः स्मृतः।
थकारः सर्वरोधश्च धन्वी भुवनपालकः।। 50.49 ।।
दकारो दमनो दान्तः अत्रिश्च त्रिपुरान्तकः।
धकारो धनदः पुण्यः सुभगो मोहनाशनः।। 50.50 ।।
नकारो भद्रपाणिश्च रोधनो नन्दकस्तथा।
पकारः पद्मनेत्रश्च पवित्रः पश्चिमाननः।। 50.51 ।।
फकारः फुल्लनयनः शिखण्डी श्वेतवाहनः।
बकारो निमिषो ह्रस्वो मतिमान् कालनेमिजित्।। 50.52 ।।
भकारो ज्ञेयसिद्धिश्च सुभद्रः सूक्ष्मदर्शनः।
मकारो मन्दरः कालो माधवीपाटलप्रियः।। 50.53 ।।
यकारो वायुबीजं च सूक्ष्मः शङ्खश्चतुर्गतिः।
रेफोऽनलो महाज्वालो विश्वात्मा सर्वदाहकः।। 50.54 ।।
लकारो विबुधाख्यश्च माहेन्द्रस्तु धनेश्वरः।
वकारस्त्वमृतासारो वरुणश्च सुधाकरः।। 50.55 ।।
शकारः शुभदो लक्ष्मीः श्रीवत्सः ककुभः स्मृतः।
षकारः क्रोधनः शङ्कुरग्निरूपश्च भास्करः।। 50.56 ।।
सकारस्त्वमृतस्तृप्तः सोमश्च द्वादशात्मकः।
हकारः परमात्मा च प्राणः सत्यस्तु कण्ठतः।। 50.57 ।।
क्षकारस्तु नृसिंहः स्याद् ब्रह्मण्योऽन्त्याक्षरः स्मृतः।
लकारो डुण्डुभो भर्गो विष्कम्भो विमलस्तनुः।। 50.58 ।।
अतः परं दैवतानि शक्तीश्चापि वदाम्यहम्।
वासुदेवादियतुरो दश द्वौ केशवादयः।। 50.59 ।।
एते षोडश देवाश्च स्वराधिष्ठायिनो रमे।
लक्ष्मीः कीर्तिर्जया माया व्यूहानां शक्तयः स्मृताः।। 50.60 ।।
श्रीश्च वागीश्वरी कान्तिः क्रियाशक्तिविभूतयः।
इच्छा प्रीति रतिश्चैव माया धीर्महिमेति च।। 50.61 ।।
एतास्तु केशवादीनां शक्तयः परिकीर्तिताः।
काद्यधिष्ठायिनो देवानन् गदतो मे शृणु प्रिये।। 50.62 ।।
पद्मनाभो ध्रुवोऽनन्तो शक्त्यात्मा मधुसूदनः।
विद्याधिदेवः कपिलो विश्वरूपो विहंगमः।। 50.63 ।।
क्रोडात्मा बडबावक्त्रो धर्मो वागीश्वरस्तथा।
एकार्णवशयो देवः कूर्मः पातालधारकः।। 50.64 ।।
वराहो नरसिंहश्च त्वमृताहरणस्तथा।
श्रीपतिर्दिव्यदेहश्च कान्तात्मामृतधारकः।। 50.65 ।।
राहुजित्कालनेमिघ्नः पारिजातापहारकः।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः।। 50.66 ।।
न्यग्रोधशायी भगवानेकशृङ्गतनुस्ततः।
देवो वामनरूपस्तु सर्वव्यापी त्रिविक्रमः।। 50.67 ।।
नरो नारायणश्चैव हरिः कृष्णस्तथा परः।
ज्वलत्परशुधृद्रामो रामश्चान्यो धनुर्धरः।। 50.68 ।।
वेदविद्भगवान् कल्की पातालशयनः प्रभुः।
एतेष्वन्ये च चत्वारो देवा रामादयो हि ये।। 50.69 ।।
एतौ रङ्गमयौ जिह्वामूलीयोपध्मानीययोः।
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथेतरा।। 50.70 ।।
सांख्या विश्वा खगा भूर्गौर्लक्ष्मी वागीश्वरी तथा।
अमृता धारिणी च्छाया नारसिंही सुधा तथा।। 50.71 ।।
श्रीः कीर्तिर्विश्वनामा च सत्या कान्तिः सरोरुहा।
माया पद्मासना खर्वा विक्रान्तिर्नीरसंभवा।। 50.72 ।।
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा।
वैदेही वेदविद्या च पद्मिनी नागयायिनी।। 50.73 ।।
त्वदंशका इमे देव्यो विज्ञेयाः कादिशक्तयः।
एवं सर्वे सुरा देवीर्मातृकाः पर्युपासते।। 50.74 ।।
Chapter - 51
+++
+++
।। एकपञ्चाशोऽध्यायः ।।
बीजपिण्डादिभेदेन मन्त्रश्चत्वार ईरित।
मन्त्रस्वरूपं च रमे तव वक्ष्यामि सुव्रते।। 51.1 ।।
शब्दब्रह्मविवर्तोऽयं किरणायुतसंयुतः।
चिल्लक्षणः षड्गुणात्मा तस्य भेदश्चतुर्विधः।। 51.2 ।।
क्वचिद् बीजं क्वचित्पिण्डं क्विचित्संज्ञा क्वचित्पदम्।
तुर्यं सुषुप्तिस्वप्नं च जाग्रद्बीजादयः क्रमात्।। 51.3 ।।
एकस्वरं द्विस्वरं वा स्वरव्यञ्जनयोर्द्वयम्।
बीजं बहुस्वरं वापि विज्ञेयं कमलेक्षणे।। 51.4 ।।
अन्तराहुरयःपिण्डं क्वचित् स्वरसमायुतम्।
तत्तद्वाच्याभिधा संज्ञा नमःप्रणवसंयुताः।। 51.5 ।।
क्रियाकारकसंयोगस्तुतिसंबोधलक्षणः।
नानाभिज्ञासमायुक्तः पदात्मा मन्त्र उच्यते।। 51.6 ।।
एतच्चतुष्टयं मन्त्रं संपूर्णं देवतात्मनि।
सा चतुष्टयसंबन्धा सिद्धिमिष्टां प्रयच्छति।। 51.7 ।।
क्षेत्रं क्षेत्रज्ञभावं च मन्त्राणां कमलासने।
विज्ञाय तत्त्वतो मन्त्रान् प्रयुञ्जीत विचक्षणः।। 51.8 ।।
श्रीः-
क्षेत्रं क्षेत्रज्ञसद्भावं मन्त्राणां वद मे प्रभो।
यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।। 51.9 ।।
भगवान्-
[बीजं बीजवतां जीवः शिष्टं क्षेत्रं प्रकीर्तितम्।]
यद्विज्ञाय न मुह्यन्ति सिद्धिमेष्यन्ति चाचिरात्।। 51.10 ।।
तत्सर्वं विस्तरेणाद्य वदामि कमलालये।
बीजं बीजवतां जीवः शिष्टं क्षेत्रमुदाहृतम्।। 51.11 ।।
निर्बीजानां बीजमादिः क्षेत्रमन्यत् प्रकीर्तितम्।
बीजानां चैव पिण्डानामस्तु क्षेत्रज्ञ उच्यते।। 51.12 ।।
शिष्टं तु क्षेत्रमुद्दिष्टमकाररहिते पुनः।
जीवः स्यात् प्रथमा मात्रा द्वितीयादि तनुर्भवेत्।। 51.13 ।।
एकमात्रे तु जीवः स्यात् संस्कारो भूतलक्षणः।
उच्चार्यमाणं क्षेत्रं स्यान्निःस्वरे पिण्डके पुनः।। 51.14 ।।
प्रथमो जीव उद्दिष्टः शेषं क्षेत्रं प्रचक्षते।
क्षेत्रक्षेत्रज्ञसद्भाव एष ते संप्रदर्शितः।। 51.15 ।।
आदौ मध्ये तथान्ते च त्रिषु वान्यतरस्य वा।
येषां पिण्डोऽथवा बीजं ते मन्त्राः सार्वकालिकाः।। 51.16 ।।
बीजाभावे तु मन्त्राणां बीजं कृत्वादिमाक्षरम्।
अनुस्वारयुतं पश्चात् सकलं मन्त्रमुच्यते।। 51.17 ।।
एवं मन्त्राध्वनो रीतिं ज्ञात्वा यस्तु निषेवते।
प्रक्रीडयन्ति पुरुषं मन्त्रा रागेण रञ्जितम्।। 51.18 ।।
चतुर्दशविभागस्थे प्राकृते भूवनाध्वनि।
तुर्यवर्जं सुषुप्त्याद्ये प्राकृते चपलाध्वनि।। 51.19 ।।
आचार्यदृष्टिपातस्थं पुरुषं संयतेन्द्रियम्।
प्रसादसुमुखा मन्त्राः उत्तार्य भुवनाध्वनः।। 51.20 ।।
पदाध्वनश्च वैराग्यं जनयन्ति पदे पदे।
क्रमात् तत्त्वकलावर्णपदवीषु नयन्ति तम्।। 51.21 ।।
मात्रं प्रसादमासाद्य निर्धूताशेषबन्धनः।
श्रीविष्णोः पदमासाद्य मोदन्ते नित्यसूरिवत्।। 51.22 ।।
उपासनक्रमं त्वित्थं शास्त्रेषु परिकीर्तितम्।
जितेन्द्रियो जितक्रोधो योगशास्त्रविचक्षणः।। 51.23 ।।
नित्यकर्मादिसहितो लोभमोहविवर्जितः।
गुरुशुश्रूषणरतो भगवत्पूजने तथा।। 51.24 ।।
वर्तमानः स्वयं धीमान् ब्राह्मणो वेदवित्तमः।
गुरोस्तु पाञ्चरात्रज्ञात् पञ्चकालपरायणात्।। 51.25 ।।
सिद्धमन्त्राद् विष्णुभक्तात् प्रथमं वैष्णवः स्वयम्।
वर्णाध्वानं देवताश्च मन्त्राणां बीजमेव च।। 51.26 ।।
अधीत्याधिगमाद् देवि शुद्धे शल्यविवर्जिते।
शुचौ देशे गोमयेन लिप्ते धूपेन धूपिते।। 51.27 ।।
[पञ्चगव्येन संसिच्य चन्दनाद्यनुलेपिते।]
भुवस्स्थले धूपदीपपुष्पैः स्वेष्टां च देवताम्।। 51.28 ।।
पूजयेत् प्रथमं मन्त्री गन्धधूपादिवासिताम्।
गमृदं तत्र प्रसार्याथ गन्धधूपादिवासितम्।। 51.29 ।।
चतुरश्रं सुवृत्तं वा द्विहस्तं हस्तमेव वा।
सुसमं मातृकापीठं कृत्वा प्रस्तारयेंत्तु तम्।। 51.30 ।।
एकैव भिन्नवर्णा या देवी षोडशरूपिणी।
मन्त्राणां जननी साक्षात् तव मन्त्रमयी तनुः।। 51.31 ।।
पद्माकारेण वा मन्त्री चक्राकारेण वा स्तरेत्।
पौरुषे चक्ररूपं तु पद्मं स्त्रीत्वे लिखेत् क्रमात्।। 51.32 ।।
प्रोक्ष्य चक्रं विधातव्यं षोडशारपरिष्कृतम्।
नाभिनेमिसमायुक्तं चन्दनक्षोदरेखया।। 51.33 ।।
तन्मध्ये छन्दसामादिररभूषु स्वरास्तथा।
स्पर्शाक्षरं नाभिदेशे नेमिदेशे च यादयः।। 51.34 ।।
एवं न्यस्तेषु वर्णेषु द्वादशाक्षरविद्यया।
श्रीमन्त्रेणाथवा देवि पूजयेच्च यथाक्रमम्।। 51.35 ।।
ततस्तत्कर्णिकामध्ये चिन्तयेद् वर्णमातृकाम्।
अनादिनिधनां देवीं शब्दब्रह्मस्वरूपिणीम्।। 51.36 ।।
पाशाङ्कुशधरां देवीं पद्मिनीं पद्ममालिनीम्।
प्रसन्नां पद्मगर्भाभां सर्वलोकैकजीविकाम्।। 51.37 ।।
वर्णप्रक्लृप्तावयवां वर्णालंकारभूषिताम्।
शब्दब्रहमतनुं विद्यात् प्रणवं तु शिरः स्मृतम्।। 51.38 ।।
अआ इति भ्रुवो विद्यादिईस्तश्चक्षुषी उभे।
उऊकर्णौ ऋॠनासे कपोलौ स्त लृलॄ रमे।। 51.39 ।।
एऐ ओष्ठौ तु जानीयादो औ दशनपङ्क्तिकाम्।
अंजिह्वामः समुच्चारं कचवर्गौ करौ स्मरेत्।। 51.40 ।।
तटवर्गौ पदौ विद्यात् पफौ पार्श्वे स्मरेत् सुधीः।
बभौ पश्चात् पुरोभागौ नाभिं मं परिचिन्तयेत्।। 51.41 ।।
प्राणोष्माणौ यरौ विद्याल्लं हारं कवयो विदुः।
वकारं कटिसूत्रं तु कण्ठगे तु शषौ स्मरेत्।। 51.42 ।।
सकारं हृदयं विद्याद्धृदयस्थं तु हं स्मरेत्।
प्रसरन्तीं प्रभां विद्यात् क्षकारं विद्युदुज्ज्वलाम्।। 51.43 ।।
रङ्गं नासाग्रगं विद्याद्यमाख्यं हृदये स्मरेत्।
जिह्वामूलीयमेतस्या जिह्वामूलमुदाहृतम्।। 51.44 ।।
ओष्ठयोश्च द्वयोः स्थानमुपध्मानीयमीरितम्।
एवं वर्णमयैः पद्मैः कण्ठपादान्तमालिनीम्।। 51.45 ।।
वनमालां स्मरन्मन्त्रीमातृकां मन्त्रदेवताम्।
पूजयेदर्घ्यपाद्याद्यैरों नमो मन्त्रमातृके।। 51.46 ।।
इदमर्घ्यं गृहाणेति भोगैरेवमनुक्रमात्।
ततः कृताञ्जलिः प्रह्वः प्रणम्याष्टाङ्गवद् भुवि।। 51.47 ।।
पद्माक्षि पद्मनाभस्य प्रिये सर्वस्य मातृके।
व्याकुरु त्वं परं मन्त्रसिद्धिं च तदनन्तरम्।। 51.48 ।।
प्रार्थ्यैवं प्रयतो मन्त्री वर्णन्यासं स्वयं चरेत्।
उद्धरेदीप्सितं मन्त्रं ध्यायन्नारायणं प्रभुम्।। 51.49 ।।
तत्र किंचिद् विशेषोऽस्ति तद्वदामि निबोध मे।
यावतो यस्य वर्णस्य नक्षत्रं राशिमेव च।। 51.50 ।।
आद्यं विना स्वरं वर्णावाद्यावश्वयुजौ स्मृतौ।
इकारस्यापि भरणी कृत्तिकात्रयमुत्तरम्।। 51.51 ।।
चतुष्टयमृकारादि रोहिण्य्कमथो मृगौ।
रौद्रमप्येकमेव स्यात् पुनर्वस्वोर्द्वयं मतम्।। 51.52 ।।
द्वयमेवाथवा पौष्ण्यमाद्यन्ता वा मतान्तरे।
कादिषु प्रथमं पुष्यद्वयं सार्पद्वयं मखा।। 51.53 ।।
एकमर्यमणं युग्मं भर्गदैवतमुच्यते।
युग्ममेव च सावित्रं द्वयमिन्द्रादिदैवतम्।। 51.54 ।।
एकं निष्ठ्या विशाखे द्वे त्रयं मैत्रमनन्तरम्।
ऐन्द्रमेकं त्रयं मूलं पूर्वमाषाढमेककम्।। 51.55 ।।
आषाढमुत्तरं चैकमेकमेवाभिजिन्मतम्।
द्वयं वैष्णवमेकं तु श्रविष्ठाशततारकम्।। 51.56 ।।
एकमेव त्रयं शादिवर्णः स्यादज एकपात्।
अहिर्बुध्नियस्त्रयो वर्णा इति वर्णेषु तारकाः।। 51.57 ।।
आदौ चतुष्टयं मेषो वर्णानामृषभस्तथा।
तथैव मिथुनं युग्मं कुलीरं मृगराट् तथा।। 51.58 ।।
शिष्टद्वयं शादयस्तु कन्या कोः प्रथमा तुला।
चवर्गो वृश्चिकश्चापः टवर्गः सद्भिरुच्यते।। 51.59 ।।
तवर्गो मकरः कुम्भः पवर्गोऽन्त्यस्य यादयः।
नक्षत्रं यत्साधकस्य मन्त्रस्याद्यक्षरस्य यत्।। 51.60 ।।
नरनार्योरिव तयोर्योगायोगौ परीक्षयेत्।
चतुष्पदं लिखित्वोर्व्यां तत्राकारादि निक्षिपेत्।। 51.61 ।।
यस्मिन् पदे साधकस्य नामवर्णलिपिर्भवेत्।
तत्रैव चेद्भवेन्मन्त्रस्याद्यवर्णमवस्थितम्।। 51.62 ।।
तत्सिद्धं स्याद् द्वितीये तु साध्यं विद्यादनन्तरम्।
पदे सिद्धं तुरीये तु वैपरीत्यं भवेद् ध्रुवम्।। 51.63 ।।
सिद्धे सिद्धं जपाद्यैस्तु साध्ये साध्यं सुसिद्धके।
अधीतमात्रे महते फलाय भवति ध्रुवम्।। 51.64 ।।
पदे तु वैरिणः स्याच्चेल्लिपिरध्येतृनाशनम्।
आनुगुण्यं परीक्षेत् निमित्तानि परीक्ष्य च।। 51.65 ।।
साधकः साधयेन्मन्त्रं समस्तनियमैर्युतः।
चतुर्षु मूलमन्त्रेषु न योगं तु परीक्षयेत्।। 51.66 ।।
तारमष्टाक्षरं चैव द्वादशाक्षरमेव च।
द्वयं चेति चतुर्णां तु मन्त्राणामधिकारिणः।। 51.67 ।।
सर्वे भवन्ति नास्त्येषां शत्रुत्वं कमलेक्षणे।
स्त्रीपुंनपुंसकमिति मन्त्रलिङ्गास्त्रिधा मताः।। 51.68 ।।
संस्त्यानमन्त्राः स्वाहान्ता नमोऽन्तास्तु नपुंसकाः।
शेषाः पुरुषमन्त्राः स्युरित्थं मन्त्रस्य रीतयः।। 51.69 ।।
उच्चाटने च वश्ये च विद्विषे क्षुद्रकर्मणि।
स्त्रियः प्रशस्ताः पुंलिङ्गमन्त्राः स्युः कार्यसाधने।। 51.70 ।।
फडन्ता मरणाद्यर्थे शस्ता भूताद्युपद्रवे।
हुंकारान्ताः प्रशस्यन्ते वौषडन्तास्तु ते पुनः।। 51.71 ।।
आप्यायने नियुज्यन्ते धर्मकामार्थसिद्धिषु।
चतुर्थ्यन्ताः प्रशस्यन्ते ओमन्ताः सर्वसिद्धिषु।। 51.72 ।।
मननं सर्वसत्त्वानां त्राणं संसारसागरात्।
मननत्राणसंयोगान्मन्त्र इत्युच्यते बुधैः।। 51.73 ।।
अथवा गोपनीयत्वाद्धेतोर्मन्त्र इति स्मृतः।
रःप्रत्ययान्तः पुंलिङ्गस्तथायं लोकवेदयोः।। 51.74 ।।
मन्त्रिदातोस्तु शास्त्रेण अनुस्वारविधिः कृतः।
मन्त्रेण स्थाप्यते देवो मन्त्रेणैव विसृज्यते।। 51.75 ।।
ज्ञानानां तत्परं ज्ञानं मन्त्रज्ञानं विदुर्बुधाः।
ऐहिकामुष्मिकं सर्वं मन्त्रेणैव प्रसिध्यति।। 51.76 ।।
छन्दो मन्त्राक्षरे यद्वद्दर्शनादृषिरुच्यते।
दर्शनं च फलस्याहुर्न पुनर्मन्त्रदर्शनम्।। 51.77 ।।
देवता मन्त्रफलदा मन्त्रेण प्रतिपादिताः।
योगाध्यायोक्तविधिना सर्वकामविवर्जितः।। 51.78 ।।
त्रिसंध्यं स्नाननिरतो जपेन्मन्त्रमनुत्तमम्।
यावदुक्तं कृतयुगे त्रेतायां द्विगुणं भवेत्।। 51.79 ।।
द्वापरे त्रिगुणं प्रोक्तं कलौ मन्त्रं चतुर्गुणम्।
अभ्यस्य फलमाप्नोति गुर्वनुग्रहतस्तथा।। 51.80 ।।
द्वादशाक्षरमन्यं वा जपेदक्षरलक्षकम्।
तदर्धं जुहुयादग्नौ होमशालां प्रकल्प्य च।। 51.81 ।।
योनिमन्मृत्स्नया देवि वृत्तं वा चतुरश्रकम्।
सहस्रहोमे त्वेकः स्याद्धस्तस्त्वेकैककोणकः।। 51.82 ।।
द्विहस्तं नियुते कुण्डं त्रिहस्तं प्रयुते तथा।
शङ्कुहोमे चतुर्हस्तं महाशङ्कौ तु षट्ककम्।। 51.83 ।।
बृन्दे हुतौ सप्तहस्तं महाबृन्देऽष्टहस्तकम्।
इतोऽधिकाहुतिविधौ तत्तत्संख्यानुसारतः।। 51.84 ।।
यावच्चतुर्विंशतिकरस्तावत्कुण्डं प्रकल्पयेत्।
यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका।। 51.85 ।।
यत्राल्पज्वलनं नेत्रं यत्र भस्मसु तच्छिरः।
यत्र सम्यक्स्थिता दर्भास्तत्र केशाः प्रकीर्तिताः।। 51.86 ।।
यत्र प्रज्वलितो वह्निः सा जिह्वा तस्य वै रमे।
अग्नेः शिरसि होमश्चेत् पापं केशे दरिद्रता।। 51.87 ।।
चक्षुषोर्निधनं भद्रे कर्णयो रोगसंभवः।
नासिकायां मनोव्यधिर्जिह्वायां सर्वसिद्धिदः।। 51.88 ।।
आरण्यं मणिजं लौहं कुण्डमध्ये परिष्कृते।
निवेश्याग्निं होममुख्यैः संपाद्याग्नेस्तु वैष्णवम्।। 51.89 ।।
अग्निमध्ये कल्पयित्वा योगासनमथो हरिम्।
आवाह्य तत्र होमान्तं संनिधिं प्रार्थयेद् विभुम्।। 51.90 ।।
यं यं मन्त्रं जपेन्मन्त्री तं तं मन्त्रं समुच्चरन्।
देवतां मनसा ध्यात्वा चतुर्थ्यन्तमुदीरयन्।। 51.91 ।।
स्वाहाद्यन्तेन जुहुयात् नियमेन समाहितः।
होमं कुर्यात् प्रतिदिनमग्निं रक्षेदतन्द्रितः।। 51.92 ।।
न दहेत् परिधीन् दर्भानुपस्तीर्णान् यथाविधि।
उक्तेनैतेन मार्गेण जपतो मन्त्रिणो रमे।। 51.93 ।।
संभवन्ति हि वै स्वप्ना मन्त्रसिद्धिप्रदा अपि।
आचार्यं प्रतिमां देवीं पूजोपकरणानि च।। 51.94 ।।
विप्रं भागवतं भूपं छत्रचामरदन्तिनः।
सिंहासनं पूर्णकुम्भं गावः कन्या वधूधनम्।। 51.95 ।।
दीपं शङ्खं तथा यानं श्रीवत्सं चन्दनं तथा।
श्वेतवस्त्रं माल्यभूषा श्वेतच्छत्रं तथैव च।। 51.96 ।।
रत्नानि काहलादीनि वाद्यानि मधुसर्पिषी।
भूमिलाभं महानद्या दर्शनं सागरस्य च।। 51.97 ।।
उदङ्मुखः प्राङ्मुखो वा यात्रां कुर्वन् स्वयं यदि।
विमानदर्शनं विष्णोर्ज्वलन्तौ चन्द्रभास्करौ।। 51.98 ।।
नक्षत्राणि ग्रहादीनि ज्योत्स्नां च ध्रुवमण्डलम्।
वेदघोषं दीप्तमग्निं सिद्धविद्याधरानपि।। 51.99 ।।
स्रुक्स्रुवादीनि पात्राणि भक्ष्याणि विविधानि च।
मन्त्रसिद्धिं बहुमुखां कथयन्ति पुरोदिताः।। 51.100 ।।
असिद्धिं मन्त्रिणो देवि मुण्डितस्य च दर्शनम्।
नीलपुष्पधरं नीलां रक्तपुष्पं च मूर्धनि।। 51.101 ।।
स्वयं मुण्डं च बिभ्राणो गर्दभारोहणं तथा।
विधवालिङ्गनं नीचैः पापिष्ठैः प्रतिलोमजैः।। 51.102 ।।
अभ्यङ्गं तैलपानं च गमनं दक्षिणां दिशि।
लोकयन्नेवमादीनि स्वप्ने शान्तिं समाचरेत्।। 51.103 ।।
Chapter - 52
+++
+++
।। द्विपञ्चाशोऽध्यायः ।।
वदामि साधकस्याग्रे जातानभ्युदयावहान्।
व्योम्नि देवगणान्नेमिघोषदुन्दुभिशब्दितम्।। 52.1 ।।
शृणोति सिद्धैः संभाषां करोत्यात्महितां रमे।
दर्शनं च विमानानां यक्षराक्षसभाषणम्।। 52.2 ।।
होमकाले च सप्तार्चिस्त्रिशिखः परिदृश्यते।
शुद्धस्फटिकसंकाशो दक्षिणावर्तशोभितः।। 52.3 ।।
दिव्यगन्धोपलब्धिश्च छत्रध्वजसुदर्शनम्।
पूर्णाहुतिविधौ लिङ्गान्येतान्यालोकयेद् गुरुः।। 52.4 ।।
साधकः कथयेत् तं वै गुरोर्नान्यस्य कस्यचित्।
होमान्ते भोजयेद् विद्वान् वैष्णवान् द्वादशावरान्।। 52.5 ।।
यावच्च मन्त्रसिद्धिः स्यात् तावदाराधयेद्धरिम्।
कामनानुगुणाकारं दार्वाद्यैः परिकल्पितम्।। 52.6 ।।
दिने दिने जपेन्मन्त्रं जुह्वन्नन्नेन तर्पयन्।
बीजशक्त्यङ्गहीना ये मन्त्रास्ते तु निरर्थकाः।। 52.7 ।।
तस्मात् साङ्गं बीजयुक्तं शक्तियुक्तं विचिन्तयेत्।
व्यापकं मन्दरं चैव बीजमस्य प्रकीर्तितम्।। 52.8 ।।
तदुद्धृत्य ततो मन्त्री ह्यप्रमेयं तथोदयम्।
पाटलप्रियसंयुक्तमुद्धरेन्मन्त्रमुत्तमम्।। 52.9 ।।
ऋषिर्ब्रह्मास्य च्छन्दस्तु देवीगायत्रमुच्यते।
प्रतिपाद्यो वासुदेवः क्षेत्रं वर्णः सितच्छविः।। 52.10 ।।
देवता परमात्मा स्यात् शक्तिर्लक्ष्मीश्रियौ तथा।
मायेति षट्सु स्थानेषु देहेष्वेतं तु विन्यसेत्।। 52.11 ।।
एवं क्रमप्रयुक्तो यो मन्त्रः साङ्गः कृतो भवेत्।
देहे करतले चैव स्थानेषु द्वादशस्वपि।। 52.12 ।।
द्वादशाक्षरवन्न्यासः प्रणवः स्फटिकप्रभः।
न्यासो नमोऽन्तः स्वाहान्तो जपपूजाहुतिष्वपि।। 52.13 ।।
प्रणवान्न परो मन्त्रः सर्वं प्रणवसंस्थितम्।
ईप्सितं लभते मन्त्री प्रणवस्य जपाद् रमे।। 52.14 ।।
द्वादशाक्षरमन्त्रस्य वदाम्युद्धारम्बजजे।
प्रणवं भद्रपाणिं च द्रष्टारं मन्दरं तथा।। 52.15 ।।
ओतदेवं ज्ञेयसिद्धिं वासुदेवं च वारुणीम्।
अप्रमेयं वामनं च लक्ष्मीं वैराजसात्त्वतौ।। 52.16 ।।
सुधाकरं गोपनं च सोमं भुवनमेव च।
दान्तं त्र्यश्रं वामनं च गोपनं वायुबीजयुक्।। 52.17 ।।
द्रष्टारमपि संगृह्य मातृकाचक्रमध्यतः।
प्रत्यक्षरं लक्षमेकं जपेन्नियममास्थितः।। 52.18 ।।
परमानन्दसंदोहं वासुदेवं वृषाकपिम्।
शुद्धस्फटिकसंकाशं सर्वदेवादिदैवतम्।। 52.19 ।।
द्विभुजं षड्गुणोपेतं ध्यायेत् सर्वार्थसिद्धये।
अष्टाक्षरमनुं देवि शृणुष्व कमलेक्षणे।। 52.20 ।।
छन्दसामादिमादाय व्यापकं पाटलप्रियम्।
भध्रपाणिं वासुदेवं माधवीं चोतदैवतम्।। 52.21 ।।
रोधनं गोपनं चैव महाज्वालं च गोपनम्।
शङ्खं व्यापकनामानं वनमालिनमेव च।। 52.22 ।।
आदिदेवो वायुबीजं व्यापकं चाहरेद् रमे।
मन्त्रस्याप्यस्य विन्यासो द्विषट्कस्येव कारयेत्।। 52.23 ।।
छन्दस्तु देवीगायत्रमन्तर्यामी मुनिः स्मृतम्।
देवो नारायण साक्षाद् दैवतं क्षेत्रमीरितम्।। 52.24 ।।
परमव्योम बुद्धिः स्यात् तत्त्वं वर्णः सितस्तथा।
प्रत्यक्षरमृषिर्देवि विद्यते तद् वदामि ते।। 52.25 ।।
गौतमश्च भरद्वाजो विश्वामित्रस्तपोधनः।
वसिष्ठः काश्यपः पश्चादत्रिः स्यात्कुम्भसंभवः।। 52.26 ।।
छन्दांसि गायत्र्यादीनि विराडवसितानि च।
धरो ध्रुवश्च सोमश्च आपश्चाग्निर्जलाधिपः।। 52.27 ।।
प्रत्यूषश्च प्रभावश्च देवाः प्रत्यक्षरं तथा।
आकाशं परमक्षेत्रमक्षरस्यावसानतः।। 52.28 ।।
सत्यादिलोकाः सप्त स्युः प्रातिलोम्येन भूमयः।
अक्षराणां पृथिव्यन्ताः सप्तानां सप्त पद्मजे।। 52.29 ।।
भूरग्निर्वायुराकाशं सूर्यो द्यौरथ चन्द्रमाः।
नक्षत्राणि तथा राशिरेते तत्त्वान्यनुक्रमात्।। 52.30 ।।
निरुक्तमस्य मन्त्रस्य कथयामि रमे तव।
अविः क्विबन्तो व्याप्त्यर्थः स्मर्यते कर्तृसाधनः।। 52.31 ।।
टेश्च लोपो वकारस्य प्रसारणमतः परम्।
पूर्वत्वं चोपसर्गेण स्यादन्तश्चाद्गुणः स्मृतः।। 52.32 ।।
अन्तर्बहिश्च तत्सर्वं व्याप्नोतीति तदुच्यते।
अवतेः रक्षणार्थत्वे मन्नन्तस्येदमुच्यते।। 52.33 ।।
वकारस्योपधायाश्च द्वयो रूढिगुणे कृते।
पृषोदरादिसूत्रेण मनश्चान्-लोप ईरितः।। 52.34 ।।
पापेभ्यस्त्रायते भक्तान् स्मरणादेव वै हरिः।
संसारसागरादेतज्जगत्त्राता स उच्यते।। 52.35 ।।
तस्मान्नारायणो देवः प्रणवार्थः स उच्यते।
नम्यते देव एवैकस्तेषामेकं परायणम्।। 52.36 ।।
नरो देवः परः स्रष्टा सर्गादौ पाथसामथ।
तस्मान्नाराणि पाथांसि तान्येवायनमुच्यते।। 52.37 ।।
देवस्य हेतोश्चामुष्मान्नारायणसमाह्वयः।
नारा वायनमावासः पुरुषस्य मधुद्विषः।। 52.38 ।।
अण् प्रत्ययः प्रकृत्यर्थे ततो वाससमाह्वयः।
एवं मन्त्रमिदं लब्ध्वा सम्यग् गुरुमुखात् स्वयम्।। 52.39 ।।
गुरुशुश्रूषणपरः सर्वमन्त्राणि साधयेत्।
आराध्य परया भक्त्या नारायणमनन्यधीः।। 52.40 ।।
चक्राब्जमण्डले देवमेनं ध्यात्वा समाहितः।
चतुर्भुजमुदाराङ्गं चक्राद्यायुधसेवितम्।। 52.41 ।।
कालमेघप्रतीकाशं पद्मपत्रायतेक्षणम्।
पीताम्बरधरं सौम्यं वनमालाविभूषितम्।। 52.42 ।।
स्फुरत्कटककेयूरहारकौस्तुभूषितम्।
श्रीभूमिभ्यां समासीनं रत्नसिंहासने शुभे।। 52.43 ।।
इत्थं मन्त्री हरिं ध्यात्वा मन्त्रजापपरो भवेत्।
जपेल्लक्षाष्टकं मन्त्री तदर्धमपि तर्पणम्।। 52.44 ।।
तदर्धं जुहुयादग्नौ ततः सिद्धिमवाप्नुयात्।
मन्त्रराजे तु संसिद्धे मन्त्रोऽन्यः सिद्धिमेष्यति।। 52.45 ।।
असिद्धश्चेदयं मन्त्रो नान्यः सिद्धो भवेद्रमे।
तस्मात् सर्वप्रयत्नेन मूलमन्त्रं जपेत् सुधीः।। 52.46 ।।
चतुर्णां पुरुषार्थानां हरिर्दाता न संशयः।
अनुपास्यान्यदेवं यो वशीकर्तुमिहेच्छति।। 52.47 ।।
हरिस्त्यजति तं मर्त्यमितरः सर्वथा त्यजेत्।
उभयतश्च्यवते देवि सिद्धिं न परिविन्दति।। 52.48 ।।
अथार्थसाधनं मन्त्रमभिवाञ्छति चेन्नरः।
अर्थार्थी मण्डलं भद्रं लिखित्वा हरिमर्चयेत्।। 52.49 ।।
तिलैर्बिल्वैर्निम्बपत्रैः पुष्पैस्तण्डुलचम्पकैः।
नन्द्यावर्तैर्मल्लिकाभिर्मालतीकरवीरजैः।। 52.50 ।।
यूथिकाभिश्च जुहुयात् प्रत्येकं शतसंख्यया।
मन्त्री त्वनेन मन्त्रेण सप्ताहं जुहुयाद्रमे।। 52.51 ।।
धनमक्षयमाप्नोति मन्त्रस्यास्य प्रभावतः।
कुङ्कुमं चन्दनं कोष्ठं रोचनालक्तकं तथा।। 52.52 ।।
घनसारं मृगमदं पिष्ट्वा तत्क्षोदवारिणा।
धनदं विलिखेद् भूमौ सप्तरात्रमनन्यधीः।। 52.53 ।।
यजेत गन्धपुष्पाद्यैर्निवेद्य च गुलोदनम्।
पद्भ्यामाक्रम्य हृदयं धनदस्य जपेत् ततः।। 52.54 ।।
अयुतं नियुतं वापि मन्त्रराजं जितेन्द्रियः।
ध्यात्वा नारायणं देवं तदन्ते मन्त्रवित्तमः।। 52.55 ।।
कुबेरं पुरतः पश्येद् वितरेद्धनमक्षयम्।
वल्मीकस्य तथाभ्यर्णे लिखित्वा भद्रमण्डलम्।। 52.56 ।।
यजेत पूर्ववद्देवमन्ते वल्मीकभूमिषु।
नालिकेरजलैः सार्धं क्षीरेण च विमिश्रितम्।। 52.57 ।।
पिष्टं नागबलिं दद्यात् ततो वल्मीकभूस्थलम्।
खनित्रं क्षालयित्वा तं निशायामधिवासयेत्।। 52.58 ।।
मण्डले स्वस्तिके देवमिष्ट्वाहुत्या सहस्रकम्।
खनित्रेण च वल्मीकं खनेन्मन्त्री समाहितः।। 52.59 ।।
निधिमक्षय्यमाप्नोति रत्नानि विविधानि च।
सप्ताहमथवा यागं कृत्वा भद्रकमण्डले।। 52.60 ।।
लक्षसंख्याहुतिं हुत्वा कृत्वा ब्राह्मणभोजनम्।
ध्यात्वा नारायणं देवमात्मानं साधकोत्तमः।। 52.61 ।।
पश्यन्महीतलं शुद्धमग्रहाराद् बहिस्थले।
भवन्ति चास्य निधयः प्रत्यक्षं बहवो रमे।। 52.62 ।।
अञ्जनाङ्कितचक्षुर्वा मन्त्रेणानेन मन्त्रवित्।
असौ निधीमवाप्नोति लभते नात्र संशयः।। 52.63 ।।
अपरं मण्डले भद्रे कुर्याद् यागं हरेः प्रियम्।
यज्ञदारुं वृषस्कन्धे बध्वा तस्मिन् हलं पुनः।। 52.64 ।।
कर्षयेद् भूतलं शुद्धं सीतासु मणिकाञ्चनम्।
अमूल्यं महदाप्नोति प्रसादाद् देवदुर्लभम्।। 52.65 ।।
साधितं पारदं कृत्वा हस्ते जप्त्वा मनुं पुनः।
नियुतं प्रयुतं वापि यथाशक्तिसमाहितः।। 52.66 ।।
तद्रसस्पर्शमात्रेण सर्वं काञ्चनतामियात्।
पाषाणमथवा लोष्टमग्नितप्तं न संशयः।। 52.67 ।।
औषधानि च सर्वाणि रसयुक्तानि पद्मजे।
लोहसंस्पर्शयुक्तानि कनकानि भवन्ति हि।। 52.68 ।।
कन्याकामः फलैः पक्वैः पुष्पैर्लाजैर्दिने दिने।
सहस्रं जुहुयाद् देवमाराध्य गरुडध्वजम्।। 52.69 ।।
लभते कन्यकामिष्टां तदन्ते न विचारयन्।
यन्त्रं वश्यकरं वक्ष्ये श्रूयतां कमलेक्षणे।। 52.70 ।।
भूर्जपत्रे लिखेच्चक्रमष्टारं रोचनादिकैः।
चन्दनागरुकाश्मीरशशिकस्तूरिकान्वितैः।। 52.71 ।।
हेमसूच्या लिखेदैतैर्गन्धद्रव्यैर्यथाक्रमम्।
नाभिनेमियुतं चक्रमष्टारं ज्वालयान्वितम्।। 52.72 ।।
अष्टस्थानेषु विलिखेदक्षराण्यष्टपद्मजे।
प्रादक्षिण्येन विस्पष्टं ह्रींकारं मध्यमे पदे।। 52.73 ।।
साध्यनामापि तत्रैव सोंकारं तदनन्तरम्।
ह्रींकारं नाभिवलये दिक्ष्वष्टासु लिखेत्ततः।। 52.74 ।।
ह्रींकारं नाभिवलये वशीकरणमक्षरम्।
तथैवाशासु सर्वासु वशं कुरुपदान्वितम्।। 52.75 ।।
तस्मिन्नावाह्य देवेशमिष्ट्वा मन्त्रं जपेद् बुधः।
अष्टोत्तरसहस्रं तु जुहुयादाहुतीस्ततः।। 52.76 ।।
गुलिकां बिभ्रतस्तस्य वश्यं सर्वमनन्तरम्।
अथवा पादयोः पांसून् रक्तचन्दनमिश्रितान्।। 52.77 ।।
आदाय पुरुषाकारां स्त्रीरूपं वा यथेप्सितम्।
कृत्वा प्रतिकृतिं तस्मिन् न्यस्यात्मनं स्मरेद्धरिम्।। 52.78 ।।
ताडयेन्मूलमनुना रत्नैस्तु हयमारजैः।
प्रत्यहं मन्त्रजापः स्यादष्टोत्तरसहस्रकम्।। 52.79 ।।
वश्या नारी पुमान् वापि सप्ताहान्ते जपाद्भवेत्।
दूरस्थितादिपि तथा राज्ञो वा महिषीमपि।। 52.80 ।।
सा संनिधत्ते कामार्ता मदविह्वललोचना।
समृद्धार्थात्मना चापि धनैर्वापि यथेप्सितैः।। 52.81 ।।
साधकं तोषयत्येषा मन्त्रजापाद्यथोदितात्।
मृतनारी कपाले वा रोचनाद्येन वस्तुना।। 52.82 ।।
पूर्ववच्चक्रमालिख्य तन्मध्येऽभीष्टयोषितः।
लिखित्वा नामधेयं तत् कपालं ज्वलने पुनः।। 52.83 ।।
तापयित्वा जपेन्मन्त्रं सप्ताहं पूर्वसंख्यया।
ततः प्राप्स्यति सा नारी दूरस्थापि यथेप्सितम्।। 52.84 ।।
वश्यं तु यक्षजातीनां शृणुष्व कमलेक्षणे।
वटमूले वसन्मन्त्री तत्र चक्राब्जमण्डले।। 52.85 ।।
आराध्य देवं जुहुयाद् वटवृक्षसमिच्छतैः।
दशभिः प्रत्यहं त्वित्थं सप्ताहे परिनिष्ठिते।। 52.86 ।।
पूर्वमेव वटे यक्षं यक्षीं वा कुङ्कुमादिना।
लिखित्वा कर्म तत्सर्वं कुर्यादभिमुखे स्वयम्।। 52.87 ।।
सप्तमेऽह्नि वटे रात्रौ कुपिते भीतवत् स्थितः।
गुग्गुलुं घृतमिश्रं च धूपयेन्मन्त्रवित्तमः।। 52.88 ।।
वटाभिमुखमुत्थाय यक्षीं वा यक्षमेव वा।
साक्षात्करोति तां तं वा याचेताभीष्टमुत्तमम्।। 52.89 ।।
प्रयच्छति यथायोगं यक्षी यक्षश्च मन्त्रिणे।
पातालसाधनं चापि शृणु क्षीराब्धिसंभवे।। 52.90 ।।
होमावसानं पूजादि कर्म कृत्वा यथोदितम्।
बिलद्वारसमीपे तु लक्षमष्टाक्षरं जपेत्।। 52.91 ।।
क्षीरवृक्षशमीदूर्वातिलाज्यानामनन्यधीः।
प्रत्येकमयुतं होमं कुर्याद्वै साधकोत्तमः।। 52.92 ।।
निर्गच्छति बिलात्तस्मात् कामार्ता कन्यका स्वयम्।
सहस्रपरिवारेण सार्धमायतलोचना।। 52.93 ।।
गृहीत्वा मन्त्रिणं स्वेषु मन्दिरेषु यथासुखम्।
रमते दिव्यभोगैः सा विचित्रैरतिमानुषैः।। 52.94 ।।
नागकन्यावशीकार उच्यते कमलेक्षणे।
पातालद्वारपर्श्वे तु कारयेद् यागमण्डपम्।। 52.95 ।।
ध्वजातोरणसंयुक्तं द्वारकुम्भोपशोभितम्।
चक्राब्जं वर्तयेत् तत्र स्मरेन्नारायणं प्रभुम्।। 52.96 ।।
यजेत पूर्ववद्धोमं कुर्यात् पूर्वोक्तसंख्यया।
मिताहारोऽनन्यधीश्च लक्षमष्टौ जपेन्मनुम्।। 52.97 ।।
तत्क्षणादेव नागेन्द्रकन्यका मन्त्रिणः पुरा।
स्वतो मनोभववशा सहस्रैः परिवारिता।। 52.98 ।।
आत्मतुल्याभिरन्याभिः कन्याभिश्च वशीकृता।
गृहीत्वा मन्त्रिणं ताश्च नागालयपुरोत्तमे।। 52.99 ।।
प्रविश्य विविधैर्भोगैर्वशीकृत्य च मन्त्रिणम्।
पीत्वा रसायनं चापि यावदाभूतसंप्लवम्।। 52.100 ।।
अङ्गनाभिश्च रमते देवतातुल्यदर्शनः।
खड्गसाधनमाश्चर्यं शृणु वक्ष्यामि ते रमे।। 52.101 ।।
मन्त्री स्वदेहजं रक्तं श्मशानाङ्गारमिश्रितम्।
पेषयित्वा लिखेत् खड्गं चतुस्तालायतं शुभम्।। 52.102 ।।
श्मशानदेशे तन्मूलं स्पृशन् मन्त्रं जपेत्सुधीः।
निशीथे निर्जने तावद्यावज्ज्वालां विमुञ्चति।। 52.103 ।।
ज्वालाभिरस्य शोभन्ते दिशो दश वरानने।
नानाविधानि भूतानि भवन्ति भयहेतवः।। 52.104 ।।
अभीतो निश्चलो मन्त्रं जपेदेवं समाहितः।
स्फुरन्तं पाणिना खड्गं गृहीत्वा दृढमुष्टिना।। 52.105 ।।
मन्त्रं जपन्नभो याति यत्र विद्याधरादयः।
विद्यामहिम्ना तेषां स राजा भवति मन्त्रवित्।। 52.106 ।।
यक्षराक्षसदैत्यानां जेता मर्त्यास्तु किं पुनः।
खड्गहस्तः सदा मन्त्रं जपन् याति त्रिविष्टपम्।। 52.107 ।।
तत्रापि भोगमखिलं लभते चाप्सरोगणैः।
खड्गमाशु समादाय पर्णैः पिप्पलसंभवैः।। 52.108 ।।
अन्तर्हितं विधायाशु नियुतं जपमाचरेत्।
समिदाज्यैस्तथा बीजैर्जुहुयादयुतं रमे।। 52.109 ।।
नररक्तं गजमदं पित्तमाक्षं विमिश्रितम्।
राजावर्तेन तैः खड्गं विलिख्याराधयेद्धरिम्।। 52.110 ।।
तस्मिन् पूर्वोक्तमार्गेण खड्गं स्पृष्ट्वा जपः स्मृतः।
अष्टोत्तरसहस्रेण पश्चात्तापादिसंभवः।। 52.111 ।।
तापे स्यादधमा सिद्धिर्मध्यमा धूमजन्मनि।
उत्तमा ज्वलने दृष्ठे पश्चात् खड्गधरः स्वयम्।। 52.112 ।।
चरेदभीप्सितान् लोकान् भोगानाप्नोति पुष्कलान्।
गोरोचनाम्बुभिः शङ्खे लिखेन्मन्त्रं च मन्त्रवित्।। 52.113 ।।
तन्मन्त्रं च जपेत् स्पृषट्वा यावज्ज्वालावलोकनम्।
तन्मध्यात् कन्यका चैका वरदा चोद्भवा रमे।। 52.114 ।।
अक्षमालां च गुलिकां तिलकाञ्जनपादुकाम्।
दिव्यौषधं रसेन्द्रं च कपालस्थं रसाञ्जनम्।। 52.115 ।।
सा कन्या मन्त्रिणे सर्वं ददात्याश्चर्यहेतुकम्।
अक्षमालां जपन् मन्त्री पुरश्चरणवर्जितम्।। 52.116 ।।
कामान् यथेष्टानाप्नोति नात्र कार्या विचारणा।
निक्षिप्यास्ये च गुलिकां निर्भयः सर्पमाहरेत्।। 52.117 ।।
सर्पो न दशति ह्येनं दष्टोऽपि च न बाध्यते।
तिलकं बिभ्रतस्तस्य नरनारीमृगादिकम्।। 52.118 ।।
यं यं स्मरति वै मन्त्री पुरस्तिष्ठेज्जवाद्रमे।
अञ्जनं चक्षुषोरञ्जन् न दृश्यः स्यात् सुरासुरैः।। 52.119 ।।
मन्त्री बिभ्रत्पादुके तु जले वाप्यनलेऽपि वा।
भूमाविव तयोर्गच्छेत् ताभ्यां भीतिर्न जायते।। 52.120 ।।
स्मरेद् देशान्तरं यं यं तत्र तिष्ठति वै क्षणात्।
दिव्यौषधस्य पानेन सर्वव्याधिर्विनश्यति।। 52.121 ।।
लोहपाषाणवस्तूनि लेपितानि रसेन चेत्।
सर्वं हिरण्यं भवति भुक्तं चेद्यौवनं भवेत्।। 52.122 ।।
इन्द्रजालं दर्शको यो मन्त्री मायां लिखेद् भुवि।
कृष्णां चतुर्भुजां सौम्यां सर्वाभरणभूषिताम्।। 52.123 ।।
सर्वाङ्गसुन्दरीं मन्त्रं पूजयित्वा ततो जपेत्।
अयुतं नियुतं मन्त्रं जपेन्मन्त्री समाहितः।। 52.124 ।।
सिद्धा तदन्ते सा देवी चतुरङ्गबलं महत्।
व्योम्नि भूमौ बलं सर्वमुद्यतायुधमद्भुतम्।। 52.125 ।।
दर्शयित्वाशु मन्त्रेण तोषिता सर्वकामदा।
त्रैलोक्यमपि सर्वं सा मन्त्रिणे दर्शयिष्यति।। 52.126 ।।
निर्माणं गुलिकायाश्च कथ्यते जलजोद्भवे।
मनःशिला तथा कुष्ठं हरितालं च कुङ्कुमम्।। 52.127 ।।
गोरोचनां च चक्राङ्गं सर्वं पिष्ट्वा मधुकैः।
कृत्वा च गुलिकां चक्रपद्ममध्ये निवेशयेत्।। 52.128 ।।
एकादशीनिशायां वा यजेत हरिमव्ययम्।
द्वादश्यमर्चयित्वा तु जपेन्मन्त्रं यथाक्रमम्।। 52.129 ।।
होममग्नौ प्रकुर्वीत सहस्रं सर्पिषा ततः।
सिद्धेयं गुलिका सर्वं साधयेत् साधकस्य हि।। 52.130 ।।
कपाले चाश्म निक्षिप्य शत्रुमूर्धनि निक्षिपेत्।
उद्वासितो वा म्रियते सान्वयः ससुहृज्जनः।। 52.131 ।।
वेतालसाधकं देवि कथयामि सुदुर्लभम्।
ब्राह्मणं क्षत्रियं वापि युवानं निर्व्रणं मृतम्।। 52.132 ।।
तत्क्षणादेव संगृह्य शून्यागारे निवेशयेत्।
क्षालयित्वा मलं सर्वं चक्रपद्मे निवेश्य च।। 52.133 ।।
हृदयं तस्य चाक्रम्य पादेन ध्यानमास्थितः।
जपेन्मन्त्रमहोरात्रं निशीथे कम्पते शवः।। 52.134 ।।
निर्भयस्ताडयेद् देहं सिद्धार्थैरभिमन्त्रितैः।
कम्पमानं शरीरं तदुत्थायाग्रेऽवतिष्ठते।। 52.135 ।।
किं करोमीति च ततो ब्रुवाणाः संपुटाञ्जलिः।
प्रयच्छति च खड्गादि मन्त्रिणे त्वन्यदुर्लभम्।। 52.136 ।।
खड्गमुष्टिं तथा दिव्यमौषधं च रसायनम्।
गुलिकां पादुके सिद्धं रसं वेणुपुटे स्थितम्।। 52.137 ।।
पादलेपं चाक्षसूत्रमन्यद्वा दुर्लभं नृभिः।
पादलेपेन गमनमाकाशादिषु मन्त्रिणः।। 52.138 ।।
खड्गेन शत्रुसिंहानां वधं भवति निश्चयम्।
दिव्यौषधैर्महाव्याधिशान्तिः सेवनमात्रतः।। 52.139 ।।
भूभागे शल्यरहिते कृत्वा मण्डलमादितः।
सर्वलक्षणसंयुक्तान् कलशान् पञ्चविंशतीन्।। 52.140 ।।
पूरितान् द्रोणमन्त्रेण घृतप्रभृतिवस्तुना।
ससूत्रान् सकुशांश्चैव सापिधानान् सवस्त्रकान्।। 52.141 ।।
द्वारकुम्भांश्चतुर्दिक्षु तोरणानि च कल्पयेत्।
प्रत्येकं कलशान् सर्वान् मन्त्रेणैवाभिमन्त्रयेत्।। 52.142 ।।
अष्टाक्षरेण प्रत्येकमष्टोत्तरशतावरम्।
निशाम्बुना चन्दनेन श्वेतद्वर्वाङ्कुरेण च।। 52.143 ।।
भूर्जपत्रोदरे पद्ममष्टपत्रं सकर्णिकम्।
नाभिनेमियुतं चक्रमष्टारं कमलाद् बहिः।। 52.144 ।।
प्रणवं कर्णिकादेशे साध्यनाम च मध्यतः।
अष्टाक्षरण्यष्टदले नाभौ स्पर्शाक्षरं लिखेत्।। 52.145 ।।
नेमिक्षेत्रे यकारादीनष्टारेषु स्वरान् पुनः।
महामायाग्निसंयुक्तं भास्करं दण्डशेखरम्।। 52.146 ।।
नेमिभागे क्रमाद् दिक्षु विदिक्षु कमलोद्भवे।
कृत्वैवं सितसूत्रेण परिवेष्ट्य निरन्तरम्।। 52.147 ।।
तण्डुलद्रोणमध्यस्थे कलशे गुलिकां क्षिपेत्।
चक्राब्जमण्डले देवं हृदयादवतार्य च।। 52.148 ।।
श्वेतवस्त्रैः श्वेतपुष्पैश्चन्दनैरपि तादृशैः।
तेषु नारायणं देवं पूजयेद् भक्तिभावतः।। 52.149 ।।
शाल्योदनं दधिक्षीरसंयुतं च निवेदयेत्।
पूर्णेन्दुमण्डलान्तःस्थं शतचन्द्रसमप्रभम्।। 52.150 ।।
नारायणं श्रीसमेतं शङ्खचक्रगदाधरम्।
ध्यात्वा सर्वार्थदं मन्त्री प्रार्थयेत् संयताञ्जलिः।। 52.151 ।।
प्रयच्छ मे परां शान्तिं सर्वदोषविनाशिनीम्।
उत्तरस्यां वृत्तकुम्भे दधिक्षीराज्यतण्डुलैः।। 52.152 ।।
गुग्गुलुक्षौद्रबीजांश्च सप्ताहं होममाचरेत्।
पूर्वोक्तसंख्यया कुम्भैः स्नापयेदामयाविनः।। 52.153 ।।
स्नापयेन्मूलमन्त्रेण ध्यायेत् सर्वदमीश्वरम्।
पूर्णेन्दुरससंकाशं स्यन्दमानं सुधारसम्।। 52.154 ।।
तदीयपादकमलात् सर्वतो व्याधिपीडितम्।
उत्थापयित्वा तन्मूर्ध्नि न्यसेद् गुलिकमब्जजे।। 52.155 ।।
अपस्मारादयः सर्वे व्याधयो यान्ति मन्त्रतः।
अथादाय च मृत्पात्रं पैत्तलं वाथ काष्ठजम्।। 52.156 ।।
तस्मिन् निक्षिप्य पीयूषं दधिसर्पिसमन्वितम्।
ओदनं चैत्यवृक्षस्य मूले भूतबलिं क्षिपेत्।। 52.157 ।।
भोजयेद् ब्राह्मणानन्ते तेभ्यो दद्याद्धनादिकम्।
एवं कृते सर्वदोषा व्याधयः कुष्ठपूर्वकाः।। 52.158 ।।
सेवां विनाप्यौषधानां साम्यन्ति मनुतेजसा।
इत्थमष्टाक्षरो मन्त्रः फलं बहुविधं रमे।। 52.159 ।।
ददाति किं वा वक्तव्यं साधको यद्यदिच्छति।
सर्वान् कामान् परित्यज्य जपहोमार्चनादिभिः।। 52.160 ।।
नारायणं तर्पयेद्यः स याति परमं पदम्।
नृसिंहादीनि मूर्तानि तन्मन्त्रैर्य उपासते।। 52.161 ।।
अमर्त्यदुर्लभान् कामान् तेषामपि ददाम्यहम्।
प्रणवं पूर्वमुद्धृत्य वह्निजायामतः परम्।। 52.162 ।।
सुधाकरं रामसंज्ञं भास्करं कूर्मसंमितम्।
अप्रमेयं वामनं च सात्त्वतान्तं समुद्धरेत्।। 52.163 ।।
जपेदेतं वर्षमेकं सर्वसिद्धिमवाप्नुयात्।
अप्रमेयं मन्दरं च सात्वतान्तं समुद्धरेत्।। 52.164 ।।
कमलं माहेन्द्रसहितं मायाबनधुमतः परम्।
सर्वदाहकसंयुक्तं लक्ष्मीं मायां च मन्दरम्।। 52.165 ।।
न्यग्रोधशायिसहितं सत्यं मायां च मन्दरम्।
बीजं कृत्वा ततो मन्त्रं महाज्वालासमन्वितम्।। 52.166 ।।
नृसिंहमौषधं कालं गृह्णीयान्मन्त्रवित्तमः।
जपेल्लक्षं शत्रुनाशो व्याधिनाशो भवेद् रमे।। 52.167 ।।
प्रणवं पूर्वमुद्धृत्य सोमं व्यापकमेव च।
वैदेहीं वासुदेवं च महाज्वालासमन्वितम्।। 52.168 ।।
नारायणं कीर्तिमन्तं मालां व्यापकमेव च।
हुंफडन्तेन सहितं सर्वशत्रुविनाशनम्।। 52.169 ।।
सर्वव्याधिप्रशमनं पिशाचादेर्निवर्तनम्।
जपेत् प्रत्यक्षरं लक्षं देवसांनिध्यमाप्नुयात्।। 52.170 ।।
नारसिंहमनुं देवि सर्वव्याधिनिवारणम्।
सर्वशत्रुक्षयकरं ब्रह्मराक्षसनाशनम्।। 52.171 ।।
जितक्रोधं व्यापकं च सूक्ष्मं व्यापकमेव च।
पुनस्तमेव संगृह्य भद्रपाणिं च माधवम्।। 52.172 ।।
गान्धारीं रामसंज्ञं च व्योममन्दरसंमितम्।
कण्ठगं चाप्रमेयान्तं मन्त्रपिण्डमिमं विदुः।। 52.173 ।।
उद्धृत्य क्लींपदं पूर्वं मदनं गोपनं तथा।
शान्तात्मानं भूषणं च दान्तं व्यापकमेव च।। 52.174 ।।
न्यग्रोधशायिनं कीर्तिं लक्ष्म्यन्तं शङ्खमेव च।
जपेदेतन्मन्त्रपिण्डं नृसिंहः प्रीतिमेष्यति।। 52.175 ।।
सिद्धे मन्त्रे सर्वसिद्धिं मन्त्री प्राप्नोत्यसंशयम्।
क्लीं बीजं पूर्वमुद्धृत्य ब्रह्माणं सुखदं तथा।। 52.176 ।।
वैकुण्ठपालसहितं क्रोधनं गोपनं रमे।
व्यापकान्तं वायुबीजं जपेत् संतानकारकम्।। 52.177 ।।
अपरं देवि वक्ष्यामि राममन्त्रमनुत्तमम्।
प्रणवं पूर्वमुद्धृत्य तन्मध्ये त्वनलं लिखेत्।। 52.178 ।।
व्योमाक्षमादिदेवं च मन्त्रमेकाक्षरं जपेत्।
ब्रह्मा मुनिः स्याद् गायत्रं छन्दो रामोऽस्य देवता।। 52.179 ।।
दीर्घार्धेन्दु युताङ्गानि कुर्याद्वह्न्यात्मनो हरेः।
बीजशक्त्यादिसंयुक्तमिष्टार्थे विनियोजयेत्।। 52.180 ।।
सरयूतीरमन्दारवेदिकापङ्कजासने।
श्यामं वीरासनासीनं ज्ञानमुद्रोपसोभितम्।। 52.181 ।।
वामजानूपरिन्यस्ततद्धस्तं लक्ष्मणेन च।
सीतया सेवितं रामं ध्यात्वा मन्त्रं जपेत् सुधीः।। 52.182 ।।
चिन्तयन् परमात्मानं भानुलक्षमनन्यधीः।
राज्यप्राप्तिः शत्रुनाशो मन्त्रिणो भवति ध्रुवम्।। 52.183 ।।
वह्निं कीर्तिं मन्दरं च द्रष्टारं धीपदं स्मरेत्।
द्व्यक्षरो राममन्त्रोऽयं सर्वाभीष्टफलप्रदः।। 52.184 ।।
अंबीजं पूर्वमुद्धृत्य प्रणवं च ततः स्मरेत्।
वह्निमानन्दकालौ च गोपनं वायुबीजकम्।। 52.185 ।।
वासुदेवान्तमुद्धृत्य पञ्चवर्णनुं स्मरेत्।
विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता।। 52.186 ।।
रामभद्रो बीजशक्ती प्रथमार्ण इति क्रमात्।
भ्रूमध्ये हृदि नाभ्योर्वोः पादयोर्विन्यसेच्छतम्।। 52.187 ।।
षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्रकम्।
मध्ये वनं कल्पतरोर्मूले पुष्पलतासने।। 52.188 ।।
लक्ष्मणेन प्रगुणितमक्ष्णोः कोणेन सायकम्।
अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम्।। 52.189 ।।
जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम्।
एवं ध्यात्वा जयार्थी तु वर्णलक्षं जपेन्मनुम्।। 52.190 ।।
सर्वसिद्धिमवाप्नोति शत्रुनाशश्च जायते।
षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः।। 52.191 ।।
पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकतां गतम्।
लक्ष्मीवाङ्मन्मथादिश्च तारादिश्चेत्यनेकधा।। 52.192 ।।
श्रीराममन्मथैकैकं बीजाद्यन्तगतो मनुः।
चतुर्वर्णस्थ एव स्यात् षड्वर्णो वाञ्छितप्रदः।। 52.193 ।।
स्वाहान्तो वा हुंफडन्तो नमत्यन्तो वा भवेदयम्।
अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः।। 52.194 ।।
ब्रह्मा संमोहनं शक्तिर्दक्षिणामूर्तिरेव च।
अगस्त्यश्च शिवः प्रोक्तो मुनयोऽनुक्रमादिमे।। 52.195 ।।
छन्दो गायत्रसंज्ञं च रामभद्रोऽस्य देवता।
अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः।। 52.196 ।।
ब्रह्मरन्ध्रे भुवोर्मध्ये हृन्नाभ्युरुषु पादयोः।
बीजैः षड्दीर्घयुक्तैर्वा मन्त्रान्तैर्वा षडङ्गकम्।। 52.197 ।।
कालाम्भोधरवत्कान्तं ज्ञानमुद्रासमन्वितम्।
वीरासने समासीनं जानुन्यस्तभुजेतरम्।। 52.198 ।।
सर्वाभरणसंयुक्तं मन्दहासमुखाम्बुजम्।
रावणं सगणं जित्वा कृतत्रैलोक्यरक्षणम्।। 52.199 ।।
रामभद्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम्।
पदं दाशरथायेति विद्महेति पदं ततः।। 52.200 ।।
सीतापदं समुद्धृत्य वल्लभायेत्यनन्तरम्।
धीमहीति ततस्तन्नो रामश्चापि प्रचोदयात्।।
तारादिरेष गायत्री पुरुषार्थान् प्रयच्छति।। 52.201 ।।
Chapter - 53
+++
+++
।। त्रिपञ्चाशोऽध्यायः ।।
एवं वदति गोविन्दे श्रीस्तं प्रोवाच पद्मिनी।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम।। 53.1 ।।
दुस्तरापारसंसारसागरोत्तारणक्षम।
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।। 53.2 ।।
प्रद्युम्न सुभग श्रीमन्ननिरुद्धापराजित।
नारायण दयामूर्ते सर्वान्तर्यामिणे नमः।। 53.3 ।।
अमी हि प्राणिनः सर्वे निम्नाश्च क्लेशसागरे।
पूर्वोक्तेभ्यः क्रियाभ्यः किं सुलभा काचन क्रिया।। 53.4 ।।
नास्ति सर्वेषु वेदेषु सर्वशास्त्रेषु वा हरे।
क्लिश्यमानान् जनान् सर्वान् किं रक्षसि जगत्पते।। 53.5 ।।
श्रीभगवान्-
अरविन्दासने देवि पद्मगर्भसमुद्भवे।
उत्तारहेतवोऽमीषामुपाया बहवः कृताः।। 53.6 ।।
कर्म सांख्यं च योगं च वाजपेयादयो मखाः।
मन्त्रसिद्धिर्देवपूजा तीर्थयात्रादयो रमे।। 53.7 ।।
एतान् विहाय स्वाच्छन्द्यादकार्यें पतिता यदि।
तेषां कर्मानुरूपं तु ददामि फलमीदृशम्।। 53.8 ।।
श्रीः-
पिता पुत्रान् हि लोकेषु शिक्षते साधकर्मसु।
त्वं प्रवर्तयसेऽनिन्द्ये कार्ये सर्वाः प्रजा इमाः।। 53.9 ।।
भगवान्-
क्षीराब्धितनये लक्ष्मीः सर्वं मन्मनसि स्थितम्।
जानत्यपि पुनर्मां तु जिज्ञासयितुमिच्छसि।। 53.10 ।।
उपायाश्चाप्यपायाश्च शास्त्रीया निर्मिता मया।
उपायाः पूर्वमुद्दिष्टाः निषिद्धश्चेतरे मताः।। 53.11 ।।
अनर्थपरिहारार्थं प्रायश्चित्तं मयोदितम्।
चान्द्रायणं तप्तकृच्छ्रं कृच्छं सांतपनं तथा।। 53.12 ।।
गङ्गादितीर्थस्नानं च साधूनामभ्यनुज्ञया।
एतेष्वन्यतमं कृत्वा महापापाद्विमुच्यते।। 53.13 ।।
विमुक्तः स्वर्गमाप्नोति मोदते स्वर्गिभिः सह।
पुण्यक्षयो यदि भवेत् पुनर्भूमौ पतिष्यति।। 53.14 ।।
अनर्थसाधकं किंचित् किंचिच्चाप्यर्थसाधकम्।
अनर्थपरिहारश्च प्रायश्चित्तात्मकं रमे।। 53.15 ।।
त्रैराश्यं कर्मणामेवं शास्त्रतश्चोपदिश्यते।
मनीषी शास्त्रतत्त्वज्ञ उपायापायसंज्ञिकम्।। 53.16 ।।
प्रायश्चित्तं च संत्यज्य वैदिकीं वृत्तिमाश्रितः।
मन्त्रमेतं समुच्चार्य त्वया मां शरणं व्रजेत्।। 53.17 ।।
तदुपायं षडङ्गं स्याद् विवृणोमि तवानघे।
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम्।। 53.18 ।।
रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा।
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।। 53.19 ।।
एवं मां शरणं प्राप्य तरेत् संसारसागरम्।
सत्कर्मनिरतः शुद्धो वीतशोकभयक्लमः।। 53.20 ।।
निरारम्भो निराशीश्च निर्ममो निरहंकृतिः।
विद्यासु च प्रसक्तश्च सांख्ये तपसि च स्थितः।। 53.21 ।।
नार्हत्युपायनिष्ठस्य कलां कोटितमीमपि।
श्रीः-
आनुकूल्यादिशब्दानां हरे व्याख्यातुमर्हसि।। 53.22 ।।
भगवान्-
सर्वानुकूलता नाम आनुकूल्यमिहोच्यते।
तथैव प्रातिकूल्यं च भूतेषु परिवर्जनम्।। 53.23 ।।
त्यागो गर्वस्य कार्पण्यं श्रुतशीलादिजन्मनः।
अङ्गसामग्र्यसंपत्तेरशक्तेरपि च कर्मणाम्।। 53.24 ।।
अधिकारस्य चासिद्धेर्देशकालगुणक्षयात्।
उपाया नैव सिध्यन्ति ह्यपायबहुलात्तथा।। 53.25 ।।
इति या गर्वहानिस्तद् दैन्यं कार्पण्यमुच्यते।
शक्तेः सूपसदत्वाच्च कृपायोगाच्च शाश्वतात्।। 53.26 ।।
ईशेशितव्यसंबन्धादनिदंप्रथमादपि।
रक्षिष्यत्यनुकूलान्न इति या सुदृढा मतिः।। 53.27 ।।
स विश्वासो भवेद् देवि सर्वदुष्कृतनाशनः।
करुणावानपि व्यक्तं शक्तः स्वाम्यपि देहिनाम्।। 53.28 ।।
अप्रार्थितो न गोपायेदिति तत्प्रार्थनामतिः।
गोपायिता भवेत्येवं गोप्तृत्ववरणं तथा।। 53.29 ।।
तेन संरक्ष्यमाणस्य फले स्वाम्यवियुक्तता।
केशवार्पणपर्यन्ता ह्यात्मनिक्षेप उच्यते।। 53.30 ।।
निक्षेपापरपर्यायो न्यासः पञ्चाङ्गसंयुतः।
सन्न्यासस्त्याग इत्युक्तः शरणागतिरित्यपि।। 53.31 ।।
अपायोऽयं चतुर्थस्ते प्रोक्तः शघ्रफलप्रदः।
पूर्वे त्रय उपायास्ते भवेयुरमनोहराः।। 53.32 ।।
आनुकूल्येतराभ्यां तु विनिवृत्तिरपायतः।
कार्पण्येनाप्युपायानां विनिवृत्तिरिहोच्यते।। 53.33 ।।
रक्षिष्यतीति विश्वासाद्रक्षणोपायकल्पनम्।
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम्।। 53.34 ।।
सर्वज्ञोऽपि हि विश्वात्मा सदा कारुणिकोऽपि सन्।
संसारतन्त्रवाहित्वात् रक्षापेक्षां प्रतीक्षते।। 53.35 ।।
आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उच्यते।
हिंसास्तेयादयः शास्त्रैरपायत्वेन दर्शिताः।। 53.36 ।।
[कर्मसांख्यादयः शास्त्रैरुपायत्वेन दर्शिताः।]
अपायोपायसंत्यागी माध्यमीं वृत्तिमास्थितः।। 53.37 ।।
रक्षिष्यतीति निश्चित्य निक्षिप्तः स्वस्वगोचरः।
बुध्येत देवदेवेशं गोप्तारं पुरुषोत्तमम्।। 53.38 ।।
ततो मन्त्रं वर्णचक्रादुद्धरेन्मन्त्रवित्तमः।
सर्वदाहकसंयुक्तं श्रीवत्सं च मनोभवम्।। 53.39 ।।
मन्दरं व्यापकं द्वित्वं भद्रपाणिं च गोपनम्।
महाज्वालं चादिदेवं वायुबीजमतः परम्।। 53.40 ।।
द्रष्टारं धरणीं लक्ष्मीं चन्द्रं व्यापकमेव च।
न्यग्रोधशायिनं लक्ष्मीं वनमाल्यौषधे तथा।। 53.41 ।।
श्रीवत्सं व्यापकं खर्वमप्रमेयं च धारिणीम्।
वासुदेवं महाज्वालसमेतं पश्चिमाननम्।। 53.42 ।।
द्रष्टारं पद्मनेत्रं च लक्ष्मीं शङ्खसमन्विताम्।
मदनं सात्त्वतं सर्वदाहकेन समन्वितम्।। 53.43 ।।
शुभदं पञ्चबिन्दुं च कालं व्यापकमेव च।
वैराजं सात्त्वतं कीर्तिमादिदेवं महानलम्।। 53.44 ।।
संकर्षणं वायुबीजमप्रमेयं च धारिणीम्।
आनन्दं वायुबीजं च व्यापकान्तं समुद्धरेत्।। 53.45 ।।
वह्निजायां ततो युक्त्वा नमोऽन्तं वा समुच्चरन्।
समाहितमना भूत्वा द्वयं मन्त्रार्थतत्त्ववित्।। 53.46 ।।
त्वत्पूर्वकं मां शरणं व्रजेद्यद्वा समाहितः।
अष्टाक्षरं द्वादशार्णं प्रणवं वा चतुर्थिमत्।। 53.47 ।।
अथवा मन्त्रहीनोऽपि देवतान्तरवर्जितः।
मामेव शरणं प्राप्य शाश्वतं पदमश्नुते।। 53.48 ।।
सकृदेव हि शास्त्रार्थः कृतोऽयं तारयेन्नरम्।
उपायापायसंयोगे निष्ठया हीयतेऽनया।। 53.49 ।।
अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्।
प्रायश्चित्तिरियं सात्र यत्पुनः शरणागतिः।। 53.50 ।।
उपायानामुपायत्वस्वीकारेऽप्येतदेव हि।
अविप्लवाय धर्माणां पालनाय कुलस्य च।। 53.51 ।।
संग्रहाय च लोकानां मर्यादास्थापनाय च।
मनीषी समयाचारं मनसापि न लङ्घयेत्।। 53.52 ।।
यथा हि वल्लभो राज्ञो नदीं राज्ञा प्रवर्तिताम्।
लोकोपयोगिनीं रम्यां बहुसस्यविवर्धिनीम्।। 53.53 ।।
लङ्घयन् शूलमारोहेदनपेक्षोऽपि तां प्रति।
एवं विलङ्घयन् मर्त्यो मर्यादां निर्मितां मया।। 53.54 ।।
प्रियोऽपि न प्रियोऽसौ मे ममाज्ञाव्यतिवर्तनात्।
उपायत्वग्रहं तत्र वर्जयेन्मनसा सुधीः।। 53.55 ।।
चतुर्थमाश्रयन्नेवमुपायं शरणाश्रयम्।
अतीत्य सकलं क्लेशं स विशत्यमलं पदम्।। 53.56 ।।
अपायोपायनिर्मुक्तां मध्यमीं स्थितिमाश्रिता।
शरणागतिरग्र्येषा संसारार्णवतारिणी।। 53.57 ।।
इदं शरणमज्ञानमिदमेव विजानताम्।
इदं तितीर्षतां पारमिदमानन्त्यमिच्छताम्।। 53.58 ।।
प्रायश्चित्तप्रसङ्गे तु सर्वपापसमुद्भवे।
सह त्वया मां शरणं व्रजेद्यदि सुमध्यमे।। 53.59 ।।
तनूकृत्याखिलं पापं मामेवैष्यत्यसंशयम्।
अथोपायप्रसक्तश्चेद् भुक्त्वा भोगानमानुषान्।। 53.60 ।।
अन्ते विरक्तिमासाद्य विशते मामकं पदम्।
अकामैश्च सकामैश्च तस्मात् सिध्यर्थमात्मनः।। 53.61 ।।
अर्चनीया नरैः शश्वन्मम मन्त्रमयी तनुः।
तथा हरौ पूज्यमाने पूजाकाले विशेषतः।। 53.62 ।।
मुदे भगवतो मुद्रां दर्शयेत् देशिकोत्तमः।
मुद्रा नाम पिशाचानामसुराणां च रक्षसाम्।। 53.63 ।।
यस्मान्मुदं द्रावयति तस्मान्मुद्रेति कीर्त्यते।
काश्चनैकेन हस्तेन हस्ताभ्यामपि काश्चन।। 53.64 ।।
तत्तत्काले प्रयोक्तव्या देवसांनिध्यसिद्धये।
चैतन्यमङ्गुलीनां तु रमे यद्यपि विद्यते।। 53.65 ।।
तथापि मन्त्रोऽत्राध्यक्षस्तत्फलं संप्रयच्छति।
श्रोत्रे पिधाय पाणिभ्यां नामगोत्रे च वै ब्रुवन्।। 53.66 ।।
व्युत्क्रमेण च तत्पादौ गृह्णीयाद्यदि वल्लभे।
अभिवादनमुद्रैषा गुर्वादिषु नियोजयेत्।। 53.67 ।।
हस्ताभ्यां शिरसा पद्भ्यां मनसा च धिया तथा।
अहंकारेण चात्मानं निपात्य धरणीतले।। 53.68 ।।
साष्टाङ्गेन स्पृशेद्भूमिं सा नमस्कृतिमुद्रिका।
हृदये शिरसि तयोः संपुटाञ्जलिरूर्ध्वगा।। 53.69 ।।
प्रणामपूर्वा सा ज्ञेया क्षिप्रं देवप्रसादिनी।
प्रसार्य तर्जनीमन्यां मुष्टीकृत्य च मस्तकम्।। 53.70 ।।
तर्जन्या भ्रामयेत् सा तु वह्निप्राकारमुद्रिका।
आत्मरक्षणकाले च महाभीतौ च दर्शयेत्।। 53.71 ।।
योगमुद्रा करतलं वामं नाभेः समीपगम्।
उत्तानीकृत्य तदधि दक्षिणं च तथा न्यसेत्।। 53.72 ।।
निधाय पूर्ववद् वामं दक्षिणं चाप्यधोमुखम्।
क्रियेत यदि सा प्रोक्ता योगसंपुटमुद्रिका।। 53.73 ।।
तर्जन्यङ्गुष्ठयोरन्तः संयोगस्तत्त्वमुद्रिका।
तत्त्वानां न्यसने चापि मानसाराधने तथा।। 53.74 ।।
अर्घ्यादिदानसमये हरये दर्शयेद् गुरुः।
अनामिकामध्यमयोर्मध्येऽङ्गुष्ठं निवेश्य च।। 53.75 ।।
मुष्टिं कृत्वा तु हृदये न्यासो हृदयमुद्रिका।
अधो बद्ध्वा तु तां मुष्टिं तर्जन्यन्तेन युक्तया।। 53.76 ।।
अङ्गुष्ठेन ब्रह्मरन्ध्रं संस्पृशेच्छीर्षमुद्रिका।
ऊर्ध्वाङ्गुष्ठयुतां मुष्टिं शिखायां विन्यसेद्यदि।। 53.77 ।।
शिखामुद्रेति सा प्रोक्ता तां मुद्रां यद्यधोमुखीम्।
भ्रुवोर्मध्ये स्थाप्यमाने नेत्रमुद्रेति कीर्त्यते।। 53.78 ।।
अङ्गुष्ठौ सुदृढौ चान्तः कृत्वा मुष्टी तु हस्तयोः।
मूलभागे दृढं न्यासो व्यत्यासेन भवेद्यदि।। 53.79 ।।
सा मुद्रा कवचाख्या स्यान्मन्त्रमुच्चार्य दर्शयेत्।
कनिष्ठाद्यङ्गुलीस्तिस्रो मुष्टीकृत्य तदन्ययोः।। 53.80 ।।
तर्जन्यङ्गुष्ठयोः स्फोटं दक्षिणस्याष्टदिक्ष्वपि।
शिरःप्रदक्षिणेनैव कुर्याच्चेदस्त्रमुद्रिका।। 53.81 ।।
हस्तौ मुकुलीतौ कृत्वा न्यसेच्छिरसि मन्त्रतः।
किरीटमुद्रा सा ज्ञेया श्रीवत्साख्यामथो शृणु।। 53.82 ।।
मणिबन्धौ मेलयित्वा चाङ्गुष्ठावन्तरं नयेत्।
शेषाः प्रसारयेच्छाखा दक्षिणोरसि विन्यसेत्।। 53.83 ।।
एषैव पद्ममुद्रेति वदन्त्यागमशास्त्रिणः।
पद्मे श्रियादिदेवीनामासने च नियोजयेत्।। 53.84 ।।
अङ्गुष्ठौ च कनिष्ठौ च प्रवेश्यान्तश्च हस्तयोः।
शिष्टाङ्गुलीनामग्राणि मेलयित्वा परस्परम्।। 53.85 ।।
एषा कौस्तुभमुद्रेति वामवक्षसि विन्यसेत्।
अङ्गुष्ठाभ्यां विना शाखा ऋजूकृत्योरुपार्श्वयोः।। 53.86 ।।
हस्तौ प्रालम्बयेत् कण्ठाद्वानमालेति तां विदुः।
प्रसार्याङ्गुलिभिर्हस्तौ मेलयित्वा परस्परम्।। 53.87 ।।
सव्यापसव्यभ्रमणं कुर्याच्चक्राख्यमुद्रिका।
दोर्मूले दक्षिणस्यापि रक्षणार्थे च योजयेत्।। 53.88 ।।
वामाङ्गुष्ठं दक्षिणस्य मुष्टिना ग्राहयेत् पुरा।
प्रसारयेत् तदितरास्ताभिर्मुष्टिं च गूहयेत्।। 53.89 ।।
तर्जन्यग्रं दक्षिणस्य त्वङ्गुष्ठेन नियोजयेत्।
शङ्खमुद्रामिमां देवि न्यसेद्वामभुजोपरि।। 53.90 ।।
कूर्पराद्यौ मेलयित्वा करौ मध्याङ्गुलीयुगम्।
प्रसार्य योजयेदन्या मुष्टीकुर्याद्विचक्षणः।। 53.91 ।।
गदामुद्रामिमां देवि वामहस्ते प्रदर्शयेत्।
वामेतरे पद्ममुद्रां दर्शयेच्च यथाविधि।। 53.92 ।।
करयोरुभयोः पृष्ठं श्लेषयेच्च कनिष्ठिके।
बन्धयेत् तर्जनीयुग्मं चञ्चुवत् तदधोमुखौ।। 53.93 ।।
अङ्गुष्ठौ पादवच्छाखा इतराः पक्षवद्धवेत्।
वैनतेयस्य मुद्रैषा मूले तूर्वोर्नियोजयेत्।। 53.94 ।।
हस्तयोरङ्गुलीः सर्वाः प्रसार्य तदनन्तरम्।
चालयेत् किंचिदाकुञ्च्य फणिनो मस्तकानिव।। 53.95 ।।
शेषमुद्रामिमां देवि हस्तपादमुखस्य च।
शोधने तूपयोगः स्याद् देवस्य परमात्मनः।। 53.96 ।।
कनिष्ठाद्यङ्गुलीस्तिस्रः संहृत्याङ्गुष्ठकेन च।
नियोज्य तर्जनीं भूयो विष्वक्सेनस्य मुद्रिका।। 53.97 ।।
पादाग्रे दर्शयेत् तद्वद् दिग्बन्धे च नियोजयेत्।
वामे करतले पूरेवं ततो हस्ते तु दक्षिणे।। 53.98 ।।
पुनर्वामतले कुर्यादङ्गुलीभिस्तु ताडनम्।
तालत्रयाख्यमुद्रैषा कवाटोद्धाटनादिषु।। 53.99 ।।
पात्रस्थापनकालेऽपि दर्शयेत् गुरुसत्तमः।
हस्तयोर्मध्यमाङ्गुल्यौ करपृष्ठे नियोजयेत्।। 53.100 ।।
अङ्गुष्ठेन तथाङ्गुष्ठं कनिष्ठेन कनिष्ठिकाम्।
संकुञ्चयेत् तदितराः शाखाः सर्वाः प्रसारयेत्।। 53.101 ।।
मुद्रैषा कामधेन्वाख्या सर्वशुद्धिकरी सदा।
हस्ताभ्यामञ्जलिं बध्वा त्वीषद्विकसितां स्फुटाम्।। 53.102 ।।
मुद्रा ह्यावाहने योज्या स्थापना शृणु भार्गवि।
हस्तावदोमुखौ कृत्वा चाङ्गुष्ठाभ्यामनामिके।। 53.103 ।।
संमृजेत् स्थापने देवि विनियोगो भवेदियम्।
ऊर्ध्वाङ्गुष्ठं दक्षिणं तु मुष्टीकृत्य प्रदर्शयेत्।। 53.104 ।।
मुद्रैषा प्रतिपा देवि पूजाकाले नियोजयेत्।
उत्तानं जश्रिणं कृत्वा कींचिन्नाम्राङ्गुलिं पुनः।। 53.105 ।।
स्वागतेन च शब्देन दर्शयेत् स्वागतामिमाम्।
उत्तानौ संहतौ पाणी कृत्वाङ्गुष्ठद्वयेन तु।। 53.106 ।।
स्वां स्वां कनिष्ठां विमृजेदेषा संनिधिमुद्रिका।
नाभौ कूर्परयुग्मं तु निवेश्य करयोर्द्वयोः।। 53.107 ।।
मणिबन्धान्मेलयित्वा ततः किंचिद्विकासयेत्।
किंचिद्विचालयेदेषा प्रार्थनायां प्रदर्शयेत्।। 53.108 ।।
ईषद्विकसितं कुर्यादञ्जलिं कमलेक्षणे।
एषा सांमुख्यमुद्रा स्यात् संमुखीकरणे हरेः।। 53.109 ।।
कुम्भमुद्रां प्रवक्ष्यामि यद्यधोमुखतोऽञ्जलिम्।
प्रदर्शयेत् स्नानकाले कमले गुरुसत्तमः।। 53.110 ।।
पञ्चाङ्गुलीनामग्रं तु योजयेद् ग्रासमुद्रिका।
निवेदने देवदेव्योरितरेषामिमां स्मरेत्।। 53.111 ।।
मध्यमानामिकाभ्यां तु ह्यङ्गुष्ठं मेलयेत्ततः।
कनिष्ठा तर्जनीयुग्मं दीर्घाकृत्वा विचक्षणः।। 53.112 ।।
धान्यपुष्फलादीनामिमं होमे प्रदर्शयेत्।
बलिप्रदानकाले तु पुष्टिमुद्रां नियोजयेत्।। 53.113 ।।
अङ्गुष्ठाभ्यां तु करयोस्तर्जनीमध्यमान्तिमौ।
स्पृशेत् तदितराः शाखाः प्रसार्याभिप्रदर्शयेत्।। 53.114 ।।
जपमुद्रेति विज्ञेया जपकाले जलोद्भवे।
तर्जन्यनामिकाग्रं तु वेष्टयित्वा परस्परम्।। 53.115 ।।
[अङ्गुष्ठौ दण्डवत्कृत्वा मुष्टिबन्धं शनैः शनैः।]
कुर्यात् कनिष्ठिकादीनां मुद्रैषा स्याद्विसर्जने।। 53.116 ।।
किंच पुष्पाणि तुलसीरन्यानि विधिवद्रमे।
स्नातः शुद्धाम्बरो मौनी पाणिपादं च शोधयेत्।। 53.117 ।।
मन्त्रमुच्चारयन्मूलं द्वादशाक्षरमेव वा।
तत्तल्लताभ्यो वृक्षेभ्यः स्वारामाच्चिनुयाद्रमे।। 53.118 ।।
वेत्रजातिषु पात्रेषु निधाय च पिधाय च।
गत्वालयं तत्र शुद्धे पत्रैः संच्छादिते स्थले।। 53.119 ।।
पुनर्निक्षिप्य संशोध्य तैः पुष्पैरर्चयेद्धरिम्।
प्रातः पद्मद्वयं शस्तमुत्पलत्रयमेव च।। 53.120 ।।
मध्यंदिने माधवी च केतकीद्वयमेव च।
मालतीचम्पकं चैव पुंनागं सुरपर्णिका।। 53.121 ।।
नन्द्यावर्तं श्वेतपुष्पं करवीरं च पद्मकम्।
मन्दारमवदातं च पाटलप्रभमेव च।। 53.122 ।।
सायंकाले विचकिलं मल्लिकाद्वयमेव च।
वकुलं जातिपुष्पं च तथा वनसमुद्भवे।। 53.123 ।।
जाती च मल्लिका चापि एतैः संपूजयेद्धरिम्।
ह्रीबेरं च तमालं च तथा दमनकत्रयम्।। 53.124 ।।
तुलस्यौ सितकृष्णे च केवला क्षपकास्तथा।
एतैः संपूजयेत् सर्वकालेषु च तथार्चयेत्।। 53.125 ।।
पद्मादिजलपुष्पाणि त्र्यहात्पर्युषितं भवेत्।
न पर्युषितदोषोऽस्तिह्रीबेरादेस्तु पूजने।। 53.126 ।।
एतैर्भगवतः पूजां पद्माद्यैरर्चनं चरेत्।
साधको भगवन्नाम शतमष्टोत्तरं वदन्।। 53.127 ।।
पादयोरर्चनं कुर्यात् तस्य स्वर्गो भवेद् ध्रुवम्।
सहस्रनाम्ना यः कुर्यात् कारयेदर्चनं हरेः।। 53.128 ।।
भूलोके सर्वकामान् स आयुषः पूर्णमेव च।
संपदः पुत्रपौत्रादीननुभूय ततो रमे।। 53.129 ।।
प्राप्त विष्णोः परं धाम मोदते नित्यसूरिवत्।
पुष्पैर्लक्षार्चनसममर्चनं तुलसीदलैः।। 53.130 ।।
अष्टोत्तरशतैः कुर्यात् तस्य स्थानं तु पद्मजे।
वैकुण्ठं पदमासाद्य मोदते सानुगैः सह।। 53.131 ।।
उद्यानं वा तटाकं वा क्षेत्रं वा पूजनाय यः।
ददाति स तु मल्लोके नित्यवासं करिष्यति।। 53.132 ।।
अतः सर्वं समालोच्य शास्त्रं च भगवत्प्रियम्।
देशकालाधिकारं च पूजयेत् भक्तिमान्नरः।। 53.133 ।।
तस्य दाता हरिः साक्षादिहामुत्र शुभं फलम्।
इत्येवं वासुदेवस्य मुखपद्माद् विनिःसृतम्।। 53.134 ।।
शास्त्रामृतं श्रोत्रपेयं श्रोत्रतॄणां मोक्षदायकम्।
श्रुतं मया पाञ्चरात्रं क्षेमाय जगतो मुने।। 53.135 ।।
उपादिक्षं सुसूक्ष्मार्थं हरिणा प्रेषिता तव।
[भारद्वाजान्वयो वेदशिराः कौण्डिन्यसंततिः।। 53.136 ।।
कवषस्तु वसिष्ठाभिजनो भार्गवनामकः।
विश्वामित्रान्ववायश्च मरीचीति महर्षयः।। 53.137 ।।
शरणागतिधर्मज्ञाश्चत्वारो द्वयचिन्तकाः।
परमैकान्तिनो शङ्खशार्ङ्गचक्रगदांशजाः।। 53.138 ।।
चक्राद्यायुधसंभूताश्चत्वारो मुनिसत्तमाः।
ते त्वं समागमिष्यन्ति भगवद्दीक्षिता मुने।। 53.139 ।।
तेभ्य एतमुपादिश्य वैकुण्ठं सूरिसेवितम्।
आयाहि भगवत्प्रीत्यै मोदतां नित्यसूरिवत्।। 53.140 ।।
[त्वच्छिष्यवर्गान्वयजो यस्तु मूढोऽपि दीक्षितः।
स एवाराधने योग्यः पावनो ब्रह्मविन्महान्।। 53.141 ।।
अन्या भागवता नैव पूजायामावयोर्द्वयोः।
दीक्षितैरितरैर्विप्रैः कृतं यदि परार्चनम्।। 53.142 ।।
मोहेन राज्यराष्ट्राणां महान् दोषो भविष्यति।
तस्मात् सर्वप्रयत्नेन कार्यं त्वच्छिष्यवंशजैः।। 53.143 ।।
]
इति श्रिया समादिष्टः श्रीप्रश्नमिति संज्ञितम्।
एतच्छास्त्रं पाञ्चरात्रं युष्मभ्योऽहमुपादिशम्।। 53.144 ।।
इदं शास्त्रं मयावाप्तं बहुकालं तपस्यता।
अत एतदभक्ताय श्रद्धाहीनाय वै क्वचित्।। 53.145 ।।
असूयवे कर्मठाय न वक्तव्यं मुनीश्वराः।
साधुभ्यो विष्णुभक्तेभ्यः पञ्चकालेभ्य एव च।। 53.146 ।।
भीतेभ्यः संसृतेर्नित्यं श्रद्धालुभ्यो विचक्षणाः।
उपादिशत यूयं च पुण्यक्षेत्रादिषु क्रमात्।। 53.147 ।।
कल्पयित्वा भगवतः संनिधिं शास्त्रसंमतम्।
भगवन्तं समाराध्य स्वेष्टं प्राप्स्यथ मा चिरम्।। 53.148 ।।
[स्वार्थे परार्थे यजने यूयं मुख्याधिकारिणः।
युष्मद्वंश्याश्च ये विप्रास्तेऽभिषेच्या यथाविधि।। 53.149 ।।
तेऽपि स्वार्थे परार्थे च भवेयुरधिकारिणः।
वेदशिराः-
किं स्वार्थं च परार्थं किं वदस्व वदतां वर।। 53.150 ।।
एकतः-
सिन्धुतीरे सरित्कूले ग्रामे वा विपिनादिके।
पत्तने वा पर्वताग्रे स्वयंव्यक्तादिभेदतः।। 53.151 ।।
जगतां क्षेमलाभाय दुष्कृतां निधनाय च।
संस्थितो वासुदेवस्तु परार्थ इति कथ्यते।। 53.152 ।।
उत्कृष्टः परशब्दोऽयमर्थो मोक्षादिलक्षणः।
यस्मात् स लभ्यते सोऽयं परार्थः परिकीर्तितः।। 53.153 ।।
स एव सर्वफलदः सर्वेषां मुक्तिदायकः।
तस्मात् सर्वजनैः सेव्यः परार्थः पुरुषोत्तमः।। 53.154 ।।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्राद्यैः स्वस्वसद्मनि।
स्थापितो देवदेवस्तु स्वार्थ इत्यभिधीयते।। 53.155 ।।
पश्वारामगृहक्षेत्रपुत्राद्याः स्वार्थसंपदः।
तन्मात्रदानात् तद्देवः स्वार्थ संपरिकीर्तितः।। 53.156 ।।
परार्थः सूर्यसदृशः स्वार्थस्तु गृहदीपवत्।
इति तेभ्य उपादिश्य श्रीपतिं मनसा स्मरन्।। 53.157 ।।
आत्मानं ब्रह्मरन्ध्रेण निर्गमय्य तनुं त्यजन्।
अर्चिरादिगतिं प्राप्य वैकुण्ठं पदमाप्तवान्।। 53.158 ।।